०२ ब्रह्म-चारि-प्रकरणम्

010 ब्रह्मक्षत्रियविट्शूद्रा वर्णास् ...{Loading}...

ब्रह्म-क्षत्रिय-विट्-शूद्रा
वर्णास् त्व् आद्यास् त्रयो द्विजाः।
निषेकाद्याः श्मशानान्तास्
तेषां वै मन्त्रतः क्रियाः ॥ १.१० ॥

011 गर्भाधानम् ऋतौ ...{Loading}...

गर्भाधानम् ऋतौ पुंसः
सवनं स्पन्दनात् पुरा।
षष्ठे ऽष्टमे वा सीमन्तो
मास्य् एते जात-कर्म च ॥ १.११ ॥

012 अहन्य् एकादशे ...{Loading}...

अहन्य् एकादशे नाम
चतुर्थे मासि निष्क्रमः।
षष्ठे ऽन्न-प्राशनं मासि
चूडा कार्या यथा-कुलम् ॥ १.१२ ॥

013 एवम् एनः ...{Loading}...

एवम् एनः शमं याति
बीज-गर्भ-समुद्भवम्।
तूष्णीम् एताः क्रियाः स्त्रीणां
विवाहस् तु स-मन्त्रकः ॥ १.१३ ॥

014 गर्भाष्टमे ऽष्टमे ...{Loading}...

गर्भाष्टमे ऽष्टमे वा ऽब्दे
ब्राह्मणस्योपनायनम्।
राज्ञाम् एकादशे सैके
विशाम् एके यथा-कुलम् ॥ १.१४ ॥

015 उपनीय गुरुः ...{Loading}...

उपनीय गुरुः शिष्यं
महा-व्याहृति-पूर्वकम्।
वेदम् अध्यापयेद् एनं
शौचाचारांश् च शिक्षयेत् ॥ १.१५ ॥

016 दिवासन्ध्यासु कर्णस्थ ...{Loading}...

दिवा-सन्ध्यासु कर्णस्थ-
ब्रह्म-सूत्रोदङ्-मुखः।
कुर्यान् मूत्र-पुरीषे च
रात्रौ चेद् दक्षिणा-मुखः ॥ १.१६ ॥

017 गृहीतशिश्नश् चोत्थाय ...{Loading}...

गृहीत-शिश्नश् चोत्थाय
मृद्भिर् अभ्युद्धृतैर् जलैः।
गन्ध-लेप-क्षय-करं
शौचं कुर्याद् अतन्द्रितः ॥ १.१७ ॥

018 अन्तर्जानु शुचौ ...{Loading}...

अन्तर्-जानु शुचौ देश
उपविष्ट उदङ्-मुखः।
प्राग् वा ब्राह्मेण तीर्थेन
द्विजो नित्यम् उपस्पृशेत् ॥ १.१८ ॥

019 कनिष्ठादेशिन्य्अङ्गुष्ठ मूलान्य् ...{Loading}...

कनिष्ठा-देशिन्य्-अङ्गुष्ठ-
मूलान्य् अग्रं करस्य च।
प्रजापति-पितृ-ब्रह्म-
देव-तीर्थान्य् अनुक्रमात् ॥ १.१९ ॥

020 त्रिः प्राश्यापो ...{Loading}...

त्रिः प्राश्यापो द्विर् उन्मृज्य
खान्य् अद्भिः समुपस्पृशेत्।
अद्भिस् तु प्रकृतिस्थाभिर्
हीनाभिः फेन-बुद्बुदैः ॥ १.२० ॥

021 हृत्कण्ठतालुगाभिस् तु ...{Loading}...

हृत्-कण्ठ-तालुगाभिस् तु
यथा-सङ्ख्यं द्विजातयः।
शुध्येरन् स्त्री च शूद्रश् च
सकृत् स्पृष्टाभिर् अन्ततः ॥ १.२१ ॥

022 स्नानम् अब्दैवतैर् ...{Loading}...

स्नानम् अब्-दैवतैर् मन्त्रैर्
मार्जनं प्राण-संयमः।
सूर्यस्य चाप्य् उपस्थानं
गायत्र्याः प्रत्यहं जपः ॥ १.२२ ॥

023 गायत्रीं शिरसा ...{Loading}...

गायत्रीं शिरसा सार्धं
जपेद् व्याहृति-पूर्विकाम्।
प्रतिप्रणव-संयुक्तां
त्रिर् अयं प्राण-संयमः ॥ १.२३ ॥

024 प्राणान् आयम्य ...{Loading}...

प्राणान् आयम्य सम्प्रोक्ष्य
तृचेनाब्-दैवतेन तु।
जपन्न् आसीत सावित्रीं
प्रत्यग् आ-तारकोदयात् ॥ १.२४ ॥

025 सन्ध्याम् प्राक् ...{Loading}...

सन्ध्यां प्राक् प्रातर् एवं हि
तिष्ठेद् आ-सूर्य-दर्शनात्।
अग्नि-कार्यं ततः कुर्यात्
सन्ध्ययोर् उभयोर् अपि ॥ १.२५ ॥

026 ततो ऽभिवादयेद् ...{Loading}...

ततो ऽभिवादयेद् वृद्धान्
असाव् अहम् इति ब्रुवन्।
गुरुं चैवाप्य् उपासीत
स्वाध्यायार्थं समाहितः ॥ १.२६ ॥

027 आहूतश् चाप्य् ...{Loading}...

आहूतश् चाप्य् अधीयीत
लब्धं चास्मै निवेदयेत्।
हितं तस्य+आचरेन् नित्यं
मनो-वाक्-काय-कर्मभिः ॥ १.२७ ॥

028 कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः ...{Loading}...

कृतज्ञाद्रोहि-मेधावि-
शुचि-कल्यान-सूयकाः।
अध्याप्या धर्मतः साधु
शक्ताप्त-ज्ञान-वित्तदाः ॥ १.२८ ॥

029 दण्डाजिनोपवीतानि मेखलाञ् ...{Loading}...

दण्डाजिनोपवीतानि
मेखलां चैव धारयेत्।
ब्राह्मणेषु चरेद् भैक्षम्
अनिन्द्येष्व् आत्म-वृत्तये ॥ १.२९ ॥

030 आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ...{Loading}...

आदि-मध्यावसानेषु
भवच्-छब्दोपलक्षिता।
ब्राह्मण-क्षत्रिय-विशां
भैक्ष-चर्या यथा-क्रमम् ॥ १.३० ॥

031 कृताग्निकार्यो भुञ्जीत ...{Loading}...

कृताग्नि-कार्यो भुञ्जीत
वाग्-यतो गुर्व्-अनुज्ञया।
आपोशान-क्रिया-पूर्वं
सत्-कृत्यान्नम् अकुत्सयन् ॥ १.३१ ॥

032 ब्रह्मचर्ये स्थितो ...{Loading}...

ब्रह्म-चर्ये स्थितो नैकम्
अन्नम् अद्याद् अनापदि।
ब्राह्मणः कामम् अश्नीयाच्
छ्राद्धे व्रतम् अपीडयन् ॥ १.३२ ॥

033 मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् ...{Loading}...

मधु-मांसाञ्जनोच्छिष्ट-
शुक्त-स्त्री-प्राणि-हिंसनम्।
भास्करालोकनाश्लील-
परिवादादि वर्जयेत् ॥ १.३३ ॥

034 स गुरुर् ...{Loading}...

स गुरुर् यः क्रियाः कृत्वा
वेदम् अस्मै प्रयच्छति।
उपनीय ददद् वेदम्
आचार्यः स उदाहृतः ॥ १.३४ ॥

035 एकदेशम् उपाध्याय ...{Loading}...

एकदेशम् उपाध्याय
ऋत्विग् यज्ञ-कृद् उच्यते।
एते मान्या यथा-पूर्वम्
एभ्यो माता गरीयसी ॥ १.३५ ॥

036 प्रतिवेदम् ब्रह्मचर्यं ...{Loading}...

प्रतिवेदं ब्रह्म-चर्यं
द्वादशाब्दानि पञ्च वा।
ग्रहणान्तिकम् इत्य् एके
केशान्तश् चैव षोडशे ॥ १.३६ ॥

037 आषोडशाद् आद्वाविंशाच् ...{Loading}...

आ-षोडशाद् आ-द्वाविंशाच्
चतुर्-विंशाच् च वत्सरात्।
ब्रह्म-क्षत्र-विशां
कालौपनायनिकः परः ॥ १.३७ ॥

038 अत ऊर्ध्वम् ...{Loading}...

अत ऊर्ध्वं पतन्त्य् एते
सर्व-धर्म-बहिष्-कृताः।
सावित्री-पतिता व्रात्या
व्रात्य-स्तोमाद् ऋते क्रतोः ॥ १.३८ ॥

039 मातुर् यद् ...{Loading}...

मातुर् यद् अग्रे जायन्ते
द्वितीयं मौञ्जि-बन्धनात्।
ब्राह्मण-क्षत्रिय-विशस्
तस्माद् एते द्विजाः स्मृताः ॥ १.३९ ॥

040 यज्ञानान् तपसाञ् ...{Loading}...

यज्ञानां तपसां चैव
शुभानां चैव कर्मणाम्।
वेद एव द्विजातीनां
निःश्रेयस-करः परः ॥ १.४० ॥

041 मधुना पयसा ...{Loading}...

मधुना पयसा चैव
स देवांस् तर्पयेद् द्विजः।
पितॄन् मधु-घृताभ्यां च
ऋचो ऽधीते च यो ऽन्वहम् ॥ १.४१ ॥

042 यजूंषि शक्तितो ...{Loading}...

यजूंषि शक्तितो ऽधीते
यो ऽन्वहं स घृतामृतैः।
प्रीणाति देवान् आज्येन
मधुना च पितॄंस् तथा ॥ १.४२ ॥

043 स तु ...{Loading}...

स तु सोम-घृतैर् देवांस्
तर्पयेद् यो ऽन्वहं पठेत्।
सामानि तृप्तिं कुर्याच् च
पितॄणां मधु-सर्पिषा ॥ १.४३ ॥

044 मेदसा तर्पयेद् ...{Loading}...

मेदसा तर्पयेद् देवान्
अथर्वाङ्गिरसः पठन्।
पितॄंश् च मधु-सर्पिर्भ्याम्
अन्वहं शक्तितो द्विजः ॥ १.४४ ॥

045 वाकोवाक्यम् पुराणञ् ...{Loading}...

वाकोवाक्यं पुराणं च
नाराशंसीश् च गाथिकाः।
इतिहासांस् तथा विद्याः
शक्त्या ऽधीते हि यो ऽन्वहम् ॥ १.४५ ॥

046 मांसक्षीरौदनमधु तर्पणं ...{Loading}...

मांस-क्षीरौदन-मधु-
तर्पणं स दिवौकसाम्।
करोति तृप्तिं कुर्याच् च
पितॄणां मधु-सर्पिषा ॥ १.४६ ॥

047 ते तृप्तास् ...{Loading}...

ते तृप्तास् तर्पयन्त्य् एनं
सर्व-काम-फलैः शुभैः।
यं यं क्रतुम् अधीते च
तस्य तस्य+आप्नुयात् फलम् ॥ १.४७ ॥

048 त्रिर् वित्तपूर्णपृथिवी ...{Loading}...

त्रिर् वित्त-पूर्ण-पृथिवी-
दानस्य फलम् अश्नुते।
तपसश् च परस्येह
नित्यं स्वाध्यायवान् द्विजः ॥ १.४८ ॥

049 नैष्ठिको ब्रह्मचारी ...{Loading}...

नैष्ठिको ब्रह्म-चारी तु
वसेद् आचार्य-सन्निधौ।
तद्-अभावे ऽस्य तनये
पत्न्यां वैश्वानरे ऽपि वा ॥ १.४९ ॥

050 अनेन विधिना ...{Loading}...

अनेन विधिना देहं
सादयन् विजितेन्द्रियः।
ब्रह्म-लोकम् अवाप्नोति
न चेह+आजायते पुनः ॥ १.५० ॥