०१ उपोद्घात-प्रकरणम्

001 योगीश्वरं याज्ञवल्क्यं ...{Loading}...

योगीश्वरं याज्ञवल्क्यं
सम्पूज्य मुनयो ऽब्रुवन्।
वर्णाश्रमेतराणां नो
ब्रूहि धर्मान् अशेषतः ॥ १.१ ॥

002 मिथिलास्थः स ...{Loading}...

मिथिला-स्थः स योगीन्द्रः
क्षणं ध्यात्वा ऽब्रवीन् मुनीन्।
यस्मिन् देशे मृगः कृष्णस्
तस्मिन् धर्मान् निबोधत ॥ १.२ ॥

003 पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ...{Loading}...

पुराण-न्याय-मीमांसा-
धर्म-शास्त्राङ्ग-मिश्रिताः।
वेदाः स्थानानि विद्यानां
धर्मस्य च चतुर्दश ॥ १.३ ॥

004 मन्व्अत्रिविष्णुहारीत याज्ञवल्क्योशनो ...{Loading}...

मन्व्-अत्रि-विष्णु-हारीत-
याज्ञवल्क्योशनो ऽङ्गिराः।
यमापस्तम्ब-संवर्ताः
कात्यायन-बृहस्पती ॥ १.४ ॥

005 पराशरव्यासशङ्ख लिखिता ...{Loading}...

पराशर-व्यास-शङ्ख-
लिखिता दक्ष-गौतमौ।
शातातपो वसिष्ठश् च
धर्म-शास्त्र-प्रयोजकाः ॥ १.५ ॥

006 देशे काल ...{Loading}...

देशे काल उपायेन
द्रव्यं श्रद्धा-समन्वितम्।
पात्रे प्रदीयते यत् तत्
सकलं धर्म-लक्षणम् ॥ १.६ ॥

007 श्रुतिः स्मृतिः ...{Loading}...

श्रुतिः स्मृतिः सद्-आचारः
स्वस्य च प्रियम् आत्मनः।
सम्यक्-सङ्कल्पजः कामो
धर्म-मूलम् इदं स्मृतम् ॥ १.७ ॥

008 इज्याचारदमाहिंसा दानस्वाध्यायकर्मणाम् ...{Loading}...

इज्याचार-दमाहिंसा-
दान-स्वाध्याय-कर्मणाम्।
अयं तु परमो धर्मो
यद् योगेन+आत्म-दर्शनम् ॥ १.८ ॥

009 चत्वारो वेदधर्मज्ञाः ...{Loading}...

चत्वारो वेद-धर्मज्ञाः
पर्षत् त्रैविद्यम् एव वा।
सा ब्रूते यं स धर्मः स्याद्
एको वा ऽध्यात्मवित्तमः ॥ १.९ ॥