०४ वर्ण-जाति-विवेक-प्रकरणम्

090 सवर्णेभ्यः सवर्णासु ...{Loading}...

सवर्णेभ्यः सवर्णासु
जायन्ते हि सजातयः।
अनिन्द्येषु विवाहेषु
पुत्राः सन्तान-वर्धनाः ॥ १.९० ॥

091 विप्रान् मूर्धावसिक्तो ...{Loading}...

विप्रान् मूर्धावसिक्तो हि
क्षत्रियायां विशः स्त्रियाम्।
अम्बष्ठः शूद्र्यां निषादो
जातः पारशवो ऽपि वा ॥ १.९१ ॥

092 वैश्याशूद्र्योस् तु ...{Loading}...

वैश्या-शूद्र्योस् तु राजन्यान्
माहिष्योग्रौ सुतौ स्मृतौ।
वैश्यात् तु करणः शूद्र्यां
विन्नास्व् एष विधिः स्मृतः ॥ १.९२ ॥

093 ब्राह्मण्याङ् क्षत्रियात् ...{Loading}...

ब्राह्मण्यां क्षत्रियात् सूतो
वैश्याद् वैदेहकस् तथा।
शूद्राज् जातस् तु चण्डालः
सर्व-धर्म-बहिष्-कृतः ॥ १.९३ ॥

094 क्षत्रिया मागधं ...{Loading}...

क्षत्रिया मागधं वैश्याच्
छूद्रात् क्षत्तारम् एव च।
शूद्राद् आयोगवं वैश्या
जनयाम्-आस वै सुतम् ॥ १.९४ ॥

095 माहिष्येण करण्यान् ...{Loading}...

माहिष्येण करण्यां तु
रथ-कारः प्रजायते।
असत्-सन्तस् तु विज्ञेयाः
प्रतिलोमानुलोमजाः ॥ १.९५ ॥

096 जात्य्उत्कर्षो युगे ...{Loading}...

जात्य्-उत्कर्षो युगे ज्ञेयः
सप्तमे पञ्चमे ऽपि वा।
व्यत्यये कर्मणां साम्यं
पूर्ववच् चाधरोत्तरम् ॥ १.९६ ॥