०३ विवाह-प्रकरणम्

051 गुरवे तु ...{Loading}...

गुरवे तु वरं दत्त्वा
स्नायाद् वा तद्-अनुज्ञया।
वेदं व्रतानि वा पारं
नीत्वा ह्य् उभयम् एव वा ॥ १.५१ ॥

052 अविप्लुतब्रह्मचर्यो लक्षण्यां ...{Loading}...

अविप्लुत-ब्रह्म-चर्यो
लक्षण्यां स्त्रियम् उद्वहेत्।
अनन्य-पूर्विकां कान्ताम्
असपिण्डां यवीयसीम् ॥ १.५२ ॥

053 अरोगिणीम् भ्रातृमतीम् ...{Loading}...

अरोगिणीं भ्रातृमतीम्
असमानार्ष-गोत्रजान्।
पञ्चमात् सप्तमाद् ऊर्ध्वं
मातृतः पितृतस् तथा ॥ १.५३ ॥

054 दशपूरुषविख्याताच् छ्रोत्रियाणाम् ...{Loading}...

दश-पूरुष-विख्याताच्
छ्रोत्रियाणां महा-कुलात्।
स्फीताद् अपि न सञ्चारि-
रोग-दोष-समन्वितात् ॥ १.५४ ॥

055 एतैर् एव ...{Loading}...

एतैर् एव गुणैर् युक्तः
सवर्णः श्रोत्रियो वरः।
यत्नात् परीक्षितः पुंस्त्वे
युवा धीमान् जन-प्रियः ॥ १.५५ ॥

056 यद् उच्यते ...{Loading}...

यद् उच्यते द्विजातीनां
शूद्राद् दारोपसङ्ग्रहः।
नैतन् मम मतं यस्मात्
तत्रायं जायते स्वयम् ॥ १.५६ ॥

057 तिस्रो वर्णानुपूर्व्येण ...{Loading}...

तिस्रो वर्णानुपूर्व्येण
द्वे तथैका यथा-क्रमम्।
ब्राह्मण-क्षत्रिय-विशां
भार्या स्वा शूद्र-जन्मनः ॥ १.५७ ॥

058 ब्राह्मो विवाह ...{Loading}...

ब्राह्मो विवाह आहूय
दीयते शक्त्य्-अलङ्कृता।
तज्जः पुनात्य् उभयतः
पुरुषान् एकविंशतिम् ॥ १.५८ ॥

059 यज्ञस्थ ऋत्विजे ...{Loading}...

यज्ञस्थ ऋत्विजे दैव
आदाय+आर्षस् तु गो-द्वयम्।
चतुर्दश प्रथमजः
पुनात्य् उत्तरजश् च षट् ॥ १.५९ ॥

060 इत्य् उक्त्वा ...{Loading}...

इत्य् उक्त्वा चरतां धर्मं
सह या दीयते ऽर्थिने।
स कायः पावयेत् तज्जः
षट् षड्-वंश्यान् सह+आत्मना ॥ १.६० ॥

061 आसुरो द्रविणादानाद् ...{Loading}...

आसुरो द्रविणादानाद्
गान्धर्वः समयान् मिथः।
राक्षसो युद्ध-हरणात्
पैशाचः कन्यका-छलात् ॥ १.६१ ॥

062 पाणिर् ग्राह्यः ...{Loading}...

पाणिर् ग्राह्यः सवर्णासु
गृह्णीयात् क्षत्रिया शरम्।
वैश्या प्रतोदम् आदद्याद्
वेदने त्व् अग्र-जन्मनः ॥ १.६२ ॥

063 पिता पितामहो ...{Loading}...

पिता पितामहो भ्राता
सकुल्यो जननी तथा।
कन्या-प्रदः पूर्व-नाशे
प्रकृतिस्थः परः परः ॥ १.६३ ॥

064 अप्रयच्छन् समाप्नोति ...{Loading}...

अप्रयच्छन् समाप्नोति
भ्रूण-हत्याम् ऋताव् ऋतौ।
गम्यं त्व् अभावे दातॄणां
कन्या कुर्यात् स्वयंवरम् ॥ १.६४ ॥

065 सकृत् प्रदीयते ...{Loading}...

सकृत् प्रदीयते कन्या
हरंस् तां चोर-दण्ड-भाक्।
दत्ताम् अपि हरेत् पूर्वाच्
छ्रेयांश् चेद् वर आव्रजेत् ॥ १.६५ ॥

066 अनाख्याय ददद् ...{Loading}...

अनाख्याय ददद् दोषं
दण्ड्य उत्तम-साहसम्।
अदुष्टां तु त्यजन् दण्ड्यो
दूषयंस् तु मृषा शतम् ॥ १.६६ ॥

067 अक्षता च ...{Loading}...

अक्षता च क्षता चैव
पुनर्-भूः संस्कृता पुनः।
स्वैरिणी या पतिं हित्वा
सवर्णं कामतः श्रयेत् ॥ १.६७ ॥

068 अपुत्राङ् गुर्व्अनुज्ञातो ...{Loading}...

अपुत्रां गुर्व्-अनुज्ञातो
देवरः पुत्र-काम्यया।
सपिण्डो वा सगोत्रो वा
घृताभ्यक्त ऋताव् इयात् ॥ १.६८ ॥

069 आगर्भसम्भवाद् गच्छेत् ...{Loading}...

आ-गर्भ-सम्भवाद् गच्छेत्
पतितस् त्व् अन्यथा भवेत्।
अनेन विधिना जातः
क्षेत्रजो ऽस्य भवेत् सुतः ॥ १.६९ ॥

070 हृताधिकाराम् मलिनां ...{Loading}...

हृताधिकारां मलिनां
पिण्ड-मात्रोपजीविनाम्।
परिभूताम् अधः-शय्यां
वासयेद् व्यभिचारिणीम् ॥ १.७० ॥

071 सोमः शौचन् ...{Loading}...

सोमः शौचं ददाव् आसां
गन्धर्वश् च शुभां गिरम्।
पावकः सर्व-मेध्यत्वं
मेध्या वै योषितो ह्य् अतः ॥ १.७१ ॥

072 व्यभिचाराद् ऋतौ ...{Loading}...

व्यभिचाराद् ऋतौ शुद्धिर्
गर्भे त्यागो विधीयते।
गर्भ-भर्तृ-वधादौ च
तथा महति पातके ॥ १.७२ ॥

073 सुरापी व्याधिता ...{Loading}...

सुरापी व्याधिता धूर्ता
वन्ध्या ऽर्थघ्न्य् अप्रियं-वदा।
स्त्री-प्रसूश् चाधिवेत्तव्या
पुरुष-द्वेषिणी तथा ॥ १.७३ ॥

074 अधिविन्ना तु ...{Loading}...

अधिविन्ना तु भर्तव्या
महद् एनो ऽन्यथा भवेत्।
यत्र+आनुकूल्यं दम्पत्योस्
त्रिवर्गस् तत्र वर्धते ॥ १.७४ ॥

075 मृते जीवति ...{Loading}...

मृते जीवति वा पत्यौ
या नान्यम् उपगच्छति।
सेह कीर्तिम् अवाप्नोति
मोदते चोमया सह ॥ १.७५ ॥

076 आज्ञासम्पादिनीन् दक्षां ...{Loading}...

आज्ञा-सम्पादिनीं दक्षां
वीरसूं प्रिय-वादिनीम्।
त्यजन् दाप्यस् तृतीयांशम्
अद्रव्यो भरणं स्त्रियाः ॥ १.७६ ॥

077 स्त्रीभिर् भर्तृवचः ...{Loading}...

स्त्रीभिर् भर्तृ-वचः कार्यम्
एष धर्मः परः स्त्रियाः।
आ-शुद्धेः सम्प्रतीक्ष्यो हि
महा-पातक-दूषितः ॥ १.७७ ॥

078 लोकानन्त्यन् दिवः ...{Loading}...

लोकानन्त्यं दिवः प्राप्तिः
पुत्र-पौत्र-प्रपौत्रकैः।
यस्मात् तस्मात् स्त्रियः सेव्याः
कर्तव्याश् च सु-रक्षिताः ॥ १.७८ ॥

079 षोडशर्तुनिशाः स्त्रीणां ...{Loading}...

षोडशर्तु-निशाः स्त्रीणां
तस्मिन् युग्मासु संविशेत्।
ब्रह्म-चार्य् एव पर्वाण्य्
आद्याश् चतस्रस् तु वर्जयेत् ॥ १.७९ ॥

080 एवङ् गच्छन् ...{Loading}...

एवं गच्छन् स्त्रियं क्षामां
मघां मूलं च वर्जयेत्।
सुस्थ इन्दौ सकृत् पुत्रं
लक्षण्यं जनयेत् पुमान् ॥ १.८० ॥

081 यथाकामी भवेद् ...{Loading}...

यथा-कामी भवेद् वा ऽपि
स्त्रीणां वरम् अनुस्मरन्।
स्व-दार-निरतश् चैव
स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८१ ॥

082 भर्तृभ्रातृपितृज्ञाति श्वश्रूश्वशुरदेवरैः ...{Loading}...

भर्तृ-भ्रातृ-पितृ-ज्ञाति-
श्वश्रू-श्वशुर-देवरैः।
बन्धुभिश् च स्त्रियः पूज्या
भूषणाच्छादनाशनैः ॥ १.८२ ॥

083 संयतोपस्करा दक्षा ...{Loading}...

संयतोपस्करा दक्षा
हृष्टा व्यय-पराङ्-मुखी।
कुर्याच् छ्वशुरयोः पाद-
वन्दनं भर्तृ-तत्-परा ॥ १.८३ ॥

084 क्रीडां शरीरसंस्कारं ...{Loading}...

क्रीडां शरीर-संस्कारं
समाजोत्सव-दर्शनम्।
हास्यं पर-गृहे यानं
त्यजेत् प्रोषित-भर्तृका ॥ १.८४ ॥

085 रक्षेत् कन्याम् ...{Loading}...

रक्षेत् कन्यां पिता विन्नां
पतिः पुत्रास् तु वार्धके।
अभावे ज्ञातयस् तेषां
न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ १.८५ ॥

086 पितृमातृसुतभ्रातृ श्वश्रूश्वशुरमातुलैः ...{Loading}...

पितृ-मातृ-सुत-भ्रातृ-
श्वश्रू-श्वशुर-मातुलैः।
हीना न स्याद् विना भर्त्रा
गर्हणीया ऽन्यथा भवेत् ॥ १.८६ ॥

087 पतिप्रियहिते युक्ता ...{Loading}...

पति-प्रिय-हिते युक्ता
स्वाचारा विजितेन्द्रिया।
सेह कीर्तिम् अवाप्नोति
प्रेत्य चानुत्तमां गतिम् ॥ १.८७ ॥

088 सत्याम् अन्यां ...{Loading}...

सत्याम् अन्यां सवर्णायां
धर्म-कार्यं न कारयेत्।
सवर्णासु विधौ धर्म्ये
ज्येष्ठया न विनेतरा ॥ १.८८ ॥

089 दाहयित्वा ऽग्निहोत्रेण ...{Loading}...

दाहयित्वा ऽग्नि-होत्रेण
स्त्रियं वृत्तवतीं पतिः।
आहरेद् विधिवद् दारान्
अग्नींश् चैवाविलम्बयन् ॥ १.८९ ॥