०५ गृहस्थ-धर्म-प्रकरणम्

097 कर्म स्मार्तं ...{Loading}...

कर्म स्मार्तं विवाहाग्नौ
कुर्वीत प्रत्यहं गृही।
दाय-कालाहृते वा ऽपि
श्रौतं वैतानिकाग्निषु ॥ १.९७ ॥

098 शरीरचिन्तान् निर्वर्त्य ...{Loading}...

शरीर-चिन्तां निर्वर्त्य
कृत-शौच-विधिर् द्विजः।
प्रातः-सन्ध्याम् उपासीत
दन्त-धावन-पूर्वकम् ॥ १.९८ ॥

099 हुत्वा ऽग्नीन् ...{Loading}...

हुत्वा ऽग्नीन् सूर्य-दैवत्यान्
जपेन् मन्त्रान् समाहितः।
वेदार्थान् अधिगच्छेच् च
शास्त्राणि विविधानि च ॥ १.९९ ॥

100 उपेयाद् ईश्वरञ् ...{Loading}...

उपेयाद् ईश्वरं चैव
योग-क्षेमार्थ-सिद्धये।
स्नात्वा देवान् पितॄंश् चैव
तर्पयेद् अर्चयेत् तथा ॥ १.१०० ॥

101 वेदाथर्वपुराणानि सेतिहासानि ...{Loading}...

वेदाथर्व-पुराणानि
सेतिहासानि शक्तितः।
जप-यज्ञ-प्रसिद्ध्य्-अर्थं
विद्यां च+आध्यात्मिकीं जपेत् ॥ १.१०१ ॥

102 बलिकर्मस्वधाहोम स्वाध्यायातिथिसत्क्रियाः ...{Loading}...

बलि-कर्म-स्वधा-होम-
स्वाध्यायातिथि-सत्क्रियाः।
भूत-पित्र्-अमर-ब्रह्म-
मनुष्याणां महा-मखाः ॥ १.१०२ ॥

103 देवेभ्यश् च ...{Loading}...

देवेभ्यश् च हुताद् अन्नाच्
छेषाद् भूत-बलिं हरेत्।
अन्नं भूमौ श्व-चाण्डाल-
वायसेभ्यश् च निक्षिपेत् ॥ १.१०३ ॥

104 अन्नम् पितृमनुष्येभ्यो ...{Loading}...

अन्नं पितृ-मनुष्येभ्यो
देयम् अप्य् अन्वहं जलम्।
स्वाध्यायं सततं कुर्यान्
न पचेद् अन्नम् आत्मने ॥ १.१०४ ॥

105 बालस्ववासिनीवृद्ध गर्भिण्य्आतुरकन्यकाः ...{Loading}...

बाल-स्व-वासिनी-वृद्ध-
गर्भिण्य्-आतुर-कन्यकाः।
सम्भोज्यातिथि-भृत्यांश् च
दम्पत्योः शेष-भोजनम् ॥ १.१०५ ॥

106 आपोशनेनोपरिष्टाद् अधस्ताद् ...{Loading}...

आपोशनेनोपरिष्टाद्
अधस्ताद् अश्नता तथा।
अनग्नम् अमृतं चैव
कार्यम् अन्नं द्विजन्मना ॥ १.१०६ ॥

107 अतिथित्वेन वर्णानां ...{Loading}...

अतिथित्वेन वर्णानां
देयं शक्त्या ऽनुपूर्वशः।
अप्रणोद्यो ऽतिथिः सायम्
अपि वाग्-भू-तृणोदकैः ॥ १.१०७ ॥

108 सत्कृत्य भिक्षवे ...{Loading}...

सत्-कृत्य भिक्षवे भिक्षा
दातव्या स-व्रताय च।
भोजयेच् च+आगतान् काले
सखि-सम्बन्धि-बान्धवान् ॥ १.१०८ ॥

109 महोक्षं वा ...{Loading}...

महोक्षं वा महाजं वा
श्रोत्रियायोपकल्पयेत्।
सत्क्रिया ऽन्वासनं स्वादु
भोजनं सूनृतं वचः ॥ १.१०९ ॥

110 प्रतिसंवत्सरन् त्व् ...{Loading}...

प्रतिसंवत्सरं त्व् अर्घ्याः
स्नातकाचार्य-पार्थिवाः।
प्रियो विवाह्यश् च तथा
यज्ञं प्रत्य् ऋत्विजः पुनः ॥ १.११० ॥

111 अध्वनीनो ऽतिथिर् ...{Loading}...

अध्वनीनो ऽतिथिर् ज्ञेयः
श्रोत्रियो वेद-पारगः।
मान्याव् एतौ गृहस्थस्य
ब्रह्म-लोकम् अभीप्सतः ॥ १.१११ ॥

112 परपाकरुचिर् न ...{Loading}...

पर-पाक-रुचिर् न स्याद्
अनिन्द्यामन्त्रणाद् ऋते।
वाक्-पाणि-पाद-चापल्यं
वर्जयेच् चाति-भोजनम् ॥ १.११२ ॥

113 अतिथिं श्रोत्रियन् ...{Loading}...

अतिथिं श्रोत्रियं तृप्तम्
आ-सीमन्तम् अनुव्रजेत्।
अहः-शेषं सह+आसीत
शिष्टैर् इष्टैश् च बन्धुभिः ॥ १.११३ ॥

114 उपास्य पश्चिमां ...{Loading}...

उपास्य पश्चिमां सन्ध्यां
हुत्वा ऽग्नींस् तान् उपास्य च।
भृत्यैः परिवृतो भुक्त्वा
नातितृप्त्या ऽथ संविशेत् ॥ १.११४ ॥

115 ब्राह्मे मुहूर्ते ...{Loading}...

ब्राह्मे मुहूर्ते चोत्थाय
चिन्तयेद् आत्मनो हितम्।
धर्मार्थ-कामान् स्वे काले
यथा-शक्ति न हापयेत् ॥ १.११५ ॥

116 विद्याकर्मवयोबन्धु वित्तैर् ...{Loading}...

विद्या-कर्म-वयो-बन्धु-
वित्तैर् मान्या यथा-क्रमम्।
एतैः प्रभूतैः शूद्रो ऽपि
वार्धके मानम् अर्हति ॥ १.११६ ॥

117 वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् ...{Loading}...

वृद्ध-भारि-नृप-स्नात-
स्त्री-रोगि-वर-चक्रिणाम्।
पन्था देयो नृपस् तेषां
मान्यः स्नातश् च भूपतेः ॥ १.११७ ॥

118 इज्याध्ययनदानानि वैश्यस्य ...{Loading}...

इज्याध्ययन-दानानि
वैश्यस्य क्षत्रियस्य च।
प्रतिग्रहो ऽधिको विप्रे
याजनाध्यापने तथा ॥ १.११८ ॥

119 प्रधानङ् क्षत्रिये ...{Loading}...

प्रधानं क्षत्रिये कर्म
प्रजानां परिपालनम्।
कुसीद-कृषि-वाणिज्य-
पाशुपाल्यं विशः स्मृतम् ॥ १.११९ ॥

120 शूद्रस्य द्विजशुश्रूषा ...{Loading}...

शूद्रस्य द्विज-शुश्रूषा
तया ऽजीवन् वणिग् भवेत्।
शिल्पैर् वा विविधैर् जीवेद्
द्विजाति-हितम् आचरन् ॥ १.१२० ॥

121 भार्यारतिः शुचिर् ...{Loading}...

भार्या-रतिः शुचिर् भृत्य-
भर्ता श्राद्ध-क्रिया-रतः।
नमस्-कारेण मन्त्रेण
पञ्च-यज्ञान् न हापयेत् ॥ १.१२१ ॥

122 अहिंसा सत्यम् ...{Loading}...

अहिंसा सत्यम् अस्तेयं
शौचम् इन्द्रिय-निग्रहः।
दानं दमो दया क्षान्तिः
सर्वेषां धर्म-साधनम् ॥ १.१२२ ॥

123 वयोबुद्ध्य्अर्थवाग्वेष श्रुताभिजनकर्मणाम् ...{Loading}...

वयो-बुद्ध्य्-अर्थ-वाग्-वेष-
श्रुताभिजन-कर्मणाम्।
आचरेत् सदृशीं वृत्तिम्
अजिह्माम् अशठां तथा ॥ १.१२३ ॥

124 त्रैवार्षिकाधिकान्नो यः ...{Loading}...

त्रैवार्षिकाधिकान्नो यः
स हि सोमं पिबेद् द्विजः।
प्राक्-सौमिकीः क्रियाः कुर्याद्
यस्यान्नं वार्षिकं भवेत् ॥ १.१२४ ॥

125 प्रतिसंवत्सरं सोमः ...{Loading}...

प्रतिसंवत्सरं सोमः
पशुः प्रत्ययनं तथा।
कर्तव्य +आग्रयणेष्टिश् च
चातुर्मास्यानि चैव हि ॥ १.१२५ ॥

126 एषाम् असम्भवे ...{Loading}...

एषाम् असम्भवे कुर्याद्
इष्टिं वैश्वानरीं द्विजः।
हीन-कल्पं न कुर्वीत
सति द्रव्ये फल-प्रदम् ॥ १.१२६ ॥

127 चाण्डालो जायते ...{Loading}...

चाण्डालो जायते यज्ञ-
करणाच् छूद्र-भिक्षितात्।
यज्ञार्थं लब्धम् अददद्
भासः काको ऽपि वा भवेत् ॥ १.१२७ ॥

128 कुशूलकुम्भीधान्यो वा ...{Loading}...

कुशूल-कुम्भी-धान्यो वा
त्र्याहिको ऽश्वस्तनो ऽपि वा।
जीवेद् वा ऽपि शिलोञ्छेन
श्रेयान् एषां परः परः ॥ १.१२८ ॥