०७ भक्ष्याभक्ष्य-प्रकरणम्

167 अनर्चितं वृथामांसं ...{Loading}...

अनर्चितं वृथा-मांसं
केश-कीट-समन्वितम्।
शुक्तं पर्युषितोच्छिष्टं
श्व-स्पृष्टं पतितेक्षितम् ॥ १.१६७ ॥

168 उदक्यास्पृष्टसङ्घुष्टं पर्यायान्नञ् ...{Loading}...

उदक्या-स्पृष्ट-सङ्घुष्टं
पर्यायान्नं च वर्जयेत्।
गो-घ्रातं शकुनोच्छिष्टं
पदा स्पृष्टं च कामतः ॥ १.१६८ ॥

169 अन्नम् पर्युषितम् ...{Loading}...

अन्नं पर्युषितं भोज्यं
स्नेहाक्तं चिर-संस्थितम्।
अस्नेहा अपि गो-धूम-
यव-गो-रस-विक्रियाः ॥ १.१६९ ॥

170 सन्धिन्य्अनिर्दशावत्सा गोपयः ...{Loading}...

सन्धिन्य्-अनिर्दशा-वत्सा-
गो-पयः परिवर्जयेत्।
औष्ट्रम् ऐकशफं स्त्रैणम्
आरण्यकम् अथाविकम् ॥ १.१७० ॥

171 देवतार्थं हविः ...{Loading}...

देवतार्थं हविः शिग्रुं
लोहितान् व्रश्चनांस् तथा।
अनुपाकृत-मांसानि
विड्जानि कवकानि च ॥ १.१७१ ॥

172 क्रव्यादपक्षिदात्यूह शुकप्रतुदटिट्टिभान् ...{Loading}...

क्रव्याद-पक्षि-दात्यूह-
शुक-प्रतुद-टिट्टिभान्।
सारसैकशफान् हंसान्
सर्वांश् च ग्राम-वासिनः ॥ १.१७२ ॥

173 कोयष्टिप्लवचक्राह्व बलाकाबकविष्किरान् ...{Loading}...

कोयष्टि-प्लव-चक्राह्व-
बलाका-बक-विष्किरान्।
वृथा-कृसर-सम्याव-
पायसापूप-शष्कुलीः ॥ १.१७३ ॥

174 कलविङ्कं सकाकोलं ...{Loading}...

कलविङ्कं स-काकोलं
कुररं रज्जु-दालकम्।
जाल-पादान् खञ्जरीटान्
अज्ञातांश् च मृग-द्विजान् ॥ १.१७४ ॥

175 चाषांश् च ...{Loading}...

चाषांश् च रक्त-पादांश् च
सौनं वल्लूरम् एव च।
मत्स्यांश् च कामतो जग्ध्वा
सोपवासस् त्र्यहं वसेत् ॥ १.१७५ ॥

176 पलाण्डुं विड्वराहञ् ...{Loading}...

पलाण्डुं विड्-वराहं च
छत्राकं ग्राम-कुक्कुटम्।
लशुनं गृञ्जनं चैव
जग्ध्वा चान्द्रायणं चरेत् ॥ १.१७६ ॥

177 भक्ष्याः पञ्चनखाः ...{Loading}...

भक्ष्याः पञ्च-नखाः
सेधा-गोधा-कच्छप-शल्लकाः।
शशश् च मत्स्येष्व् अपि हि
सिंह-तुण्डक-रोहिताः ॥ १.१७७ ॥

178 तथा पाठीनराजीव ...{Loading}...

तथा पाठीन-राजीव-
सशल्काश् च द्विजातिभिः।
अतः शृणुध्वं मांसस्य
विधिं भक्षण-वर्जने ॥ १.१७८ ॥

179 प्राणात्यये तथा ...{Loading}...

प्राणात्यये तथा श्राद्धे
प्रोक्षिते द्विज-काम्यया।
देवान् पितॄन् समभ्यर्च्य
खादन् मांसं न दोष-भाक् ॥ १.१७९ ॥

180 वसेत् स ...{Loading}...

वसेत् स नरके घोरे
दिनानि पशु-रोमभिः।
सम्मितानि दुराचारो यो
हन्त्य् अविधिना पशून् ॥ १.१८० ॥

181 सर्वान् कामान् ...{Loading}...

सर्वान् कामान् अवाप्नोति
हय-मेध-फलं तथा।
गृहे ऽपि निवसन् विप्रो
मुनिर् मांस-विवर्जनात् ॥ १.१८१ ॥