श्रीगणेशाय नमः

धर्माधर्मौ तद्विपाकस् त्रयो ऽपि क्लेशाः पञ्च प्राणिनाम् आयतन्ते ।
यस्मिन्न् एतैर् नो परामृष्ट ईशो यस् तं वन्दे विष्णुम् ॐकारवाच्यम् ॥
याज्ञवल्क्यमुनिभाषितं मुहुर् विश्वरूपविकटोक्तिविस्तृतम् ।
धर्मशास्त्रम् ऋजुभिर् मिताक्षरैर् बालबोधविधये विविच्यते ॥

याज्ञवल्क्यशिष्यः कश् चित् प्रश्नोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्मशास्त्रं संक्षिप्य कथयाम् आस यथा मनुप्रणीतं भृगुः । तस्य चायम् आद्यः श्लोकः ।

** योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयो ऽब्रुवन् ।**
** वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः ॥ १.१ ॥**

योगिनां सनकादिनाम् ईश्वरः श्रेष्ठस् तं याज्ञवल्क्यं संपूज्य मनोवाक्कायकर्मभिः पूजयित्वा मुनयः सामश्रवःप्रभृतयः श्रवणधारणयोग्या अब्रुवन् उक्तवन्तः धर्मान् नो ऽस्मभ्यं ब्रूहीति । कथम् । अशेषतः कार्त्स्न्येन । केषाम् । वर्णाश्रमेतराणाम् । वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयः, इतरे ऽनुलोमप्रतिलोमजाता मूर्धावसिक्तादयः । इतरशब्दस्य “द्वन्द्वे च” इति (पाण् १.१.३१) सर्वनामसंज्ञाप्रतिषेधः । अत्र च धर्मशब्दः षड्विधस्मार्तधर्मविषयः । तद् यथा वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मः साधारणधर्मश् चेति । तत्र वर्णधर्मो “ब्राह्मणो नित्यं मद्यं वर्जयेद्” इत्यादिः । आश्रमधर्मो ऽग्नीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः “पालाशो दण्डो ब्राह्मणस्य” इत्य् एवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापरिपालनादिः । निमित्तधर्मो विहिताकरणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मो ऽहिंसादिः । “न हिंस्यात् सर्वा भूतानि” इत्य् आचण्डालं साधारणो धर्मः । “शौचाचारांश् च शिक्षयेत्” (य्ध् १.१५) इत्य् आचार्यकरणविधिप्रयुक्तत्वाद् धर्मशास्त्राध्ययनस्य प्रयोजनादिकथनं नातीवोपयुज्यते । तत्र चायं क्रमः । प्राग् उपनयनात् कामचारकामवादकामभक्षाः । ऊर्ध्वम् उपनयनात् प्राग् वेदाध्ययनोपक्रमाद् धर्मशास्त्राध्ययनं, ततो धर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं, ततस् तदर्थजिज्ञासा, ततस् तदर्थानुष्ठानम् इति । तत्र यद्य् अपि धर्मार्थकाममोक्षाः शास्त्रेणानेन प्रतिपाद्यन्ते तथापि धर्मस्य प्राधान्याद् धर्मग्रहणम् । प्राधान्यं च धर्ममूलत्वाद् इतरेषाम् । न च वक्तव्यं धर्ममूलो ऽर्थो ऽर्थमूलो धर्म इत्य् अविशेष इति । यतो ऽर्थम् अन्तरेणापि जपतपस्तीर्थयात्रादिना धर्मनिष्पत्तिर् अर्थलेशो ऽपि न धर्मम् अन्तरेणेति । एवं काममोक्षाव् आपीति ॥ १.१ ॥

एवं पृष्टः किम् उवाचेत्य् आह ।

** मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन् मुनीन् ।**
** यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत ॥ १.२ ॥**

मिथिलानाम नगरी तत्रावस्थितः स याज्ञवल्क्यो योगीश्वरः क्षणं ध्यात्वा किंचित् कालं मनः समाधाय “एते श्रवणाधिकारिणो विनयेन पृच्छन्तीति युक्तम् एतेभ्यो वक्तुम्” इत्य् उक्तवान् मुनीन् । किम् । यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत इति । कृष्णसारो मृगो यस्मिन् देशे स्वच्छन्दं विहरति तस्मिन् देशे वक्ष्यमाणलक्षणा धर्मा अनुष्ठेया नान्यत्रेत्य् अभिप्रायः ॥ १.२ ॥

“शौचाचारांश् च शिक्षयेत्” (य्ध् १.१५) इत्य् आचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तदध्ययनं कर्तव्यम् इति कुतो ऽवगम्यत इत्य् अत आह ।

** पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।**
** वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ १.३ ॥**

पुराणं ब्राह्मादि । न्यायस् तर्कविद्या । मीमांसा वेदवाक्यविचारः । धर्मशास्त्रं मानवादि । अङ्गानि व्याकरणादीनि षट् । एतैर् उपेताश् चत्वारो वेदाःविद्याः पुरुषार्थसाधनानि । तासां स्थानानि च चतुर्दश । धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैर् अध्येतव्यानि, तदन्तर्भूतत्वाद् धर्मशास्त्रम् अप्य् अध्येतव्यम् । तत्रैतानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथा च शङ्खेन विद्यास्थानान्य् उपक्रम्योक्तम्- “एतानि ब्राह्मणो ऽधिकुरुते स च वृत्तिं दर्शयतीतरेषाम्” इति । मनुर् अपि द्विजातीनां धर्मशास्त्राध्यायने ऽधिकारः ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति ।

निषेकादिश्मशानान्तो मन्त्रैर् यस्योदितो विधिः ।
तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो नान्यस्य कर्हि चित् ॥
विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः ।
शिष्येभ्यश् च प्रवक्तव्यं सम्यङ् नान्येन केन चित् ॥ इति । (म्ध् २.१६, १.१०३) ॥१.३ ॥

“अस्तु धर्मशाश्त्रम् अध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किम् आयातम्” इत्य् अत आह ।

** मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनो ऽङ्गिराः ।**
** यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ १.४ ॥**
** पराशरव्यासशङ्खलिखिता दक्षगौतमौ ।**
** शातातपो वसिष्ठश् च धर्मशास्त्रप्रयोजकाः ॥ १.५ ॥**

उशनःशब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतम् इदं धर्मशास्त्रम् अध्येतव्यम् इत्य् अभिप्रायः । नेयं परिसंख्या किं तु प्रदर्शनार्थम् एतत् । अतो बौधायनादेर् अपि धर्मशास्त्रत्वम् अविरुद्धम् । एतेषां प्रत्येकं प्रामाण्ये ऽपि साकाङ्क्षाणाम् आकाङ्क्षापरिपूरणम् अन्यतः क्रियते । विरोधे विकल्पः ॥ १.४-१.५ ॥

इदानीं धर्मस्य कारकहेतून् आह ।

** देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।**
** पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् ॥ १.६ ॥**

देशो “यस्मिन् देशे मृगः कृष्णः” (य्ध् १.२) इत्य् उक्तलक्षणः । कालः संक्रान्त्यादिः । उपायः शास्त्रोक्तेतिकर्तव्यताकलापः । द्रव्यं प्रतिग्रहादिलब्धं गवादि । श्रद्धा आस्तिक्यबुद्धिस् तद्अन्वितं यथा भवति तथा । पात्रं “न विद्यया केवलया” (य्ध् १.२००) इत्य् एवमादिवक्ष्यमणलक्षणम् । प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्त्यवसानं त्यज्यते । एतद् धर्मस्योत्पादकम् । किम् एतावद् एव नेत्य् आह । सकलम् इति । अन्यद् अपि शास्त्रोक्तं जातिगुणहोमयागादि तत् सकलं धर्मस्य कारकं, जातिगुणद्रव्यक्रियाभावार्थात्मकं चतुर्विधं धर्मस्य कारकम् इत्य् उक्तं भवति । तच् च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ १.६ ॥

इदानीं धर्मस्य ज्ञापकहेतून् आह ।

** श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।**
** सम्यक्संकल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥ १.७ ॥**

श्रुतिर् वेदः । स्मृतिर् धर्मशास्त्रम् । तथा च मनुः ।

श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । इति । (म्ध् २.१०)

सदाचारः सतां शिष्टानाम् आचारो ऽनुष्ठानम् । स्वस्य चात्मनः प्रियं, वैकल्पिके विषये यथा “गर्भाष्टमे ऽष्टमे वाब्दे “(य्ध् १.१४) इत्यादव् आत्मेच्छैव नियामिका । सम्यक्संकल्पाज् जातः कामः शास्त्राविरुद्धः यथा “मया भोजनव्यतिरेकेणोदकं न पातव्यम्” इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ १.७ ॥

देशादिकारकहेतूनाम् अपवादम् आह ।

** इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।**
** अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥ १.८ ॥**

इज्यादिनां कर्मणाम् अयम् एव परमो धर्मः यद् योगेन बाह्यचित्तवृत्तिनिरोधेन्आत्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मज्ञाने देशादिनियमो नास्तीत्य् अर्थः । तद् उक्तं “यत्रैकाग्रता तत्राविशेषात्” (ब्र्सू ४.१.११) इति पातञ्जले ॥ १.८ ॥

कारकहेतुषु ज्ञापकहेतुषु वा संदेहे तु निर्णयहेतुम् आह ।

** चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा ।**
** सा ब्रुते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ १.९ ॥**

चत्वारो ब्राह्मणाः वेदधर्मशास्त्रज्ञाः पर्षत् । तिस्रो विद्या अधीयन्त इति त्रैविद्याः । तेषां समूहस् त्रैविद्यम् । धर्मशास्त्रज्ञत्वम् अत्राप्य् अनुवर्तते । तद् वा पर्षत् । सा पूर्वोक्ता पर्षत् यं ब्रुते स धर्मःअध्यात्मज्ञानेषु निपुणतमो धर्मशास्त्रज्ञश् च एको ऽपि वा यं ब्रुते सो ऽपि धर्मः ॥ १.९ ॥

इत्य् उपोद्घातप्रकरणम् ।

अथ ब्रह्मचारिप्रकरणम्

एतैर् नवभिः श्लोकैः सकलशास्त्रोपोद्घातम् उक्त्वा, इदानीं वर्णादीनां धर्मान् वक्तुं प्रथमं तावद् वर्णान् आह ।

** ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।**
** निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥ १.१० ॥**

ब्राह्मणक्षत्रियवैश्यशूद्राश् चत्वारो वर्णा वक्ष्यमाणलक्षणास्, तेषाम् आद्यास् त्रयो ब्राह्मणक्षत्रियवैश्या द्विजाः । द्विर् जायन्त इति द्विजाः । तेषां द्विजानां वै एव न शूद्रस्य । एतेन शूद्रस्यामन्त्रकाः क्रिया इत्य् उक्तं भवति ।

शूद्रो ऽप्य् एवंविधः कार्यो विना मन्त्रेण संस्कृतः ।

इति यमोक्तेः । निषेकाद्याः निषेको गर्भाधानम् आद्यो यासां तास् तथोक्ताः । श्मशानं पितृवनं तत्संबन्धि कर्म अन्ते [अन्तो] यासां ताः क्रिया मन्त्रैर् भवति ॥ १.१० ॥

इदानीं ताः क्रिया अनुक्रामति ।

** गर्भाधानम् ऋतौ पुंसः सवनं स्पन्दनात् पुरा ।**
** षष्ठे ऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च ॥ १.११ ॥**
** अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः ।**
** षष्ठे ऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १.१२ ॥**

गर्भाधानम् इत्य् अनुगतार्थं कर्मनामधेयम् । एवं वक्ष्यमणान्य् अपि । तद् गर्भाधानम्** ऋतौ** ऋतुकाले वक्ष्यमणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात् पूर्वम् । षष्ठे ऽष्टमे वा मासि सीमन्तोन्नयनम् । एते द्वे पुंसवनसीमन्तोन्नयने क्षेत्रसंस्कारकर्मत्वात् सकृद् एव कार्ये न प्रतिगर्भम् । यथाह देवलः ।

सकृच् च संस्कृता नारी सर्वगर्भेषु संस्कृता ।
यं यं गर्भं प्रसूयेत स सर्वः संस्कृतो भवेत् ॥ इति ।

यद् वा एते आ इते आगते गर्भकोशाज् जाते कुमारे जातकर्मएकादशे ऽहनि नाम । तच् च पितामहमातामहादिसंबद्धं कुलदेवतासंबद्धं वा । यथाह शङ्खः (२.१४) “कुलदेवतासंबद्धं पिता नाम कुर्यात्” इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । षष्ठे मास्य् अन्नप्राशनं कर्म । चूडाकरणं तु यथाकुलंकार्यम् इति प्रत्येकं संबध्यते ॥ १.११-१२ ॥

एतेषां नित्यत्वे ऽप्य् आनुषङ्गिकं फलम् आह ।

** एवम् एनः शमं याति बीजगर्भसमुद्भवम् ।**

एवम् उक्तेन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैर् एनः पापं शमं याति । किंभूतं । बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनिमित्तं वा न तु पतितोत्पन्नत्वादि ॥

स्त्रीणां विशेषम् आह ।

** तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ॥ १.१३ ॥**

एता जातकर्मादिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर् यथाकालं कार्याः । विवाहः पुनः समन्त्रकः कार्यः ॥ १.१३ ॥

उपनयनकालम् आह ।

** गर्भाष्टमे ऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।**
** राज्ञाम् एकादशे सैके विशाम् एके यथाकुलम् ॥ १.१४ ॥**

गर्भाधानम् आदिं कृत्वा जननं वाष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनम् एव उपनायनम् । स्वार्थे अण् । वृत्तानुसारात् छन्दोभङ्गात् । आर्षं वा दीर्घत्वं । अत्रेच्छया विकल्पः । राज्ञाम् एकादशेविशां वैश्यानां सैके एकादशे । द्वादशे इत्य् अर्थः । गर्भग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि गर्भशब्दस्य बुद्ध्या विभज्योभयत्राप्य् अनुवर्तनं कार्यम् ।

गर्भाद् एकादशे राज्ञो गर्भाद्धि द्वादशे विशः । (शङ्ख्। २.१७)

इति स्मृत्यन्तरदर्शनात् । यथा अथ शब्दानुशासनं, केषां शब्दानाम्, लौकिकानां वैदिकानाम् इति । अत्रापि कार्यम् इत्य् अनुवर्तते । कुलस्थित्या केचिद् उपनयनम् इच्छन्ति ॥ १.१४ ॥

गुरुधर्मान् आह ।

** उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।**
** वेदम् अध्यापयेद् एनं शौचाचारांश् च शिक्षयेत् ॥ १.१५ ॥**

स्वगृह्योक्तविधिन्ओपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकं वेदम् अध्यापयेत् । महाव्याहृतयश् च भूरादिसत्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण (ग्ध् १.५१)। किं च शौचाचारांश् च वक्ष्यमाणलक्षणान् शिक्षयेत् । उपनीय शौचाचारांश् च शिक्षयेद् इत्य् अनेन प्राग् उपनयनात् कामचारो दर्शितो वर्णधर्मान् वर्जयित्वा । स्त्रीणाम् अप्य् एतत्समानं विवाहाद् अर्वाक् उपनयनस्थानीयत्वाद् विवाहस्य ॥ १.१५ ॥

शाउचाचारान् आह ।

** दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।**
** कुर्यान् मूत्रपुरीषे च रात्रौ चेद् दक्षिणामुखः ॥ १.१६ ॥**

कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश् च दक्षिणः ।

पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रम् उत्सृजेत् ।

इति लिङ्गात् । असाव् अहनि संध्ययोश् च उदङ्मुखो मूत्रपुरीषे कुर्यात्काराद् भस्मादिरहिते देशे । रात्रौ तु दक्षिणामुखः ॥ १.१६ ॥

किं च ।

** गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।**
** गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥ १.१७ ॥**

अनन्तरं शिश्नं गृहीत्वोत्थायोद्धृताभिर् अद्भिर् वक्ष्यमाणलक्षणाभिर् मृद्भिश्गन्धलेपयोः क्षयकरं शौचं कुर्यात्अतन्द्रितो ऽनलसः । उद्धृताभिर् अद्भिर् इति जलान्तःशौचनिषेधः । अत्र गन्ध्लेपक्षयकरम् इति सर्वाश्रमिणां साधारणम् इदं शौचम् । मृत्संख्यानियमस् त्व् अदृष्टार्थः ॥ १.१७ ॥

** अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।**
** प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत् ॥ १.१८ ॥**

शुचौ अशुचिद्रव्यासंस्पृष्टे । देश इत्य् उपादानाद् उपानच्छयनासनादिनिषेधः । उपविष्टो न स्थितः शयानः प्रह्वो गच्छन् वा । उदङ्मुखः प्राङ्मुखो वेति दिगन्तरनिवृत्तिः । शुचौ देशे इत्य् एतस्मात् पादप्रक्षालनप्राप्तिः । ब्राह्मेण तीर्थेन वक्ष्यमाणलक्षणेन । द्विजो न शूद्रादिः । नित्यं सर्वकालम् आश्रमान्तरगतो ऽपि । उपस्पृशेद् आचामेत् । कथम् । अन्तर्जानु जानुनोर् मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥ १.१८ ॥

प्राजापत्यादितीर्थान्य् आह ।

** कनिष्ठादेशिन्यङ्गुष्ठमूलान्य् अग्रं करस्य च ।**
** प्रजापतिपितृब्रह्मदेवतीर्थान्य् अनुक्रमात् ॥ १.१९ ॥**

कनिष्ठायास् तर्जन्या अङ्गुष्ठस्य च मूलानि करस्याग्रं च प्रजापतिपितृब्रह्मदेवतीर्थानि यथाक्रमं वेदितव्यानि ॥ १.१९ ॥

आचमनप्रकारः ।

** त्रिः प्रास्यापो द्विर् उन्मृज्य खान्य् अद्भिः समुपस्पृशेत् ।**
** अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः ॥ १.२० ।**।

वारत्रयम् अपः पीत्वा मुखम् अङ्गुष्ठमूलेन द्विर् उन्मृज्य खानि छिद्राणि ऊर्ध्वकायगतानि घ्राणादीन्य् अद्भिर् उपस्पृशेत्अद्भिर् द्रव्यान्तरासंसृष्टाभिः । पुनर् अद्भिर् इत्य् अब्ग्रहणम् प्रतिच्छिद्रम् उदकस्पर्शनार्थम्, स्मृत्यन्तरात्-

अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् ।
अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रं पुनः पुनः ॥
कनिष्ठाङ्गुष्ठयोर् नाभिं हृदयं तु तलेन वै ।
सर्वाभिस् तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत् ॥ इति ।

पुनस् ता एव विशिनष्टि प्रकृतिस्थाभिः गन्धरूपरसस्पर्शान्तरम् अप्राप्ताभिः फेनबुद्बुदरहिताभिः । तुशब्दाद् वर्षधारागतानां शूद्राद्यावर्जितानां च निषेधः ॥ १.२०

** हृत्कण्ठतालुगाभिस् तु यथासंख्यं द्विजातयः ।**
** शूध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥ १.२१ ॥**

हृत्कण्ठतालुगाभिर् अद्भिर् यथाक्रमेण द्विजातयः शुध्यन्ति । स्त्री च शूद्रश् च अन्ततो ऽन्तर्गतेन तालुना स्पृष्टाभिर् अपि । सकृद् इति वैश्याद् विशेषः । शब्दाद् अनुपनीतो ऽपि ॥ १.२१ ॥

** स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।**
** सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः ॥ १.२२ ॥**

प्रातःस्नानं यथाशास्त्रम् अब्दैवतैर् मन्त्रैः “आपो हि ष्ठा” इत्य् एवमादिभिर् मार्जनम्प्राणसंयमः प्राणायामो वक्ष्यमानलक्षणः । ततः सूर्यस्योपस्थानं सौरमन्त्रेण । गायत्र्याः “तत् सवितुर् वरेण्यम्” इत्याद्यायाः प्रतिदिवसं जपः कार्यः । कार्यशब्दो यथालिङ्गं प्रत्येकम् अभिसंबध्यते ॥ १.२२ ॥

प्राणायामविचारः ।

** गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् ।**
प्रतिप्रणवसंयुक्तां त्रिर् अयं प्राणसंयमः ॥ १.२३ ॥

गायत्रीं पूर्वोक्ताम् “आपो ज्योतिः” इत्यादिना शिरसा संयुक्तां उक्तव्याहृतिपूर्विकां प्रतिव्याहृति प्रणव्एन संयुक्तां “ॐ भुः ॐ भुवः ॐ स्वर्” इति त्रीन् वारान् मुखनासिकासंचारिवायुं निरुन्धन् मनसा जपेद् इत्य् अयं सर्वत्र प्राणायामः ॥ १.२३ ॥

सावित्रीजपप्रकारः ।

** प्राणान् आयम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।**
** जपन्न् आसीत सावित्रीं प्रत्यग् आ तारकोदयात् ॥ १.२४ ॥**
** संध्यां प्राक् प्रातर् एवं हि तिष्ठेद् आ सूर्यदर्शानात् । १.२५अब्**

प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तेन आत्मानम् अद्भिः संप्रोक्ष्य सावित्रीं जपन् प्रत्यक् संध्याम् आसीत । अर्थात् प्रत्यङ्मुख इति लभ्यते । आ तारकोदयात् तारकोदयावधि । प्राक् संध्यां प्रातःसमये एवं पूर्वोक्तविधिम् आचरन् प्राङ्मुखः सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र अहः संपूर्णाद् इत्य् अमण्डलदर्शनयोग्यः कालः तद्विपरीता रात्रिः । यस्मिन् काले खण्डमण्डलस्योपलब्धिः स संधिः ।

** अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि ॥ १.२५च्द् ॥**

ततः संध्योपासनान्तरं द्वयोः संध्ययोर् अग्निकार्यं अग्नौ कार्यं समित्प्रक्षेपादि यत् तत् कुर्यात् स्वगृह्योक्तेन विधिना ॥ १.२५ ॥

ततो ऽभिवादयेत् वृद्धान् असाउ अहम् इति ब्रुवन् । १.२६अब्

तदनन्तरं वृद्धान् गुरुप्रभृतीन् अभिवादयेत् । कथम् । असौ देवदत्तशर्म्आहम् इति स्वं नाम कीर्तयन् ॥

गुरुं चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः ॥ १.२६च्द् ॥
आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् । १.२७अब्
हितं तस्य अचरेन् नित्यं मनोवाक्कायकर्मभिः ॥ १.२७च्द् ॥

तथा गुरुं वक्ष्यमाणलक्षणम् उपासीत तत्परिचर्यापरस् तदधीनस् तिष्ठेत् । स्वाध्यायार्थम् अध्ययनसिद्धये समाहितो ऽविक्षिप्तचित्तो भवेत् । आहूतश् चाप्य् अधीयीत गुर्वाहूत एव अधीयीत न स्वयं गुरुं प्रेरयेत् । यच् च लब्धं तत् सर्वं गुरवे निवेदयेत् । तथा तस्य गुरोर् हितम् आचरेत्नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दाद् गुरुदर्शने गौतमोक्तं (ग्ध् २.१४) कण्ठप्रावृतादि वर्जयेत् ॥ १.२६ ॥ १.२७ ॥

अध्याप्यान् आह ।

कृतज्ञाद्रोहिमेधाविशुचिकल्यानसूयकाः । १.२८अब्
अध्याप्या धर्मतः सधुशक्ताप्तज्ञानवित्तदाः ॥ १.२८च्द् ॥

कृतम् उपकारं न विस्मरति इति कृतज्ञःअद्रोही दयावान् । मेधावी ग्रन्थग्रहणधारणशक्तः । शुचिर् बाह्याभ्यन्तरशौचवान् । कल्य आधिव्याधिरहितः । अनसूयको दोषानाविष्कारेण गुणाविष्करणशीलः । साधुर् वृत्तवान् । शक्तः शुश्रूषायाम् । आप्तो बन्धुह् । ज्ञानदो विद्याप्रदः । वित्तदो ऽपणपूर्वकम् अर्थप्रदाता । एते गुणाः समस्ता व्य्स्ताश् च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेण अध्याप्याः ॥ १.२८ ॥

दण्डादिधारणम् आह ।

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । १.२९अब्

तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं कार्ष्णादि, उपवीतं कार्पासादिनिर्मितं, मेखलां च मुञ्जादिनिर्मितां, ब्राह्मणादिर् ब्रह्मचारी धारयेत् । १.२९अब् ।

भैक्षचर्याप्रकारः ।

ब्राह्मणेषु चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये ॥ १.२९च्द् ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । १.३०अब्
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.३०च्द् ॥

पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेष्व् अनिन्द्येष्व् अभिशस्तादिव्यतिरिक्तेषु स्वकर्मनिरतेषु भैक्षं चरेत्आत्मवृत्तये आत्मनो जीवनाय न परार्थं आचार्यतद्भार्यापुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । “तदभावे तत्पुत्रादौ” इति नियमात् । अत्र च ब्राह्मणग्रहणं संभवे सति नियमार्थम् । यत् तु सार्ववर्णिकं भैक्षचरणम् इति तत् त्रैवर्णिकविषयम् । यच् च “चातुर्वर्ण्यं चरेत् भैक्षम्” इति तद् आपद्विषयम् । कथं भैक्षचर्या कार्या । आदिमध्यावसानेषु भवच्छद्बोपलक्षिता । “भवति भिक्षां देहि । भिक्षां भवति देहि । भिक्षां देहि भवति” इत्य् एवं वर्णक्रमेण भैक्षचर्या कार्या ॥ १.२९ ॥ १.३० ॥

भोजनप्रकारः ।

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । १.३१अब्
अपोशनक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥ १.३१च्द् ॥

पूर्वोक्तेन विधिना भिक्षाम् आहृत्य गुरवे निवेद्य तदनुज्ञया कृताग्निकार्यो वाग्यतो मौन्य् अन्नं सत्कृत्य संपूज्य अकुत्सयन्न् अनिन्दन् अपोशनक्रियां “अमृतोपस्तरणम् असि” इत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनर् अग्निकार्यग्रहणं संध्याकाले कथंचिद् अकृताग्निकार्यस्य कालान्तरविधानार्थं न पुनस् तृतीयप्राप्त्यर्थम् ॥ १.३१ ॥

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि । १.३२अब्
ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ॥ १.३२च्द् ॥

ब्रह्मचर्ये स्थित एकान्नं नाद्याद् अनापदि व्याध्याद्यभावे । ब्राह्मणः पुनः श्राद्धे ऽभ्यर्थितः सन् कामम् अश्नीयात्व्रतम् अपीडयन् मधुमांसपरिहारेण । अत्र ब्राह्मणग्रहणं क्षत्रियादेः श्राद्धभोजनव्युदासार्थम्,

राजन्यवैश्ययोश् चैव नैतत् कर्म प्रचक्षते ।

इति स्मरणात् ॥ १.३२ ॥

मधुमांसादिवर्ज्यान्य् आह ।


मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् । १.३३अब्
**भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ १.३३च्द् ॥ **

मधु क्षौद्रं न मद्यम् । तस्य “नित्यं मद्यं ब्राह्मणो वर्जयेत्” इति निषेधात् । मांसं छागादेर् अपि । अञ्जनं घृतादिना गात्रस्य कज्जलादिना चाक्ष्णोः । उच्छिष्टम् अगुरोः । शुक्तं निष्ठुरवाक्यं नान्नरसः, तस्याभक्ष्यप्रकरणे निषेधात् । स्त्रियम् उपभोगे । प्राणिहिंसनं जीववधः । भास्करस्योदयास्तमयावलोकनम्अश्लीलम् असत्यभाषणम् । परिवादः सदसद्रूपस्य परदोषस्य ख्यापनम् । आद्इशब्दात् स्मृत्यन्तरोक्तं गन्धमाल्यादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ १.३३ ॥

_ गुर्वाचार्यादिलक्षणम् आह ।_

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति । १.३४अब्
उपनीय ददद् वेदम् आचार्यः स उदाहृतः ॥ १.३४च्द् ॥

यो ऽसौ गर्भाधानाद्या उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदम् अस्मै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनर् उपनयनमात्रं कृत्वा वेदं प्रयच्छति आचार्यः ॥ १.३४ ॥

उपाध्यायर्त्विग्लक्षणम् ।

एकदेशम् उपाध्याय ऋत्विग् यज्ञकृद् उच्यते । १.३५अब्
एते मान्या यथापूर्वम् एभ्यो माता गरीयसी ॥ १.३५च्द् ॥

वेदस्य्ऐकदेशं मन्त्रब्राह्मणयोर् एकम्, अङ्गानि वा, यो ऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृतः करोति स ऋत्विक्एते च गुर्वाचार्योपाध्यायर्त्विजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ १.३५ ॥

वेदग्रहणार्थं ब्रह्मचर्यावधिम् आह ।

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । १.३६अब्
ग्रहणान्तिकम् इति एके केशान्तश् चैव षोडशे ॥ १.३६च्द् ॥

यदा विवाहासंभवे “वेदान् अधीत्य वेदौ वा वेदं वा” (म्ध् ३.२) इति प्रवर्तते तदा प्रतिवेदं वेदं वेदं प्रति ब्रह्मचर्यं पूर्वोक्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । ग्रहणान्तिकम् इति एके वर्णयन्ति । केशान्तः पुनर् गोदानाख्यं कर्म गर्भाद् आरभ्य षोडशे वर्षे ब्राह्मणस्य कार्यम् । एतच् च द्वादशवार्षिके वेदव्रते बोद्धव्यं । इतरस्मिन् पक्षे यथासंभवं द्रष्टव्यम् । राजन्यवैश्ययोस् तूपनयनकालवद् द्वाविंशे चतुर्विंशे वा द्रष्टव्यम् ॥ १.३६ ॥

उपनयनकालस्य परमावधिम् आह ।

आ षोडशाद् आ द्वविंशाच् चतुर्विंशाच् च वत्सरात् । १.३७अब्
ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥ १.३७च्द् ॥
**अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः । १.३८अब् **
सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥ १.३८च्द् ॥


आ षोडशाद् वर्षात् षोडशवर्षं यावद् आ द्वाविंशाद् आ चतुर्विंशाद् वर्षाद् ब्रह्मक्षत्रविशाम् औपनायनिक उपनयनसंबन्धी परः कालः । नातः परम् उपनयनकालो ऽस्ति किं तु अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः सर्वधर्मेष्व् अनधिकारिणो भवन्ति । सावित्रीपतिताः पतितसावित्रीका भवन्ति । सावित्रीदानयोग्या न भवन्ति-

व्रात्याः संस्कारहीनाश् च व्रात्यस्तोमात् क्रतोर् विना ।

कृते तु तस्मिन्न् उपनयनाधिकारिणो भवन्ति ॥ १.३७ ॥ १.३८ ॥

“आद्यास् त्रयो द्विजाः” इत्य् उक्तं । तत्र हेतुम् आह ।

मातुर् यद् अग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । १.३९अब्
ब्राह्मणक्षत्रियविशस् तस्माद् एते द्विजाः स्मृताः ॥ १.३९च्द् ॥

मातुः सकाशात् प्रथमं जायन्ते मौञ्जिबन्धनात्द्वितीयं जन्म यस्मात् तस्मात् एते ब्राह्मणक्षत्रियवैश्या द्विजा उच्यन्ते ॥ १.१३९ ॥

वेदग्रहणाध्ययनफलम् आह ।

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । १.४०अब् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ १.४०च्द् ॥

यज्ञानां श्रौतस्मार्तानां तपसां कायसंतापरूपाणां चान्द्रायणादीनां शुभानांकर्मणाम् उपनयनादिसंस्काराणाम् अवबोधकत्वेन वेद एव द्विजातीनां परो निःश्रेयसकरो नान्यः । वेद एवेति तन्मूलकत्वेन स्मृतेर् अपि उपलक्षणार्थम् ॥ १.४० ॥

ग्रहणाध्ययनफलम् उक्त्वा इदानीं काम्यब्रह्मयज्ञाध्ययनफलम् आह ।

मधुना पयसा चैव स देवंस् तर्पयेद् द्विजः । १.४१अब्
पितॄन् मधुघृताभ्यां च ऋचो ऽधीते हि यो ऽन्वहम् ॥ १.४१च्द् ॥
यजूंषि शक्तितो ऽधीते यो ऽन्वहं स घृतामृतैः । १.४२अब्
प्रीणाति देवान् आज्येन मधुना च पितॄंस् तथा ॥ १.४२च्द् ॥
स तु सोमघृतैर् देवांस् तर्पयेद् यो ऽन्वहं पठेत् । १.४३अब् ।
सामानि तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ १.४३च्द् ॥

यो ऽन्वहम् ऋचो ऽधीतेमधुना पयसा च देवान् पितॄंश् च मधुघृताभ्यं तर्पयति । यः पुनः शक्तितो ऽन्वहं यजूंष्य् अधीतेघृतामृतैर् देवान् पितॄंश् च मधुघृताभ्यां तर्पयति । यस् तु सामान्य् अन्वहम् अधीते स सोमघृतैर् देवान् पितॄंश् च मधुसर्पिर्भ्यां प्रीणाति । ऋगादिग्रहणं सामान्येन ऋगादिमात्रप्राप्त्यर्थम् ॥ १.४१ ॥ १.४२ ॥ १.४३ ॥

**मेदसा तर्पयेद् देवान् अथर्वाङ्गिरसः पठन् । १.४४अब् **
पितॄंश् च मधुसर्पिर्भ्याम् अन्वहं शक्तितो द्विजः ॥ १.४४च्द् ॥
वाकोवाक्यं पुराणं च नाराशंसीश् च गाथिकाः । १.४५अब्
इतिहासांस् तथा विद्याः शक्त्याधीते हि यो ऽन्वहम् ॥ १.४५च्द् ॥
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् । १.४६अब्
करोति तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ १.४६च्द् ॥
**ते तृप्तास् तर्पयन्त्य् एनं सर्वकामफलैः शुभैः । १.४७अब् **

यः पुनः शक्तितो ऽन्वहम् अथवाङ्गिरसो ऽधीते स देवान् मेदसा पितॄंश् च मधुसर्पिर्भ्यां तर्पयति । यस् तु वाकोवाक्यं प्रश्नोत्तररूपं वेदवाक्यं, पुराणं ब्रह्मादि, चकारान् मानवादिधर्मशास्त्रं, नाराशंसीश् च रुद्रदैवत्यान् मन्त्रान्, गाथा यज्ञगाथेन्द्रगाथाद्याः, इतिहासान् महाभारतादीन्, विद्याश् च वारुणाद्याः, शक्तितो ऽअन्वहम् अधीते स मांसक्षीरौदनमधुसर्पिर्भिर् देवान् पितॄंश् च मधुसर्पिर्भ्यां तर्पयति ॥ १.४४ ॥ १.४५ ॥ १.४६ ॥ ते पुनस् तृप्ताः सन्तो देवाः पितरश् च एनं स्वाध्यायकारिणं सर्वकामफलैः शुभैर् अनन्योपघातलक्षणैर् तर्पयन्ति ॥ १.४७अब् ॥

प्रशंसार्थम् आह ।

यं यम् ऋतुम् अधीते च तस्य तस्य आप्नुयात् फलम् ॥ १.४७च्द् ॥
त्रिर् वित्तपूर्णपृथिवीदानस्य फलम् अश्नुते । १.४८अब्
तपसश् च परस्येह नित्यस्वाध्यायवान् द्विजः ॥ १.४८च्द् ॥

यस्य यस्य क्रतोः प्रतिपादकं वेदैकदेशम् अन्वहम् अधीते तस्य तस्य क्रतोः फलम् अवाप्नोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत् फलं परस्य तपसश् चान्द्रायणादेर् यत् फलं तद् अपि नित्यस्वाध्यायवान् आप्नोति । नित्यग्रहणं काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ १.४७ ॥ १.४८ ॥

एवं सामान्येन ब्रह्मचारिधर्मान् अभिधाय, अधुना नैष्ठिकस्य विशेषम् आह ।

नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ । १.४९अब्
तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ॥ १.४९च्द् ॥
अनेन विधिना देहं साधयन् विजितेन्द्रियः । १.५०अब्
ब्रह्मलोकम् अवाप्नोति न चेह जायते पुनः ॥ १.५०च्द् ॥

उक्तेन प्रकारेणात्मानं निष्ठा उत्क्रान्तिकालं नयतीति नैष्टिकः, स यावज्जीवम् आचार्यसमीपे वसेत् । न वेदग्रहणोत्तरकालं स्वतन्त्रो भवेत् । तदभावे तत्पुत्रसमीपे तदभावे तद्भार्यासमीपे तदभावे वैश्वानरे ऽपि । अनेन उक्तविधिना देहं साधयन् क्षपयन् विजितेन्द्रिय इन्द्रियजये विशेषप्रयत्नवान् ब्रह्मचारी ब्रह्मलोकम् अमृतत्वम् आप्नोति । न कदाचिद् इह पुनर् जायते ॥ १.४९ ॥ १.५० ॥

**इति ब्रह्मचारिप्रकरणम् **

**अथ विवाहप्रकरणम् **

यः पुनर् वैवाह्यस् तस्य विवाहार्थं स्नानम् आह ।

**गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया । १.५१अब् **
वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा ॥ १.५१च्द् ॥

पूर्वोक्तेन न्यायेन वेदं मन्त्रब्राह्मणात्मकं व्रतानि ब्रह्मचारिधर्मान् अनुक्रान्तान् उभयं वा पारं नीत्वा समाप्य गुरवे पूर्वोक्ताय वरम् अभिलषितं यथाशक्ति दत्त्वा स्नायात् । अशक्तौ तदनुज्ञया अदत्तवरो ऽपि । एषां च पक्षाणां शक्तिकालाद्यपेक्षया व्यवस्था ॥ १.५१ ॥

स्नानानन्तरं किं कुर्याद् इत्य् अत आह ।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् । १.५२अब्
अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ॥ १.५२च्द् ॥

अविप्लुतब्रह्मचर्यो ऽस्खलितब्रह्मचर्यः । लक्षण्यां बाह्याभ्यन्तरलक्षणैर् युक्तां । बाह्यानि तनुलोमकेशदशनाम् इत्यादीनि (म्ध् ३.१०) मनुनोक्तानि । आभ्यन्तराणि “अष्टौ पिण्डान् कृत्वा” (आश्गृ १.५.५) इत्याद्याश्वलायनोक्तविधिना ज्ञातव्यानि । स्त्रियं नपुंसकत्वनिवृत्तये स्त्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा पुरुषान्तरापरिगृहीताम् । कान्तां कमनीयां वोदुर् मनोनयनानन्दकारिणीम्, “यस्यां मनश्चक्षुषोर् निर्बन्धस् तस्याम् ऋद्धिः” इत्य् आपस्तम्बस्मरणात् (आप्गृ १.३.२१; ब्गृ २.३.९) । एतच् च न्यूनाधिकाङ्गादिबाह्यदोषाभावे । असपिण्डां समान एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सह । एवं पितामहादिभिर् अपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिर् अपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिर् अपि एकशरीरावयवान्वयात् । तथा पितृव्यपितृष्वस्रादिभिर् अपि । तथा पत्या सह पत्न्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणाम् अपि परस्परम् एकशरीरारब्धैः सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दः तत्र तत्र साक्षात् परम्परया वा एकशरीरावयवान्वयो वेदितव्यः । यद्य् एवं मातामहादीनाम् अपि

दशाहं शावम् आशौचं सपिण्डेषु विधीयते । (म्ध् ५.५९)

इत्य् अविशेषेण प्राप्नोति । स्यात् एतद् यदि तत्र “प्रत्तानाम् इतरे कुर्युः” (वध् ४.१९) इत्यादिविशेषवचनं न स्यात् । अतश् च सपिण्डेषु यत्र विशेषवचनं नास्ति तत्र “दशाहं शावम् आशौचम्” इत्य् एतद् वचनम् अवतिष्टते । अवश्यं चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । “आत्मा हि यज्ञ आत्मनः” इत्यादिश्रुतेः, तथा “प्रजाम् अनु प्रजायसे” (तैत्ब् १.५.५.६) इति च, “स एवायं विरूढः प्रत्यक्षेणोपलभ्यते” (आप्ध् २.२४.२) इत्य् आपस्तम्बवचनाच् च । तथा गर्भोपनिषदि “एतत् षाट्कौशिकं शरीरं त्रीणि पितृतस् त्र्ịणि मातृतो ऽस्थिस्नायुमज्जानः पितृतस् त्वङ्मांसरुधिराणि मातृतः” इति तत्र तत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये (अङ्गीक्रियमाणे) मातृसंताने भ्रातृपितृव्यादिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहे ऽवयवशक्तिस् तत्र तत्रावगम्यमाना परित्यक्ता स्यात् । (सत्स्व्[^१] अवयवार्थेषु यो ऽन्यत्रार्थे प्रयुज्यते तत्रानन्यगतित्वेन समुदायः प्रसिद्धति ।) परम्परयैकशरीरावयवान्वयेन तु सापिण्ड्ये यथा नातिप्रसङ्गस् तथा वक्ष्यामः । यवीयसीं वयसा प्रमाणतश् च न्यूनां उद्वहेत् परिणयेत् स्वगृह्योक्तविधिना ॥ १.५२ ॥

विशेषान्तराण्य् आह ।

अरोगिणीं भातृमतीम् असमानार्षगोत्रजाम् । १.५३अब्

अरोगिणीम् अचिकित्सनीयव्याध्यनुपसृष्टाम् । भातृमतीं पुत्रिकाकरणशङ्कानिवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्षगोत्रजाम् ऋषेर् इदम् आर्षं नाम प्रवर इत्य् अर्थः । गोत्रं वंशपरम्पराप्रसिद्धम् । आर्षं च गोत्रं च आर्षगोत्रे । समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस् तस्माज् जाता समानार्षगोत्रजा न समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक् पृथक् पर्युदासनिमित्तम् । तेनासमानार्षजाम् असमानगोत्रजाम् इति । तथा च “असमानप्रवरैर् विवाहः” (ग्ध् ४.२) इति गौतमः । तथा ।

असपिण्डा च या मातुर् असपिण्डा च ỵआ पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ (म्ध् ३.५)

इति मनुः । तथा मातृगोत्राम् अप्य् अपरिणेयां केचिद् इच्छन्ति,

मातुलस्य सुताम् ऊढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥

इति प्रायश्चित्तस्मरणात् । अत्र च “असपिण्डाम्” इत्य् अनेन पितृष्वसृमातृष्वस्रादिदुहितृनिषेधः । तथा “असगोत्राम्” इत्य् अनेन असपिण्डाया अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा “असमानप्रवराम्” इत्य् अनेन अप्य् असपिण्डाया असगोत्राया अपि समानप्रवराया निषेधः । तथा च “असपिण्डाम्” इत्य् एतत् सार्ववर्णिकं, सर्वत्र सापिण्ड्यसद्भावात् । “असमानार्षगोत्रजाम्” इत्य् एतत् त्रैवर्णिकविषयम् । यद्य् अपि राजन्यविशां प्रातिस्विकगोत्राभावात् प्रवराभावस् तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ । तथा च “यजमानस्यार्षेयान् प्रवृणीत” इत्य् उक्त्वा, “पौरोहित्यान् राजन्यविशां प्रवृणीते” इत्य् आह आश्वलायनः (आश्श्र् १.३.१, ३) । सपिण्डासमानगोत्रासमानप्रवरासु भार्यात्वम् एव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्ने ऽपि दृष्टविरोध एव ॥

“असपिण्डाम्” इत्य् अत्रैकशरीरावयवान्वयद्वारेण साक्षात् परम्परया वा सापिण्ड्यम् उक्तं तच् च सर्वत्र सर्वस्य यथाकथंचिद् अनादौ संसारे संभवति इत्य् अतिप्रसङ्ग इत्य् अत आह ।

पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतः तथा ॥ १.५३च्द् ॥

मातृतो मातुः संताने पञ्चमाद् ऊर्ध्वं पितृतः पितुः संताने सप्तमाद् ऊर्ध्वं सापिण्ड्यं निवर्तत इति शेषः । अतश् चायं सपिण्डशब्दो ऽवयवशक्त्या सर्वत्र वर्तमानो ऽपि निर्मन्थ्यपङ्कजादिशब्दवन् नियतविषय एव । तथा च पित्रादयः षट् सपिण्डाः पुत्रादयश् च षड् आत्मा च सप्तमः संतानभेदे ऽपि यतः संतानभेदस् तम् आदाय गणयेद् यावत् सप्तम इति सर्वत्र योजनीयम् । तथा च मातरम् आरभ्य तत्पितृपितामहादिगणनायां पञ्चमसंतानवर्तिनी मातृतः पञ्चमीत्य् उपचर्यते । एवं पितरम् आरभ्य तत्पित्रादिगणनायां सप्तमपुर्षसंतानवर्तिनी पितृतः सप्तमीति । तथा च,

भगिन्योर् भगिनीभ्रात्रोर् भ्रातृपुत्रीपितृव्ययोः ।
विवाहे ऽव्यादिभूतत्वाच् छाखाभेदो ऽवगण्यते ॥

यद्य् अपि वसिष्ठेन उक्तं ।

पञ्चमीं सप्तमीं चैव मातृतः पितृतः तथा । इति ।
त्रीन् अतीत्य मातृतः पञ्चातीत्य च पितृतः ।

इति च पैठीनसिना, तद् अप्य् अर्वाङ् निषेधार्थं न पुनस् तत्प्राप्त्यर्थम् इति सर्वस्मृतीनाम् अविरोधः । एतच् च समानजातीये द्रष्टव्यम् । विजातीवे तु विशेषः । यथाह शङ्खः ।

यद्य् एकजाता बहवः पृथक्क्षेत्राः प्र्थग्जनाः ।
एकपिण्डाः पृथक्शौचाः पिण्डस् त्व् आवर्तते त्रिषु ॥

एकस्माद् ब्राह्मणादेर् जाताः एकजाताः । पृथक्क्षेत्राः भिन्नजातीयासु भिन्नासु स्त्रीषु जाताः । पृथग्जनाः समानजातीयासु भिन्नासु स्त्रीषु जातास् ते एकपिण्डाः किं तु पृथक्शौचाः । पृथक्शौचम् आशौचप्रकरणे वक्ष्यामः । पिण्डस् त्व् आवर्तते त्रिषु त्रिपुरुषम् एव सापिण्ड्यम् इति ॥ १.५३ ॥

दशपूरुषविख्याताच् छ्रोत्रियाणां महाकुलात् । १.५४अब्

पुरुषा एव पूरुषाः, दशभिः पुरुषैर् मातृतः पञ्चभिः पितृतः पञ्चभिर् विख्यातं यत्कुलं तस्मात् । श्रोत्रियाणाम् अधीतवेदानाम् । अध्ययनम् उपलक्षणं श्रुताध्ययनसंपन्नानाम् । महच् च तत् कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं, तस्मात् कन्यका आहर्तव्येति नियम्यते ॥

एवं सर्वतः प्राप्तौ सत्याम्, अपवादम् आह-

स्फीताद् अपि न संचारिरोगदोषसमन्वितात् ॥ १.५४च्द् ॥

संचारिणो रोगाः श्वित्रकुष्टापस्मारप्रभृतयः शुक्रशोणितद्वारेणानुप्रविशन्तो दोषाḩ । पुनः हीनक्रियनिःपौरुषत्वादयो मनुनोक्ताः (म्ध् ३.७) । एतैः समन्वितात् स्फीताद् अपि पूर्वोक्तान् महाकुलाद् अपि नाहर्तव्या ॥ १.५४ ॥

एवं कन्याग्रहणनियमम् उक्त्वा, कन्यादाने वरनियमम् आह ।

एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः । १.५५अब्
यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥ १.५५च्द् ॥

एतैर् एव पूर्वोक्तैर् गुणैर् युक्तो दोषैश् च वर्जितो वरो भवति । तस्यायम् अपरो विशेषः । सवर्ण उत्कृष्टो वा न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यत्नात् प्रयत्नेन पुंस्त्वे परीक्षितः । परीक्षोपायश् च नारदेन दर्शितः ।

यस्याप्सु प्लवते बीजं ह्लादि मूत्रं च फेनिलम् ।
पुमान् स्याल् लक्षणैः एतैर् विपरीतैस् तु षण्डकः ॥ [^२] इति । (च्फ़्। न्स्म् १२.१०)

युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः स्मितपूर्वमृद्वभिभाषणादिभिर् अनुत्तरक्तजनः ॥ १.५५ ॥

रतिपुत्रधर्मार्थत्वेन विवाहस् त्रिविधः । तत्र पुत्रार्थो द्विविधः नित्यः काम्यश् च । तत्र नित्ये प्रजार्थे “सवर्णः श्रोत्रियो वरः” इत्य् अनेन सवर्णा मुख्या दर्शिता । इदनीं काम्ये नित्यसंयोगे चानुकल्पो वक्तव्य इत्य् अत आह ।

यद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः । १.५६अब्
नैतन् मम मतं यस्मात् तत्रायं जायते स्वयम् ॥ १.५६च्द्

यद् उच्यते ।

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥ (म्ध् ३.१२)

इत्य् उपक्रम्य ।

ब्राह्मणस्य चतस्रो भार्याः क्षत्रियस्य तिस्रो वैश्यस्य द्वे इति (म्ध् ३.१३) द्विजातीनां शूद्रावेदनम् इति, न एतद् याज्ञवल्क्यस्य मतम् । यस्माद् अयं द्विजातिस् तत्र स्वयं जायते, “तज् जाया जाया भवति यद् अस्यां जायते पुनः” (ऐत्ब् ७.१३) इति श्रुतेः । अत्र च तत्रायं जायते स्वयम् इति हेतुं वदता नैत्यकपुत्रोत्पादनाय काम्यपुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयननिषेधं कुर्वता नैत्यकपुत्रोत्पादनानुकल्पे काम्ये च पुत्रोपादने ब्राह्मणस्य क्षत्रियावैश्ये क्षत्रियस्य च वैश्या भार्यानुज्ञाता भवति ॥ १.५६ ॥

इदानीं रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रमान्तरानधिकारिणो गृहस्थाश्रमावस्थामात्राभिकाङ्क्षिणः परिणयनक्रमम् आह ।

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । १.५७अब्
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ १.५७च्द् ॥

वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः, क्षत्रियस्य द्वे, वैश्यस्य एका, शूद्रस्य तु स्वा एव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या अभावे उत्तरोत्तरा भवति । अयम् एव च क्रमो नैत्यकानुकल्पे काम्य च पुत्रोत्पादनविधौ । अतश् च यच् छूद्रापुत्रस्य पुत्रमध्ये परिगणनं विभागसंकीर्तनं च, तथा “विप्रान् मूर्धावसिक्तो हि” (य्ध् १.९१) इत्य् उपक्रम्य, “विन्नास्व् एष विधिः स्मृतः” (य्ध् १.९२) इति च तद् रतिकामस्याश्रममात्राभिकाङ्क्षिणो वा नान्तरीयकतयोत्पन्नस्य ॥ १.५७ ॥

विवाहान् आह ।

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । १.५८अब्
तज्जः पुनात्य् उभयतः पुरुषान् एकविंशतिम् ॥ १.५८च्द् ॥

स ब्रह्मभिधानो विवाहः यस्मिन्न् उक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन् दश पुत्रादींश् च दश आत्मानं चैकविंशं पुनाति सद्वृत्तश् चेत् ॥ १.५८ ॥

दैवार्षविवाहौ ।

यज्ञस्थऋत्विजे दैव आदायार्षस् तु गोद्वयम् । १.५९अब्
चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट् ॥ १.५९च्द् ॥

स दैवो विवाहो यस्मिन् यज्ञानुष्ठाने वितते ऋत्विजे शक्त्यालंकृता कन्या दीयते । यत्र पुनर् गोमिथुनम् आदाय कन्या दीयते स आर्षः । प्रथमजो दैवविवाहजश् चतुर्दश पुनाति सप्तावरान् सप्तपरान् । उत्तरज आर्षविवाहजः षट् पुनाति त्रीन् पूर्वान् त्रीन् परान् ॥ १.५९ ॥

प्राजापत्यविवाकलक्षणम् ।

इत्य् उक्त्वा चरतां धर्मं सह या दीयते ऽर्थिने । १.६०अब्
स कायः पावयेत् तज्जः षट् षड् वंस्यान् सहात्मना ॥ १.६०च्द् ॥


सह धर्मं चरताम् इति परिभाष्य कन्यादानं स प्राजापत्यः । “तज्जः षट् पूर्वान् षट् परान् आत्मना सह” इत्य् एवं त्रयोदश पुनाति ॥ १.६० ॥

आसुरगान्धर्वादिविवाहलक्षणानि ।

आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः ।१.६१अब्
राक्षसो युद्धहरणात् पैसाचः कन्यकाछलात् ॥ १.६१च्द् ॥

आसुरः पुनर् द्रविणादानात् । गान्धरवस् तु परस्परानुरागेण भवति । राक्षसो युद्धेनापहरणात् । पैशाचस् तु कन्यकाछलात् छलेन छद्मना स्वापाद्यवस्थास्व् अपहरणात् ॥ १.६१ ॥

सवर्णादिपरिणयेन विशेषम् आह ।

पाणिर् ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् । १.६२अब्
वैश्या प्रतोदम् आदद्याद् वेदने त्व् अग्रजन्मनः ॥ १.६२च्द् ॥

सवर्णासु विवाहे स्वगृह्योक्तविधिना पाणिर् एव ग्राह्यः । क्षत्रियकन्या तु शरं गृणीयात् । वैश्या प्रतोदम् आदद्यात् । उत्कृष्टवेदने शुद्रा पुनर् वसनस्य दशाम् । यथाह मनुः ।

वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने इति ॥ (म्ध् ३.४४) ॥ १.६२ ॥

कन्यादातृक्रमम् आह ।

पिता पितमहो भ्राता सकुल्यो जननी तथा । १.६३अब्
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ १.६३च्द् ॥
अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ । १.६४अब्
गम्यं त्व् अभावे दातॄणां कन्या कुर्यात् स्वयंवरम् ॥ १.६४च्द् ॥

एतेषां पित्रादीनां पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश् चेत्, यद्य् उन्मादादिदोषवान् न भवति । अतो यस्याधिकारः सो ऽप्रयच्छन् भ्रूणहत्याम् ऋताव् ऋताव् आप्नोति । एतच् चोक्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर् दातॄणाम् अभावस् तदा कन्यैव गम्यं गमनार्हम् उक्तलक्षणं वरं स्वयम् एव वरयेत् ॥ १.६३ ॥ १.६४ ॥

कन्याहरणे दण्डः ।

**सकृत् प्रदीयते कन्या हरंस् तां चौरदण्डभाक् । १.६५अब् **

सकृद् एव कन्या प्रदीयते इति शास्त्रनियमः । अतस् तां दत्त्वा अपहरन् कन्यां चौरवद् दण्ड्यः ।

एवं सर्वत्र प्रतिषेधे प्राप्ते ऽपवादम् आह ।

दत्ताम् अपि हरेत् पूर्वाच् छ्रेयांश् चेद् वर आव्रजेत् ॥ १.६५च्द् ॥

यदि पूर्वस्माद् वराच् छ्रेयान् विद्याभिजनाद्यतिशययुक्तो वर आगच्छति पूर्वस्य च पातकयोगो दुर्वृत्तत्वं वा तदा दत्ताम् अपि हरेत् । एतच् च सप्तमपदात् प्राग् द्रष्टव्यम् ॥ १.६५ ॥

अनाख्याय ददद् दोषं दण्ड्य उत्तमसाहसम् । १.६६अब्
अदुष्टां तु त्यजन् दण्ड्यो दूषयंस् तु मृषा शतम् ॥ १.६६च्द् ॥

यः पुनश् चक्षुर्ग्राह्यं दोषम् अनाख्याय कन्यां प्रयच्छति, असाव् उत्तमसाहसं दण्ड्यः । उत्तमसाहसं च वक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजन्न् उत्तमसाहसम् एव दण्ड्यः । यः पुनर् विवाहात् प्राग् एव द्वेषादिना असद्भिर् दोषैर् दीर्घरोगादिभिः कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ १.६६ ॥

“अनन्यपूर्विकाम्” इत्य् अत्रानन्यपूर्वा परिणेयोक्ता, तत्रान्यपूर्वा कीदृशीत्य् आह ।

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । १.६७अब्
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ १.६७च्द् ॥

अन्यपूर्वा द्विविधा पुनर्भूः स्वैरिणी चेति । पुनर्भूर् अपि द्विविधा क्षता चाक्षता च । तत्र क्षता संस्कारात् प्राग् एव पुरुषसंबन्धदूषिता । अक्षता पुनः संस्कारदूषिता । या पुनः कौमारे पतिं त्यक्त्वा कामतः सवर्णम् आश्रयति सा स्वैरिणीति ॥ १.६७ ॥

एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्राप्ते विशेषम् आह ।

आपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । १.६८अब्
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥ १.६८च्द् ॥
आ गर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत् । १.६९अब्
अनेन विधिना जातः क्षेत्रजो ऽस्य भवेत् सुतः ॥ १.६९च्द् ॥

अपुत्राम् अलब्धपुत्रां पित्रादिभिः पुत्रार्थम् अनुज्ञातो देवरो भर्तुः कनीयान् भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रः वा । एतेषां पूर्वस्याभावे परः परः घृताभ्यक्तसर्वाङ्गः ऋताव् एव वक्ष्यमाणलक्षणे इयाद् गच्छेद् आ गर्भोत्पत्तेः । ऊर्ध्वं पुनर् गच्छन् अन्येन वा प्रकारेण तदा पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः क्षेत्रजः पुत्रो भवेत् । एतच् च वाग्दत्ताविषयम् इत्य् आचार्याः,

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥ (म्ध् ९.६९)

इति मनुस्मरणात् ॥ १.६८ ॥ १.६९ ॥

व्यभिचारिणीं प्रत्य् आह ।

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । १.७०अब्
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥ १.७०च्द् ॥

या व्यभिचरति तां हृताधिकारां भृत्यभरणाद्यधिकाररहितां । मलिनां अञ्जनाभ्यञ्जनशुभ्रवस्त्राभरणशून्यां । पिण्डमात्रोपजीविनीं प्राणयात्रामात्रभोजनां । धिक्कारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्य् एव वासयेत् । वैराग्यजननार्थं न पुनः शुद्ध्यर्थम्,

यत् पुंसः परदारेषु तच् चैनां चारयेत् व्रतम् । (म्ध् ११.१७६)

इति पृथक्प्रायश्चित्तोपदेशात् ॥ १.७० ॥

तस्या अल्पप्रायश्चित्तार्थम् अर्थवादम् आह ।

सोमः शौचं ददव् आसां गन्धर्वश् च शुभां गिरम् । १.७१अब्
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥ १.७१च्द् ॥

परिणयनात् पूर्वं सोमगन्धर्ववह्नयः स्त्रीर् भुक्त्वा यथाक्रमं तासां शौचमधुरवचनसर्वमेध्यत्वानि दत्तवन्तः । तस्मात् स्त्रियः सर्वत्र स्पर्शालिङ्गनादिषु मेध्याः शुद्धाः स्म्ŗताः ॥ १.७१ ॥

न च तस्यास् तर्हि दोषो नास्तीत्य् आशङ्कनीयम् इत्य् आह ।

व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते । १.७२अब्
गर्भभर्तृवधादौ च तथा महति पातके ॥ १.७२च्द् ॥

अप्रकाशितान् मनोव्यभिचारात् पुरुषान्तरसंभोगसंकल्पाद् यद् अपुण्यं तस्य ऋतौ रजोदर्शने शुद्धिः । शूद्रकृते तु गर्भे त्यागः,

ब्राह्मणक्षत्रियविशां भार्याः शुद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ (म्ध् ९.१५५)

इति स्मरणात् । तथा गर्भवधे भर्तृवहे महापातके च ब्रह्महत्यादौ, आदिग्रहणाच् छिष्यादिगमने च त्यागः,

चतस्रस् तु परित्यज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥

इति व्यासस्मरणात् । जुङ्गितः प्रतिलोमजश् चर्मकारादिः । त्यागश् चोपभोगधर्मकार्ययोः न तु निष्कासनं गृहात् तस्याः, “निरुन्ध्याद् एकवेश्मनि” (म्ध् ११.१७६) इति नियमात् ।! १.७२ ॥

द्वितीयपरिणयने हेतून् आह ।

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा । १.७३अब्
स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ १.७३च्द् ॥

सुरां पिबतीति सुरापी शुद्रापि,

पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । (वध् २१.१५)

इति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगग्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थघ्न्य् अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषिणी । स्त्रीप्रसूः स्त्रीजननी । पुरुषद्वेषणी सर्वत्राहितकारणी । अधिवेत्तव्येति प्रत्येकम् अभिसंबध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ १.७३ ॥

किं च ।

**अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् । १.७४अब् **
यत्रानुकूल्यं दंपत्योस् त्रिवर्गस् तत्र वर्धते ॥ १.७४च्द् ॥

सा अधिविन्ना पूर्ववद् एव दानमानसत्कारैः भर्तव्या । अन्यथाभरणे महद् अपुण्यं वक्षमाणो दण्डश् च । न च भरणे सति केवलम् अपुण्यपरिहारः । यतः यत्र दंपत्योर् आनुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनम् अभिवृद्धिश् च ॥ १.७४ ॥

स्त्रियं प्रत्य् आह ।

मृते जीवति वा पत्यौ या नान्यम् उपगच्छति । १.७५अब्
सेह कीर्तिम् अवाप्नोति मोदते चोमया सह ॥ १.७५च्द् ॥

भर्तरि जीवति मृते वा या चापल्याद् अन्यं पुरुषं नोपगच्छति सेह लोके विपुलां कीर्तिम् अवाप्नोति । उमया च सह क्रीडति पुण्यप्रभावात् ॥ १.७५ ॥

अधिवेदनकारणाभावे अधिवेत्तारं प्रत्य् आह ।

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । १.७६अब्
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥ १.७६च्द् ॥

आज्ञासंपादिनीम् आदेशकारिणीम्, दक्षां शीघ्रकारिणीम्, वीरसूं पुत्रवतीम्, प्रियवादिनीं मधुरभाषिणीं यस् त्यजत्य् अधिविन्दति स राज्ञा स्वधनस्य तृतीयांशं दाप्यः । निर्धनस् तु भरणं ग्रासाच्चादनादि दाप्यः ॥ १.७६ ॥

स्त्रीधर्मान् आह ।

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ॥ १.७७अब्
आ शुद्धेः संप्रदीक्ष्यो हि महापातकदूषितः ॥ १.७७च्द् ॥

स्त्रीभिः सदा भर्तृवचनं कार्यम् । यस्माद् अयम् एव पर उत्कृष्टो धर्मः स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस् तदा आ शुद्धेः संप्रतीक्ष्यः । न तत्पारतन्त्र्यम् । उत्तरकालं तु पूर्ववद् एव तत्पारतन्त्र्यम् ॥ १.७७ ॥

शास्त्रीयदारसंग्रहस्य फलम् आह ।

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । १.७८अब्
यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याश् च सुरक्षिताः ॥ १.७८च्द् ॥

लोके आनन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश् च दारसंग्रहस्य प्रयोजनम् । कथम् इत्य् आह । पुत्रपौत्रप्रपौत्रकैः लोकानन्त्यम् अग्निहोत्रादिभिश् च स्वर्गप्राप्तिर् इत्य् अन्वयः । यस्मात् स्त्रीभ्य एतद् द्वयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षितव्याश् च धर्मर्थम् । तथा च अपस्तम्बेन धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योक्तं “धर्मप्रजासंपन्नेषु दारेषु नान्यां कुर्वीत” (आप्ध् २.११.१२) इति वदता । रतिफलं तु लौकिकम् एव ॥ १.७८ ॥

पुत्रोत्पत्त्यर्थं स्त्रियः सेव्या इत्य् उक्तम् । तत्र विशेषणम् आह ।

षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । १.७९अब्
ब्रह्मचार्य् एव पर्वाण्य् आद्याः चतस्रस् तु वर्जयेत् ॥ १.७९च्द् ॥

स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । स च रजोदर्शनदिवसाद् आरभ्य षोडशाहोरात्रः । तस्मिन् ऋतौ युज्मासु समासु रात्रिषु, रात्रिग्रहणाद् दिवसप्रतिषेधः, संविशेद् गच्छेत् पुत्रार्थम् । युग्मास्व् इति बहुवचनं समुच्चयार्थम् । अतश् चैकस्मिन्न् अपि ऋतौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एवं गच्छन् ब्रह्मचार्य् एव भवति । अतो यत्र ब्रह्मचर्यं श्राद्धादौ चोदितं तत्र गच्छतो ऽपि न ब्रह्मचर्यस्खलनदोषो ऽस्ति । किंच पर्वाण्य् आद्याश् चतस्रस् तु वर्जयेत् । पर्वाणीति बहुवचनाद् आद्यार्थावगमाद् अष्टमीचतुर्दश्योर् ग्रहणम् । यथाह मनुः ।

अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीं ।
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ इति । (म्ध् ४.१५५)

अतो ऽमावास्यादीनि रजोदर्शनाद् आरभ्य चतस्रो रात्रीश् च वर्जयेत् ॥ १। ७९ ॥

किं च ।

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । १.८०अब्
सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥ १.८०च्द् ॥

एवम् उक्तेन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मिन् कले रजस्वलाव्रतेनैव भवति । अथ चेन् न भवति तदा कर्तव्या क्षामता पुत्रोत्पत्त्यर्थम् अल्पास्निग्धभोजनादिना,

पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियः । (म्ध् ३.४९)

इति वचनात् । यदा युग्मायाम् अपि रात्रौ शोणिताधिक्यं तदा स्त्र्य् एव भवति पुरुषाकृतिः । अयुग्मायाम् अपि शुक्राधिक्ये पुमन् एव भवति स्त्र्याकृतिः । कालस्य निमित्तत्वात् । शुक्रशोणितयोश् चोपादानकारणत्वेण प्राबल्यात् । तस्मात् क्षामा कर्तव्या । मघामूलनक्षत्रे वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात् पुंनक्षत्रशुभयोगलग्नादिसंपत्तौ सकृद् एकस्यां रात्रौ न द्विस् त्रिर् वा । ततो लक्षणैर् युक्तं पुत्रं जनयति । पुमान् अप्रतिहतपुंस्त्वः ॥ १.८० ॥

एवम् ऋतौ नियमम् उक्त्वा इदानीम् अनृतौ नियमम् आह ।

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् । १.८१अब्
स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८१च्द् ॥

भार्याया इच्छानतिक्रमेण प्रवृत्तिर् अस्यास्तीति यथाकामी भवेत् । वाशब्दो नियमान्तरपरिग्रहार्थो न पूर्वनियमनिवृत्त्यर्थः । स्त्रीणां वरम् इन्द्रदत्तम् अनुस्मरन्- “भवतीनां कामविहन्ता पातकी स्यात्” इति, यथा “ता अब्रुवन् वरं वृणीमहा ऋत्वियाप्रजां विन्दामहै कामम् आविजनितोः संभवाम इति तस्माद् ऋत्वियाः स्त्रियः प्रजां विन्दन्ते कामम् आ विजनतोः संभवन्ति वारे वृतं ह्य् आसाम्” इति (च्फ़्। वध् ५.८) । अपि च स्वदारेष्व् एव निरतः नितरां रतस् तन्मनस्कः, “भवेत्” इत्य् अनुषज्यते । एवकारेण स्त्र्यन्तरगमनं निवर्तयति प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनम् आह “स्त्रियो रक्ष्या यतः स्मृताः” इति । यस्मात् स्त्रियो रक्ष्याः स्मृता उक्ताः “कर्तव्याश् च सुरक्षिताः” (य्ध् १.७८) इति । तच् च[^३] सुरक्षितत्वं यथाकामित्वेन स्त्र्यन्तरागमनेन च भवतीति । अत्राह “तस्मिन् युग्मासु संविशेद्” (य्ध् १.७९) इति । किम् अयं विधिर् नियमः परिसंख्या वा । उच्यते । न तावद् विधिः प्राप्तार्थत्वात् । नापि परिसंख्या दोषत्रयसमासक्तेः । अतो नियमं प्रतिपेदिरे न्यायविदः । कः पुनर् एषां भेदः । अत्यन्ताप्राप्तप्रापणं विधिः, यथा “अग्निहोत्रं जुहुयात्,” “अष्टकाः कर्तव्याः” इति । पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः, यथा “समे देशे यजेत,” “दर्शपूर्णमासाभ्यां यजेत” इति यागः कर्तव्यतया विहितः । स च देशम् अन्तरेण कर्तुम् अशक्य इत्य् अर्थाद् देशः प्राप्तः । स च समो विषमश् चेति द्विविधः[^४] । यदा यजमानः समे यियक्षते तदा “समे यजेत” इति वचनम् उदास्ते, स्वार्थस्य प्राप्तत्वात् । यदा तु विषमे देशे यियक्षते तदा “समे यजेत” इति स्वार्थं विधत्ते, स्वार्थस्य तदानीम् अप्राप्तत्वात् । विषमदेशनिवृत्तिस् त्व् आर्थिकी । चोदितदेशेनैव यागनिष्पत्तेर्, अचोदितदेशोपादानेन यथाशास्त्रं यागो नानुष्ठितः स्याद् इति । तथा “प्राङ्मुखो ऽन्नानि भुञ्जीत” इति । इदम् अपि स्मार्तम् उदाहरणं पूर्वेण व्याख्यातम् । एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थम् एकत्र पुनर्वचनं परिसंख्या । तद् यथा “इमाम् अगृभ्णन् रशनामृतस्येत्य् अश्वाभिधानीम् आदत्ते” इत्य् अयं मन्त्रः स्वसामर्थ्याद् अश्वाभिधान्याः गर्दभाभिधान्याश् च रशनाया ग्रहणे विनियुक्तः, पुनर् अश्वाभिधानीम् आदत्त इत्य् अनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्याः निवर्तते । यथा “पञ्च पञ्चनखा भक्ष्याः” इत्य् अत्र हि यदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तं पुनः शशादिषु श्रूयमाणं श्वादिभ्यो[^५] निवर्तत इति । किं पुनर् अत्र युक्तम् । परिसंख्येत्य् आह । तथा हि कृतदारसंग्रहस्य स्वेच्छयैवर्तौ गमनं प्राप्तम् इति न विधेर् अयं विषयः । नापि नियमस्य, गृह्यस्मृतिविरोधात् । एवं हि स्मरन्ति गृह्यकाराः- “दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्” इति । तत्र द्वादशरात्रात् संवत्सराद् वा पूर्वम् एवर्तुसंभवे ऋतौ गच्छेद् एवेति नियमाद् ब्रह्मचर्यस्मरणं बाध्येत । अपि च प्राप्ते भावार्थे वचनं विशेषणपरं युक्तं, प्राप्तं चर्तौ भार्यागमनम् इच्छयैव, अतो यदि गच्छेद् ऋताव् एवेति वचनव्यक्तिर् युक्ता । किं च नैयमिकात् पुत्रोत्पत्तिविधेर् एव ऋतौ गमनं नित्यप्राप्तम् एवेति ऋतौ गच्छेद् एवेति नियमो ऽनर्थकः स्यात् । नियमे चादृष्टं कल्पनीयम् । किं च ऋतौ गन्तव्यम् एवेति नियमे असन्निहितस्य व्याध्यादिना असमर्थस्यानिच्छोश् चाशक्यो ऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश् च नियमे । तथा हि एकः शब्दः सकृद् उच्चरितस् तम् एवार्थं पक्षे ऽनुवदति पक्षे तु विधत्ते चेति । तस्माद् ऋताव् एव गच्छेन् नान्यत्रेति परिसंख्यैव युक्ता । तद् इदं भारुचिविश्वरूपादयो नानुमन्यन्ते । अतो नियम एव युक्तः, पक्षे स्वार्थविधिसंभवात्, अगमने दोषश्रवणाच् च ।

ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ इति । (प्स्म् ४.१५)

न च विध्यनुवादविरोधः, अनुवादाभावाद् विध्यर्थत्वाच् च वचनस्य । तत्र हि विध्यनुवादविरोधो यत्र विधेयावधितया तद् एवानुवदितव्यं, अप्राप्ततयान्योद्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे “वाजपेयेन स्वाराज्यकामो यजेत” इति वाजपेयलक्षणगुणविधानावधित्वेन यागो ऽनुवदितव्यः, स एव स्वाराज्यलक्षणफलोद्देशेन विधातव्यश् चेति । न चानुवादेनेह कृत्यम् अस्ति । यद् तु नियमे ऽदृष्टम् कल्प्यम् इत्य् उक्तं तत् परिसंख्यायाम् अपि समानम् । अनृतौ गच्छतो दोषकल्पनात् । यत् तु नैयमिकपुत्रोत्पादनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्ते न नियम इति । तद् असत् । स एवायं नैयमिकपुत्रोत्पादनविधिः । स्यान् मतम् “एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेत्” (च्फ़्। य्ध् १.८०) इति स्त्र्यभिगमनातिरिक्तः पुत्रोत्पादनविधिर् इति । तन् न । गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं गच्छन् लक्षण्यं पुत्रं जनयेद् इत्य् अनेन यथाग्निहोत्रं जुह्वन् स्वर्गं भावयेद् इति । न चासंनिहितादेर् अशक्यार्थविधिप्रसङ्गः । सन्निहितशक्तयोर् एवोपदेशात् ।

ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । (प्स्म् ४.१५)
यः स्वदारान् ऋतुस्नातान् स्वस्थः सन् नोपगच्छति ।

इति विशेषोपादानात् । अनिच्छनिवृत्तिस् तु नियमविधानाद् एव । न च विशेषणपरतापि, पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संवत्सरात् पूर्वम् एवर्तुदर्शने संविशतो न ब्रह्मचर्यस्खलनदोषो यथा श्रद्धादिषु । तस्मात् स्वार्थहानिपरार्थकल्पनाप्राप्तबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं “पञ्च पञ्चनखा भक्ष्याः” इत्य् अत्र यद्य् अपि शशादिषु भक्षणस्य पक्षे प्राप्तेर् नियमः शशादिषु श्वादिषु च प्राप्तेः परिसंख्येत्य् उभयसंभवस् तथापि नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन प्रायश्चित्तस्मृतिविरोध इति परिसंख्यैवाश्रिता । एतेन

सायंप्रातर् द्विजातीनाम् अशनं स्मृतिनोदितम् ।

इत्य् अत्रापि नियमो व्याख्यातः । “नान्तरा भोजनं कुर्यात्” इति च पुनरुक्तं स्यात् परिसंख्यायाम् । एवं च नियमे सति ऋताव् ŗताव् इति वीप्सा लभ्यते, “निमित्तावृत्तौ नैमित्तिकम् अप्य् आवर्तते” इति न्यायात् । “यथाकामी भवेत्” इत्य् अयम् अपि नियम एव । अनृताव् अपि स्त्रीकामनायां सत्यां स्त्रियम् अभिरमयेद् एवेति । “ऋताव् उपेयात् सर्वत्र वा प्रतिषिद्धवर्जम्” (ग्ध् ५.१–२) इति एतद् अपि गौतमीयं सूत्रद्वयं नियमपरम् एव । ऋताव् उपेयाद् अनृताव् अपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जम् उपेयाद् एवेत्य् अलम् अतिप्रसङ्गेन ॥ १.८१ ॥

किं च ।

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः । १.८२अब्
बन्धुभिश् च स्त्रियः पूज्याः भूषणाच्छादनाशनैः ॥ १.८२च्द् ॥

भर्तृप्रभृतिभिः पूर्वोक्ताः साध्व्यः स्त्रियः यथाशक्त्यलंकारवसनभोजनपुष्पादिभिः संमाननीयाः । यस्मात् ताः पूजिता धर्मार्थकामान् संवर्धयन्ति ॥ १.८२ ॥

तया पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यम् इत्य् अत आह ।

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । १.८३अब्
कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥ १.८३च्द् ॥

संयतः स्वस्थाननिवेशित उपस्करो गृहोपकरणवर्गो यथा सा तथोक्ता । यथोलूखलमुसलशूर्पादेः कण्डनस्थाने, दृषदुपलयोर् अवियोगेन पेषणस्थान इत्यादि । दक्षा गृहव्यापारकुशला । हृष्टा सदैव प्रहसितानना । व्ययपराङ्मुखी न व्ययशीला । स्याद् इति सर्वत्र शेषः । किं च । श्वश्रूश् च श्वशुरश् च श्वशुरौ । “श्वशुरः श्वश्र्वा” (पाण् १.२.७१) इत्य् एकशेषः । तयोः पादवन्दनं नित्यं कुर्यात् । श्वशुरग्रहणं मान्यान्तरोपलक्षणार्थं भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ॥ १.८३ ॥

भर्तृसन्निधाव् उक्तम्, प्रोषिते भर्तरि तया किं कर्तव्यम् इत्य् अत आह ।

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । १.८४अब्
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥ १.८४च्द् ॥

देशान्तरगतभर्तृका क्रीडां कन्दुकादिभिः, शरीरसंस्कारम् उद्वर्तनादिभिः, समाजो जनसमूहः, उत्सवो विवाहादिः, तयोः दर्शनम्, हास्यं विजृम्भणम्, परगृहे गमनम् । त्यजेद् इति प्रत्येकं संबध्यते ॥ १.८४ ॥

किं च ।

रक्षेत् कन्यां पित विन्नां पतिः पुत्राश् च वार्धके । १.८५अब्
**अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ १.८५च्द् ॥ **

पाणिग्रहणात् प्राक् पिता कन्याम् अकार्यकरणाद् रक्षेत् । तत ऊर्ध्वं भर्ता । तदभावे पुत्राः वृद्धभावे । तेषाम् उक्तानाम् अभावे ज्ञातयः । ज्ञातीनाम् अभावे रजा, “पक्षद्वयावसाने तु रजा भर्ता प्रभुः स्त्रियाः” इति वचनात् । अतः क्वचिद् अपि स्त्रीणां नैव स्वातन्त्र्यम् ॥ १.८५ ॥

किं च ।

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः । १.८६अब्
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ १.८६च्द् ॥

भर्त्रा विना भर्तृरहिता पित्रादिरहिता वा न स्यात् । यस्मात् तद्रहिता गर्हणीया निन्द्या भवेत् । एतच् च ब्रह्मचर्यपक्षे । “भर्तरि प्रेते ब्रह्मचर्यं तदन्वारोहणं वा” (विध् २५.१४) इति विष्णुस्मरणात् । अन्वारोहणे महान् अभ्युदयः । तथा च व्यासः कपोतिकाख्यानव्याजेन दर्शितवान् ।

पतिव्रता संप्रदीप्तं प्रविवेशः हुताशनम् ।
तत्र चित्राङ्गदधरं भर्तारं सान्वपद्यत ॥
ततः स्वर्गं गतः पक्षी भार्यया सह संगतः ।
कर्मणा पूजितस् तत्र रेमे च सह भार्यया ॥ इति । (म्भ् १२.१४४.९, १२)

तथा च शङ्खाङ्गिरसौ ।

तिस्रः कोट्यो ऽर्धकोटी च यानि लोमानि मानुषे ।
तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥

इति प्रतिपाद्य तयोर् अवियोगं दर्शयतः ।

व्यालग्राही यथा सर्पं बलाद् उद्धरते बिलात् ।
तद्वद् उद्धृत्य सा नारी सह तनैव मोदते ॥
तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः ।
क्रीडते पतिना सार्धं यावद् इन्द्राश् चतुर्दश ॥ इति ।

तथा ।

ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वा भवेत् पतिः ।
पुनात्य् अविधवा नारी तम् आदाय मृता तु या ॥
मृते भर्तरि या नारी समारोहेद् धुताशनं ।
सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥
यावच् चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् ।
तावन् न मुच्यते सा हि स्त्रीशरीरात् कथंचन ॥ इति ।

हारीतो ऽपि ।

मातृकं पैतृकं चापि यत्र चैव प्रदीयते ।
कुलत्रयं पुनात्य् एषा भर्तारं यानुगच्छति ॥ इति ।

तथा ।

आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता । इति ।

अयं च सकल एव सर्वासां स्त्रीणाम् अगर्भिणीनाम् अबालापत्यानाम् आचण्ḑआलं साधारणो धर्मः, भर्तारं यानुगच्छतीत्य् अविशेषोपादानात् । यानि च ब्रह्मण्यनुगमननिषेधपराणि वाक्यानि ।

मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् ।
इतरेषु तु वर्णेषु तपः परमम् उच्यते ॥
जीवन्ती तद्धितं कुर्यान् मरणाद् आत्मघातिनी ।
या स्त्री ब्राह्मणजातीया म्ŗतं पतिम् अनुव्रजेत् ॥
सा स्वर्गम् आत्मघातेन नात्मानं न पतिं नयेत् ॥

इत्येवमादीनि तानि पृथक्चित्यधिरोहणविषयाणि ।

पृथक्चितिं समारुह्य न विप्रा गन्तुम् अर्हति ।

इति विशेषस्मरणात् । अनेन क्षत्रियादिस्त्रीणां प्ŗथक्चित्यभ्यनुज्ञा गम्यते । यत् तु कैश् चिद् उक्तं पुरुषाणाम् इव स्त्रीणाम् अप्य् आत्महननस्य प्रतिषिद्धत्वाद् अतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्त्रम् अतिक्रामन्त्या अयम् अनुगमनोपदेशः श्येनवत् । यथा “श्येनेनाभिचरन् यजेत” इति तीव्रक्रोधाक्रान्तस्वान्तस्य प्रतिषेधशास्त्रम् अतिक्रामतः श्येनोपदेश इति । तद् अयुक्तम् । ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पर्शाभावेन प्रतिषेधसंस्पर्शात् फलद्वारेण श्येनस्यानर्थतां वर्णयन्ति तेषां मते हिंसाया एव स्वर्गार्थतया अनुगमनन्शास्त्रेण विधीयमानत्वाप्रतिषेधसंस्पर्शाभावाद् अग्नीषोमीयवत् स्पष्टम् एवानुगमनस्य श्येनवैषम्यम् । यत् तु मतं हिंसानां मरणानुकूलो व्यापारः, श्येनश् च परमरणानुकूलव्यापाररूपत्वाद् धिंसैव, कामाधिकारे च करणांशे रागतः प्रवृत्तिसंभवेन विधेर् अप्रवर्तकत्वात् । रागप्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्धः स्वरूपेणैवानर्थकर इति, तत्राप्य् अनुगमनशास्त्रेण मरणस्यैव स्वर्गसाधनतया विधानान् मरणे यद्य् अपि रागतः प्रवृत्तिस् तथापि मरणानुकूले व्यापारे ऽग्निप्रवेशादाव् इतिकर्तव्यतारूपे विधित एव प्रवृत्तिर् इति न निषेधस्यावकाशः “वायव्यं श्वेतम् आलभेत भूतिकामः” इतिवत् । तस्मात् स्पष्टम् एवानुगमनस्य श्येनवैषम्यम् । यत् तु “तस्माद् उ ह न पुरायुषः स्वःकामी प्रेयात्” इति श्रुतिविरोधाद् अनुगमनम् अयुक्तम् इति । यच् च “तद् उ ह न स्वःकाम्य् आयुषः प्राङ् न प्रेयात्” इति स्वर्गफलोद्देशेनायुषः प्राग् आयुर् व्ययो न कर्तव्यो मोक्षार्थिना, यस्माद् आयुषः शेषे सति नित्यनैमित्तिककर्मानुष्ठानक्षपितान्तःकरणकलङ्कस्य श्रवणमनननिदिध्यासनसंपत्तौ सत्यम् आत्मज्ञानेन निरतिशयानन्दब्रह्मप्राप्तिलक्षणमोक्षसंभवः । तस्माद् अनित्याल्पसुखरूपस्वर्गार्थम् आयुर् व्ययो न कर्तव्य इत्य् अर्थः । अतश् च मोक्षम् अनिच्छन्त्या अनित्याल्पसुखरूपस्वर्गार्थिन्या अनुगमनं युक्तम् इतरकाम्यानुष्ठानवद् इति सर्वम् अनवद्यम् ॥ १.८६ ॥

किं च ।

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । १.८७अब्
सेह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ १.८७च्द् ॥

प्रियम् अनवद्यत्वेन मनसो ऽनुकूलम्, आयत्यां यच् छ्रेयस्करं तद् धितम् । प्रियं च तद् धितं च प्रियहितम् । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता निरता । स्वाचारा शोभन आचारः यस्याः सा तथोक्ता । शोभनश् चाचारो दर्शितः शङ्खेन- “नानुक्त्वा गृहान् निर्गच्छेत् । नानुत्तरीया न त्वरितं व्रजेत् । न परपुरुषम् अभिभाषेतान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभः । न नाभिं दर्शयेत् । आ गुल्फाद् वासः परिदध्यात् । न स्तनौ विवृतौ कुर्यात् । न हसेद् अप्रावृता[^६] । भर्तारं तद् बन्धून् वा न द्विष्यात् । न गणिकाधूर्ताभिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीलादिभिः सहैकत्र तिष्टेत् । संसर्गेन हि कुलस्त्रीणां चारित्रं दुष्यति । इति । विजितेन्द्रिया विजितानि संयमितानि इन्द्रियाणि श्रोत्रादीनि वागादीनि च मनःसहितानि यया सा इह लोके कीर्तिं प्रख्यातिं परलोके चोत्तमां गतिं प्राप्नोति । अयं च सकल एव स्त्रीधर्मो विवाहाद् ऊर्ध्वं वेदितव्यः, “प्राग् उपनयनात् कामचारकामवादकामभक्षाः” (ग्ध् २.१) इति स्मरणात्,

वैवाहिको विधिः स्त्रीणाम् औपनायनिकः स्मृतः । (म्ध् २.६७)

इति च ॥ १.८७ ॥

अनेकभार्यं प्रत्य् आह ।

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् । १.८८अब्
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ १.८८च्द् ॥

सवर्णायां सत्याम् अन्याम् असवर्णां नैव धर्मकार्यं कारयेत् । सवर्णास्व् अपि बह्वीषु धर्म्ये विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या ॥ १.८८ ॥

प्रमीतपतिकाया विधिम् उक्त्वा, इदानीं प्रमीतभार्यं प्रत्य् आह ।

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । १.८९अब्
आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन् ॥ १.८९च्द् ॥

पूर्वोक्तवृत्तवतीम् आचारवतीं विपन्नां स्त्रियम् अग्निहोत्रेण श्रौतेनाग्निना तदभावे स्मार्तेन दाहयित्वा पतिः भार्ता अनुत्पादितपुत्रो ऽनिष्टयज्ञो वा आश्रमान्तरेष्व् अनधिकृतो वा स्त्र्यन्त्रराभावे पुनर् दारान् अग्नींश् च विधिवद् आहरेत् । अविलम्बयन् शीघ्रम् एव ,

अनाश्रमी न तिष्ठेत दिनम् एकम् अपि द्विजः ।

इति दक्षस्मरणात् । एतच् चाधानेन सहाधिकृताया एव नान्यस्याः । यत् तु ।

द्वितीयां चैव यो भार्यां दहेद् वैतानिकाग्निभिः ।
जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥ इति ।

तथा ।

मृतायां तु द्वितीयायां यो ऽग्निहोत्रं समुत्सृजेत् ।
ब्रह्मघ्नं तं विजानीयाद् यश् च कामात् समुत्सृजेत् ॥

इत्य् एवमादि, तद् आधानेन सहानधिकृताया अग्निदाने वेदितव्यम् ॥ १.८९ ॥

इति विवाहप्रकरणम् ।

अथ वर्णजातिविवेकप्रकरणम् ४

ब्राह्मणस्य चतस्रः भार्या भवन्ति क्षत्रियस्य तिस्रः वैश्यस्य द्वे शूद्रस्य एकेति उक्त्वा तासु च पुत्रा उत्पादयितव्या इति उक्तम् । इदानीं कस्यां कस्मात् कः पुत्रः भवति इति विवेकम्[^७]_ आह ।_

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । १.९०अब्
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ १.९०च्द् ॥

सवर्णेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमानजातीयाः पुत्रा भवन्ति । “विन्नासु एष विधिः स्मृतः” (य्ध् १.९२) इति सर्वशेषत्वेनोपसंहाराद् विन्नासु सवर्णास्व् इति संबध्यते । विनाशब्दस्य संबन्धिशब्दत्वाद् वेत्तृभ्यः सवर्णेभ्य इति लभ्यते । एकः सवर्णशब्दः स्पष्टार्थः । अतश् चायम् अर्थः संवृत्तः । उक्तेन विधिनोढायां सवर्णायां वोढुः सवर्णाद् उत्पन्नास् तस्मात् समानजातीया भवन्ति । अतश् च कुण्डगोलककानीनसहोढजादीनाम् असवर्णत्वम् उक्तं भवति । ते च सवर्णेभ्यो ऽनुलोमप्रतिलोमेभ्यश् च भिद्यमाणाः साधारणधर्मैर् हिंसादिभिर् अधिक्रियन्ते,

शुद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः । (म्ध् १०.४१)

इति स्मरणात् । अपध्वंसजा व्यभिचारजाताः शूद्रधर्मैर् अपि द्विजशुश्रूषादिभिर् अधिक्रियन्ते । ननु कुण्डगोलकयोर् अब्राह्मणत्वात् श्राद्धे प्रतिषेधो ऽनुपपन्नः न्यायविरोधश् च । यो यज्जातीयाद् यज्जातीयायाम् उत्पन्नः सः तज्जातीय एव भवति, यथा गोर् गवि गौः, अश्वाद् वडवायाम् अश्वः । तस्माद् ब्राह्मणाद् ब्राह्मण्याम् उत्पन्नो ब्राह्मण इति न विरुद्धम् । तथा कानीनपौनर्भवादीन् अनुक्रम्य,

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । (य्ध् २.१३३)

इति वक्ष्यमाणवचनविरोधश् च । नैतत् सारम् । ब्राह्मणेन ब्राह्मण्याम् उत्पन्नो ब्राह्मण इति भ्रमनिवृत्त्यर्थः श्राद्धे प्रतिषेधः । यथात्यन्तम् अप्राप्तस्य पतितस्य श्राद्धे प्रतिषेधः । न च न्यायविरोधः । यत्र प्रत्यक्षगम्या जातिर् भवति तत्र तथा । ब्राह्मणादिजातिस् तु स्मृतिलक्षणा यथास्मरणम् भवति । यथा समाने ऽपि ब्राह्मण्ये कुण्डिनो वसिष्टो ऽत्रिर् गौतम इति स्मरणलक्षणं गोत्रम्, तथा मनुष्यत्वे समाने ऽपि ब्राह्मण्यादिजातिः स्मरणलक्षणा । मातापित्रोश् चैतद् एव जातिलक्षणम् । न चानवस्था । अनादित्वात् संसारस्य शब्दार्थव्यवहारवत् ।

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । (य्ध् २.१३३)

इति तूक्तानुवादत्वाद् यथासंभवं व्याख्यास्यते । क्षेत्रजस् तु मातृसमानजातीयो नियोगस्मरणात् शिष्टसमाचाराच् च । यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया इत्य् अलम् अतिप्रसङ्गेन । किं चानिन्द्येषु ब्राह्मदिविवाहेषु पुत्राः सन्तानवर्धना अरोगिणो दीर्घायुषो धर्मप्रजासंपन्ना भवन्ति ॥ १.९० ॥

सवर्णान् उक्त्वा इदानीम् अनुलोमान् आह ।

विप्रान् मूर्घावसिक्तो हि क्षत्रियायां विशः स्त्रियां । १.९१अब्
अम्बष्ठः शूद्र्यां निषादो जातः पारश्वो ऽपि वा ॥ १.९१च्द् ॥

ब्राह्मणात् क्षत्रियायां विन्नायाम् उत्पन्नो मूर्धावसिक्तो नाम पुत्रः भवति । वैश्यकन्यायां विन्नायाम् उत्पन्नो ऽम्बष्ठो नाम भवति । शूद्रायां विन्नायां निषादओ नाम पुत्रो भवति । निषादो नाम कश् चिन् मत्स्यघातजीवी प्रतिलोमजः स मा भूद् इति पारश्वो ऽयं निषाद इति संज्ञाविकल्पः । विप्राद् इति सर्वत्रानुवर्तते । यत् तु “ब्राह्मणेन क्षत्रियायाम् उत्पादितः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायाम् उत्पादितो वैश्य एव भवति । वैश्येन शूद्रायाम् उत्पादितः शूद्र एव भवति” इति शङ्खस्मरणं, तत् क्षत्रियादिधर्मप्राप्त्यर्थं न पुनर् मूर्धावसिक्तादिजातिनिराकरणार्थं क्षत्रियादिजातिप्राप्त्यर्थं वा । अतश् च मूर्धावसिक्तादीनां क्सत्रियादेर् उक्तैर् एव दण्डाजिनोपवीतादिभिर् उपनयनादिकं कार्यम् । प्राग् उपनयनात् कामचारादि पूर्ववद् एव वेदितव्यम् ॥ १.९१ ॥

वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ । १.९२अब्
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥ १.९२च्द् ॥

वैश्यायां शूद्रायां च विन्नायां राजन्यान् माहिष्योग्रौ यथाक्रमं पुत्रौ भवत्ः । वैश्येन शूद्रायां विन्नायां करणो नाम पुत्रो भवति । एष सर्वणमूर्धावसिक्तादिसंज्ञाविधिः विन्नासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ताम्बष्ठनिषादमाहिष्योग्रकरणाः षड् अनुकोमजाः पुत्रा वेदितव्याः ॥ १.९२ ॥

प्रतिलोमजान् आह ।

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा । १.९३अब्
शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३च्द् ॥

ब्राह्मण्यां क्षत्रियवैश्यशूद्रैर् उत्पादिता यथाक्रमं सूतवैदेहकचण्डालाख्याः पुत्रा भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३ ॥

क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च । १.९४अब्
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ १.९४च्द् ॥

किं च । क्षत्रिया योषित् वैश्यान् मागधं नाम पुत्रं जनयति । सैव शूद्रात् क्षत्तारं पुत्रं जनयति । वैश्ययोषिच् छूद्राद् आयोगवं पुत्रं जनयति । एते च सूतवैदेहकचण्डालमागधक्षत्त्रायोगवाः षट् प्रतिलोमजाः । एतेषां च वृत्तय औशनसे मानवे च द्रष्टव्याः ॥ १.९४ ॥

संकीर्णसंकरजात्यन्तरम् आह ।

**माहिष्येण करण्यां तु रथकारः प्रजायते । १.९५अब् **
असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ १.९५च्द् ॥

क्षत्रियेण वैश्यायाम् उत्पादितो माहिष्यः । वैश्येन शूद्रायाम् उत्पादिता करणी तस्यां माहिष्येनोत्पादितो रथकारो नाम जात्या भवति । तस्य च उपनयनादि सर्वं कार्यं वचनात् । यथाह शङ्खः । “क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथकारस् तस्येज्यादानोपन्यनसंस्कारक्रिया अश्वप्रतिष्ठारथसूत्रवास्तुविद्याध्ययनवृत्तिता च” इति । एवं ब्राह्मणक्षत्रियोत्पन्नमूर्धावसिक्तमाहिष्याद् अनुलोमसंस्करे जात्यन्तरता उपनयनादिप्राप्तिश् च वेदितव्या, तयोर् द्विजातित्वात् । संज्ञास् तु स्मृत्यन्तरोक्ताद् द्रष्टव्याः । एतच् च प्रदर्शनमात्रम् उक्तम् । संकीर्णसंकरजातीनाम् आनन्त्याद् वक्तुम् अशक्यत्वात् । अत एतावद् अत्र विवक्षितं- असन्तः प्रतिलोमजाः सन्तश् चानुलोमजा ज्ञातव्या इति ॥ १.९५ ॥

“सर्वेणभ्यः सर्वणासु जायन्ते” (य्ध् १.९०) इत्यादिना वर्णप्राप्तौ कारणम् उक्तम् । इदानीं कारणान्तरम् आह ।

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमे ऽपि वा । १.९६अब्
**व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥ १.९६च्द् ॥ **

जातयो मूर्धावसिक्ताद्यास् तासाम् उत्कर्षो ब्राह्मणत्वादिजातिप्राप्तिर् जात्युत्कर्षो युगे जन्मनि सप्तमे पञ्चमे अपिशब्दात् षष्ठे वा बोद्धव्यः । व्यवस्थितश् चायं विकल्पः । व्यवस्था च- ब्राह्मणेन शूद्रायाम् उन्पादिता निषादी, सा ब्राह्मणेनोढा दुहितरं कांचिज् जनयति, सापि ब्राह्मणेनोढान्यां जनयतीत्य् अनेन प्रकारेण षष्टी सप्तमं ब्राह्मणं जनयति । ब्राह्मणेन वैश्यायाम् उत्पादिता अम्बष्ठा । साप्य् अनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति । मूर्धावसिक्ताप्य् अनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणम् एव जनयति । एवम् उग्रा क्षत्रियेणोढा माहिष्या च यथाक्रमं षष्ठं पञ्चमं च क्षत्रियं जनयति । तथा करणी वैश्योढा पञ्चमं वैश्यम् इत्य् एवम् अन्यत्राप्य् ऊहनीयम् । किं च कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुख्यया वृत्त्या अजीवन् क्षात्रेण कर्मणा जीवेद् इत्य् अनुकल्पः । तेनाप्य् अजीवन् वैश्यवृत्त्या तयाप्य् अजीवन् शूद्रवृत्त्या । क्षत्रियो ऽपि स्वकर्मणा जीवनार्थेनाजीवन् वैश्यवृत्त्या शूद्रवृत्त्या वा । वैश्यो ऽपि स्ववृत्त्या अजीवन् शूद्रवृत्त्येति कर्मणां व्यत्ययः । तस्मिन् व्यत्यये सति यद्य् आपद्विमोक्षे ऽपि तां वृत्तिं न परित्यजति तदा सप्तमे षष्ठे पञ्चमे वा जन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तत्समानजातित्वं भवति । तद् यथा । ब्राह्मणः शूद्रवृत्त्या जीवंस् ताम् अपरित्यजन् यदि पुत्रम् उत्पादयति सो ऽपि तयैव वृत्त्या जीवन् पुत्रान्तरम् इत्य् एवं परम्परया सप्तमे जन्मनि शूद्रम् एव जनयति । वैश्यवृत्त्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्त्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियो ऽपि शूद्रवृत्त्या जीवन् षष्ठे शूद्रम् । वैश्यवृत्त्या जीवन् पञ्चमे वैश्यम् । वैश्यो ऽपि शूद्रवृत्त्या जीवंस् ताम् अपरित्यजन् पुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जनयतीति । “पूर्ववच् चाधरोत्तरम्” । अस्यार्थः- वर्णसंकरे अनुलोमजाः प्रतिलोमजाश् च दर्शिताः । संकीर्णसंकरजाताश् च रथकारनिदर्शनेन दर्शिताः । इदानीं वर्णसंकीर्णसंकरजाताः प्रदर्श्यन्ते । अधरे च उत्तरे च अधरोत्तरं यथा मूर्धावैक्तायां क्षत्रियवैश्यशूद्रैर् उत्पादितस् तथा अम्बष्ठायां वैश्यशूद्राभ्यां निषाद्यां शूद्रेणोत्पादिता अधराः प्रतिलोमजास् तथा मूर्धावसिक्ताम्बष्ठानिषादिषु ब्राह्मणेनोत्पादिताः, माहिष्योग्रयोर् ब्राह्मणेन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन क्षत्रियेण वैश्येन चोत्पादिता उत्तरे अनुलोमजाः । एवम् अन्यत्राप्य् ऊहनीयम् । एतद् अधरोत्तरं पूर्ववद् असद्सद् इति बोद्धव्यम् ॥ १.९६ ॥

इति वर्णजातिविवेकप्रकरणम् ।

अथ गृहस्थधर्मप्रकरणम्

श्रौतस्मार्तानि कर्माण्य् अग्निसाध्यानि दर्शयिष्यन् कस्मिन्न् अग्नौ किं कर्तव्यम् इत्य् आह ।

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । १.९७अब्
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ १.९७च्द् ॥

स्मृत्युक्तं वैश्वदेवादिकं कर्म लौकिकं च यत् प्रतिदिनं पाकलक्षणं तद् अपि गृहस्थो विवाहाग्नौ विवाहसंस्कृते कुर्वीत । दायकाले विभागकाल आहृते वा “वैश्यकुलाद् अग्निम् आनीय” (च्फ़्। गोगृ १.१.१५) इत्यादिनोक्तसंस्कारसंस्कृते । अपिशब्दात् प्रेते वा गृहपतौ आहृते संस्कृते एव । ततश् च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तम् अघ्निहोत्रादिकं कर्म वैतानिकाग्निषु आहवनीयादिषु कुर्वीत ॥ १.९७ ॥

गृहस्थधर्मान् आह ।

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः । १.९८अब्
प्रातःसंध्याम् उपासीत दन्तधावनपूर्वकम् ॥ १.९८च्द् ॥

शरीरचिन्ताम् आवश्यकादिकां “दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदńमुखः” (य्ध् १.१६) इत्याद्युक्तविधिना निर्वर्त्य “गन्धलेपक्षयकरम्” (य्ध् १.१७) इत्यादिनोक्तेन विधिना क्ŗतशौचविधिर् द्विजः दन्तधावनपूर्वकं प्रातःसंध्याम् उपासीत । दन्तधावनविधिश् च ।

कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसंइतम् ।
कनिष्ठिकाग्रवत् स्थूलं पर्वार्धकृतकूर्चकम् ।
दन्तधावनम् उद्दिष्टं जिह्वोल्लेखनिका तथा ॥ इति ।

अत्र “वृक्षोत्थम्” इत्य् अनेन तृणलोष्टाङ्गुल्यादिनिषेधः । पलाशाश्वत्थादिनिषेधश् च स्मृत्यन्तरोक्तो द्रष्टव्यः । दन्तधावनमन्त्रश् च-

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥ इति ।

ब्रह्मचारिप्रकरणोक्तस्यापि संध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम्, दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेद् इति तन् निषेधात् ॥ १.९८ ॥

हुत्वाग्नीन् सूर्यदैवत्यान् जपेन् मन्त्रान् समाहितः । १.९९अब्
**वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च ॥ १.९९च्द् ॥ **

प्रातःसंध्यावन्दनानन्तरम् अग्नीन् आहवनीयादीन् यथोक्तेन विधिना हुत्वा औपासनाग्निं वा । तदन्तरं सूर्य्वदैवत्यान् “उद् उ त्यं जातवेदसम्” (र्व् १.५०.१) इत्यादीन् मन्त्रान् जपेत् । समाहितो ऽविक्षिप्तचित्तः । तदन्तरं वेदार्थान् निरुक्तव्याकरणादींश् च श्रवणेनाधिगच्छेज् जानीयात् । चकाराद् अधीतं च अभ्यसेत् । विविधानि च शास्त्राणि मीमांसाप्रभृतीनि धर्मार्थारोग्यप्रतिपादकान्य् अधिगच्छेत् ॥ १.९९ ॥

उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये ॥ १.१००अब्
स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा ॥ १.१००च्द् ॥

तदनन्तरम् ईश्वरम् अभिषेकादिगुणयुक्तम् अन्यं वा श्रीमन्तम् अकुत्सितं योगक्षेमार्थसिद्धये । अलब्धलाभो योगः, लब्धपरिपालनं क्षेम, तदर्थम् उपेयाद् उपासीत । उपेयाद् इत्य् अनेन सेवां प्रतिषेधति । वेतनग्रहणेनाज्ञाकरणं सेवा । तस्याः श्ववृत्तित्वेन निषेधात्[^८] । ततो मध्याह्ने शास्त्रोक्तविधिना नद्यादिषु स्नात्वा देवान् स्वगृह्योक्तान् पितॄंश् च चकाराद् ऋषींश् च देवादितीर्थेन तर्पयेत् । तदन्तरं गन्धपुष्पाक्षतैः हरिहरहिरण्यगर्भप्रभृतीनाम् अन्यतमं यथावासनम् ऋग्यजुःसाममन्त्रैस् तत्प्रकाशकैः स्वनामभिर् वा चतुर्थ्यन्तैर् नमस्कारयुत्कैर् आराधयेद् यथोक्तविधिना ॥ १.१०० ॥

वेदाथर्वपुराणि सेतिहासानि शक्तितः । १.१०१अब्
जपयज्ञप्रसिद्धर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १.१०१च्द् ॥

तदनन्तरं वेदाथर्वेतिहासपुराणानि समस्तानि व्यस्तानि वा आध्यात्मिकीं च विद्यां जपयज्ञसिद्ध्यर्थं यथोक्तेन विधिना यथाशक्ति जपेत् ॥ १.१०१ ॥

बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । १.१०२अब्
**भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥ १.१०२च्द् ॥ **

बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । होमो देवयज्ञः । स्वाध्यायो ब्रह्मयज्ञः । अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः नित्यत्वात् । यत् पुनर् एषां फलश्रवणं तद् एषां पावनत्वख्यापनार्थं न काम्यत्वप्रतिपादनाय ॥ १.१०२ ॥

देवेभ्यश् च हुताद् अन्नाच् छेत्षाद् भूतबलिं हरेत् । १.१०३अब्
अन्नं भूमौ श्वचाण्डालवायसेभ्यश् च निक्षिपेत् ॥ १.०३च्द् ॥

स्वगृह्योक्तविधिना वैश्वदेवहोमं कृत्वा तदवशिष्टेनान्नेन भूतेभ्यो बलिं हरेत् । अन्नग्रहणम् अपक्वव्युदासार्थम् । तदनन्तरं यथाशक्ति भूमाव् अन्नं श्वचाण्डालवायसेभ्यो निक्षिपेत् । चशब्दात् कृमिपापरोगिपतितेभ्यः । यथाह मनुः ।

शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां कृमीणां च शनकैर् निक्षिपेद् भुवि ॥ इति । (म्ध् ३.९२)

एतद् च सायंप्रातः कर्तव्यम् । “अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्” (आश्गृ १.२.१) इत्य् आश्वलायनस्मरणात् । इह केचिद् वैश्वदेवाख्यस्य कर्मणः पुरुषार्थत्वम् अन्नसंस्कारकर्मत्वं चेच्छन्ति “अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्” (आश्गृ १.२.१) इत्य् अन्नसंस्कारकर्मता प्रतीयते । “अथातः पञ्च यज्ञाः” (आश्गृ ३.१.१) इत्य् उपक्रम्य “तान् एतान् यज्ञान् अहरहः कुर्वीत” (आश्गृ ३.१.४) इति नित्यत्वाभिधानात् पुरुषार्थत्वं चावगम्यते इति । तद् अयुक्तम् । पुरुषार्थत्वे ऽन्नसंस्कारकर्मत्वानुपपत्तेः । तथा हि द्रव्यसंस्कारकर्मत्वपक्षे ऽन्नार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात् पुरुषार्थत्वम् एव युक्तम् ।

महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः । इति । (म्ध् २.२८)

तथा ।

वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् ।
तस्मा अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥ (म्ध् ३.१०८)

इति मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकम् आवर्तनीयम् । तस्माद् अथ “सायंप्रातः” इत्यादिनोत्पत्तिप्रयोगौ दर्शितौ, “तान् एतान् यज्ञान् अहरहः कुर्वीत” (आश्ग् ३.१.४) इत्य् अधिकारविधिर् इति सर्वम् अनवद्यम् ॥ १.१०३ ॥

अन्नं पितृमनुष्येभो देयम् अप्य् अन्वहं जलम् । १.१०४अब्
स्वाध्यायं सततं कुर्यान् न पचेद् अन्नम् आत्मने ॥ १.१०४च्द् ॥

प्रत्यहम् अन्नं पितृभ्यो मनुष्येभ्यश् च यथाशक्ति देयम् । अन्नाभावे कन्दमूलफलादि । तस्याप्य् अभावे जलं देयं अपिशब्दात् । स्वाध्यायं सततं कुर्याद् अविस्मरणार्थम् । न पचेद् अन्नम् आत्मार्थम् । अन्नग्रहणं सकलादीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि । देवताद्युद्देशेनैव ॥ १.१.०४ ॥

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः । १.१०५अब्
संभोज्यातिथिभृत्यांश् च दम्पत्योः शेषभोजनम् ॥ १.१०५च्द् ॥

परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीन् अतिथिभृत्यांश् च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् ।

प्राणाग्निहोत्रविधिनाश्नीयाद् अन्नम् अनापदि ।
मतं विपक्वं विहितं भक्षणं प्रीतिपूर्वकम् ॥ १.१०५ ॥
आपोशनेनोपरिष्टाद् अधस्ताद् अश्नता तथा । १.१०६अब्
अनग्नम् मृतं चैव कार्यम् अन्नं द्विजन्मना ॥ १.१०६च्द् ॥

भुञ्जानेन द्विजन्मना उपरिष्टाद् अधस्ताच् चापोशनाख्येन कर्मणान्नम् अनग्नम् अमृतं च कार्यम् । द्विजन्मग्रहणम् उपनयनप्रभृति सर्वाश्रमसाधारणम् ॥ १.१०६ ॥

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः । १.१०७अब्
अप्रणोद्यो ऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥ १.१०७च्द् ॥

वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनाम् अतिथित्वेन युगपत् प्राप्तानां ब्राह्मणाद्यानुपूर्व्येण यथाशक्ति देयम् । सायंकाले ऽपि यद्य् अतिथिर् आगच्छति तदासाव् अप्रणोद्यो ऽप्रत्याख्येय एव । यद्य् अप्य् अदनीयं किम् अपि नास्ति तथापि वाग्भूतृणोदकैर् अपि सत्कारं कुर्यात् । यथाह मनुः ।

तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता ।
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति ॥ (म्ध् ३.१०१) १.१०७ ॥
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । १.१०८अब्
भोजयेच् चागतान् काले सखिसंबन्धिबान्धवान् ॥ १.१०८च्द् ॥

भिक्षवे सामान्येन भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य “भिक्षादानम् अपूर्वम्” (ग्ध् ५.१८) इत्य् अनेन विधिना भिक्षा दातव्या । भिक्षा च ग्राससंमिता । ग्रासश् च मयूराण्डपरिमाणः,

ग्रासमात्रा भवेद् भिक्षा पुष्कलं तच्चतुर्गुणम् ।
हंतस् तु तैश् चतुर्भिः स्याद् अग्रं तत्त्रिगुणं भवेत् ॥

इति शातातपस्मरणात् । भोजनकाले चागतान् सखिसंबन्धिबान्धवान् भोजयेत् । सखायो मित्राणि । संबन्धिनो येभ्यः कन्या गृहीता दत्ता वा । मातृपितृसंबन्धिनो बान्धवाः ॥ १.१०८ ॥

महोक्षं वा महाजं श्रोत्रियायोपकल्पयेत् । १.१०९अब्
सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥ १.१०९च्द् ॥

महान्तम् उक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् भवदर्थम् अयम् अस्माभिः परिकल्पित इति तत्प्रीत्यर्थं न तु दानाय व्यापादनाय वा । यथा सर्वम् एतद् भवदीयम् इति, प्रतिश्रोत्रियम् उक्षासंभवात्,

अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु । (य्ध् १.१५६)
इति निषेधाच् च । तस्मात् सत्क्रिया ह्य् एव कर्तव्या । सत्क्रिया स्वागतवचनासनपाद्यार्घ्याचमनादिदानम् । तस्मिन्न् उपविष्टे पश्चाद् उपवेशनम् अन्वासनम् । स्वादु भोजनं मिष्टम् अशनम् । सूनृतं वचः धन्या वयम् अद्य भवदागमनाद् इत्य् एवमादि । अश्रोत्रिये पुनः “अश्रोत्रियस्योदकासने” (ग्ध् ५.३१) इति गौतमोक्तं वेदितव्यम् ॥ १.१०९ ॥
प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः । १.११०अब्
प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥ १.११०च्द् ॥

स्नातको विद्यास्नातकः व्रतस्नातकः विद्याव्रतस्नातक इति । समाप्य वेदम् असमाप्य व्रतं यः समावर्तते स विद्यास्नातकः । समाप्य व्रतम् असमाप्य वेदं यः समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः ।[^९] आचार्य उक्तलक्षणः । पार्थिवो वक्ष्यमाणलक्षणः । प्रियो मित्रम् । विवाह्यो जामाता । चकाराच् छ्वशुरपितृव्यमातुलादीनां ग्रहणम् । “ऋत्विजो वृत्वा मधुपर्कम् आहरेत् स्नातकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलानां च” इत्य् आश्वलायनस्मरणात् (आश्गृ १.२४.१ ) । एते स्नातकादयः प्रतिसंवत्सरं गृहम् आगता अर्घ्याः मधुपर्केण संपूज्या वन्दितव्याः । अर्घशब्दो मधुपर्कं लक्षयति । ऋत्विजश् चोक्तलक्षणाः संवत्सराद् अर्वाग् अपि प्रतियज्ञं मधुपर्केण संपूज्याः ॥ १.११० ॥

अध्वनीनो ऽतिथिर् ज्णेयः श्रोत्रियो वेदपारगः । १.१११अब्
मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥ १.१११च्द् ॥

अध्वनि वर्तमानो ऽतिथिर् वेदितव्यः । श्रोत्रियवेदपारगाव् अध्वनि वर्तमानौ ब्रह्मलोकम् अभीप्सतो गृहस्थस्य मान्याव् अतिथी वेदितव्यौ । यद् अप्य् अध्ययनमात्रेण श्रोत्रियस् तथापि श्रुताध्ययनसंपन्नो ऽत्र श्रोत्रियो ऽभिधीयते । एकशाखाध्यापनक्षमो वेदपारगः ॥ १.१११ ॥

परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते । १.११२अब्
**वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् ॥ १.११२च्द् ॥ **

परपाके रुचिर् यस्यासौ तथोक्तः परपाकरुचिः । नैव परपाकरुचिः स्यात् । अनिन्ध्येनामन्त्रणं विना । “अनिन्ध्येनामन्त्रितो नापक्रामेत्” इति स्मरणात् । वाक्पाणिपादचापल्यं वाक् च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं वर्जयेत् । वाक् चाप्लयम् असभ्यानृतादिभाषणम् । पाणिचापल्यं वल्गनास्फोटनादि । पादचापल्यं लङ्घनोत्प्लवनादि । चकारान् नेत्रादिचापल्यं च वर्जयेत् । “न शिश्नोदरपाणिपादचक्षुर्वाक्चापलानि कुर्यात्” (ग्ध् ९.५०) इति गौतमस्मरणात् । तथा अतिभोजनं च वर्जयेत्, अनारोग्यहेतुत्वात् ॥ १.११२ ॥

अतिथिं श्रोत्रियं तृप्तम् आ सीमान्तम् अनुव्रजेत् । १.११३अब्
अहःशेषं समासीत शिष्टैर् इष्टैश् च बन्धुभिः ॥ १.११३च्द् ॥

पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं यावद् अनुव्रजेत् । ततो भोजनानन्तरम् अहःशेषं शिष्टैर् इतिहासपुराणादिवेदिभिः, इष्टैः काव्यकथाप्रपञ्चचतुरैः, बन्धुभिश् चानुकूलालापकुशलैः सहासीत ॥ १.११३ ॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च । १.११४अब्
भृत्यैः परिवृतो भुक्त्वा नातितृप्याथ संविशेत् ॥ १.११४च्द् ॥

ततः पूर्वोक्तेन विधिना पश्चिमां संध्याम् उपास्य, आहवनीयादीन् अग्नीन् अग्निं वा हुत्वा, तान् उपास्य उपस्थाय, भृत्यैः पूर्वोक्तैः स्ववासिन्यादिभिः परिवृतो नातितृप्य भुक्त्वा, चकाराद् आयव्ययादिगृहचिन्तां निर्वर्त्यानन्तरं संविशेत् स्वप्यात् ॥ १.११४ ॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद् आत्मनो हितम् । १.११५अब्
धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥ १.११५च्द् ॥

ततो ब्राह्मे मुहूर्ते उत्थाय पश्चिमे ऽर्धप्रहरे प्रबुद्ध्य, आत्मनो हितं कृतं करिष्यमाणं च वेदार्थसंशयांश् च चिन्तयेत् । तदानीं चित्तस्याव्याकुलत्वेन तत्त्वप्रतिमानयोग्यत्वात् । ततो धर्मार्थकामान् स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासंभवं सेवेत इत्य् अर्थः, पुरुषार्थत्वात् । यथाह गौतमः “न पूर्वाह्णमध्याह्नापराह्णान् अफलान् कुर्यात्, धर्मार्थकामेभ्यस् तेषु धर्मोत्तरः स्यात्” (ग्ध् ९.४६–४७) इति । अत्र यद्य् अप्य् एतेषां सामान्येन सेवनम् उक्तं तथापि कामार्थयोर् धर्माविरोधेनानुष्ठानं तयोर् धर्ममूलत्वाद् एवं प्रतिदिनम् अनुष्ठेयम् ॥ १.११५ ॥

विद्याकर्मवयोबन्धुवित्तैर् मान्या यथाक्रमम् । १.११६अब्
एतैः प्रभूतैः शूद्रो ऽपि वार्धके मानम् अर्हति ॥ १.११६च्द् ॥

विद्या पूर्वोक्ता, कर्म श्रौतं स्मार्तं च, वय आत्मनो ऽतिरिक्तं सप्तत्या वा ऊर्ध्वं, बन्धुः स्वजनसंपत्तिः, वित्तं ग्रामरत्नादिकम्, एतैर् युक्ताः क्रमेण मान्याः पूजनीयाः । एतैर् विद्याकर्मबन्धुवित्तैः प्रभूतैः प्रवृद्धैः समस्तैर् व्यस्तैर् वा युक्तः शूद्रो ऽपि वार्धके अशीतेर् ऊर्ध्वं मानम् अर्हति । “शूद्रो ऽप्य् अशीतिको वरः” (ग्ध् ६.१०) इति गौतमस्मरणात् ॥ १.११६ ॥

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । १.११७अब्
**पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः ॥ १.११७च्द् ॥ **

वृद्धः पक्वकेशः प्रसिद्धः । भारी भाराक्रान्तः । नृपो भूपतिः न क्षत्रियमात्रम् । स्नातो विद्याव्रतोभयस्नातकः । स्त्री प्रसिद्धा । रोगी व्याधितः । वरो विवाहोद्यतः । चक्री शाकटिकः । चकारान् मत्तोन्मत्तादीनां ग्रहणम्, “बालवृद्धमत्तोन्मत्तोपहतदेहभारक्रान्तस्त्री-स्नातकप्रव्रजितेभ्यः” इति शङ्खस्मरणात् । एतेभ्यः पन्था देयः । एतेष्व् अभिमुखायातेषु स्वयं पथो ऽपक्रामेत् । वृद्धादीनां राज्ञा सह पथि समवाये राजा मान्य इति तस्मै पन्था देयः । भूपतेर् अपि स्नातको मान्यः । स्नातकग्रहणं स्नातकमात्रप्राप्त्यर्थं न ब्राह्मणाभिप्रायेण, तस्य सदैव गुरुत्वात् । यथाह शङ्खः- “अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्य् एके । तच् चानिष्टं गुरुर् ज्येष्ठश् च ब्राह्मणो राजानम् अतिशेते तस्मै पन्था” इति । वृद्धादीनां पथि परस्परसमवाये वृद्धतराद्यपेक्षया विद्यादिभिर् वा विशेषो द्रष्टव्यः ॥ १.११७ ॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । १.११८अब्
प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा ॥ १.११८च्द् ॥

वैश्यस्य क्षत्रियस्य च चकाराद् ब्राह्मणस्य द्विजानुलोमानां च यागाध्ययनदानानि साधारणानि कर्माणि । ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । “तथा” इति स्मृत्यन्तरोक्तवृत्त्युपसंग्रहः । यथाह गौतमः- “कृषिवाणिज्ये वा स्वयं कृते कुसीदं च” (ग्ध् १०.५–६) इति । अध्यापनं तु क्षत्रियवैश्ययोर् ब्राह्मणप्रेरितयोर् भवति न स्वेच्छया, “आपत्काले ब्राह्मणस्याब्राह्मणाद् विद्योपयोगो ऽनुगमनं शुश्रूषा, समाप्ते ब्राह्मणो गुरुः” (ग्ध् ७.१–३) इति गौतमस्मरणात् । एतान्य् अनापदि ब्राह्मणस्य षट् कर्माणि । तत्र त्रीणीज्यादीनि धर्मार्थानि । त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि,

षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ (म्ध् १०.७६)

इति मनुस्मरणात् । अत इज्यादीन्य् अवश्यं कर्तव्यानि न प्रतिग्रहादीनि । “द्विजातीनाम् अध्ययनम् इज्या दानं च, ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः, पूर्वेषु नियमः” (ग्ध् १०.१–२) इति गौतमस्मरणात् ॥ १.११८ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । १.११९अब्
**कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ १.११९च्द् ॥ **

क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । वैश्यस्य कुसीदकृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः । लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम्,

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषी विशः ।
आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ (म्ध् १०.७९)

इति मनुस्मरणात् ॥ १.११९ ॥

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् । १.१२०अब्
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥ १.१२०च्द् ॥

शुद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । तत्र ब्राह्मणशुश्रूषा परमो धर्मः,

विप्रसेवैव शुद्रस्य विशिष्टं कर्म कीर्त्यते । (म्ध् १०.१२३)

इति मनुस्मरणात् । यदा पुनर् द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या जीवेत् । नानाविधैर् वा शिल्पैर् द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर् द्विजातिशुश्रूषायाम् अयोग्यो न भवति तादृशानि कर्माणि कुर्वन्न् इत्य् अर्थः । तानि च देवलोक्तानि “शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहनपण्यव्यवहारचित्रकर्म-नृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि” ॥ १.१२० ॥

किं च ।

भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः । १.१२१अब्
नमस्कारेण मन्त्रेण पञ्चयाज्ञान् न हापयेत् ॥ १.१२१च्द् ॥

भार्यायाम् एव न साधारणस्त्रीषु परस्त्रीषु वा रतिर् अभिगमनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत् । भृत्यादिभर्ता । श्राद्धक्रियारतः श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकव्रतान्य् अविरुद्धानि तेषु रतः । नम इत्य् अनेन मन्त्रेण पूर्वोक्तान् पञ्चमहायज्ञान् अहरहर् न हापयेद् अनुतिष्टेत् । नमस्कारमन्त्रं च केचित्,

देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यम् एव नमो नमः ॥

इति वर्णयन्ति । नम इत्य् अन्ये । तत्र वैश्वदेवं लौकिके ऽग्नौ कर्तव्यं न वैवाहिके ऽग्नाव् इत्य् आचार्याः ॥ १.१२१ ॥

इदानीं साधारणधर्मान् आह ।

** अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।**
** दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥**

हिंसा प्राणिपीडा तस्या अकरणम् अहिंसा । सत्यम् अप्राणिपीडाकरं यथार्थवचनम् । अस्तेयम् अदत्तानुपादानम् । शौचं बाह्यम् अभ्यन्तरं च । बुद्धिकर्मेन्द्रियाणां नियतविषयव्र्त्तित्एन्द्रियनिग्रहः । यथाशक्ति प्राणिनाम् अन्नोदकादिदनेनार्तिपरिहारो दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारे ऽपि चित्तस्याविकारः क्षान्तिः । इत्य् एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालान्तं धर्मसाधनम् ॥ १.१२२ ॥

** वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् ।**
** आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा ॥ १.१२३ ॥**

वयो बाल्ययौवनादि । बुद्धिर् नैसर्गिकी लौकिकवैदिकव्यवहारेषु । अर्थो वित्तं गृहक्षेत्रादि । वाक् कथनम् । वेषो वस्त्रमाल्यादिविन्यासः । श्रुतं पुरुषार्थशास्त्रश्रवणम् । अभिजनः कुलम् । कर्म वृत्त्यर्थं प्रतिग्रहादि । एतेषां वयःप्रभृतिनां सदृशीम् उचितां वृत्तिम् आचरणं आचरेत् स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्ध्यादिष्व् अपि योज्यम् । अजिह्माम् अवक्राम् । अशठाम् अमत्सराम् ॥ १.१२३ ॥

एवं स्मार्तानि कर्माण्य् अनुक्रम्येदानीं श्रौतानि कर्माण्य् अनुक्रामति ।

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । १.१२४अब्
प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥ १.१२४च्द् ॥

त्रिवर्गजीवनपर्याप्तं त्रैवार्षिकम् अधिकं वा अन्नं यस्य स एव सोमपानं कुर्यान् न ततो ऽल्पधनः,

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
स पीतसोमपूर्वो ऽपि न तस्याप्नोति तत्फलम् ॥ (म्ध् ११.८)

इति दोषश्रवणात् । एतच् च काम्याभिप्रायेण । नित्यस्य चावश्यकर्तव्यत्वान् न नियमः । यस्य वर्षजीवनपर्याप्तम् अन्नं भवति स प्राक्सौमित्कीः सोमात् प्राक् प्राक्सोमं प्राक्सोमंभावः प्राक्सौमिक्यः । काः ताः । अग्निहोत्रदर्शपूर्णमासाग्रयणपशुचातुर्मास्यानि कर्माणि तद्विकाराश् चैताः क्रियाः कुरात् ॥ १.१२४ ॥

एवं काम्यानि श्रौतानि कर्माण्य् अभिधायेदानीं नित्यान्य् आह ।

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । १.१२५अब्
कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि ॥ १.१२५च्द् ॥

संवत्सरे संवत्सरे सोमयागः कार्यः । पशुः प्रत्ययणम् अयने अयने दक्षिणोत्तरसंज्ञिते निरूढपशुयागः कार्यः । तथा प्रतिसंवत्सरं वा, “पशुना संवत्सरे संवत्सरे यजेत षट्सु षट्सु वा मासेष्व् इति एके” इति बौधायनश्रवणात्[^१०] । आग्रयणेष्टिश् च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि ॥ १.१२५ ॥

एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः । १.१२६अब्
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १.१२६च्द् ॥

एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथं चिद् संभवे तत्काले वैश्वानरीम् इष्टिं कुर्यात् । किं च यओ ऽयम् हीनकल्प उत्क्तः सति द्रव्ये ऽसौ न कर्तव्यः । यच् च फलप्रदं काम्यं तद् धीनकल्पं न कुर्वीत न कर्तव्यम् इति[^११] ॥ १.१२६ ॥

चण्डालो जायते यज्ञकरणाच् छूद्रभिक्षितात् । १.१२७अब्
यज्ञार्थं लब्धम् अददद् भासः काको ऽपि वा भवेत् ॥ १.१२७ च्द् ॥

यज्ञार्थं शूद्रधनयाचनेन जन्मान्तरे चण्डालो जायते । यः पुनर् यज्ञार्थं याचितं न सर्वं प्रयच्छति न त्यजति स भासः काको ऽपि वा वर्षशतं भवेत् । यथाह मनुः (११.२५) ।

यज्ञार्थम् अर्थं भिक्षित्वा यः सर्वं न प्रयच्छति ।
स याति भासतां विप्रः काकतां वा शतं समाः ॥ इति । (म्ध् ११.२५)

भासः शकुन्तः । काकः प्रसिद्धः ॥ १.१२७ ॥

कुशूलकुम्भीधान्यो वा त्र्याहिको ऽश्वस्तनो ऽपि वा । १.१२८ अब्

कुशूलं कोष्टकं, कुम्भी उष्ट्रिका, कुशूलं च कुम्भी च कुशूलकुम्भ्यौ, ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्याप्तं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भीधान्यस् तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहःपर्याप्तं धान्यम् अस्यास्तीति त्र्याहिकः । श्वोभवं धान्यम् अस्यास्तीति श्वस्तनः । न विद्यते श्वस्तनं यस्य सो ऽश्वस्तनः ॥

कुशूलधान्यादिसंचयोपायम् आह ।

जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥ १.१२८ च्द् ॥

शाल्यादिनिपतितपरित्यक्तवल्लरीग्रहणं शिलम् । एकैकस्य परित्यक्तस्य कणस्योपादानम् उञ्छः, शिलं चोञ्छश् च शिलोञ्छं तेन शिलेनोञ्छेन वा । कुशूलधान्यादिश् चतुर्विधो गृहस्थो जीवेत् । एषां कुशूलधान्यादीनां ब्राह्मणानां गृहस्थानां चतुर्णां परः परः पश्चात् पश्चात् पठितः श्रेयान् प्रशस्यतरः । एतच् च यद्य् अपि द्विजः प्रकृतस् तथापि ब्राह्मणस्यैव भवितुम् अर्हति विद्योपशमादियोगात्,। तथा च मनुना,

अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः ।
या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥ (म्ध् ४.२)

इति विप्रम् एव प्रस्तुत्य,

कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । (म्ध् ४.७)

इत्याद्यभिहितत्वात् । एतच् चानतिसंयतं यायावरं प्रत्य् उच्यते न विप्रमात्राभिप्रायेण । तथा सति,

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । (य्ध् १.१२४)

इत्य् अनेनन विरोधः । तथा च गृहस्थानां द्वैविध्यं तत्र तत्रोक्तम् । यथाह देवलः- “द्विविधो गृहस्थो यायावरः शालीनश् च । तयोर् यायावरः प्रवरो याजनाध्यापनप्रतिग्रह-रिक्थसंचयवर्जनात् । षट्कर्माधिष्ठितः प्रेष्यचतुष्पदगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः” इति । शालीनो ऽपि चतुर्विधः याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपाशुपाल्यैः षड्भिर् जीवत्य् एकः । याजनादिभिस् त्रिभिर् अन्यः । याजनाध्यापनाभ्याम् अपरः । चतुर्थस् त्व् अध्यापनेनैव । तथाह मनुः ।

षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते ।
द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्रेण जीवति ॥ इति । (म्ध् ४.९)

अत्र च “प्रतिग्रहो ऽधिको विप्रे” इत्यादिना शालीनस्य वृत्तयो दर्शिताः । यायावरस्यापि शिलोञ्छेनेति ॥ १.१२८ ॥

**इति गृहस्थधर्मप्रकरणम् **

**अथ स्नातकधर्मप्रकरणम् **

एवं श्रौतस्मार्तानि कर्मण्य् अभिधाय, इदानीं गृहस्थस्य स्नानाद् आरभ्य ब्राह्मणस्यावश्यकर्तव्यानि विधिप्रतिषेधात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्य् आह ।

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः । १.१२९अब्
न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा ॥ १.१२९च्द् ॥

ब्राह्मणस्य प्रतिग्रहादयो ऽर्थप्राप्त्युपाया दर्शिताः । तत्र विशेष उच्यते- स्वाध्यायविरोधिनम् अर्थम् अप्रतिषिद्धम् अपि नेहेत नान्विच्छेत् । न यतस् ततः न यतः कुतश् चिद् अविदिताचारात् । न विरुद्धप्रसङ्गेन विरुद्धम् अयाज्ययाजनादि, प्रसङ्गो नृत्यगीतादिः । विरुद्धं च प्रसङ्गश् च विरुद्धप्रसङ्गं तेन । नार्थम् ईहेतेति संबध्यते । नञ् आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्य् अस्मिन् स्नातकप्रकरणे नञ्शब्दः प्रत्येकं पर्युदासार्थ एव । किं च अर्थालाभे ऽपि संतोषी परितृप्तो भवेत् । चकारात् संयतश् च,

संतोषं परम् आस्थाय सुखार्थी संयतो भवेत् । (म्ध् ४.१२)

इति मनुस्मरणात् ॥ १.१२९ ॥

कुतस् तर्हि धनम् अन्विच्छेद् इत्य् आह ।

रजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा । १.१३०अब्
दम्भिहैतुकपाखण्डिबकवृत्तींश् च वर्जयेत् ॥ १.१३०च्द् ॥

क्षुधा सीदन् पीड्यमानः स्नातकः रज्ञो विदितवृत्तान्तात्, अन्तेवासिनो वक्ष्यमाणलक्षणात्, याज्यात् याजनार्हाच् च धनम् आददीत । “क्षुधा सीदन्न्” इत्य् अनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश् चिद् अर्थम् अन्विच्छेद् इति गम्यते । किं च दम्भिहैतुकादीन् सर्वकार्येषु लौकिकवैदिकशास्त्रीयेषु वर्जयेत् । चकाराद् विकर्मस्थबैडालव्रतिकान् शठान् । यथाह मनुः ।

पाखण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् ।
हैतुकान् बकवृत्तींश् च वाङ्मात्रेणाअपि नार्चयेत् ॥ इति । (म्ध् ४.३०)

लोकरञ्जनार्थम् एव कर्मानुष्ठायी दम्भी । युक्तिबलेन सर्वत्र संशयकारी हैतुकः । त्रैविद्यविरुद्धपरिगृईताश्रमिणः पाखण्डिनः । बकवद् यस्य वर्तनम् इति बकवृत्तिः । यथाह मनुः ।

अधोदृष्टिर् नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश् च बकवृत्तिर् उदाहृतः ॥ इति । (म्ध् ४.१९६)

प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस् तस्य व्रतं स्वभावो यस्यासौ बैडालव्रतिकः । तस्य लक्षणम् आह मनुः ।

धर्मध्वजी सदा लुब्धश् छाड्मिको लोकदम्भकः ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधिकः ॥ इति (म्ध् ४.१९५)

शठः सर्वत्र वक्रः । एतैः संसर्गनिषेधाद् एव स्वयम् एवंभूतो न भवेद् इति गम्यते ॥ १.१३० ॥

किं च ।

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । १.१३१अब्
**न भार्यादर्शने अश्नीयान् नैकवासा न संस्थितः ॥ १.१३१च्द् ॥ **

शुक्ले धौते अम्बरे वाससी धरतीति शुक्लाम्बरधरः । केशाश् च श्मश्रूणि च नखाश् च केशश्मशुनखं नीचं निकृत्तं केशश्मश्रुनखं यस्यासौ तथोक्तः । शुचिर् अन्तर् बहिश् च स्नानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतमः- “स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः” (ग्ध् ९.२) इति । सुगन्धित्वविधानाद् एव निर्गन्धमाल्यस्य निषेधः । तथा च गोभिलः- “नागन्धां स्रजं धारयेद् अन्यत्र हिरण्यरत्नस्रजः” इति । सदा स्नातक एवंभूतो भवेत् । एतच् च सति संभवे,

न जीर्णमलवद्वासा भवेच् च विभवे सति । (म्ध् ४.३४)

इति स्मरणात् । न च भार्यादर्शने तस्यां पुरतो ऽवस्थितायाम् अश्नीयाद् अवीर्यवदपत्योत्पत्तिभयात् । तथा च श्रुतिः । “जायाया अन्ते नाश्नीयाद् अवीर्यवद् अपत्यं भवति” इति । अतस् तया सह भोजनं दूराद् एव निरस्तं । न चैकवासा- न संस्थित उत्थितो ऽश्नीयाद् इति संबध्यते ॥ १.१३१ ॥

_किं च _।

न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् । १.१३२अब्
नाहितं नानृतं चैव न स्तेनः स्यान् न वार्धिषी ॥ १.१३२च्द् ॥

कदा चिद् अपि संशयं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मान् निष्कारणं कं चिद् अपि पुरुषं स्त्रियं वा अप्रियम् उद्वेगकरं वाक्यं न वदेत् । न चाहितं नानृतं वा प्रियम् अपि । चकाराद् अश्लीलम् असभ्यं बीभत्सकरं चाकस्मान् न वदेद् इति संबध्यते । एतच् च परिहासादिव्यतिरेकेण ।

गुरुणापि समम् हास्यं कर्तव्यं कुटिलं विना ।

इति स्मरणात् । न च स्तेनो ऽन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वार्धुषी स्यात् । प्रतिषिद्धवृद्ध्युपजीवी वार्धुषी ॥ १.१३२ ॥

किं च

दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः । १.१३३अब्
कुर्यात् प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १.१३३च्द् ॥

दाक्षायणं सुवर्णं तद् अस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तद् अस्यास्तीति ब्रह्मसूत्री । वैणवयष्टिमान् । कमण्डलुमान् । स्याद् इति सर्वत्र संबन्धनीयम् । अत्र च ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्राप्त्यर्थम् । यथाह वसिष्ठः ।

स्नातकानां तु नित्यं स्याद् अन्तर्वासस् तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकश् च कमण्डलुः ॥ इति । (वध् १२.१४)

अत्र च दाक्षायणीति सामान्याभिधाने ऽपि कुण्डलधारणम् एव कार्यम्,

वैष्णवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ (म्ध् ४.३६)

इति मनुस्मरणात् । तथा देवं देवतार्चां, मृदं तीर्थाद् उद्धृतां, गां ब्राह्मणं वनस्पतींश् चाश्वत्थादीन् प्रदक्षिणं कुर्यात् । एतान् दक्षिणतः कृत्वा प्रव्रजेद् इत्य् अर्थः । एवं चतुष्पथादीन् अपि,

मृदं गां देवतां विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश् च वनस्पतीन् ॥ (म्ध् ४.३९)

इति मनुस्मरणात् ॥ १.१३३ ॥

न तु मेहेन् नदीछायावर्त्मगोष्ठाम्बुभस्मसु । १.१३४अब्
न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १.१३४च्द् ॥

नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्गं कुर्यात् । एवं श्मशानादाव् अपि । यथाह शङ्खः- “न गोमयकृष्टोप्तशाद्वलचितिश्मशानवल्मीकवर्त्मखलगोष्ठबिलपर्वतपुलिनेषु मेहेत् भूताधारत्वात्” इति । तथाग्न्यादीन् प्रत्य् अग्न्यादीनाम् अभिमुखं न मेहेत् । नाप्य् एतान् पश्यन् । यथाह गौतमः- “न वाय्वग्निविप्रादित्यापोदेवतागाश् च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान्य् उदस्येन् नैतान् प्रति पादौ प्रसारयेत्” (ग्ध् ९.१३–१४) इति । एतद्देशव्यतिरेकेण भूमिम् अयज्ञियैः तृणैर् अन्तर्धाय मूत्रपुरीषे कुर्याद् इति । यथाह वसिष्ठः- “परिवेष्टितशिरा भूमिम् अयज्ञियैः तृणैर् अन्तर्धाय मूत्रपुरीषे कुर्यात्” (वध् १२.१३) इति ॥ १.१३४ ॥

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । १.१३५अब्
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १.१३५च्द् ॥

नैवार्कम् ईक्षेतेति यद्य् अप्य् अत्र सामान्येनोक्तं तथाप्य् उदयास्तमयराहुग्रस्तोदकप्रतिबिम्बमध्याह्नवर्तिन एवादित्यस्यावेक्षणं निषिध्यते न सर्वदा । यथोक्तं मनुना ।

नेक्षेतोद्यन्तम् आदित्यं नास्तं यन्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ इति । (म्ध् ४.३७)

उपभोगाद् अन्यत्र नग्नां स्त्रियं नेक्षेत । “न नग्नां स्त्रियम् ईक्षेतान्यत्र मैथुनात्” (आश्गृ ३.९.९) इत्य् आश्वलायनः । संसृष्टमैथुनां कृतोपभोगां । उपभोगान्ते ऽनग्नाम् अपि नेक्षेत । चकाराद् भोजनादिकम् आचरन्तीम् । तथा च मनुः ।

नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् ।
क्षुवतीं जृम्भमाणां च न चासीनां यथासुखम् ॥
नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्ताम् अनावृताम् ।
न पश्येत् प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ॥ इति । (म्ध् ४.४३–४४)

मूत्रपुरीषे च न पश्येत् । तथा अशुचिः सन् राहुतारकाश् च न पश्येत् । चकाराद् उदके स्वप्रतिबिम्बं न पश्येत्,

न चोदके निरीक्षेत स्वं रूपम् इति धारणा । (म्ध् ४.३८)

इति वचनात् ॥ १.१३५ ॥

अयं मे वज्र इत्येवं सर्वं मन्त्रम् उदीरयेत् । १.१३६अब्
**वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्शिरा न च ॥ १.१३६च्द् ॥ **

वर्षति सति “अयं मे वज्रः पाप्मानम् अपहन्तु” (पार्ग् २.७.७) इति मन्त्रम् उच्चारयेत् । वर्षत्य् अप्रावृतो ऽनाच्छादितो न गच्छेन् न धावेत्, “न प्रधावेच् च वर्षति” (म्ध् ४.३८) इति प्रतिषेधात् । न च प्रत्यक्शिराः स्वप्यात् । चकारान् नग्नो न शयीत । एकश् च शून्यगृहे न च नग्नः शयीतेति, “नैकः स्वपेच् छून्यगृहे” इति (म्ध् ४.५७) च मनुस्मरणात् ॥ १.१३६ ॥

ष्ठीवनासृक्शकृन्मूत्ररेतांस्य् अप्सु न निक्षिपेत् । १.१३७अब्
**पादौ प्रतापयेन् नाग्नौ न चैनम् अभिलङ्घयेत् ॥ १.१३७च्द् ॥ **

ष्ठीवनम् उद्गिरणं, असृग् रक्तं, शकृत् पुरीषं, शेषं प्रसिद्धं । एतान्य् अप्सु न निक्षिपेत् । एवं तुषादीन् अपि । यथाह शङ्खः- “तुषकेशपुरीषभस्मास्थिश्लेष्मनखलोमान्य् अप्सु न निक्षिपेन् न पादेन पाणिना वा जलम् अभिहन्यात्” इति । अग्नौ च पादौ न प्रतापयेत् । नाप्य् अग्निं लङ्घयेत् । चकारात् ष्ठीवनादीन्य् अग्नौ न निक्षिपेत् । मुखोपधमनादि चाग्नेर् न कुर्यात् । तथा च मनुः ।

नाग्निं मुखेन उपधमेन् नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ॥
अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत् ।
न चैनं पादतः कुर्यान् न प्राणिवधम् आचरेत् ॥ इति ॥ (म्ध् ४.५३–५४) १.१३७ ॥
जलं पिबेन् नाञ्जलिना न शयानं प्रबोधयेत् । १.१३८अब्
नाक्षैः क्रीḑएन् न धर्मघ्नैर् व्याधितैर् वा न संविशेत् ॥ १.१३८च्द् ॥

जलम् अञ्जलिना संहताभ्यां हस्ताभ्यां न पिबेत् । जलग्रहणं पेयमात्रोपलक्षणम् । विद्यादिभिर् आत्मनो ऽधिकं शयानं न प्रबोधयेन् नोत्थापयेत् । “श्रेयांसं न प्रबोधयेत्” (म्ध् ४.५७) इति विशेषस्मरणात् । अक्षादिभिर् न क्रीडेत् । धर्मग्नैः पशुलम्भनादिभिर् न क्रीडेत् । व्याधितैर् ज्वराद्यभिभूतैर् एकत्र न संविशेन् न शयीति ॥ १.१३८ ॥

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् । १.१३९अब्
**केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १.१३९च्द् ॥ **

जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं बाहुभ्यां नदीतरणं च वर्जयेद् इति संबध्यते । केशादिषु संस्थितिं वर्जयेत् । चकाराद् अस्थिकार्पासामेध्येषु च ॥ १.१३९ ॥

नाचक्षीत धयन्तीं गां नाद्वरेण विशेत् क्वचित् । १.१४०अब्
न राज्ञः प्रतिग्ŗह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः ॥ १.१४०च्द् ॥

परस्य क्षीरादि पिबन्तीं गां परस्मै नाचक्षीत न च निवर्तयेत् । अद्वारेण कापथेन क्वचिद् अपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । न च कृपणस्य शास्त्रातिक्रमकारिणो राज्ञः सकाशात् प्रतिगृह्णीयात् ॥ १.१४० ॥

प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः । १.१४१अब्
दुष्ठा दशगुणं पूर्वात् पूर्वाद् एते यथाक्रमम् ॥ १.१४१च्द् ॥

प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात् पूर्वस्मात् परः परः दशगुणम् दुष्टः । सूना प्राणिहिंसा सास्यास्तीति सूनी प्राणिहिंसापरः । चक्री तैलिकः । ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपो ऽनन्तरोक्तः ॥ १.१४१ ॥

अथाध्ययनधर्मान् आह ।

अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा । १.१४२अब्
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १.१४२च्द् ॥

अधीयन्त इत्य् अध्याया वेदास् तेषाम् उपाकर्म उपक्रमम् ओषधीनां प्रादुर्भावे सति श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां वा स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर् भवन्ति तदा भाद्रपदे मासि श्रवणनक्षत्रे कुर्यात् । तत ऊर्ध्वं सार्धचतुरो मासान् वेदान् अधीयीत । तथा च मनुः ।

श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि ।
युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥ इति ॥ (म्ध् ४.९५) १.१४२ ।

उत्सर्जनकालः ।

पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा । १.१४३अब्
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः ॥ १.१४३च्द् ॥

पौषमासस्य रोहिण्याम् अष्टकायां वा ग्रामाद् बहिर् जलसमीपे छन्दसां वेदानां स्वगृह्योक्तविधिनोत्सर्गं कुर्यात् । यदा पुनर् भाद्रपदे मासि उपाकर्म तदा माघशुक्लप्रथमदिवसे उत्सर्गं कुर्यात् । यथोक्तं मनुना ।

पौषे तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥ इति । (म्ध् ४.९६)

तदनन्तरं पक्षिणीम् अहोरात्रं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्व् अङ्गान्य् अधीयीत । यथाह मनुः ।

यथाशास्त्रं तु कृत्वैवम् उत्सर्गं छन्दसां बहिः ।
विरमेत् पक्षिणीं रात्रिं यद्वाप्य् एकम् अहर् निशम् ॥
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ इति ॥ (म्ध् ४.९७–९८) १.१४३ ॥

अनध्यायान् आह ।

त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । १.१४४अब्
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १.१४४च्द् ॥

उक्तेन मार्गेणाधीयानस्य द्विजस्य शिष्यर्त्विग्गुरुबन्धुषु प्रेतेषु मृतेषु त्र्यहम् अनध्यायस् त्रीन् अहोरात्रान् अध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते त्र्यहम् अनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्य् अहोरात्राभ्यां सहास्य विकल्पः (म्ध् ४.९७) । स्वशाखाश्रोत्रिये स्वशाखाध्यायिनि प्रेते च त्र्यहम् अनध्यायः ॥ १.१४४ ॥


संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । १.१४५अब्
समाप्य वेदं द्युनिशम् आरण्यकम् अधीत्य च ॥ १.१४५च्द् ॥

संध्यायां मेघध्वनौ, निर्घाते आकाशे उत्पातध्वनौ, भूमिचलने, उल्कापतने, मन्त्रस्य ब्राह्मणस्य वा समाप्तौ आरण्यकाध्ययने च द्युनिशम् अहोरात्रम् अनध्यायः ॥ १.१४५ ॥

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके । १.१४६अब्
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १.१४६च्द् ॥

पञ्चदश्याम् अमावास्यायां पौर्णमास्यां चतुर्दश्याम् अष्टम्यां राहुसूतके चन्द्रसूर्योपरागे च द्युनिṡअम् अनध्यायः । यत् तु,

त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके । (म्ध् ४.११०)

इति, तद् ग्रस्तास्तमयविषयम्[^१२] । ऋतुसंधिगतासु च प्रतिपत्सु श्राद्धिकभोजने तत्प्रतिग्रहे च द्युनिशम् अनध्यायः । एतच् चैकोद्दिष्टव्यतिरिक्तविषयं । तत्र तु त्रिरात्रम्,

प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्तयेद् ब्रह्म । (म्ध् ४.११०)

इति स्मरणात् ॥ १.१४६ ॥

पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः । १.१४७अब्
कृते ऽन्तरे त्व् अहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.१४७च्द् ॥

अध्येतॄणां पश्वादिभिर् अन्तरागमने कृते शक्रध्वजस्यावरोपणदिवसे उच्छ्रायदिवसे चाहोरात्रम् अनध्यायः । द्युनिशम् इति प्रकृते पुनर् अहोरात्रग्रहणं संध्यागर्जितनिर्घातभूकम्पोल्कानिपातनेष्व् आकालिकत्वज्ञापनार्थम्, “आकालिकनिर्घातभूकम्पराहुदर्शनोल्काः” (ग्ध् १६.२२) इति गौतमवचनात् । निमित्तकालाद् आरभ्यापरेद्युर् यावत् स एव कालस् तावत् कालो ऽकालः तत्र भव आकालिको ऽनध्यायः । एतच् च प्रातःसंध्यास्तनिते । सायंसंध्यास्तनिते तु रात्रिम् एव, “सायंसंध्यास्तनिते तु रात्रिं प्रातःसंध्यास्तनिते ऽहोरात्रम्” इति हारीतस्मरणात् । यत् पुनर् गौतमेनोक्तं “श्वनकुलसर्पमण्डूकमार्जाराणाम् अन्तरागमने त्र्यहम् उपवासः विप्रवासश् च” (ग्ध् १.५९) इति, तत् प्रथमाध्ययन एव ॥ १.१४७ ॥

श्वक्रोष्टृगर्दभोलूकसामबाणार्तनिःस्वने । १.१४८अब्
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १.१४८च्द् ॥

श्वा कुक्कुरः । क्रोष्टा सृगालः । गर्दभः रासभः । उलूको घुकः । साम सामानि । बाणो वंशः । आर्थो दुःखितः । एषाम् श्वादीनां निःस्वने तावत्कालम् अनध्यायः । एवं वीणादिनिःस्वने ऽपि । “वेणुवीणाभेरीमृदङ्गगन्त्र्यार्तशब्देषु” (ग्ध् १६.७) इति गौतमवचनात् । गन्त्री शकटम् । अमेध्यादीनां संनिधाने तावत्कालिको ऽनध्यायः ॥ १.१४८ ॥

देशे ऽशुचाव् आत्मनि च विद्युत् स्तनितसंप्लवे । १.१४९अब्
भुक्त्वार्द्रपाणिर् अम्भोऽन्तर् अर्धरात्रे ऽतिमारुते ॥ १.१४९च्द् ॥

अशुचौ देशे ऽशुचाव् आत्मनि च । तथा विद्युत्संप्लवे पुनः पुनर् विद्योतमानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनःपुनर् मेघघोषे तावत्कालिको ऽनध्यायः । भुक्त्वार्द्रपाणिर् नाधीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्वये अतिमारुते ऽहन्य् अपि तावत्कालं नाधीयीत ॥ १.१४९ ॥

पांसुप्रतर्षे दिग्दाहे संयानीहारभीतिषु । १.१५०अब्
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥ १.१५०च्द् ॥

औत्पातिके रजोवर्षे । दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते । संध्ययोः, नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तत्कालम् अनध्यायः । धावतस् त्वरितं गच्छतो ऽनध्यायः । पूतिगन्धे अमेध्यमद्यादिगन्धे । शिष्टे च श्रोत्रियादौ गृहं प्राप्ते तदनुज्ञावध्य् अनध्यायः ॥ १.१५० ॥

खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । १.१५१अब्
सप्तत्रिंशद् अनध्यायान् एतांस् तात्कालिकान् विदुः ॥ १.१५१च्द् ॥

यानं रथादि । इरिणम् ऊपरं मरुभूमिर् वा । खरादीनाम् आरोहणे तावत्कालम् अनध्यायः । एवं श्वक्रोष्टृगर्दभेत्य् अस्माद् आरभ्य सप्तत्रिंशद् अनध्यायान् एतांस् तात्कालिकान् निमित्तसमकालान् विदुर् अनध्यायविधिज्ञाः । विदुर् इत्य् अनेन स्मृत्यन्तरोक्तान् अन्यान् अपि संगृह्णाति । यथाह मनुः ।

शयाणः प्रौढपादश् च कृत्वा चैवावसक्थिकां ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यम् एव च ॥ (म्ध् ४.१२) १.१५१ ॥

इत्यादि ॥

एवम् अनध्यायान् उक्त्वा प्रकृतानि स्नातकव्रतान्य् आह ।

देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः । १.१५२अब्
**नाक्रामेद् रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ १.१५२च्द् ॥ **

देवनां देवार्चानाम् ऋविक्स्नातकाचार्यराज्ञां परस्त्रियाश् च छायां नाक्रामेन् नाधितिष्ठेन् न लङ्घयेद् बुद्धिपूर्वकम् । यथाह मनुः ।

देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा ।
नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ॥ इति । (म्ध् ४.१३०)

बभ्रुणो नकुलवर्णस्य यस्य कस्यचित् गोर् अन्यस्य वा श्यामादेः, बभ्रुण इति नपुंसकलिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठेत् । आदिग्रहणात् स्नानोदकादेर् ग्रहणम् ।

उद्वर्तनम् अपस्नानं विण्मूत्रं रक्तम् एव च ।
श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत कामतः ॥ इति ॥ (म्ध् ४.१३२) १.१५२ ॥
विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन । १.१५३अब्
आ मृत्योः श्रियम् आकाङ्क्षेन् न कंचिन् मर्मणि स्पृशेत् ॥ १.१५३च्द् ॥

विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिद् अपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । आ मृत्योः यावज्जीवं श्रियम् इच्छेत् । न कंचिद् अपि पुरुषं मर्मणि स्पृशेत् कस्यचिद् अपि मर्म दुश्चरितं न प्रकाशयेत् ॥ १.१५३ ॥

**दूराद् उच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् । १.१५४अब् **
श्रुतिस्मृत्युदितं सम्यङ् नित्यम् आचारम् आचरेत् ॥ १.१५४च्द् ॥

भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनोदकं च गृहाद् दूरात् समुत्सृजेत् । श्रौतं स्मार्तं चाचारं नित्यं सम्यग् अनुतिष्ठेत् ॥ १.१५४ ॥

गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् । १.१५५अब्
न निन्दाताडने कुर्यात् पुत्रं शिष्यं च ताडयेत् ॥ १.१५५च्द् ॥

गां ब्राह्मणम् अग्निं अन्नम् अदनीयं विशेषतः पक्वम् अशुचिर् न स्पृशेत् । पादेन त्व् अनुच्छिष्टो ऽपि । यदा पुनः प्रमादात् स्पृशति तदा आचमनोत्तरकालम्,

स्पृष्ट्वैतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ (म्ध् ४.१४३)

इति मनूक्तं कार्यम् । एवं प्राणादीन् उपस्पृशेत् । कस्यचिद् अपि निन्दाताडने न कुर्यात् । एतच् चानपकारिणि-

अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः ।
दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥ इति । (म्ध् ४.१६७)

पुत्रशिष्यौ शिक्षार्थम् एव ताडयेत् । चकाराद् दासादीन् अपि । ताडनं च रज्ज्वादिनोत्तमाङ्गव्यतिरेकेण कार्यम्, “शिष्यशिष्टिर् अवधेनाशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् अन्येन घ्नन् राज्ञा शास्यते” (ग्ध् २.४२–४४) इति गौतमवचनात्,

पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथंचन । (म्ध् ८.३००)

इति मनुवचनात् ॥ १.१५५ ॥

कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् । १.१५६अब्
अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु ॥ १.१५६च्द् ॥

कर्मणा कायेन यथाशक्ति धर्मम् अनुतिष्ठेत् तम् एव मनसा ध्यायेद् वाचा च वदेत् । धर्म्यं विहितम् अपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्माद् अस्वर्ग्यम् अग्नीषोमीयवत् स्वर्गसाधनं न भवति ॥ १.१५६ ॥

मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः । १.१५७अब्
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १.१५७च्द् ॥
ऋत्विक्पुरोहितापत्यभार्यादाससनाभिभिः । १.१५८अब्
**विवादं वर्जयित्वा तु सर्वांल् लोकाञ् जयेद् गृही ॥ १.१५८च्द् ॥ **

माता जननी । पिता जनकः । अतिथिर् अध्वनीनः । भ्रातरो भिन्नोदरा अपि । जामयो विद्यमानभर्तृकाः स्त्रियः । संबन्धिनो वैवाह्याः । मातुलो मातुर् भ्राता । वृद्धः सप्तत्युत्तरवयस्कः । बाल आ षोडशाद् वर्षात् । आतुरो रोगी । आचार्य उपनेता । वैद्यो विद्वान् भिषग् वा । संश्रित उपजीवी । बान्धवाः पितृपक्ष्या मातृपक्ष्याश् च । मातुलस्य पृथग् उपादानम् आदरार्थम् । ऋत्विग् याजकः । पुरोहितः शान्त्यादेः कर्ता । अपत्यं पुत्रादि । भार्या सहधर्मचारिणी । दासः कर्मकरः । सनाभयः सोदराः भ्रातृभ्यः पृथग् उपादानम् अजामिभगिनीप्राप्त्यर्थम् । एतैर् मात्रादिभिः सह वाक्कलहं परित्यज्य सर्वान् प्राजापत्यादीन् लोकान् प्राप्नोति ॥ १.१५७ ॥ १.१५८ ॥

पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु । १.१५९अब्
**स्नायान् नदीदेवखातहृदप्रस्रवणेषु च ॥ १.१५९च्द् ॥ **

परवारिषु परसंबन्धिषु सर्वसत्त्वोदेशेनात्यक्तेषु तडागादिषु पञ्च पिण्डान् अनुद्धृत्य न स्नायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धारम् अन्तरापि स्नानम् अभ्यनुज्ञातम् । नद्यादिषु कथं तर्हीत्य् आह “स्नायान् नदी” इति । साक्षात् परम्परया वा समुद्रगाः स्रवन्त्यो नद्यः । देवखातं देवनिर्मितं पुष्करादि । उदकप्रवाहाभिघातकृतसजलो महानिम्नप्रदेशो ह्रदः । पर्वताद्युच्चप्रदेशात् प्रसृतम् उदकं प्रस्रवणम् । एतेषु पञ्चपिण्डान् उद्धरणेनैव स्नायात् । एतच् च नित्यस्नानविषयं सति संभवे,

नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥ (म्ध् ४.२०३)

इति नित्यग्रहणात् । शौचार्थे तु यथासंभवं परवारिषु पञ्च पिण्डान् उद्धरणे ऽपि सर्वस्य न निषेधः ॥ १.१५९ ॥

परशय्यासनोद्यानगृहयानानि वर्जयेत् । १.१६०अब्
**अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि ॥ १.१६०च्द् ॥ **

शय्या कशिपुः । आसनं पीठादि । उद्यानम् आम्रादिवनम् । गृहं प्रसिद्धम् । यानं रथादि । परसंबन्धीन्य् एतान्य् अदत्तान्य् अननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभोज्यान्नान्य् आह “अग्निहीनस्य” इति । अग्निहीनस्य श्रौतस्मार्ताग्न्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य च अधिकारवतो ऽप्य् अग्निरहितस्यान्नम् अनापदि न भुञ्जीत प्रतिगृह्णीयाच् च, “तस्मात् प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो भुञ्जीत प्रतिगृह्णीयाच् च” (ग्ध् १७.१–२) इति गौतमवचनात् ॥ १.१६० ॥

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् । १.१६१अब्
**वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥ १.१६१च्द् ॥ **

कदर्यो लुब्धः ।

आत्मानं धर्मकृत्यं च पुत्रदारांश् च पीडयेत् ।
लोभाद् यः पितरौ भृत्यान् स कदर्य इति स्मृतः ॥

इत्य् उक्तः । बद्धो निगडादिना वाचा संनिरुद्धश् च । चौरो ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी । क्लीबो नपुंसकः । रङ्गावतारी नटचारणमल्लादिः । वेणुच्छेतजीवी वैणः । अभिशस्तः पतनीयैः कर्मभिर् युक्तः । वार्धुष्यो निषिद्धवृद्ध्युपजीवी । गणिका पण्यस्त्री । गणदीक्षी बहुयाजकः । एतेषाम् अन्नं नाश्नीयाद् इत्य् अनुवर्तते ॥ १.१६१ ॥

चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् । १.१६२अब्
**क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ १.१६२च्द् ॥ **

चिकित्सको भिषग्वृत्त्युपजीवी । आतुरो महारोगोपसृष्टः । वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः ।

अर्शांसि ग्रहणीत्य् अष्टौ महारोगाः प्रकीर्तिताः ॥ इति ।

क्रुद्धः कुपितः । पुंश्चली व्यभिचारिणी । मत्तो विद्यादिना गर्वितः । विद्विट् शत्रुः । क्रूरो दृढाभ्यन्तरकोपः । वाक्कायव्यापारेणोद्वेजक उग्रः । पतितो ब्रह्महादिः । व्रात्यः पतितसावित्रीकः । दाम्भिको वञ्चकः । उच्छिष्टभोजी परभुक्तोज्झिताशी । एतेषां चिकित्सकादीनाम् अन्नं नाश्नीयात् ॥ १.१६२ ॥

अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । १.१६३अब्
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ॥ १.१६३च्द् ॥

अवीरा स्त्री स्वतन्त्रा व्यभिचारम् अन्तरेणापि । पतिपुत्ररहितेत्य् अन्ये । स्वर्णकारः सुवर्णस्य विकारान्तरकृत् । स्त्रीजितः सर्वत्र स्त्रीवशवर्ती । ग्रामयाजी ग्रामस्य शान्त्यादिकर्ता बहूनाम् उपनेता वा । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारो लोककारः तक्षादिश् च । तन्तुवायः सूचिशिल्पोपजीवी । श्वभिर् वृत्तिर् वर्तनं जीवनम् अस्यास्तीति श्ववृत्ती । एतेषाम् अन्नं नाश्नीयात् ॥ १.१६३ ॥

नृशंसराजरजककृतघ्नवधजीविनाम् । १.१६४अब्
चैलधावसुराजीवसहोपपतिवेश्मनाम् ॥ १.१६४च्द् ॥
पिशुनानृतिनोश् चैव तथा चाक्रिकबन्दिनाम् । १.१६५अब्
एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ॥ १.१६५च्द् ॥

नृशंसो निर्दयः । राजा भूपतिः । तत्साहचर्यात् पुरोहितश् च । यथाह शङ्खः- “भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानि वर्जयेत्” इति । रजको वस्त्रादीनां नीलादिरागकारकः । कृतघ्न उपकृतस्य हन्ता । वधजीवी प्राणिनां वधेन वर्तकः । चैलधावो वस्त्रनिर्णेजनकृत् । सुराजीवो मद्यविक्रयजीवी । उपपतिर् जारः । सहोपपतिना वेश्म यस्यासौ सहोपपतिवेश्म । पिशुनः परदोषस्य ख्यापकः । अनृती मिथ्यावादी । चाक्रिकस् तैलिकः । शाकटिकश् चेत्य् एके । “अभिशस्तः पतितश् चाक्रिकस् तैलिकः” इति भेदेनाभिधानात् । बन्धिनः स्तावकाः । सोमविक्रयी सोमलताया विक्रेता । एतेषाम् अन्नं न भोक्तव्यम् । सर्वे चैते कदर्यादयो द्विजा एव कदर्यत्वादिदोषदुष्टा अभोज्यान्नाः, इतरेषां प्राप्त्यभावात् प्राप्तिपूर्वकत्वाच् च निषेधस्य ॥ १.१६५ ॥ १.१६६ ।

“अग्निहीनस्य नान्नम् अद्याद् अनापदि” (य्ध् १.१६०) इत्य् अत्र शूद्रस्याभोज्यान्नत्वम् उक्तम् । तत्र प्रतिप्रसवम् आह ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः । १.१६६अब्
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥ १.१६६च्द् ॥

दासा गर्भदासादयः । गोपालो गवां पालनेन यो जीवति । कुलमित्रं पितृपितामहादिक्रमायातः । अर्धसीरी हलपर्यायसीरोपलक्षितकृषिफलभागग्राही । नापितो गृहव्यापारकारयिता नापितश् च । यश् च वाङ्मनःकायकर्मभिर् आत्मानं निवेदयति तवाहम् इति । एते दासादयः शूद्राणां मध्ये भोज्यान्नाः । चकारात् कुम्भकारश् च, “गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानो भोज्यान्नाः” इति वचनात् ॥ १.१६६ ॥

**इति स्नातकधर्मप्रकरणम् **

**अथ भक्ष्याभक्ष्यप्रकरणम् **

“न स्वाध्यायविरोध्यर्थम्” (य्ध् १.१२९) इत्य् अत आरभ्य, ब्राह्मणस्य स्नातकव्रतान्य् अभिधाय, इदानीं द्विजातिधर्मान् आह ।

अनर्चितं वृथामांसं केशकीटसमन्वितम् । १.१६७अब्
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १.१६७च्द् ॥
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्हयेत् । १.१६८अब्
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १.१६८च्द् ॥

अनर्चितम् अर्चार्हाय यद् अवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययादिव्यतिरेकेण, देवाद्यर्चनावशिष्टं च यन् न भवत्य् आत्मार्थम् एव यत् साधितम् । केशकीटादिभिश् च समन्वितं संयुक्तम् । यत् स्वयम् अनम्लं केवलं काकपरिवासेन द्रव्यान्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच् छुक्तं दध्यादिव्यतिरेकेण, “न पापीयसो ऽन्नम् अश्नीयान् न द्विःपक्वं न शुक्तं न परुषितम् अन्यत्र रागखाण्डवचुक्रदधिगुडगोधूमयवपिष्टविकारेभ्यः” इति शङ्खस्मरणात् । पर्युषितं रात्र्यन्तरितम् । उच्छिष्टं भुक्तोज्झितम् । श्वस्पृष्टं शुना स्पृष्टम् । पतितेक्षितं पतितादिभिर् ईक्षितम् । उदक्या रजस्वला तया स्पृष्टम् । उदक्याग्रहणं चण्डालाद्युपलक्षणार्थम्, “अमेध्यपतितचण्डालपुल्कसरजस्वलाकुनखिकुष्ठिसंस्पृष्टान्नं वर्जयेत्” इति शङ्खस्मरणात् । को भुङ्क्त इति यद् आघुष्य दीयते तत् संघुष्टान्नम् । अन्यसंबन्ध्यन्यव्यपदेशेन यद् दीयते तत् पर्यायान्नम् यथा ।

ब्राह्मणान्नं ददच् छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।
उभाव् एताव् अभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् । इति ।

पर्याचान्तम् इति पाठे परिगतम् आचान्तं गण्डूषग्रहणं यस्मिन् तत् पर्याचान्तं तन् न भोक्तव्यम् । एतद् उक्तं भवति- गण्डूषग्रहणाद् ऊर्ध्वम् आचमनात् प्राक् न भोक्तव्यम् इति । पार्श्वाचान्तम् इति पाठे एकस्यां पङ्क्तौ पार्श्वस्थे आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । वर्जयेद् इति प्रत्येकं संबध्यते । तथा गोघ्रातं गवा आघ्रातम् । शकुनोच्छिष्टं शकुनेन काकादिना भुक्तम् आस्वादितम् । पदा स्पृष्टं बुद्धिपूर्वं पादेन स्पृष्टं वर्जयेत् ॥ १.१६७ ॥ १.१६८ ॥

पर्युषितस्य प्रतिप्रसवम् आह ।

अन्नं पर्युषितं भोज्यं स्नेकाक्तं चिरसंस्थितम् । १.१६९अब्
**अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥ १.१६९च्द् ॥ **

अन्नम् अदनीयं पर्युषितं घृतादिस्नेहसंयुक्तं चिरकालसंस्थितम् अपि भोज्यम् । गोधूमयवगोरसविक्रियाः मण्डकसक्तुकिलाटकूर्चिकाद्या अस्नेहा अपि चिरकालसंस्थिता भोज्याः, यदि विकारान्तरम् अनापन्नाः, “अपूपधानाकरम्भसक्तुयावकतैलपायसशाकानि शुक्तानि वर्जयेत्” (वध् १४.३७) इति वसिष्ठस्मरणात् ॥ १.१६९ ॥

संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् । १.१७०अब्
**औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम् ॥ १.१७०च्द् ॥ **

गौः या वृषेण संधीयते सा संधिनी । “वशां वन्ध्यां विजानीयाद् वृषाक्रान्तां च संधिनीम्” इति त्रिकाण्डीस्मरणात् । या चैकां वेलाम् अतिक्रम्य दुह्यते, या च वत्सान्तरेण संधीयते, सापि संधिनी । प्रसूता सत्य् अनतिक्रान्तदशाहा अनिर्दशा । मृतवत्सा अवत्सा । संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सास्ताश् च गावश् च तासां पयः क्षीतं परिवर्जयेत् । संधिनीग्रहणं संधिनीयमलसुवोर् उपलक्षणार्थम् । यथाह गौतमः- “स्यन्दिनीयमसूसंधिनीनां[^१३] च” (ग्ध् १७.२५) इति । स्रवत्पयःस्तनी स्यन्दिनी । यमलसूर् यमलप्रसविनी । एवम् अजामहिष्योश् चानिर्दशयोः पयो वर्जयेत् । “गोमहिष्यजानाम् अनिर्दशानाम्” (वध् १४.३५) इति वसिष्ठस्मरणात् । पयोग्रहणात् तद्विकाराणाम् अपि दध्यादीनां निषेधः । न हि मांसनिषेधे तद्विकाराणाम् अनिषेधो युक्तः । विकारनिषेधे तु प्रकृतेर् अनिषेधः । पयोनिषेधाच् छकृन्मूत्रादेर् अनिषेधः । उष्ट्राज् जातम् औष्ट्रं पयोमूत्रादि । एकशफा वडवादयः तत्प्रभवम् ऐकशफम् । स्त्रीभवं स्त्रैणम् । स्त्रीग्रहणम् अजाव्यतिरिक्तसकलद्विस्तनीनाम् उपलक्षणार्थम्, “सर्वासां द्विस्तनीनां क्षीरम् अभोज्यम् अजावर्जम्” इति शङ्खस्मरणात् । अरण्ये भवा आरण्यकास् तदीयम् आरण्यकं क्षीरं माहिषव्यतिरेकेण ।

आरण्यानां च सर्वेषां मृगाणां माहिषं विना । (म्ध् ५.९)
इति वचनात् । अवेर् जातम् आविकम् । वर्जयेद् इति प्रत्येकम् अभिसंबध्यते । औष्ट्रम् इत्यादिविकारप्रत्ययनिर्देशाद् विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः, “नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च” (ग्ध् १७.२५) इति गौतमस्मरणात् ॥ १.१७० ॥
देवतार्थं हविः शिग्रु लोहितान् व्रश्चनांस् तथा । १.१७१अब्
अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १.१७१च्द् ॥

देवतार्थं बल्युपहारनिमित्तं साधितम् । हविः हवनार्थं सिद्धं प्राक् होमात् । शिग्रुः सोभाञ्जनः लोहितान् वृक्षनिर्यासान् । व्रश्चनप्रभवान् वृक्षच्छेदनजातान् अलोहितान् अपि । यथाह मनुः ।

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा । इति । (म्ध् ५.६)

लोहितग्रहणात् हिङ्गुकर्पूरादीनाम् अनिषेधः । अनुपाकृतमांसानि यज्ञे ऽहुतस्य पशोर् मांसानि । विड्जानि मनुष्यादिजग्धबीजपुरीषोत्पन्नानि तन्दुलीयकप्रभृतीनि च । कवकानि छत्राकाणि । वर्जयेद् इति प्रत्येकम् अभिसंबध्यते ॥ १.१७१ ॥

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् । १.१७२अब्
**सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥ १.१७२च्द् ॥ **

क्रव्यादा आममांसादनशीलाः । पक्षिणो गृध्रादयः । दात्यूहश् चातकः । शुकः कीरः । चञ्च्वा प्रतुद्य भक्षयन्तीति प्रतुदाः श्येत्नादयः । टिट्टिभस् तच्छब्दानुकारी । सारसो लक्ष्मणः । एकशफा अश्वादयः । हंसाः प्रसिद्धाः । ग्रामवासिनः पारावतप्रभृतयः । एतान् क्रव्यादादीन् वर्जयेत् ॥ १.१७२ ॥

कोयष्टिप्लवचक्राह्वबलाकाबकविष्किरान् । १.१७३अब्
वृथाकृसरसंयावपायसापूपशष्कुलीः ॥ १.१७३च्द् ॥

कोयष्टिः क्रौञ्चः । प्लवो जलकुक्कुटः । चक्राह्वश् चक्रवाकः । बलाकाबकौ प्रसिद्धौ । नखैर् विकीर्य भक्षयन्तीति विष्किराश् चकोरादय एव गृह्यन्ते । लावकमयूरादीनां भक्ष्यत्वात्, ग्रामकुक्कुटस्य ग्रामवासित्वाद् एव निषेधाच् च । एतान् कोयष्ट्यादीन् वर्जयेत् । वृथा देवताद्युद्देशम् अन्तरेण साधिताः कृसरसंयावपायसापूपशष्कुलीर् वर्जयेत् । कृसरं तिलमुद्गसिद्ध ओदनः । संयावः क्षीरगुडघृतादिकृत उत्करिकाख्यः पाकविशेषः । पायसं पयसा शृतम् अन्नम् । अपूपो ’स्नेहपक्वो गोधूमविकारः । शष्कुली स्नेहपक्वो गोधूमविकारः । “न पचेद् अन्नम् आत्मने” (य्ध् १.१०४) इति कृसरादीनां निषेधे सिद्धे, पुनर् अभिधानं प्रायश्चित्तगौरवार्थम् ॥ १.१७३ ॥

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् । १.१७४अब्
जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥ १.१७४च्द् ॥

कलविङ्को ग्रामचट्कः । ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्य् उभयचारित्वात् पुनर्वचनम् । काकोलो द्रोणकाकः । कुरर उत्क्रोशः । रज्जुदालको वृक्षकुट्तकः । जालपादो जालाकारपादः । अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्वचनम् । खञ्जरीटः खञ्जनः । ज्ञातितो ये अज्ञाता मृगाः पक्षिणश् च । एतान् कलविङ्कादीन् वर्जयेत् ॥ १.१७४ ॥

चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च । १.१७५अब्
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥ १.१७५च्द् ॥

चाषाः किकीदिवयः रक्तपादाः कादम्बप्रभृतयः । सूनिना त्यक्तं सौनं घातस्थानभवं मांसं भक्ष्याणाम् अपि । वल्लूरं शुष्कमांसम् । मत्स्या मीनाः । एतांश् चापादीन् वर्जयेत् । चकारान् नालिकाशणछत्राककुसुम्भादीन्,

नालिकाशणछत्राककुसुम्भालाबुविड्भवान् ।
कुम्भीकन्दुकवृन्ताककोविदारांश् च वर्जयेत् ॥ इति।

तथा,

अकालप्ररूढानि पुष्पाणि च फलानि च ।
विकारवच् च यत् किंचित् प्रयत्नेन विवर्जयेत् ॥

तथा, “वटप्लक्षाश्वत्थकपित्थनीपमातुलिńगफलानि वर्जयेत्” इति स्मरणात् । एतान् संधिनीक्षीरप्रभृतीन् अनुक्रान्तान् कामतो भक्षयित्वा त्रिरात्रम् उपवसेत् । अकामतस् त्व् अहोरात्रम् । “शेषेषुपवसेद् अहः” (म्ध् ५.२०) इति मनुस्ररणात् । यत् पुनः शङ्खेनोक्तम् “बलबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुकसारिकासारस-टिट्टिभोलूककङ्करक्तपादचाषभासवायसकोकिलशाड्वलिकुक्कुटहारीतभक्षणे द्वादशरात्रम् अनाहारः पिबेद् गोमूत्रयावकम्” इति, तद् बहुकालाभ्यासे मतिपूर्वे समस्तभक्षणे वा वेदितव्यम् ॥ १.१७५ ॥

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । १.१७६अब्
**लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १.१७६ ॥ **

पलाण्डुः स्थूलकन्दनालो लशुनानुकारी । विड्वराहो ग्रामसूकरः । छत्राकं सर्पछत्रम् । ग्रामकुक्कुटः प्रसिद्धः । लशुनं रसोनं सूक्ष्मश्वेतकन्दनालम् । गृञ्जनं लशुनानुकारिलोहितसूक्ष्मकन्दम् । एतानि षट् सकृत् कामतो जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुक्कुटछत्राकयोः पूर्वप्रतिषेधितयोर् इहाभिधानं पलाण्ड्वादिसमानप्रायश्चित्तार्थम् । मतिपूर्वं चिरतराभ्यासे तु,

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ (म्ध् ५.१९)

इति मनूक्तम् । अमतिपूर्वाभ्यासे,

अमत्यैतानि षट् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । (म्ध् ५.२०)

तृतीयाध्याये वक्ष्यमाणं,

यतिचान्द्रायणं वापि, (म्ध् ५.२०)

इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं “लशुनपलाण्डुगृञ्जनविड्वराह-ग्रामकुक्कुटकुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्” इति ॥ १.१७६ ॥

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाḩ । १.१७७अब्
शशश् च मत्स्येष्व् अपि हि सिंहतुण्डकरोहिताः ॥ १.७७च्द् ॥
तथा पाठीनराजीवसशल्काश् च द्विजातिभिः । १.१७८अब्

सेधा श्वावित् । गोधा कृकलासानुकारिणी महती । कच्छपः कूर्मः । शल्लकः शल्लकी । शशः प्रसिद्धः । पञ्चनखादीनां श्वमार्जारवानरादीनां मध्ये एते सेधादयो भक्ष्याः । चकारात् खड्गो ’पि । यथाह गौतमः- “पञ्चनखाः शशशल्लकश्वाविद्गोधाखड्गकच्छपाः” (ग्ध् १७,२७) इति । यथाह मनुर् अपि ।

श्वाविधं शल्लुकं गोधां खड्गकूर्मशशांस् तथा ।
भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतः ॥ इति । (म्ध् ५.१८)

यत् पुनर् वसिष्टेन “खड्गे तु विवदन्ते” (वध् १४.४७) इत्य् अभक्ष्यत्वम् उक्तं तच् छ्राद्धाद् अन्यत्र,

खड्गमांसैर् भवेद् दत्तम् अक्षय्यं पितृकर्मणि ।

इति श्राद्धे फलश्रुतिदर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डादयो भक्ष्याः । सिंहतुण्डः सिंहमुखः । रोहितो लोहितवर्णः । पाठीनश् चन्द्रकाख्यः । राजीवः पद्मवर्णः । सह शल्कैः शुक्त्याकारैर् वर्तत इति सशल्कः । एते च सिंहतुण्डादयो नियुक्ता एव भक्ष्याः,

पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवाः सिंहतुण्डाश् च सशल्काश् चैव सर्वशः ॥ (म्ध् ५.१६)

इति मनुस्मरणात् । द्विजातिग्रहणं शूद्रव्युदासार्थम् ॥ १.१७७ ॥

“अनर्चितं वृथामांसम्” (य्ध् १.१६७) इत्यारभ्य द्विजातिधर्मान् उक्त्वा, इदानीं चातुर्वर्ण्यधर्मान् आह ।

अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १.१७८च्द् ॥

मांसस्य प्रोक्षितादेर् भक्षणे तद्व्यतिरिक्तस्य च निषिद्धस्य वर्जने प्रोक्षितादिव्यतिरेकेण मांसं न भक्षयामीत्य् एवं संकल्परूपेण विधिं सामश्रवःप्रभृतयः “हे मुनयः शृणुध्वम्” ॥ १.१७८ ॥

तत्र भक्षणे विधिं दर्शयति ।

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । १.१७९अब्
**देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥ १.१७९च्द् ॥ **

अन्नाभावेन व्याध्यभिभवेन वा मांसभक्षणम् अन्तरेण यदा प्राणबाधा भवति तदा मांसं नियमेन भक्षयेत्, “सर्वत एवात्मानं गोपायेत्” (ग्ध् ९.३४) इत्य् आत्मरक्षाविधानात्, “तस्माद् उ ह न पुरायुषः स्वःकामी प्रेयात्” इति मरणनिषेधाच् च । तथा श्राद्धे मांसं निमन्त्रितो नियमेन भक्षयेत्, अभक्षणे दोषश्रवणात् ।

यथाविधि नियुक्तस् तु यो मांसं नात्ति मानवः ।
स प्रेत्य पशुतां याति संभवान् एकविंशतिम् ॥ (म्ध् ५.३५)

इति मनुस्मरणात् । प्रोक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर् यागार्थस्याग्नीषोमीयादेर् हुतावशिष्टं मांसं प्रोक्षितं तद् भक्षयेत्, अभक्षणे यागानिष्पत्तेः । द्विजकाम्या ब्राह्मणभोजनार्थं देवपित्तर्थं च यत् साधितं तेन तान् अभ्यर्च्यावशिष्टं भक्षयन् न दोषभाग् भवति । एवं भृत्यभरणावशिष्टम् अपि ।

यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृगपक्षिणः ।
भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् पुरा ॥ (म्ध् ५.२२)

इति मनुस्मरणात् । “न दोषभाग्” इति दोषाभावमात्रं वदता अतिथ्याद्यर्चनावशिष्टस्याभ्यनुज्ञामात्रं न प्रोक्षितादिवन् नियम इति दर्शितम् । एवम् अप्रतिषिद्धानाम् अपि शशादीनां प्राणात्ययव्यतिरेकेणाभḳस्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधिनिषेधाधिकारो ऽवगम्यते ॥ १.१७९ ॥

इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसम् इत्य् अनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादम् आह ।

वसेत् स नरके घोरे दिनानि पशुरोमभिः । १.१८०अब्
**संमितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥ १.८०च्द् ॥ **

अविधिना देवताद्युद्देशम् अन्तरेण यः पशून् हन्ति स तस्य पशोर् यावन्ति रोमाणि तावन्ति दिनानि घोरे नरके वसेत् । हन्तीत्य् अष्टविधो ऽपि घातको गृह्यते । यथाह मनुः ।

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ इति ॥ (म्ध् ५.५१) १.१८० ॥

इदानीं वर्जने विधिम् आह ।

सर्वान् कामान् अवाप्नोति हयमेधफलं तथा । १.१८१अब्
**गृहे ऽपि निवसन् विप्रो मुनिर् मांसविवर्जनात् ॥ १.१८१च्द् ॥ **

यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यम् इति सत्यसंकल्पो भवति स सर्वान् कामान् तत्साधने प्रवृत्तो निर्विघ्नं प्राप्नोति, विशुद्धाशयत्वात् । यथाह मनुः ।

यद् ध्यायते यत् कुरुते रतिं बध्नाति यत्र च ।
तद् अवाप्नोत्य् अविघ्नेन यो हिनस्ति न किंचन ॥ इति । (म्ध् ५.४७)

एतच् चानुषङ्गिकं फलम् । मुख्यं फलम् आह, “हयमेधफलं तथा” इति । एतच् च सांवत्सरिकसंकल्पस्य ।

वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ॥ (म्ध् ५.५३)

इति मनुस्मरणात् । तथा गृहे ऽपि निवसन् ब्राह्मणादिश् चातुवर्णिको मुनिवन् माननीयो भवति मांसत्यागात् । एतच् च न प्रतिषिद्धमांसविषयं नापि प्रोक्षितादिविषयम् किं तु पारिशेष्याद् अतिथ्याद्यर्चनावशिष्टाभ्यनुज्ञातविषयम् इति ॥ १.१८१ ॥

**इति भक्ष्याभक्ष्यप्रकरणम् **

**अथ द्रव्यशुद्धिप्रकरणम् **

इदानीं द्रव्यशुद्धिम् आह ।

सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम् । १.१८२अब्
शाकरज्जुमूलफलवासोविदलचर्मणाम् ॥ १.१८२च्द् ॥
पात्राणां चमसानां च वारिणां शुद्धिर् इष्यते । १.१८३अब्
**चरुस्रुक्स्रुवसस्नेहपात्राण्य् उष्णेन वारिणा ॥ १.१८३ ॥ **

सौवर्णं सुवर्णकृतम् । राजतं रजतकृतम् । अब्जं मुक्ताफलशङ्खशुक्त्यादि । ऊर्ध्वपात्रं यज्ञियोलूखलादि ग्रहादिसाहचर्यात् । ग्रहाः षोडशिप्रभृतयः । अश्मा दृषदादिः । शाक्तं वास्तुकादि । रज्जुः बल्वजादिनिर्मिता । मूलम् आर्द्रकादि । फलम् आम्रादि । वासो वस्त्रम् । विदलं वैणवादि । चर्म अजादीनाम् । विदलचर्मणोर् ग्रहणं तद्विकाराणां छत्रवरत्रादीनाम् उपलक्षणार्थम् । पात्राणि प्रोक्षणीपात्रप्रभृतीनि । चमसा होतृचमसादयः । एतेषां सौवर्णादीनां लेपरहितानाम् उच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः । चरुश् चरुस्थाली । स्रुक्स्रवौ प्रसिद्धौ । सस्नेहानि पात्राणि प्राशित्रहरणादीनि । एतानि च लेपरहितान्य् उष्णेन वारिणा शुध्यन्ति,

निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति ।
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ (म्ध् ५.११२)

इति मनुस्मरणात् । अनुपस्कृतम् अखातपूरितम् । सलेपानां तु,

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥ (म्ध् ५.१११)

इति मनूक्तं द्रष्टव्यम् । मृद्भस्मनोर् एककार्त्यत्वाद् विकल्पः । आपस् तु समुच्चीयन्ते । काकादिमुखोपघाते तु “कृष्णशकुनिमुखावमृष्टम् पात्रं निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत” इति द्रष्टव्यम् । एतच् च मार्जाराद् अन्यत्र ।

मार्जारश् चैव दर्वी च मारुतश् च सदा शुचिः । (च्फ़्। विध् २३.५२)

इति मनुस्मरणात् ॥ १.१८२ ॥ १.१८३ ॥

यञ्जपात्रादीनां प्रोक्षणेन शुद्धिः ।

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् । १.१८४अब्
**प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् । १.१८४च्द् ॥ **

स्फ्यो वज्रो यज्ञाङ्गम् । अनः शकटम् । शेषं प्रसिद्धम् । एतेषाम् उष्णेन वारिणा शुद्धिः । पुनर् अजिनग्रहणं यज्ञाङ्गाजिनप्राप्त्यर्थम् । संहतानाम् अशुद्धिद्रव्यारब्धावयविनां बहूनां धान्यानां वाससां च । वासोग्रहणम् उक्तशुद्धीनाम् उपलक्षणार्थम् । उक्तशुद्धीनां धान्यवासःप्रभृतीनां बहूनां च राशीकृतानां प्रोक्षणेनैव शुद्धिः । बहुत्वं च स्पृष्टापेक्षया । एतद् उक्तं भवति- यदा धान्यानि वस्त्रादीनि वा राशीकृतानि तत्र चण्डालादिस्पृष्टान्य् अल्पानि बहूनि चास्पृष्टानि तत्र स्पृष्टानाम् उक्तैव शुद्धिर् इतरेषां प्रोक्षणम् इति । तथा च स्मृत्यन्तरम् ।

वस्त्रधान्यादिराशीनाम् एकदेशस्य दूषणे ।
तावन्मात्रं समुद्धृत्य शेषं प्रोक्षणम् अर्हति ॥ इति ।

यदा पुनः स्पृष्टानां बहुत्वं अस्पृष्टानां चाल्पत्वं तदा सर्वेषाम् एव क्षालनम् । यथाह मनुः ।

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ इति । (म्ध् ५.११८)

स्पृष्टानाम् अस्पृष्टानां च समत्वे ऽपि प्रोक्षणम् एव । बहूनां प्रोक्षणविधानेनाल्पानां क्षालने सिद्धे पुनर् अल्पानां क्षालनवचनस्य समेषु क्षालननिवृत्त्यर्थत्वात् । इयत् स्पृष्टम् इयद् अस्पृष्टम् इत्य् अविवेके तु क्षालनम् एव । पाक्षिकस्यापि दोषस्य परिहर्तव्यत्वात्, अनेकपुरुषैर् धार्यमाणानां तु धान्यवासःप्रभृतीनां स्पृष्टानाम् अस्पृष्टानां च प्रोक्षणम् एवेति निबन्धकृतः ॥ १.१८४ ॥

निर्लेपानां स्पर्शमात्रदुष्टानां शुद्धिम् उक्त्वा, इदानीं सलेपानां शुद्धिम् आह ।

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् । १.१८५अब्
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १.१८५च्द् ॥

दारूणां मेषमहिषादिशृङ्गाणां करिवाराहशङ्खाद्यस्थ्नाम् । अस्थिग्रहणेन दन्तानाम् अपि ग्रहणम् । उच्छिष्टस्नेहादिभिर् लिप्तानां मृद्भस्मोदकादिभिर् अनपगतलेपानाम्, मनुः,

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।
तावन् मृद् वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ (म्ध् ५.१२६)

इति सामान्यतः शुद्धिविधानात् । तक्षणं तावन्मात्रावयवापनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनालिकेरादिफलसंभूतानां पात्राणां गोवालैर् उद्घर्षणाच् छुद्धिः । यज्ञपात्राणां स्रुक्स्रुवादीनां यज्ञकर्मणि प्रयुज्यमानानां दक्षिणेन हस्तेन दर्भैर् दशापवित्रेण वा यथाशास्त्रं कर्माङ्गतया मार्जनं कर्तव्यम् । एतच् च श्रौतम् उदाहरणम् अन्येषाम् अपि सौवर्णादीनां पात्राणां स्मार्तलौकिककर्मसु कृतशौचानाम् एवाङ्गत्वम् इति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानाम् इदं दशापवित्रादिभिर् मार्जनं संस्कारार्थम् इति शेषः ॥ १.१८५ ॥

सोषरोदकगोमूत्रैः शुध्यत्य् आविककौशिकम् । १.१८६अब्
सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥ १.१८६च्द् ॥

ऊषरमृत्तिकासहितेन गोत्मूत्रेणोदकेन वा लेपापेक्षया । आविकम् ऊर्णामयम् । कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुध्यति । उदकगोमूत्रैर् इति बहुवचनं पश्चाद् अप्य् उदकप्राप्त्यर्थम् । अंशुपट्टं वल्कलतन्तुकृतम् । सश्रीफलैर् बिल्वफलसहितैः । कुतपः पार्वतीयच्छागरोमनिर्मितकम्बलः । अरिष्टसहितैर् उदकगोमूत्रैः शुध्यतीत्य् अनुवर्तते । एतच् चोच्छिष्टस्नेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि, क्षालनासहत्वात्, सर्वत्र द्रव्याविनाशेनैव शिद्धेर् इष्टत्वात् । तथा च देवलः ।

ऊर्णाकौशेयकुतपपट्टक्षौमदुकूलजाः ।
अल्पशौचा भवन्त्य् एते शोषणप्रोक्षणादिभिः ॥
इत्य् अभिधायाह,
तान्य् एवामेध्ययुक्तानि क्षालयेच् छोधनैः स्वकैः ।
धान्यकल्कैस् तु फलजै रसैः क्षारानुगैर् अपि ॥ इति ।

क्षौमवद् एव शाणस्य समानयोनित्वात् । ऊर्णादिग्रहणं तदारब्धतूलिकादिप्राप्त्यर्थम् । अतस् तस्याल्पोपघाते नैव क्षालनं कार्यम्, अमेध्यलेपाद् अन्यत्र,

तूलिकाम् उपधानं च पुष्परक्ताम्बरं तथा ।
शोषयित्वातपे किंचित् करैः संमार्जयेन् मुहुः ॥
पश्चाच् च वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि ।
तान्य् अप्य् अतिमलिष्टानि यथावत् परिशोधयेत् ॥

इति देवलस्मरणात् । पुष्परक्तानि कुङ्कुमकुसुम्भादिरक्रानि । पुष्परक्तग्रहणम् अन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य प्राप्त्यर्थम् । न मञ्जिष्ठादेः तस्य क्षालनसहत्वात् । शङ्खेनाप्य् उक्तम् “रागद्रव्याणि प्रोक्षितानि शुचीनि” इति ॥ १.१८६ ॥

सगौरसर्षपैः क्षौमं पुनः पाकान् महीमयम् । १.१८७अब्
**कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १.१८७च्द् ॥ **

गौरसर्षपसहितैर् उदकगोमूत्रैः क्षौमं क्षुमा अतसी तत्सूत्रनिर्मितं पटादि शुध्यति । पुनःपाकेन मृत्मयं घटादि । एतच् चोछिष्टस्नेहलेपे वेदितव्यम् । मनुः ।

मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैः पूयशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ (म्ध् ५.१२३)

इति स्मरणात् । चण्डालाद्युपघाते तु त्याग एव । यथाह पराशरः ।

चण्डालाद्यैस् तु संस्पृष्टं धान्यं वस्त्रम् अथापि वा ।
प्रक्षालनेन शुध्येत परित्यागान् महीमयम् ॥ इति ।

कारवो रजकचैलधावकसूपकाराद्यास् तेषां हस्तः सदा शुचिः । शुचित्वं तत्साध्ये कर्मणि । वस्त्रधावनादौ सूतकादिसंभवे ऽपि । तथा च स्मृत्यन्तरम् ।

कारवः शिल्पिनो वैद्या दास्यो दासास् तथैव च ।
राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥ इति । (प्स्म् ३.२०)

पण्यं पणार्हं विक्रेयं यवव्रीह्यादि । अनेकक्रेतृजनकरपरिघट्टितम् अप्य् अप्रयतं न भवति । सूतकादिनिमित्तेन च वणिजाम् । भिक्षाणां समूहो भैḳसम् तद् ब्रह्मचार्यादिहस्तगतम् अनाचान्तस्त्रीप्रदानाशुचिरथ्याक्रमणादिना निमित्तेनापि न दुष्यति । तथा योषिन्मुखं संभोगकाले शुचि, “स्त्रियश् च रतिसंसर्गे” (वध् २८.८) इति स्मरणात् ॥ १.१८७ ॥

इदानीं भूशुद्धिम् आह ।

भूशुद्धिर् मार्जानाद् दाहात् कालाद् गोक्रमणात् तथा । १.१८८अब्
सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् । १.८८च्द् ॥

मार्जन्यां पांसुतृणादीनां प्रोत्सारणां मार्जनम् । दाहस् तृणकाष्ठाद्यैः । कालो यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम् । सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा । उल्लेखनं तक्षणं खननं वा । लेपो गोमयादिभिः । एतैर् मार्जादिभिः समस्तैर् व्यस्तैर् वा अमेध्यादिदुष्टा मलिना च भूमिः शुध्यति । तथा च देवल्ः,

यत्र प्रसूयते नारी म्रियते दह्यते ऽपि वा ।
चण्डालाध्युषितं यत्र यत्र विष्ठादिसंहतिः ॥
एवं कश्मलभूयिष्ठा भूर् अमेध्या प्रकीर्तिता ।
श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां व्रजेत् ॥
अङ्गारतुषकेशास्थिभस्माद्यैर् मलिना भवेत् ॥

इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेस् त्रैविद्यम् अभिधाय शुद्धिविभागं दर्शयति-

पञ्चधा वा चतुर्धा वा भूर् अमेध्यापि शुध्यति ।
दुष्टान्विता त्रिधा द्वेधा शुध्यते मलिनैकधा ॥ इति ।

यत्र मनुष्या दह्यन्ते यत्र चण्डालैर् अध्युषितं तत्र पञ्चभिर् दहनकालगोक्रमणसेकोल्लेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र म्रियन्ते यत्र चात्यन्तं विष्ठादिसंहतिः तासां दाहवर्जितैस् तैर् एव चतुर्भिः । श्वसूकरखरैश् चिरकालम् अध्युषितायाः गोक्रमणसेकोल्लेखनैस् त्रिभिः । उष्ट्रग्रामकुक्कुटादिभिश् चिरकालम् अधिवासितायाः सेकोल्लेखनाभ्यां शुद्धिः । अङ्गारतुषकेशादिभिश् चिरकालम् अधिवासिताया** **उल्लेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयते । एवं गृहं मार्जनलेपनाभ्यां शुध्यति । गृहस्य पृथग् उपादानं संमार्जनलेपनयोः प्रतिदिवसं प्राप्त्यर्थम् ॥ १.१८८ ॥

गोघ्राते ऽअन्ने तथा केशमक्षिकाकीटदूषिते । १.१८९अब्
**सलिलं भस्म मृद् वापि प्रक्षेप्तव्यं विशुद्धये ॥ १.१८९च्द् ॥ **

गोग्राते गोनिःश्वासोपहते ऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीटैर् दूषिते । केशग्रहणं लोमादिप्राप्त्यर्थम् । कीटाः पिपीलिकादयः । उदकं भस्म मृद् वा यथासंभवं प्रक्षेप्तव्यं शुद्ध्यर्थम् । यत्तु गौतमेनोक्तम् “नित्यम् अभोज्यं केशकीटावपन्नम्” (ग्ध् १७.८–९) इति तत् केशकीटादिभिः सह यत्पक्वं तद्विषयम् ॥ १.१८९ ॥

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । १.१९०अब्
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रव्स्य तु ॥ १.१९०च्द् ॥

त्रपुप्रभृतीनि प्रसिद्धानि । तेषां क्षारोदकेनाम्लोदकेन वारिणा वोपघातापेक्षया समस्तैर् व्यस्तैर् वा शुद्धिः कार्या । कांस्यलोहानां भस्मोदकेन । ताम्रग्रहणाद् रीतिकापित्तलयोर् ग्रहणं, एकयोनित्वात् । एतच् च ताम्रादीनाम् अम्लोदकादिभिः शुद्ध्यभिधानं न नियमार्थम् ।

मलसंयोगजं तज्जं यस्य येन उपहन्यते ।
तस्य तच् छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत् ॥

इत्य् अविशेषेण स्मरणात् । अतो न ताम्रादेर् उच्छिष्टोदकादिलेपस्यान्येनापगमसम्भवे नियमेनाम्लोदकादिना शुद्धिः कार्या । अत एव मनुना सामान्येनोक्तम् ।

ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ इति । (म्ध् ५.११४)

यत् तु,

भस्मना शुध्यते कांस्यं ताम्रम् अम्लेन शुध्यति । (प्स् ७.२)

इति तत् ताम्रादेः शौचस्य परां काष्ठां प्रतिपादयितुं, नान्यस्य निषेधाय । यदा तूपघातातिशयस् तदाम्लोदकादीनाम् आवृत्तिः,

गवाघ्रातानि कांस्याणि शूद्रोच्छिष्टानि यानि च ।
शुध्यन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥

इति स्मरणात् ।[^१४] “शुद्धिः प्लावो द्रवस्य तु” इति द्रवस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अमेध्यसंस्पृष्टस्य च प्लावः प्लावनं समानजातीयेन द्रवद्रव्येण भाण्डस्यातिपूरणं यावन् निःसरणं शुद्धिर् इत्य् अनुवर्तते । ततो ऽल्पस्य त्यागः । बह्वल्पत्वं च देशकालाद्यपेक्षयापि वेदितव्यम् । यथाह बौधायणः ।

देशं कालं तथा मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिम् अवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥ इति । (च्फ़्। ब्ध् १.८.५३)

कीटाद्युपहतस्य तूत्पवनम् । यथाह मनुः ।

द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनं स्मृतम् ॥ इति । (म्ध् ५.११५)

उत्पवनं चात्र वस्त्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यपगमस्य असंभवात् । शूद्रभाण्डस्थितस्य मधूदकादेः पात्रान्तरानयनाच् छुद्धिः, “मधूदके पयस् तद्विकाराश् च पात्रात् पात्रान्तरानयने शुद्धाः” (ब्ध् १.१४.१६) इति बौधायनस्मरणात् । मधूघृतादेर् वर्णापसदहस्तात् प्राप्तस्य पात्रान्तरानयनं पुनः पवनं च कार्यम् । यथाह शङ्खः- “अभ्यवहार्याणां घृतेनाभिघारितानां पुनः पवनम् एवं स्नेहानां स्नेहवद् रसानाम्” इति ॥ १.१९० ॥

एवं सौवर्णराजतादीनाम् एतत्प्रकरणप्रतिपादितानां सर्वेषाम् उच्छिष्टस्नेहाद्युपघाते शुद्धिम् उक्त्वा, इदानीं तेषाम् एवामेध्योपहतानां शुद्धिम् आह ।

अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धादिकर्षणात् । १.१९१अब्
**वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचि ॥ १.१९१च्द् ॥ **

अमेध्याः शरीरजा मला वसाशुक्रादयः ।

वसा शुक्रम् असृङ् मज्जा मूत्रविट् कर्णविण् नखाः ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ (म्ध् ५.१३६)

तथा ।

मानुषास्थि शवं विष्टा रेतो मूत्रार्तवं वसा ।
स्वेदाश्रु दूषिका श्लेष्म मद्यं चामेध्यम् उच्यते ॥ इति ।

अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः, तैर् वसादिरक्तलिप्तम् अमेध्याक्तं, तस्य मृदा तोयेन च शुद्धिः कर्तव्या गन्धापकर्षणेन । आदिग्रहणाल् लेपस्यापि ग्रहणम् । यथाह गौतमः- “लेपगन्धापकर्षणैः शौचम् अमेध्यलिप्तस्य” इति (ग्ध् १.४२) । सर्वशुद्धिषु च प्रथमं मृत्तोयैर् एव लेपगन्धापकर्षणं कार्यम् । यदि गन्धादि मृत्तोयैर् न गच्छति तदान्येन, “अशक्ताव् अन्येन मृदद्भिः पूर्वं मृदा च” इति गौतमस्मरणात् (ग्ध् १.४३) । वसादिग्रहणं च सर्वेषाम् अमेध्यत्वं प्रतिपादयितुं न समानोपघाताय,

मद्यैर् मूत्रपुरीषैश् च श्लेष्मपूयाश्रुशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ (म्ध् ५.१२३)

इत्युपघाते विशेषाभिधानात् । अमेध्यत्वं चैवम् एषां “देहाच् चैव मलाश् च्युताः” (म्ध् ५.१३२) इति वचनात्, देहच्युतानाम् एव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेर् ऊर्ध्वं करव्यतिरिक्ताङ्गानाम् अन्यामेध्यस्पर्शे स्नानम् । यथाह देवलः ।

मानुषास्थि वसां विष्ठाम् आर्तवं मूत्ररेतसी ।
मज्जानं शोणितं स्पृष्ट्वा परस्य स्नानम् आचरेत् ॥ इति ।
तान्य् एव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुध्यति ॥ इति ।

तथा ।

ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अङ्गम् उपहन्यते ।
तत्र स्नानम् अधस्तात् तु प्रक्षाल्याचम्य शुध्यति ॥ इति ।

कृते ऽपि यथोक्तशौचे मनसो ऽपरितोषाद् यत्र शुद्धिसंदेहो भवति तद् वाक्शस्तं शुचि । “शुद्धम् एतद् अस्तु” इति ब्राह्मणवचनेन शुद्धं भवतीत्य् अर्थः । अम्बुनिर्णिक्तं यत्र प्रतिपदोक्ता शुद्धिर् नास्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य प्रोक्षणेन । अज्ञातं च सदा यत् काकाद्युपहतम् उपयुक्तं न कदाचिद् अपि ज्ञायते तच् छुचि । तदुपयोगाद् अदृष्टदोषो नास्तीत्य् अर्थः । ननु एतद् विरुध्यते,

संवत्सरस्य एकम् अपि चरेत् कृच्छं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥

इत्य् अदृष्टदोषे ऽपि प्रायश्चित्तप्रतिपादनात् । नैतत्, प्रायश्चित्तस्य जग्धिविषयत्वात्, दोषाभावस्य चान्योपयोगिविषयत्वात् ॥ १.१९१ ॥

शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम् । १.१९२अब्
**तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १.१९२च्द् ॥ **

महीगतं भूमिस्थम् उदकम् एकगवीतृप्तिजननसमर्थं चण्डालादिभिर् अस्पृष्टं प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरम् अनापन्नं शुच्य् आचमनादियोग्यं भवति । महीगतम् इत्य् अशुचिभूगतस्य शुचित्वनिषेधार्थं न त्व् आन्तरिक्षोदकस्य शुद्धत्वव्यावृत्त्यर्थम् । नाप्य् उद्धृतस्य,

उद्धृताश् चापि शुध्यन्ति शुद्धैः पात्रैः समुद्धृताः ।
एकरात्रोषिता आपस् त्याज्याः शुद्धा अपि स्वयम् ॥

इति देवलवचनात् । तथा चण्डालादिकृते ताडागादौ न दोषः,

अन्त्यैर् अपि कृते कूपे सेतौ वाप्यादिके तथा ।
तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥

इति शातातपस्मरणात् । “तथा मांसं श्वचण्डालक्रव्यादादिभिर् निपातितं” शुचि । आदिग्रहणात् पुल्कसादेर् अपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १.१९२ ॥

रश्मिर् अग्नी रजश् छाया गौर् अश्वो वसुधानिलः । १.१९३अब्
**विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ १.१९३च्द् ॥ **

रश्मयः सूर्यादेः प्रकाशकद्रव्यस्य । अग्निः प्रसिद्धः । रजो ऽजादिसंबन्धव्यतिरेकेण । तत्र,

श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् ।
अजाविरेणुसंस्पर्शाद् आयुर् लक्ष्मीश् च हीयते ।

इति दोषश्रवणात् तत्स्पर्शे संमार्जनादि कार्यम् । छाया वृक्षादेः । गौः । अश्वः । वसुधा भूमिः । अनिलो वायुः । विप्रुषो ऽवश्यायबिन्दवः, मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश् च । एते चण्डालादिस्पृष्टा अपि स्पर्शे शुचयः । वत्सः प्रस्नवने ऊधोगतदुग्धापकर्षणे शुचिः । वत्सग्रहणं बालस्योपलक्षणार्थम्,

बालैर् अनुपरिक्रान्तं स्त्रीभिर् आचरितं च यत् ।
अविज्ञातं च यत् किंचिन् नित्यं मेध्यम् इति स्थितिः ॥

इति वचनात् ॥ १.१९३ ॥

अजाश्वयोर् मुखं मेध्यं न गोर् न नरजा मलाः । १.१९४अब्
**पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १.१९४च्द् ॥ **

अजाश्वयोर् मुखं मेध्यं । न गोः । न नरजा मलाः । नरशब्दो लक्षणया देहम् अभिधत्ते । तज्जा मला वसादयो मेध्या न भवन्ति । पन्थानो मार्गाः श्वचण्डालादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर् मारुतेन च शुध्यन्ति । दिवा तु सूर्यांशुभिर् मारुतेन च ॥ १.१९४ ॥

मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः । १.१९५अब्
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ १.१९५च्द् ॥

मुखे जाता मुखजाः श्लेष्मविप्रुषो मेध्याः नोच्छिष्टं कुर्वन्ति, अनिपतिताश् चेद् अङ्गे, “न मुखविप्रुष उच्छिष्टं कुर्वन्ति न चेद् अङ्गे निपतन्ति” (ग्ध् १.४१) इति गौतमवचनात् । तथा च ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्याः । श्मश्रु चास्यगतं मुखप्रविष्टम् उच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयम् एव च्युतं त्यक्त्वा शुचिर् भवति । अच्युतं दन्तसमम् । तथा च गौतमः “दन्तश्लिष्टं तु दन्तवद् अन्यत्र जिह्वाभिमर्शनात्, प्राक् च्युतेर् इत्य् एके, च्युतेष्व् आस्राववद् विद्यान् निगिरन्न् एव तच् छुचि” (ग्ध् १.३८–४०) इति । निगिरणं पुनर् अनेन याज्ञवल्क्योक्तेन त्यागेन विकल्प्यते । निगिरन्न् एवेत्य् एवकारः,

चर्वणे त्व् आचमेन् नित्यं मुक्त्वा ताम्बूलचर्वणम् ।
ओष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥

इति विष्णूक्ताचमननिषेधार्थः । ताम्बूलग्रहणं फलाद्युपलक्षणार्थम् । यथाह शातातपः । ताम्बूले फले चैव भुक्ते स्नेहावशिष्टके ।

दन्तलग्नस्य संस्पर्शे न इच्छिष्टो भवति द्विजः ॥ इति ॥ १.१९५ ॥
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । १.१९६अब्
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥ १.१९६च्द् ॥

स्नानपानक्षुतस्वप्नभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्व् आचान्तः पुनर् आचामेत् । द्विर् आचामेद् इत्य् अर्थः । चकाराद् रोदनाध्ययनारम्भचापल्यानृतोक्त्यादिषु । तथा च वसिष्ठः- “सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनर् आचामेत्” (वध् ३.३८) इति । मनुर् अपि ।

सुप्त्वा क्षुत्वा च भुक्त्वा च ष्ठीवित्वोक्त्वानृतं वचः ।
पीत्वापो ऽध्येष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥ इति । (म्ध् ५.१४५)

भोजने त्व् आदाव् अपि द्विराचमनम्, “भोक्ष्यमाणस् तु प्रयतो ऽपि द्विर् आचामेत्” (आप्ध् १.१६.९) इत्य् आपस्तम्बस्मरणात् । स्नानपानयोर् आदौ सकृत् । अध्ययने त्व् आरम्भे द्विः । शेषेष्व् अन्ते एव यथोक्तं द्विराचमनम् ॥ १.१९६ ॥

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः । १.१९७अब्
**मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ १.१९७च्द् ॥ **

रथ्या मार्गमात्रम् । कर्दमः पङ्कः तोयम् उदकम् । रथ्यास्थितानि कर्दमतोयान्य् अन्त्यैश् चण्डालादिभिः श्वभिर् वायसैश् च स्पृष्टानि मारुतेनैव शुध्यन्ति शुद्धिम् उपयान्ति । बहुवचनं तद्गतगोमयशर्करादिप्राप्त्यर्थम् । पक्वेष्टकादिभिश् चितानि प्रासादधवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुध्यन्ति । एतच् च “प्रोक्षणं संहतानाम्” इत्य् उक्तप्रोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु प्रोक्षणम् एवेति ॥ १.१९७ ॥

**इति द्रव्यशुद्धिप्रकरणम् **

**अथ दानप्रकरणम् **

इदानीं दान्तधर्मं प्रतिपादयिष्यंस् तदङ्गभूतपात्रप्रतिपादनार्थं तत्प्रशंसाम् आह ।

तपस् तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये । १.१९८अब्
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १.१९८च्द् ॥

ब्रह्मा हिरण्यगर्भः कल्पादौ तपस् तप्त्वा ध्यानं कृत्वा कान् सृजामीति पूर्वं ब्राह्मणान् सृष्टवान् । किम् अर्थम् । वेदगुप्तये वेदरक्षणार्थम् । पितॄणां देवतानां च तृप्त्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थं च । अतस् तेभ्यो दत्तम् अक्षय्यफलं भवतीत्य् अभिप्रायः ॥ १.१९८ ॥

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः । १.१९९अब्
**तेभ्यः क्रियापराः श्रेष्ठास् तेभ्यो ऽप्य् अध्यात्मवित्तमाः ॥ १.१९९च्द् ॥ **

सर्वस्य क्षत्रियादेर् विप्राः प्रभवः श्रेष्ठाः जात्या कर्मणा च । ब्राह्मणेष्व् अपि श्रुताध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्यो ऽपि क्रियापरा विहितानुष्ठानशीलाः । तेभ्यो ऽप्य् अध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमादियोगेनात्मतत्त्वज्ञाननिरताः श्रेष्ठा इत्य् अनुषज्यते ॥ १.१९९ ॥

एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनैकैकयोगेन पात्रताम् अभिधायाधुना तेषां समुच्चये संपूर्णपात्रताम् आह ।

न विद्यया केवलया तपसा वापि पात्रता । १.२००अब्
यत्र वृत्तम् इमे चोभे तद् धि पात्रं प्रकीर्तितम् ॥ १.२००च्द् ॥

केवलया विद्यया श्रुताध्ययनसंपत्त्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । अपिशब्दात् केवलेनानुष्ठानेन केवलया जात्या वा नैव संपूर्णपात्रता । कथं तर्हि । यत्र पुरुषे वृत्तम् अनुष्ठानं इमे चोभे विद्यातपसी स्तः, चशब्दाद् ब्राह्मणजातिश् च, तद् एव मन्वादिभिः संपूर्णपात्रं प्रकीर्तितम् । हि यस्माद् अतः परम् उत्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानाम् उत्तरोत्तरप्राशस्त्येन फलतारतम्यं द्रष्टव्यम् ॥ १.२०० ॥

सत्पात्रे गवादिदानं देयम् ।

गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् । १.२०१अब्
नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता ॥ १.२०१च्द् ॥

पूर्वोक्ते पात्रे गवादिकम् अर्चितं शास्त्रोक्तोदकदानादीतिकर्तव्यतासहितं देयम् । अपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेषं जानता श्रेयः संपूर्णफलम् इच्छता किंचिद् अल्पम् अपि न दातव्यम् । श्रेयोग्रहणाद् अपात्रदाने ऽपि किम् अपि तामसं फलम् अस्तीति सूचितम् । यथाह कृष्णद्वैपायनः ।

अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते ।
असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ इति । (भ्ग् १७.२२)

अपात्रे न दातव्यम् इति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्यासन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तस्मै प्रतिश्रवणं वा कृत्वा समर्पयेत्, न त्व् अपात्रे दातव्यम् इति सूचितम् । तथा प्रतिश्रुतम् अपि पश्चात् पातकादिसंयोगे ज्ञाते न देयम् “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” (ग्ध् ५.२३) इति निषेधात् ॥ १.२०१ ॥

अपात्रे दातुर् निषेधम् उक्त्वा प्रतिग्रहीतारं प्रत्य् आह ।

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । १.२०२अब्
**गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥ १.२०२च्द् ॥ **

विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर् न ग्राह्यः । यस्माद् विद्यादिहीनः प्रतिगृह्णन् दातारम् आत्मानं चाधो नरकं नयति प्रापयतीति ॥ १.२०२ ॥

गवादि पात्रे दातव्यम् इत्य् उक्तं । तत्र विशेषम् आह ।

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । १.२०३अब्
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥ १.२०३च्द् ॥

प्रतिदिवसं शक्त्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतो ऽधिकं यत्नेन दातव्यम् । याचितेनापि श्रद्धापूतम् अनसूयापवित्रीकृतं शक्त्या दातव्यम् । याचितेनापि दातव्यम् इति वदता यथोक्तं पात्रं स्वयम् एव गत्वा आहूय वा यद् दानं तन् महाफलम् उक्तम् । तथा च स्मरणम् ।

गत्वा यद् दीयते दानं तद् अनन्तफलं स्मृतम् ।
सहस्रगुणम् आहूय याचिते तु तदर्धकम् ॥ इति । १.२०३ ॥

गवादिकं देयम् इत्य् उक्तं । तत्र गोदाने विशेषम् आह ।

हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता । १.२०४अब्
**सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ १.२०४च्द् ॥ **

हेममये शृङ्गे यस्याः सा हेमशृङ्गी । शफैः खुरैः रौप्यैः राजतैः संयुता वस्त्रेण च संयुता कांस्यपात्रसहिता बहुक्षीरा सुशीला गौर् यथाशक्ति दक्षिणासहिता दातव्या ॥ १.२०४ ॥

गोदानफलम् आह ।

दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसंमितान् । १.२०५अब्
कपिला चेत् तारयति भूयश् चासप्तमं कुलम् ॥ १.२०५ च्द् ॥

अस्या गोः रोमसंमितान् रोमसंख्याकान् वत्सरान् स्वर्गम् आप्नोति दाता । सा यदि कपिला तदा न केवलं दातारं तारयति किं तु कुलम् अप्य् आ सप्तमं सप्तमम् अभिव्याप्य पित्रादीन् षड् आत्मानं च सप्तमम् । अप्यर्थे भूयःशब्दः ॥ १.२०५ ॥

उभयतोमुखीदानफलम् ।

सवत्सारोमतुल्यानि युगान्य् उभतोमुखीम् । १.२०६अब्
दातास्याः स्वर्गम् आप्नोति पूर्वेण विधिना ददत् ॥ १.२०६च्द् ॥

सवत्सारोमतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोमतुल्यानि वत्सस्य गोश् च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतोमुखीं ददत् स्वर्गम् आप्नोत्य् अनुभवति पूर्वेण विधिना दाता चेत् ॥ १.२०६ ॥

का पुनर् उभयतोमुखी कथं तावत् तद्दानं महाफलम् इत्य् अत आह ।

यावद् वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते । १.२०७अब्
तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥ १.२०७च्द् ॥

गर्भान् निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते तावत्कालं उभयतोमुखम् अस्यास्तीत्य् उभयतोमुखी । यावत्कालं गर्भं न मुञ्चति तावत् सा गौः पृथिवीसमा ज्ञेया । अतः फलातिशयो युक्तः ॥ १.२०७ ॥

सामान्यगोदाने फलम् ।

यथाकथंचिद् दत्त्वा गां धेनुं वा ऽधेनुम् एव वा । १.२०८अब्
अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते ॥ १.२०८च्द् ॥

यथाकथंचिद् धेमशृङ्गाद्यभावे ऽपि यथासंभवं पूर्वोक्तेन विधिना धेनुं दोग्ध्नीं अधेनुं वा अवन्ध्यां अरोगां रोगरहिताम् अपरिक्लिष्टाम् अत्यन्तादुर्बलां गां दत्त्वा दाता स्वर्गे महीयते पूज्यते ॥ १.२०८ ॥

गोदानसमान्य् आह ।

श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् । १.२०९अब्
पादशौचं द्विजोच्छिष्टम् आर्जनं गोप्रदानवत् ॥ १.२०९ च्द् ॥

श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परिचर्या यथाशक्त्य् औषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्यादिभिर् आराधनम् । पादशौचं द्विजानां समानाम् अधिकानां च । तेषाम् एवोच्छिष्टस्य मार्जनम् । एतान्य् अनन्तरोक्तेन गोदानेन समानि ॥ १.२०९ ॥

भूदीपाश् चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् । १.२१०अब्
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ १.२१०च्द् ॥

भूः फलप्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासिनाम् आश्रयः । निवेशनार्थं गार्हस्थ्यार्थं यत् कन्या दीयते तन् नैवेशिकम् । स्वर्णं सुवर्णम् । धुर्यो भारसहो बलीवर्दः । शेषं प्रसिद्धम् । एतान् भूदीपादीन् दत्त्वा स्वर्गलोके महीयते पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम्,

यत् किंचित् कुरुते पापं ज्ञानतो ऽज्ञानतो ऽपि वा ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥

तथा मनुः,

वारिदस् तृप्तिम् आप्नोति सुखम् अक्षय्यम् अन्नदः ।
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥
वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः ।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ (म्ध् ४.२२९, २३१)

इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितं ।

सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् ।
दश तान्य् एव गोचर्म दत्त्वा स्वर्गे महीयते ॥ इति ॥ १.२१० ॥
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् । १.२११अब्
**यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ १.२११च्द् ॥ **

गृहं प्रसिद्धम् । धान्यानि च शालीगोधूमादीनि । अभयं भीतत्राणम् । उपानहौ छत्रम् । माल्यं मल्लिकादेः । अनुलेपनं कुङ्कुमचन्दनादि । यानं रथादि । वृक्षम् उपजीव्यम् आम्रादिकम् । प्रियं यद् यस्य प्रियं धर्मादिकम् । शय्यां च दत्त्वात्यन्तम् अतिशयेन सुखी भवति । न च हिरण्यादिवद् धस्ते दातुम् अशक्यत्वाद् धर्मस्य दानासंभवः, भूमिदानादाव् अपि समानत्वात्, स्मृत्यन्तरे ऽपि धर्मदानश्रवणात्-

देवतानां गुरूणां च मातापित्रोस् तथैव च ।
पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं क्वचित् ॥

अपुण्यदाने तद् एव वर्धते प्रतिग्रहीतुर् अपि लोभादिना प्रवृत्तस्य,

यः पापम् अबलं ज्ञात्वा प्रतिगृह्णाति दुर्मतिः ।
गर्हिताचरणात् तस्य पापं तावत् समाश्रयेत् ॥
समद्विगुणसाहस्रम् आनन्त्यं च प्रदातृषु ॥

इति स्मरणात् । इह च सर्वत्र देशकालपात्रविशेषाद् देयविशेषाद् दातृविशेषात्,

दाने फलं मया प्रोक्तं हिंसायां तद्वद् एव हि ।

इति प्रतिग्रहीतृवृत्तिविशेषाच् च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ १.२११ ॥

दानात् फलम् उक्तम् । इदानीं दानव्यतिरेकेणापि दानफलावाप्तिहेतून् आह ।

सर्वधर्ममयं ब्रह्म प्रदानेभ्यो ऽधिकं यतः । १.२१२अब्
**तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतम् ॥ १.२१२च्द् ॥ **

यस्मात् सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात् तद्दानं सर्वदानेभ्यो ऽप्य् अधिकम् । अतस् तद् ददद् अध्यापनादिद्वारेण ब्रह्मलोकम् अवाप्नोति । अविच्युतं विच्युतिर् यथा न भवति । आ भूतसंप्लवं ब्रह्मलोके ऽवतिष्ठत इत्य् अर्थः । अत्र च ब्रह्मदाने परस्वत्वापादनमात्रं दानं, स्वत्वनिवृत्तेः कर्तुम् अशक्यत्वात् ॥ १.२१२ ॥

दातुः फलम् उक्तं । इदानीं दानव्यतिरेकेणापि दानफलावाप्तेर् हेतुम् आह ।

प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् । १.२१३अब्
ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् ॥ १.२१३च्द् ॥

यः पात्रभूतो ऽपि प्राप्तं प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोत्य् असौ यद्य् अप्राप्तं न उपादत्ते तत् तद् दानशीलानां ये लोकान् तान् समग्रान् आप्नोति ॥ १.२१३ ॥

इदानीं सर्वप्रतिग्रहनिवृत्तिप्रसङ्गे ऽपवादम् आह ।

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । १.२१४अब्
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ १.२१४च्द् ॥

धानाः भ्राष्टयवाः । क्षितिर् मृत्तिका । शेषं प्रसिद्धम् । एतच् च कुशादिकं स्वयम् उपानीतं न प्रत्याख्येयम् । चकाराद् गृहादि,

शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि ।
धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ (म्ध् ४.२५०)

तथा ।

एधोदकं मूलफलम् अन्नम् अभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान् मध्व् अथाभयदक्षिणाम् ॥ (म्ध् ४.२४७)

इति मनुस्मरणात् ॥ १.२१४ ॥

किम् इति न प्रत्याख्येयम् इत्य् आह ।

अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः । १.२१५अब्
**अन्यत्र कुलटाषण्ढपतितेभ्यस् तथा द्विजः ॥ १.२१५च्द् ॥ **

यस्माद् अयाचिताहृतम् एतत् कुशादि दुष्कृतकारिणो ऽपि संबन्धि ग्राह्यं किम् उत यथोक्तकारिणः । तस्मान् न प्रत्याख्येयम् । अन्यत्र कुलटाषण्डपतितेभ्यः शत्रोश् च । कुलात् कुलम टतीति कुलटा स्वैरिण्यादिका । षण्ढस् तृतीया प्रकृतिः ॥ १.२१५ ॥

प्रतिग्रहनिवृत्तेर् अपवादान्तरम् आह ।

देवातिथ्यर्चनकृते गुरुभृत्यार्थम् एव वा । १.२१६अब्
सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥ १.२१६च्द् ॥

देवातिथ्यर्चनादेर् आवश्यकत्वात् तदर्थम् अनात्मकारणात् पतिताद्यत्यन्तकुत्सितवर्जं सर्वतः प्रतिगृह्णीयात् । गुरुवो मातापित्रादयः । भृत्याः भरणीयाः भार्यापुत्रादयः ॥ १.२१६ ॥

**इति दानप्रकरणम् **

**अथ श्राद्धपर्करणम् **

इदानीं श्राद्धप्रकरणम् आरभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्राद्धया त्यागः । तच् च द्विविधं पार्वणम् एकोद्दिष्टम् इति । तत्र त्रिपुरुषोद्देशेन यत् क्रियते तत् पार्वणम् । एकपुरुषोद्देशेन क्रियमाणम् एकोद्दिष्टम् । पुनश् च त्रिविधं नित्यं नैमित्तिकं काम्यं चेति । तत्र नित्यं नियतनिमित्तोपाधौ चोदितम् अहर् अहर् अमावस्याष्टकादिषु । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्रजन्मादिषु । फलकामनोपाधौ विहितं काम्यं यथा स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु तिथिषु च । पुनश् च पञ्चविधं- “अहर् अहः श्राद्धं पार्वणं वृद्धिश्राद्धम् एकोद्दिष्टं सपिण्डीकरणं च” इति । तत्राहर् अहः श्राद्धं “अन्नं पितृमनुष्येभ्यः” (य्ध् १.१०४) इत्यादिनोक्तम् । तथा च मनुः ।

दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् अक्षयाम् ॥ इति ॥ (म्ध् ३.८२)

अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस् तयोः कालान् आह ।

अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् । १.२१७अब्
द्रव्यं ब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः ॥ १.२१७च्द् ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । १.२१८अब्
श्राद्धं प्रति रुचिश् चैव श्राद्धकालाः प्रकीर्तिताः ॥ १.२१८च्द् ॥

यत्र दिने चन्द्रमा न दृस्यते सा अमावास्या, तस्याम् अहर्द्वयव्यापिन्याम् अपराह्णव्यापिनी ग्राह्या, “अपराह्णः पितॄणाम्” इति वचनात् । अपराह्णश् च पञ्चधाविभक्ते दिने चतुर्थो भागस् त्रिमुहूर्तः । अष्टकाश् चतस्रः “हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः” इत्य् आश्वलायनोक्ताः (आश्गृ २.४.१) । वृद्धिः पुत्रजन्मादिः । कृष्णपक्षो ऽपरपक्षः । अयनद्वयं दक्षिणोत्तरसंज्ञकम् । द्रव्यं कृसरमाषादिकम् । ब्राह्मणसंपत्तिर् वक्ष्यमाणा । विषुवद्द्वयं मेषतुलयोः सूर्यगमनम् । सूर्यसंक्रम आदित्यस्य राशेः राश्यन्तरगमनम् । अयनविषुवतोः संक्रान्तित्वे सिद्धे ऽपि पृथगुपादानं फलातिशयप्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया,

यदेन्दुः पितृदैवत्ये हंसश् चैव करे स्थितः ।
यस्यां तिथिर् भवेत् सा हि गजच्छाया प्रकीर्तिता ॥

इति परिभाषिता । हस्तिच्छायेति केचित् । सेह न गृह्यते कालप्रक्रमात् । ग्रहणं सोमसूर्ययोर् उपरागः । यदा च कर्तुः श्राद्धं प्रति रुचिर् भवति तदापि । चशब्दाद् युगादिप्रभृतयः । एते श्राद्धकालाः । यद्य् अपि “चन्द्रसूर्यग्रहे नाद्यात्” इति ग्रहणे भोजननिषेधस्, तथापि भोक्तुर् दोषो दातुर् अभ्युदयः ॥ १.२१७ ॥ १.२१८ ॥

अहरहःश्राद्धव्यतिरिक्तवक्ष्यमाणचतुर्विधश्राद्धेषु ब्राह्मणसंपत्तिम् आह ।

अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा । १.२१९अब्
**वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णिकः ॥ १.२१९च्द् ॥ **

सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाप्य् अजस्रास्खलिताध्ययनक्षमा अग्र्याः । श्रोत्रियः श्रुताध्ययन्संपन्नः । वक्ष्यमाणं ब्रह्म यो वेत्त्य् असौ ब्रह्मवित् । युवा मध्यमवयस्कः । सर्वस्येदं विशेषणम् । मन्त्रब्राह्मणयोर् अर्थं वेत्तीति वेदार्थवित् । ज्येष्ठसाम सामविशेषस् तदध्ययनाङ्गव्रतं च तद्व्रताचरणेन यस् तद् अधीते स ज्येष्ठसामा । त्रिमधुः ऋग्वेदैकदेशस् तद्व्रतं च तद्व्रताचरेण तदधीते इति त्रिमधुः । त्रिसुपर्णं ऋग्यजुषोर् एकदेशस् तद्व्रतं च तद्व्रताचरेण यस् तदधीते स त्रिसुपर्णिकः । एते ब्राह्मणाः श्राद्धसंपद इति वक्ष्यमाणेन संबन्धः ॥ १.२१९ ॥

स्वस्रीयऋत्विग्जामातृयाज्यश्वशुरमातुलाः । १.२२०अब्
**त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ॥ १.२२०च्द् ॥ **

स्वस्त्रीयो भागिनेयः । ऋत्विग् उक्तलक्षणः । जामाता दुहितुर् भर्ता । त्रिणाचिकेतं यजुर्वेदैकदेशः तद्व्रतं च तद्व्रताचरणेन यस् तदध्यायी स त्रिणाचिकेतः । अन्यत् प्रसिद्धं । एते च पूर्वोक्ताग्र्यश्रोत्रियाद्यभावे वेदितव्याः,

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस् त्व् अयं प्रोक्तः सदा सद्भिर् अगर्हितः ॥ (म्ध् ३.१४७)

इत्य् अभिधाय, मनुना स्वस्त्रीयादीनाम् अभिहितत्वात् ॥ १.२२० ॥

कर्मनिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः । १.२२१अब्
**पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदः ॥ १.२२१च्द् ॥ **

कर्मनिष्ठा विहितानुष्ठानतत्पराः । तपोनिष्ठास् तपःशीलाः । सभ्यावसथ्यौ त्रेताग्नयश् च यस्य सन्ति स पञ्चाग्निः पञ्चाग्निविद्याध्यायी च । ब्रह्मचारी उपकुर्वाणको नैष्टिकश् च । पितृमातृपरास् तत्पूजापराः । चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रियादयः । श्राद्धसंपदः श्राद्धेषु अक्षय्यफलसंपत्तिहेतवः ॥ १.२२१ ॥

वर्ज्यान् आह ।

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा । १.२२२अब्
**अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ १.२२२च्द् ॥ **

रोगी महारोगोपसृष्टः । हीनम् अतिरिक्तं वाङ्गं यस्यासौ हीनातिरिक्ताङ्गः । एकेनाक्ष्णा यः पश्यति स काणः । एतस्माद् एवान्धबधिरविद्धप्रजननखलतिदुश्चर्मप्रभृतयो निरस्ताः । पुनर्भूर् उक्तलक्षणा तस्यां जातः पौनर्भवः । अवकीर्णी ब्रह्मचर्य एव स्खलितब्रह्मचर्यः । कुण्डगोलौ,

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ (म्ध् ३.१७४)

इत्येवमुक्तलक्षणकौ । कुनखी कुत्सितनखः । श्यावदन्तकः स्वभावात् कृष्णदशनः । एते श्राद्धे निन्दिता इति वक्ष्यमाणेन संबन्धः ॥ १.२२२ ॥

**भृतकाध्यापकः क्लीबः कन्यादूस्य् अभिशस्तकः । १.२२३अब् **
**मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ १.२२३च्द् ॥ **

वेतनग्रहणेन यो ऽध्यापयति स भृतकाध्यापकः । वेतनदानेन च यो ऽधीते सो ऽपि । क्लीबो नपुंसकः । असद्भिः सद्भिर् वा दोषैर् यः कन्यां दूष्यति स कन्यादूषी । असता सता वा ब्रह्महत्यादिनाभियुक्तो ऽअभिशस्तः । मित्रध्रुक् मित्रद्रोही । परदोषसंकीर्तनशीलः पिशुनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । परिविन्दकः परिवेत्ता । ज्येष्ठे ऽकृतदारे ऽकृताग्निपरिग्रहे वा यः कनीयान् दारपरिग्रहम् अग्निपरिग्रहं वा कुर्यात् स परिवेत्ता । ज्येष्ठस् तु परिवित्तिः । यथाह मनुः ।

दाराग्निहोत्रसंयोगं यः करोत्य् अग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ इति । (म्ध् ३.१७१)

एवं दातृयाजकाव् अपि,

परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ (म्ध् ३.१७२)

इति मनुवचनात् ॥ १.२२३ ॥

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः । १.२२४अब्
**परपूर्वापतिः स्तेनः कर्मदुष्टाश् च निन्दिताः ॥ १.२२४च्द् ॥ **

विना कारेण मातापितृगुरून् यस् त्यजति स मातापितृगुरुत्यागी । एवं भार्यापुत्रत्याग्य् अपि,

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥ (म्ध् ११.१०)

इति समाननिर्देशात् । कुण्डस्यान्नं यो ऽश्नात्य् असौ कुण्डाशी । एवं गोलकस्यापि,

यस् तयोर् अन्नम् अश्नाति स कुण्डाशी प्रकीर्तितः ।

इति वचनात् । वृषलो निर्धर्मस् तत्सुतो वृषलात्मजः । परपूर्वा पुनर्भूः तस्याः पतिः । अदत्तादायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धकारिणः । चकारात् कितवदेवलकप्रभृतयः । एते श्राद्धे निन्दिताः प्रतिषेद्धाः । “अग्र्याः सर्वेषु वेदेषु” इत्यादिना श्राद्धयोग्यब्राह्मणप्रतिपादनेनैव तद्व्यतिरिक्तानाम् अयोग्यत्वे सिद्धे ऽपि पुनः केषां चिद् रोग्यादीनां प्रतिषेधवचनम् उक्तलक्षणब्राह्मणासंभवे प्रतिषेधरहिताणां प्राप्त्यर्थम् ॥ १.२२४ ॥

एवं श्राद्धकालान् ब्राह्मणांश् चोक्त्वाधुना पार्वणप्रयोगम् आह ।

निमन्त्रयेत पूर्वेद्युर् ब्राह्मणान् आत्मवाञ् शुचिः । १.२२५अब्
**तैश् चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः ॥ १.२२५च्द् ॥ **

पूर्वोक्तान् ब्राह्मणान् “श्राद्धे क्षणः क्रियताम्” इति पूर्वेद्युर् निमन्त्रयेत प्रार्थनया क्षणम् अभ्युपगमयेत् । अपरेद्युर् वा,

पुर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते ।
निमन्त्रयेत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ (म्ध् ३.१८७)

इति मनुस्मरणात् । आत्मवान् शोकोन्मादादिरहितः सन् दोषवान् न भवति । यद् वा आत्मवान् नियतेन्द्रियो भवेत् । शुचिः प्रयतश् च । तैर् अपि निमन्त्रितैर् ब्राह्मणैर् मनोवाक्कायव्यापारैः संयतैर् नियतैर् भवितव्यम् ॥ १.२२५ ॥

अपराह्णे समभ्यर्च्य स्वागतेनागतांस् तु तान् । १.२२६अब्
पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् ॥ १.२२६च्द् ॥


अपराह्णे उक्तलक्षणे समभ्यर्च्य तान् निमन्त्रितान् ब्राह्मणान् आहूय स्वागतवचनेन पूजयित्वा कृतपादधावनान् आचान्तान् कॢप्तेष्व् आसनेषु पवित्रपाणिः पवित्रपाणीन् उपवेशयेत् । यद्य् अप्य् अत्र सामान्येनापराह्णे इत्य् उक्तं तथापि कुतपे प्रारभ्य तदादि पञ्चसु मुहूर्तेषु परिसमापनं श्रेयस्करम्,

अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥
मध्याह्ने सर्वदा यस्मान् मन्दीभवति भास्करः ।
तस्माद् अनन्तफलदस् तत्रारम्भो विशिष्यते ॥
ऊर्ध्वं मुहूर्तात् कुतपाद् यन् मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्य् एतत् स्वधाभवनम् इष्यते ॥ (मत्स्पु २२.८४–८५, ८८)

इति वचनात् । तथान्यद् अपि श्राद्धोपयोगि कुतपसंज्ञकम् उक्तम् ।

मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः ।
रौप्यं दर्भास् तिला गावो दौघित्रश् चाष्टमः स्मृतः ॥
पापं कुत्सितम् इत्य् आहुस् तस्य संतापकारिणः ।
अष्टाव् एते यतस् तस्मात् कुतपा इति विश्रुता ॥ इति ॥ १.२२६ ॥ (मत्स्पु २२। ८६–८७)
युग्मान् दैवे यथाशक्ति पित्र्ये ऽयुग्मांस् तथैव च । १.२२७अब्
**परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ १.२२७च्द् ॥ **

दैवे आभ्युदयिके श्राद्धे युग्मान् समान् ब्राह्मणान् उपवेशयेत् । कथम् यथाशक्ति शक्तिम् अनतिक्रम्य । तत्र वैश्वदेवे द्वौ मात्रादीनां तिसृणाम् एकैकस्या द्वौ द्वौ तिसृणां वा द्वौ । एवं पित्रादीनाम् एकैकस्य द्वौ द्वौ त्रयाणां वा द्वौ । एवं मातामहादीनां च वर्गत्रये वैश्वदेवं पृथक् तन्त्रं वा । पित्र्ये पार्वणश्राद्धे अयुग्मान् विषमान् उपवेशयेद् इति संबध्यते । एतच् च परिस्तृते सर्वतः प्रच्छादिते शुचौ गोमयादिनोपलिप्ते दक्षिणाप्रवणे दक्षिणतो ऽवनते देशे कार्यम् ॥ १.२२७ ॥

अयुग्मान् पित्र्य इति पार्वणश्राद्धाङ्गभूते वैश्वदेवे ऽप्य् अयुग्मप्रसङ्गे इदम् आरभ्यते, द्वौ दैव इति ।

द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा । १.२२८अब्
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ १.२२८च्द् ॥

दैवे वैश्वदेवे द्वौ ब्राह्मणौ प्राङ्मुखाव् उपवेश्यौ । पित्र्ये अयुग्मान् इत्य् अविशेषप्रसङ्गे विशेष उच्यते “त्रयः पित्र्ये” इति । पित्र्ये पित्रादिस्थाने त्रय उदङ्मुखा उपवेश्याः । पक्षान्तरम् आह “एकैकम् एव वा” । वैश्वदेवे पित्र्ये च एकम् एकम् उपवेशयेत् । संभवतो विकल्पः । “मातामहानाम् अप्य् एवं” श्राद्धे निमन्त्रणादि । “द्वौ दैवे प्राक् त्रयः पित्र्ये उदग् एकैकम् एव वा” इत्य् एव मतं पितृश्राद्धवत् कर्तव्यम् । पितृश्राद्धं मातामहश्राद्धे च वैश्वदेविकं पृथक् तन्त्रेण वा कर्तव्यम् । तन्त्रशब्दः समुदायवाचकः । यदा तु द्वाव् एव ब्राह्मणौ लब्धौ तदा वैश्वदेवे पात्रं प्रकल्प्य उभयत्रैकैकं ब्राह्मणं नियुञ्ज्यात् । यथाह वसिष्ठः ।

यद्य् एकं भोज्ययेच् छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥
देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् ।
प्रास्येद् अन्नं तद् अग्नौ तु दद्याद् वा ब्रह्मचारिणे ॥ इति ॥ (वध् ११.३०–३१) १.२२७ ॥
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशान् अपि । १.२२९अब्
आवाहयेद् अनुज्ञातो विश्वेदेवास इत्य् ऋचा ॥ १.२२९च्द् ॥

तदनन्तरं वैश्वदेवार्थब्राह्मणहस्ते जलं दत्त्वा विष्टरार्थं कुशांश् च युग्मान् द्विगुणितानासने दक्ष्ịणतो दत्त्वा विश्वान् देवान् आवाहयिष्ये इति ब्राह्मणान् पृष्ट्वा तैर् आवाहयेत्य् अनुज्ञातो “विश्वेदेवास आगत” इत्य् अनयर्चा “आगच्छन्तु महाभागाः” इत्य् अनेन च स्मार्तेन मन्त्रेण तान् आवाहयेत् । एतच् च यज्ञोपवीतिना प्रदक्षिणं च कार्यम्,

अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् । (य्ध् १.२३२)

इति पित्र्ये विशेषस्मरणात् ॥ १.२२९ ॥

यवैर् अन्ववकीर्याथ भाजने सपवित्रके । १.२३०अब्
शं नो देव्या पयः क्षिप्त्वा यवो ऽसीति यवांस् तथा ॥ १.२३०च्द् ॥
या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् । १.२३१अब्

ततो वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैर् अन्ववकीर्य अनन्तरं तैजसादिभाजने सपवित्रके कुशयुग्मान्तर्हिते “शं नो देवीर् अभिष्टय” इत्य् अनयर्चापः क्षिप्त्वा “यवो ऽसि धान्यराजो वा” इत्यादिना मन्त्रेण यवान् ततो गन्धपुष्पाणि च क्ष्पित्वानन्तरं अर्घ्यपात्रपवित्रान्तर्हितेषु ब्राह्मणहस्तेषु “या दिव्या आपः पृथिवि” इत्यादिना मन्त्रेण विश्वेदेवा इदं वो ऽर्घ्यम् इत्य् अर्घ्योदकं विनिक्षिपेत् ॥ १.२३० ॥

दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ १.२३१च्द् ॥
तथाच्छादनदानं च करशौचार्थम् अम्बु च । १.२३२अब्

अथ करशौचार्थम् उदकं दत्त्वा यथाक्रमं गन्धपुष्पधूपदीपदानं कुर्यात् तथाच्छादनदानं च । गन्धादीनां स्मृत्यन्तरोक्तो विशेषो द्रष्टव्यः । “चन्दनकुङ्कुमकर्पूरागरुपद्मकान्य् उपलेपनार्थम्” इति (विध् ७९.११) विष्णुनोक्तम् । पुष्पाणि च,

श्राद्धे जात्यः प्रशस्ताः स्युर् मल्लिका श्वेतयूथिका ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥

इत्य् उक्तानि । वर्ज्यानि च,

उग्रगन्धीन्य् अगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥

न कण्टकिजम् । कण्टकिजम् अपि शुक्लं सुगन्धि यत् तद् दद्यात् । न रक्तं दद्यात् । रक्तम् अपि कुङ्कुमजं जलजं च दद्यात् इत्यादीनि द्रष्टव्यानि । धूपे च विशेषो विष्णुनोक्तः- “प्राण्यङ्गं सर्वं धूपार्थे न दद्यात् । घृतमधुसंयुक्तं गुग्गुलशीखण्डागरुदेववदारुसरलादि दद्यात्” (च्फ़्। विध् ७९.९–१०) इति । दीपे च विशेषः शङ्खेनोक्तः-

घृतेन दीपो दातव्यस् तिलतैलेन वा पुनः ।
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥ इति ।

आच्छादनं च शुभ्रं नवम् अहतं सदशं दद्याद् इति । एतच् च सर्वं वैश्वदेवानुष्ठानकाण्डम् उदङ्मुखः कुर्यात् । पित्र्यं काण्डं दक्षिणामुखः । यथाह वृद्धशातातपः-

उदङ्मुखस् तु देवानां पितॄणां दक्षिणामुखः ।
प्रदद्यात् पार्वणे सर्वं देवपूर्वं विधानतः ॥ इति ॥ १.२३१ ॥

अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् ॥ १.२३२च्द् ॥
द्विगुणांस् तु कुशान् दत्त्वा ह्य् उशन्तस् त्वेत्य् ऋचा पितॄन् । १.२३३अब्
**आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ॥ १.२३३च्द् ॥ **

ततो वैश्वदेवकाण्डानन्तरम्, अपसव्यं यज्ञोपवीतं प्राचीनावीतं कृत्वा । अत्र तत इति वदता काण्डानुसमयो दर्शितः । पित्रादीनां त्रयाणाम् अयुग्मान् कुशान् द्विगुणभुग्नान् अप्रदक्षिणं वामतो विष्टरार्थम् आसनेषूदकपूर्वकं दत्त्वा पुनर् उदकं दद्यात्, “अपः प्रदाय दर्भान् द्विगुणभुग्नान् आसनं प्रदायापः प्रदाय”(आश्ग् ४.७.७–८) इत्य् आश्वलायनस्मरणात् । एतच् चाद्यन्तयोर् उदकदानं वैश्वदेवे पित्र्ये च प्रतिपदार्थं प्रतिपादनार्थं द्रष्टव्यम् । अथ पितॄन् पितामहान् प्रपितामहान् आवाहयिष्य इति ब्राह्मणान् पृष्ट्वा आवाहयेति तैर् अनुज्ञातः “उशन्तस् त्वा निधीमहि” इत्य् अनयर्चा पित्रादीन् आवाह्य “आयन्तु नः पितरः” इत्यादिना मन्त्रेणोपतिष्ठेत ॥ १.२३२ ॥ १.२३३ ॥

अपहता इति तिलान् विकीर्य च समन्ततः । १.२३४अब्
यवार्थास् तु तिलैः कार्याः कुर्याद् अर्घ्यादि पूर्ववत् ॥ १.२३४च्द् ॥
दत्त्वार्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः । १.२३५अब्
**पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः ॥ १.२३५च्द् ॥ **
यवार्था यवसाध्यानि कार्याण्य् अवकिरणादीनि तिलैः कर्तव्यानि । ततो ऽर्घ्यपात्रासादनाच्छादनान्तं पूर्ववत् कुर्यात् । तत्रायं विशेषः तिलान् “अपहता असुरा रक्षांसि” इत्यादिना मन्त्रेण ब्राह्मणान् परितो ऽप्रदक्षिणम् अन्ववकीर्य राजतादिषु पात्रेषु त्रिष्व् अयुग्मकुशनिर्मितकूर्चान्तर्हितेषु “शं नो देवीः” इतिमन्त्रेणापः क्षिप्त्वा “तिलो ऽसि सोमदैवत्य” इत्यादिमन्त्रेण तिलान् गन्धपुष्पाणि च क्षिप्त्वा “स्वधार्ग्याः” इति ब्राह्मणानां पुरतो ऽर्घ्यपात्राणि स्थापयित्वा “या दिव्या” इति मन्त्रान्ते पितर् इदं ते ऽर्घ्यं पितामहेदं ते ऽर्घ्यं प्रपितामहेदं ते ऽर्घ्यम् इति ब्राह्मणानां हस्तेष्व् अर्घ्यं दद्यात् । एकैकम् उभयत्र वेत्य् अस्मिन्न् अपि पक्षे पात्रत्रयं कार्यम् । एवम् अर्घ्यं दत्त्त्वा तेषाम् अर्घ्याणां संस्रवान् ब्राह्मणहस्तगलितार्घोदकानि पितृपात्रे गृहीत्वा दक्षिणाग्रं कुशस्तम्बं भूमौ निधाय तस्योपरि “पितृभ्यः स्थानम् असि” इत्य् अनेन मन्त्रेण तत्पात्रं न्युब्जम् अधोमुखं कुर्यात् । तस्योपर्य् अर्घ्यपात्रपवित्राणि निदध्यात् । अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि “पितर् अयं ते गन्धः पितर् इदं ते पुष्पम्” इत्यादिना प्रयोगेण दद्यात् ॥ १.२३४ ॥ १.२३५ ॥

अग्नौकरणम् आह द्वाभ्याम् ।

अग्नौ करिष्यन्न् आदाय पृच्छत्य् अन्नं घृतप्लुतम् । १.२३६अब्
कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ १.२३६च्द् ॥
हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः । १.२३७अब्
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ १.२३७च्द् ॥

अनन्तरम् अग्नौ करिष्यन् घृतप्लुतं घृताक्तम् अन्नम् आदाय ब्राह्मणान् पृच्छेद् अग्नौ करिष्ये इति । घृतग्रहणं सूपशाकादिनिवृत्त्यर्थम् । ततस् तैः कुरुष्वेत्य् अभ्यनुज्ञातः प्राचीनावीती शुद्धम् अन्नम् उपसमाधाय मेक्षणेनादायावदानसंपदा जुहुयात् “सोमायपितृमते स्वधा नमः । अग्नये कव्यवाहनाय स्वधा नमः” इति पिण्डपितृयज्ञकल्पेनाग्नौ हुत्वा मेक्षणम् अनुप्रहृत्य हुतशेषं मृन्मयवर्जं यथालाभोपपन्नेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । समाहितो ऽनन्यमनस्कः । अत्र यद्य् अप्य् अग्नाव् इत्य् अविशेषेण उक्तं तथाप्य् आहिताग्नेः सर्वाधानपक्षे औपासनाग्नेर् अभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्वणश्राद्धे विहृतदक्षिणाग्नेः संनिधानाद् दक्षिणाग्नौ होमः “कर्म स्मार्तं विवाहाग्नौ” इत्य् अस्यापवाददर्शनात् । यथाह मार्कण्डेयः ।

आहिताग्निस् तु जुहुयाद् दक्षिणाग्नौ समाहितः ।
अनाहिताग्निस् त्व् औपसथे ऽग्न्यभावे द्विजे ऽप्सु वा ॥ इति ।

अर्धाधानपक्षे त्व् औपासनाग्निसद्भावाद् आहिताग्नेर् अनाहिताग्नेर् इवौपासनाग्नाव् एवाग्नौकरणहोमः । एवम् अन्वष्टकादिषु त्रिष्व् अपि पिण्डपितृयज्ञकल्पातिदेशात् । काम्यादिषु चतुर्षु ब्राह्मणपाणाव् एव होमः । यथाहुर् गृह्यकाराः ।

आन्वष्टक्यं च पूर्वेद्युर् मासि मास्य् अथ पार्वणम् ।
काम्यम् अभ्युदये ऽष्टम्याम् एकोद्दिष्टम् अथाष्टमम् ॥
चतुर्ष्व् आद्येषु साग्नीनां वह्नौ होमो विधीयते ।
पित्र्यब्राह्मणहस्ते स्याद् उत्तरेषु चतुर्ष्व् अपि ॥

अस्यार्थः । “हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः” (आश्गृ २.४.१)) इत्य् अष्टका विहिताः । तत्र नवम्यां यत् क्रियते तद् अन्वष्टक्यम् । सप्तम्यां क्रियमाणं पूर्वेद्युः । मासि मासि कृष्णपक्षे पञ्चमीप्रभृतिषु यस्यां कस्यां चित् तिथाव् अन्वष्टक्यातिदेशेन यद् विहितम् । अमावास्यास्यां पिण्डपितृयज्ञानन्तरं यद् विहितं तत् पार्वणम् । स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु यद् विहितं तत् काम्यम् । अभ्युदयेषु पुत्रोत्पत्त्यादिषु तडागारामदेवताप्रतिष्ठादिषु च यद् विहितं तद् आभ्युदयिकम् । अष्टम्यां अष्टका विहिताः । एकोद्दिष्टम् । अत्रैकोद्दिष्टशब्देन सपिण्डीकरणं लक्षयति, तत्रैकोद्दिष्टस्यापि सद्भावात्, साक्षाद् एकोद्दिष्टे तदभावात् । अथ वा गृह्यभाष्यकारमते साक्षाद् एकोद्दिष्टे ऽपि पाणिहोमस्य सद्भावात् साक्षाद् एकोद्दिष्टम् एव । एतेषाम् अष्टानाम् आद्येषु चतुर्षु साग्निकस्याग्नौ होमः । उत्तरेषु चतुर्षु पित्र्यब्राह्मणहस्ते । निरग्निकस्यापि प्रमीतपितृकस्य द्विजस्य पार्वणं नित्यम् इति तस्यापि पाणाव् एव होमः,

न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥

इति वचनात् । एवं काम्याभ्युदयिकाष्टकैकोद्दिष्टेषु पाणाव् एव होमः,

अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् । (म्ध् ३.२१२)

इति मनुस्मरणात् । पाणिदत्तस्य पृथग्ग्रासप्रतिषेध उच्यते । यथाहुर् गृह्यकाराः ।

अन्नं पाणितले दत्तं पृथग् अश्नन्त्य् अबुद्धयः ।
पितरस् तेन तृप्यन्ति शेषान्नं न लभन्ति ते ॥
यच् च पाणितले दत्तं यच् चान्यद् उपकल्पितम् ।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥ इति । १.२३६ ॥ १.२३७ ॥

अन्ननिवेदनम् ।

दत्त्वान्नं पृथिवीपात्रम् इति पात्राभिमन्त्रणम् । १.२३८अब्
**कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ १.२३८च्द् ॥ **

अन्नम् ओदनसूपपायसघृतादिकं भाजनेषु दत्त्वा “पृथिवी ते पात्रं” इत्यादिना मन्त्रेण पात्राभिमन्त्रणं कृत्वा “इदं विष्णुर् विचक्रमे” इत्य् अनयर्चा अन्ने द्विजाङ्गुष्ठं निवेशयेत् । तत्र च वैश्वदेवे यज्ञोपवीती विष्णो हव्यं रक्षेति । पित्र्ये प्राचीनावीती विष्णो कव्यं रक्षति ।

विष्णो हव्यं च कव्यं च ब्रूयाद् रक्षेति वै क्रमात् ।

इति मनुस्मरणात् ॥ १.२३८ ॥

सव्याहृतिकां गायत्रीं मधुवाता इति त्र्यृचम् । १.२३९अब्
**जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् ते ऽपि वाग्यताः ॥ १.२३९च्द् ॥ **

अनन्तरं “विश्वेभो देवेभ्य इदम् अन्नं परिविष्टं परिवेक्ष्यमाणं चातृप्तेः” इति यवोदकेन दैवे निवेद्य, तथा पित्रे “अमुकगोत्रायामुकशर्मणे इदम् अन्नं परिविष्टं परिवेक्ष्यमाणं चातृप्तेः” इति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपितामहाय च निवेद्यानन्तरम् आपोशनं दत्त्वा पूर्वोक्ताभिर् व्याहृतिभिः सहितां गायत्रीं “मधु वाता” इति तृचं मधु मधु मध्व् इति त्रिवारं जप्त्वा, “यथासुखं जुषध्वम्” इति ब्रूयात्,

संकल्प्य पितृदेवेभ्यः सावित्रीं मधुमज् जपः ।
श्राद्धं निवेद्यापोशानं जुषप्रैषो ऽथ भोजनम् ॥

तथा ।

गायत्रीं त्रिः सकृद् वापि जपेद् व्याहृतिपूर्विकाम् ।
मधुवाता इति तृचं मध्व् इत्य् एतत् त्रिकं तथा ॥

इति पारस्करादिवचनात् । भुञ्जीरंस् ते ऽपि वाग्यताः । ते ऽपि ब्राह्मणा वाग्यता मौनिनो भुञ्जीरन् ॥ १.२३९ ॥

अन्नम् इष्टं च दद्याद् अक्रोधनो ऽत्वरः । १.२४०अब्
**आ तृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ १.२४०च्द् ॥ **

अन्नं भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधम् इष्टं यद् ब्राह्मणाय प्रेताय कर्त्रे वा रोचते । हविष्यं श्राद्धहविर् योग्यं व्रीहिशालियवगोधूममुद्गमाषमुन्यन्न-कालशाकमहाशल्कैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकर्पूरसैन्धवसांभरपन्सनालिकेर-कदलीबदरगव्यपयोदधिघृतपायसमधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । हविष्यम् इत्य् अनेनैवायोग्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्रवमसूरचणककुलित्थपुलाकनिष्पावराजमाषकूष्माण्डवार्ताकबृहतीद्वयोपोदकी-वंशाङ्कुरपिप्पलीवचाशतपुष्पोषधबिडलवणमाहिषचामरक्षीरदधिघृतपायसादीनां निवृत्तिः । अक्रोधनः क्रोधहेतुसंभवे ऽपि । अत्वरो ऽव्यग्रः । आ तृप्तेर् दद्याद् इति संबन्धः । तुशब्दाद् तथा किंचिद् उच्छिष्यते तथा दद्यात्, उच्छेषणस्य दासवर्गभागधेयत्वात्,

उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च ।
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ (म्ध् ३.२४६)

इति मनुस्मरणात् । तथा आ तृप्तेः पवित्राणि पुरुषसूक्तपावमानीप्रभृतीनि जप्त्वा तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सव्याहृतिकाम् इत्य् उक्तं जपेत् ॥ १.२४० ॥

अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य च । १.२४१अब्
**तद् अन्नं विकिरेद् भूमौ दद्याच् चापः सकृत् सकृत् ॥ १.२४१च्द् ॥ **

अनन्तरं सर्वम् अन्नम् आदाय तृप्ताः स्थेति तान् पृष्ट्वा तृप्ताः स्म इति तैर् उक्तः शेषम् अप्य् अस्ति किं क्रियताम् इति पृष्ट्वा इष्टैः सहोपभुज्यताम् इत्य् अभ्युपगम्य तद् अन्नं पितृस्थानब्राह्मणस्य पुरस्ताद् उच्छिष्टसंनिधौ दक्षिणाग्रदर्भान्तरितायां भूमौ तिलोदकप्रक्षेपपूर्वकं “ये अग्निदग्धा” इत्य् अनयर्चा निक्षिप्य पुनस् तिलोदकं निक्षिपेत् । तदनन्तरं ब्राह्मणहस्तेषु गण्डूषार्थं सकृत् सकृद् अपो दद्यात् ॥ १.२४१ ॥

[^१५]सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः । १.२४२अब्
उच्छिष्ठसंनिधौ पिण्डान् दद्याद् वै पितृयज्ञवत् ॥ १.२४२च्द् ॥

पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अग्नौकरणशिष्टचरुशेषेण सह सर्वम् अन्नम् उपादायाग्निसंनिधौ पिण्डान् दद्यात् । तदभावे ब्राह्मणार्थं कृतम् अन्नं सर्वम् उपादाय सतिलं तिलमिश्रं दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान् दद्यात् ॥ १.२४२ ॥

[^१६]मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः । १.२४३अब्
स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च ॥ १.२४३च्द् ॥

मातामहानाम् अपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कर्मैवम् एव कर्तव्यम् । अनन्तरं ब्राह्मणानाम् आचमनं दद्यात् । स्वस्तिवाच्यं ततः कुर्यात् स्वस्ति ब्रूतेति ब्राह्मणान् स्वस्ति वाचयेत् । तैश् च स्वस्तीत्य् उक्ते अक्षय्यम् अस्त्व् इति ब्रूतेति ब्राह्मणहस्तेषूदकदानं कुर्यात् । तैश् चाक्षय्यम् अस्त्व् इति वक्तव्यम् ॥ १.२४३ ॥

[^१७]दत्त्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् । १.२४४अब्
वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ १.२४४च्द् ॥

अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा स्वधां वाचयिष्य इत्य् उक्त्वा तैर् ब्राह्मणैर् “वाच्यताम्” इत्य् अनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश् च “स्वधोच्यताम्” इति स्वधाकारम् उदाहरेत् ॥ १.२४४ ॥

ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् । १.२४५अब्
विश्वेदाश् च प्रीयन्तां विप्रैश् चोक्त इदं जपेत् ॥ १.२४५च्द् ॥

ते च ब्राह्मणा “अस्तु स्वधा” इति ब्रूयुः । तैर् एवम् उक्ते अनन्तरं कमण्डलुना उदकं भूमौ सिञ्चेत् । ततो “विश्वेदेवाः प्रीयन्ताम्” इति ब्रूयात् । ब्राह्मणैश् च “प्रीयन्तां विश्वेदेवाः” इत्य् उक्ते इदम् अनन्तरोच्यमानं जपेत् ॥ १.२४५ ॥

[^१८]दातारो नो’भिवर्धन्तां वेदाः संततिर् एव च । १.२४६अब्
श्रद्धा च नो माव्यगमद्बहुदेयं च नो’स्त्विति ॥ १.२४६च्द् ॥ ** **

दातारो हिरण्यादेः नो’स्माकं कुले’भिर्धन्तां बहवो भवन्तु । वेदाश्च वर्धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्परया । श्रद्धा च पित्र्ये कर्मण्यास्था नो’स्माकं माव्यगमत् मा गच्छतु । “न माङ्योगे” (पाण् ६.४.७४) इत्य् अडभावः । देयं च हिर्ण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेद् इत्यर्थः ॥ १.२४६ ॥

इत्य् उक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । १.२४७अब्
**वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ १.२४७च्द् ॥ **

एवं पूर्वोक्तं प्रार्थनामन्त्रं जप्त्वा, उक्त्वा च प्रिया वाचः “धन्या वयं भवच्चरणयुगलरजःपवित्रीकृतम् अस्मन्मन्दिरं शाकाद्यशनक्लेशम् अविगणय्य भवद्भिर् अनुगृहीता वयम्” इत्य् एवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्वं नमस्कृत्य विसर्जयेत् । कथं विसर्जयेद् इत्य् आह “वाजे वाजेवत वाजिनो नः” इत्य् अनयर्चा पितृपूर्वं प्रपितामहादि विश्वेदेवान्तं दर्भान्वारम्भेण “उत्तिष्ठ[^१९] पितरः” इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥ १.२४७ ॥

यस्मिंस् तु संस्रवाः पूर्वम् अर्घ्यपात्रे निवेशिताः । १.२४८अब्
**पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ १.२४८च्द् ॥ **

यस्मिन्न् अर्घ्यपात्रे पूर्वम् अर्घ्यदानान्ते संस्रवा ब्राह्मणहस्तगलितार्घ्योदकानि निवेशिताः स्थापितास् तदर्घ्यपात्रं न्युबं तदुत्तानम् ऊर्ध्वमुखं कृत्वा विप्रान् विसर्जयेत् । एतच् चाशीर्मन्त्रजपाद् ऊर्ध्वं “वाजे वाजे” इत्य् अतः प्राग् द्रष्टव्यम्, “कृत्वा विसर्जयेत्” इति क्त्वाप्रत्ययश्रवणात् ॥ १.२४८ ॥

प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् । १.२४९अब्
ब्रह्मचारी भवेत् तां तु रजनीं ब्राह्मणैः सह ॥ १.२४९च्द् ॥

अनन्तरम् आ सीमान्तं ब्राह्मणान् अनुव्रज्य तैर् “गम्यताम्”[^२०] इत्य् अनुज्ञातस् तान् प्रदक्षिणीकृत्य प्रतिनिवृत्तः पितृसेवितं श्राद्धशिष्टम् इष्टैः सह भुञ्जीत । नियम एवायं न परिसंख्या । “मांसे तु यथरुचि” (य्ध् १.१७९) इति द्विजकाम्ययेत्य् अत्रोक्तम् । यस्मिन् दिने श्राद्धं कृतं तत्संबन्धिनीं रात्रिं भोक्तृभिर् ब्राह्मणैः सह कर्ता ब्रह्मचारी भवेत् । तुशब्दात् पुनर्भोजनादिरहितो ऽपि भवेत्,

दन्तधावनताम्बूलं स्निग्धस्नानम् अभोजनम् ।
रत्यौषधपरान्नानि श्राद्धकृत् सप्त वर्जयेत् ॥
पुनर्भोजनम् अध्वानं भाराध्ययनमैथुनम् ।
दानं प्रतिग्रहं होमं श्राद्धभुक् त्व् अष्ट वर्जयेत् ॥

इति वचनात् ॥ १.२४९ ॥

एवं पार्वणश्राद्धम् उक्त्वा, इदानीं वृद्धिश्राद्धम् आह ।

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन् । १.२५०अब्
यजेत दधिकर्कन्धूमिश्रान् पिण्डान् यवैः क्रियाः ॥ १.२५०च्द् ॥

वृद्धौ पुत्रजन्मादिनिमित्ते श्राद्धे एवम् उक्तेन प्रकारेण पितॄन् यजेत पूजयेत् । तत्र विशेषम् आह, प्रदक्षिणावृत्क इति । प्रदक्षिणा आवृद् अनुष्ठानपद्धतिर् यस्यासौ प्रदक्षिणावृत्कः प्रदक्षिणप्रचार इति यावत् । “नान्दीमुखान्” इति पितॄणां विशेषणम् । अतश् चावाहनादौ “नान्दीमुखान् पितॄन् आवाहयिष्ये नान्दीमुखान् पितामहान्” इत्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्य् आह- दधिकर्कन्धूमिश्रान् । कर्कन्धूर् बदरीफलम् । दध्ना बदरीफलैश् च मिश्रान् पिण्डान् दत्त्वा यजेतेति संबध्यते । तिलसाध्याः सर्वाः क्रिया यवैः कर्तव्याः । अत्र च ब्राह्मणसंख्या दर्शितैव “युग्मान् दैवे यथाशक्ति” (य्ध् १.२२७) इत्य् अत्र । प्रदक्षिणावृत्कत्वादिपरिगणनम् अन्येषाम् अपि स्मृत्यन्तरोक्तानां विशेषधर्माणां प्रदर्शनार्थम् । यथाह आश्वलायनः- “अथाभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखो यज्ञोपवीती स्यात् प्रदक्षिणम् उपचारो यवैस् तिलार्थो गन्धादिदानं द्विर् द्विः ऋजुदर्भानासने दद्यात् । ऽयवो ऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः पुष्ट्या नान्दीमुखान् पितॄन् इमांल् लोकान् प्रीणयाहि नः स्वाहाऽ इति यवावपनम् । ऽविश्वेदेवा इदं वो ऽअर्घ्यं नान्दीमुखाः पितर इदं वो ऽअर्घ्यम्ऽ इति यथालिङ्गम् अर्घ्यदानम् । पाणौ होमो ऽग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति । ऽमधु वाता ऋतायतेऽ इति तृचस्थाने ऽउपास्मै गायत; इति पञ्च मधुमतीः श्रावयेत् । ऽअक्षन्नमीमदन्तऽ इति षष्ठीम् । आचान्तेषु भुक्ताशयान् गोमयेनोपलिप्य प्राचीनाग्रान् दर्भान् संस्तीर्य तेषु पृषदाज्यमिश्रेण भुक्तशेषेणैकैकस्य द्वौ द्वौ पिण्डौ दद्याद्” इत्यादि (आश्गृपरिशिष्ट २.१९) । यद्य् अपि “पितॄन् यजेत” इति सामान्येनोक्तं ,तथापि श्राद्धत्रयं क्रमश् च स्मृत्यन्तराद् अवगन्तव्यः । यथाह शातातपः ।

मातुः श्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥ इति ॥ १.२५० ॥

एकोद्दिष्टम् आह ।

एकोद्दिष्टं देवहीनम् एकार्घ्यैकपवित्रकम् । १.२५१अब्
**आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥ १.२५१च्द् ॥ **

एकोद्दिष्टम् एक उद्दिष्टो यस्मिन् श्राद्धे तद् एकोद्दिष्टम् इति कर्मनामधेयम् । “शेषं पूर्ववद् आचरेत्” (य्ध् १.२५४) इत्य् उपसंहारात् । पार्वणसकलधर्मप्राप्तौ विशेषो ऽभिधीयते । देवहीनं विश्वेदेवरहितम् एकार्घ्यपात्रम् एकदर्भपवित्रकं च आवाहनेनाग्नौकरणहोमेन च रहितम् । अपसव्यवत् प्राचीनावीतब्रह्मसूत्रवत् । अनेनानन्तरोक्ताभ्युदयिके यज्ञोपवीतित्वं सूचयति ॥ १.२५१ ॥

किं च ।

उपतिष्ठताम् अक्षय्यस्थाने विप्रविसर्जने । १.२५२अब्स्
अभिरम्यताम् इति वदेद् ब्रूयुस् ते ऽभिरताः स्म ह ॥ १.२५२च्द् ॥

यद् उक्तं,

स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च । (य्ध् १.२४२)

इति तत्राक्षय्यस्थाने उपतिष्ठताम् इति वदेत् । विप्रविसर्जने कर्तव्ये वाजे वाजे इति जपान्ते दर्भान्वारम्भेणाभिरम्यताम् इति ब्रूयात् । ते चाभिरताः स्म इति ब्रूयुः । ह प्रसिद्धम् । शेषं पूर्ववद् इति यावत् । एतच् च मध्याह्ने कर्तव्यम् । यथाह देवलः ।

पूर्वाह्ने दैविकं कर्म अपराह्ने तु पैतृकम् ।
एकोद्दिष्टं तु मध्याह्ने प्रातर् वृद्धिनिमित्तकम् ॥ इति ।

“भुञ्जीत पितृसेवितम्” (य्ध् १.२४९) इत्य् अस्यैकोद्दिष्टविशेषे निषेधो दृश्यते ।

नवश्राद्धेषु यच् छिष्टं गृहे पर्युषितं च यत् ।
दंपत्योर् भुक्तशिष्टं च न भुञ्जीत कदाचन ॥ इति ।

नवश्राद्धं च दर्शितम् ।

प्रथमे ऽह्नि तृतीये ऽह्नि पञ्चमे सप्तमे तथा ।
नवमैकादशे चैव तन् नवश्राद्धम् उच्यते ॥ इति ॥ १.२५२ ॥

सपिण्डीकरणम् आह ।

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् । १.२५३अब्
**अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ १.२५३च्द् ॥ **
ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् । १.२५४अब्
एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि ॥ १.२५४च्द् ॥

गन्धोदकतिलैर् युक्तं पात्रचतुष्टयम् अर्घ्यसिद्ध्यर्थं पूर्वोक्तविधिना कुर्यात् । तिलैर् युक्तं पात्रचतुष्टयम् इति वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिताः । वैश्वदेवे द्वौ स्थिताव् एव । अत्र प्रेतपात्रोदकं किंचिद् अवशेषं त्रिधा विभज्य पितृपात्रेषु सेचयेत् “ये समानाः समनसः” इति द्वाभ्यां मन्त्राभ्याम् । शेषं विश्वेदेवावाहनादिविसर्जनान्तं पूर्ववत् पार्वणवद् आचरेत् । प्रेतार्घ्यपात्रावशिष्टोदकेन प्रेतस्थानब्राह्मणहस्ते ऽर्घ्यं दत्त्वा शेषम् एकोद्दिष्टवत् समापयेत् । पित्र्येषु त्रिषु पार्वणवत् । एतत् सपिण्डीकरणम् अनन्तरोक्तम् एकोद्दिष्टं च ततः प्राग् उक्तं स्त्रिया अपि मातुर् अपि कर्तव्यं । एवं वदता पार्वणे मातुःश्राद्दं पृथक् कर्तव्यम् इत्य् उक्तं भवति । अत्र प्रेतशब्दं पितुः प्रपितामहविषयं केचिद् वर्णयन्ति । तस्य त्रिष्व् अन्तर्भावेन सपिण्डीकरणोत्तरकालं पिण्डदानादिनिवृत्त्युपपत्तेः । समनन्तरमृतस्योत्तरत्र पिण्डोदकदानानुवृत्तेर् अन्तर्भावो न युक्तः । अत एवाह यमः ।

यः सपिण्डीकृतं प्रेतं पृथक् पिण्डे नियोजयेत् ।
विधिघ्नस् तेन भवति पितृहा चोपजायते ॥ इति ।

प्रकर्षेण इतः प्रेत इति चतुर्थे ऽपि प्रेतशब्दोपपत्तेः, “प्रेतेभ्य एव निपृणीयात्” इति च प्रयोगदर्शनात् । अपि च,

सपिण्डीकरणं श्राद्धं देवपूर्वं नियोजयेत् ।
पितॄन् एवाशयेत् तत्र पुनः प्रेतं न निर्दिशेत् ॥

इति सपिण्डीकरणोत्तरकालं प्रेतस्य श्राद्धादिप्रतिषेधो दृश्यते, स चानन्तरमृतस्य न संभवति, अमावास्यादौ श्राद्धविधानात् ।

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । (म्ध् ५.६०)

इत्य् एतद् अपि वचनं चतुर्थस्य त्रिष्व् अन्तर्भाव एव घटते “चतुर्थस्य पिण्डत्रयव्यापित्वं पञ्चमस्य पिण्डद्वयव्यापित्वं षष्ठस्यैकपिण्डव्यापित्वं सप्तमे विनिवृत्तिः” इति । “पितृपात्रेषु” इत्य् एतद् अपि पितृमुख्यत्वाद् अस्मिन् एव पक्षे घटते नान्यथा, प्रपितामहप्रमुखत्वात् । तस्मात् पितृपात्रेषु तत्प्रेतपात्रं प्रसेचयेद् इति, पितुः प्रपितामहपात्रं पित्रादिपात्रेषु प्रसेचयेद् इति तद् अयुक्तम् । न ह्य् अत्र पिण्डसंयोजनम् उत्तरत्र पिण्डदानादिनिवृत्तिप्रयोजकम्, अपि तु पितुः प्रेतत्वनिवृत्त्या पितृत्वप्राप्त्यर्थम् । प्रेतत्वं च क्षुत्तृष्णोपजनितात्यन्तदुःखानुभवावस्था । यथाह मार्कण्डेयः ।

प्रेतलोके तु वसतिर् नृणां वर्षं प्रकीर्तिता ।
क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन ॥ इति ।

पितृत्वप्राप्तिश् च वस्वादिश्राद्धदेवतासंबन्धः । प्राक्तनैकोद्दिष्टसहितेन सपिण्डीकरणेन प्रेतत्वनिवृत्त्या पितृत्वं प्राप्नोतीत्य् अवगम्यते,

यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैर् अपि ॥ इति ।

तथा ।

चतुरो निर्वपेत् पिण्डान् पूर्वं तेषु समावपेत् ।
ततः प्रभृति वै प्रेतः पितृसामान्यम् अश्नुते ॥

इत्यादिवचनात् । “यः सपिण्डीकृतं प्रेतम्” इत्य् अनेनापि पृथग् एकोद्दिष्टविधानेन पिण्डदाननिषेधात्, पार्वणविधानेन सह पिण्डदानम् अवगम्यते । तच् च सांवत्सरिकपाक्षिकैकोद्दिष्टविधानेनापोद्यते । यद् अपि “पुनः प्रेतं न निर्दिशेत्” इति, तद् अपि प्रेतशब्दं नोच्चारयेद् अपि तु पितृशब्दम् एवेत्य् एवम् अर्थम् । न च प्रकर्षगमनात् तत्रैव प्रेतशब्दः । यतो विशिष्टदुःखानुभवावस्था प्रेतशब्देन रूढ्याभिधीयत इत्य् उक्तम् । योऽपि प्रमीतमात्रे प्रेतशब्दप्रयोगः सो ऽपि भूतपूर्वगत्या । “सपिण्डता तु पुरुषे सप्तमे विनिवर्तते” इति (म्ध् ५.६०) च प्रथमस्य पिण्डस्य चतुर्थव्यापित्वात्, द्वितीयस्य पञ्चमव्यापित्वात्, तृतीयस्य षष्ठव्यापित्वात्, सप्तमे विनिवर्तत इत्य् एवम् अपि घटते । अपि च निर्वाप्यपिण्डान्वयेन न सापिण्ड्यं अव्यापकत्वात्, अपि त्व् एकशरीरावयवान्वयेनेत्य् उक्तम् । पितृशब्दश् च प्रेतत्वनिवृत्त्या श्राद्धदेवताभूयंगतेषु वर्तत इति पितृपात्रेष्व् इत्य् अविरुद्धम् । तस्माद् अनन्तराचार्येण पूर्वपक्षद्वारेण परमतं दर्शितम् इत्य् अर्थः । मृतपात्रोदकस्य तत्पिण्डस्य च पितृपात्रेषु तत्पिण्डेषु च संसर्जनम् इति स्थितम् । आचार्यस् तु परमतम् एवोपन्यस्तवान् । एतच् च पितुः सपिण्डीकरणं पितामहादिषु त्रिषु प्रमीतेषु वेदितव्यम् । पितरि प्रेते पितामहे वा जीवति सपिण्डीकरणं नास्त्य् एव ।

व्युत्क्रमाच् च प्रमीतानां नैव कार्या सपिण्डता ।

इति वचनात् । यत् तु मनुवचनं,

पिता यस्य निवृत्तः स्याज् जीवेद् वापि पितामहः ।
पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहम् ॥ (म्ध् ३.२२१)

इति, तद् अपि पितृशब्दप्रयोगनियमाय न पिण्डद्वयदानार्थम् । कथम्,

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् ।
पिता यस्य तु वृत्तः स्याज् जीवेच् चापि पितामहः ॥

सो ऽपि पूर्वेषाम् एव निर्वपेद् इत्य् अन्वयः । पक्षद्वये ऽपि कथं निर्वपेद् इत्य् आह ।

पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहम् । (म्ध् ३.२२१)

इत्याद्यन्तग्रहणेन सर्वत्र पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इत्येवं प्रयोगो न पुनः कदाचिद् अपि पितामहस्य प्रपितामहस्य वादित्वं वृद्धप्रपितामहस्य तत्पितुर् वान्तत्वम् । अतश् च पितादिशब्दानां संबन्धिवचनत्वात् ध्रियमाणे ऽपि पितरि पितुः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । पितामहे ध्रियमाणे पितामहस्य पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । अतश् च पिण्डपितृयज्ञे “शुन्धन्तां पितरः” इत्यादिमन्त्राणाम् ऊहो न भवति । यद् अपि विष्णुवचनं “यस्य पिता प्रेतः स्यात् स पितृपिण्डं निधाय पितामहात् पराभ्यां द्वाभ्यां दद्यात्” (विध् ७५.४) इति । तस्यायम् अर्थः । पितामहे ध्रियमाणे प्रेते च पितरि पितुर् एकं पिण्डम् एकोद्दिष्टविधानेन निधाय पितुर् यः पितामहस् ततः पराभ्यां द्वाभ्यां दद्यात् । पितामहस् त्व् आत्मनः प्रपितामहः संप्रदानभूतः स्थित एवेति प्रपितामहाय ततः पराभ्यां द्वाभ्यां च दद्याद् इति । शब्दप्रयोगनियमस् तु पूर्वोक्त एव । एवं गोब्राह्मणादिहतस्यापि सपिण्डीकरणाभावो वेदितव्यः । यथाह कात्यायनः ।

ब्राह्मणादिहते ताते पतिते संगवर्जिते ।
व्युत्क्रमाच् च मृते देयं येभ्य एव ददात्य् असौ ॥ इति ।

गोब्राह्मणहतस्य पितुः सपिण्डीकरणसंभवे तम् उल्लंघ्य पितामहादिभ्यः पार्वणविधानम् अनुपपन्नम् इति सपिण्डीकरणाभावो ऽवगम्यते । स्मृत्यन्तरे ऽपि ।

ये नराः संततिच्छिन्ना नास्ति तेषां सपिण्डता ।
न चैतैः सह कर्तव्यान्य् एकोद्दिष्टानि षोडश ॥ इति ।

मातुः पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा दातव्यम् इति उभयत्र वचनदर्शनात् ।

स्वगोत्राद् भ्रश्यते नारी विवाहात् सप्तमे पदे ।
स्वामिगोत्रेण कर्त्यव्या तस्याः पिण्डोदकक्रिया ॥

इत्यादिभर्तृगोत्रविषयं वचनम् ।

पितृगोत्रं समुत्सृज्य न कुर्याद् भर्तृगोत्रतः ।
जन्मन्य् एव विपत्तौ च नारीणां पैतृकं कुलम् ॥

इत्यादिपितृगोत्रविषयम् । एवं विप्रतिपत्ताव् आसुरादिविवाहेषु पुत्रिकाकरणे च पितृगोत्रम् एव, तत्र तत्र विशेषवचनात् दानस्यानिवृत्तेश् च । ब्राह्मादिविवाहेषु व्रीहियववत् बृहद्रथन्तरसामवत् विकल्प एव । तत्र च,

येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न दुष्यति ॥ (म्ध् ४.१७८)

इति वचनात्, वंशपरम्परायातसमाचरणेन व्यवस्था, एवंविधविषयव्यतिरेकेणास्य वचनस्य विषायान्तराभावात् । यत्र पुनः शास्त्रतो न व्यवस्था नाप्य् आचारस् तत्र “आत्मनस् तुष्टिर् एव वा” (म्ध् २.६) इति वचनाद् आत्मनस् तुष्टिर् एव व्यवस्थापिका, यथा “गर्भाष्टमे ऽष्टमे वाब्दे” (य्ध् १.१४) इति । मातुः सपिण्डीकरणे ऽपि विरुद्धानि वाक्यानि दृश्यन्ते तत्र “पितामह्यादिभिः सार्धं सपिण्डीकरणं स्मृतम्” । तथा भर्त्रापि भार्यायाः स्वमात्रादिभिः सह सपिण्डीकरणं कर्तव्यम् इति पैठीनसिर् आह ।

अपुत्रायां मृतायां तु पतिः कुर्यात् सपिण्डताम् ।
श्वश्र्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥ इति ।

पत्या सह सपिण्डीकरणं यम आह ।

पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः ।
सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैः ॥ इति ।

उशनसा तु मातामहेन सह सपिण्डीकरणम् उक्तम् ।

पितुः पितामहे यद्वत् पूर्णे संवत्सरे सुतैः ।
मातुर् मातामहे तद्वद् एषा कार्या सपिण्डता ॥

तथा ।

पिता पितामहे योज्यः पूर्णे संवत्सरे सुतैः ।
माता मातामहे तद्वद् इत्य् आह भगवाञ् छिवः ॥

इत्येवं विविधेषु वचनेषु सत्सु अपुत्रायां भार्यायां प्रमीतायां भर्ता स्वमात्रैव सापिण्ड्यं कुर्यात् । अन्वारोहणे तु पुत्रः स्वपित्रैव मातुः सापिण्ड्यं कुर्यात् । आसुरादिविवाहोत्पन्नः पुत्रिकासुतश् च मातामहेनैव । ब्राह्मादिविवाहोत्पन्नः पित्रा मातामहेन पितामह्या वा विकल्पेन कुर्यात् । अत्रापि यदि नियतो वंशसमाचारस् तदानीं तथैव कुर्यात् । वंशसमाचारो ऽप्य् अनियतश् चेत् तदा “आत्मनस्तुष्टिर् एव च” इति यथारुचि कुर्यात् । तत्र च येन केनापि मातुः सापिण्ड्ये ऽपि यत्रान्वष्टकादिषु मातृश्राद्धं पृथग् विहितं ।

अन्वष्टकासु वृद्धौ च गयायां च क्षये ऽहनि ।
मातुः श्राद्धं पृथक् कुर्याद् अन्यत्र पतिना सह ॥ इति

तत्र पितामह्यादिभिर् एव पार्वणश्राद्धं कर्तव्यम् । अन्यत्र “पतिना सह” इति पतिसापिण्ड्ये तदंशभागित्वात् । मातामहसापिण्ड्ये तदंशभागित्वात् तेनैव सह । यथाह शातातपः ।

एकमूर्तित्वम् आयाति सपिण्डीकरणे कृते ।
पत्नी पतिपितॄणां च तस्माद् अंशेन भागिनी ॥ इति ।

एवं सति मातामहेन मातुः सापिण्ड्ये मातामहश्राद्धं पितृश्राद्धवन् नित्यम् एव । पत्या पितामह्या वा मातुः सापिण्ड्ये मातामहश्राद्धं न नित्यम् । कृते अभ्युदयो ऽकृते न प्रत्यवाय इति निर्णयः ॥ १.२५३ ॥ १.२५४ ॥

अर्वाक् सपिण्डीकरणं यस्य संवत्सराद् भवेत् । १.२५५अब्
तस्याप्य् अन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे ॥ १.२५५च्द् ॥

संवत्सराद् अर्वाक् सपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं वा यावत् संवत्सरं शक्त्यनुसारेणान्नम् उदकुम्भसहितं ब्राह्मणाय दद्यात् । “अर्वाक् संवत्सरात्” इति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग् वेति दर्शितम् । यथाह आश्वलायनः” “अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा” (आश्गृपरिशिष्ट ३.११) इति । कात्यायनो ऽप्याह “ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा यदा चार्वाग् वृद्धिर् आपद्यते” (पार्गृपरिशिष्ट,श्राद्धसूत्र ५) इति । द्वादशाहे त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वेति चत्वारः पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साग्निकेन कार्यम्, सपिण्डीकरणं विना पिण्डपितृयज्ञासिद्धेः,

साग्निकस् तु यदा कर्ता प्रेतो वाप्य् अग्निमान् भवेत् ।
द्वादशाहे तदा कार्यं सपिण्डीकरणं पितुः ॥

इति वचनात् । निरग्निकस् तु त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक् संवत्सरात् सपिण्डीकरणं तदा षोडशश्राद्धानि कृत्वा सपिण्डीकरणं कार्यम्, उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि कर्तव्यानि इति संशयः, उभयथा वचनदर्शनात् ।

श्राद्धानि षोडशादत्त्वा नैव कुर्यात् सपिण्डताम् ।
श्राद्दानि षोडशापाद्य विदधीत सपिण्डताम् ॥ इति ।

षोडशश्राद्धानि च,

द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके ।
श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः ॥

इति दर्शितानि । तथा ।

यस्यापि वत्सराद् अर्वाक् सपिण्डीकरणं भवेत् ।
मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥ इति ।

तत्र सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानि इति प्रथमः कल्पः, अप्राप्तकालत्वेन प्राग् अनधिकारात् । यद् अपि वचनं “षोडशश्राद्धानि कृत्वैव सपिण्डीकरणं संवत्सरात् प्राग् अपि कर्तव्यम्” इति सो ऽयम् आपत्कल्पः । यदा त्व् आपत्कल्पत्वेन प्राक् सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्यकल्पेन स्वकाल एव करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्वणम् एकोद्दिष्टं वा तथा मासिकानि कुर्यात्,

सपिण्डीकरणाद् अर्वाक् कुर्वन् श्राद्धानि षोडश ।
एकोद्दिष्टविधानेन कुर्यात् सर्वाणि तानि तु ॥
सपिण्डीकरणाद् ऊर्ध्वं यदा कुर्यात् तदा पुनः ।
प्रत्यब्दं यो यथा कुर्यात् तथा कुर्यात् स तान्य् अपि ॥

इति स्मरणात् । एतच् च प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्व् अप्य् एकेनैव कृतेनालं न सर्वैः कर्तव्यम्,

नवश्राद्धं सपिण्डत्वं श्राद्धान्य् अपि च षोडश ।
एकेनैव तु कार्याणि संविभक्तधनेष्व् अपि ॥

इति स्मरणात् । इदं च प्रेतश्राद्धसहितं सपिण्डीकरणम् असंन्यासिनां पुत्रादिभिर् नियमेन कर्तव्यम्, प्रेतत्वविमोक्षार्थत्वात् संन्यासिना तु न कर्तव्यम् । यथाह उशना ।

एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा ।
अहन्य् एकादशे प्राप्ते पार्वणं तु विधीयते ॥
सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः ।
त्रिदण्डग्रहणाद् एव प्रेतत्वं नैव जायते ॥ इति ।

पुत्रासंनिधाने येन सगोत्रादिना दाहसंस्कारः कृतस् तेनैवादशाहान्तं तत्प्रेतकर्म कर्तव्यम्,

असगोत्रः सगोत्रो वा स्त्री दद्याद् यदि वा पुमान् ।
प्रथमे ऽहनि यो दद्यात् स दशाहं समापयेत् ॥

इति स्मरणात् । शूद्राणाम् अप्य् एतत् कर्तव्यम् अमन्त्रकं द्वादशे ऽह्नि, “एवं सपिण्डीकरणं मन्त्रवर्ज्यं शूद्राणां द्वादशे ऽह्नि” (विध् २१.१९–२०) इति विष्णुस्मरणात् । सपिण्दीकरणाद् ऊर्ध्वं सांवत्सरिकपार्वणादीनि पुत्रस्य नियमेनैव कार्याणि, अन्येषाम् अनियतानि ॥ १.२५५ ॥

एकोद्दिष्टकालान् आह ।

मृते ऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् । १.२५६अब्
**प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥ १.२५६च्द् ॥ **

मृते ऽहनि प्रतिमासं संवत्सरं यावद् एकोद्दिष्टं कार्यम् । सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरम् एकोद्दिष्टम् एव कर्तव्यम् । आद्यं सर्वैकोद्दिष्टप्रकृतिभूतम् एकोद्दिष्टम् एकादशे ऽहनि । मृतदिवसापरिज्ञाने तच्छ्रवणदिवसे अमावास्यायां वा कार्यम् । “अपरिज्ञाते मृते ऽहन्य् अमावस्यायां श्रवणदिवसे वा” इति स्मरणात् । अमावास्यायाम् इति गमनमाससंबन्धिन्याम् अमावास्यायाम्,

प्रवासदिवसे देयं तन्मासेन्दुक्षये ऽपि वा ।

इति स्मरणात् । मृते ऽहनीत्य् अत्राहिताग्नेर् विशेषो जातूकर्ण्येनोक्तः-

ऊर्ध्वं त्रिपक्षाद् यच् छ्राद्धं मृते ऽहन्य् एव तद् भवेत् ।
अधस् तु कारयेद् दाहाद् आहिताग्नेर् द्विजन्मनः ॥ इति ।

तत्र त्रिपक्षाद् अर्वाग् यत् प्रेतकर्म तद् दाहदिवसाद् आरभ्याहिताग्नेः कार्यम् । त्रिपक्षाद् ऊर्ध्वं यच् छ्राद्धं तन् मरणदिवस एवेत्य् अर्थः । अनाहिताग्नेस् तु सर्वं मृताह एव । “आद्यम् एकादशे ऽहनि” इत्य् आशौचोपलक्षणम् इति केचित् । “शुचिना कर्म कर्तव्यम्” इति शुद्देर् अण्गत्वात्, अथाशौचापगम इति सामान्येन सर्वेषां वर्णानाम् उपक्रम्य, एकोद्दिष्टस्य विष्णुना विहितत्वाच् च (विध् २२.१–४) । तद् अयुक्तम्,

एकादशे ऽह्नि यच् छ्राद्धं तत् सामान्यम् उदाहृतम् ।
चतुर्णाम् अपि वर्णानां सूतकं च पृथक् पृथक् ॥

इति पैठीनसिस्मरणविरोधात्,

आद्यं श्राद्धम् अशुद्धो ऽपि कुर्याद् एकादशे ऽहनि ।
कर्तुस् तात्कालिकी शुद्धिर् अशुद्धः पुनर् एव सः ॥

इति शङ्खवचनविरोधाच् च । सामान्योपक्रमं विष्णुवचनं दशाहाशौचविषयम् अपि घटते इति । प्रतिसंवत्सरं चैवम् इति प्रतिसंवत्सरं मृते ऽहन्य् एकोद्दिष्टम् उपदिष्टं योगीश्वरेण । तथा च स्मृत्यन्तरम् ।

वर्षे वर्षे च कर्तव्या मातापित्रोस् तु सत्क्रिया ।
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥ इति ।

यमो ऽप्य् आह ।

सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरं सुतैः ।
मातापित्रोः पृथाक् कर्यम् एकोद्दिष्टं मृते ऽहनि ॥ इति ।

व्यासस् तु पार्वणं प्रतिषेधति ।

एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः ।
अकृतं तद् विजानीयात् स भवेत् पितृघातकः ॥ इति ।

जमदग्निस् तु पार्वणम् आह ।

आपाद्य च सपिण्डत्वम् औरसो विधिवत् सुतः ।
कुर्वीत दर्शवच् छ्राद्धं मातापित्रोः क्षये ऽहनि ॥ इति ।

शातातपो ऽप्य् आह ।

सपिण्डीकरणं कृत्वा कुर्यात् पार्वणवत् सदा ।
प्रतिसंवत्सरं विद्वांश् छागलेयोदितो विधिः ॥
इत्येवंवचनविप्रतिपत्तौ, दाक्ịणात्या ह्य् एवं व्यवस्थाम् आहुः- “औरसक्षेत्रजाभ्यां मातापित्रोः क्षयाहे पार्वणम् एव कर्तव्यं दत्तकादिभिर् एकोद्दिष्टम्” इति, जातूकर्ण्यवचनात्,
प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ ।
कुर्याताम् इतरे कुर्युर् एकोद्दिष्टं सुता दश ॥ इति ।
तद् असत् । न ह्य् अत्र क्षयाहवचनम् अस्ति, अपि तु प्रत्यब्दम् इति । सन्ति च क्षयाहव्यतिरिक्तानि प्रत्यब्दश्राद्धान्य् अक्षय्यतृतीयामाघीवैशाखीप्रभृतिषु । अतो न क्षयाहविषयपार्वणैकोद्दिष्टव्यवस्थापनयालम् । यत् तु पराशरवचनम्,
पितुर् गतस्य देवत्वम् औरसस्य त्रिपौरुषम् ।
सर्वत्रानेकगोत्राणाम् एकस्यैव मृते ऽहनि ॥

इति, तद् अपि न व्यवस्थापकम् । यस्माद् अस्य अयम् अर्थः । देवत्वं गतस्य सपिण्डीकृतस्य पितुः सर्वत्रौरसेन त्रिपौरुषं पार्वणम् कार्यम् । अनेकगोत्राणां भिन्नगोत्राणां मातुलादीनां क्षये ऽहनि यच् छ्राद्धं तद् एकस्यैवैकोद्दिष्टम् एवेति । किं च सपिण्डीकरणाद् ऊर्ध्वम् अप्य् एकोद्दिष्टम् एव कर्तव्यम् औरसेनापि इत्य् उक्तं पैठीनसिना ।

एकोद्दिष्टं हि कर्तव्यम् औरसेन मृते ऽहनि ।
सपिण्डीकरणाद् ऊर्ध्वं मातापित्रोर् न पार्वणम् ॥ इति ॥
उदीच्याः पुनर् एवं व्यवस्थापयन्ति- “अमावास्यायां भाद्रपदकृष्णपक्षे वा मृताहे पार्वणम् अन्यत्र मृताह एकोद्दिष्टं एव” इति,
अमावास्याक्षयो यस्य प्रेतपक्षे ऽथ वा पुनः ।
पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ॥

इति स्मरणात् ।

तद् अपि नाद्रियन्ते वृद्धाः । अनिश्चितमूलेनानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्रपार्वणविषयाणां वचनानाम् अमावास्याप्रेतपक्षमृताहविषयत्वेन अतिसंकोचस्य अयुक्तत्वात्, सामान्यवचनानर्थक्याच् च । तत्र हि सामान्यवचनस्य विशेषवचनेनोपसंहारो यत्र सामान्यविशेषसंबन्धज्ञानेन वचनद्वयम् अर्थवत् । यथा सप्तदश सामिधेनीर् अनुब्रूयाद् इत्य् अनारभ्याधीतस्य विकृतिमात्रविषयस्य सप्तदशवाक्यस्य सामधेनीलक्षणद्वारसंबन्धबोधेनार्थवतो मित्रविन्दादिप्रकरणपठितेन सप्तदशवाक्येन मित्रविन्दाध्यधिकारापूर्वसंबन्ध-बोधेनार्थवता उपसंहारः । इह तु द्वयोर् मृताहमात्रविषयत्वान् नार्थवत्तेति । अतो ऽत्र पाक्षिकैकोद्दिष्टनिवृत्तिफलकतया पार्वणनियमविधानं युक्तम् । न चैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणवचनानां च तदन्यक्षयाहविषयत्वेन व्यवस्था युक्ता । उभयत्रापि मातापितृसुतग्रहणस्य विद्यमानत्वात्-
सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरं सुतैः ।
मातापित्रोः पृथक् कार्यम् एकोद्दिष्टं मृते ऽहनि ॥ इति ।

तथा ।

आपाद्य सहपिण्डत्वम् औरसो विधिवत् सुतः ।
कुर्वीत दर्शवच् छ्राद्धं मातापित्रोः क्षये ऽहनि ॥ इति ।
यद् अपि कैश् चिद् उच्यते मातापित्रोः क्षयाहे साग्निः पार्वणं कुर्यान् निरग्निर् एकोद्दिष्टम् इति,
वर्षे वर्षे सुतः कुर्यात् पार्वणं यो ऽग्निमान् द्विजः ।
पित्रोर् अनग्निमान् धीर एकोद्दिष्टं मृते ऽहनि ॥

इति सुमन्तुस्मरणाद् इति । त्

तद् अपि सत्प्रतिपक्षत्वाद् उपेक्षणीयम्
बह्वग्नयस् तु ये विप्रा ये चैकाग्नय एव च ।
तेषां सपिण्डनाद् ऊर्ध्वम् एकोद्दिष्टं न पार्वणम् ॥

इतिस्मरणात् । तत्रैवं निर्णयः- संन्यासिनां क्षयाहे सुतेन पार्व्णम् एव कर्तव्यम्,

एकोद्दिष्टं यतेर् नास्ति त्रिदण्डग्रहणाद् इह ।
सपिण्डीकरणाभावात् पार्वणं तस्य सर्वदा ॥

इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणम् एव,

अमावास्याक्षयो यस्य प्रेतपक्षे ऽथ वा पुनः ।

इत्यादिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोर् व्रीहियववद् विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यव्स्थितो विकल्पो ऽसत्याम् ऐच्छिक इत्य् अलम् अतिप्रसङ्गेन ॥ १.२५६ ॥

नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषम् इदम् अभिधीयते ।

**पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा । १.२५७अब् **
प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ १.२५७च्द् ॥

पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिर् इयं गवे अजाय ब्राह्मणाय वा तदर्थिने पिण्डान् दद्यात् । अग्नाव् अगाधे जले ऽपि वा प्रक्षिपेत् । किं च सत्सु विप्रेषु

भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेन् नोद्वासयेत् ॥ १.२५७ ॥

भोज्यविशेषेण फलविशेषम् आह ।

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । १.२५८अब्
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ १.२५८च्द् ॥
ऐणरौरववाराहशाशैर् मांसैर् यथाक्रमम् । १.२५९अब्
मासवृद्ध्याभितृप्यन्ति दत्तैर् इह पितामहाः ॥ १.२५९च्द् ॥

हविष्यं हविर् योग्यं तिलव्रीह्यादि । यथाह मनुः ।

तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं तृप्यन्ति विधिवत् पितरो नृणाम् ॥ इति । (म्ध् ३.२६७)

तदन्नं हविष्यान्नं तेन मासं पितरस् तृप्यन्तीत्य् अनागतेन अन्वयः । पायसेन गव्यपयःसिद्धेन संवत्सरम्,

संवत्सरं तु गव्येन पयसा पायसेन च । (म्ध् ३.२७१)

इति स्मरणात् । मत्स्यो भक्ष्यः पाठीनादिस् तस्येदं मात्स्यम् । हरिणस् ताम्रमृगः । एणः कृष्णः,

एणः कृष्णमृगो ज्ञेयस् ताम्रो हरिण उच्यते ।

इत्यायुर्वेदस्मरणात् । तस्येदं हारिणकम् । अविर् उभ्रस् तत्संबन्ध्य् औरभ्रम् । शकुनिस् तित्तिरिस् तत्संबन्धि शाकुनम् । छागो ऽजस् तदीयं छागम् । पृषच् चित्रमृगस् तन्मांसं पार्षतम् । एणः कृष्णम्र्गस् तत्पिशितम् ऐणम् । रुरुः शंबरस् तत्प्रभवं रौरवम् । वराह आरण्यसूकरस् तज्जं वाराहम् । शशस्येदं शाशम् । एभिर् मासैः पितृभ्यो दत्तैर्, “हविष्यान्नेन वै मासम्” (य्ध् १.२५८) इत्युक्तत्वात् तत ऊर्ध्वं यथाक्रमम् एकैकमासवृद्ध्या पितरस् तृप्यन्ति ॥ १.२५८ ॥ १.२५९ ॥

किं च ।

खड्गामिषं महाशल्कं मधु मुन्यन्नम् एव वा । १.२६०अब्
लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥ १.२६०च्द् ॥
यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते । १.२६१अब्
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ १.२६१च्द् ॥

खड्गो गण्डकस् तस्य मांसम् । महाशल्को मत्स्यभेदः । मधु माक्षिकम् । मुन्यन्नं सर्वम् आरण्यं नीवारादि । लोहो रक्तश् छागस् तदामिषं लौहामिषम् । महाशाकं कालशाकम् । वार्ध्रीणसो वृद्धः श्वेतच्छागः,

त्रिपिबं त्व् इन्द्रियक्षीणं वृद्धं श्वेतम् अजापतिम् ।
वार्ध्रीणसं तु तं प्राहुर् याज्ञिकाः श्राद्धकर्मणि ॥

इति याज्ञिकप्रसिद्धः । त्रिपिबः पिबतः कर्णौ जिह्वा च यस्य जलं स्पृशन्ति सः त्रिभिः पिबति इति त्रिपिबः, तस्य वार्ध्र्ịणसस्य मांसम् । यद् ददाति गयास्थश् च यत् किंचिच् छाकादिकम् अपि गयास्थो ददाति । चशब्दाद् गङ्गाद्वारादिषु च,

गङ्गाद्वारे प्रयोगे च नैमिषे पुष्करे ऽर्बुदे ।
संनिहत्यां गयायां च श्राद्धम् अक्षय्यतां व्रजेत् ॥

“आनन्त्यम् अश्नुते” इत्य् अनन्तफलहेतुत्वं प्राप्नोते । “आनन्त्यम् अश्नुते” इति प्रत्येकम् अभिसंबध्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायुक्तायां यत् किंचिद् दीयते तत् सर्वम् आनन्त्यम् अश्नुत इति गतेन संबन्धः ॥ अत्र यद्य् अपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शितानि तथापि पुलस्त्योक्ता व्यवस्थादरणीया ।

मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः ।
मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥ इति ।

अस्यार्थः- मुन्यन्नं नीवारादि यच् छ्राद्धयोग्यम् उक्तं तद् ब्राह्मणस्य प्रधानं समग्रफलदम् । यच् च मांसम् उक्तं तत् क्षत्रियवैश्ययोः प्रधानम् । यत् क्षौद्रम् उक्तं तच् छूद्रस्य । एतत् त्रितयव्यतिरिक्तं यद् अविरोधि यद् अप्रतिषिद्धं वास्तुकादि यच् च विहितं हविष्यं कालशाकादि तत् सर्वेषां समग्रफलदम् इति ॥ १.२६० ॥ १.२६१ ॥

तिथिविशेषात् फलविशेषम् आह ।

कन्यां कन्यावेदिनश् च पशून् वै सत्सुतान् अपि । १.२६२अब्
द्यूतं कृषिं वणिज्यां च द्विशफैकशफांस् तथा ॥ १.२६२च्द् ॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके । १.२६३अब्
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥ १.२६३च्द् ॥
प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् । १.२६४अब्
शस्त्रेण तु हता ये वै तेभ्यस् तत्र प्रदीयते ॥ १.२६४च्द् ॥

कन्यां रूपलक्षणशीलवतीम् । कन्यावेदिनो जामातरो बुद्धिरूपलक्षणसंपन्नाः । पशवः क्षुद्रा अजादयः । सत्सुताः सन्मार्गवर्तिनः । द्यूतं द्यूतविजयः । कृषिः कृषिफलम् । वणिज्या वाणिज्यलाभः । द्विशफा गवादयः । एकशफा अश्वादयः । ब्रह्मवर्चस्विनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं तद्वन्तः । स्वर्णरूप्ये हेमरजते । तद्व्यतिरिक्तं त्रपुसीसकादि कुप्यकम् । ज्ञातिश्रैष्ट्यं ज्ञातिषूत्कृष्ट्वम् । सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्वादयः । एतानि कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्व् अमावास्यापर्यन्तासु चतुर्दशीवर्जितासु चतुर्दशासु तिथिषु श्राद्धदो यथाक्रमम् आप्नोति । ये केचन शस्त्रहतास् तेभ्यः कृष्णचतुर्दश्याम् एकोद्दिष्टविधिना श्राद्धं दद्याद् यदि ब्राह्मणादिहता न भवन्ति,

समत्वम् आगतस्यापि पितुः शस्त्रहतस्य वै ।
एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालयः ॥

इति स्मरणात् । समत्वम् आगत्स्य सपिण्डीकृतस्य महालये भाद्रपदकृष्णचतुर्दश्यां शस्त्रहतस्य एव श्राद्ध नान्यस्येति नियम्यते न पुन्ः शस्त्रहतस्य चतुर्दश्याम् एवेति । एतश् च क्षयाहादौ शस्त्रहत्स्यापि यथाप्राप्तम् एव श्राद्धम् । न च भाद्रपदकृष्णपक्ष एवायं श्राद्धविधिर् इति मन्तव्यम्, “प्रौष्टपद्याम् अपरपक्षे मासि मासि चैवम्” इति शौनकस्मरणात् ॥ १.२६२ ॥ १.२६३ ॥ १.२६४ ॥

नक्षत्रविशेषात् फलविशेषम् आह ।

**स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा । १.२६५अब् **
**पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभाम् ॥ **
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीन् अपि । १.२६६अब्
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ १.२६६च्द् ॥
धनं वेदान् भिषक्सिद्धिं कुप्यं गा अप्य् अजाविक् अम् । १.२६७अब्
अश्वान् आयुश् च विधिवद् यः श्राद्धं संप्रयच्छति ॥ १.२६७च्द् ॥
कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान् । १.२६८अब्
आस्तिकः श्रद्दधानश् च व्यपेतमदमत्सरः ॥ १.२६८च्द् ॥

कृत्तिकाम् आदिं कृत्वा भरण्यन्तं प्रतिनक्षत्रं यः श्राद्धं ददाति स यथाक्रमं स्वर्गादीन् आयुःपर्यन्तान् कामान् अवाप्नोति यद्य् आस्तिकः श्रद्धधानो व्यपेतमदमत्सरश् च भवति । आस्तिको विश्वासवान् । श्रद्दधान आदरातिशययुक्तः । व्यपेतमदमत्सरः मदो गर्वः मत्सर ईर्ष्या ताभ्यां रहितः । स्वर्गं निरतिशयसुखम् । अपत्यम् अविशेषेण । ओज आत्मशक्त्यतिशयः । शौर्यं निर्भयत्वम् । क्षेत्रं फलवत् । बलं शारीरं । पुत्रो गुणवान् । श्रैष्ठ्यं ज्ञातिषु । सौभाग्यं जनप्रियता । समृद्धिर् धनादेः । मुख्यता अग्र्यता । शुभं सामान्येन । प्रवृत्तचक्रता अप्रतिहताज्ञता । वणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः । अरोगित्वम् अनामययोगित्वम् । यशः प्रख्यातिः । वीतशोकता इष्टवियोगादिजनितदुःखाभावः । परमा गतिर् ब्रह्मलोकप्राप्तिः । धनं सुवर्णादि । वेदा ऋग्वेदादयः । भिषक्सिद्धिर् औषधफलावाप्तिः । कुप्यं सुवर्णरजतव्यतिरिक्तं ताम्रादि । गावः प्रसिद्धाः । अजाश् च अवयश् च अश्वाश् च । आयुर् दीर्घजीवनम् ॥ १.२६५ ॥ १.२६६ ॥ १.२६७ ॥ १.२६८ ॥

“मासवृद्ध्याभितृप्यन्ति दत्तैर् इह पितामहाः” (य्ध् १.२५९) इत्य् अनेन पितॄणां श्राद्धेन तृप्तिर् भवतीत्य् उक्तम् । तद् अनुपपन्नम्, प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर् दत्तैर् अन्नपानादिभिस् तृप्त्यसंभवात् । संभवे ऽपि स्वयम् आत्मनाप्य् अनीशाः कथं स्वर्गादिफलं प्रयच्छन्ति । इत्य् अत आह ।

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । १.२६९अब्
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ १.२६९च्द् ॥
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । १। २७०अब्
प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥ १.२७०च्द् ॥


न ह्य् अत्र देवदत्तादय एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैर् उच्यन्ते किं त्व् अधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्दैर् न शरीरमात्रं नाप्य् आत्ममात्रं किं तु शरीरविशिष्टा आत्मान उच्यन्ते, एवम् अधिष्ठातृदेवतासहिता एव देवदत्तादयः पित्रादिशब्दैर् उच्यन्ते । अतश् चाधिष्ठातृदेवता वस्वादयः पुत्रादिभिर् दत्तेनान्नपानादिना तृप्ताः सन्तस् तान् अपि देवदत्तादींस् तर्पयन्ति कर्तॄंश् च पुत्रादीन् फलेन संयोजयन्ति । यथा माता गर्भपोषणायान्य् अदत्तेन दोहदान्नपानादिना स्वयम् उपभुक्तेन तृप्ता सती स्वजठरगतम् अप्य् अपत्यं तर्पयति दोहदान्नादिप्रदायिनश् च प्रत्युपकारफलेन संयोजयति तद्वद् वसवो रुद्रा अदितिसुता आदित्या एव ये पितरः पितृपितामहप्रपितामहशब्दवाच्याः न केवलं देवदत्तादय एव श्राद्धदेवताः श्राद्धकर्मणि संप्रदानभूताः किं तु मनुष्याणां पितॄन् देवदत्तादीन् स्वयं श्राद्धेन तर्पितास् तर्पयन्ति ज्ञानशक्त्यतिशययोगेन । किं च न केवलं पितॄंस् तर्पयन्त्य् अपि तु श्राद्धकारिभ्य आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि राज्यं च । चकारात् तत्र तत्र शास्त्रोक्तम् अन्यद् अपि फलं स्वयं प्रीताः पितामहा वस्वादयः प्रयच्छन्तीति ॥ १.२६९ ॥ १.२७० ॥

**इति श्राद्धप्रकरणम् **

**अथ गणपतिकल्पप्रकरणम् **

दृष्टादृष्टफलसाधनानि कर्माण्य् अभिहितान्य् अप्य् अभिधास्यन्ते च तेषां स्वरूपनिष्पत्तिः फलसाधनत्वं चाविघ्नेन भवतीत्य् अविघ्नार्थं कर्म विधास्यन् विघ्नस्य कारकज्ञापकहेतून् आह ।

विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः । १.२७१अब्
गणानाम् आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ १.२७१च्द् ॥

“विनायकः कर्मविघ्नसिद्ध्यर्थम्” इत्यादिनोभयविघ्नहेतुपरिज्ञानाद् विघ्नस्य प्राग्भावपरिपालनायोपस्थितस्य प्रध्वंसाय वा प्रेक्षापूर्वकारिणः प्रवर्तन्ते, रोगस्येवोभयविधहेतुपरिज्ञानात् । विनायको विघ्नेश्वरः पुरुषार्थसाधनानां कर्मणां विघ्नसिद्ध्यर्थं स्वरूपफलसाधनत्वविघातसिद्धये विनियोजितः नियुक्तः रुद्रेण ब्रह्मणा चकाराद् विष्णुना च गणानां पुष्पदन्तप्रभृतीनाम् आधिपत्ये स्वाम्ये ॥ १.२७१ ॥

एवं विघ्नस्य कारकहेतुम् उक्त्वा ज्ञापकहेतुप्रदर्शनार्थम् आह ।

तेनोपसृष्टो यस् तस्य लक्षणानि निबोधत । १.२७२अब्
स्वप्नेऽवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति ॥ १.२७२च्द् ॥
काषायवाससश् चैव क्रव्यादांश् चाधिरोहति । १.२७३अब्
अन्त्यजैर् गर्दभैर् उष्ट्रैः सहैकत्रावतिष्ठते ॥ १.२७३च्द् ॥
व्रजन्न् अपि तथाथ्मानं मन्यते ऽनुगतं परैः । १.२७४अब्

तेन विनायकेनोपसृष्टो गृहीतो यस् तस्य लक्षणानि ज्ञापकानि निबोधत जानीध्वं हे मुनयः । पुनर् मुनीनां प्रत्यवमर्शः शान्तिप्रकरणप्रारम्भार्थः । स्वप्ने स्वप्नावस्थायां जलम् अत्यर्थम् अवगाहते स्रोतसा ह्रियते निमज्जति वा । मुण्डितशिरसः पुरुषान् पश्यति । काषायवाससो रक्तनीलादिवस्रप्रावरणांश् च । क्रव्यादा नाम मांसाशिनः पक्षिणः गृध्रादीन् मृगांश् च व्याघ्रादीन् अधिरोहति । तथान्त्यजैश् चण्डालादिभिः गर्दभैः खरैर् उष्ट्रैः क्रमेलकैः सह परिवृतस् तिष्ठति । व्रजन् गच्छन्न् आत्मानं परैः शत्रुभिः पृष्ठतो धावद्भिर् अनुगतम् अभिभूयमानं मन्यते ॥ १.२७२ ॥ १.२७३ ॥

एवं स्वप्नदर्शनान्य् उक्त्वा प्रत्यक्षलिण्गान्य् आह ।

विमना विफलारम्भः संसीदत्य् अनिमित्ततः ॥ १.२७४च्द् ॥
**तेनोपसृष्टो लभते न राज्यं राजनन्दनः । १.२७५अब् **
कुमारी च न भर्तारम् अपत्यं गर्भम् अङ्गना ॥ १.२७५च्द् ॥
आचार्यत्वं श्रोत्रियश् च न शिष्यो ऽध्ययनं तथा । १.२७६अब्
वणिग् लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ १.२७६च्द् ॥

विमना विक्षिप्तचित्तः । विफलारम्भः विफला आरम्भा यस्य स तथोक्तः न क्वचित् फलम् आप्नोति । संसीदत्य् अनिमित्ततः विना कारणेन दीनमनस्को भवति । राजनन्दनो राजकुले जातः श्रुतशौर्यधैर्यादिगुणयुक्तो ऽपि राज्यं न लभते । कुमारी रूपलक्षणाभिजनादिसंपन्नापीप्सितं भर्तारम् । अङ्गना गर्भिण्य् अपत्यम् । ऋतुमती गर्भम् । अध्ययनतदर्थज्ञाने सत्य् अप्य् आचार्यत्वं श्रोत्रियः । विनयाचारादियुक्तो ऽपि शिष्यो ऽध्ययनं श्रवणं वा । न लभत इति सर्वत्र संबध्यते । वणिक् वाणिज्योपजीवी तत्र कुशलो ऽपि धान्यादिक्रयविक्रयादिषु लाभम् । कृषीवलः कर्षकस् तत्राभियुक्तो ऽपि कृषिफलं नाप्नोति । एवं यो यया वृत्त्या जीवति स तत्र निष्फलारम्भश् चेत् तेनोपसृष्टो वेदितव्यः ॥ १.२७४ ॥ १.२७५ ॥ १.२७६ ॥

एवं कारकज्ञापकहेतून् अभिधाय विघ्नोपशान्त्यर्थं कर्मविधानम् आह ।

स्नपनं तस्य कर्तव्यं पुण्ये ऽह्नि विधिपूर्वकम् । १.२७७अब्


तस्य विनायकोपसृष्टस्य, अनागतविनायकोपसर्गपरिहारार्थिनो वा, स्नपनम् अभिषेचनं कर्तव्यम् । पुण्ये स्वानुकूलनक्षत्रादियुक्ते । अह्नि दिवसे न रात्रौ । विधिपूर्वकं शास्त्रोक्तेतिकर्तव्यतासहितम् ॥

स्नपनविधिम् आह ।

गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ १.२७७च्द् ॥
सर्वौषधैः सर्वगन्धैर् विलिप्तशिरसस् तथा । १.२७८अब्
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ १.२७८च्द् ॥

गौरसर्षपकल्केन सिद्धार्थपिष्टेन साज्येन घृतलोलीकृतेनोत्सादितस्योद्वर्तिताङ्गस्य तथा सर्वौषधैः प्रियङ्गुनागकेसरादिभिः सर्वगन्धैश् चन्दनागुरुकस्तूरिकादिभिर् विलिप्तशिरसो वक्ष्यमाणभद्रासनोपविष्टस्य पुरुषस्य द्विजा ब्राह्मणाः शुभाः श्रुताध्ययनवृत्तसंपन्नाः शोभनाकृतयश् चत्वारो ऽस्य “स्वस्ति भवन्तो ब्रुवन्तु” इति वाच्याः । अस्मिन् समये गृह्योक्तमार्गेण पुण्याहवाचनं कुर्याद् इत्य् अर्थः ॥ १.२७७ ॥ १.२७८ ॥

किं च ।

अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् ध्रदात् । १.२७९अब्
मृत्तिकां रोचनां गन्धान् गुग्गुलं चाप्सु निक्षिपेत् ॥ १.२७९च्द् ॥
या आहृता ह्य् एकवर्णैश् चतुर्भिः कलशैर् ह्रदात् । १.२८०अब्
चर्मण्य् आनडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ १.२८०च्द् ॥

अश्वस्थानगजस्थानवल्मीकसरित्संगमाशोष्यह्रदेभ्य आहृतां पञ्चविधां मृदं गोरोचनं गन्धान् चन्दनकुङ्कुमागुरुप्रभृतीन् गुग्गुलं च तास्व् अप्सु विनिक्ष्पिपेत् । या आप आहृता एकवर्णैः समानवर्णैश् चतुर्भिः कुम्भैर् अव्रणास्फुटिताकालकैः हृद्दाद् अशोष्यात् संगमाद् वा । ततश् चानुडुहे चर्मणि रक्ते लोहितवर्णे उत्तरलोमनि प्राचीनग्रीवे भद्रं मनोरमम् आसनं श्रीपर्णीनिर्मितं स्थाप्यम् । तत उक्तोदकमृत्तिकागन्धादिसहितांश् चूतादिपल्लवोपशोभिताननान् स्रग्दामवेष्टितकण्ठांश् चन्दनचर्चितान् नवाहतवस्त्रविभूषितांश् चतसृषु पूर्वादिदिक्षु स्थापयित्वा शुचौ सुलिप्ते स्थण्डिले रचितपञ्चवर्णस्वस्तिके लोहितम् आनडुहं चर्मोत्तरलोम प्राचीनग्रीवम् आस्तीर्य तस्योपरि श्वेतवस्त्रप्रच्छादितम् आसनं स्थापयेद् इत्य् एतद् भद्रासनम् । तस्मिन्न् उपविष्टस्य स्वस्तिवाच्या द्विजाः ॥ १.२७९ ॥ १.२८० ॥

किं च ।

सहस्राक्षं शतधारम् ऋषिभिः पावनं कृतम् । १.२८१अब्
तेन त्वाम् अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ १.२८१च्द् ॥

स्वस्तिवाचनानन्तरं जीवत्पतिपुत्राभिः रूपगुणशालिनीभिः सुवेषाभिः कृतमङ्गलं पूर्वदिग्देशावस्थितं कलशम् आदायानेन मन्त्रेणाभिषिञ्चेद् गुरुः । सहस्राक्षम् अनेकशक्तिकं बहुप्रवाहम् ऋषिभिर् मन्वादिभिर् युद् उदकं पावनं पवित्रं कृतम् उत्पादितं तेनोदकेन त्वां विनायकोपसृष्टम् विनायकोपसर्गशान्तये अभिषिञ्चामि । पावमान्यश् चैता आपस् त्वां पुनन्तु ॥ १.२८१ ॥

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । १.२८२अब्
भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ॥ १.२८२च्द् ॥

तद् अनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशम् आदायानेन मन्त्रेणाभिषिञ्चेत् । भगं कल्याणं ते तुभ्यं वरुणो राजा भगं सूर्यो भगं बृहस्पतिः भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयश् च ददुर् इति ॥ १.२८२ ॥

यत् ते केṡएषु दौर्भाग्यं सीमन्ते यच् च मूर्धनि । १.२८३अब्
ललाटे कर्णयोर् अक्ष्णोर् आपस् तद् घ्नन्तु सर्वदा ॥ १.२८३च्द् ॥

ततस् तृतीयं कलशम् आदायानेन मन्त्रेणाभिषिञ्चेत् । ते तव केशेषु यद् दौर्भाग्यम् अकल्याणम् सीमन्ते मूर्धनि च ललाटे कर्णयोर् अक्ष्णोश् च तत् सर्वम् आपो देव्यो घ्नन्तु उपशमयन्तु सर्वदेति ॥ १.२८३ ॥

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु । १.२८४अब्
जुहुयान् मूर्धनि कुशान् सव्येन परिगृह्य च ॥ १.२८४च्द् ॥

ततश् चतुर्थं कलशम् आदाय पूर्वोक्तैस् त्रिभिर् मन्त्रैर् अभिषिञ्चेत् । सर्वमन्त्रैश् चतुर्थम् इति मन्त्रलिङ्गात् । उक्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीतकुशान्तर्हिते सार्षपं तैलं उदुम्बरवृक्षोद्भवेन स्रवेण वक्ष्यमाणैर् मन्त्रैर् जुहुयाद् आचार्यः ॥ १.२८४ ॥

मितश् च संमितश् चैव तथा शालकटङ्कटौ । १.२८५अब्
कूष्माण्डो राजपुत्रश् चेत्य् अन्ते स्वाहासमन्वितैः ॥ १.२८५च्द् ॥
नामभिर् बलिमन्त्रैश् च नमस्कारसमन्वितैः । १.२८६अब्

मितसंमितादिभिर् विनायकस्य नामभिः स्वाहाकारान्तैः प्रणवादिभिर् जुहुयाद् इति गतेन संबन्धः । स्वाहाकारयोगाच् चतुर्थी विभक्तिः । अतश् च ॐ मिताय स्वाहा ॐ संमिताय स्वाहा ॐ शालाय स्वाहा ॐ कटङ्कटाय स्वाहा ॐ कूष्माण्डाय स्वाहा ॐ राजपुत्राय स्वाहेति षण्मन्त्रा भवन्ति । अनन्तरं लौकिके ऽग्नौ स्थालीपाकविधिना चरुं श्रपयित्वा एतैर् एव षड्भिर् मन्त्रैस् तस्मिन्न् एवाग्नौ हुत्वा तच्छेषं बलिमन्त्रैर् इन्द्राग्नियमनिरृतिवरुणवायुसोमेशानब्रह्मानन्तानां नामभिश् चतुर्थ्यन्तैर् नमोऽन्वितैस् तेभ्यो बलिं दद्यात् ॥ १.२८६ ॥

अनन्तरं किं कुर्याद् इत्य् आह ।

दद्याच् चतुष्पथे शूर्पे कुशान् आस्तीर्य सर्वतः ॥ १.२८६च्द् ॥
कृताकृतांस् तन्दुलांश् च पललौदनम् एव च । १.२८७अब्
मत्स्यान् पक्वांस् तथैवामान् मांसम् एतावद् एव तु ॥ १.२८७च्द् ॥
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधाम् अपि । १.२८८अब्
मूलकं पूरिकापूपांस् तथैवोण्डेरकस्रजः ॥ १.२८८च्द् ॥
दध्य् अन्नं पायसं चैव गुडपिष्टं समोदकम् । १.२८९अब्
एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततः शिरः ॥ १.२८९च्द् ॥
विनायकस्य जननीम् उपतिष्ठेत् ततो ऽम्बिकाम् । १.२९०अब्

कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात् तज्जनन्याश् च शिरसा भूमिं गत्वा,

तत्पुरुषाय विड्महे वक्रतुण्डाय धीमहि ।
तन् नो दन्ती प्रचोदयात् ।

इत्य् अनेन मन्त्रेण विनायकं,

सुभगायै विड्महे काममालिन्यै धीमहि ।
तन् नो गौरी प्रचोदयात् ।

इत्य् अनेनाम्बिकां च नमस् कुर्यात् । तत उपहार्शेषम् आस्तीर्णकुशे शूर्पे निधाय चतुष्पथे निदध्यात्,

बलिं गृह्णन्त्व् इमं देवा आदित्या वसवस् तथा ।
मरुतश् चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥
असुरा यातुधानाश् च पिशाचोरगमातरः ।
शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥
जृम्भकाः सिद्धगन्धर्वा मायाविद्याधरा नराः ।
दिक्पाला लोकपालाश् च ये च विघ्नविनायकाः ॥
जगतां शान्तिकर्तारो ब्रह्माद्याश् च महर्षयः ।
मा विघ्नो मा च मे पापं मा सन्तु परिपन्थिनः ॥
सौम्या भवन्तु तृप्ताश् च भूतप्रेताः सुखावहाः ॥

इत्येतैर् मन्त्रैः ॥ कृताकृताः सकृदवहतास् तन्दुलाः । पललं तिलपिष्टं तन्मिश्र ओदनः पललौदनः । मत्स्याः पक्वा अपक्वाश् च । मांसम् एतावद् एव पक्वम् अपक्वं च । पुष्पं चित्रं रक्तपीतादिनानावर्णम् । चन्दनादि सुगन्धिद्रव्यम् । सुरा त्रिविधा गौडी माध्वी पैष्टी च । मूलकं मूलकः कन्दाकारो भक्ष्यविशेषः । पूरिका प्रसिद्धा । अपूपो ऽस्नेहपक्वो गोधूमविकारः । उण्डेरकस्रज उण्डेरकाः पिष्टादिमय्यस् ताः प्रोताः स्रजः । दध्यन्नं दधिमिश्रम् अन्नं । पायसं क्षैरेयी । गुडपिष्टं गुडमिश्रं शाल्यादिपिष्टम् । मोदकाः लड्डुकाः । अनन्तरं विनायकं तज्जननीम् अम्बिकां वक्ष्यमाणमन्त्रेणोपतिष्ठेत् ॥ १.२८६ – १.२८९ ॥

किं कृत्वेत्य् आह ।

दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णम् अञ्जलिम् ॥ १.२९० च्द् ॥

सकुसुमोदकेनार्घ्यं दत्त्वा दूर्वासर्षपपुष्पाणां पूर्वम् अञ्जलिं दत्त्वोपतिष्ठेद् इति गतेन संबन्धः ॥ १.२९० ॥

उपस्थानमन्त्रम् आह ।

रूपं देहि यशो देहि भगं भगवन् देहि मे । १.२९१अब्
**पुत्रान् देहि धनं देहि सर्वकामांश् च देहि मे ॥ १.२९१च्द् ॥ **
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । १.२९२अब्
ब्राह्मणान् भोजयेद् दद्याद् वस्त्रयुग्मं गुरोर् अपि ॥ १.२९२च्द् ॥

अम्बिकोपस्थाने “भगवती” इत्य् ऊहः[^२१] । ततो ऽभिषेकानन्तरं यजमानः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणान् भोजयेद् यथाशक्ति । गुरवे श्रुताध्ययनवृत्तसंपन्नाय विनायक्स्नपन्विधिज्ञाय वस्त्रयुग्मं दद्यात् । अपिशब्दाद् यथाशक्ति दक्षिणां विनायकोद्देशेन ब्राह्मणेभ्यश् च । तत्रायं प्रयोगक्रमः । चतुर्भिर् ब्राह्मणैः सार्धम् उक्तलक्षणो गुरुर् मन्त्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तज्जननीं चोक्तमन्त्राभ्यां गन्धपुष्पादिभिः समभ्यर्च्य चरुं श्रपयित्वा भद्रासनोपविष्टस्य यजमानस्य पुण्याहवाचनं कृत्वा चतुर्भिः कलशैर् अभिषिच्य सार्षपं तैलं शिरसि हुत्वा चरुहोमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं दद्यात् । यजमानस् तु स्नानानन्तरं शुक्लमाल्याम्बरधरो गुरुणा सहितो विनायकाम्बिकाभ्याम् उपहारं दत्त्वा शिरसा भूमिं नत्वा कुसुमोदकेनार्घ्यं दत्त्वा दूर्वासर्षपपुष्पाञ्जलिं च दत्त्वा विनायकम् अम्बिकां चोपतिष्ठेत् । गुरुर् उपहारशेषं शूर्पे कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्त्रयुग्मं दक्षिणां ब्राह्मणभोजनं च दद्याद् इति ॥ इति विनायकस्नपन्विधिः ॥ १.२९१ ॥ १.२९२ ॥

अस्यैव विनायकस्नपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुम् आह ।

एवं विनायकं पूज्य ग्रहांश् चैव विधानतः । १.२९३अब्
कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम् ॥ १.२९३च्द् ॥

एवम् उक्तेन प्रकारेण विनायकं संपूज्य कर्मणां फलम् अविघ्नेनाप्नोतीत्य् उक्तोपसंहारः । संयोगान्तरम् आह, श्रियं चोत्कृष्टतमाम् आप्नोतीति । श्रीकामश् चानैव विघानेन विनायकं पूजयेद् इत्य् अर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्यादिकामस्य च ग्रहपूजादिकल्पं विधास्यन् ग्रहपूजाम् उपक्षिपति “ग्रहांश् ऐव विधानत” इति । ग्रहान् आदित्यादीन् वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धिम् आप्नोति श्रियं चाप्नोति ॥ १.२९३ ॥

नित्यकाम्यसंयोगान् आह ।

आदित्यस्य सदा पूजां तिलकं स्वामिनस् तथा । १.२९४अब्
महागणपतेश् चैव कुर्वन् सिद्धिम् अवाप्नुयात् ॥ १.२९४च्द् ॥

आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कुमकुसुमादिभिः पूजां कुर्वन्, स्कन्दस्य महागणपतेश् च नित्यं पूजां कुर्वन्, सिद्धिं मोक्षम् आत्मज्ञानद्वारेण प्राप्नोति इति नित्यसंयोगः । आदित्यस्कन्दगणपतीनाम् अन्यतमस्य सर्वेषां वा तिलकं स्वर्णादिनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिम् अभिलषिताम् आप्नोति । तथा चक्षुषी चेति काम्यसंयोगः ॥ १.२९४ ॥

**इति महागणपतिकल्पः **

**अथ ग्रहशान्तिप्रकरणम् **

“एवं विनायकं पूज्य** **ग्रहांश् चैव विधानतः । कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम्” (य्ध् १.२९३) इत्य् अनेन ग्रहपूज्यया कर्मणाम् अविघ्नेन फलसिद्धिः श्रीश् च फलम् इत्य् उक्तम् । इदानीं फलान्तराण्य् आह ।

श्रीकांअः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । १.२९५अब्
**वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् अपि ॥ १.२९५च्द् ॥ **

श्रीकाम इति पूर्वोक्तस्यानुवादः । शान्तिकाम आपदुपशान्तिकामः । सस्यादिवृद्ध्यर्थं प्रवर्षणं वृष्टिर् आयुर् अपमृत्युजयेन दीर्घकालजीवनम् । पुष्टिर् अनवद्यशरीरत्वं एताः कामयत इति वृष्ट्यायुःपुष्टिकामः । एते श्रीकामादयो ग्रहयज्ञं ग्रहपूजां समाचरेयुः । तथाभिचरन्न् अप्य् अदृष्टोपायेन परपीडा अभिचारस् तत्कामश् च ग्रहयज्ञं समाचरेत् ॥ १.२९५ ॥

ग्रहान् आह ।

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । १.२९६अब्
शुक्रः शनैश्चरो राहुः केतुश् चेति ग्रहाः स्मृताः ॥ १.२९६च्द् ॥

एते सूर्यादयो नवग्रहाः ॥ १.२९६ ॥

ग्रहाः पूज्या इत्य् उक्तं । किं कृत्वेत्य् आह ।

ताम्रकात् स्फटिकाद् रक्तचन्दनात् स्वर्णकाद् उभौ । १.२९७अब्
राजताद् अयसः सीसात् कांस्यात् कार्या ग्रहाः क्रमात् ॥ १.२९७च्द् ॥
स्ववर्णैर् वा पटे लेख्या गन्धैर् मण्डलकेषु वा । १.२९८अब्

सूर्यादीनां मूर्तयस् ताम्रादिभिर् यथाक्रमं कार्याः । तदलाभे स्ववर्णैर् वर्णकैः पटे लेख्याः । “गन्धैर् मण्डलकेषु वा” । गन्धैः रक्तचन्दनादिभिर् यथावर्णं लेख्या इत्य् अन्वयः । द्विभुजत्वादिविशेषस् तु मत्स्यपुराणोक्तो द्रष्टव्यः । यथा -

पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वरस्थसंस्थश् च द्विभुजः स्यात् सदा रविः ॥
श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः ।
गदापाणिर् द्विबाहुश् च कर्तव्यो वरदः शशी ॥
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।
चतुर्भुजो मेषगमो वरदः स्याद् धरासुतः ॥
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खङ्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥
देवदैत्यगुरू तद्वत् पीतश्वेतौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
बाणबाणासनधरः कर्तव्यो ऽर्कसुतः सदा ॥
करालवदनः खङ्गचर्मशूली वरप्रदः ।
नीलः सिंहासनस्थश् च राहुर् अत्र प्रशस्यते ॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासनगता नित्यं केतवः स्युर् वरप्रदाः ॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।
स्वाङ्गुलेनोच्छ्रिताः सर्वे शतम् अष्टोत्तरं सदा ॥ इति । (मत्स्पु ९४.१–९)

एतेषां स्थापनदेशश् च तत्रैवोक्तः ।

मध्ये तु भास्करं विद्याल् लोहितं दक्षिणेन तु ।
उत्तरेण गुरुं विद्याद् बुधं पूर्वोत्तरेण तु ॥
पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके ।
पश्चिमेन शनिं विद्याद् राहुं पश्चिमदक्षिणे ॥
पश्चिमोत्तरतः केतुं स्थाप्या वै शुक्लतण्डुलैः ॥ इति ॥ (मत्स्पु ९३.११–१२)

ग्रहपूजाविधिम् आह ।

यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ १.२९८च्द् ॥
गन्धश् च बलयश् चैव धूपो देयश् च गुगुलुः । १.२९९अब्
कर्तव्या मन्त्रवन्तश् च चरवः प्रतिदैवतम् ॥ १.२९९च्द् ॥

यथावर्णं यस्य ग्रहस्य यो वर्णस् तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि । बलय्श् च धूपश् च सर्वेभ्यो गुग्गुलुर् देयः । चरवश् च प्रतिदैवतम् अग्निप्रतिष्ठापनान्वाधानादिपूर्वकं “चतुरश् चतुरो मुष्टीन् निर्वपति,” “अमुष्मै त्वा जुष्टं निर्वपामि” इत्यादिविधिना कार्याः । अनन्तरं सुसमिद्धे ऽग्नाव् इध्माधानाद्याघारान्तं कर्म कृत्वा आदित्याद्युद्देशेन यथाक्रमं वक्ष्यमाणमन्त्रैर् वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः ॥ १.२९८ ॥ १.२९९ ॥

ग्रहमन्त्रान् आह ।

आकृष्णेन इमंदेवा अग्निर् मूर्धा दिवः ककुत् । १.३००अब् ॥
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ १.३००च्द् ॥
बृहस्पते अति यद् अर्यस् तथैवान्नात् परिस्रुतः । १.३०१अब्
शं नो देवीस् तथा काण्डात् केतुं कृण्वन्न् इमांस् तथा ॥ १.३०१च्द् ॥


आकृष्णेन रजसा वर्तमान इत्यादयो नव मन्त्राः यथाक्रमादित्यादीनां वेदितव्याः ॥ १.३०० ॥ १.३०१ ॥

इदानीं समिध आह ।

अर्कः पलाशः खदिर अपामार्गो ऽथ पिप्पलः । १.३०२अब्
उदुम्बरः शमी दूर्वा कुशाश् च समिधः क्रमात् ॥ १.३०२च्द् ॥

अर्कपलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । ताश् चार्द्रा अभग्नाः सत्वचः प्रादेशमात्राः कर्तव्याः ॥ १.३०२ ॥

किं च ।

एकैकस्यात्राष्टशतम् अष्टाविंशतिर् एव वा ॥ १.३०३अब्
होतव्या मधुसर्पिर्भ्यां दघ्ना क्षीरेण वा युताः ॥ १.३०३च्द् ॥

आदित्यादीनाम् एकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा यथासंभवं मधुना सर्पिषा दघ्ना क्षीरेण वा युता उक्ता अर्कादिसमिधो होतव्याः ॥ १.३०३ ॥

इदानीं भोजनान्य् आह ।

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । १.३०४अब्
दध्योदनं हविश् चूर्णं मांसं चित्रान्नमेव च ॥ १.३०४च्द् ॥
दद्याद् ग्रहक्रमाद् एवं द्विजेभ्यो भोजनं बुधः । १.३०५अब्
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ १.३०५च्द् ॥

गुडमिश्र ओदनो गुडौदनः । पायसम् । हविष्यं मुन्यन्नादि । क्षीरषाष्टिकं क्षीरमिश्रः षाष्टिकौदनः । गध्ना मिश्र ओदनो दध्योदनः । हविर् घृतौदनः । चूर्णं तिलचूर्णमिश्र ओदनः । मांसं भक्ष्यमांसमिश्र ओदनः । चित्रौदनो नानावर्णौदनः । एतानि गुडौदनादीनि यथाक्रमम् आदित्याद्युद्देशेन भोजनार्थं द्विजेभ्यो ब्राह्मणेभ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या । गुडौदनाद्यभावे तु यथालाभम् ओदनादि पादप्रक्षालनादिविधिपूर्वकं सत्कृत्य संमानपुरःसरं दद्यात् ॥ १.३०४ ॥ १.३०५ ॥

दक्ष्ịणाम् आह ।

धेनुः शङ्खस् तथानड्वान् हेम वासो हयः क्रमात् । १.३०६अब्
कृष्णा गौर् आयसं छाग एता दक्षिणाः स्मृताः ॥ १.३०६च्द् ॥

धेनुर् दोग्ध्री । शङ्खः प्रसिद्धः । अनड्वान् भारसहो बलीवर्दः । हेम सुवर्णं । वासः पीतम् । हयः पाण्डुरः । कृष्णा गौः । आयसं शस्त्रादि । छागः प्रसिद्धः । एता धेन्वादयो यथाक्रमम् आदित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृता उक्ता मन्वादिभिः । एतच् च संभवे सति । असंभवे तु यथालाभं शक्तितो ऽन्यद् एव यत् किंचिद् देयम् ॥ १.३०६ ॥

शान्तिकामेनाविशेषेण सर्वे ग्रहाः पूजयितव्या इत्य् उक्तम् । तत्र विशेषम् आह ।

यस्य यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् । १.३०७अब्
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ १.३०७च्द् ॥

यस्य पुरुषस्य यो ग्रहो यदा दुःस्थो ऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा यत्नेन विशेषेण पूजयेत् । यस्माद् एषां ग्रहाणां ब्रह्मणा पूर्वं वरो दत्तः पूजिताः सन्तो यूयम् इष्टप्रापणेनानिष्टनिरसनेन च पूजयितारं पूजयिष्यथेति ॥ १.३०७ ॥

अविशेषेण द्विजान् अधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्य् अनुक्रान्तानि । तत्राभिषेकगुणयुक्तस्य राज्ञो विशेषेणाधिकार इत्य् आह ।

ग्रहाधीना नरेन्द्राणाम् उच्छ्रायाः पतनानि च । १.३०८अब्
भावाभावौ च जगतस् तस्मात् पूज्यतमा ग्रहाः ॥ १.३०८च्द् ॥

**[ग्रहाणाम् इदम् आतिथ्यं कुर्यात् संवत्सराद् अपि । **
आरोग्यबलसंपन्नो जीवेत् स शरदः शतं ॥ ]

नरेन्द्राणाम् अभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमाः । अनेनान्येषाम् अपि पूज्या इति गम्यते । उभयत्र कारणम् आह । प्राणिनाम् अभ्युदयविनिपाता ग्रहाधीनाः यस्मात् तस्माद् अधिकारिभिः पूज्याः । किं च । जगतः स्थावरजङ्गमात्मकस्य भावाभावाव् उत्पत्तिनिरोधौ ग्रहाधीनौ । तत्र यद्य् एते पूजितास् तदा स्वकाल एवोत्पत्तिनिरोधौ भवत्ः । अन्यथा उत्पत्तिसमये नोत्पादो ऽकाले निरोधश् च । जगदीश्वरत्वाच् च नरेन्द्राणां तद्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्तिकादिष्व् अधिकारः । तथा च गौतमेन- “राजा सर्वस्येष्टे ब्राह्मणवर्ज्यम्” (ग्ध् ११.१) इति राजानम् अधिकृत्य, “वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेच् च । चलतश् चैतान् स्वधर्मे स्थापयेत्” (ग्ध् ११.९–१०) इत्यादीन् कांश्चिद् धर्मान् उक्त्वा, “यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्य् आद्रियेत तदधीनम् अपि ह्य् एके योगक्षेमं प्रतिजानते” (ग्ध् ११.१५–१६) इति । शान्तिकपौष्टिकाद्यनुष्ठानहेतुम् अभिधाय शान्तिकपुण्याहस्वस्त्ययनायुष्यमङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषिणः स्तम्भनाभिचारद्विषद्वृद्धियुक्तानि च शालाग्नौ कुर्याद् इति शान्तिकादीनि दर्शितानि ॥ १.३०८ ॥

**इति ग्रहशान्तिप्रकरणम् **

**अथ राजधर्मप्रकरणम् **

साधारणान् गृहस्थधर्मान् उक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य विशेषधर्मान् आह ।

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । १.३०९अब्
विणीतः सत्त्वसंपन्नः कुलीनः सत्यवाक् शुचिः ॥ १.३०९च्द् ॥
अदीर्घसूत्रः स्मृतिमान् अक्षुद्रो ऽपरुषस् तथा । १.३१०अब्
धार्मिको ऽव्यसनश् चैव प्राज्ञः शूरो रहस्यवित् ॥ १.३१०च्द् ॥
स्वरन्ध्रगोप्ता ऽन्वीक्षिक्यां दण्डनीत्यां तथैव च । १.३११अब्
विनीतस् त्व् अथ वार्तायां त्रय्यां चैव नराधिपः ॥ १.३११च्द् ॥

पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः महान् उत्साहो यस्यासौ महोत्साहः । बहुदेयार्थदर्शी स्थूललक्षः । परकृतोपकारापकारौ न विस्मरतीति कृतज्ञः । तपोज्ञानादिवृद्धानां सेवकः वृद्धसेवकः । विनयेन युक्तो विनीतः । विनयशब्देनाविरुद्धः पूर्वोक्तस्नातकधर्मकलाप उच्यते- “न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत्” (य्ध् १.१३२) इत्यादिनोक्तः । सत्त्वसंपन्नः संपदापदोर् हर्षविषादरहितः । मातृतः पितृतश् चाभिजनवान् कुलीनःसत्यवाक् सत्यवचनसीलः । शुचिर् बाह्याभ्यन्तरशौचयुक्तः । अवश्यकार्याणां कर्मणाम् आरम्भे प्रारब्धानां च समापने यो न विलम्बते ऽसाव् अदीर्घसूत्रः । अधिगतार्थाविस्मरणशीलः स्मृतिमान्अक्षुद्रो ऽसद्गुणद्वेषी । अपरुषः परदोषाकीर्तनशीलः । धार्मिको वर्णाश्रमधर्मान्वितः । न विद्यन्ते व्यसनानि यस्यासाव् अव्यसनः । व्यसनानि चाष्टादश, यथा मनुः-

म्र्गयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥
पैशुन्यम् साहसं द्रोह ईर्श्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥ इति (म्ध् ८.४७-४८)

तत्र च सप्त कष्टतमानि । तथा च मनुः-

पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् ।
एतत् कष्टतमं विद्याच् चतुष्कं कामजे गणे ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥ इति (म्ध् ८.५०-५१)

प्राज्ञो गम्भीरार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयार्थगोपनचतुरः । स्वरन्ध्रगोप्ता स्वस्य सप्तसु राज्यङ्गेषु यत् परप्रवेशद्वारशैथिल्यं तत् स्वरन्ध्रं तस्य गोप्ता प्रच्छादयिता । आन्वीक्षिक्यां आत्मविद्यायां । दण्डनीत्याम् अर्थयोगक्षेमोपयोगिन्यां । वार्तायां कृषिवाणिज्यपशुपालनरूपायां धनोपचयहेतुभूतायां । त्रय्यां ऋग्यजुःसामाख्यायां[^२२] च । विनीतस् तत्तदभिज्ञैः प्रावीण्यं नीतः । यथाह मनुः-

त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकीं चात्मविद्भ्यो वार्तारम्भांश् च लोकतः । इति (म्ध् ९.४३)

नराधिपो राज्याभिशिक्तः । स्याद् इति सर्वत्र संबन्धः ॥ ३०९–३११ ॥

एवम् अभिषेकयुक्तस्यान्तरङ्गान् धर्मान् अभिधायेदानीं बहिरङ्गान् आह ।

स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिराञ् शुचीन् । १.३१२अब्
तैः सार्धं चिन्तयेद् राज्यं विप्रेणाथ ततः स्वयं ॥ १.३१२च्द् ॥

महोत्साहादिगुणैर् युक्तो राजा मन्त्रिणः कुर्वीत । कथंभूतान् । प्राज्ञान् हिताहितविवेककुशलान् । मौलान् स्ववंशपरम्परायातान् । स्थिरान् महत्य् अपि हर्षविषादस्थाने विकाररहितान् । शुचीन् धर्मार्थकामभयोपधाशुद्धान् । ते च सप्ताष्टौ वा कार्याः । यथाह मनुः-

मौलाञ् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् ।
सचिवान् सप्त चाष्टौ वा कुर्वीत सुपरीक्षिताण् ॥ इति (म्ध् ९.५४) ।

एवं मन्त्रिणः पूर्वं कृत्वा, तैः सार्धं राज्यं संधिविग्रहादिलक्षणं कार्यं चिन्तयेत् समस्तैर् व्यस्तैश् च । अनन्तरं तेषाम् अभिप्रायं ज्ञात्वा, सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन सह कार्यं विचिन्त्य, ततः स्वयं बुद्ध्या कार्यं चिन्तयेत्

कीदृशं पुरोहितं कुर्याद् इत्य् आह ।

** पुरोहितं प्रकुर्वीत दैवज्ञम् उदितोदितं । १.३१३अब्**
** दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा ॥ १.३१३च्द्**

पुरोहितं च सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरतो हितं दानमानसत्कारैर् आत्मसंबद्धं कुर्यात् । कथंभूतम् । दैवज्ञं ग्रहोत्पाततच्छमनादेर् वेदितारम् । उदितोदितं विद्याभिजनानुष्ठानादिभिर् उदितैः शास्त्रोक्तैर् उदितं समृद्धम् । दण्डनीत्याम् अर्थशास्त्रे कुशलम् । अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ १.३१३ ॥

श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् एव चर्त्विजः । १.३१४अब्
यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥ १.३१४च्द् ॥

श्रौताग्निहोत्रादिस्मार्तोपासनादिक्रियानुष्ठानसैद्ध्यर्थम् ऋत्विजो वृणुयात् । यज्ञांश् च राजसूयादीन् विधिवद् यथाविधानं भूरिदक्षिणान् बहुदक्षिणान् एव कुर्यात् ॥ १.३१४ ॥

किं च ।

भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च । १.३१५अब्
अक्षयो ऽयं निधी राज्ञां यद् विप्रेषूपपादितम् ॥ १.३१५च्द् ॥

ब्राह्मणेभ्यो भोगान् सुखानि तत्सास्हनदानद्वारेण दद्यात् । वसूनि च सुवर्णरूप्यभूप्रभृतीनि विविधानि नानाप्रकाराणि । यस्माद् एष राज्ञाम् अक्षयो निधिः शेवधिर् यद् ब्राह्मणेभ्यो दीयते । साधारणधर्मत्वेन दानप्राप्तौ सत्यां राज्ञां दानप्राधान्यप्रतिपादनार्थं पुनर् वचनम् ॥ १.३१५ ॥

किं च ।

अस्कन्नम् अव्यथं चैव प्रायश्चित्तैर् अदूषितम् । १.३१६अब्
अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते ॥ १.३१६च्द् ॥

अग्नेः सकाशाद् अग्निसाध्याद् भूरिदक्षिणाद् राजसूयादेर् अपि विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते । एतद् अस्कन्नं क्षणरहितम् अव्यथं पशुहिंसारहितं प्रायश्चित्तैर् अदूषितं प्रायश्चित्तरहितम् ॥ १.३१६ ॥

वसूनि विप्रेभ्यो दद्याद् इत्य् उक्तम् । कया परिपाट्या दद्याद् इत्य् आह ।

अलब्धम् ईहेद् धर्मेण लब्धं यत्नेन पालयेत् । १.३१७अब्
पालितं वर्धयेन् नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ १.३१७च्द् ॥

अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यत्नेन लब्धं तत् परिपालयेत् स्वयम् अवेक्षया रक्षेत् । पालितं तत्परतया रक्षितं नीत्या वणिक्पथादिकया वृद्धिं नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामपात्रेषु निक्ष्पिपेद् दद्यात् ॥ १.३१७ ॥

पात्रे निक्षिप्य किं कुर्याद् इत्य् आह ।

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । १.३१८अब्
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ १.३१८च्द् ॥

यथोक्तविधिना भूमिं दत्त्वा स्वत्वनिवृत्तिं कृत्वा निबन्धं वः एकस्य भाण्डभरकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा लेख्यं कारयेत् । किम् अर्थम् । आगामिनः एष्यन्तो ये भद्राः साधवो नृपतयो भूपास् तेषाम् अनेन दत्तम् अनेन प्रतिगृहीतम् इति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूपतेर् एव भूमिदाने निबन्धदाने वा ऽधिकारो न भोगपतेर् इति दर्शितम् ॥ १.३१८ ॥

लेख्यं कारयेद् इत्य् उक्तम् । कथं कारयेद् इत्य् आह ।

**पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । १.३१९अब् **
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ॥ १.३१९च्द् ॥
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । १.३२०अब्
स्वहस्तकालसंपन्नं शासनं कारयेत् स्थिरम् ॥ १.३२०च्द् ॥

कार्पासिके पटे ताम्रपट्टे फलके वा आत्मनो वंश्यान् प्रपितामहपितामहपितॄन् । बहुवचनस्यार्थवत्त्वाय वंशवीर्य्श्रुतादिगुणोपवर्णनपूर्वकम् अभिलेख्य आत्मानं चशब्दात् प्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभिलेख्य । प्रतिगृह्यत इति प्रतिग्रहो निबन्धस् तस्य रूपकादिपरिमाणम् । दीयते इति दानं क्षेत्रादि तस्य छेदः छिद्यते ऽनेनेति छेदः नद्यावाटौ निवर्तनं तत्परिमाणं च तस्योपवर्णनम्, अमुकनद्या दक्षिणतो ऽयं ग्रामः क्षेत्रं वा, पूर्वतो ऽमुकग्रामस्यैतावन्निवर्तनम् इत्यादिनिवर्तनपरिमाणं च लेख्यम् । एवं आवाटस्य नदीनगरवर्त्मादेः संचारित्वेन भूमेर् न्यूनाधिकभावसंभवात् तन्निवृत्त्यर्थम्, स्वहस्तेन स्वहस्तलिखितेन मतं मे अमुकनाम्नो ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् इत्य् अनेन संपन्नं युक्तं, कालेन च द्विविधेन शकनृपातीतरूपेण संवत्सररूपेण च कालेन चन्द्रसूर्योपरागादिना संपन्नं स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश् चिह्नितम् अङ्कितं स्थिरं दृढं शासनं शिष्यन्ते भविष्यन्तो नृपतयो ऽनेन दानाच्छ्रेयो ऽनुपालनम् इति शासनं कारयेत् । महीपतिर् न भोगपतिः । संधिविग्रहादिकारिणा न येन केनचित् ।

संधिविग्रहकारी तु भवेद् यस् तस्य लेखकः ।
स्वयं राज्ञा समादिष्टः स लिखेद् राजशासनम् ॥

इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे शासनकरणं भोगाभिवृद्ध्या फलातिशयार्थम् ॥ १.३१९ ॥ १.३२० ॥

इदानीम् राज्ञो निवासस्थानम् आह ।

रम्यं पशव्यम् आजीव्यं जाङ्गलं देशम् आवसेत् । १.३२१अब्
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ १.३२१च्द् ॥

रम्यं रमणीयम् अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् । आजीव्यम् उपजीव्यं कन्दमूलपुष्पफलादिभिः । जाङ्गलं यद्य् अप्य् अल्पोदकतरुपर्वतो देशो जाङ्गलस् तथाप्य् अत्र सजलतरुपर्वतो देशो जाङ्गलशब्देनाभिधीयते । तं देशम् आवसेद् अधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेर् आत्मनश् च रक्षणार्थं दुर्गं कुर्वीत । तच् च षड्विधम् । यथाह मनुः ।

धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ इति ॥ (म्ध् ७.७०) १.३२१ ॥

किं च ।

तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन् । १.३२२अब्
प्रकुर्यादायकर्मान्तव्ययकर्मसु चोद्यतान् ॥ १.३२२च्द् ॥

तत्र तत्र धर्मार्थकामादिषु अध्यक्षान् योग्यान् अधिकारिणः प्रकुरान् नियुञ्जीत । यथाहुः ।

धर्मकृत्येषु धर्म्ज्ञानर्थकृत्येषु पण्डितान् ।
स्त्रीषु क्लीबान्नियुञ्जीत नीचान्निन्द्येषु कर्मसु ॥ इति ।

कीदृशान् । निष्णातान् अनन्यव्यापारान् । कुशलान् तत्तद्व्यापारचतुरान् । शुचीन् चतुर्विधोपधाशुद्धान् । आयकर्मसु सुवर्णद्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यतान् अनलसान् । चशब्दात् प्राज्ञत्वादिगुणयुक्तान् । उक्तं च ।

प्राज्ञत्वम् उपधाशुद्धिर् अप्रमादो ऽभियुक्तता ।
कार्येषु व्यसनाभावः स्वामिभक्तिश् च योग्यता ॥ इति ॥ १.३२२ ॥

“भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च” (य्ध् १.३१५) इति सामान्येन स्वस्वदानम् उक्तम् । इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयम् आह ।

नातः परतरो धर्मो नृपाणां यद् रणार्जितम् । १.३२३अब्
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश् चाभयं सदा ॥ १.३२३च्द् ॥

अस्माद् उत्कृष्टतमो धर्मो नृपानां न विद्यते यद् रणार्जितं द्रव्यं विप्रेभ्यो दीयते । यच् च प्रजाभ्यो ऽभयदानम् ॥ १.३२३ ॥

“रणार्जितं देयम्” इत्य् उक्तं । द्रव्यार्जनाय रणे प्रवृत्तस्य विपत्तिर् अपि संभवतीति न धर्मो नाप्य् अर्थ इति ततो निवृत्तिर् एव श्रेयसीत्य् अत आह ।

य आहवेषु वध्यन्ते भूम्यर्थम् अपराङ्मुखाः । १.३२४अब्
अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥ १.३२४च्द् ॥

ये भूम्याद्यर्थम् आहवेषु प्रवृत्ता अपराङ्मुखा अभिमुखा वध्यन्ते मार्यन्ते ते स्वर्गं यान्ति । योगाभ्यासरता यथा । यद्य् अकूतैर् अविषदिग्धादिभिर् आयुधैर् योद्धारो भवन्ति ॥ १.३२४ ॥

किं च ।

पदानि क्रतुतुल्यानि भग्नेष्व् अविनिवर्तिनाम् । १.३२५अब्
राजा सुकृतम् आदत्ते हतानां विपलायिनाम् ॥ १.३२५च्द् ॥

स्वबलेषु करितुरगरथपदातिषु भग्नेष्व् अविनिवर्तिनां परबलाभिमुख्यायिनां पदानि क्रतुतुल्यान्य् अश्वमेधतुल्यानि । विपर्यये दोषम् आह- विपलायिनां पराङ्मुखानां हतानां राजा सुकृतम् आदत्ते ॥ १.३२५ ॥

अपि च ।

तवाहंवादिनं क्ल्ịबं निर्हेतिं परसंगतम् । १.३२६अब्
न हन्याद् विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ १.३२६च्द् ॥

तवाहम् इति यो वदति तं क्ल्ịबं नपुंसकं निर्हेतिं निरायुधं परसंगतम् अन्येन सह युद्ध्यमानं विनिवृत्तं युद्धाद् विनिवृत्तं युद्धप्रेक्षणकं युद्धदर्शिनं । न हन्याद् इति सर्वत्र संबन्धः । आदिग्रहणाद् अश्वसारथ्यादीनां ग्रहणम् । यथाह गौतमः- “न दोषो हिंसायाम् आहवे ऽन्यत्र व्यश्वसारथ्यानायुधकृताञ्जलिप्रकीर्णकेशपराङ्-मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगोब्राह्मणादिभ्यः” (ग्ध् १०.१७–१८) इति । शङ्खो ऽप्य् आह- “न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नावर्माणं सवर्मा न स्त्रियं न करेणुं न वाजिनं न सारथिनं न सूतं न दूतं न ब्राह्मणं न राजानम् अराजा हन्यात्” इति ॥ १.३२६ ॥

कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम् । १.३२७अब्
व्यवहारांस् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ १.३२७च्द् ॥

कृतरक्षः पुरस्यात्मनश् च रक्षां विधाय प्रतिदिनं प्रातःकाल उत्थाय स्वयम् एवायव्ययौ पश्येत् । ततो व्यवहारान् दृष्ट्वा मध्याह्नकाले स्नात्वा कामतो यथाकालं भुञ्जीत ॥ १.३२७ ॥

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । १.३२८अब्
पश्येच् चारांस् ततो दूतान् प्रेषयेन् मन्त्रिसंगतः ॥ १.३२८च्द् ॥

तदनन्तरं हिरण्यं व्यापृतैर् हिरण्याद्यानयननियुक्तैर् आनीतं स्वयम् एव निरीक्ष्य भाण्डागारेषु निक्षिपेत् । ततश् चारान् स्पशान् प्रत्यागतान् पश्येत् । ये परराज्ये वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास् तांश् चारान् दृष्ट्वा क्वचिन् निवेशयेत् । तदनन्तरं दूतांश् च पश्येत् । दूताश् च ये प्रकटम् एव राजान्तरं प्रति गतागतम् आचरन्ति । ते च त्रिविधाः । निसृष्टार्थाः संदिष्टार्थाः शासनहराश् चेति । तत्र निसृष्टार्था राजकार्याणि देशकालोचितानि स्वयम् एव कथयितुं क्षमाः । उक्तमात्रं ये परस्मै निवेदयन्ति ते संदिष्टार्थाः । शासनहरास् तु राजलेखहारिणः । तान् पूर्वप्रेषितान् आगतान् मन्त्रिसंगतः पश्येत् । दृष्ट्वा तद्वार्ताम् आकलय्य पुनः पुनः प्रेषयेत् ॥ १.३२८ ॥

ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः । १.३२९अब्
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ १.३२९च्द् ॥

तदनन्तरम् अपराह्णे स्वैरं यथेष्टम् एको ऽअन्तःपुरविहारी स्यात् । मन्त्रिभिर् वा विश्वासिभिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश् च रूपयौवनवैदग्ध्यशालिनीभिः

भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह ।
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ (म्ध् ७.२२१)

इति मनुस्मरणात् । ततो विशिष्टैर् वस्त्रकुंसुमविलेपनालंकारैर् अलंकृतः हस्त्यश्वरथपदातिबलानि दृष्ट्वा सेनान्या सेनापतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ १.३२९ ॥

संध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम् । १.३३०अब्
गीतनृत्यैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च ॥ १.३३०च्द् ॥

ततः सायंकाले संध्याम् उपास्य । सामान्येन प्रापतस्यापि पुनर् वचनं कार्याकुलत्वाद् अविस्मरणार्थं । अनन्तरं ये पूर्वदृष्टाः क्वचित् स्थाने निवेशितास् तेषां चाराणां गूढभाषितम् अन्तर्वेश्मनि शस्त्रपाणिः शृणुयात् । उक्तं च मनुना ।

संध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शत्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ इति । (म्ध् ७.२२३)

ततो नृत्यगीतादिभिः कंचित् कालं क्रीडीत्वा कक्षान्तरं प्रविश्य भुञ्जीत,

गत्वा कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् ।
प्रविशेद् भोजनार्थं च स्त्रीभिर् अन्तःपुरं सह ॥ (म्ध् ७.२२४)

इति स्मरणात् । ततो ऽविस्मरणार्थं यथाशक्ति स्वाध्यायं पठेत् ॥ १.३३० ॥

संविशेत् तूर्यघोषेण प्रतिबुध्येत् तथैव च । १.३३१अब्
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्तव्यतास् तथा ॥ १.३३१च्द् ॥

तदनन्तरं तूर्यशङ्खघोषेण संविशेत् स्वप्यात् । तथैव तूर्यादिघोषेण प्रतिबुद्धेत् । प्रतिबुद्ध्य च शास्त्रविद्भिर् विश्वासिभिः सह एकाकी वा पश्चिमे यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्याश् च सर्वकार्याणि च । एतच् च स्वस्थं प्रत्य् उच्यते । अस्वस्थः पुनः सर्वकार्येष्व् अन्यं नियोजयेत् । यथाह मनुः ।

एतद् वृत्तं समातिष्ठेद् अरोगः पृथिवीपतिः ।
अस्वस्थः सर्वम् एवैतन् मन्त्रिमुख्ये निवेषयेत् ॥ इति ॥ (म्ध् ७.२२५) १.३३१ ॥
प्रेषयेच् च ततश् चारान् स्वेष्व् अन्येषु च सादरान् । १.३३२अब्
ऋत्विक्पुरोहिताचार्यैर् आशीर्भिर् अभिनन्दितः ॥ १.३३२च्द् ॥
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् । १.३३३अब्
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ १.३३३च्द् ॥

अनन्तरं तत्रस्थ एव विश्वस्तान् स्वान् चारान् दानमानसत्कारैः पूजितान् स्वेषु सामन्ताद्यधिकारिषु अन्येषु च महीपतिषु प्रेषयेत् तच्चिकीर्षितपरिज्ञानाय । ततः प्रातःसंध्याम् उपास्या ऽग्निहोत्रं हुत्वा पुरोहितर्त्विगाचार्यादिभिर् आशीर्भिर् अभिनन्दितो ज्योतिर्विदो दृष्ट्वा तेभ्यश् च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि च पुरोहितान् आदिश्य वैद्यांश् च दृष्ट्वा तेभ्यश् च स्वशरीरस्थितिं निवेद्य प्रतिविधानं चादिश्य गां दोग्ध्रीं काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालंकारादीनि गृहाणि च सुधाधवलितादीनि श्रोत्रियेभ्यो ऽधीतवेदेभ्यो ब्राह्मणेभ्यः । दद्याद् इति प्रत्येकं संबध्यते ॥ १.३३२ ॥ १.३३३ ॥

किं च ।

ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मः क्रोधनो ऽरिषु । १.३३४अब्
स्याद् राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ १.३३४च्द् ॥

ब्राह्मणेष्व् अधिक्षिपत्स्व् अपि क्षमी क्षमावान् । स्निग्धेषु स्नेहवत्सु मित्रादिष्व् अजिह्मो ऽवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेनाहितनिवर्तनेन च पितेव दयावान् । “स्याद्” इति प्रत्येकं संबध्यते ॥ १.३३४ ॥

प्रजापालनफलम् आह ।

पुण्यात् षड्भागम् आदत्ते न्यायेन परिपालयन् । १.३३५अब्
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥ १.३३५च्द् ॥

यस्मान् न्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहितपुण्यात् षड्भागं षष्टं भागम् आदत्ते । यस्माच् च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां परिपालनम् अधिकफलम् । तस्मात् “प्रजासु यथा पिता तथैव स्याद्” इति गतेन संबन्धः ॥ १.३३५ ॥

चाटतस्करदुर्वृत्तमहासाहसिकादिभिः । १.३३६अब्
पीड्यमानाः प्रजा रक्षेत् कायस्थैश् च विशेषतः ॥ १.३३६च्द् ॥

चाटाः प्रतारकाः विश्वास्य ये परधनम् अपहरन्ति । प्रच्छन्नापहारिणस् तस्कराः । दुर्वृत्ता इन्द्रजालिककितवादयः । सहो बलं सहसा बलेन कृतं साहसं महच् च तत् साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । आदिशब्दान् मौलिककुहकदुर्वृत्तयः । एतैः पीड्यमाना बाध्यमानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश् च तैः पीड्यमाना विशेषतो रक्षेत् । तेषां राजवल्लभतयातिमायावित्वाच् च दुर्निवारत्वात् ॥ १.३३६ ॥

अरक्ष्यमाणाः कुर्वन्ति यत् किंचित् किल्बिषं प्रजाः । १.३३७अब्
तस्मात् तु नृपतेर् अर्धं यस्माद् गृह्णात्य् असौ करान् ॥ १.३३७च्द् ॥

अरक्ष्यमाणाः प्रजाः यत् किंचित् किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात् पापाद् अर्धं नृपतेर् भवति । यस्माद् असौ राजा रक्षणार्थं प्रजाभ्यः करान् गृह्णाति ॥ १.३३७ ॥

ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् । १.३३८अब्
साधून् संमानयेद् राजा विपरीतांश् च घातयेत् ॥ १.३३८च्द् ॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् । १.३३९अब्
सद्दानमानसत्काराञ् श्रोत्रियान् वासयेत् सदा ॥ १.३३९च्द् ॥

राष्ट्रे राष्ट्राधिकारेषु ये नियुक्तास् तेषां विचेष्टितं चरितं चारैर् उक्तलक्षणैः सम्यक् ज्ञात्वा साधून् सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान् दुष्टचरितान् सम्यग् विदित्वा घातयेद् अपराधानुसारेण । ये पुनर् उत्कोचजीविनस् तान् द्रव्यरहितान् कृत्वा स्वराष्ट्रात् प्रवासयेत् । श्रोत्रियान् सद्दानमानसत्करैः सहितान् कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् ॥ १.३३८ ॥ १.३३९ ॥

अन्यायेन नृपो राष्ट्रात् स्वकोशं यो ऽभिवर्धयेत् । १.३४०अब्
सो ऽचिराद् विगतश्रीको नाशम् एति सबान्धवः ॥ १.३४०च्द् ॥

यो ऽसौ राजा स्वराष्ट्राद् अन्यायेन द्रव्यम् आदाय स्वकोशं अभिवर्धयेत् सो ऽचिराच् छीघ्रम् एव विगतश्रीको विनष्टलक्ष्मीको बन्धुभिः सह नाशं प्राप्नोति ॥ १.३४० ॥

प्रजापीडनसंतापात् समुद्भूतो हुताशनः । १.३४१अब्
राज्ञाः कुलं श्रियं प्राणांश् चा ऽदग्ध्वा न निवर्तते ॥ १.३४१च्द् ॥

प्रजानां तस्करादिकृतपीडनेन यः संतापस् तस्माद् उद्भूतो हुताशन इव संतापकारित्वाद् अपुण्यराशिर् हुताशनशब्देनोच्यते । स राज्ञः कुलं श्रियं प्राणांश् चादग्ध्वा नाशम् अनीत्वा न निवर्तते नोपशाम्यति ॥ १.३४१ ॥

य एव नृपतेर् धर्मः स्वराष्ट्रपरिपालने । १.३४२अब्
तम् एव कृत्स्नम् आप्नोति परराष्ट्रं वशं नयन् ॥ १.३४२च्द्

न्यायतः स्वराष्ट्रपरिपालने राज्ञो यो धर्मस् तं सकलं वक्ष्यमाणन्यायेन परराष्ट्रं वशं नयन् आत्मसात्कुर्वन्न् आप्नोति धर्मषड्भागं च ॥ १.३४२ ॥

किं च ।

यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ॥ १.३४३अब्
तथैव परिपाल्यो ऽसौ यदा वशम् उपागतः ॥ १.३४३च्द्

यदा परदेशो वशम् उपागतस् तदा न स्वदेशाचारादिसंकरः कार्यः किं तु यस्मिन् देशे य आचारः कुलस्थितिर् व्यवहारो वा यथैव प्राग् आसीत् तथैवासौ परिपालनीयो यदि शास्त्रविरुद्धो न भवति । यदा वशम् उपागत इत्य् अनेन वशोपगमनात् प्राग् अनियम इति दर्शितम् । यथोक्तम् ।

उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ॥ इति ॥ (म्ध् ७.१९५) १.३४३ ॥
मन्त्रमूलं यतो राज्यं तस्मान् मन्त्रं सुरक्षितम् ॥ १.३४४अब्
कुर्याद् यथास्य न विदुः कर्मणाम् आ फलोदयात् ॥ १.३४४च्द् ॥

यस्मात् “तैः सार्धं चिन्तयेद् राज्यम्” (य्ध् १.३१२) इत्याद्य् उक्तं मन्त्रमूलं राज्यं तस्मान् मन्त्रं यत्नेन तथा सुरक्षितं कुर्याद् यथास्य राज्ञः कर्मणां संधिविग्रहादीनाम् आ फलोदयात् फलनिष्पत्तेः प्राग् अन्ये मन्त्रं न जानन्ति ॥ १.३४४ ॥

किं च ।

अरिर् मित्रम् उदासीनो ऽनन्तरस् तत्परः परः ॥ १.३४५अब्
क्रमशो मण्डलं चिन्त्यं सामादिभिर् उपक्रमैः ॥ १.३४५च्द् ॥

अरिः शत्रुः । मित्रं सुहृत् । उभविलक्षण उदासीनश् च । ते च त्रयस् त्रिविधाः सहजाः कृत्रिमाः प्राकृताश् चेति । तत्र सहजो ऽरिः सापत्नपितृव्यतत्पुत्रादिः । कृत्रिमो ऽरिः यस्यापकृतं येन चापकृतम् । प्राकृतस् त्व् अनन्तरदेशाधिपतिः । सहजं मित्रं भागिनेयपैतृष्वस्रीयमातृष्वस्रीयादि । कृत्रिमं मित्रं येनोपकृतं यस्य चोपकृतम् । प्राकृतमित्रम् एकान्तरितदेशाधिपतिः । सहजकृत्रिममित्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो द्व्यन्तरितदेशाधिपतिः । अरिः पुनश् चतुर्विधः यातव्योच्छेत्तव्यपीडनीयकर्शनीयभेदेन । तत्र यातव्यो ऽनन्तरभूमिपतिर् व्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गो मित्रहीनो दुर्बलश् चोच्छेत्तव्यः । पीडनीयो मन्त्रबलहीनः । प्रबलमन्त्रबलयुक्तः कर्शनीयः-

निर्मूलनात् समुच्छेदं पीडनं बलनिग्रहम् ।
कर्शनं तु पुनः प्राहुः कोशदण्डापकर्शनात् ॥ इति ।

मित्रं द्विविधं बृंहणीयं कर्शनीयम् इति । कोशबलहीनं बृंहणीयम् । कोशबलाधिकं कर्शनीयम् । अनन्तरस् तत्परः पर इति प्राकृतारिमित्रोदासीनान् आह । अनन्तरः प्राकृतो ऽरिः, तत्परः प्राकृतं मित्रं, तस्मात् परः प्राकृत उदासीनः, शेषाः पुनः प्रसिद्धत्वान् नोक्ताः । एतद् राजमण्डलं क्रमशः पूर्वादिदिक्क्रमेण चिन्त्यं तेषाम् चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिभिर् उपायैर् वक्ष्यमाणैर् अनुसंधेयम् । एवं पुरतः पृष्ठतः पार्श्वतश् च त्रयस् त्रय आत्मा चैक इति त्रयोदशराजकम् इदं राजमण्डलं पद्माकारम् । पार्ष्णिग्राहाक्रन्दासारादयस् त्व् अरिमित्रोदासीनेष्व् एवान्तर्भवन्ति संज्ञाभेदमात्रं ग्रन्थान्तरे दर्शितम् इति योगीश्वरेण न पृथग् उक्ताः ॥ १.३४५ ॥

“सामादिभिर् उपक्रमैः” इत्य् उक्तं । इदानीं तान् उपायान् आह ।

उपायाः साम दानं च भेदो दण्डस् तथैव च । १.३४६अब्
सम्यक् प्रयुक्ताः सिद्ध्येयुर् दण्डस् त्व् अगतिका गतिः ॥ १.३४६च्द् ॥

साम प्रियभाषणम् । दानं सुवर्णादेः । भेदो भेदकरणं तत्सामन्तादीनां परस्परतो वैरस्योत्पादनेन । दण्ड उपांशुप्रकाशाभ्यां धनापहारादिवधपर्यन्तो ऽपकारः । एते सामादयः परिपन्थ्यादिसाधनोपायाः । एते च देṡअकालाद्यनुसारेण सम्यक् प्रयुक्ताः सिद्ध्येयुः । तेषां च मध्ये दण्डस् त्व् अगतिका गतिः, उपायान्तरसंभवे सति न प्रयोक्तव्यः । एतच् च पीडनीयकर्शनीयाभिप्रायेण । यातव्योच्छेत्तव्ययोस् तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषया अपि तु सकललोकव्यवहारविषयाः । यथा ।

अधीष्व पुत्रकाधीष्व दास्यामि तव मोदकान् ।
यद् वान्यस्मै प्रदास्यामि कर्णम् उत्पाटयामि ते ॥ इति ॥ १.३४६ ॥

किं च ।

संधिं च विग्रहं यानम् आसनं संश्रयं तथा । १.३४७अब्
द्वैधीभावं गुणान् एतान् यथावत् परिकल्पयेत् ॥ १.३४७च्द् ॥

संधिर् व्यवस्थाकरणम् । विग्रहो ऽपकारः । यानं परं प्रति यात्रा । आसनम् उपेक्षा । संश्रयो बलवदाश्रयणम् । द्वैधीभावः स्वबलस्य द्विधाकरणम् । एतान् संधिप्रभृतीन् गुणान् यथावद् देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ १.३४७ ॥

यानकालान् आह ।

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । १.३४८अब्
परश् च हीन आत्मा च हृष्टवाहनपूरुषः ॥ १.३४८च्द् ॥

यदा परराष्ट्रं सस्यैर् व्रीह्यादिभिर् गुणैश् च समजलेन्धनतृणादिभिर् उपेतं संपन्नं शत्रुश् च हीनो बलादिभिर् आत्मा च हृष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि तानि च पूरुषाश् च वाहनपूरुषाः हृष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा परराष्ट्रम् आत्मसात्कर्तुं व्रजेत् ॥ १.३४८ ॥

प्राणिनाम् अभ्युदयविनिपातानां दैवायत्तत्वाद् यदि दैवम् अस्ति तदा स्वयम् एव परराष्ट्रादि वशीभविष्यति, अथ नास्ति कृते ऽपि पौरुषे न भविष्यत्य् अतो व्यर्थ एवायं यात्राप्रयास इत्य् अत आह ।

दैवे पुरुषकारे च कर्मसिद्धिर् व्यवस्थिता । १.३४९अब्
तत्र दैवम् अभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ १.३४९च्द् ॥

कर्मसिद्धिः फलप्राप्तिर् इष्टानिष्टलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपि तु पुरुषकारे ऽपि, लोके तथादर्शनात्, चिकित्सकादिशास्त्रवैयर्थ्याच् च । अपि च पुरुषकाराभावे दैवम् एव नास्तीत्य् आह “तत्र दैवम्” इति । यतः पूर्वदेहार्जितं पौरुषम् एव दैवम् उच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं पौर्वदेहिकं कर्म । तस्मात् पुरुषकाराभावे न दैवम् अस्तीति पुरुषकारे यत्नो विधातव्यः ॥ १.३४९ ॥

इदानीं मतान्तराण्य् आह ।

केचिद् दैवात् स्वभावाद् वा कालात् पुरुषकारतः । १.३५०अब्
संयोगे केचिद् इच्छन्ति फलं कुशलबुद्धयः ॥ १.३५०च्द् ॥

केचिद् इष्टानिष्टलक्षणं फलं दैवाद् एवेच्छन्ति । केचित् स्वभावात्, स्वयम् एव भवति न कारणम् अपेक्षत इति । केचित् कालात् । केचित् पुरुषकारत एवेति । स्वमतम् आह- दैवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वादयो मन्यन्ते ॥ १.३५० ॥

एकैकस्मात् फलं न भवतीत्य् अत्र दृष्टान्तम् आह ।

यथा ह्य् एकेन चक्रेण रथस्य न गतिर् भवेत् । १.३५१अब्
एवं पुरुषकारेण विना दैवं न सिध्यति ॥ १.३५१च्द् ॥

नात्र तिरोहितम् अस्ति ॥ १.३५१ ॥

लभाय परराष्ट्रं गन्तव्यम् इत्य् उक्तम् । लाभश् च त्रिविधः हिरण्यलाभो मूललाभो मित्रलाभश् चेति । तेषु मित्रलाभो ज्यायान् । ततस् तत्प्राप्त्युपाये यत्नो विधातव्यः । तत्प्राप्त्युपायश् च सत्यवचनम् इत्य् आह ।

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः । १.३५२अब्
अतो यतेत तत्प्राप्त्यै रक्षेत् सत्यं समाहितः ॥ १.३५२च्द् ॥

यस्मात् हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा उत्कृष्टा तस्मात् तत्प्राप्त्यै यतेत यत्नं कुर्यात् सामादिभिः । सत्यं च रक्षेत् समाहितः सावधानः, सत्यमूलत्वान् मित्रलाभस्य ॥ १.३५२ ॥

इदानीं राज्याङ्गान्य् आह ।

स्वाम्यमात्या जनो दुर्गं कोशो दण्डस् तथैव च । १.३५३अब्
मित्राण्य् एताः प्रकृतयो राज्यं सप्ताङ्गम् उच्यते ॥ १.३५३च्द् ॥

महोत्साह इत्याद्युक्तलक्षणो महीपतिः स्वामी । अमात्या मन्त्रिपुरोहितादयः । जनो ब्राह्मणादिप्रजाः । दुर्गं धन्वदुर्गादि । कोशः सुवर्णादिधनराशिः । दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिमप्राकृतानि । एताः स्वाम्याद्याः राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गम् उच्यते ॥ १.३५३ ॥

तद् अवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । १.३५४अब्
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ १.३५४च्द् ॥

तद् एवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसकादिषु नृपो दण्डं पातयेत् प्रयोजयेत् । हि यस्माद् धर्म एव दण्डरूपेण पूर्वं ब्रह्मणा निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा, “दण्ड दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्” (ग्ध् ११.२८) इत्यादिगौतमस्मरणात् ॥ १.३५४ ॥

स नेतुं न्यायतो ऽशक्यो लुब्धेनाकृतबुद्धिना । १.३५५अब्
सत्यसंधेन शुचिना सुसहायेन धीमता ॥ १.३५५च्द् ॥

स पूर्वोक्तो दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्यायानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति । कीदृशेन तर्हि शक्य इत्य् आह- सत्यसंधेन अप्रतारकेण, शुचिना जितारिषड्वरेण, सुसहायेन पूर्वोक्तसहायसहितेन, धीमता नयानयकुशलेन, स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः ॥ १.३५५ ॥

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । १.३५६अब्
जगद् आनन्दयेत् सर्वम् अन्यथा तत् प्रकोपयेत् ॥ १.३५६च्द् ॥

स दण्डः शास्त्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्वं जगद् आनन्दयेत् हर्षयेत् । अन्यथा शास्त्रातिक्रमेण प्रयुक्तश् चेज् जगत् प्रकोपयेत् ॥ १.३५६ ॥

न केवलम् अधर्मदण्डेन जगत्प्रकोपो ऽपि तु प्रयोक्तुर् दृष्टादृष्टहानिर् अपीत्य् आह ।

अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् । १.३५७अब्
सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ १.३५७च्द् ॥

यः पुनः शास्त्रातिक्रमेण लोमादिना दण्डः कृतः स पापहेतुत्वात् स्वर्गं कीर्तिं लोकाश्च विनाशयति । शास्त्रोक्तमार्गेण तु कृतो धर्महेतुत्वात् स्वर्गकीर्तिजयानां हेतुर् भवति ॥ १.३५७ ॥

अपि भ्राता सुतो ऽर्घ्यो वा श्वशुरो मातुलो ऽपि वा । १.३५८अब्
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥ १.३५८च्द् ॥

अर्घ्यो ऽर्घार्ह आचार्यादिः । शेषः प्रसिद्धः । एते भ्रातृसुतादयो ऽपि स्वधर्माच् चलिता दण्ड्याः किम् उतान्ये । यतः स्वधर्माच् चलितो ऽदण्ड्यो नाम राज्ञः को ऽपि नास्ति । एतच् च मातापित्रादिव्यतिरेकेण । तथा च स्मृत्यन्तरम्- “अदण्ड्यौ मातापितरौ स्नातकपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्, ते हि धर्माधिकारिणः” इति ॥ १.३५८ ॥

किं च ।

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् । १.३५९अब्
इष्टं स्यात् क्रतुभिस् तेन समाप्तवरदक्षिणैः ॥ १.३५९च्द् ॥

यस् तु दण्ड्यान् स्वधर्मचलनादिना दण्ड्योग्यान् सम्यक् शास्त्रदृष्टेन मार्गेण धिग्धनदण्डादिना दण्डयति वध्यान् वधार्हान् घातयति तेन राज्ञा भूरिदक्षिणैः क्रतुभिर् इष्टं भवति । बहुदक्षिणक्रतुफलं प्राप्नोतीत्य् अर्थः । न च फलश्रवणाद् दण्डप्रणयनं काम्यम् इति मन्तव्यम्, अकरणे प्रायश्चित्तस्मरणात् । यथाह वसिष्ठः- “दण्डोत्सर्गे राजैकरात्रम् उपवसेत्, त्रिरात्रं पुरोहितः, कृच्छ्रम् अदण्ड्यदण्डने पुरोहितः, त्रिरात्रं राजा” (वध् १९.४०–४३) इति । ॥ १.३५९ ॥

दुष्टे सम्यग् दण्डः प्रयोक्तव्य इत्य् उक्तम् । दुष्टपरिज्ञानं च व्यवहारदर्शनम् अन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनम् अहर् अहः स्वयं कर्तव्यम् इत्य् आह ।

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । १.३६०अब्
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥ १.३६०च्द् ॥

इत्येवमुक्तप्रकारेण क्रतुतुल्यं फलं दण्ड्यदण्डेन, स्वर्गादिनाशं चादण्ड्यदण्डेन सम्यग् विचिन्त्य पृथक् पृथग् वर्णादिक्रमेण सभ्यैर् वक्ष्यमाणलक्षणैः परिवृतः प्रतिदिनं व्यवहारान् वक्ष्यमाणमार्गेण दुष्टादुष्टपरिज्ञानार्थं राजा स्वयं पश्येत् ॥ १.३६० ॥

कुलानि जातिः श्रेणीश् च गणाञ् जानपदान् अपि । १.३६१अब्
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥ १.३६१च्द् ॥

कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्तप्रभृतयः । श्रेणयस् ताम्बूलिकादीनाम् । गणा हेलावुक्कादीनाम् । जानपदाः कारुकादयः । एतान् स्वधर्माच् चलितान् प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । दण्डं दुर्वृत्तेषु निपातयेद् इत्य् उक्तम् । स च दण्डो द्विविधः शारीरो ऽर्थदण्डश् चेति । यथाह नारदः-

शारीरश् चार्थदण्डश् च दण्डो हि द्विविधः स्मृतः ।
शारीरस् ताडनादिस् तु मरणान्तः प्रकीर्तितः ॥
काकिण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ॥ (न्स्म् १९.६०–६१) इति ।

द्विविधो ऽप्य् अपराधानुसारेणानेकधा भवति । आह स्म-

शारीरो दशधा प्रोक्तो ह्य् अर्थदण्डस् त्व् अनेकधा ॥ (न्स्म् १९.६०) इति । १.३६१ ॥

तत्र कृष्णलमाषसुवर्णपलादिशब्दैर् अर्थदण्डा वक्तव्यास् । ते च प्रतिदेशं भिन्नपरिमाणार्था इत्य् एकरूपापराधे ऽपि देशभेदेन न्यूनाधिकदण्डो मा भूद् इति कृष्णलादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शयितुम् आह ।

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । १.३६२अब्
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥ १.३६२च्द् ॥
गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः । १.३६३अब्
कृष्णलः पञ्च ते माषासस् ते सुवर्णस् तु षोदश ॥ १.३६३च्द् ॥
पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ॥ १.३६४अब्

जालकान्तरप्रविष्टादित्यरश्मिस्थितं यद् रजस् तत् त्रसरेणुर् इत्य् उक्तं योगीश्वरादिभिस् तत्त्वदर्शिभिः । ते च त्रसरेणवो ऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिḳसास् तिस्रो राजसर्षपो राजिका । ते राजसर्षपास् त्रयो गौरसर्षपः सिद्धार्थः । गौरसर्षपाः षड् यवो मध्यः । मध्यमो न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि मध्यमशब्दाद् एव सर्षपादिशब्दाः न केवलम् उन्मानवचनाः किं तु तदुन्मितद्रव्यवचना इति गम्यते । यथा प्रस्थपरिमिता यवाः प्रस्थ उच्यते । एवं सर्षपाद्युन्मितं द्रव्यं सर्षपादिशब्दैः । सर्षपादिशब्दानां च केवलोन्मानवचनत्वे त्रसरेणून् उपसंहृत्योन्मातुम् अशक्यत्वात् तद्वारेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतमसूक्ष्मसूक्ष्मतरसूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्डव्यवहारे मध्य इति नियम्यते । ते मध्यमा यवास् त्रय एकः कृष्णलः । ते कृष्णलाः पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः । ते सुवर्णाश् चत्वारः पलम् इति संज्ञाः कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभिः । तत्र स्थूलैस् त्रिभिर् यवैः कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांशः कृष्णलो भवति । तैः पञ्चभिर् माषः । माषैः षोडशभिः सुवर्णः । स च व्यावहारिकैः पञ्चभिर् निष्कैर् एकः सुवर्णो भवति । ते चत्वारः पलम् इति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस् त्रिभिर् यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिण्शत्तमो भागः कृष्णलो भवति । तस्मिन् पक्षे सुवर्णः सार्धं निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशतितमो भागः कृष्णलः, सुवर्णश् चतुर्निष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्णं पलम् इति । पक्ẹ विंशतिनिष्कं पलम् । एवम् अन्यद् अपि निष्कस्य चत्वारिंशो भागः कृष्णलः द्विनिष्कः सुवर्णो ऽष्टनिष्कं पलम् इत्यादि लोकव्यवहारानुसारेणास्माद् एव सूत्राद् ऊहनीयम् ॥ १.३६२ ॥ १.३६३ ॥

एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह ।

द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ १.३६४अब्
शतमानं तु दशभिर् धरणैः पलम् एव तु । १.३६५अब्
निष्कं सुवर्णाश् चत्वारः १.३६५च्

द्वे कृष्णले पूर्वोक्ते रूप्यमाषो रूप्यसंबन्धी माषः । ते रूप्यमाषाः षोडश धरणम् । पुराण इत्य् अस्यैव संज्ञान्तरम्,

ते षोडश स्याद् धरणं पुराणश् चैव राजतः । (म्ध् ८.१३६)

इति मनुस्मरणात् । दशभिर् धरणैः शतमानं पलम् इति चाभिधीयते । पूर्वोक्ताश्चत्वारः सुवर्णा एको राजतो निष्को भवति ॥ १.३६४ ॥

इदानीं ताम्रस्योन्मानमाह ।

कार्षिकस् ताम्रिकः पणः ॥ १.३६५द् ॥

पलस्य चतुर्थो ऽंशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिकः । ताम्रस्य विकारस् ताम्रिकः । कर्षस्ंमितस् ताम्रविकारः पणसंज्ञो भवति कार्षापणसंज्ञकश् च,

कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः । (म्ध् ८.१३६)

इति मनुवचनात् । पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति,

माषो विंशतिमो भागः पणस्य परिकीर्तितः ।

इत्यादिव्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः पणो भवति । अस्मिंश् च पक्षे सुवर्णकार्षापणपणशब्दानां समानार्थत्वे ऽपि पणकार्षापणशब्दौ ताम्रविषयावेव । एवं तावद् धेमरूप्यताम्राणाम् उन्मानम् उक्तम्, दण्डव्यवहारोपयोगित्वात् । कांस्यरीतिकादीनाम् अपि लोकव्यवहाराङ्गभूतानाम् एवोन्मानं द्रष्टव्यम् ॥ १.३६५ ॥

स्वशास्त्रपरिभाषाम् आह ।

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । १.३६६अब्
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥ १.३६६च्द् ॥

पणानां सहस्रं पणसहस्रं तत्परिमाणम् अस्येति पणसाहस्रः । अशीत्या सह वर्तत इति साशीतिः । अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स उत्तमसाहससंज्ञो वेदितव्यः । तदर्धं मध्यमः तस्य साशीतिपणसहस्रस्यार्धं चत्वार्ịम्शदधिकपणपञ्चशतपणस्यार्धं सप्तत्यधिकपणशतद्वयपरिमितो दण्डो ऽधमसाहससंज्ञः स्मृत उक्तो मन्वादिभिः । यत् तु,

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः । (म्ध् ८.१६८)

इति मनुनोक्तम्, तत् पक्षान्तरम् अमतिपूर्वापराधविषयं द्रष्टव्यम् ॥ १.३६६ ॥

दण्डभेदान् आह ।

धिग्दण्डस् त्व् अथ वाग्दण्डो धनदण्डो वधस् तथा । १.३६७अब्
योज्या व्यस्ताः समस्ता वा ह्य् अपराधवशाद् इमे ॥ १.३६७च्द् ॥

धिग्दण्डो धिग् धिग् इति कुत्सनम् । वाग्दण्डस् तु परुषशापवचनात्मकः । धनदण्डो धनापहारात्मकः । वधदण्डः शारीरो ऽवरोधादिजीवितान्तः । एते चतुर्विधा दण्डाः व्यस्ता एकैकशः समस्ताः द्वित्राः त्रिचतुरो वापराधानुसारेण प्रयोक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनुः-

धिग्दण्डं प्रथं कुर्याद् वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ इति ॥ १.३६७ ॥

दण्डव्यवस्थानिमित्तान्य् आह ।

ज्ञात्वा ऽपराधं देशं च कालं बलम् अथापि वा । १.३६८अब्
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ १.३६८च्द् ॥

यथापराधं ज्ञात्वा तदनुसारेण दण्डप्रणयनम् एव देशकालवयःकर्मवित्तानि ज्ञात्वा तदनुसारेण दण्ड्येषु दण्डार्हेषु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबुद्धिपूर्वसकृदावृत्त्यनुसारेण च । यद्य् अपि राजानम् अधिकृत्यायं राजधर्मकलाप उक्तस् तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधिकृतस्यायं धर्मो वेदितव्यः । “राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः” इत्य् अत्र पृथङ्नृपग्रहणात् करग्रहणस्य रक्षार्थत्वाच् च रक्षणस्य दण्डप्रणयनायत्तत्वाद् इति ॥ १.३६८ ॥

इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृतौ सदाचारः प्रथमाध्यायः ।

उत्तमोपपदस्येयं शिष्यस्य कृतिर् आत्मनः ।
धर्मशास्त्रस्य विवृतिर् विज्ञानेश्वरयोगिनः ॥

अस्मिन्न् अध्याये प्रकरणानि । १ उपोद्घातप्रकरणम् । २ ब्रह्मचारिप्रकरणम् । ३ विवाहप्रकरणम् । ४ जातिविवेकप्रकरणम् । ५ गृहस्थधर्मप्रकरणम् । ६ स्नातकव्रतप्रकरणम् । ७ भक्ष्याभक्ष्यप्रकरणम् । ८ द्रव्यशुद्धिप्रकरणम् । ९ दानधर्मप्रकरणम् । १० श्राद्धप्रकरणम् । ११ गणपतिकल्पप्रकरणम् । १२ ग्रहशान्तिप्रकरणम् । १३ राजधर्मप्रकरणम् । एवं त्रयोदश प्रकराणि ॥

याज्ञवल्क्यमुनिशास्त्रगतेयं विवृतिर् न कस्य विहिता विदुषः ।
प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ १ ॥

**व्यवहाराध्यायः **

**साधारणव्यवहारमातृकाप्रकरणम् **

अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः । तच् च दुष्टनिग्रहम् अन्तरेण न संभवति । दुष्टपरिज्ञानं च न व्यवहारदर्शनम् अन्तरेण संभवति । तद् व्यवहारदर्शनम् अहर् अहः कर्तव्यम् इत्य् उक्तं-

_ व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् । इति । (य्ध् १.३६०)_

_स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितः । तदभिधानाय द्वितीयो ऽध्याय आरम्भ्यते “व्यवहारान्” इति । _

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह । २.१अब्
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ २.१च्द् ॥

अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिद् इदं क्षेत्रादि मदीयम् इति कथयति, अन्यो ऽपि तद्विरोधेण मदीयम् इति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किं तु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येद् इति पूर्वोक्तस्यानुवादो धर्मविशेषविधानार्थः । विद्वद्भिर् वेदव्याकरणादिधर्मशास्त्राभिज्ञैः । ब्राह्मणैर् न क्षत्रियादिभिः । ब्राह्मणैः सहेति तृतीयानिर्देशाद् एषाम् अप्राधान्यम् । “सहयुक्ते ऽप्रधाने” इति स्मरणात् (पाण् २.३.१९) । अतश् चादर्शने ऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः ।

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥ इति । (य्ध् ८.१२८)

कथम् । धर्मशास्त्रानुसारेण नार्थशास्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राविरुद्धस्य धर्मशास्त्रविषयत्वान् न पृथगुपादानम् । तथा च वक्ष्यति-

निजधर्माविरोधेन यस् तु सामयिको भवेत् ।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ इति । (य्ध् २.१८६)

क्रोधलोभविवर्जित इति । धर्मशास्त्रानुसारेणेति सिद्धे क्रोधलोभविवर्जित इति वचनम् आदरार्थम् । क्रोधो ऽमर्षः । लोभो लिप्सातिशयः ॥ २.१ ॥

सभ्यांश् चाह ।

श्रुताध्ययन्संपन्ना धर्मज्ञाः सत्यवादिनः । २.२अब्
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २.२च्द् ॥

किं च श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः । सत्यवादिनः सत्यवचनशीलाः । रिपौ मित्रे च ये समाः रागद्वेषादिरहिताः । एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्य् उपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः । यद्य् अपि श्रुताध्ययनसंपन्ना इत्य् अविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः-

स तु सभ्यैः स्थिरैर् युक्तः प्राज्ञैर् मौलैर् द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ॥ इति । (क्स्म् ५७)

ते च त्रयः कर्तव्याः बहुवचनस्यार्थवत्त्वात्,

यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः । (म्ध् ८.११)
इति मनुस्मरणाच् च । बृहस्पतिस् तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह ।
लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ।
यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥ इति । (बृस्म् १.५९)

न च ब्राह्मणैः सहेति पूर्वश्लोकोक्तानां ब्राह्मणानां श्रुताध्ययनसंपन्ना इत्यादिविशेषणम् इति मन्तव्यम्, तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात्, विद्वद्भिर् इत्य् अनेन पुनरुक्तिप्रसङ्गाच् च । तथा च कात्यायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः-

सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्टति धर्मतः ॥ इति । (क्स्म् ५६)

तत्र ब्राह्मणा अनियुक्ताः सभासदस् तु नियुक्ता इति भेदः । अत एवोक्तम्-

नियुक्तो वानियुक्तो वा धर्मज्ञो वक्तुम् अर्हति । इति ।

तत्र नियुक्तानां यथावस्थितार्थकथने ऽपि यदि राजान्यथा करोति तदासौ निवारणीयो ऽन्यथा दोषः । उक्तं च कात्यायनेन ।

अन्यायेनापि तं यान्तं ये ऽनुयान्ति सभासदः ।
ते ऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥ इति । (क्स्म् ७५)

अनियुक्तानां पुनर् अन्यथाभिधाने ऽनभिधाने वा दोषो न तु राज्ञो ऽनिवारणे,

सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ (म्ध् ८.१३)

इति मनुस्मरणात् । रिपौ मित्रे चेति चकाराल् लोकरञ्जनार्थं कतिपयैर् वणिग्भिर् अप्य् अधिष्ठितं सदः कर्तव्यम् । यथाह कात्यायनः-

कुलशीलवयोवृत्तवित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥ इति ॥ (क्स्म् ५८) ॥२.२ ॥

व्यवहारान् नृपः पश्येद् इत्य् उक्तम् । तत्रानुकल्पम् आह ।

अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु । २.३अब्
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ २.३च्द् ॥

कार्यान्तरव्याकुलतया व्यवहारान् अपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्मवित्, सर्वान् धर्मशास्त्रोक्तान् सामयिकांश् च धर्मान् वेत्ति विचारयतीति सर्वधर्मवित्, ब्राह्मणो न क्षत्रियादिर् नियोक्तव्यो व्यवहारदर्शने । तं च कात्यायनोक्तगुणविशिष्टं कुर्यात् । यथाह ।

दान्तं कुलीनं मध्यस्थम् अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥ इति । (क्स्म् ६४)

एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्यं वा नियुञ्जीत न शूद्रम् । यथाह कात्यायनः ।

ब्राह्मणो यत्र न स्यात् तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ इति । (क्स्म् ६७)

नारदेन त्व् अयम् एव मुख्यो दर्शितः ।

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । (न्स्म् १.२९)

न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट्, तयोर् वचनं विरुद्धम् अविरुद्धं च सभ्यैः सह विविनक्ति विवेचयति वेति विवाकः । प्राट् चासौ विवाकश् च प्राड्विवाकः । उक्तं च ।

विवादानुगतं पृष्ट्वा ससभ्यस् तत् प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस् ततः स्मृतः ॥ इति ॥ २.३ ॥

प्राड्विवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यम् इत्य् अत आह ।

रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः । २.४अब्
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम् ॥ २.४च्द् ॥

अपि च, पूर्वोक्ताः सभ्या रजसो निरङ्कुशत्वेन तदभिभूता रागात् स्नेहातिशयाल् लोभाल् लिप्सातिशयाद् भयात् संत्रासात् स्मृत्यपेतं स्मृतिविरुद्धं आदिशब्दाद् आचारापेतं कुर्वन्तः पृथक् पृथग् एकैकशो विवादाद् विवादपराजयनिमित्ताद् दमाद् द्विगुणं दमं दण्ड्याः न पुनर् विवादास्पदीभूताद् द्रव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डाभावप्रसङ्गः । रागलोभभयानाम् उपादानं रागादिष्व् एव द्विगुणो दमो नाज्ञानमोहादिष्व् इति नियमार्थम् । न च “राजा सर्वस्येष्टे ब्राह्मणवर्जम्” (ग्ध् ११.१) इति गौतमवचनान् न ब्राह्मणा दण्ड्या इति मन्तव्यम्, तस्य प्रशंसार्थत्वात् । यत् तु षड्भिः परिहार्यो राज्ञा ऽवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश् चापरिवाद्यश् चापरिहार्यश् चेति तद् अपि स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद् वाकोवाक्येतिहासपुराणकुशलस् तदपेक्षस् तद्वृत्तिश् चाष्टचत्वारिंशत्संस्कारैः संस्कृतस् त्रिषु कर्मस्व् अभिरतः षट्सु वा समयाचारिकेष्व् अभिविनीत इति प्रतिपादितबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् ॥ २.४ ॥

व्यवहारविषयम् आह ।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । २.५अब्
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ २.५च्द् ॥

धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैर् आधर्षितो ऽभिभूतो यद् राज्ञे प्राड्विवाकाय वा आवेदयति विज्ञापयति चेद् यदि तद् आवेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस् तस्य पदं विषयस् तस्य चेदं सामान्यलक्षणम् । स च द्विविधः । शङ्काभियोगस् तत्त्वाभियोगश् चेति । यथाह नारदः ।

द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्का ऽसतां तु संसर्गात् तत्त्वं होढाभिदर्शनात् ॥ इति । (न्स्म् मा १.२२)

होढा लोप्त्रं । लिङ्गम् इति यावत् । तेन दर्शनं साक्षाद् वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगो ऽपि द्विविधः । प्रतिषेधात्मको विध्यात्मकश् चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायम् अपहरतीति च । उक्तं च कात्यायनेन-

न्याय्यं स्वं नेच्छते कर्तुम् अन्याय्यं वा करोति यः । इति । (क्स्म् १३९)

स पुनश् चाष्टादशधा भिद्यते । यथाह मनुः-

तेषाम् आद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥
वेतनस्यैव चादानं संविदश् च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥
सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ॥
स्त्रीपुंधर्मो विभागश् च द्यूतम् आह्वय एव च ।
पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥ इति ॥ (म्ध् ८.४–७)

एतान्य् अपि साध्यभेदेन पुनर् बहुत्वं गतानि । यथाह नारदः-

एषाम् एव प्रभेदो ऽन्यः शतम् अष्टोत्तरं भवेत् ।
क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥ इति ॥ (न्स्म् मा १.२०)

“आवेदयति चेद् राज्ञे” इत्य् अनेन स्वयम् एवागत्यावेदयति न राजप्रेरितस् तत्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः-

नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।
न च प्रापितम् अन्येन ग्रसेतार्थं कथंचन ॥ इति ॥ (म्ध् ८.४३)

परैर् इति परेण पराभ्यां परैर् इत्य् एकस्यैकेन द्वाभ्यां बहुभिर् वा व्यवहारो भवतीति दर्शयति ॥ यत् पुनः,

एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥ (ध्को ११४)

इति नारदवचनं तद् भिन्नसाध्यद्वयविषयम् । “आवेदयति चेद् राज्ञे” इत्य् अनेनैव राज्ञा पृष्टो विनीतवेष आवेदयेत् । आवेदितं च युक्तं चेन् मुद्रादिना प्रत्यर्थ्याह्वानम् अकल्पादीनां चानाह्वानम् इत्याद्य् अर्थसिद्धम् इति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थम् उक्तम् । यथा-

काले कार्यार्थिनं पृच्छेद् गृणन्तं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥
केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभागतम् ।
एवं पृष्टः स यद् ब्रूयात् स सभ्यैर् ब्राह्मणैः सह ॥
विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ।
मुद्रां वा निक्ष्पेत् तस्मिन् पुरुषं वा समादिशेत् ॥
अकल्पबालस्थविरविषमस्थक्रियाकुलान् ।
कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् ।
मत्तोन्मत्तप्रमत्तार्तान् भृत्यान् नाह्वानयेन् नृपः ॥
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥
तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।
निष्कुला याश् च पतितास् तासाम् आह्वानम् इष्यते ॥
कालं देशं स विज्ञाय कार्याणां च बलाबले ।
अकल्पादीन् अपि शनैर् यानैर् आह्वानयेन् नृपः ॥
ज्ञात्वाभियोगं ये ऽपि स्युर् वने प्रव्रजितादयः ।
तान् अप्य् आह्वानयेद् राजा गुरुकारेष्व् अकोपयन् ॥ इति ।

आसेधव्यवस्थाप्य् अर्थसिद्धैव नारदेनोक्ता-

वक्तव्ये ऽर्थे ह्य् अतिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥
स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधो नासिद्धस् तं विलङ्घयेत् ॥
आसेधकाल आसिद्ध आसेधं यो ऽतिवर्तते ।
स विनेयो ऽन्यथाकुर्वन् नासेद्धा दण्डभाग् भवेत् ॥
नदीसन्तारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥
निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥
गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः ।
शिल्पिनश् चापि तत्कालम् आयुधीयाश् च विग्रहे ॥ इति । (न्स्म् मा १.४१–४६)

आसेधो राजाज्ञया ऽवरोधः । अकल्पादयः पुत्रादिकम् अन्यं वा सुहृदं प्रेषयेयुः, न च ते परार्थवादिनः,

यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥ (न्स्म् मा २.२३)

इति नारदवचनात् ॥ २.५ ॥

प्रत्यर्थिनि मुद्रालेख्यपुरुषाणाम् अन्यतमेनानीते किं कुर्याद् इत्य् अत आह ।

प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना । २.६अब्
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ २.६च्द् ॥

अर्थ्यते इत्य् अर्थः साध्यः, सो ऽस्यास्तीत्य् अर्थी, तत्प्रतिपक्षः प्रत्यर्थी, तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वम् आवेदनकाले आवेदितं तथा । न पुनर् अन्यथा, अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।

अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥ इति । (न्स्म् मा २.३३)

आवेदनकाल एवार्थिवचनस्य लिखितत्वात् पुनर्लेखनम् अनर्थकम् इत्य् अत आह समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना, अर्थिप्रत्यर्थिनामब्राह्मणजात्यादिचिह्नितम् । आदिशब्देन द्रव्यतत्संख्यास्थानवेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम्-

अर्थवद् धर्मसंयुक्तं परिपूर्णम् अनाकुलम् ।
साध्यवद् वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धम् अविरुद्धं च निश्चितं साधनक्षमम् ।
संक्षिप्तं निखिलार्थं च देशकालाविरोधि च ॥
वर्षर्तुमासपक्षाहोवेलादेṡअप्रदेशवत् ।
स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥
साध्यप्रमाणसंख्यावद् आत्मप्रत्यर्थिनामवत् ।
परात्मपूर्वजानेकराजनामभिर् अङ्कितम् ॥
क्षमालिङ्गात्मपीडावत् कथिताहर्तृदायकम् ।
यदावेदयते राज्ञे तद् भाषेत्य् अभिधीयते ॥ इति ।

भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं, प्रत्यर्थिनो ऽग्रतः समामासादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्य् अपि सर्वव्यवहारेषु नोपयुज्यते तथाप्य् आधिप्रतिग्रहक्रयेषु निर्णयार्थम् उपयुज्यते,

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।

इति वचनात् । अर्थव्यवहारो ऽपि एकस्मिन् संवत्सरे यत्संख्याकं यद्द्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनर् अन्यस्मिन् वत्सरे तद्द्रव्यं तत्संख्याकं ततस् तेन गृहीतं याच्यमानो यदि ब्रूयात्, सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन् वत्सरे इत्य् उपयुज्यते । एवं मासाद्य् अपि योज्यम् । देशस्थानादयः पुनः स्थावरेष्व् एवोपयुज्यन्ते,

देशश् चैव तथा स्थानं संनिवेशस् तथैव च ।
जातिः संज्ञाधिवासश् च प्रमाणं क्षेत्रनाम च ॥
पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥

इति स्मरणात् । देशो मध्यदेशादिः । स्थानं वाराणस्यादि । संनिवेशस् तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यङ्निविष्टो गृहक्षेत्रादिः । जातिर् अर्थिप्रत्यर्थिनोर् ब्राह्मणत्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डुभूम इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः । पूर्वेषां त्रयाणाम् राज्ञां नामकीर्तनं चेति । समामासादीनां यस्मिन् व्यवहारे यावद् उपयुज्यते तत्र तावल् लेखनीयम् इति तात्पर्यार्थः । एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धम् एवेति योगीश्वरेण न पृथक् पक्षाभासा उक्ताः । अन्यैस् तु विस्पष्टार्थम् उक्ताः ।

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥ इति । (क्स्म् १४०)

अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद् गृहदीपप्रकाशेनायं स्वगृहे व्यवहरतीयादि । निरर्थं अभिधेयरहितं कचटतपगजडदबेत्यादि । निष्प्रयोजनं यथायं देवदत्तो ऽस्मद्गृहसंनिधौ सुस्वरम् अधीत इत्यादि । असाध्यं यथाहं देवदत्तेन सभ्रूभńगम् उपहसित इत्यादि । एतत् साधनासंभवाद् असाध्यम् । अल्पकालत्वान् न साक्षिसंभवो लिखितं दूरतो ऽल्पत्वान् न दिव्यम् इति । विरुद्धं यथाहं मूकेन शप्त इत्यादि । पुरराष्ट्रादिविरुद्धं वा ।

राज्ञा विवर्जितो यश् च यश् च पौरविरोधकृत् ।
राष्ट्रस्य वा समस् तस्य प्रकृतीनां तथैव च ॥
अन्ये वा ये पुरग्राममहाजनविरोधकाः ।
अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥ इति ॥

यत् तु,

अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति । (क्स्म् १३६)

इति तत्र यद्य् अनेकवस्तुसंकीर्ण इत्य् उच्यते तदा न दोषः, मदीयम् अनेन हिरण्यं वासो रूपकादि वापहृतम् इत्येवंविधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत् तद् अपि न । मदीया रूपका अनेन वृद्ध्या गृहीताः सुवर्णं चास्य हस्ते निक्षिप्तम्, मदीयं क्षेत्रम् अयम् अपहरति इत्यादीनां पक्षत्वम् इष्यत एव । किं तु क्रियाभेदात् क्रमेण व्यवहारो न युगपद् इत्य् एतावत् । यथाह कात्यायनः-

बहुप्रतिज्ञं यत् कार्यं व्यवहारे सुनिश्चितम् ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥ इति । (क्स्म् १३७)

तस्माद् अनेकपदसंकीर्णः पूर्वपक्षो युगपन् न सिध्यतिति तस्यार्थः । अर्थिग्रहणात् पुत्रपित्रादिग्रहणं तेषाम् एकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वाक्षेपात्,

अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥ (न्स्म् मा २.२२)

इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोर् एव । एतच् च भूमौ फलके वा पाण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात् पत्रे निवेशयेत्,

पूर्वपक्षं स्वभावोक्तं प्राड्विवाको ऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥ (क्स्म् १३१)

इति कात्यायनस्मरणात् । शोधनं च यावद् उत्तरदर्शनं कर्तव्यं नातः परम्, अनवस्थाप्रसङ्गात् । अत एव नारदेनोक्तम्,

शोधयेत् पूर्ववादं तु यावन् नोत्तरदर्शनम् ।
अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥ इति । पूर्वपक्षमशोधयित्वैव यद् ओत्तरं दापयन्ति सभ्यास् तदा “रागाल् लोभाद्” (य्ध् २.४) इत्युक्तदण्डेन सभ्यान् दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ २.६ ॥

एवं शोधितपत्रारूढे पूर्वपḳसे किं कर्तव्यम् इत्य् अत आह ।

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । २.७अब्

श्रुतो भाषार्थो येन प्रत्यर्थिना ऽसौ श्रुतार्थः तस्योत्तरं पूर्वपḳसाद् उत्तररत्र भवतीत्य् उत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत् पूर्वोक्तस्य निराकरणं तद् उच्यते । यथाह ।

पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् ।
अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥ इति ।

पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं न्यायाद् अनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यम् अप्रसिद्धपदप्रयोगेण दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद् व्याख्येयार्थं न भवति तत् सद् उत्तरम् ॥ तच् च चतुर्विधम्- संप्रतिपत्तिर् मिथ्या प्रत्यवस्कन्दनं पूर्वन्यायश् चेति । तथाह कात्यायनः-

सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश् चैवम् उत्तरं स्याच् चतुर्विधम् ॥ इति । (क्स्म् १६५)

तत्र सत्योत्तरं यथा । रूपकशतं मह्यं धारयतीत्य् उक्ते सत्यं धारयामीति। यथाह-

साध्यस्य सत्यवचनं प्रतिपत्तिर् उदाहृता । इति । (क्स्म् १६८)

मिथ्योत्तरं तु नाहं धारयामीति । तथा च कात्यायनः-

अभियुक्तो ऽभियोगस्य यदि कुर्याद् अपह्नवम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥ इति ॥ (क्स्म् १६७)

तच् च मिथ्योत्तरं चतुर्विधम् ।

मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः ।
अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥ इति । (न्स्म् मा २.५; क्स्म् १६९)

प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धम् इति वा । यथाह नारदः-

अर्थिना लेखितो यो ऽर्थः प्रत्यर्थी यदि तं तथा }
प्रपद्य कारनं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥ इति ।

प्राङ्न्यायोत्तरं तु यत्राभियुक्त एवं ब्रूयाद् अस्मिन्न् अर्थे ऽनेनाहम् अभियुक्तस् तत्र चायं व्यवहारमार्गेण पराजित इति । उक्तं च कात्यायनेन-

आचारेणावसन्नो ऽपि पुनर् लेखयते यदि ।
सो ऽभिधेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥ इति । (क्स्म् १७१)

एवम् उत्तरलक्षणे स्थिते उत्तरलक्षणरहितानाम् उत्तरवद् अवभासमानानाम् उत्तराभासत्वम् अर्थसिद्धम् । स्पष्टीकृतं च स्मृत्यन्तरे-

संदिग्धम् अन्यत् प्रकृताद् अत्यल्पम् अतिभूरि च ।
पक्षैकदेशव्याप्य् अन्यत् तथा नैवोत्तरं भवेत् ॥
यद् व्यस्तपदम् अव्यापि । निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं स्वार्थसिद्धये ॥ इति । (च्फ़्। क्स्म् १७५)

तत्र संदिग्धं- सुवर्णशतम् अनेन गृहीतम् इत्य् उक्ते सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृताद् अन्यत्- यथा सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पम्- सुवर्णशताभियोगे पञ्चशतं धारयामीति । अतिभूरि- सुवर्णशताभियोगे द्विशतं धारयामीति । पक्षैकदेशव्यापि- हिरण्यवस्त्राद्यभियोगे हिरण्यं गृहीतं नान्यद् इति । व्यस्तपदं- ऋणादानाभियोगे पदान्तरेणोत्तरम् यथा सुवर्णशताभियोगे अनेन अहं ताडित इति । अव्यापि- देशस्थानादिविशेषणव्यापि- यथा मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रम् अनेनापहृतम् इति पूर्वपक्षे लिखिते क्षेत्रम् अपहृतम् इति । निगूड्ःआर्थं- यथा सुवर्णशताभियोगे किम् अहम् एव अस्मै धारयामीत्य् अत्र ध्वनिना प्राड्विवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धम्- यथा सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं- दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा सुवर्णशतविषये पितृऋणाभियोगे गृहीतशतवचनात् सुवर्णानां पितुर् न जानामीति । अत्र गृहीतशतस्य पितुर् वचनात् सुवर्णानां शतं गृहीतम् इति न जानामीति । असारं- न्यायविरुद्धम् यथा सुवर्णशतम् अनेन वृद्ध्या गृहीतं वृद्धिर् एव दत्ता न मूलम् इत्य् अभियोगे सत्यं वृद्धिर् दत्ता न मूलं गृहीतम् इति । उत्तरम् इत्य् एकवचननिर्देशाद् उत्तराणां संकरो निरस्तः । यथाह कात्यायनः-

पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च संकरात् तद् अनुत्तरम् ॥ इति । (क्स्म् १८९)

अनुत्तरत्वे च कारणं तेनैवोक्तम्-

न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥ इति । (क्स्म् १९०)

मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर् द्वयोर् अपि क्रिया प्राप्नोति-

मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।

इति स्मरणात् । तद् उभयम् एकस्मिन् व्यवहारे विरुद्धम् । यथा सुवर्णं रूपकशतं चानेन गृहीतम् इत्य् अभियोगे सुवर्णम् न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्-

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् । इति ।

यथा सुवर्णं गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेन पराजित इति । अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर् वा भावयितव्यम् । कारणोक्तौ तु साक्षिलेख्यादिभिर् भावयितव्यम् इति विरोधः । एवम् उत्तरत्रयसंकरे ऽपि द्रष्टव्यम् । यथानेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्य् अभियोगे सत्यं सुवर्णं गृहीतं प्रतिदत्तं रूपकशतं न गृहीतं वस्त्रविषये तु पूर्वन्यायेन पराजित इति । एवं चतुःसंकरे ऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विना ऽसिद्धेः क्रमेणोत्तरत्वम् एव । क्रमश् चार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनर् उभयोः संकरस् तत्र यस्य प्रभूतार्थविषयत्वं तत्क्रियोपादानेन पूर्वं व्यवहारः प्रवर्तयितव्यः पश्चाद् अल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र च संप्रतिपत्तेर् उत्तरान्तरस्य च संकरस् तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः, संप्रतिपत्तौ क्रियाभावात् । यथा हारीतेन,

मिथ्योत्तरं कारणं च स्याताम् एकत्र चेद् उभे ।
सत्यं वापि सहान्येन तत्र ग्राह्यं किम् उत्तरम् ॥

इत्य् उक्त्वोक्तम्-

यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत्र तज् ज्ञेयम् असंकीर्णम् अतो ऽन्यथा ॥

संकीर्णं भवतीति शेषः । शेषापेक्षया ऐच्छिकक्रमं भवतीत्य् अर्थः । तत्र प्रभूतार्थं- यथा अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्य् अभियोगे सुवर्ण रूपकशतं च न गृहीतं वस्त्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वाद् अर्थिनः क्रियाम् आदाय प्रथमं व्यवहारः प्रवर्तयितव्यः पश्चाद् वस्त्रविषयो व्यवहारः । एवं मिथाप्राङ्न्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्न् एवाभियोगे सत्यं सुवर्णं रूपकशतं च गृहीतं प्रति दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वस्त्रविषये पूर्वं पराजित इति चोत्तरे संप्रतिपत्तेर् भूरिविषयत्वे ऽपि तत्र क्रियाभावान् मिथ्याद्युत्तरक्रियाम् आदाय व्यवहारः प्रवर्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वम् यथा- शृङ्गग्राहिकया कश्चिद् वदति इयं गौर् मदीया अमुकस्मिन् काले नष्टा अद्यास्य गृहे दृष्टेति । अन्यस् तु मिथ्यैतत्, प्रदर्शितकालात् पूर्वम् एवास्मद्गृहे स्थिता मम गृहे जाता चेति वदति । इदं तावत् पक्षनिराकरणसमर्थत्वान् नानुत्तरम्, नापि मिथ्यैव कारणोपन्यासात्,। नापि कारणम् एकदेशस्याप्य् अभ्युपगमाभावात् । तस्मात् सकारणं मिथ्योत्तरम् इदम् । अत्र च प्रतिवादिनः क्रिया, “कारणे प्रतिवादिनि” इति वचनात् । ननु “मिथ्या क्रिया पूर्ववादे” इति पूर्ववादिनः कस्मात् क्रिया न भवति, तस्य शुद्धमिथ्याविषयत्वात् । “कारणे प्रतिवादिनि” इत्य् एतद् अपि कस्माच् छुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासहचरितरूपत्वाच् छुद्धकारणोत्तरस्याभावात् । प्रसिद्धकारणोत्तरे प्रतिज्ञातार्थैकदेशस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम्, यथा सत्यं रूपकशतं गृहीतं न धारयामि प्रतिदत्तत्वाद् इति । प्रकृतोदाहर्णे तु प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच् च हारीतेन स्पष्टम् उक्तम् ।

मिथ्याकारणयोर् वापि ग्राह्यं कारणम् उत्तरम् । इति ।

यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वम्, यथा रूपकशतं धारयतीत्य् अभियोगे मिथ्यैतद् अस्मिन्न् अर्थे पूर्वम् अयं पराजित इति । अत्रापि प्रतिवादिन एव क्रिया-

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।

इति वचनात्, शुद्धस्य प्राङ्न्यायस्याभावाद् अनुत्तरत्वप्रसङ्गात्, संप्रतिपत्तेर् अपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वाद् एवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः, यथा शतम् अनेन गृहीतम् इत्य् अभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्य् अस्मिन्न् एवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादिनो यथारुचीति न क्वचिद् वादिप्रतिवादिनोर् एकस्मिन् व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥

एवम् उत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्त्वात् साधननिर्देशं कः कुर्याद् इत्य् अपेक्षित आह ।

ततो ऽर्थी लेखयेत् सध्यः प्रतिज्ञातार्थसाधनम् ॥ २.७च्द् ॥

तत उत्तरानन्तरम् अर्थी साध्यवान् सद्य एवानन्तर्म् एव लेखयेत् । प्रतिज्ञातः साध्यः स चासाव् अर्थश् चेति प्रतिज्ञातार्थः तस्य साधनं साध्यते ऽनेनेति साधनं प्रमाणम् । अत्र “सद्यो लेखयेत्” इति वदता उत्तराभिधाने कालविलम्बनम् अप्य् अङ्गीकृतम् इति गम्यते । तच् चोत्तरत्र विवेचयिष्यते । “अर्थी प्रतिज्ञातार्थसाधनं लेखयेत्” इति वदता यस्य साध्यम् अस्ति स प्रतिज्ञातार्थसाधनं लेखयेद् इत्य् उक्तं अतश् च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात् प्रत्यर्थ्य् एवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरे ऽपि कारणस्यैव साध्यत्वात् कारणवाद्य् एवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्य् एवार्थी स एव साधनं निर्दिशेत् । ततो ऽर्थी लेखयेद् इति वदता अर्थ्य् एव लेखयेन् नान्य इत्य् उक्तम् । अतश् च संप्रतिपत्त्युत्तरे साध्याभावेन भाषोत्तरत्वादिनोर् द्वयोर् अप्य् अर्थित्वाभावात् साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतद् एव हारीतेन स्पष्टम् उक्तम्-

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥ इति ॥ २.७ ॥
तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा । २.८अब्

तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धौ निर्वृत्तौ सिद्धिं साध्यस्य जयलक्षणां प्राप्नोति । अतो ऽस्मात् प्रकाराद् अन्यथा प्रकारान्तरेण साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणाम् आप्नोतीति संबन्धः ॥

एवं व्यवहाररूपम् अभिधायोपसंहरति ।

चतुष्पाद् व्यवहारो ऽयं विवादेषूपदर्शितः ॥ २.८च्द् ॥

“व्यवहारान् नृपः पश्येद्” (य्ध् २.१) इत्य् उक्तो व्यवहारः । सो ऽयम् इत्थं चतुष्पाच् चतुरंशकल्पनया “विवादेषु” ऋणादानादिषु “उपदर्शितो” वर्णितः । तत्र “प्रत्यर्थिनो ऽग्रतो लेख्यम्” इति भाषापादः प्रथमः । “श्रुतार्थस्योत्तरं लेख्यम्” इत्य् उत्तरपादो द्वितीयः । “ततो ऽर्थी लेख्ययेत् सद्यः” इति क्रियापादस् तृतीयः । “तत्सिद्धौ सिद्धम् आप्नोति” इति साध्यसिद्धिपादश् चतुर्थः । यथोक्तम्-

परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु ।
वाक्यन्यायाद् व्यवस्थानं व्यवहार उदाहृतः ॥
भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः ।
आक्षिप्तचतुरंशस् तु चतुष्पाद् अभिधीयते ॥ इति ।

संप्रतिपत्त्युत्तरे तु साधनानिर्देशाद् भाषार्थस्यासाध्यत्वाच् च न साध्यसिद्धिलक्षणः पादो ऽस्तीति द्विपात्त्वम् एव । उत्तराभिधानानन्तरं सभ्यानाम् अर्थिप्रत्यर्थिनोः कस्य क्रिया स्याद् इति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद् व्यवहर्तुः संबन्धाभावाच् च न व्यवहारपादत्वम् इति स्थितम् ॥ २.८ ॥

**इति साधारणव्यवहारमातृकाप्रकरणम् **

**असाधारणव्यवहारमातृकाप्रकरणम् **

एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकाम् अभिधायाधुना क्वचिद् व्यवहारविशेषे कंचिद् विशेषं दर्शयितुम् आह ।

अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् । २.९अब्

अभियुज्यत इत्य् अभियोगो ऽपराधः । तम् अभियोगम् अनिस्तीर्य अपरिहृत्य एनम् अभियोक्तारं न प्रत्यभियोजयेद् अपराधेन न संयोजयेत् । यद्य् अपि प्रत्यवस्कन्दनं प्रत्यभियोगरूप्रम् तथापि स्वापराधपरिहारात्मकत्वान् नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं प्रत्यर्थिनम् अधिकृत्योक्तम् ।

अथ अर्थिनं प्रत्य् आह ।

अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ २.९च्द् ॥

अन्येनाभियुक्तम् अविस्तीर्णाभियोगम् अन्यो ऽर्थी नाभियोजयेत् । किं च । उक्तम् आवेदनसमये यद् उक्तं तद् विप्रकृतिं विरुद्धभावं न नयेन् न प्रापयेत् । एतद् उक्तं भवति- यद् वस्तु येन रूपेणावेदनसमये निवेदितं तद् वस्तु तथैव भाषाकाले ऽपि लेखनीयं नान्यथेति ॥

ननु “प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना” इत्य् अत्रैवेदम् उक्तं । किम् अर्थं पुनर् उच्यते “नोक्तं विप्रकृतिं नयेद्” इति ।

उच्यते । “यथावेदितम् अर्थिना” इत्य् अनेन आवेदनसमये यद् वस्तु निवेदितं तद् एव भाषासमये ऽपि तथैव लेखनीयम् । एकस्मिन्न् अपि पदे न वस्त्वन्तरम् इत्य् उक्तम् । यथानेन रूपकशतं वृद्ध्या गृहीतम् इत्य् आवेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये वस्त्रशतं वृद्ध्या गृहीतम् इति न वक्तव्यम् । तथा सति पदान्तरागमने ऽपि वस्त्वन्तरगमनाद् धीनवादी दण्ड्यः स्याद् इति । “नोक्तं विप्रकृतिं नयेद्” इत्य् अनेनैकवस्तुत्वे ऽपि पदान्तरगमनं निषिध्यते । यथा रूपकशतं वृद्ध्या गृहीत्वायं न प्रयच्छतीत्य् आवेदनकाले ऽभिधाय भाषाकाले रूपकशतं बलाद् अपहृतवान् इति वदतीति । तत्र वस्त्वन्तरगमनं निषिद्धम् इह तु पदान्तरगमनं निषिध्यत इति न पौनरुक्त्यम् । एतद् एव स्पष्टीकृतं नारदेन-

पूर्वपादं परित्यज्य यो ऽन्यम् आलम्बते पुनः ।
पदसंक्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥ इति । (न्स्म् मा २.२४)

हीनवादी दण्ड्यो भवति न प्रकृताद् अर्थाद् धीयते । अतः प्रत्यर्थिनो ऽर्थिनश् च प्रमादपरिहारार्थम् एवायम् “अभियोगम् अनिस्तीर्य” इत्याद्युपदेशो न प्रकृतार्थसिद्ध्यसिद्धिविषयः । अत एव वक्ष्यति “छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः” (य्ध् २.१९) इति । एतच् चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृताद् अपि व्यवहाराद् धीयत एव । यथाह नारदः-

सर्वेष्व् अर्थविवादेषु वाक्छले नावसीदति ।
परस्त्रीभूम्यृणादाने शास्यो ऽप्य् अर्थान् न हीयते ॥ इति । (न्स्म् मा २.२५)

अस्यार्थः- सर्वेष्व् अर्थविवादेषु न मन्युकृतेषु वाक्छले प्रमादाभिधाने ऽपि नावसीदति न पराजीयते । न प्रकृताद् अर्थाद् धीयत इत्य् अर्थः । अत्रोदाहरणं परस्त्रीत्यादि । परस्त्रीभूम्यृणादने प्रमादाभिधानेन दण्ड्यो ऽपि यथा प्रकृताद् अर्थान् न हीयते एवं सर्वेष्व् अर्थविवादेष्व् इति । अर्थविवादग्रहणान् मन्युकृतविवादेषु प्रमादाभिधाने प्रकृताद् अप्य् अर्थाद् धीयत इति गम्यते । यथा ऽहम् अनेन शिरसि पादेन ताडित इत्य् आवेदनसमये ऽभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन् न केवलं दण्ड्यः, पराजीयते च ॥ २.९ ॥

“अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेद्” इत्यस्यापवादम् आह ।

कुर्यात् प्रत्यभियोगं च कलहे साहसेषु च । २.१०अब्

कलहे वाग्दण्डपारुष्यात्मके साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु प्रत्यभियोगसंभवे स्वाभियोगम् अनिस्तीर्याप्य् अभियोत्तारं प्रत्यभियोजयेत् । नन्व् अत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात् प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे युगपद्व्यवहारासंभवः समानः । सत्यम् । नात्र युगपद्व्यवहाराय प्रत्यभियोगोपदेशो ऽपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये वा । तथाहि । अनेनाहं ताडितः शप्तो वा इत्य् अभियोगे पूर्वम् अहम् अनेन ताडितः शप्तो वा इति प्रत्यभियोगे दण्डाल्पत्वम् । यथाह नारदः-

पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥ इति । (न्स्म् १५–१६.१०)

यदा पुनर् द्वयोर् युगपत्ताडनादिप्रवृत्तिस् तत्राधिकदण्डनिवृत्तिः ।

पारुष्ये साहसे वापि युगपत्संप्रवृत्तयोः ।
विशेषश् चेन् न लभ्येत विनयः स्यात् समस् तयोः ॥ इति । (न्स्म् १५–१६.९)

एवं युगपद्व्यवहारप्रवृत्त्यसंभवे ऽपि कलहादौ प्रत्यभियोगो ऽर्थवान् ऋणादानादिषु तु निरर्थक एव ॥

अर्थिप्रत्यर्थिनोर् विधिम् उक्त्वा ससभ्यस्य सभापतेः कर्तव्यम् आह ।

उभयः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ॥ २.१०च्द् ॥

उभयोर् अर्थिप्रत्यर्थिनोः सर्वेषु विवादेषु — निर्णयस्य कार्यं कार्यनिर्णयः, आहिताग्न्यादिषु पाठात् कार्यशब्दस्य पूर्वनिपातः — निर्णयस्य यत् कार्यं च साधितधनदानं दण्डदानं च तस्मिन् समर्थः प्रतिभूः — प्रतिभवति तत्कार्यं तद्वद् भवतीति प्रतिभूर् — ग्राह्यः ससभ्येन सभापतिना । तस्यासंभवे ऽर्थिप्रत्यर्थिनो रक्षणे पुरुषा नियोक्तव्याः । तेभ्यश् च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायनः ।

अथ चेत् प्रतिभूर् नास्ति कार्ययोगस् तु वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद् भृत्याय वेतनम् ॥ इति ॥ २.१० ॥ (क्स्म् ११७)

अर्थिप्रत्यर्थिनोर् निर्णयकार्ये ससभ्येन सभापतिना प्रतिभूर् ग्राह्य इत्य् उक्तम् । किं तन्निर्णयकार्यं यस्मिन् प्रतिभूर् गृह्यत इत्य् अपेक्षित आह ।

निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् । २.११अब्
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥ २.११च्द् ॥

अर्थिना निवेदितस्याभियोगस्य प्रत्यर्थिनापह्नवे कृते यद्य् अर्थिना साक्ष्यादिभिर् भावितो ऽङ्गीकारितः प्रत्यर्थी तदा दद्याद् धनं प्रकृतम् अर्थिने राज्ञे च तत्समम् अपलापदण्डम् । अर्थार्थी भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी जात इत्य् अभियोगाद् अभियुक्तधनाद् द्विगुणं धनं राज्ञे दद्यात् । प्राङ्न्याये प्रत्यवस्कन्दने चेदम् एव योजनीयम् । तत्रार्थ्य् एवापह्नववादीति प्रत्यर्थिना भावितो राज्ञे प्रकृतधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथाभियोगीति राज्ञे द्विगुणं धनं दद्यात्, अर्थिने च प्रकृतं धनं । संप्रतिपत्त्युत्तरे तु दण्डाभाव एव । एतच् च ऋणादानविषयम् एव । पदान्तरेषु तत्र तत्र दण्डाभिधानाद् अधनव्यवहारेष्व् अस्यासंभवाच् च न सर्वविषयम् । राज्ञा ऽधमर्णिको दाप्य इत्य् अस्य ऋणादानविषयत्वे ऽपि तत्रैव विशेषं वक्ष्यामः । यद् वैतद् एव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् । अभियोगस्य निह्नवे ऽभियुक्तेन कृते यद्य् अभियोक्त्रा साक्ष्यादिभिर् भावितो ऽभियुक्तस् तदा तत्समं तत्र तत्र प्रतिपदोक्तम् एव । चशब्दो ऽवधारणे । धनं दण्डं दद्याद् राज्ञ इत्य् अनुवादः । अथाभियोक्ता अभियोगं वक्तुं न शक्नोति तदा मिथ्याभियोगीति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्याद् इति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववद् एव योजनीयम् ॥ २.११ ॥

“ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” इति वदता उत्तरपादलेखने कालप्रतीक्षणं दर्शितम् । तत्रापवादम् आह ।

साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । २.१२अब्
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥ २.१२च्द् ॥

साहसं विषशस्त्रादिनिमित्तं प्राणव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौर् दोग्ध्री । अभिशापः पातकाभियोगः । अत्ययः प्राणधनातिपातस् तस्मिन् । द्वन्द्वैकवद्भावाद् एकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रविवादे दास्यां स्वत्वविवादे । विवादयेद् उत्तरं दापयेत् । सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु काल उत्तरदानकाल इच्छया अर्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उक्तः ॥ २.१२ ॥

दुष्टलक्षणम् आह ।

देशाद् देशान्तरं याति सृक्किणी परिलेढि च । २.१३अब्
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥ २.१३च्द् ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते । २.१४अब्
वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्य् अपि ॥ २.१४च्द् ॥
स्वभावाद् विकृतिं गच्छेद् मनोवाक्कायकर्मभिः । २.१५अब्
अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ २.१५च्द् ॥

मनोवाक्कायकर्मभिर् यः स्वभावाद् एव न भयादिनिमित्ताद् विकृतिं विकारं याति गच्छत्य् असाव् अभियोगे साक्ष्ये वा दुष्टः परिकीर्तितः । तां विकृतिं विभज्य दर्शयति । देशाद् देशान्तरं याति न क्वचिद् अवतिष्ठते । सृक्किणी ओष्ठप्रत्यन्तौ परिलेढि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृतिः । अस्य ललाटं स्विद्यते स्वेदबिन्द्वङ्कितं भवति, मुखं च वैवर्ण्यं विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत् सगद्गदं स्खलद् व्यत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचोविकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूजयति चक्षुर् वा प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेर् लिङ्गम् । तथा ओष्ठौ निर्भुजति वक्रयतीत्य् अपि कायस्य विकृतिः । एतच् च दोषसंभावनामात्रम् उच्यते न दोषनिश्चयाय । स्वाभाविकनैमित्तिकविकारयोर् विवेकस्य दुर्ज्ञेयत्वात् । अथ कश्चिन् निपुणमतिर् विवेकं प्रतिपद्येत तथापि न पराजयनिमित्तं कार्यं भवति । न हि मरिष्यतो लिङ्गदर्शनेन मृतकार्यं कुर्वन्ति । एवम् अस्य पराजयो भविष्यतीति लिङ्गाद् अवगते ऽपि न पराजयनिमित्तकार्यप्रसङ्गः ॥ २.१३ ॥ २.१४ ॥ २.१५ ॥

किं च ।

संदिग्धार्थं स्वतन्त्रो यः साधयेद् यश् च निष्पतेत् । २.१६अब्
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥ २.१६च्द् ॥

संदिग्धम् अर्थम् अधमर्णेनानङ्गीकृतम् एव यः स्वतन्त्रः साधननिरपेक्षः साधयत्य् आसेधादिना स हीनो दण्ड्यश् च भवति । यश् च स्वयं संप्रतिपन्नं साधनेन वा साधितं याच्यमानो निष्पतेत् पलायते यश् चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद् वदति सो ऽपि हीनो दण्ड्यश् च स्मृत इति संबध्यते । “अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः” इति प्रस्तुतत्वाद् धीनपरिज्ञानमात्रम् एव मा भूद् इति दण्ड्यग्रहणम् । दण्ड्यश् चापि शास्यो ऽप्य् अर्थान् न हीयत इत्य् अर्थाद् अहीनत्वदर्शनाद् अत्र तन् मा भूद् इति हीनग्रहणम् ॥ २.१६ ॥

अथ यत्र द्वाव् अपि युगपद् धर्माधिकारिणं प्राप्तौ भाषावादिनौ । तद् यथा । कश्चित् प्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित् कालम् उपभुज्य कार्यवशात् सकुटुम्बो देशान्तरं गतः । अन्यो ऽपि तद् एव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित् कालम् उपभुज्य देशान्तरं गतः । ततो द्वाव् अपि युगपद् आगत्य मदीयम् इदं क्षेत्रं मदीयम् इदं क्षेत्रम् इति परस्परं विवदमानौ धर्माधिकारिणं प्राप्तौ तत्र कस्य क्रियेत्य् आकाङ्क्षित आह ।

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । २.१७अब्
पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥ २.१७च्द् ॥

उभयत उभयोर् अपि वादिनोः साक्षिषु संभवत्सु साक्षिणः पूर्ववादिनः पूर्वस्मिन् काले मया प्रतिग्रहीतम् उपभुक्तं चेति यो वदत्य् असौ पूर्ववादी न पुनर् यः पूर्वं निवेदयति तस्य साक्षिणः प्रष्टव्याः । यदा त्व् अन्य एवं वदति सत्यम् अनेन पूर्वं प्रतिगृहीतम् उपभुक्तं च किं तु राज्ञेदम् एव क्षेत्रम् अस्माद् एव क्रयेण लब्ध्वा मह्यं दत्तम् इत्य् अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तम् इति तत्र पूर्वपक्षो ऽसाध्यतयाधरीभूतस् तस्मिन् पूर्वपक्षे ऽधरीभूते उत्तरकालं प्रतिगृहीतम् उपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या भवन्ति । प्राङ्न्यायकारणोक्तौ पूर्वपक्षे ऽधरीभूते उत्तरवादिनः साक्षिणो भवतीति व्याख्यानम् अयुक्तम् । अस्यार्थस्य “ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” (य्ध् २.७) इत्य् अनेनैवोक्तत्वात् पुनरुक्तिप्रसङ्गात् । पूर्वव्याख्यानम् एव स्पष्टीकृतं नारदेन-

मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।
प्राङ्न्यायविधिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥ (ध्को १.२२१)

इत्य् उक्त्वा,

द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥ (न्स्म् १.१४५)

इति वदता । एतस्य च पूर्वव्यवहारविलक्षणत्वाद् भेदेनोपन्यासः ॥ २.१७ ॥

अपि च ।

सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत् । २.१८अब्
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥ २.१८च्द् ॥

यदि विवादो व्यवहारः सपणः पणनं पणस् तेन सह वर्तत इति सपणः स्यात् तदा तत्र तस्मिन् सपणे व्यवहारे हीनं पराजितं पूर्वोक्तं दण्डं स्वकृतं पणं राज्ञे अर्थिने च विवादास्पदीभूतं धनं दापयेद् राजा । यत्र पुनर् एकः कोपावेशवशाद् यद्य् अहम् अत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते अन्यस् तु न किंचित् प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिंश् च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस् तु पराजितो दण्डं दाप्यः न पणम्, स्वपणं चेति विशेषोपादानात् । यत्र त्व् एकः शतं अन्यस् तु पञ्चशतं प्रतिजानीते तत्रापि पराजये स्वकृतम् एव पणं दाप्यौ । “सपणश् चेद् विवादः स्याद्” इति वदता पणरहितो ऽपि विवादो दर्शित इति ॥ २.१८ ॥

किं च ।

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः । २.१९अब्
भूतम् अप्य् अनुपन्यस् तं हीयते व्यवहारतः ॥ २.१९च्द् ॥

छलं प्रमाद् आभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्त्वानुसारेण व्यवहारान् नयेद् अन्तं नृपः । यस्माद् भूतम् अपि वस्तुतत्त्वम् अप्य् अनुपन्यस्तम् अनभिहितं हीयते हानिम् उपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद् भूतानुसरणं कर्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यम् एव वदतस् तथा ससभ्येन सभापतिना यतितव्यं सामादिभिर् उपायैः । तथा सति साक्ष्यादिनैरपेक्ष्येणैव निर्णयो भवति । अथ सर्वथापि भूतानुसरणं न शक्यते कर्तुं तथा सति साक्ष्यादिभिर् निर्णयः कार्य इत्य् अनुकल्पः । यथोक्तम् ।

भूतच्छलानुसारित्वाद् द्विगतिः समुदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ इति । (न्स्म् मा १.२४)

तत्र भूतानुसारी व्यवहारो मुख्यः छलानुसारीस्वनुकल्पः । साक्षिलेख्यादिभिर् व्यवहारनिर्णये कदाचिद् वस्त्वनुसरणं भवति कदाचिन् न भवति, साक्ष्यादीनां व्यभिचारस्यापि संभवात् ॥ २.१९ ॥

“भूतम् अप्य् अनुपन्यस्तं हीयते व्यव्हारतः” इत्य् अत्र उदाहरणम् आह ।

निह्नुते लिखितं नैकम् एकदेशे विभावितः । २.२०अब्
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥ २.२०च्द् ॥

नैकम् अनेकं सुवर्णरजतवस्त्रादि लिखितम् अभियुक्तम् अर्थिना प्रत्यर्थी यदि सर्वम् एव निह्नुते ऽपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिः प्रत्यर्थी भावितो ऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्वलिखितं दाप्यो ऽर्थिने नृपेण । न ग्राह्यस् त्व् अनिवेदितः पूर्वं भाषाकाले अनिवेदितः पश्चाद् अर्थिना पूर्वं मया विस्मृत इति निवेद्यमानो न ग्राह्यो न दापयित्व्यो नृपेण । एतच् च न केवलं वाचनिकम् । एकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयाद्, एकदेशान्तरे ऽपि मिथ्यावादित्वसंभवात्, अर्थिनश् चैकदेशे सत्यवादित्वनिश्चयाद्, एकदेशान्तरे ऽपि सत्यवादित्वसंभवात्, एवं तर्कापरनामसंभावनाप्रत्ययानुगृहीताद् अस्माद् एव योगीश्वरवचनात् सर्वं दापनीयं नृपेणेति निर्णयः । एवं च तर्कवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनो ऽन्यथात्वे ऽपि व्यवहारदर्शिनां न दोषः । तथा च गौतमः- “न्यायाधिगमे तर्को ऽभ्युपायस् तेनाभ्युह्य यथास्थानं गमयेत्” (ग्ध् ११.२३–२४) इत्य् उक्त्वा, “तस्माद् राजाचार्याव् अनिन्द्यौ” (ग्ध् ११.३२) इत्य् उपसंहरति । न चैकदेशभावितो ऽनुपादेयवचनः प्रत्यर्थीत्य् एतावद् इह गम्यते, “एकदेशविभावितो नृपेण सर्वं दाप्यः” इति वचनात् । यत् तु कात्यायनेनोक्तम्-

अनेकार्थाभियोगे ऽपि यावत् संसाधयेद् धनी ।
साक्षिभिस् तावद् एवासौ लभते साधितं धनं ॥ इति । (क्स्म् ४७३)

तत् पुत्रादिदेयपित्राद्यृणविषयम् । तत्र हि बहून् अर्थान् अभियुक्तः पुत्रादिर् न जानामीति प्रतिवदन् निह्नववादी न भवतीत्य् एकदेशविभावितो ऽपि न क्वचिद् असत्यवादीति “निह्नुते लिखितं नैकम्” इति शास्त्रं तत्र न प्रवर्तते, निह्नवाभावाद् अपेक्षिततर्काभावाच् च । “अनेकार्थाभियोगे ऽपि” इति कात्यायनवचनं तु सामान्यविषयम्, विशेषशास्त्रस्य विषयं निह्नवोत्तरं परिहृत्याज्ञानोत्तरे प्रवर्तते ।

ननु,
ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्य् अधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥ (क्स्म् ३९६)

इति वदता कात्यायनेन अनेकार्थाभियोगे साक्षिभिर् एकदेशे भाविते ऽधिके वा भाविते साध्यं सर्वम् एव न सिध्यतित्युक्तम् । तथा सत्य् एकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिर् एकदेशाभिधाने ऽधिकाभिधाने वा कृत्स्नम् एव साध्यं न सिध्यतिति तस्यार्थः । तत्रापि निश्चितं न सिध्यतिति वचनात् पूर्ववत् संशय एवेति प्रमाणान्तरस्यावसरो ऽस्त्य् एव, “छलं निरस्य” इति नियमात् । साहसादौ तु सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिर् एकदेशे ऽपि साधिते कृत्स्नसाध्यसिद्धिर् भवत्य् एव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाच् च-

साध्यार्थांशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसंगे साहसे चौर्ये यत् साध्यं परिकीर्तितम् ॥ इति ॥ (क्स्म् ३९७) २.२० ॥

ननु “निह्नुते लिखितं नैकम्” इतीयं स्मृतिस्, तथा “अनेकार्थाभियोगे ऽपि” इतीयम् अपि स्मृतिर् एव । तत्रानयोः स्मृत्योः परस्परविरोधे सति, इतरेतरबाधनाद् अप्रामाण्यं कस्मान् न भवति विषयव्यवस्था किम् इत्य् आश्रीयते, इत्य् अत आह ।

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः । २.२१अब्

यत्र स्मृत्योः परस्परतो विरोधस् तत्र विरोधपरिहाराय विषयव्यवस्थापनादाव् उत्सर्गापवादालक्षणो न्यायो बलवान् समर्थः । स च न्यायः कुतः प्रत्येतव्य इत्य् अत आह, “व्यवहारतः” इति । व्यवहाराद् वृद्धव्यवहाराद् अन्वयव्यतिरेकलक्षणाद् अवगम्यते । अतश् च प्रकृतोदाहरणे ऽपि विषयव्यवस्थैव युक्ता । एवम् अन्यत्रापि विषयस्व्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥

एवं सर्वत्र प्रसङ्गे ऽपवादम् आह ।

अर्थशास्त्रात् तु बलवद् धर्मशास्त्रम् इति स्थितिः ॥ २.२१च्द् ॥

“धर्मशास्त्रानुसारेण” (य्ध् २.१) इत्य् अनेनैवौशनसाद्यर्थशास्त्रस्य निरस्तत्वात्, धर्मशास्त्रान्तर्गतम् एव राजनीतिलक्षणम् अर्थशास्त्रम् इह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मृत्योर् विरोधे अर्थशास्त्राद् धर्मशास्त्रं बलवद् इति स्थितिर् मर्यादा । यद्य् अपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्याद् अर्थस्य चाप्राधान्याद् धर्मशास्त्रं बलवद् इत्य् अभिप्रायः । धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद् धर्मशास्त्रार्थशास्त्रयोर् विरोधे ऽर्थशास्त्रस्य बाध एव न विषयव्यवस्था नापि विकल्पः । किम् अत्रोदाहरणम् । न तावत्,

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥
नाततायिवधे दोषो हन्तुर् भवति कश्चन ।
प्रच्छन्नं वा प्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ (म्ध् ८.३५०–५१) तथा,
आततायिनम् आयान्तम् अपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् । (वध् ३.१७)

इत्याद्य् अर्थशास्त्रम् ।

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ (म्ध् ११.८९)

इत्यादि धर्मशास्त्रम् । तयोर् विरोधे धर्मशास्त्रं बलवद् इति युक्तं ॥ अनयोर् एकविषयत्वासंभवेन विरोधाभावान् न बलाबलचिन्तावतरति । तथा हि,

शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते । (म्ध् ८.३४८)

इत्य् उपक्रम्य,

आत्मनश् च परित्राणे दक्षिणानां च संगरे ।
स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दण्डभाक् ॥ (म्ध् ८.३४९)

इत्य् आत्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायां च"आततायिनम् अकूटशस्त्रेण घ्नन् न दण्डभाक्” इत्य् उक्त्वा तस्यार्थवादार्थम् इदम् उच्यते, “गुरुं वा बालवृद्धौ वा” इत्यादि । गुर्वादीन् अत्यन्तावध्यान् अप्य् आततायिनो हन्यात् किम् उतान्यान् इति । वाशब्दश्रवणाद् अपि वेदान्तगम् इत्य् अत्र अपिशब्दश्रवणान् न गुर्वादीनां वध्यत्वप्रतीतिः,

नाततायिवधे दोषो ऽन्यत्र गोब्राह्मणवधात् ।

इति सुमन्तुवचनाच् च,

आचार्यं च प्रवक्तारं मातरं पितरं गुरुम् ।
न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥ (म्ध् ४.१६२)

इति मनुवचनाच् च । आचार्यादीनाम् आततायिनां हिंसाप्रतिषेधेनेदं वचनम् अर्थवन् नान्यथा, हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् । “नाततायिवधे दोषो हन्तुर् भवति कश्चन” इत्य् एतद् अपि ब्राह्मणादिव्यतिरिक्तविषयम् एव । यतः,

अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः ।
क्षेत्रदारहरश् चैव षड् एते ह्य् आततायिनः ॥ (वध् ३.१६)

तथा,

उद्यतासिर् विषाग्निश् च शापोद्यतकरस् तथा ।
आथर्वणेन हन्ता च पिशुनश् चापि राजनि ॥
भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवमाद्यान् विजानीयात् सर्वान् एवाततायिनः ॥ (क्स्म् ८०२–३)

इति सामान्येनाततायिनो दर्शिताः । अतश् च ब्राह्मणादय आततायिनश् च आत्मादित्राणार्थं हिंसानभिसंधिना निवार्यमाणाः प्रमादाद् यदि विपद्येरंस् तत्र लघुप्रायश्चित्तं राजदण्डाभावश् चेति निश्चयः । तस्माद् अन्यद् इहोदाहरणं वक्तव्यम् ।

उच्यते,
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः ।
अतो यतेत तत्प्राप्तौ । (य्ध् १.३५१)

इत्य् अर्थशास्त्रम् ।

धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः । (य्ध् २.१)

इति धर्मशास्त्रम् । तयोः क्वचिद् विषये विरोधो भवति । यथा- चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जये ऽवधार्यमाणे मित्रलब्धिर् भवति न धर्मशास्त्रम् अनुसृतं भवति । अन्यस्य जये ऽवधार्यमाणे धर्मशास्त्रम् अनुसृतं भवति मित्रलब्धिर् विपरीता । तत्रार्थशास्त्राद् धर्मशास्त्रं बलवत् । अत एव, “धर्मार्थसंनिपाते अर्थग्राहिण एतद् एव” (आप्ध् १.२४.२३) इति प्रायश्चित्तस्य गुरुत्वं दर्शितम् आपस्तम्बेन । एतद् एवेति द्वादशवार्षिकं प्रायश्चित्तं परामृश्यते ॥ २.२१ ॥

“ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” इत्य् उत्कम् । किं तत्साधनम् इत्य् अपेक्षित आह ।

प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् । २.२२अब्
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥ २.२२च्द् ॥

प्रमीयते परिच्छिद्यते ऽनेनेति प्रमाणम् । तच् च द्विविधं मानुषं दैविकं चेति । तत्र मानुषं त्रिविधं लिखितं भुक्तिः साक्षिणश् चेति । कीर्तितं महर्षिभिः । तत्र लिखितं द्विविधं शासनं चीरकं चेति । शासनम् उक्तलक्षणम् । चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिर् उपभोगः । साक्षिणो वक्ष्यमाणस्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्दे ऽन्तर्भावाद् युक्तं प्रामाण्यम् । भुक्तेस् तु कथं प्रामाण्यम् । उच्यते- भुक्तिर् अपि कैश्चिद् विशेषणैर् युक्ता स्वत्वहेतुभूतक्रियादिकम् अव्यभिचाराद् अनुमापयन्त्य् अनुपपद्यमाना वा कल्पयन्ति इत्य् अनुमाने ऽर्थापत्तौ चान्तर्भवतीति प्रमाणम् एव । एषां लिखितादीनां त्रयाणाम् अन्यतमस्याप्य् अभावे दिव्यानां वक्ष्यमाणस्वरूपभेदानाम् अन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणम् उच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यम् अस्माद् एव वचनाद् अवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोर् आगमगम्यत्वात् । अतश् च यत्र परस्परविवादेन युगपद् धर्माधिकारिणं प्राप्तयोर् एको मानुषीं क्रियाम् अपरस् तु दैवीम् अवलम्बते तत्र मानुष्य् एव ग्राह्या । यथाह कात्यायनः-

यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान् न तुन् दैवीं क्रियां नृपः ॥ इति । (क्स्म् २१८)

यत्रापि प्रधानैकदेशसाधनं मानुषं संभवति तत्रापि न दैवम् आश्रयणीयम् । यथा रूपकशतम् अनया वृद्ध्या गृहीत्वा अयं न प्रयच्छतीत्य् अभियोगापह्नवे, ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामीत्य् उक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धिविशेषसिद्धेर् न दिव्यस्यावकाशः । उक्तं च कात्यायनेन ।

यद्य् एकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥ इति । (क्स्म् २१९)

यत् तु,

गूढसाहसिकानां तु प्राप्तं दिव्यैः परिḳसणम् । (क्स्म् २३०)
इति तद् अपि मानुषासंभवकृतनियमार्थम् । यद् अपि नारदेनोक्तम्-
अरण्ये निर्जने रात्राव् अन्तर्वेश्मनि साहसे ।
न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥ (न्स्म् मा २.३०)

इति, तद् अपि मानुषासंभव एव । तस्मान् मानुषाभाव एव दिव्येन निर्णय इत्य् औत्सर्गिकम् । अस्य चापवादो दृश्यते-

प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव च ॥ इति । (क्स्म् २२९)

तथा लेख्यादीनाम् अपि क्वचिन् नियमो दृश्यते । यथा-

पूगश्रेणीगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ (क्स्म् २२५)

तथा-

द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया ।
भुक्तिर् एव गुर्वी स्यान् न दिव्यं न च साक्षिणः ॥ (क्स्म् २२६)

तथा-

दत्तादत्ते ऽथ भृत्यानां स्वामिनां निर्णये सति ।
विक्रयादानसंबन्धे क्रीत्वा धनम् अनिच्छति ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥ इति ॥ (क्स्म् २२७–८) ॥ २.२२ ॥

उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके चासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वम् इत्य् अत आह ।

सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तरा क्रिया । २.२३अब्

ऋणादिषु सर्वेष्व् अर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्यं बलवती । उत्तरकार्ये साधिते तद्वादी विजयी भवति । पूर्वकार्ये सिद्धे ऽपि तद्वादी पराजीयते । तद् यथा- कश्चिद् ग्रहणेन धारणं साधयति कश्चित् प्रतिदानेनाधारणं तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवद् इति प्रतिदानवादी जयी भवति । तथा पूर्वं द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतम् अङ्गीकृतवान् तत्रोभयत्र प्रमाणसद्भावे ऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात् पूर्वाबाधेनानुत्पत्तेः । उक्तं च “पूर्वाबाधेन नोत्पत्तिर् उत्तरस्य हि सेत्स्यति” इति ॥

अस्यापवादम् आह ।

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ २.२३च्द् ॥

आध्यादिषु त्रिषु पूर्वम् एव कार्यं बलवत् । तद् यथा- एकम् एव क्षेत्रम् अन्यस्याधिं कृत्वा किम् अपि गृहीत्वा पुनर् अन्यस्याप्य् आधाय किम् अपि गृह्णाति तत्र पूर्वस्यैव तद् भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च ।

ननु आहितस्य तदानीम् अस्वत्वात् पुनर् आधानम् एव न संभवति । एवं दत्तस्य क्रीतस्य च दानक्रयौ नोपपद्येते । तस्माद् इदं वचनम् अनर्थकम् ।
उच्यते- अस्वत्वे ऽपि यदि मोहात् कश्चिल् लोभाद् वा पुनर् आधानादिकं करोति तत्र पूर्वं बलवद् इति न्यायमूलम् एवेदं वचनम् इत्य् अचोद्यम् ॥ २.२३ ॥

भुक्तेः कैश्चिद् विशेषणैर् युक्तायाः प्रामाण्यं दर्शयिष्यन् कस्याश्चिद् भुक्तेः कार्यान्तरम् आह ।

पश्यतो ब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी । २.२४अब्
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २.२४च्द् ॥

परेणासंबन्धेन भुज्यमानां भुवं धनं वा पश्यतो ऽब्रुवतः “मदीयेयं भूः न त्वया भोक्तव्या” इत्यप्रतिषेधयतः तस्या भूमेर् विंशतिवार्षिक्य् अप्रतिरवं विंशतिवर्षोपभोगनिमित्ता हानिर् भवति । धनस्य तु हस्त्यश्वादेर् दशवार्षिकी हानिः ।

ननु एतद् अनुपपन्नम् । न ह्य् अप्रतिषेधात् स्वत्वम् अपगच्छति । अप्रतिषेद्धस्य दानविक्रियादिवत् स्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोर् अप्रसिद्धत्वात् । नापि विंशतिवर्षोपभोगात् स्वत्वम्, उपभोगस्य स्वत्वे ऽप्रमाणत्वात्, प्रमाणस्य च प्रमेयप्रत्यनुत्पादकत्वात्, रिक्थक्रयादिषु स्वत्वकारकहेतुष्व् अपाठाच् च । तथा हि- “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु, ब्राह्मणस्यादिकं लब्धम्, क्षत्रियस्य विनिर्जितम्, निर्विष्टं वैश्यशूद्रयोः” (ग्ध् १०.३९–४२) इत्य् अष्टाव् एव स्वत्वकारकहेतून् गौतमः पठति, न भोगम् । न चेदम् एव वचनं विंशतिवर्षोपभोगस्य स्वत्वोत्पत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच् च विभागप्रकरणे निपुणतरम् उपपादयिष्यते । गौतमवचनं तु नियमार्थम् ॥ अपि च-
अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥ (न्स्म् १.७६* अद्दितिओन्)

इत्य् एतद् अनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते । न च “अनागमं तु यो भुङ्क्ते” इत्य् एतत् परोक्षभोगविषयम् । पश्यतो ऽब्रुवत इति प्रत्यक्षभोगविषयम् इति युक्तं वक्तुम्, अनागमं तु यो भुङ्क्ते इत्य् अविशेषाभिधानात्,

नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥ (क्स्म् ३१६)

इति कात्यायनवचनाच् च, समक्षभोगे च हानिकारणाभावेन हानेर् असंभवात् ।

न चैतन् मन्तव्यम्- आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्याद् अपवादेन भूविषये विंशतिवर्षोपभोगयुक्ताया धनविषये दशवर्षोपभोगयुक्ताया उत्तरस्याः क्रियायाः प्राबल्यम् अनेनोच्यत इति । यतस् तेषूत्तरैव क्रिया तत्त्वतो नोपपद्यते स्वम् एव ह्य् आधेयं देयं विक्रेयं च भवति । न चाहितस्य दत्तस्य विक्रीतस्य वा स्वत्वम् अस्ति । अस्वस्य दाने प्रतिग्रहे च दण्डः स्मर्यते-
अदेयं यश् च गृह्णाति यश् चादेयं प्रयच्छति ।
उभौ तौ चौरवच् छास्यौ दाप्यौ चोत्तमसाहसम् ॥ इति । (म्ध्, च्फ़्। ध्को ७९६)

तथाध्यादीनां त्रयाणाम् अपवादत्वे ऽस्य श्लोकस्याधिसीमादीनाम् उत्तरश्लोके ऽपवादो नोपपद्यते । तस्माद् भूम्यादीनां हानिर् अनुपपन्नैव । नापि व्यवहारहानिः । यतः,

उपेक्षां कुर्वतस् तस्य तूष्णीं भूतस्य तिष्टतः ।
काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥ (न्स्म् १.७१)

इति नारदेनोपेक्षालिङ्गाभावकृता व्यवहारहानिर् उक्ता न तु वस्त्वभावकृता । तथा मनुनापि,

अजडश् चेद् अपौगण्डो विषयश् चास्य भुज्यते ।
भग्नं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥ (म्ध् ८.१४८)

इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारभङ्गश् चैवम्- भोक्ता किल वदति, “अजडो ऽयम् अपौगण्डो ऽबालो ऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्ष्ịनः सन्ति । यद्य् अस्य स्वम् अन्यायेन मया भुज्यते तदायं किम् इत्य् एतावन्तं कालम् उदास्ते” इति तत्र चायं निरुत्तरो भवतीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्य् एव, “छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः” इति नियमात् । अथ मतम् । यद्य् अपि न वस्तुहानिर् नापि व्यवहारहानिस् तथापि पश्यतो ऽप्रतिषेधतो व्यवहारहानिशङ्का भवतीति तन् निवृत्तये तूष्णीं न स्थातव्यम् इत्य् उपदिश्यत इति । तच् च न, स्मार्तकालाया भुक्तेर् हानिशङ्काकारणत्वाभावात्, तूष्णीं न स्थातव्यम् इत्य् एतावन् मात्राभिधित्सायां विंशतिग्रहणम् अविवक्षितं स्यात् । अथोच्यते । विंशतिग्रहणम् ऊर्ध्वं पत्रदोषोद्भावननिराकरणार्थम् । यथाह कात्यायनः-

शक्तस्य संनिधाव् अर्थो यस्य लेख्येन भुज्यते ।
विंशतिवर्षाण्य् अतिक्रान्तं तत्पत्रं दोषवर्जितम् ॥ इति । (क्स्म् २९९)

तद् अपि न, आध्यादिष्व् अपि विंशतेर् ऊर्ध्वं पत्रदोषोद्भावननिराकरणस्य समत्वेनाधिसीमेत्याद्यपवादासंभवात् । यथाह कात्यायनः-

अथ विंशतिवर्षाण्य् आधिर् भुक्तः सुनिश्चितः ।
तेन लेख्येन तत्सिद्धिर् लेख्यदोषविवर्जिता ॥ (क्स्म् ३००)

तथा-

सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्या यावद् वर्षाणि विंशतिः ॥ इति । (क्स्म् ३०१)

एतेन “धनस्य दशवर्षिकी” इत्य् एतद् अपि प्रत्युक्तम् । तस्माद् अस्य श्लोकस्य सत्यो ऽर्थो वक्तव्यः ।

उच्यते । भूमेर् धनस्य च फलहानिर् इह विवक्षिता न वस्तुहानिर् नापि व्यवहारहानिः । तथा हि, निराक्रोशं विंशतिवर्षोपभोगाद् ऊर्ध्वं यद्य् अपि स्वामी न्यायतः क्षेत्रं लभते तथापि फलानुसरणं न लभते, अप्रतिषेधलक्षणात् स्वापराधाद् अस्माच् च वचनात् । परोक्षभोगे तु विंशतेर् ऊर्धम् अपि फलानुसरणं लभत एव, “पश्यते” इति वचनात् । प्रत्यक्षभोगे च, साक्रोशे अब्रुवत इति वचनात् । विंशतेः प्राक् प्रय्तक्षे निराक्रोशे च लभते, विंशतिग्रहणात् ।
ननु तद् उत्पन्नस्यापि फलस्य स्वत्वात् तद्धानिर् अनुपपन्नैव ।
बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा तदुत्पन्नपूगपनसवृक्षादीनां यत् पुनस् तदुत्पन्नम् उपभोगान् नष्टं तत्र स्वरूपनाशाद् एव स्वत्वनाशः,
अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्ड्येत् पृथिवीपतिः ॥ (न्स्म् १.७६* अद्दितिओन्)

इत्य् अनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत् तत्समं द्रव्यदानं प्राप्तं हानिर् विंशतिवार्षिकित्य् अनेनापोद्यते । राजदण्डः पुनर् अस्त्य् एव विḿशतेर् ऊर्ध्वम् अप्य् अनागमोपभोगाद् अपवादाभावाच् च । तस्मात् स्वाम्य् उपेक्षालक्षणस्वापराधाद् अस्माच् च वचनाद् विंशतेर् ऊर्ध्वं फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्य् एतद् अपि व्याख्यातम् ॥ २.२४ ॥

अस्यापवादम् आह ।

आधिसीमोपनिक्षेपजडबालधनैर् विना । २.२५अब्
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ॥ २.२५च्द् ॥

आधिश् च सीमा च उपनिक्षेपश् च आधिसीमोपनिक्षेपाः । जडश् च बालश् च जडबालौ तयोर् धने जडबालधने आधिसीमोपनिक्षेपाश् च जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर् विना । उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्षणार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः ।

स्वं द्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ इति । (न्स्म् २.१)

उपनिधानम् उपनिधिः । आध्यादिषु पश्यतो ऽब्रुवतो ऽपि भूमेर् विंशतेर् ऊर्ध्वं धनस्य च दशभ्यो वर्षेभ्य ऊर्ध्वम् अप्य् उपचयहानिर् न भवति, पुरुषापराधस्य तथाविधस्याभावात्, उपेक्षाकारणस्य तत्र तत्र संभवात् । तथा हि- आधेर् आधित्वोपाधिक एव भोग इत्य् उपेक्षायाम् अपि न पुरुषापराधः । सीम्नश् चिरकृततुषाङ्गारादिचिह्नैः सुसाध्यत्वाद् उपेक्षा संभवति । उपनिक्षेपोपनिध्योर् भुक्तेः प्रतिषिद्धत्वात्, प्रतिषेधातिक्रमोपभोगे च सोदयफललाभाद्, उपेक्षोपपत्तिः । जडबालयोर् जडत्वाद् बालत्वाद् उपेक्षा युक्तैव । राज्ञो बहुकार्यव्याकुलत्वात् । स्त्रीणाम् अज्ञानाद् अप्रागल्भ्याच् च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वाद् उपेḳसा युक्तैव । तस्माद् आध्यादिषु सर्वत्रोपेक्षाकारणसंभवात् समक्षभोगे निराक्रोशे च न कदाचिद् अपि फलहानिः ॥ २.२५ ॥

आध्यादिषु दण्डविशेषप्रतिपादनार्थम् आह ।

आध्यादीनां विहर्तारं धनिने दापयेद् धनम् । २.२६अब्
दण्डं च तत्समं राज्ञे शक्त्यपेक्षम् अथापि वा ॥ २.२६च्द् ॥

य[^२३] आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादास्पदीभूतं धनं स्वामिने दापयेद् इत्य् अनुवादः । दण्डं च तत्समं विवादास्पदीभूतद्रव्यसमं राज्ञे दापयेद् इति विधिः । यद्य् अपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि,

मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा । (य्ध् २.१५५)

इत्यादिर् वक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर् दमनं न भवति बहुधनत्वेन तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद् दापयेत्, “दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्” (ग्ध् ११.२८) इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्समम् अपि द्रव्यं नास्ति सो ऽपि यावता पीड्यते तावद् दाप्यः । यस्य पुनः किम् अपि धनं नास्त्य् असौ धिग्दण्डादिना दमनीयः । तथा च मनुः ।

धिग्दण्डं प्रथमं कुर्याद् वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ इति । (म्ध् ८.१२९)

वधदण्डो ऽपि शारीरो ब्राह्मणव्यतिरिक्तानां दशधा दर्शितः । तथाह मनुः ।

दश स्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ इति । (म्ध् ८.१२४-२५)

एतेषां यन् निमित्तापराधस् तत्रैवोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन ।

धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥ इति । (क्स्म् ४७९)

ब्राह्मणस्य पुनर् द्रव्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गौतमः- “कर्मवियोगविख्यापननिर्वासनाङ्ककरणादीन्य् अवृत्तौ” (ग्ध् १२.४७–४८) इति । नारदेनापि ।

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः ॥
अविशेषेण सर्वेषाम् एव दण्डविधिः स्मृतः ॥ (न्स्म् १४.७–८)

इत्य् उक्त्वोक्तम्-

वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽर्हति ॥ इति ।
शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥ इति ॥ (न्स्म् १४.८–९)

अङ्कने च व्यवस्था दर्शिता-

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥ इति । (न्स्म् १९.५१)

यत् तु, “चक्षुर्निरोधः ब्राह्मणस्य” (आप्ध् २.२७.१७) इत्य् आपस्तम्बवचनं ब्राह्मणस्य पुरान् निर्वासनसमये वस्त्रादिना चक्षुर् निरोधः कर्तव्य इति तस्यार्थो, न तु चक्षुर् उद्धरणम्, “अक्षतो ब्राह्मणो व्रजेत्,” (म्ध् ८.१२४) “न शारीरो ब्राह्मणे दण्डः” (ग्ध् १२.४६) इत्यादिमनुगौतमादिवचनविरोधाद् इत्य् अलं प्रसङ्गेन ॥ २.२६ ॥

स्वत्वाव्यभिचारित्वेन भोगस्य स्वत्वे प्रामाण्यम् उक्तम् । भोगमात्रस्य स्वत्वव्यभिचारित्वात् कीदृशो भोगः प्रमाणम् इत्य् अत आह ।

आगमो ऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ॥ २.२७अब्

स्वत्वहेतुः प्रतिग्रहक्रयादिर् आगमः । स भोगाद् अप्य् अधिको बलीयान्, स्वत्वबोधने भोगस्यागमस्यापेक्षत्वात् । यथाह नारदः ।

आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥ इति । (न्स्म् १.७६* अद्दितिओन्)

न च भोगमात्रात् स्वत्वावगमः, परकीयस्याप्य् अपहारादिनोपभोगसंभवात् । अत एव,

भोगं केवलतो यस् तु कीर्तयेन् नागमं क्वचित् ।
भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥ (न्स्म् १.७६* अद्दितिओन्)

इति स्मर्यते । अतश् च सागमो दीर्घकालो निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश् चेति पञ्चविशेषणयुक्तो भोगः प्रमाणम् इत्य् उक्तं भवति । तथा च स्मर्यते ।

सागमो दीर्घकालश् चाविच्छेदो ऽपरवोज्झितः ।
प्रत्यर्थिसंनिधानो ऽपि परिभोगो ऽपि पञ्चधा ॥ इति । (न्, क्स्म्- ध्को ४०६, ४१६)

क्वचिच् चागमननिरपेक्षस्यापि भोगस्य प्रामाण्यम् इत्य् आह “विना पूर्वक्रमागताद्” इति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः, तेनागतो यो भोगस् तस्माद् विना आगमो ऽभ्यधिक इति संबन्धः । स पुनर् आगमाद् अभ्यधिकः । आगमनिरपेषः प्रमाणम् इत्य् अर्थः । तत्राप्य् आगमो ऽज्ञातनिरपेक्षो न सत्तानिरपेषः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । “विना पूर्वक्रमागताद्” इत्य् एतच् चास्मार्तकालप्रदर्शनार्थम् । “आगमो ऽभ्यधिको भोगाद्” इति च स्मार्तकालविषयम् । अतश् च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभावनिश्चयसंभवाद् आगमज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । अस्मार्ते तु काले योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासंभवाद् आगमज्ञाननिरपेक्ष एव संततो भोगः प्रमाणम् । एतद् एव स्पष्टीकृतं कात्यायनेन ।

स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
अस्मार्ते ऽनुगमाभावात् क्रमात् त्रिपुरुषगता ॥ इति । (क्स्म् ३२१)

स्मार्तश् च कालो वर्षशतपर्यन्तः, “शतायुर् वै पुरुषः” इति श्रुतेः । अनुगमाभावाद् इति योग्यानुपलब्ध्यभावेनागमाभावनिश्चयाभावाद् इत्य् अर्थः । अतश् च वर्षशताधिको भोगः संततो ऽप्रतिरवः प्रत्यर्थिप्रत्यक्षश् चागमाभावे वानिश्चिते ऽव्यभिचाराद् आक्षिप्तागमः स्वत्वं गमयति । अस्मार्ते ऽपि काले ऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमाणम् । अत एव,

अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥ (न्स्म् १.७६* अद्दितिओन्)

इत्य् उक्तम् । न च “अनागमं तु यो भुङ्क्ते” इत्य् एकचननिर्देशात् “बहून्य् अब्दशतान्य् अपि” इत्य् अपिशब्दप्रयोगात् प्रथमस्यैव पुरुषस्य निरागमे चिरकालोपभोगे ऽपि दण्डविधानम् इति मन्तव्यम्, द्वितीते तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतद् इष्यते,

आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा । (ध्को ४०९)

इति नारदस्मरणात् । तस्मात् सर्वत्र निरागमोपभोगे “अनागमं तु यो भुङ्क्ते” इत्य् एतद् द्रष्टव्यम् । यद् अपि,

अन्यायेनापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥ (न्स्म् १.७८* अद्दितिओन्)

इति, तद् अपि पित्रा सह पूर्वतरैस् त्रिभिर् इति योज्यम् । तत्रापि “क्रमात् त्रिपुरुषागतम्” इत्य् अस्मार्तकालोपभोगलक्षणम् । त्रिपुरुषविवक्षायाम् एकवर्षाभ्यन्तरे ऽपि पुरुषत्रयातिक्रमसंभवात्, द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसण्गः । तथा सति,

स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते । (क्स्म् ३२१)

इति स्मृतिविरोधः । “अन्यायेनापि यद् भुक्तम्” इत्य् एतच् चान्यायेनापि भुक्तम् अपहर्तुं न शक्यं किं पुनर् अन्यायानिश्चये इत् व्याख्येयम्, अपिशब्दश्रवणात् । यच् चोक्तं हारीतेन ।

यद् विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥

इति, तत्राप्य् अत्यन्तम् आगमं विनेति । अत्यन्तम् उपलभ्यमानम् आगमं विनेति व्याख्येयं, न पुनर् आगमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्य् उक्तम् । “क्रमात् त्रिपुरुषागतम्” इत्य् एतद् उकतार्थम् ।

ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यम् अनुपपन्नम् । तथा हि, यद्य् आगमः प्रमाणान्तरेणावगतस् तदा तेनैव स्वत्वावगमान् न भोगस्य स्वत्वे आगमे वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो भोगः प्रमाणम् ।
उच्यते । प्रमाणान्तरेणावगतागमसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति । अवगतो ऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं गमयितुम् अलम्, मध्ये दानविक्रयादिना स्वत्वापगमसंभवात् । इति सर्वम् अनवद्यम् ॥

आगमसापेक्षो भोगः प्रमाणम् इत्य् उक्तम् । आगमस् तर्हि भोगनिरपेक्ष एव प्रमाणम् इत्य् अत आह ।

आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २.२७च्द् ॥

यस्मिन्न् आगमे स्वल्पापि भुक्तिर् भोगो नास्ति तस्मिन्न् आगमे बलं संपूर्णं नैवास्ति । अयम् अभिसंधिः । स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश् च त्रिविधः । मानसो वाचिकः कायिकश् चेति । तत्र मानसो ममेदम् इति संकल्परूपः । वाचिकस् तु ममेदम् इत्याद्य् अभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । कायिकः पुनर् उपादानाभिमर्शनादिरूपो ऽनेकविधः । तत्र च नियमः स्मर्यते-

दद्यात् कृष्णाजिनं पृष्ठे गां पुच्छे करिणम् करे ।
केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥ इति ।

आश्वलायनो ऽप्य् आह- “अनुमन्त्रयेत प्राण्य् अभिमृशेद् वप्राणि कन्यां च” इति । तत्र हिरण्यवस्त्रादाव् उदकदानानन्तरम् एवोपादानादिसंभवात्, त्रिविधो ऽपि स्वीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात्, स्वल्पेनाप्य् उपभोगेन भवितव्यम् अन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति तत्सहिताद् आगमात् । एतच् च द्वयोः पूर्वापरकालापरिज्ञाने, पूर्वापरकालपरिज्ञाने तु विगुणो ऽपि पूर्वकालागम एव बलीयान् इति । अथ वा, “लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिपुरुषागतम् " इत्य् उक्तम् । एतेषां समवाये कुत्र कस्य वा प्राबल्यम् इत्य् अत्रेदम् उपतिष्ठते-

आगमो ऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ।
आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ (य्ध् २.२७) इति ।

अयम् अर्थः । आद्ये पुरुषे साक्षिभिर् भावित आगमो भोगाद् अप्य् अधिको बलवान्, पूर्वक्रमागताद् भोगाद् विना । स पुनः पूर्वक्रमागतो भोगाश् चतुर्थपुरुषे लिखितेन भाविताद् आगमाद् बलवान् । मध्ये तु भोगरहिताद् आगमात् स्तोकभोगसहितो ऽप्य् आगमो बलवान् इति । एतद् एव नारदेन स्पष्टीकृतम्-

आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।
कारणं भुक्तिर् एवैका संतता या चिरन्तनी ॥ इति ॥ (ध्को ४०९) २.२७ ॥

“पश्यतो ऽब्रुवतः” (य्ध् २.२४) इत्य् अत्र विंशतिवर्षोपभोगाद् ऊर्ध्वं भूमेर् धनस्यापि दशवर्षोपभोगाद् ऊर्ध्वं फलानुसरणं न भवतीत्युक्तम् । तत्र फलानुसरणवद् दण्डानुसरणम् अपि न भविष्यतीत्य् आशङ्क्य पुरुषव्यवस्थया प्रामाण्यव्यवस्थया च दण्डव्यवस्थां दर्शयितुम् आह ।

आगमस् तु कृतो येन सो ऽभियुक्तस् तम् उद्धरेत् । २.२८अब्
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥ २.२८च्द् ॥

येन पुरुषेण भूम्यादेर् आगमः स्वीकारः कृतः स पुरुषः कुतस् ते क्षेत्रादिकम् इत्य् अभियुक्तस् तस्यागमं प्रतिग्रहादिकं लिखितादिभिर् उद्धरेत् भावयेत् । अनेन चाद्यस्य पुरुषस्यागमम् अनुद्धरतो दण्ड इत्य् उक्तं भवति । तत्सुतो द्वितीयो ऽभियुक्तो नागमम् उद्धरेत् किं तु अविच्छिन्नाप्रतिरवसमक्षभोगम् । अनेन चागमम् अनुद्धरतो द्वितीयस्य न दण्डो ऽपि तु विशिष्टं भोगम् अनुद्धरतो दण्ड इति प्रतिपादितम् । तत्सुतस् तृतीयो नागमं नापि विशिष्टं भोगम् उद्धरेद्, अपि तु क्रमागथं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभोगानुद्धरणे चेत्य् अभिहितम् । तत्र तयोर् द्वितीयतृतीययोर् भुक्तिर् एव गरीयसी । तत्रापि द्वितीये गुरुस् तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्व् अप्य् आगमानुद्धरणे ऽर्थहानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थः । उक्तं च हारीतेन ।

आगमस् तु कृतो येन स दण्ड्यस् तम् अनुद्धरम् ।
न तत्सुतस् तत्सुतो वा भोग्यहानिस् तयोर् अपि ॥ इति ॥ २.२८ ॥

अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यम् उक्तम्, “विना पूर्वक्रमागताद्” इत्य् अत्र तस्यापवादम् आह ।

यो ऽभियुक्तः परेतः स्यात् तस्य रिक्थी तम् उद्धरेत् । २.२९अब्
न तत्र कारणं भुक्तिर् आगमेन विना कृता ॥ २.२९च्द् ॥

यदा पुनर् आहर्त्रादिर् अभियुक्तो ऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं गतो भवेत् तदा तस्य रिक्थी पुत्रादिस् तम् आगमम् उद्धरेत् । यस्मात् तत्र तस्मिन् व्यवहारे भुक्तिर् आगमरहिता साक्ष्यादिभिः साधितापि न प्रमाणम् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्य् उक्तम् ।

तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सो ऽर्थः संशोध्यो न तं भोगो निवर्तयेत् ॥ इति ॥ (न्स्म् १.८०) २.२९ ॥

अनिर्णीतव्यवहारे व्यवहर्तरि प्रेते व्यवहारो न नवर्तत इति स्थितम् । निर्णीते ऽपि व्यवहारे स्थिते च व्यवहर्तारि व्यवहारः क्वचित् प्रवर्तते क्वचिन् न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलम् आह ।

नृपेणाधिकृताः पूगाः श्रेणयो ऽथ कुलानि च । २.३०अब्
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ २.३०च्द् ॥

नृपेण राज्ञा अधिकृताः व्यहारदर्शने नियुक्ताः, “राज्ञा सभासदः कार्याः” इत्यादिनोक्ताः पूगाः समूहाः । भिन्नजातीनां भिन्नवृत्तीनाम् एकस्थाननिवासिनां यथा ग्रामनगरादयः । श्रेणयो नानाजातीनाम् एकजातीयकर्मोपजीविनां सम्घाताः । यथा हेडाबुकादीनां ताम्बूलिककुविन्दचर्मकारादीनां च । कुलानि ज्ञातिसंबन्धिबन्धूनां समूहाः । एतेषां नृपाधिकृतादीनां चतुर्णां पुर्वं पुर्वं यद् यत् पूर्वं पठितं तत् तद् गुरु बलवज् ज्ञेयं वेदितव्यम् । नृणां व्यवहर्तॄणां व्यवहारविधौ व्यवहारदर्शनकार्ये एतद् उक्तं भवति । नृपाधिकृतैर् निर्णीते व्यवहारे पराजितस्य यद्य् अप्य् असंतोषः कुदृष्टिबुद्ध्या भवति तथापि न पूगादिषु पुनर् व्यवहारो भवति । एवं पूर्गनिर्णीते ऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णीते तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादिगमनम् । पूगनिर्णीते नृपधिकृतगमनं भवतीति । नारदेन पुनर् नृपाधिकृतैर् निर्णीते ऽपि व्यवहारे नृपगमनं भवतीत्य् उक्तम्-

कुलानि श्रेणयश् चैव गणाश् चाधिकृता नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्व् एषाम् उत्तरोत्तरम् ॥ इति । (न्स्म् मा १.७)

तत्र च नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः सपणे व्यवहारे निर्णीयमाने यद्य् असौ कुदृष्टवादी पराजितस् तदासौ दण्ड्यः । अथासौ जयति तदाधिकृताः सभ्या दण्ड्याः ॥ २.३० ॥

दुर्बलैर् व्यवहारदर्शिभिर् दृष्टो व्यवहारः परावर्तते प्रबलदृष्टस् तु न निवर्तत इत्य् उक्तम् । इदानीं प्रबलदृष्टो ऽपि व्यवहारः कश्चिन् निवर्तत इत्य् आह ।

बलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् । २.३१अब्
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस् तथा ॥ २.३१च्द् ॥

बलेन बलात्कारेण उपाधिना भयादिना विनिर्वृत्तान् निष्पन्नान् व्यवहारान् निवर्तयेत् । तथा स्त्रीभिः । नक्तं रात्राव् अस्त्रीभिर् अपि । अन्तरागारे गृहाभ्यन्तरे बहिर् ग्रामादिभ्यः शत्रुभिश् च कृतान् व्यवहारान् निवर्तयेद् इति संबन्धः ॥ २.३१ ॥

असिद्धव्यवहारिण आह ।

मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः । २.३२अब्
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ २.३२च्द् ॥

अपि च । मत्तो मदनीयद्रव्येण । उन्मत्त उन्मादेन पञ्चविधेन वातपित्तश्लेष्मनिपातग्रहसंभवेन उपसृष्टः । आर्तो व्याध्यादिना । व्यसनम् इष्टवियोगानिष्टप्राप्तिजनितं दुखं तद्वान् व्यसनी । बालो व्यवहारायोग्यः । भीतो ऽरातिभ्यः । आदिग्रहणात् पुरराष्ट्रादिविरुद्धः ।

पुरराष्ट्रविरुद्धश् च यश् च राज्ञा विसर्जितः ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥ (ध्को ११५ अस् फ़्रोम् न्स्म्)

इति मनुस्मरणात् । एतैर् योजितः कृतो व्यवहारो न सिध्यतिति । अनियुक्तासंबद्धकृतो ऽपि व्यवहारो न सिध्यतिति संबन्धः । यत् तु स्मरणम्-

गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः ।
विरोधे तु मिथस् तेषां व्यवहारो न सिध्यति ॥ (ध्को ११४)

इति तद् अपि गुरुशिष्यादीनाम् आत्यन्तिकव्यवहारप्रतिषेधपरं न भवति । तेषाम् अपि कथंचिद् व्यवहारस्येष्टत्वात् । तथा हि “शिष्यशिष्टिर् अवधेन, अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम्, अन्येन घ्नन् राज्ञा शास्यः” (ग्ध् २.४२–४४) इति गौतमस्मरणात्, “नोत्तमाङ्गे कथंचन” (म्ध् ८.३००) इति मनुस्मरणाच् च । यदि गुरुः कोपावेशवशान् महता दण्डेनोत्तमाङ्गे ताडयति तदा “स्मृतिव्यपेतेन मार्गेणाधर्षितः” (य्ध् २.५) शिष्यो यदि राज्ञे निवेदयति, तदा भवत्य् एव व्यवहारपदम् । तथा, “भूर् या पितामहोपात्ता” (य्ध् २.१२१) इत्यादिवचनात् पितामहोपात्ते भूम्यादौ पितापुत्रयोः स्वाम्ये समाने, यदि पिता विक्रयादिना पितामहोपात्तं भूम्यादि नाशयति, तदा पुत्रो यदि धर्माधिकारिणं प्रविशति तदा पितापुत्रयोर् अपि भवत्य् एव व्यवहारः । तथा,

दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता नाकामो दातुम् अर्हति ॥ (य्ध् २.१४७)

इति स्मरणाद् दुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भर्ता व्ययीकृत्य विद्यमानधनो ऽपि याच्यमानो न ददाति, तदा दम्पत्योर् अपीष्यत एव व्यवहारः । तथा भक्तदासस्य स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्यापि गर्भदासादीन् अधिकृत्य,

यश् चैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥ (न्स्म् ५.२८)

इति नारदोक्तत्वात्, तदमोचने पुत्रभागादाने च स्वामिना सह व्यवहारः केन वार्यते । तस्माद् दृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर् व्यवहार इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा ससभ्येनेति “गुरोः शिष्ये” इत्यादिश्लोकस्य तात्पर्यार्थः । अत्यन्तनिर्बन्धे तु शिष्यादीनाम् अप्य् उक्तरीत्या प्रवर्तनीयो व्यवहारः । यद् अपि,

एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥ (ध्को ११४)

इति नारदवचनम्, तत्रैकस्यापि, “गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः” (य्ध् २.१८७), तथा, “एकं घ्नन्तं बहूनां च” (य्ध् २.२२१) इत्यादिस्मरणाद् एकार्थैर् बहुभिः सार्धं व्यवहार इष्यते एवेति भिन्नार्थैर् बहुभिर् एकस्य युगपद्व्यवहारो न भवतीति द्रष्टव्यम् । स्त्रीणाम् इत्य् अपि गोपशौण्डिकादिस्त्रीणां स्वातन्त्र्याद् व्यवहारो भवत्य् एवेति तदन्यासां सकलस्त्रीणां पतिषु जीवत्सु तत्पारतन्त्र्याद् अनादेयो व्यवहार इति व्याख्येयम् । प्रेष्यजनस्य चेत्य् एतद् अपि प्रेष्यजनस्य स्वामिपारतन्त्र्यात् स्वार्थव्यवहारो ऽपि स्वाम्यनुज्ञयैव व्यवहारो नान्यथेति व्याख्येयम् ॥ २.३२ ॥

परावर्त्यं व्यवहारम् उक्त्वा इदानीं परावर्त्यं द्रव्यम् आह ।

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् । २.३३अब्
विभावयेन् न चेल् लिङ्गैस् तत्समं दण्डम् अर्हति ॥ २.३३च्द् ॥

प्रनष्टं हिरण्यादि शौल्किकस्थानपालादिभिर् अधिगतं राज्ञे समर्पितं यत् तद् राज्ञा धनिने दातव्यम्, यदि धनी रूपसंख्यादिभिर् लिङ्गैर् भावयति । यदि न भावयति तदा तत्समं दण्ड्यः, असत्यवादित्वात् । अधिगमस्य स्वत्वनिमित्तत्वात् स्वत्वे प्राप्ते तत्परावृत्तिर् अनेनोक्ता । अत्र च कालावधिं वक्ष्यति-

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।
अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ इति (य्ध् २.१७३) ।

मनुना पुनः संवत्सरत्रयम् अवधित्वेन निर्दिष्टम्-

प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यबाद् धरेत् स्वामी परतो नृपतिर् हरेत् ॥ इति । (म्ध् ८.३०)

तत्र वर्षत्रयपर्यन्तम् अवश्यं रक्षणीयम् । तत्र यदि संवत्सराद् अर्वाक् स्वाम्य् आगच्छेत् तदा कृत्स्नम् एव दद्यात् । यदा पुनः संवत्सराद् ऊर्ध्वम् आगच्छति तदा षड्भागं रक्षणमूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह-

आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥ इति । (म्ध् ८.३३)

तत्र प्रथमे वर्षे कृत्स्नम् एव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं, चतुर्थादिषु षठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थो ऽंशो ऽधिगन्त्रे दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थम् अंशम् अधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् । तथाह गौतमः “प्रनष्टस्वामिकम् अधिगम्य संवत्सरं राज्ञा रक्ष्यम्, ऊर्ध्वम् अधिगन्तुश् चतुर्थो ऽंशो राज्ञः शेषम्” इति (ग्ध् १०.३६–३८) । अत्र संवत्सरम् इत्य् एकवचनम् अविवक्षितम्, “राजा त्र्यब्दं निधापयेत्” (म्ध् ८.३०) इति स्मरणात् । “हरेत परतो नृपः” इत्य् एतद् अपि स्वामिन्य् अनागते त्र्यब्दाद् ऊर्ध्वं व्ययीकरणाभ्यनुज्ञापरम् । ततः परम् आगते तु स्वामिनि व्ययीभूते ऽपि द्रव्ये राजा स्वांशम् अवतार्य तत्समं दद्यात् । एतच् च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति- “पणान् एकशफे दद्यात्” इत्यादिना (य्ध् २.१७४) ॥ २.३३ ॥

रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर् नष्टस्याधिगमे विधिम् उक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेर् निधिशब्दवाच्यस्याधिगमे विधिम् आह ।

राजा लब्ध्वा निधिं दद्याद् द्विजेभ्यो ऽर्धं द्विजः पुनः । २.३४अब्
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः ॥ २.३४च्द् ॥
इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत् । २.३५अब्
अनिवेदितविज्ञातो दाप्यस् तं दण्डम् एव च ॥ २.३५च्द् ॥

उक्तलक्षणं निधिं राजा लब्ध्वा अर्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोशे निवेशयेत् । ब्राह्मणस् तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वम् एव गृह्णीयात्, यस्माद् असौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्ब्राह्मणव्यतिरिक्तेन अविद्वद्ब्राह्मणक्षत्रियादिना निधौ लब्धे राज षष्ठांशम् अधिगन्त्रे दत्त्वा शेषं निधिं स्वयम् आहरेत् । यथाह वसिष्ठः “अप्रज्ञायमानं वित्तं यो ऽधिगच्छेद् राजा तद् धरेत् षष्ठम् अंशम् अधिगन्त्रे दद्यात्” (वध् ३.१३) इति । गौतमो ऽपि “निध्यधिगमो राजधनं भवति, न ब्राह्मणस्याभिरूपस्य, अब्राह्मणो व्याख्याता षष्ठम् अंशं लभेतेत्य् एके” (ग्ध् १०.४३–४५) इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश् चासौ विज्ञातश् च राज्ञे ऽप्य् अनिवेदितविज्ञातः यः कश्चिन् निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश् च राज्ञा स सर्वं निधिं दाप्यो दण्डं च सक्त्यपेक्षया । अथ निधेर् अपि स्वाम्य् आगत्य रूपसंख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्वा षष्ठं द्वादशं वांशं स्वयम् आहरेत् । यथाह मनुः ।

ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥ इति । (म्ध् ८.३५)

अंशविकल्पस् तु वर्णकालाद्यपेक्षया वेदितव्यः ॥ २.३४ ॥ २.३५ ॥

चौरहृतं प्रत्य् आह ।

देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । २.३६अब्
अददद् धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ २.३६च्द् ॥

चौरैर् हृतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् द्रव्यं तस्मै राज्ञा दातव्यम् । हि यस्माद् अददद् अप्रयच्छन् यस्य तद् अपहृतं द्रव्यं तस्य किल्बिषम् आप्नोति । तस्य चौरस्य च । यथाह मनुः-

दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर् हृतं धनम् ।
राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् ॥ इति । (म्ध् ८.४०)

यदि चौरहस्ताद् आदाय स्वयम् उपभुङ्क्ते तदा चौरस्य किल्बिषम् आप्नोति । अथ चौरहृतम् उपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरहृताहरणाय यतमानो ऽपि न शक्नुयाद् आहर्तुं तदा तावद् धनं स्वकोशाद् दद्यात् । यथाह गौतमः “चौरहृतम् अवजित्य यथास्थानं गमयेत्, कोशाद् वा दद्यात्” )ग्ध् १०.४६–४७) इति । कृष्णद्वैपायनो ऽपि-

प्रत्याहर्तुं न शक्तस् तु धनं चौरैर् हृतं यदि ।
स्वकोशात् तद् धि देयं स्याद् अशक्तेन महीक्षिता ॥ इति ॥ (म्भ् १२.७६.१०) २.३६ ॥

**इत्य् असाधारणव्यवहारमातृअकाप्रकरणम् **

**अथ ऋणादानप्रकरणम् **

साधारणासाधारणरूपां व्यवहारमातृकाम् अभिधायाधुनाष्टादशानां व्यवहारपदानाम् आद्यम् ऋणादानपदं दर्शयति “अशीतिभागो वृद्धिः स्यात्” इत्यादिना “मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने” इत्येवम् अन्तेन (य्ध् २.३७–६४) । तच् च ऋणादानं सप्तविधम् । ईदृशम् ऋणं देयं ईदृशम् अदेयम्, अनेनाधिकारिणा देयम्, अस्मिन् समये देयम्, अनेन प्रकारेण देयम् इत्य् अधमर्णे पञ्चविधम् । उत्तमर्णे दानविधिः, आदानविधिश् चेति द्विविधम् इति । एतच् च नारदेन स्पष्टीकृतम्-

ऋणं देयम् अदेयं च येन यत्र यया च यत् ।
दानग्रहणधर्माभ्याम् ऋणादानम् इति स्मृतम् ॥ इति । (न्स्म् १.१)

तत्र प्रथमम् उत्तमर्णस्य दानविधिम् आह तत्पूर्वकत्वाद् इतरेषाम् ।

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके । २.३७अब्
वर्णक्रमाच् छतं द्वित्रिचतुःपञ्चकम् अन्यथा ॥ २.३७च्द् ॥

मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यद् आधीयते, आधिर् इति यावत् । बन्धकेन सह वर्तत इति सबन्धकः प्रयोगस् तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीतितमो भागो वृद्धिर् धर्म्या भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धर्म्यं भवति । ब्राह्मणे ऽधमर्णे द्विकं शतं क्षत्रिये त्रिकं वैश्ये चतुष्कं शूद्रे पञ्चकं मासि मासीत्य् एव द्वौ वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर् दीयते इति द्वित्रिचतुःपञ्चकं शतम् । “संख्याया अतिशदन्तायाः कन्” (पाण् ५.१.२२) इत्यनुवृत्तौ, “तद् अस्मिन् वृद्ध्यायलाभशुल्कोपदादीयते” (पाण् ५.१.४७) इति कन् ।[^२४] इयं च वृद्धिर् मासि गृह्यत इति कालिका । इयम् एव वृद्धिर् दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथा च नारदेन-

कायिका कालिका चैव कारिता च तथा परा ।
चक्रवृद्धिश् च शास्त्रेषु तस्य वृद्धिश् चतुर्विधा ॥ (न्स्म् १.८७)

इत्य् उक्त्वा, उक्तम्-

कायाविरोधिनी शश्वत् पणपादादिकायिका ।
प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥
वृद्धिः सा कारिता नामाधमर्णेन स्वयं कृता ।
वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता ॥ इति ॥ (न्स्म् १.८८–८९) २.३७ ॥

ग्रहीतृविशेषेण प्रकारान्तरम् आह ।

कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् । २.३८अब्

कान्तारम् अरण्यं तत्र गच्छतीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिकलाभार्थम् अतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च समुद्रगास् ते विंशकं शतं मासि मासीत्य् एव । एतद् उक्तं भवति- कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश् च विंशकम् उत्तमर्ण आदद्यान् मूलविनाशस्यापि शङ्कितत्वाद् इति ॥

इदानीं कारितां वृद्धिम् आह ।

दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ २.३८च्द् ॥

सर्वे वा ब्राह्मणादयो ऽधमर्णा अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतवृद्धिं सर्वासु जातिषु दद्युः । क्वचिद् अकृतापि वृद्धिर् भवति । तथाह नारदः ।

न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।
अनकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥ इति । (न्स्म् १.९६)

यस् तु याचितकं गृहीत्वा देशान्तरं गतस् तं प्रति कात्यायनेनोक्तम् ।

यो याचितकम् आदाय तम् अदत्त्वा दिशं व्रजेत् ।
ऊर्ध्वं संवत्सरात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥ इति । (क्स्म् ५०२)

यश् च याचितकम् आदाय याचित् ऽप्य् अदत्त्वा देशान्तं व्रजति तं प्रति तेनैवोक्तम् ।

कृतोद्धारम् अदत्त्वा यो याचितस् तु दिशं व्रजेत् ।
ऊर्ध्वं मासत्रयात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥ इति । (क्स्म् ५०३)

यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याचनकालाद् आरभ्याकारितां वृद्धिं दापयेद् राजा । यथाह ।

स्वदेशे ऽपि स्थितो यस् तु न दद्याद् याचितः क्वचित् ।
तं ततो ऽकारितां वृद्धिम् अनिच्छन्तं च दापयेत् ॥ इति । (क्स्म् ५०४)

अनाकारितवृद्देर् अपवादो नारदेनोक्तः ।

पण्यमूल्यं भृतिर् न्यासो दण्डो यश् च प्रकल्पितः ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥ इति । (न्स्म् ४.७)

अविवक्षिता अनाकारिता इति ॥ २.३८ ॥

अधुना द्रव्यविशेषे वृद्धिविशेषम् आह ।

सन्ततिस् तु पशुस्त्रीणां । २.३९अब्

पशुस्त्रीणां सन्ततिर् एव वृद्धिः । पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचर्यार्थिनः ।

अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणम् अन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धिर् इत्य् अपेक्षित आह ।

**रसस्याष्टगुणा परा । २.३९च्द् **
वस्त्रधान्यहिर्ण्यानां चतुस्त्रिद्विगुणा परा ॥ २.३९च्द् ॥

रसस्य तैलघृतादेर् वृद्धिग्रहणम् अन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्ध्या वर्धमानस्याष्टगुणा वृद्धिः परा । नातः परं वर्धते । तथा वस्त्रधान्यहिर्ण्यानां यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्यम् उक्तम्- “द्विगुणम् हिरण्यं त्रिगुणम् धान्यं । धान्येनैव रसा व्याख्याताः, पुष्पमूलफलानि च । तुलाधृतम् अष्टगुणम्” इति (वध् २.४४–४७) । मनुना तु धान्यस्य पुष्पमूलफलादीनां च पञ्चगुणत्वम् उक्तम्-

धान्ये शदे लवे वाह्ये नातिक्रामति पञ्चताम् । इति । (म्ध् ८.१५१)

शदः क्षेत्रफलं पुष्पमूलफलादि । लवो मेषोर्णाचमरीकेशादिः । वाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच् च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्न् एव वा पुरुषे रेकसेकाभ्यां अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्य् अतिक्रम्य पूर्ववद् वर्धते । सकृत्प्रयोगे ऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वा वृद्ध्याहरणे ऽधमर्णदेयस्य द्वैगुण्यसंभवात् पूर्वाहृतवृद्ध्या सह द्वैगुण्यम् अतिक्रम्य वर्धत एव । यथाह मनुः-

कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहृता । इति । (म्ध् ८.१५१)

सकृदाहितेत्य् अपि पाठो ऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं तस्य वृद्धिः कुसीदवृद्धिः सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाधमर्णाद् आहृता द्वैगुण्यम् अत्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम् “चिरस्थाने द्वैगुण्यं प्रयोगस्य” (ग्ध् १२.३१) इति । प्रयोगस्येत्य् एकवचननिर्देशात् प्रयोगान्तरकरणे द्वैगुण्यातिक्रमो ऽभिप्रेतः । चिरस्थान इति निर्देशात् शनैः शनैर् वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ २.३९ ॥

ऋणप्रयोगधर्मा उक्ताः । सांप्रतं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते ।

प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् । २.४०अब्
साध्यमानो नृपं गच्छेद् दण्ड्यो दाप्यश् च तद् धनम् ॥ २.४०च्द् ॥

प्रपन्नम् अभ्युपगतम् अधमर्णेन धनं साक्ष्यादिभिर् भावितं वा साध्ययन् प्रत्याहरन् धर्मादिभिर् उपायैर् उत्तमर्णो नृपतेर् न वाच्यो निर्वारणीयो न भवति ॥ धर्मादयश् चोपाया मनुना दर्शिताः-

धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ इति । (म्ध् ८.४९)

धर्मेण प्रीतियुक्तेन सत्यवचनेन । व्यवहारेण साक्षिलेख्याद्युपायेन । छलेन उत्सवादिव्याजेन भूषणादिग्रहणेन । आचरितेन अभोजनेन । पञ्चमेनोपायेन बलेन निगडबन्धनादिना उपचयार्थं प्रयुक्तं द्रव्यम् एतैर् उपायैर् आत्मसात्कुर्याद् इति । “प्रपन्नं साधयन्न् अर्थं न वाच्यः” इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतद् एव स्पष्टीकृतं कात्यायनेन ।

पीडयेद् यो धनी कश्चिद् ऋणिकं न्यायवादिनम् ।
तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥ इति । (क्स्म् ५८९)

यस् तु धर्मादिभिर् उपायैः प्रपन्नम् अर्थं साध्यमानो याच्यमानो नृपं गच्छेद् राजानम् अभिगम्य साधयन्तम् अभियुङ्क्ते स दण्ड्यो भवति, शक्त्यनुसारेण धनिने तद्धनं दाप्यश् च । राज्ञा दापने च प्रकारा दर्शिताः ।

राजा तु स्वामिने व्प्रं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस् तु दुष्टान् संपीड्य दापयेत् ॥
रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥ इति । (क्स्म् ४७७–७८)

साध्यमानो नृपं गच्छेन्न् इत्य् एतत् स्मृत्याचारव्यपेतेनेत्य् अस्य प्रत्युदाहरणं बोद्धव्यम् ॥ २.४० ॥

बहुषूत्तमर्णिकेषु युगपत् प्राप्तेष्व् एको ऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्य् अपेक्षित आह ।

गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः । २.४१अब्
दत्त्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥ २.४१ च्द् ॥

समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधमर्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ २.४१ ॥

यदा पुनर् उत्तमर्णो दुर्बलः प्रतिपन्नम् अर्थं धर्मादिभिर् उपायैः साधयितुम् अशक्नुवन् राज्ञा साधितार्थो भवति तदा ऽधमर्णस्य दण्डम् उत्तमर्णस्य च भृतिदानम् आह ।

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् । २.४२अब्
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णिकः ॥ २.४२च्द् ॥

अधमर्णिको राज्ञा प्रतिपन्नार्थात् साधिताद् दशकं शतं दाप्यः । प्रतिपन्नस्य साधितार्थस्य दशमम् अंशं राजा ऽधमर्णिकाद् दण्डरूपेण गृह्णीयाद् इत्यर्थः । उत्तमर्णस् तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितमं भागम् उत्तमर्णाद् राजा भृत्यर्थं गृह्णीयाद् इत्य् अर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शितः “निह्नवे भावितो दद्यात्” (य्ध् २.५) इत्यादिना ॥ २.४२ ॥

सधनम् अधमर्णिकं प्रत्युक्तम् । अधुना निर्धनम् अधमर्णिकं प्रत्याह ।

हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् । २.४३अब्
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥ २.४३च्द् ॥

ब्राह्मणादिर् उत्तमर्णो हीनजातिं क्षत्रियादिजातिं परिक्षीणं निर्धनम् ऋणार्थं ऋणनिवृत्त्यर्थं कर्म स्वकर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोधेन । ब्राह्मणस् तु पुनः परिḳसीणो निर्धनः शनैः शनैः यथोदयं यथासंभवम् ण्र्णं दाप्यः । अत्र च हीनजातिग्रहणं समानजातेर् अप्य् उपलक्षणम् । अतश् च समानजातिम् अपि परिक्षीणं यथोचितं कर्म कारयेत् । ब्राह्मणग्रहणं च श्रेयोजातेर् उपलक्षणम् । अतश् च क्षत्रियादिर् अपि परिक्षीणो वैश्यादेः शनैः शनैर् दाप्यो यथोदयम् । एतद् एव मनुना स्पष्टीकृतम् ।

कर्मणापि समं कुर्याद् धनिकेनाधमर्णिकः ।
समो ऽपकृष्टजातिश् च दद्याच् छ्रेयांस् तु तच् छनैः ॥ इति । (म्ध् ८.१७७)

उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेशम् आत्मानम् अधमर्णः कर्मणा कुर्याद् इत्य् अर्थः ॥ २.४३ ॥

मध्यस्थस्थापितं न वर्धते ।

दीप्यमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । २.४४अब्
मध्यस्थस्थापितं चेत् स्याद् वर्धते न ततः परम् ॥ २.४४च्द् ॥

किं च, उपचयार्थं प्रयुक्तं धनं अधमर्णेन दीयमानम् उत्तमर्णो वृद्धिलोभाद् यदि न गृह्णाति, तदाधमर्णेन मध्यमहस्ते स्थापितं यदि स्यात्, तदा ततः स्थापनाद् ऊर्ध्वं न वर्धते । अथ स्थापितम् अपि याच्यमानो न ददाति ततः पूर्ववद् वर्धत एव ॥ २.४४ ॥

इदानीं देयम् ऋणं यदा येन च देयं तद् आह ।

अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् । २.४५अब्
दद्युस् तद् रिक्थनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ २.४५च्द् ॥

अविभक्तैर् बहुभिः कुटुम्बार्थम् एकैकेन वा यद् ऋणं कृतं तद् ऋणं कुटुम्बी दद्यात् । तस्मिन् प्रेते प्रोषिते वा तद्रिक्थिनः सर्वे दद्युः ॥ २.४५ ।

येन देयम् इत्य् अत्र प्रत्युदाहरणम् आह ।

न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता । २.४६अब्
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥ २.४६च्द् ॥

पत्या कृतम् ऋणं योषिद् भार्या नैव दद्यात् । पुत्रेण कृतं योषिन् माता न दद्यात् । तथा पुत्रेण कृतम् पिता न दद्यात् । तथा भार्याकृतं पतिर् न दद्यात् । कुटुम्बार्थाद् ऋत इति सर्वशेषः । अतश् च कुटुम्बार्थं येन केनापि कृतं तत् कुटुम्बिना देयम् । तदभावे तद्दायहरैर् देयम् इत्य् उक्तम् एव ॥ २.४६ ॥

“पुत्रपौत्रैर् ऋणं देयम्” (य्ध् २.५०) इति वक्ष्यति । तस्य पुरस्ताद् अपवादम् आह ।

सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् । २.४७अब्
वृथादानं तथैवेह पुत्रो दद्यान् न पैतृकम् ॥ २.४७च्द् ॥

सुरापानेन यत्कृतम् ऋणं कामकृतं स्त्रीव्यसननिमित्तं द्यूते पराजयनिमित्तं दण्डशुल्कयोर् अविशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो यत् प्रतिज्ञातम्,

धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥ (ध्को ७१५)

इति स्मरणात् । एतद् ऋणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टकम् इत्य् अवशिष्टग्रहणात् सर्वं दातव्यम् इति न मन्तव्यम्,

दण्डं वा दण्डशेषं वा शुल्कं तच्छेषम् एव वा ।
न दातव्यं तु पुत्रेण यच् च न व्यावहारिकम् ॥ (ध्को ७१४)

इत्य् औशनसस्मरणात् । गौतमेनाप्य् उक्तम् “मद्यशुल्कद्यूतकामदण्डा न पुत्रान् अध्यावहेयुः” इति (ग्ध् १२.४१) । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयम् ऋणम् उक्तम् ॥ २.४७ ॥

“न पतिः स्त्रीकृतं तथा” (य्ध् २.४६) इत्यस्यापवादम् आह ।

गोपशौण्डिकशैलूषरजकव्याधयोषिताम् । २.४८अब्
ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥ २.४८च्द् ॥

गोपो गोपालः । शौण्डिकः सुराकारः । शैलूषो नटः । रजको वस्त्राणां रञ्जकः । व्याधो मृगयुः । एतेषां योषिद्भिर् यद् ऋणं कृतं तत् तत्पतिभिर् देयम् । यस्मात् तेषां वृत्तिर् जीवनं तदाश्रया योषिदधीना । “यस्माद् वृत्तिस् तदाश्रया” इति हेतुव्यपदेशाद् अन्ये ऽपि ये योषिदधीनजीवनास् ते ऽपि योषित्कृतम् ऋणं दद्युर् इति गम्यते ॥ २.४८ ॥

“पतिकृतं भार्या न दद्यात्” (य्ध् २.४६) इत्य् अस्यापवादम् आह ।

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् । २.४९अब्
स्वयं कृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अरहति ॥ २.४९च्द् ॥

मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत् प्रतिपन्नं तत् पतिकृतम् ऋणं देयम् । यच् च पत्या सह भार्यया ऋणं कृतं तद् अपि भर्त्रभावे भार्यया अपुत्रया देयम् । यच् च स्वयं कृतं ऋणं तद् अपि देयम् ।

ननु प्रतिपन्नादि त्रयं स्त्रिया देयम् इति न वक्तव्यम् संदेहाभावात् ।
उच्यते-
भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥ (म्ध् ८.४१६)

इति वचनान् निर्धन्त्वेन प्रतिपन्नादिष्व् अदानाशङ्कायाम् इदम् उच्यते, “प्रतिपन्नं स्त्रिया देयम्” इत्यादि । न चानेन वचनेन स्त्र्यादीनां निर्धनत्वम् अभिधीयते, पारतन्त्र्यमात्रप्रतिपादनपरत्वात् । एतच् च विभागप्रकरणे स्पष्टीकरिष्यते ।

“नान्यत् स्त्री दातुम् अर्हति” इत्य् एतत् तर्हि न वक्तव्यम्, विधानेनैवान्यत्र प्रतिषेधसिद्धेः ।
उच्यते- “प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतअम्” इत्य् एतयोर् अपवादार्थम् उच्यते । अन्यत् सुराकामादिवचनोपात्तं प्रतिपन्नम् अपि पत्या सह कृतम् अपि न देयम् इति ॥ २.४९ ॥

पुनर् अपि यद् ऋणं दातव्यं येन च दातव्यं यत्र च काले दातव्यं तत् त्रितयम् आह ।

पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि वा । २.५०अब्
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥ २.५०च्द् ॥

पिता यदि दातव्यम् ऋणम् अदत्त्वा प्रेतो दूरदेशं गतो ऽचिकित्सनीयव्याध्याद्यभिभूतो वा तदा तत्कृतम् ऋणम् आख्यापने ऽवश्यं देयं पुत्रेण पौत्रेण वा पितृधनाभावे ऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमो ऽप्य् अयम् एव- पित्रभावे पुत्रः पुत्राभावे पौत्र इति पुत्रेण पौत्रेण वा निह्नवे कृते अर्थिना साक्ष्यादिभिर् भावितम् ऋणं देयं पुत्रपौत्रैर् इत्य् अन्वयः । अत्र पितरि प्रोषित इत्य् एतावद् उक्तम् कालविशेषस् तु नारदेनोक्तो द्रष्टव्यः ।

नार्वाक् संवत्सराद् विंशात् पितरि प्रोषिते सुतः ।
ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भातर्य् अथापि वा ॥ इति । (न्स्म् १.११)

प्रेते ऽप्य् अप्राप्तव्यवहारकालो न दद्यात् । प्राप्तव्यवहारकालस् तु दद्यात् । स च कालस् तेनैव दर्शितः ।

गर्भस्तैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बाल आ षोडशाद् वर्षात् पौगण्डश् चेति शब्द्यते ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥ इति । (न्स्म् १.३१–३२)

यद्य् अपि पितृमरणाद् ऊर्ध्वं बालो ऽपि स्वन्त्रन्त्रो जातस् तथापि नर्णभाग् भवति । यथाह ।

अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽपि हि नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥ इति । (न्स्म् १.२७)

तथा आसेधाह्वाननिषेधश् च दृश्यते ।

अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्या न चैतान् आह्वयेन् नृपः ॥ इति । (न्स्म् १.४७)

तस्मात् ।

अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।
ऋणात् पिता मोचनीयो यथा नो नरकं व्रजेत् ॥ इति । (न्स्म् १.६)

पुत्रेण व्यवहाराज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्याप्य् अधिकारः “न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात्” (ग्ध् २.५) इति गौतमस्मरणात् । पुत्रपौत्रैर् इति बहुवचननिर्देशाद् बहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं दद्युः । अविभक्ताश् चेत् संभूयसमुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूत एव वा दद्याद् इति गम्यते । यथाह नारदः ।

अत ऊर्ध्वं पितुः पुत्रा ऋणं दद्युर् यथांशतः ।
अविभक्ता विभक्ता वा यस् तां चोद्वहते धुरम् ॥ इति । (न्स्म् १.२)

अत्र च यद् यपि पुत्रपौत्रैर् ऋणं देयम् इत्य् अविशेषेणोक्तं तथापि पुत्रेण यथा पिता सवृद्धिकं ददाति तथैव देयम् । पौर्त्रेण तु समं मूलम् एव दातव्यं न वृद्धिर् इति विशेषो ऽवगन्तव्यः,

ऋणम् आत्मीयवत् पित्र्यं देयं पुत्रैर् विभवितम् ।
पैतामहं समं देयम् अदेयं तत्सुतस्य तु ॥ (बृस्म् १.१०.११४)

इति बृहस्पतिस्मरणात् । अत्र विभावितम् इत्य् अविशेषोपादानात् साक्षिविभावितम् इत्य् अत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समण् यावद् गृहीतं तावद् एव देयं न वृद्धिः । तत्सुतस्य प्रपौत्रस्यादेयम् अगृहीतधनस्य । एतच् चोत्तरश्लोके स्पष्टीक्रियते ॥ २.५० ॥

ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास् तेषां समवाये क्रमो ऽपि दर्शितः । इदानीं कर्त्रन्तरसमवाये च क्रमम् आह ।

रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च । २.५१अब्
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ २.५१च्द् ॥

अन्यदीयं द्रव्यम् अन्यस्य क्रयादिव्यतिरेकेण यत् स्वीयं भवति तद् रिक्थम् । विभागद्वारेण रिक्थं गृह्णातीति रिक्थाग्राहः स ऋणं दाप्यः । एतद् उक्तं भवति । यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतम् ऋणं दाप्यो न चौरादिः । योषितं भार्यां गृह्णातीति योषिद्ग्राहः स तथैवर्णं दाप्यः । यो यदीयां योषितं गृह्णाति स तत्कृतम् ऋणं दाप्यः । योषितो ऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाद् भेदेन निर्देशः । पुत्रश् चानन्याश्रितद्रव्य ऋणं दाप्यः । अन्यम् आश्रितम् अन्याश्रितं मातृपितृसंबन्धिद्रव्यं यस्यासाव् अन्याश्रितद्रव्यः न अन्याश्रितद्रव्यो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिन ऋणं दाप्य इति संबन्धः । एतेषां समवाये क्रमश् च पाठक्रम एव रिक्थग्राह ऋणं दाप्यस् तदभावे योषिद्ग्राहस् तदभावे पुत्र इति ।

नन्व् एतेषां समवाय एव नोपपद्यते,
न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । (म्ध् ९.१८५)

इति पुत्रे सत्य् अन्यस्य रिक्थग्रहणासंभवात् । योषिद् ग्राहो ऽपि नोपपद्यते,

न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते । (म्ध् ५.१६२)

इति स्मरणात् । तथा तदृणं पुत्रो दाप्य इत्य् अप्य् अयुक्तम्, “पुत्रपौत्रैर् ऋणं देयम्” (य्स्ह् २.५०) इत्य् उक्तत्वात् । “अनन्याश्रितद्रव्यः” इति विशेषणम् अप्य् अर्थकम्, पुत्रे सति द्रव्यस्यान्याश्रयणासंभवात्, संभवे च रिक्थग्राह इत्य् अनेनैव गतार्थत्वात् । पुत्रहीनस्य रिक्थिन इत्य् एतद् अपि न वक्तव्यम् । पुत्रे सत्य् अपि रिक्थग्राह ऋणं दाप्य इति स्थितम् । असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति सिद्धम् एवेति ।

अत्रोच्यते- पुत्रे सत्य् अप्य् अन्यो रिक्थग्राही संभवति । क्ल्ịबान्धबधिरादीनां पुत्रत्वे ऽपि रिक्थहरत्वाभावात् । तथा च क्लीबादीन् अनुक्रम्य “भर्तव्याः स्युर् निरंशकाः” (य्ध् २.१४०) इति वक्ष्यति । तथा “सवर्णापुत्रो प्य् अन्यायवृत्तिर् न लभेतैकेषाम्” (ग्ध् २८.४०) इति गौतमस्मरणात् । अतश् च क्लीबादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णापुत्रे सति रिक्थाग्राही पितृव्यतत्पुत्रादिः । योषिद्ग्राहो यद्य् अपि शास्त्राविरोधेन न संभवति तथाप्य् अतिक्रान्तनिषेधः पूर्वपतिकृतर्णापाकरणाधिकारी भवत्य् एव । योषिद्ग्राहो यश् चतसृणां स्वैरिणीनाम् अन्तिमां गृह्णाति, यश् च पुनर्भुवां तिसृणां प्रथमाम् । यथाह नारधः-
परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्मणा ॥ (न्स्म् १२.४५–४६)
देशधर्मान् अवेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥ (न्स्म् १२.५२)

उत्पन्नसाहसा उत्पन्नव्यभिचारा ।

असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥
स्त्रीप्रसूता ऽप्रसूता वा पत्याव् एव तु जीवति ।
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥ (न्स्म् १२.४८–४९)
कौमारं पतिम् उत्सृज्य या त्व् अन्यं पुरुषं श्रिता ।
पुनः पत्युर् ग्रहं यायात् सा द्वितीया प्रकीर्तिता ॥ (न्स्म् १२.४७)
मृते भर्तरि तु प्राप्तान् देवरादीन् अपास्य या ।
उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥
प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहम् इत्य् उपगता सा चतुर्थी प्रकीर्तिता ॥ (न्स्म् ५०–५१)
अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद् यस् ताम् उपाश्रितः ॥ इति । (ध्को ७०२)

तथान्यो ऽपि योषिद्ग्राह ऋणापाकरणे ऽधिकारी तेनैव दर्शितः ।

या तु सप्रधनैव स्त्री सापत्या वान्यम् आश्रयेत् ।
सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥ (न्स्म् १.१८)

प्रकृष्टेन धनेन सह वर्तत इति सप्रधना । बहुधनेति यावत् । तथा ।

अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते सैव चास्य धनं स्मृतम् ॥ इति । (न्स्म् १९)

पुत्रस्य पुनर् वचनं क्रमार्थम् । “अनन्याश्रितद्रव्यः” इति बहुषु पुत्रेषु रिक्थाभावे ऽप्य् अंशग्रहणयोग्यस्यैवर्णापाकरणे ऽधिकारो नायोग्यस्यान्धादेर् इत्य् एवम् अर्थम् । पुत्रहीनस्य रिक्थिन इत्य् एतद् अपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्या नान्यथेत्य् एवम् अर्थम् । पुत्रपौत्रौ च रिक्थग्रहणाभावे ऽपि दाप्याव् इत्य् उक्तम् । यथाह नारदः ।

क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥ (न्स्म् १.४)

इति सर्वं निरवद्यम् ॥

यद् वा योषिद्ग्राहाभावे पुत्रो दाप्य इत्य् उउक्तं । पुत्राभावे योषिद्ग्राहो दाप्य इत्य् उच्यते । पुत्रहीनस्य रिक्थिन इति रिक्थशब्देन योषिद् एवोच्यते, “सैव चास्य धनं स्मृतम्” (न्स्म् १.१९) इति स्मरणात्,
यो यस्य हरते दारान् स तस्य हरते धनम् । (न्स्म् १.१८* अद्दितिओन्)

इति च ॥

ननु योषिद्ग्राहाभावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्ग्राह इति परस्परविरुद्धम् । उभयसद्भावे न कश्चिद् दाप्य इति ।
नैष दोषः । अन्तिमस्वैरिणीग्राहिणः प्रथम्पुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश् चाभावे पुत्रो दाप्यः । पुत्राभावे तु निर्धननिरपत्ययोषिद्ग्राही दाप्य इति । एतद् एवोक्तं नारदेन ।
धनस्त्रीहारिपुत्राणाम् ऋणभाग्यो धनं हरेत् ।
पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥ इति । (न्स्म् १.२०)

धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत् स ऋणभाक् । पुत्रो ऽसतोः स्त्रीधनिनोः स्त्री च धनं च स्त्रीधने ते विद्येते ययोस् तौ स्त्रीधनिनौ तयोः स्त्रीधनिनोर् असतोः पुत्र एव ऋणभाक् भवति । धनिपुत्रयोर् असतोः स्त्रीहार्य् एवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक् पुत्राभावे स्त्रीहारीति विरोधाभासपरिहारः पूर्ववत् । पुत्रहीनस्य रिक्थिन इत्य् अस्यान्या व्याख्या- एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्या इत्य् अपेक्षायाम् उत्तमर्णस्य दाप्यास् तदभावे तत्पुत्रादेः पुत्राद्यभावे कस्य दाप्या इत्य् अपेक्षायाम् इदम् उपतिष्ठते “पुत्रहीनस्य रिक्थिनः” इति । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहणयोग्यः सपिण्डादिस् तस्य रिक्थिनो दाप्याः । तथा च नारदेन,

ब्राह्मणस्य तु यद्देयं सान्वयस्य च नास्ति चेत् ।
निर्वपेत् तत्सकुल्येषु तदभावे ऽस्य बन्धुषु ॥ (न्स्म् १.९९)

इत्य् अभिहितम् ।

यदा तु न सकुल्याः स्युर् न च संबन्धिबान्धवाः ।
तदा दद्याद् द्विजेभ्यस् तु तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥ इति ॥ (न्स्म् १.१००) २.५१ ॥

अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन् प्रसङ्गाद् अन्यद् अपि प्रतिषेधति ।

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि । २.५२अब्
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ २.५२च्द् ॥

प्रतिभुवो भावः प्रतिभाव्यं । भ्रातॄणां दम्पत्योः पितापुत्रयोश् चाविभक्ते द्रव्ये द्रव्यविभागात् प्राक् प्रातिभाव्यम् ऋणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपि तु प्रतिषिद्धं, साधारणधनत्वात्, प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसानत्वात्, ऋणस्य चावश्यप्रतिदेयत्वात् । एतच् च परस्परानुमतिव्यतिरेकेण । परस्परानुमत्या त्व् अविभक्तानाम् अपि प्रातिभाव्यादि भवत्य् एव । विभागाद् ऊर्ध्वं तु प्रस्परानुमतिव्यतिरेकेणापि भवति ॥

ननु दम्पत्योर् विभागात् प्राक् प्रातिभाव्यादिप्रतिषेधो न युज्यते, तयोर् विभागाभावेन विशेषणानर्थक्यात् । विभागाभावश् च आप्स्तम्बेन दर्शितः - “जायापत्योर् न विभागो विद्यते” (आप्ध् २.१४.१६) इति ।
सत्यम् । श्रौतस्मार्ताग्निसाध्येषु कर्मसु तत्फलेषु च विभागो विद्यते इत्य् उक्त्वा किम् इति न विद्यते इत्य् अपेक्षायां, हेतुम् उक्तवान् “पाणिग्रहणाद् धि सहत्वं कर्मसु तथा पुण्यफलेषु च” (आप्ध् २.१४.१७–१८) इति । हि यस्मात् पाणिग्रहणाद् आरभ्य कर्मसु सहत्वं श्रूयते “जायापत्य् अग्निम् आदधीयाताम्” इति । तस्माद् आधाने सहाधिकाराद्, आधानसिद्धाग्निसाध्येषु कर्मसु सहाधिकारः । तथा “कर्म स्मार्तं विवाहाग्नौ” (य्ध् १.९७) इत्यादिस्मरणाद् विवाहसिद्धाग्निसास्हेष्व् अपि कर्मसु सहाधिकार एव । अतश् चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथग् एवाधिकारः संपद्यते । तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते- “दिवि ज्योतिर् अजरम् आरभेताम्” इत्यादि । येषु पुण्यकर्मसु सहाधिकारस् तेषां फलेषु सहत्वम् इति बोद्धव्यं, न पुनः पूर्तानां भर्त्रनुज्ञयानुष्ठितानां फलेष्व् अपि ।
ननु द्रव्यस्वामित्वे ऽपि सहत्वम् उक्तम्- “द्रव्यपरिग्रहेषु च, न हि भर्तुर् विप्रवासे नैमित्तिके दाने स्तेयम् उपदिशन्ति” (आप्ध् २.१४.१९–२०) इति ।
सत्यम् । द्रव्यस्वामित्वं पत्न्या दर्शितम् अनेन न पुनर् विभागाभावः । यस्माद् द्रव्यपरिग्रहेषु चेत् युक्त्या तत्र कारणम् उक्तम्- “भर्तुर् विप्रवासे नैमित्तिके ऽवश्यकर्तव्ये दाने ऽतिथिभोजनभिक्षाप्रदानादौ हि यस्मान् न स्तेयम् उपदिशन्ति मन्वादयस् तस्माद् भार्त्याया अपि द्रव्यस्वामित्वम् अस्त्य् अन्यथा स्तेयं स्यात्” इति । तस्माद् भर्तुर् इच्छया भार्याया अपि द्रव्यविभागो भवत्य् एव न स्वेच्छया । यथा वक्ष्यति-
यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः । इति । (य्ध् २.११५) २.५२ ॥

अधुना प्रातिभाव्यं निरूपयितुम् आह ।

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । २.५३अब्
आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥ २.५३च्द् ॥

प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः । तच् च विषयभेदात् त्रिधा भिद्यते । यथा- दर्शने दर्शनापेक्षायां एनं दर्शयिष्यामीति । प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते यतो ऽमुकस्य पुत्रो ऽयं उर्वराप्रायभूर् अस्य ग्राह्मवरो वास्तीति । दाने यद्य् अयं न ददाति तदानीम् अहम् एव दास्यामीति । “प्रातिभाव्यं विधीयते” इति प्रत्येकं संबध्यते । आद्यौ तु दर्शनप्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिवारे च दाप्यौ राज्ञा प्रस्तुतं धनम् उत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः ॥ वितथ इत्य् एव शाठ्येन निर्धनत्वेन वा ऽधमर्णे ऽप्रतिकुर्वति “इतरस्य सुता अपि” (य्ध् २.११९) इति वदता पूर्वयोः सुता न दाप्या इत्य् उक्तम् । सुता इति वदता न पौत्रा दाप्या इति दर्शितम् ॥ २.५३ ॥

एतद् एव स्पष्टीकर्तुम् आह ।

दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा । २.५४अब्
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय यः स्थितः ॥ २.५४च्द् ॥

यदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर् दिवं गतस् तदा तयोः पुत्राः प्रातिभाव्यायातं पैतृकम् ऋणं न दद्युः । यस् तु दानाय स्थितः प्रतिभूर् दिवं गतस् तस्य पुत्रा दद्युर् न पौत्राः । ते च मूलम् एव दद्युर् न वृद्धिम्,

ऋणं पैतामहं पौत्रः प्रातिभाव्याहतं सुतः ।
समं दद्यात् तत्सुतौ तु न दाप्याव् इति निश्चयः ॥ (ध्को ६७६)

इत् व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहम् ऋणं पौत्रः समं यावद् गृहीतं तावद् एव दद्यान् न वृद्धिम् । तथा तत्सुतो ऽपि प्रातिभाव्यागतं पित्र्यम् ऋणं समम् एव दद्यात् । तयोः पौत्रपुत्रयोः सुतौ पौत्रप्रपौत्रौ च प्रातिभाव्यायातम् अप्रातिभाव्यं च ऋणं यथाक्रमम् अगृहीतधनौ न दाप्याव् इति । यद् अपि स्मरणम्-

खादको वित्तहीनः स्याल् लग्नको वित्तवान् यदि ।
मूलं तस्य भवेद् देयं न वृद्धिं दातुम् अर्हति ॥ (ध्को ६६१=हारीत)

इति, तद् अपि लग्नकः प्रतिभूः, खादको ऽधमर्णः । लग्नको यदि वित्तवान् मृतस् तदा तस्य पुत्रेण मूलम् एव दातव्यं न वृद्धिर् इति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्रतिभूर् वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर् जातस्, तत्र तत्पुत्रा अपि तस्माद् एव बन्धकात् प्रातिभाव्यायातम् ऋणं दद्युर् एव । यथाह कात्यायनः-

गृहीत्वा बन्धकं यत्र दर्शने ऽस्य स्थितो भवेत् ।
विना पित्रा धनात् तस्माद् दाप्यः स्यात् तदृणं सुतः ॥ इति । (क्स्म् ५३४)

दर्शनग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते वेति ॥ २.५४ ॥

यस्मिन्न् अनेकप्रतिभूसंभवस् तत्र कथं दाप्यस्, तत्राह ।

बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम् । २.५५अब्
एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि ॥ २.५५च्द् ॥

यद्य् एकस्मिन् प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस् तदर्णं संविभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तम् आश्रिता एकच्छायाश्रिताः । अधमर्णो यथा कृत्स्नद्रव्यदानाय स्थितस् तथा दाने प्रतिभुवो ऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः एवं दर्शने प्रत्यये च तेष्व् एकच्छायाश्रितेषु प्रतिभूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश् च धनिको वित्ताद्यपेक्षायां स्वार्थं यं प्रार्थयते स एव कृत्स्नं दाप्यो नांशतः । एकच्छायाश्रितेषु यदि कश्चिद् देशान्तरं गतस् तत् पुत्रश् च संनिहितस् तदा धनिकेच्छया सर्वं दाप्यः । मृते तु कस्मिंश्चित् तत्सुतः स्वपित्रंशम् अवृद्धिकं दाप्यः । यथाह कात्यायनः-

एकच्छायाप्रविष्टानां दाप्यो यस् तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते समम् ॥ इति ॥ (क्स्म् ५३८) २.५५ ॥

प्रातिभाव्यर्णदानविधिम् उक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिम् आह ।

प्रतिभूर् दापितो यत् तु प्रकाशं धनिनो धनम् । २.५६अब्
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥ २.५६च्द् ॥

यद् द्रव्यं प्रतिभूस् तत् पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न पुनर् द्वैगुण्यलोभेन स्वयम् उपैत्य दत्तम् । यथाह नारदः-

यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।
ऋणिकस् तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥ इति । (न्स्म् १.१०७)

ऋणिकैर् अधमर्णैस् तस्य प्रतिभुवस् तद् द्रव्यं द्विगुणं प्रतिदातव्यं स्यात् । तच् च कालविशेषम् अनपेक्ष्य सद्य एव द्विगुणं दातव्यम्, वचनारम्भसामर्थ्यात् । एतच् च हिर्णयविषयम् ।

ननु इदं प्रतिभूर् इति वचनं द्वैगुण्यमात्रं प्रतिपादयति, तच् च पूर्वोक्तकालकल्पक्रमाबाधेनाप्य् उपपद्यते । यथा जातेष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः संतत्यभावान् मूल्यदानम् एव प्राप्नोतीति ।
तद् असत्, “वस्त्रधान्यदिर्ण्यानां चतुस्त्रिद्विगुणा परा” (य्ध् २.३९) इत्य् अनेनैव कालकल्पक्रमेण द्वैगुण्यादिसिद्धेः । द्वैगुण्यमात्रविधाने चेदं वचनम् अनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षे ऽपि संतत्यभावे स्वरूपदानम् एव । यदा प्रतिभूर् अपि द्रव्यदानानन्तरं कियतापि कालेनाधमर्णेन संघटते तदा संततिर् अपि संभवत्य् एव । यद् वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो दास्यन्तीति न किंचिद् एतत् ।
अथ प्रातिभाव्यं प्रीतिकृतम् । अतश् च प्रतिभुवा दत्तं प्रीतिदत्तम् एव । न च प्रीतिदत्तस्य याचनात् प्राग् वृद्धिर् अस्ति । यथाह-
प्रीतिदत्तं तु यत् किंचिद् वर्धते न त्व् अयाचितम् ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥ इति । (न्स्म् १.९६* अद्दितिओन्)

अतश् चाप्रीतिदत्तस्यायाचितस्यापि दानदिवसाद् आरभ्य यावद् द्विगुणं कालक्रमेण वृद्धिर् इत्य् अनेन वचनेनोच्यते इति ।

तद् अप्य् असत्, अस्यार्थस्यास्माद् वचनाद् अप्रतीतेर्, द्विगुणं प्रतिदातव्यम् इत्य् एतावद् इह प्रतीयते । यस्मात् कालक्रमम् अनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्याद् इति सुष्ठूक्तम् ॥ २.५६ ॥

प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्ते ऽपवादम् आह ।

संततिः स्त्रीपशुष्व् एव धान्यं त्रिगुणम् एव च । २.५७अब्
वस्त्रं चतुर्गुणं प्रोक्तं रसश् चाष्टगुणस् तथा ॥ २.५७च्द् ॥

हिरण्यद्वैगुण्यवत् कालानादरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्ध्या दाप्याः । श्लोकस् तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद् द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्ध्या सह कालविशेषम् अनपेक्ष्यैव सद्यो दातव्यम् इति तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्णं दर्शयितुम् असमर्थस् तदा तद्गवेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा भोक्तव्यो ऽन्यथा प्रस्तुतं धनं दाप्यः,

नष्टस्यान्वेषणार्थं तु दाप्यं पक्षत्रयं परम् ।
यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥
काले व्यतीते प्रतिभूर् यदि तं नैव दर्शयेत् ।
निबन्धं दापयेत् तं तु प्रेते चैष विधिः स्मृतः ॥ (क्स्म् ५३२–३३)

इति कात्यायनवचनात् । लग्नके विशेषनिषेधश् च तेनैवोक्तः-

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
निरुद्धो दण्डितश् चैव संदिग्धश् चैव न क्वचित् ॥
नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्ताश् च ये च प्रव्रजिता नराः ॥
न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
जीवन् वापि पिता यस्य तथैवेच्छाप्रवर्तकः ॥
नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥ इति । (क्स्म् ११४–१६)

संदिग्धो ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । इति प्रतिभूविधिः ॥ २.५७ ॥

धनप्रयोगे विश्वासहेतू द्वौ प्रतिभूर् आधिश् च । यथाह नारदः-
विश्रंभहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च । इति । (न्स्म् १.१०३)

तत्र प्रतिभूर् निरूपितः । इदानीम् आधिर् निरूप्यते । आधिर् नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थम् अधमर्णेनोत्तमर्णो ऽधिक्रियते आधीयत इत्य् आधिः । स च द्विविधः कृतकालो ऽकृतकालश् च । पुनश् चैकैकशो द्विविधः गोप्यो भोग्यश् च । यथाह नारदः-

अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ।
कृतकाले ऽपनेयश् च यावद् देयोद्यतस् तथा ॥
स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च ॥ इति । (न्स्म् १.१०८–०९)

कृतकाले आधानकाल एवामुष्मिन्काले दीपोत्सवादौ मयायम् आधिर् मोक्तव्यो ऽअन्यथा तवैवाधिर् भविष्यतीत्य् एवं निश्चिते काले उपनेय आत्मसमीपं नेतव्यः । मोचनीय इत्य् अर्थः । देयं दानम् । देयम् अनतिक्रम्य यावद् देयम् । उद्यतः नियतः स्थापित इत्य् अर्थः । यावद् देयम् उद्यतो यावद् देयोद्यतः गृहीतधनप्रत्यर्पणावधिर् अनिरूपितकाल इत्य् अर्थः । गोप्यो रक्षणीयः ।

एवं चतुर्विधस्याधेर् विशेषम् आह ।

आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते । २.५८अब्
काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥ २.५८च्द् ॥

प्रौक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्विगुणीभूते यद्य् आधिर् अधमर्णेन द्रव्यदानेन न मोक्ष्यते तदा नश्यति । अधर्मर्णस्य धनं प्रयोक्तुः स्वं भवति । कालकृतः कृतकाल आहिताग्न्यादिषु पाठात् कालश्ब्दस्य पूर्वनिपातः । स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात् प्राग् ऊर्ध्वं वा । फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स कदाचिद् अपि न नश्यति । कृतकालस्य गोप्यस्य भोग्यस्य च तत्कालातिक्रमे नाश उक्तः “काले कालकृतो नश्येद्” इति । अकृतकालस्य भोग्यस्य नाशाभाव उक्तः “फलभोग्यो न नश्यति” इति । पारिशेष्याद् आधिः प्रणश्येद् इत्य् एतद् अकृतकालगोप्याधिविषयम् अवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमेण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं बृहस्पतिवचनात्-

हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः ।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥
तदन्तरा धनं दत्त्वा ऋणी बन्धम् अवाप्नुयात् ॥ इति ॥ (बृस्म् १.१०.४८–४९)
ननु आधिः प्रणश्येद् इत्य् अनुपपन्नम्, अधमर्णस्य स्वत्वनिवृत्तिहेतोर् दानविक्रयादेर् अभावात्, धनिनश् च स्वत्वहेतोः प्रतिग्रहक्रयादेर् अभावात्, मनुवचनविरोधाच् च-
न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः । इति । (म्ध् ८.१४३)

कालेन संरोधः कालसंरोधश् चिरकालम् अवस्थानं तस्मात् कालसंरोधाच् चिरकालावस्थानाद् आधेर् न निसर्गो ऽस्ति नान्यत्राधीकरणम् अस्ति न च विक्रयः । एवाम् आधीकरणविक्रयप्रतिषेधाद् धनिनः स्वत्वाभावो ऽवगम्यत इति ।

उच्यते- आधीकरणम् एव लोके सोपाधिकस्वत्वनिवृत्तिहेतुः । आधिस्वीकारश् च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्तनिवृत्तेर् अनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्वनिवृत्तिर् उत्तमर्णस्य चात्यन्तिकं स्वत्वं भवति । न च मनुवचनविरोधः । यतः मनुः-
न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् । इति । (म्ध् ८.१४३)

भोग्याधिं प्रस्तुत्य, इदम् उच्यते-

न चाधेः कालसंरोधान्निसर्गो ऽस्ति न विक्रयः । इति । (म्ध् ८.१४३)

भोग्यस्याधेश् चिरकालावस्थाने ऽप्य् आधीकरणविक्रयनिषेधेन धनिनः स्वत्वं नास्तीति । इहाप्य् उक्तं फलभोग्यो न नश्यतीति गोप्याधौ तु पृथग् आरब्धं मनुना (८.१४४)

न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् । इति । (म्ध् ८.१४४)

इहापि वक्ष्यते- “गोप्याधिभोगे नो वृद्धिर्” इति । “आधिः प्रणश्येद् द्विगुणो” इति तु गोप्याधिं प्रत्युच्यत इति सर्वम् अविरुद्धम् ॥ २.५८ ॥

किं च ।

गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते । २.५९अब्
नष्टो देयो विनष्टश् च दैवराजकृताद् ऋते ॥ २.५९च्द् ॥

गोप्याधेस् ताम्रकटाहादेर् उपभोगेन वृद्धिर् भवति । अल्पे ऽप्य् उपभोगे महत्य् अपि वृद्धिर् हातव्या, स्मयातिक्रमात् । तथा सोपकारे उपकारकारिणि बलीवर्दताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिर् इति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिश् छिद्रभेदनादिना पूर्ववत् कृत्वा देयः । तत्र गोप्याधिर् नष्टश् चेत् पूर्ववत् कृत्वा देयः । उपभुक्तो ऽपि चेद् वृद्धिर् अपि हातव्या । भोग्याधिर् यदि नष्टस् तदा पूर्ववत् कृत्वा देयः । वृद्धिसद्भावे वृद्धिर् अपि हातव्या । विनष्ट आत्यन्तिकं नाशं प्राप्तः सो ऽपि देयो मूल्यादिद्वारेण । तद्दाने सवृद्धिकं मूल्यं लभते । यदा न ददाति तदा मूलनाशः,

विनष्टे मूलनाशः स्याद् दैवराजकृताद् ऋते । (न्स्म् १.११०)

इति नारदवचनात् । “दैवराजकृतादृते”- दैवम् अग्न्युदकदेशोपप्लवादि । दैवकृताद् विनाशाद् विना । तथा स्वापराधरहिताद् राजकृतात् । दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यम् अधमर्णेनाध्यन्तरं वा । यथाह-

स्त्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते ।
आधिर् अन्यो ऽथ कर्तव्यो देयं वा धनिने धनम् ॥ इति । (ध्को ६६१)

तत्र “स्त्रोतसापहृते” इति दैवकृतोपलक्षणम् ॥ २.५९ ॥

अपि च ।

आधेः स्वीकर्णात् सिद्धी रक्ष्यमाणो ऽप्य् असारताम् । २.६०अब्
यातश् चेद् अन्य आधेयो धनभाग् वा धनी भवेत् ॥ २.६०च्द् ॥

आधेर् भोग्यस्य को ऽप्य् अस्य च स्वीकरणाद् उपभोगाद् आधिग्रहणसिद्धिर् भवति न साक्षिलेख्यमात्रेण नाप्य् उद्देशमात्रेण । यथाह नारदः-

आधिस् तु द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा ।
सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥ इति । (न्स्म् १.११९)

अस्य च फलम्-

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा । इति । (य्ध् २.२३)

या स्वीकारान्ता क्रिया सा पूर्वा बलवती । स्वीकाररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयत्नेन रक्ष्यमाणो ऽपि कालवशेन यद्य् असारताम् अविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्तां गतस् तदाधिर् अन्यः कर्तव्यो धनिने धनं वा देयम् । रक्ष्यमाणो ऽप्य् असारताम् इति वदता आधिः प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् ॥ २.६० ॥

“आधिः प्रणश्येद् द्विगुणे” (य्ध् २.५८) इत्य् अस्यापवादम् आह ।

चरित्रबन्धककृतं सवृद्ध्या दापयेद् धनम् ॥ २.६१अब्
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ २.६१च्द् ॥

चरित्रं शोभनाचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद् द्रव्यम् आत्मसात्कृतं पराधीनं वा कृतम् । एतद् उक्तं भवति- धनिनः स्वच्छाशयत्वेन बहुमूल्यम् अपि द्रव्यम् आधीकृत्याधमर्णेनाल्पम् एव द्रव्यम् आत्मसात्कृतम् । यदि वाधमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यम् आधिं गृहीत्वा बहुद्रव्यम् एव धनिनाधमर्णाधीनं कृतम् इति । तद्** **धनं स नृपो वृद्ध्ह्या सह दापयेत् । अयमाशयः- एवं च बन्धकं द्विगुणीभूते ऽपि द्रव्ये न नश्यति किं तु द्रव्यम् एव द्विगुणं दातव्यम् इति । तथा सत्यंकारकृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकारः- “कारे सत्यागदस्य” (पाण् ६.३.७०) इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयम् अभिसन्धिः- यदा बन्धकार्पणसमय एवेत्थं परिभाषितं- “द्विगुणीभूते ऽपि द्रव्ये मया द्विगुणं द्रव्यम् एव दातव्यं नाधिनाशः” इति, तदा तद्द्विगुणं दापयेद् इति । अन्यो ऽर्थः । चरित्रम् एव बन्धकं चरित्रबन्धकं । चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितम् अपूर्वम् उच्यते । यत्र तद् एवाधीकृत्य यद् द्रव्यम् आत्मसाकृतं, तत्र तद् एव द्विगुणीभूतं दातव्यं नाधिनाश इति । आधिप्रसङ्गाद् अन्यद् उच्यते सत्यंकारकृतम् इति । क्रयविक्रयादिव्यवस्थानिर्वाहाय यदङ्गुलीयकादि परहस्ते कृतं तद् व्यवस्थातिक्रमे द्विगुणं दातव्यम् । तत्रापि येनाङ्गुलीयकाद्यर्पितं स एव चेद् व्यवस्थातिवर्ती तेन तद् एव दातव्यम् । इतरश् चेद् व्यवस्थातिवर्ती तदा तद् एवाङ्गुलीयकादि द्विगुणं प्रतिदापयेद् इति ॥ २.६१ ॥

किं च ।

उपस्थितस्य भोक्तव्य आधिः स्तेनो ऽन्यथा भवेत् । २.६२अब्
प्रयोजके ऽसति धनं कुले ऽन्यस्याधिम् आप्नुयात् ॥ २.६२च्द् ॥

धनदानेनाधिमोक्षणायोपस्थितस्याधिर् मोक्तव्यो धनिनो न वृद्धिलोभेन स्थापयितव्यः । अन्यथा अमोक्षणे स्तेनश् चौरवद् दण्ड्यः स्यात् । असंनिहिते पुनः प्रयोक्तरि कुले तद् आप्तहस्ते सवृद्धिकं धनं विधायाधमर्णकः स्वीयं बन्धकं गृह्णीयात् ॥ २.६२ ॥

अथ प्रयोक्ताप्य् असंनिहितस् तद् आप्ताश् च धनस्य ग्रहीतारो न सन्ति ,यदि वा असंनिहिते प्रयोक्तर्य् आधिविक्रयेण धनदित्साधमर्णस्य तत्र किं कर्तव्यम् इत्य् अपेक्षित आह ।

तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः । २.६३अब्

तस्मिन् काले यत् तस्याधेर् मूल्यं तत् परिकल्प्य तत्रैव धनिनि तम् आधिं वृद्धिरहितं स्थापयेन् न तत ऊर्ध्वं विवर्धते । यावद् धनी धनं गृहीत्वा तम् आधिं मुञ्चति, यावद् वा तन्मूल्यद्रव्यम् ऋणे प्रवेशयति ॥

यदा तु द्विगुणीभूते ऽपि धने द्विगुणं धनम् एव ग्रहीतव्यं, न त्व् आधिनाश इति विचारितम् ऋणग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असंनिहिते वाधमर्णे धनिना किं कर्तव्यम् इत्य् अत आह ।

विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ॥ २.६३च्द् ॥

धारणकाद् अधमर्णाद् विना अधमर्णे ऽसंनिहिते साक्षिभिस् तदाप्तैश् च सह तम् आधिं विक्रीय तद् धनं गृह्णीयाद् धनी । वाशब्दो व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले द्विगुणीभूते ऽपि धने धनम् एव ग्रहीतव्यं न त्व् आधिनाश इति न विचारितं, तदा “आधिः प्रणश्येद् द्विगुणे” (य्ध् २.५८) इत्य् आधिनाशः । विचारिते त्व् अयं पक्ष इति ॥ २.६३ ॥

भोग्यादौ विशेषम् आह ।

यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु । २.६४अब्
मोच्य आधिस् तद् उत्पन्ने प्रविष्टे द्विगुणे धने ॥ २.६४च्द् ॥

यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्विगुणीभूतं तदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्रव्ये द्विगुणे धनिनः प्रविष्टे धनिनाधिर् मोक्तव्यः । यदि वादाव् एवाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर् मोक्तव्य इति परिभाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणीभूतम् ऋणं तदा आधौ भोगार्थं धनिनि प्रविष्टे तद् उत्पन्ने द्रव्ये द्विगुणे सत्य् आधिर् मोक्तव्यः । अधिकोपभोगे तद् अपि देयम् । सर्वथा सवृद्धिकमूलर्णापाकरणार्थाध्युपभोगविषयम् इदं वचनम् । तम् एनं क्षयाधिम् आचक्षते लौकिकाः । यत्र तु वृद्ध्यर्थ एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमे ऽपि यावन् मूलदानं तावद् उपभुङ्क्त एवाधिम् । एतद् एव स्पष्टीकृतं बृहस्पतिना-

ऋणी बन्धम् अवाप्नुयात् ।
फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥
यदि प्रकर्षितं तत् स्यात् तदा न धनभाग् धनी ।
ऋणी च न लभेद् बन्धं परस्परमतं विना ॥ इति । (बृस्म् १.१०.१२५–२६)

अस्यार्थः- फलं भोग्यं यस्यासौ फलभोग्यः बन्ध आधिः । स च द्विविधः सवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश् च । तत्र च सवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकाल्सस् तम् आप्नुयाद् ऋणी । यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टं तदा बन्धम् आप्नुयाद् इत्य् अर्थः । वृद्धिमात्रापाकरणार्थं तु बन्धकं सामकं दत्त्वाप्नुयाद् ऋणी । समं मूलं समम् एव सामकम् । अस्यापवादम् आह “यदि प्रकर्षितं तत् स्यात्” । तत् बन्धकं प्रकर्षितम् अतिशयितं वृद्धेर् अप्य् अधिकफलं यदि स्यात् तदा न धनभाग् धनी सामकं न लभते धनी । मूलम् अदत्त्वैव ऋणी बन्धम् अवाप्नुयाद् इति यावत् । अथ त्व् अप्रकर्षितं तद् बन्धकं वृद्धये ऽप्य् अपर्याप्तं तदा सामकं दत्त्वापि बन्धं न लभेताधमर्णः । वृद्धिशेषम् अपि दत्त्वैव लभेतेत्य् अर्थः । पुनर् उभयत्रापवादम् आह- “परस्परमतं विना” उत्तमर्णाधमर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितम् इत्य् आद्य् उक्तम् । परस्परानुमतौ तत् कृष्टम् अपि बन्धकं यावन् मूलदानं तावद् उपभुङ्क्ते धनी निकृष्टम् अपि मूलमात्रदानेनैवाधमर्णो लभत इति ॥ २.६४ ॥

**इति ऋणादानप्रकरणम् **

**अथ उपनिधिप्रकरणम् **

उपनिधिं प्रत्य् आह ।

वासनस्थम् अनाख्याय हस्ते ऽन्यस्य यद् अर्प्यते । २.६५अब्
द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥ २.६५च्द् ॥

निक्षेपद्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि तत्स्थं वासनस्थं यद् द्रव्यं रूपसंख्यादिविशेषम् अनाख्याय अकथयित्वा मुद्रितम् अन्यस्य हस्ते रक्षणार्थं विस्रम्भाद् अर्प्यते स्थाप्यते तद् द्रव्यम् औपनिधिकम् उच्यते । यथाह नारदः-

असंख्यातम् अविज्ञातं समुद्रं यन् निधीयते ।
तज् जानीयाद् उपनिधिं निक्षेपं गणितं विदुः ॥ इति ।

“प्रतिदेयं तथैव तत्” । यस्मिन् स्थापितं तेन यथैव पूर्वमुद्रादिचिह्नितम् अर्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ २.६५ ॥

प्रतिदेयम् इत्य् अस्यापवादम् आह ।

न दाप्यो ऽपहृतं तं तु राजदैविकतस्करैः । २.६६अब्

तम् उपनिधिं राज्ञा दैवेनोदकादिना तस्करैर् वापहृतं नष्टं न दाप्यो ऽसौ यस्मिन्न् उपहितं । धनिन एव तद् द्रव्यं नष्टं यदि जिह्मकारितं न भवति । यथाह नारदः-

ग्रहीतुः सह यो ऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन् न चेत् तज् जिह्मकारितम् ॥ इति ॥ न्स्म् २.६)

अस्यापवादम् आह ।

भ्रेषश् चेन् मार्गिते ऽदत्ते दाप्यो दण्डं च तत्समम् ॥ २.६६च्द् ॥

स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्य् अपि राजादिभिर् भ्रेषो नाशः संजातस् तथापि तद् द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समं दण्डम् ॥ २.६६ ॥

भोक्तारं प्रति दण्डम् आह ।

आजीवन्खेच्छया दण्ड्यो दाप्यस् तं चापि सोदयम् । २.६७अब्

यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यम् आजीवन्न् उपभुङ्क्ते व्यवहरति वा प्रयोगादिना लाभार्थम् असाव् उपभोगानुसारेण लाभानुसारेण च दण्ड्यस् तं चोपनिधिं सोदयम् उपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धिप्रमाणं च कात्यायनेनोक्तम् ।

निक्षेपं वृद्धिशेषं च क्रयं विक्रयम् एव च ।
याच्यमानो न चेद् दद्याद् वर्धते पञ्चकं शतम् ॥ इति । (न्स्म् ५०५–०६)

एतच् च भक्षिते द्रष्टव्यम् । उपेक्षाज्ञाननष्टे तु तेनैव विशेषो दर्शितः-

भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन् न्यूनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥ इति । (न्स्म् ५९७)

किंचिन् न्यूनम् इति चतुर्थांशहीनम् ।

उपनिधेर् धर्मान् याचितादिष्व् अतिदिशति ।

याचितान्वाहितन्यासनिपेक्षादिष्व् अयं विधिः ॥ २.६७च्द् ॥

विवाहाद्युत्सवेषु वस्त्रालंकारादि याचित्वानीतं याचितम् । यद् एकस्य हस्ते निहितं द्रव्यं तेन्याप्य् अनु पश्चाद् अन्यहस्ते स्वामिने देहीति निहितं तद् अन्वाहितम् । न्यासो नाम गृहस्वामिने ऽदर्शयित्वा तत्परोक्षम् एव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणीयम् इति । समक्षं तु समर्पणं निक्षेपः । आदिशब्देन सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः प्रतिन्यासस्य च परस्परयोजनापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं रक्ष्यते इति न्यस्तस्य ग्रहणम् । यथाह नारदः-

एष एव विधिर् दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ इति । (न्स्म् २.७)

एतेषु याचितान्वाहितादिष्वयं विधिर् उपनिधेर् यः प्रतिदानादिविधिः स एव वेदितव्यः ॥ २.६७ ॥

**इति उपनिधिप्रकरणम् **

**अथ साक्षिप्रकरणम् **

“प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम्” इत्य् उक्तम् । तत्र भुक्तिर् निरूपिता । सांप्रतं साक्षिस्वरूपं निरूप्यते । साक्षी च साक्षाद् दर्शनाच् छ्रवणाच् च भवति । यथाह मनुः-

समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति । इति । (म्ध् ८.७४)

स च द्विविधः कृतो ऽकृतश् चेति । साक्षित्वेन निरूपितः कृतः । अनिरूपितो ऽकृतः । तत्र कृतः पञ्चविधो ऽकृतश् च षड्विध इत्य् एकादशविधः । यथाह नारदः-

एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।
कृतः पञ्चविधो ज्ञेयः षड्विधो ऽकृत उच्यते ॥ इति । (न्स्म् १.१२९)

तेषां च भेदस् तेनैव दर्शितः-

लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ इति । (न्स्म् १.१३०)

लिखितादीनां च स्वरूपं कात्यायनेनोक्तम्-

अर्थिना स्वयम् आनीतो यो लेख्ये संनिवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकाद् ऋते ॥ इति । (क्स्म् ३७१)

स्मारितः पत्रकाद् ऋत इत्य् अस्य विवरणं तेनैव कृतम्-

यस् तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः ।
स्मार्यते ह्य् अर्थिना साक्षी स स्मारित इहोच्यते ॥ इति । (क्स्म् ३७२)

यस् तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः । अनयोः पत्रानारूढत्वे ऽपि भेदस् तेनैव दर्शितः-

प्रयोजनार्थम् आनीतः प्रसङ्गाद् आगतश् च यः ।
द्वौ साक्षिणौ त्व् अलिखितौ पूर्वपक्षस्य साधकौ ॥ इति । (क्स्म् ३७३)

तथा-

अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥ इति । (क्स्म् ३७४)

तथा-

साक्षिणाम् अपि यः साक्ष्यम् उपर्य् उपरि भाषते ।
श्रवणाच् छ्रावणाद् वापि स साक्ष्य् उत्तरसंज्ञितः ॥ इति । (क्स्म् ३७५)

षड्विधस्याप्य् अकृतस्य भेदो नारदेन दर्शितः-

ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ।
कार्येष्व् अधिकृतो यः स्याद् अर्थिना प्रहितश् च यः ॥
कुल्याः कुलविवादेषु विज्ञेयास् ते ऽपि साक्षिणः ॥ इति । (न्स्म् १.१३१–३२)

प्राड्विवाकग्रहणं लेखकसभ्योपलक्षणार्थम् ।

लेखकः प्राड्विवाकश् च सभ्याश् चैवानुपूर्वशः ।
नृपे पश्यति तत् कार्यं साक्षिणः समुदाहृताः ॥ इति ॥ (क्स्म् ३५५)

ते ऽपि साक्षिणः कीदृशाः कियन्तश् च भवन्तीत्य् अत आह ।

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । २.६८अब्
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ २.६८च्द् ॥
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । २.६९अब्
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ २.६९च्द् ॥

तस्पस्विनस् तपःशीलाः । दानशीला दाननिरताः । कुलीना महाकुलप्रसूताः । सत्यवादिनः सत्यवदनशीलाः । धर्मप्रधाना नार्थकामप्रधानाः । ऋजवो’कुटिलाः । पुत्रवन्तो विद्यमानपुत्राः । धनान्विता बहुसुवर्णादिधनयुक्ताः । श्रौतस्मार्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः । एवंभूताः पुरुषास् त्र्यवराः साक्षिणो भवन्ति । त्रयो ऽवरा न्यूना येषां ते त्र्यवराः त्रिभ्यो ऽर्वाक् न भवन्ति । परतस् तु यथाकामं भवन्तीत्य् अर्थः । जातिम् अन्तिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्या अनुलोमजाः प्रतिलोमजाश् च । तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवम् अम्बष्ठादिष्व् अपि द्रष्टव्यम् । वर्णम् अनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः । तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्व् अपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एव कुर्युः । यथाह मनुः- “स्त्रीणां साक्ष्यं स्त्रियः कुर्युः” इति (म्ध् ८.६८) । सजातिसवर्णासंभवे सर्वे मूर्धावसिक्तादयो ब्राह्मणादयश् च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणो भवन्ति । उक्तलक्षणानां साक्षिणाम् असंभवे प्रतिषेधरहितानाम् अन्येषाम् अपि साक्षित्वप्रतिपादनार्थम् असाक्षिणो वक्तव्याः । ते च पञ्चविधा नारदेन दर्शितः-

असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयमुक्तिर् मृतान्तरः । इति । (न्स्म् १.१३७)

के पुनर् वचनाद् असाक्षिण इत्य् अत आह-

श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजितादयः ।
असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥ इति । (न्स्म् १.१४०)

तापसा वानप्रस्थाः । आदिशब्देन पित्रा विवदमानादीनां ग्रहणम् । यथाह शङ्खः- “पित्रा विवदमानगुरुकुलवासिपरिव्राजकवानप्रस्थनिर्ग्रन्था असाक्षिणः” इति । दोषाद् असाक्षिणो दर्शिताः-

स्तेनाः साहसिकाश् चण्डाः कितवा वञ्चकास् तथा ।
असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥ इति । (न्स्म् १.१४१)

चण्डाः कोपनाः । कितवा द्यूतकृतः । भेदाद् असाक्षिणां च स्वरूपं तेनैव दर्शितम्-

साक्षिनां लिखितानां च निर्दिष्टानां च वादिना ।
तेषाम् एको ऽन्यथावादी भेदात् सर्वे न साक्षिणः ॥ इति ।

तथा स्वयमुक्तिस्वरूपं चोक्तम्-

स्वयमुक्तिर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् । (न्स्म् १.१३९)
सूचीत्य् उक्तः स शास्त्रेषु न स साक्षित्वम् अर्हति ॥ इति । (न्स्म् १.१४३)

मृतान्तरस्यापि लक्षणम् उक्तम्-

यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि ।
क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ इति । (न्स्म् १.१४४)

येनार्थिना प्रत्यर्थिना वा साक्षिणां यो ऽर्थः श्रावयितव्यो भवेद् यूयम् अत्रार्थे साक्षिण इति तस्मिन्न् अर्थिनि प्रत्यर्थिनि वा असति मृते ऽर्थे चानिवेदिते, साक्षी क्व कस्मिन्न् अर्थे कस्य वा कृते साक्ष्यं वदत्व् इति मृतान्तरः साक्षी न भवति । यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविता अस्मिन्न् अर्थे ऽमी साक्षिण इति तत्र मृतान्तरो ऽपि साक्षी । यथाह नारदः-

मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते । (न्स्म् १.१३९)

तथा ।

श्रावितो ऽनातुरेणापि यस् त्व् अर्थो धर्मसंहितः ।
मृते ऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु ॥ इति ॥ (न्स्म् १.८४) २.६८ ॥ २.६९ ॥

तान् एतान् असाक्षिणो दर्शयति ।

स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः । २.७०अब्
**रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः ॥ २.७०च्द् ॥ **
पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः । २.७१अब्
साहसी दृष्टदोषश् च निर्धूताद्यास् त्व् असाक्षिणः ॥ २.७१च्द् ॥

स्त्री प्रसिद्धा । बालो ऽप्राप्तव्यवहारः । वृद्धो ऽशीतिकावरः । वृद्धग्रहणं वचननिषिद्धानाम् अन्येषाम् अपि श्रोत्रियादीनाम् उपलक्षणार्थम् । कितवो ऽक्षदेवी । मत्तः पानादिना । उन्मत्तो ग्रहाविष्टः । अभिशस्तो ऽभियुक्तो ब्रह्महत्यादिना । रङ्गावतारी चारणः । पाखण्डिनो निर्ग्रन्थप्रभृतयः । कूटकृत् कपटलेख्यादिकारी । विकलेन्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादिः । आप्तः सुहृत् । अर्थसंबन्धी विप्रतिपद्यमानार्थसंबन्धी । सहाय एककार्यः । रिपुः शत्रुः । तस्करः स्तेनः । साहसी बलावष्टम्भकारी । दृष्टदोषो दृष्टविरुद्धवचनः । निर्धूतो बन्धुभिस् त्यक्तः । आद्यशब्दाद् अनेषाम् अपि स्मृत्यन्तरोक्तानां दोषाद् असाक्षिणां भेदाद् असाक्षिणां स्वयमुक्तेर् मृतान्तरस्य च ग्रहणम् । एते स्त्रीबालादयः साक्षिणो न भवन्ति ॥ २.७० ॥ २.७१ ॥

त्र्यवराः साक्ष्ịनो ज्ञेया इत्य् अस्यापवादम् आह ।

उभयानुमतः साक्षी भवत्य् एको ऽपि धर्मवित् । २.७२अब्

ज्ञानपूर्वकनित्यनैमित्तिककर्मानुष्ठायी धर्मवित् । स एको ऽप्य् उभयानुमतश् चेत् साक्षी भवति । अपिशब्दबलाद् द्वाव् अपि । यद्य् अपि “श्रौतस्मार्तक्रियापराः” (य्ध् २.६९) इति त्र्यवराणाम् अपि धर्मवित्त्वं समानं तथापि तेषाम् उभयानुमत्यभावे ऽपि साक्षित्वं भवति । एकस्य द्वयोर् वोभयानुमत्यैव साक्षित्वं भवतीत्यर्थवत् त्र्यवरग्रहणम् ।

“तपस्विनो दानशीलाः (य्ध् २.६८) इत्य् अस्यापवादम् आह ।

सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ २.७२च्द् ॥

संग्रहणादीनि वक्ष्यमाणलक्षणानि तेषु सर्वे वचननिषिद्धास् तपःप्रभृत्गुणरहिताश् च साक्षिणो भवन्ति । दोषाद् असाक्षिणो भेदाद् असाक्षिणः स्वयमुक्तिश् चात्रापि साक्षिणो भवन्ति सत्याभावाद् इति हेतोर् अत्रापि विद्यमानत्वात् ।

मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यम् उभयं चेति साहसं स्याच् चतुर्विधम् ॥ (न्स्म् १४.१* अद्दितिओन्)

इति वचनाद्, यद्य् अपि स्त्रीसंग्रहणचौर्यपारुष्याणां साहसत्वं तथापि तेषां स्वबलावष्टम्भेन जनसमक्षं क्रियमाणानां साहसत्वम् । रहसि क्रियमाणानां तु संग्रहणादिशब्दवाच्यत्वम् इति तेषां साहसात् पृथग् उपादानम् ॥ २.७२ ॥

साक्षिश्रावणम् आह ।

**साक्षिणः श्रावयेद् वादिप्रतिवादिसमीपगान् । २.७३अब् **

अर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान् “नासमवेताः पृष्टाः प्रब्रूयुः” (ग्ध् १३.५) इति गौतमवचनात्, वक्ष्यमाणं श्रावयेत् । तत्रापि कात्यायनेन विशेषो दर्शितः-

सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ।
देवब्राह्मणसंनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥
आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥ इति । (क्स्म् ३४२, ३४४–४५)

तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः-

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ इति । (म्ध् ८.११३)

ब्राह्मणम् अन्यथा ब्रुवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति । गोबीजकाञ्चनादीनि तव विफलानि भविष्यन्तीति वैश्यम् । शूद्रम् अन्यथा ब्रुवतस् तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस् तेनैव दर्शितः-

गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ इति । (म्ध् ८.१०२)

विप्रग्रहणं क्षत्रियवैश्ययोर् उपलक्षणार्थम् । कुशीलवा गायकाः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्यक्षयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचननाल् लोकतश् च निर्णयो न साक्ष्यन्तरेणेति नानवस्था । यदि साक्षिदोषम् उद्भाव्य साधयितुं न शक्नोति प्रतिवादी तदासौ सारानुसारेण दण्ड्यः । अथ साधयति तदा न साक्षिणः । यथाह ।

असाधयन् दमं दाप्यो दूषणं साक्षिणां स्फूटम् ।
भाविते साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥ इति । (ध्को ३४५)

उद्दिष्टेषु च सर्वेषु साक्षिषु दुष्टेष्व् अर्थी यदा क्रियान्तरनिरपेक्षस् तदा पराजितो भवति,

जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।
यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥ (बृस्म् १.५.२७)

इति स्मरणात् । साकाङ्क्षश् चेत् क्रियान्तरम् अवलम्बेतेत्य् अभिप्रायः ॥

कथं श्रावयेद् इत्य् अत आह ।

ये पातककृतां लोका महापातकिनां तथा ॥ २.७३च्द् ॥
अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् । २.७४अब्
स तान् सर्वान् अवाप्नोति यः साक्ष्यम् अनृतं वदेत् ॥ २.७४च्द् ॥
सुकृतं यत् त्वया किंचिज् जन्मान्तरशतैः कृतम् । २.७५अब्
तत् सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २.७५च्द् ॥

पातकोपपातकमहापातककारिणाम् अग्निदानां स्त्रीबालघातिनां च ये लोकास् तान् सर्वान् असाव् आप्नोति यः साक्ष्यम् अनृतं वदति । तथा जन्मान्तरशतैर् यत् सुकृतं कृतं तत् सर्वं तस्य भवति यस् ते ऽनृतवदनेन पराजितो भवतीति श्रावयेद् इति संबन्धः । एतच् च शूद्रविषयं द्रष्टव्यम्, “शूद्रम् सर्वैस् तु पातकैः” (म्ध् ८.१२३) इति शूद्रे सर्वपातकश्रावणस्य विहितत्वात् । गोरक्षकादिद्विजातिविषयं च, “गोरक्षकान् वाणिजकान्” (म्ध् ८.१०२) इत्य् उक्तत्वात् । अन्यस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्राप्तेश् चानृतवचनमात्रेणानुपपत्तेः साक्षिसंत्रासार्थम् इदम् उच्यते । यथाह नारदः-

पुराणैर् धर्मवचनैः सत्यमाहात्म्यकीर्तनैः ।
अनृतस्यापवादैश् च भृशम् उत्त्रासयेद् इमान् ॥ इति ॥ (न्स्म् १.१८२)

यदा तु श्राविताः साक्षिणः कथंचिन् न ब्रूयुस् तदा किं कर्तव्यम् इत्य् अत आह ।

अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् । २.७६अब्
राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशके ऽहनि ॥ २.७६च्द् ॥

यः साक्ष्यम् अङ्गीकृत्य श्रावितः सन् कथंचिन् न वदति स राज्ञा सर्वं सवृद्धिकम् ऋणं धनिने दाप्यः सदशबन्धकं दशमांशसहितम् । दशमांशश् च राज्ञो भवति,

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतं । (य्ध् २.४२)

इत्युक्तत्वात् । एतच् च षट्चत्वारिंशके ऽहनि प्रापते वेदितव्यम् । ततो ऽर्वाग् वदन् न दाप्य इदं च व्याध्याद्युपप्लवरहितस्य । यथाह मनुः-

त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।
तद् ऋणं प्राप्नुयात् सर्वं दशबन्धं च सर्वशः ॥ इति । (म्ध् ८.१०७)

अगद इति राजदैवोपप्लवविरहोपलक्षणम् ॥ २.७६ ॥

यस् तु जानन्न् अपि साक्ष्यम् एव नाङ्गीकरोति दौरात्म्यात् तं प्रत्य् आह ।

न ददाति हि यः साक्ष्यं जानन्न् अपि नराधमः । २.७७अब्
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि ॥ २.७७च्द् ॥

यः पुनर् नराधमो विप्रतिपन्नम् अर्थं विशेषतो जानन्न् अपि साक्ष्यं न ददाति नाङ्गीकरोति स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन च । कूटसाक्षिणां च दण्डं वक्ष्यति । कूटसाक्षिणश् च दण्डयित्वा पुनर् व्यवहारः प्रवर्तनीयः ।

कृतो ऽपि वा कौटसाक्ष्ये विदिते निवर्तनीयः । यथाह मनुः-

यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ इति ॥ (म्ध् ८.११७)

साक्षिविप्रतिपत्तौ कथं निर्णय इत्य् अत आह ।

द्वैधे बहूनां वचनं समेषु गुणिनां तथा । २.७८अब्
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ २.७८च्द् ॥

साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस् तेषां वचनं प्रमाणम् । यदा पुनर् गुणिनां विप्रतिपत्तिस् तदा ये गुणवत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास् तेषां वचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये इतरे च बहवस् तत्रापि गुणिनाम् एव वचनं ग्राह्यम्,

उभयानुमतः साक्षी भवत्य् एको ऽपि धर्मवित् । (य्ध् २.७२)

इति गुणातिशयस्य मुख्यत्वात् । यत् तु “भेदाद् असाक्षिणः” इत्य् उक्तं, तत् सर्वसामेनागृह्यमाणविशेषविषयम् ॥ २.७८ ॥

साक्षिभिश् च कथम् उक्ते जयः कथं वा पराजय इत्य् अत आह ।

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । २.७९अब्
अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः ॥ २.७९च्द् ॥

यस्य वादिनः प्रतिज्ञां द्रव्यजातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यम् एवं जानीमो वयम् इति स जयी भवति । यस्य पुनर् वादिनः प्रतिज्ञाम् अन्यथा वैपरीत्येन मिथ्यैतद् इति वदन्ति तस्य पराजयो ध्रुवो निश्चितः । यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावाभावौ साक्षिणो न प्रतिपादयन्ति तत्र प्रमाणान्तरेण निर्णयः कार्यः । न च राज्ञा साक्षिनः पुनः पुनः प्रष्टव्याः । स्वभावोक्तम् एव वचनं ग्राह्यम् । यथाह ।

स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥ इति ॥ २.७९ ॥

“अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः” (य्ध् २.७९) इत्य् अस्यापवादम् आह ।

उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तमाः । २.८०अब्
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ २.८०च्द् ॥

पूर्वोक्तलक्षनैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थावैपरीत्येनाभिहिते यद्य् अन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं ब्रूयुस् तदा पूर्वे साक्षिणः कूटा मिथ्यावादिनो भवेयुः ।

ननु एतद् अनुपपन्नम् अर्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाण्भूतैः साक्षिभिर् निगदिते प्रमाणान्तरान्वेषणे ऽनवस्थादोषप्रसङ्गात्,
निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णिक्तव्यवहाराणां प्रमाणम् अफलं तथा ॥ (न्स्म् मा १.५३–५४)

इति नारदवचनाच् च ।

उच्यते । यदार्थी प्रतिज्ञातार्थस्यान्तरात्मसाक्षित्वेनानाविष्कृतदोषाणाम् अपि साक्षिणां वचनम् अर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्व् अपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते । उक्तं च – “यस्य च दुष्टं करणं यन् न च मिथ्येति प्रत्ययः स एवासमीचीनः” इति । यथा चक्षुरादिकरणदोषानध्यवसाये ऽप्य् अर्थविसंवादात् तज्जनितस्य ज्ञानस्याप्रामाण्येन करणदोषकल्पना तथेहापि, साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच् च -
साक्षिभिर् भाषितं वाक्यं सह सभ्यैः परीक्षयेत् । इति । (क्स्म् ३४०)

कात्यायानेनाप्य् उक्तं-

यदा शुद्धा क्रिया न्यायात् तदा तद्वाक्यशोधनम् ।
शुद्धाच् च वाक्याद्यः शुद्धः स शुद्धो ऽर्थे इति स्थितिः ॥ इति । (क्स्म् ४०९)

क्रिया साक्षिलक्षणा “नार्थसंबन्धिनो नाप्ताः” (म्ध् ८.६४) इति न्यायाद् यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यशोधनं कर्तव्यम् । वाक्यशुद्धिश् च सत्यार्थप्रतिपादनेन, “सत्येन शुध्यते वाक्यं” इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याच् च यः शुद्धो ऽवगतो ऽर्थः स शुद्धस् तथाभूत इति स्थितिर् ईदृशी मर्यादा न्यायविदाम् । कारणदोषबाधकप्रत्ययाभावे सत्य् अवितथ एवार्थ इत्य् अर्थः ।

ननु स्वयम् अर्थिना प्रमाणीकृतान् साक्षिणो ऽतिक्रम्य कथं क्रियान्तरं प्रमाणीक्रियते ।
नैष दोषः । यतः,
क्रियां बलवतीं मुक्त्वा दुर्बलां यो ऽवलम्बते ।
स जये ऽवधृते सभ्यैः पुनस् तां नाप्नुयात् क्रियाम् ॥ (क्स्म् २२१)

इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाज् जयावधारणात् प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेनापि,

निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् । (न्स्म् मा १.५३)

इति वदता जयावधारणोत्तरकालम् एव प्रमाणान्तरं निषिद्धं न प्राग् अपि । तस्माद् उक्ते ऽपि साक्षिभिः साक्ष्ये ऽपरितुष्यता क्रियान्तरम् अङ्गीकर्तव्यम् इति स्थितम् । एवं स्थिते यद्य् अभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा त एव प्रमाणीकर्तव्याः – “स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम्” (म्ध् ८.७८) इत्यस्य सर्वव्यव्हारशेषत्वात्,

निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥ (न्स्म् मा १.५३)

इति नारदवचनाच् च । पूर्वनिर्दिष्टानाम् असंभवे त्व् अनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यम्,

संभवे साक्षिणां प्राज्ञो वर्जयेद् दैविकीं क्रियाम् । (क्स्म् २१७)

इति स्मरणात् । तेषाम् असंभवे दिव्यं प्रमाणीकर्तव्यम् । अतः परम् अपरितुष्यताप्य् अर्थिना न प्रमाणान्तरम् अन्वेषणीयम् अवचनाद् इति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोषस् तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात् सप्ताहावधिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च साक्षिणो दोषावधारणे विवादास्पदीभूतम् ऋणं दाप्याः, सारानुसारेण दण्डनीयाश् च । अथ दोषानवधारणं तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः ।

यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥ इति । (म्ध् ८.१०८)

एतच् च,

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । (य्ध् २.७९)

इत्य् अस्य परितुष्यत्प्रत्यर्थिविषये ऽपवादो द्रष्टव्यः । केचित् तु “उक्ते ऽपि साक्षिभिः साक्ष्ये” इत्य् एतद् वचनम् अर्थिना निर्दिष्टेषु साक्षिष्व् अर्थ्यनुकूलम् अभिहितवत्सु यदि प्रत्यर्थी गुणवत्तमान् द्विगुणान् वान्यान् साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते । तद् असत्, प्रत्यर्थिनः क्रियानुपपत्तेः । तथा हि । अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्षतदभाववादी प्रत्यर्थी पत्राभावस्य भावसिद्धिसापेक्षसिद्धित्वाद् भावस्य चाभावसिद्धिनिरपेक्षसिद्धित्वाद् भावस्यैव साध्यत्वं युक्तम्, अभावस्य स्वरुपेण साक्ष्यादिप्रमेयत्वाभावात् । अतश् चार्थिन एव क्रिया युक्ता । अपि चोत्तरानुसारेण सर्वत्रैव क्रिया नियता स्मर्यते ।

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥ इति । (बृस्म् १.३.१३)

न चैकस्मिन् व्यवहारे द्वयोः क्रिया,

न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः । (क्स्म् १९०)

इति स्मरणात् । तस्मात् प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वान्यथा ब्रूयुर् इत्य् अनुपपन्नम् । अथ मतम् । यत्र द्वाव् अपि भावप्रतिज्ञावादिनौ मदीयम् इदं दायादप्राप्तम् इति प्रतिज्ञावादिनोः पूर्वापरकालविभागानाकलितम् एव वदतस् तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्य् आकाङ्क्षायां,

द्वयोर् विवदतोर् अर्थे द्वयोः सस्तु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥ (न्स्म् १.१४५)

इति वचनेन यः पूर्वं निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्यापवादः “उक्ते’पि साक्षिभिः साक्ष्ये” इति । अतश् च पूर्वोत्तरयोर् वादिनोः समसंख्येषु समगुणेषु साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः साक्षिणः प्रष्टव्याः । एवं च नाभावस्य साध्यता । उभयोर् अपि भाववादित्वात्, चतुर्विधोत्तरविलक्षणत्वाच् च प्रकृतोदाहरणे न क्रियाव्यवस्था । एकस्मिन् व्यवहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रतिवादिनोः क्रियाद्वये ऽप्य् अविरोध इति । तद् अप्य् आचार्यो नानुमन्यते “उक्ते ऽपि साक्षिभिः साक्ष्ये” इत्य् अपिशब्दाद् अर्थात् प्रकरणाद् वास्यार्थस्यानवगमाद् इत्य् अलं प्रसङ्गेन ॥ २.८० ॥

कूटसाक्षिणो दर्शितास् तेषां दण्डम् आह ।

पृथक् पृथग् दण्डनीयाः कूटकृत् साक्षिणस् तथा । २.८१अब्
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ २.८१च्द् ॥

यो धनदानादिना कूटान् साक्षिणः करोतीति स कूटकृत् साक्षिणश् च ये तथा कूटास् ते विवादान् नाम विवादपराजयात् पराजये यो दण्डस् तत्र तत्रोक्तस् तं दण्डं द्विगुणं पृथक् पृथग् एकैकशो दण्डनीयाः । ब्राह्मणस् तु विवास्यो राष्ट्रान् निर्वास्यो न दण्डनीयः । एतच् च लोभादिकारणविशेषापरिज्ञाने अनभ्यासे च वेदितव्यम् । लोभादिकारणविशेषपरिज्ञाने ऽभ्यासे च मनुनोक्तम् ।

लोभात् सहस्रं दण्ड्यः स्यान् मोहात् पूर्वं तु साहसम् ।
भयाद् द्वौ मध्यमौ दण्डौ मैत्र्यात् पूर्वं चतुर्गुणम् ॥
कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥ इति । (म्ध् ८.१२०–२१)

तत्र लोभो ऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री स्नेहातिशयः । कामः स्त्रीव्यतिकराभिलाषः । क्रोधो ऽमर्षः । अज्ञानम् अस्फुटज्ञानम् । बालिश्यं ज्ञानानुत्पादः । सहस्रादिषु ताम्रिकाः पणा गृह्यन्ते । तथा ।

कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ इति । (म्ध् ८.१२३)

एतच् चाभ्यासविषयम् । कुर्वाणान् इति वर्तमाननिर्देशात् । त्रीन् वर्णान् क्षत्रियादीन् पूर्वोक्तं दण्डयित्वा प्रवासयेन् मारयेत्, अर्थशास्त्रे प्रवासशब्दस्य मारणे प्रयोगात्, अस्य चार्थशास्त्ररूपत्वात् । तत्रापि प्रवासनम् ओष्टच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसाक्ष्यविषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रान् निष्कासयेत् । यद् वा विवासयेत् वाससो विगतो विवासाः । विवाससं करोतीति णिचि कृते “णाविष्टवत् प्रातिपदिकस्य” इति टिलोपे रूपम् । नग्नी कुर्याद् इत्य् अर्थः । अथ वा वसत्य् अस्मिन्न् इति वासो गृहम् । विवासयेत् भग्नगृहं कुर्याद् इत्यर्थः । ब्राह्मणस्यापि लोभादिकारणविशेषापरिज्ञाने ऽनभ्यासे च तत्र तत्रोक्तो दण्ड एव । अभ्यासे त्व् अर्थदण्डो विवासनं च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नग्नीकरणं गृहभङ्गो देशान् निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञाने ऽनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादिवद् अर्थदण्ड एव । महाविषये तु देशान् निर्वासनम् एव । अत्राप्य् अभ्यासे सर्वेषाम् एव मनूक्तं द्रष्टव्यम् । न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पे ऽप्य् अपराधे नग्नीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत,

चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ (म्ध् ९.२३६)

इति स्मरणाच् च । तथा ।

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् । (म्ध् ८.३७८)

इति स्मरणात् । यत् तु शङ्खवचनम्- “त्रयाणां वर्णानां धनापहारवधबन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य” इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितो वधसाहचर्यात्,

शारीरस् त्व् अवरोधादिर् जीवितान्तः प्रकीर्तितः ।
काकिण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ॥ (न्स्म् १९.६१)

इति वधसर्वस्वहरणयोः सहपाठात् । यद् अप्य् उक्तम्,

राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् । (म्ध् ८.३८०)

इति तत् प्रथमकृतसाहसविषयं न सर्वविषयम् । शारीरस् तु ब्राह्मणस्य न कदाचिद् भवति,

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् । (म्ध् ८.३८०)

इति सामान्येन मनुस्मरणात् । तथा मनुः ।

न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि ।
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥ इति ॥ (म्ध् ८.३८१) २.८१ ॥

अपि च ।[^२५]

यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत् तमोवृतः । २.८२अब्

स दाप्यो ऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ २.८२च्द् ॥

यस् तु साक्षित्वम् अङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सन् निगदनकाले तमोवृतो रागाद्याक्रान्तचित्तस् तत्साक्ष्यम् अन्येभ्यः साक्षिभ्यो निह्नुते नाहम् अत्र साक्षी भवामीति स विवादपराजये यो दण्डस् तं दण्डम् अष्टगुणं दाप्यः । ब्राह्मणं पुनर् अष्टगुणद्रव्यदण्डदानासमर्थं विवासयेत् । विवासनं च नग्नीकरणगृहभङ्गदेषनिर्वासनलक्षणं विशयानुसारेण द्रष्टव्यम् । इतरेषं त्व् अष्टगुणद्रव्यदण्डदानासंभवे स्वजात्युचितकर्मकरणनिगडबन्धनकारागृहप्रवेशादि द्रष्टव्यम् । एतच् च पूर्वश्लोके ऽप्य् अनुसर्तव्यम् । यदा सर्वे साक्ष्यं निह्नुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यम् उक्त्वा पुनर् अन्यथा वदन्ति तदानुबन्धाद्यपेक्षया दण्ड्याः । यथाह कात्यायनः ।

उक्त्वान्यथा ब्रुवाणाश् च दण्ड्याः स्युर् वाक्छलान्विताः । इति । (क्स्म् ४०६)

न चान्येनोक्ताः साक्षिणो ऽन्येन रहस्य् अनुसर्तव्याः । यथाह नारदः ।

न परेण समुद्दिष्टम् उपेयात् साक्षिणं रहः ।
भेदयेन् नैव चान्येन हीयेतैवं समाचरन् ॥ इति ॥ (न्स्म् १.१४७) २.८२ ॥

साक्षिणाम् अवचनम् असत्यवचनं च सर्वत्र प्रतिषिद्धम् । तद् अपवादार्थम् आह ।

वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् । २.८३अब्

यत्र वर्णिनां शूद्रविट्क्षत्रविप्रानां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्य् अनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्धम् असत्यवचनम् अवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधो ऽनृतवचने न कस्यापि वधस् तत्रानृतवचनम् अभ्यनुज्ञायते । यत्र तु सत्यवचने ऽर्थिप्रत्यर्थिनोर् अन्यतरस्य वधो ऽसत्यवचने चान्यतरस्य वधस् तत्र तूष्णींभावाभ्यनुज्ञा राजा यद्य् अनुमन्यते । अथ राजा कथम् अप्य् अकथने न मुञ्चति तदा भेदाद् असाक्षित्वं कर्तव्यम् । तस्याप्य् असंभवे सत्यम् एव वदितव्यम् । असत्यवचने वर्णिवधदोषो ऽसत्यवचनदोषश् च । सत्यवचने तु वर्णिवधदोष एव । तत्र च यथाशास्त्रं प्रायश्चित्तं कर्तव्यम् ॥

तर्ह्य् असत्यवचने तूष्णींभावे च शास्त्राभ्यनुज्ञानात् प्रत्यवायाभाव इत्य् अत आह ।

तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥ २.८३च्द् ॥

तत्पावनाय अनृतवचनावचननिमित्तप्रत्यवायपरिहाराय सारस्वतश् चरुर् द्विजैर् एकैकशो निर्वाप्यः कर्तव्यः । सरस्वती देवता अस्येति सारस्वतः । अनवस्रावितान्तरूष्मपक्वौदने चरुशब्दः प्रसिद्धः । इहायम् अभिसन्धिः- साक्षिणाम् अनृतवचनम् अवचनं च यन् निषद्धं तद् इहाभ्यनुज्ञातम् । यत् तु,

नानृतं वदेत् । (म्ध् ८.९३)
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी । (म्ध् ८.१३)

इति सामान्येनानृतवचनम् अवचनं च प्रतिषिद्धं तदतिक्रमनिमित्तम् इदं प्रायश्चित्तम् । न च मन्तव्यं साक्षिणाम् अनृतवचनावचनाभ्यनुज्ञाने ऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रमनिमित्तप्रत्यवायस्य तादवस्थ्याद् अभ्यनुज्ञावचनम् अनर्थकम् इति । यतः साक्ष्यनृतवचनावचनयोर् भूयान् प्रत्यवायः साधारणानृतवचनावचनयोर् अल्पीयान् इत्य् अर्थवद् अभ्यनुज्ञावचनम् । यद्य् अपि भूयसः प्रत्यवायस्य निवृत्त्या आनुषङ्गिकस्याल्पीयसः प्रत्यवायस्य निवृत्तिर् अन्यत्र तथापीहाभ्यनुज्ञावचनात् प्रायश्चित्तविधानाच् च भूयसो निवृत्त्याल्पीयान् अप्य् आनुषङ्गिको ऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतद् एवान्यत्र प्रश्नेषु वर्णिवधाशङ्कायां पान्थादीनाम् अनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । न च तत्र प्रायश्चित्तम् अस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरे ऽर्थतत्त्वावगमे ऽपि साक्षिनाम् अन्येषां च दण्डाभावो ऽस्माद् एव वचनाद् अवगम्यत इति ॥ ८३ ॥

**इति साक्षिप्रकरणम् **

**अथ लेख्यप्रकरणम् **

भुक्तिसाक्षिणौ निरूपितौ । सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधं शासनं जानपदं चेति । शासनं निरूपितम् । जानपदम् अभिधीयते । तच् च द्विविधम् स्वहस्तकृतम् अन्यकृतं चेति । तत्र स्वहस्तकृतम् असाक्षिकं अन्यकृतं ससाक्षिकम् । अनयोश् च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः ।

लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा ।
असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ इति । (न्स्म् १.११५)

तत्रान्यकृतम् आह ।

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् । २.८४अब्
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥ २.८४च्द् ॥

धनिकाधमर्णयोर् यो ऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद् देयम् इयती च प्रतिमासं वृद्धिर् इति निष्णातो व्यवस्थितः तस्मिन्न् अर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यं साक्षिमद् उक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यस्मिंस् तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकम् इति यावत् । कार्यं कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः,

कर्ता तु यत् कृतम् कार्यं सिद्ध्यर्थं तस्य साक्षिणः ।
प्रवर्तन्ते विवादेषु स्वकृतम् वाथ लेख्यकम् ॥

इति स्मरणात् ॥ २.८४ ॥

अपि च ।

** समामासतदर्धाहर्नामजातिस्वगोत्रकैः । २.८५अब्**
** सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ २.८५च्द् ॥**

समा संवत्सरः । मासश् चैत्रादि । तदर्धं पक्षः शुक्लः कृण्णो वा । अहस् तिथिः प्रतिपदादिः । नाम धनिकर्णिकयोः । जातिर् ब्राह्मणत्वादिः । स्वगोत्रं वासिष्टादिगोत्रम् । एतैः समादिभिश् चिह्नितम् । तथा सब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम । आदिग्रहणाद् द्रव्यजातिसंख्याचारादेर् ग्रहणम् । एतैश् च चिह्नितं लेख्यम् कार्यम् इति गतेन संबन्धः ॥ २.८५ ॥

किं च ।

** समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । २.८६अब्**
** मतं मे ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥ २.८६च्द् ॥**

धनिकाधमर्णयोर् यो ऽर्थः स्वरुच्या व्यवस्थितस् तस्मिन्न् अर्थे समाप्ते लिखिते ऋण्य् अधमर्णो नामात्मीयं स्वहस्तेनास्मिंल् लेख्ये** यद् उपरि लेखितं तन् ममामुकपुत्रस्य मतम् **अभिप्रेतम् इति निवेशयेत् पत्रे विलिखेत् ॥ २.८६ ॥

तथा ।

** साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् । २.८७अब्**
** अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥ २.८७च्द् ॥**

तस्मिंल् लेख्ये ये साक्षिणो लिखितास् ते ऽप्य् आत्मीयपितृनामलेखनपूर्वकं अस्मिन्न् अर्थे ऽयम् अमुको देवत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुः । ते च समाः संख्यातो गुणतश् च कर्तव्याः । यद्य् अधमर्णः साक्षी वा लिपिज्ञो न भवति तदाधमर्णो ऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह नारदः-

अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु स लेखयेत् ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥ इति ॥ (ध्को ३५७) २.८७ ॥

अपि च ।

** उभयाभ्यर्थितेनैतन् मया ह्य् अमुकसूनुना । २.८८अब्**
** लिखितं ह्य् अमुकेनेति लेखको ऽन्ते ततो लिखेत् ॥ २.८८च्द् ॥**

ततो लेखक उभाभ्यां धनिकाधमर्णिकाभ्याम् प्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुना एतल् लेख्यं लिखितम् इत्य् अन्ते लिखेत् ॥ २.८८ ॥

सांप्रतं स्वकृतं लेख्यम् आह ।

** विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् । २.८९अब्**
** तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृताद् ऋते ॥ २.८९च्द् ॥**

यल् लेख्यं स्वहस्तेन लिखितम् अधमर्णेन तत् साक्षिभिर् विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृताद् ऋते बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदादिलक्षणेन यत् कृतं तस्माद् विना । नारदो ऽप्य् आह ।

मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् ।
तद् अप्रमाणं लिखितं भयोपधिकृतं तथा ॥ इति । (न्स्म् १.११७)

तच् चैतत् स्वहस्तकृतं परहस्तकृतं च यल् लेख्यं देशाचारानुसारेण सबन्धकव्यवहारे ऽबन्धकव्यवहारे च युक्तम् अर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यम् इत्य् एतावत् न पुनः साधुशब्दैर् एव, प्रातिस्विकदेशभाषयापि लेखनीयम् । यथाह नारदः ।

देशाचाराविरुद्धं यद् व्यक्ताधिविधिलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥ इति । (न्स्म् १.११६)

विधानं विधिः, आधेर् विधिर् आधिविधिर् आधीकरणं, तस्य लक्षणं गोप्याधिभोग्याधिकालकृतमित्यादि, तद् व्यक्तं विस्पष्टं यस्मिंस् तद् व्यक्ताधिविधिलक्षणम् । अविलुप्तक्रमाक्षरं अक्षराणां क्रमः क्रमश् चाक्षराणि च क्रमाक्षराण्य् अविलुप्तानि क्रमाक्षराणि यस्मिंस् तद् अविलुप्तक्रमाक्षरं । तद् एवंभूतं लेख्यं प्रमाणम् । राजशासनवन् न साधुशब्दनियमो ऽत्रेत्य् अभिप्रायः ॥ २.८९ ॥

लेख्यप्रसङ्गेन लेख्यारूढम् अप्य् ऋणं त्रिभिर् एव देयम् इत्य् आह ।

ऋणं लेख्यकृतं देयं पुरुषैस् त्रिभिर् एव तु । २.९०अब्

यथा साक्ष्यादिकृतम् ऋणं त्रिभिर् एव देयं तथा लेख्यकृतम् अप्य् आहर्तृतत्पुत्रतत्पुत्रैस् त्रिभिर् एव देयं न चतुर्थादिभिर् इति नियम्यते ।

ननु पुत्रपौत्रैर् ऋणं देयम् इत्य् अविशेषेण ऋणमात्रं त्रिभिर् एव देयम् इति नियतम् एव ।
बाढम् । अस्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभवाम् अपवादशङ्काम् अपनेतुम् इदं वचनम् आरब्धम् । तथा हि पत्रलक्षणम् अभिधाय कात्यायनेनाभिहितम्-
एवं कालम् अतिक्रान्तं पितॄणां दाप्यते ऋणम् । इति । (ध्को ७०९)

इत्थं पत्रारूढम् ऋणम् अतिक्रान्तकालम् अपि पितॄणां संबन्धि दाप्यते । अत्र पितॄणाम् इति बहुवचननिर्देशात् कालम् अतिक्रान्तम् इति वचनाच् चतुर्थादिर् दाप्य इति प्रतीयते । तथा हारीतेनापि-

लेख्यं यस्य भवेद् धस्ते लाभं तस्य विनिर्दिशेत् । इति ।

अत्रापि यस्य हस्ते लेख्य(पत्र)म् अस्ति तस्यर्णलाभे इति सामान्येन चतुर्थादिभ्यो ऽप्य् ऋणलाभो ऽस्तीति प्रतीयते । अतश् चैतद् आशङ्कानिवृत्त्यर्थम् एतद् वचनम् इत्य् उक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥

अस्यापवादम् आह ।

**आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते ॥ २.९०च्द् ॥ **

संबन्धके ऽपि पत्रारूढम् ऋणं त्रिभिर् एव देयम् इति नियमाद् ऋणापाकरणानधिकारेणाध्याहरणे ऽप्य् अनधिकारप्राप्ताव् इदम् उच्यते । यावच् चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावद् एवाधिर् भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेर् अप्य् अधिकारो दर्शितः ।

ननु एतद् अप्य् उक्तम् एव “फलभोग्यो न नश्यति” (य्ध् २.५८) इति ।
सत्यम् । तद् अप्य् एतस्मिन्न् असत्य् अपअवादवचने पुरुषत्रयविषयम् एव स्याद् इति सर्वम् अनवद्यम् ॥ २.९० ॥

प्रासङ्गिकं परिसमाप्य प्रकृतम् एवानुसरति ।

** देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । २.९१अब्**
** भिन्ने दग्धे ऽथवा छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥ २.९१च्द् ॥ **

व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्याद् इति विधीयते । व्यवहाराक्षमत्वं चात्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्लेख्ये दुष्टानि संदिह्यमानान्य् अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस् तत् दुर्लेख्यं तस्मिन् दुर्लेख्ये, नष्टे कालवशेन, उन्मृष्टे मषीदौर्बल्यादिना मृदितलिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे प्रज्वलिते, छिन्ने द्विधाभूते सति पत्रं द्विर्भवति । एतच् चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनायाध्वापेक्षया कालो दातव्यः । दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभिर् एव व्यवहारनिर्णयः कार्यः । यथाह नारदः ।

लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।
सतस् तत्कालकरणम् असतो द्रष्टदर्शणम् ॥ इति । (न्स्म् १.१२२)

सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिर् दातव्यः । असतां पुनर् अविद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस् तैर् दर्शनं व्यवहारपरिसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः,

अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् । (क्स्म् २२४)

इति स्मरणात् । एतच् च जानपदं व्यवस्थापत्रम् । राजकीयम् अपि व्यवस्थापत्रम् ईदृशम् एव भवति । इयांस् तु विशेषः-

राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्व् अर्थेषु साक्षिमत् ॥ इति । (क्स्म् २५८)

तथान्यद् अपि राजकीयं जयपत्रकम् वृद्धवसिष्टेनोक्तम् ।

यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।
सावधारणकं चैव जयपत्रकम् इष्यते ॥
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धे ऽर्थे वादिने दद्याज् जयिने जयपत्रकम् ॥ इति । (ध्को ३७८)

तथा सभासदो ऽपि मतं मे ऽमुकपुत्रस्येति स्वहस्तं दद्युः,

सभासदश् च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथालेख्यविधौ तद्वत् स्वहस्तं दद्युर् एव ते ॥ (क्स्म् २६३(

इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो भवति । यथाह नारदः-

यत्र सभ्यो जनः सर्वः साध्व् एतद् इति मन्यते ।
स निःशल्यो विवादः स्यात् सशल्यस् त्व् अन्यथा भवेत् ॥ इति । (न्स्म् मा ३.१६)

एतच् चतुष्पाद्व्यवहार एव,

साधयेत् साध्यम् अर्थं यच् चतुष्पादान्वितं च यत् ।
राजमुद्रान्वितं चैव जयपत्रकम् इष्यते ॥ (बृस्म् १.६.२८)

इति स्मरणात् । यत्र तु हीनता, यथा,

अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ (न्स्म् मा २.३३)
इति, तत्र न जयपत्रकम् अस्त्य् अपि तु हीनपत्रकम् एव । तच् च कालान्तरे दण्डप्राप्त्यर्थे जयपत्रं तु प्राङ्न्यायविधिसिद्ध्यर्थम् इति विशेषः ॥ २.९१ ॥

लेख्यसंदेहे निर्णयनिमित्तान्य् आह ।

संदिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः । २.९२अब्
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ २.९२च्द् ॥

शुद्धम् अशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल् लेख्यान्तरं तेन शुद्धिः । यदि सदृशान्य् अक्षराणि भवन्ति तदा शुद्धिः स्याद् इत्य् अर्थः । आदिशब्दात् साक्षिलेखकस्वहस्तलिखितान्तरसंवादाच् छुद्धिर् इति । युक्त्या प्राप्तिर् युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन् देशे ऽस्मिन्काले ऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया तत्साक्ष्युपन्यासः । चिह्नम् असाधारणं श्रीकारादि । संबन्धो ऽर्थिप्रत्यर्थिनोः पूर्वम् अपि परस्परविश्वासेन दानग्रहणादिसंबन्धः । आगमो ऽस्यैतावतो ऽर्थस्य संभावितः प्राप्त्युपायः । एते एव हेतवः । एभिर् हेतुभिः संदिग्धलेख्यस्य शुद्धिः स्याद् इत्य् अन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर् निर्णयः कार्यः । यथाह कात्यायनः-

दूषिते पत्रके वादी तदारूढांस् तु निर्दिशेत् । इति । (क्स्म् २८३)

साक्षिसंभवविषयम् इदं वचनं । साक्ष्यसंभवविषयं तु हारीतवचनम्-

न मयैतत् कृतं पत्रं कूटम् एतेन कारितम् ।
अधरीकृत्य तत् पत्रम् अथो दिव्येन निर्णयः ॥ इति ॥ (ध्को ३७४) २.९२ ॥

एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते, यदा कृत्स्नम् एव ऋणं दातुम् असमर्थस् तदा किं कर्तव्यम् इत्य् अत आह ।

** लेख्यस्य पृष्ठे ऽभिलिखेद् दत्त्वा दत्त्वर्णिको धनम् । २.९३अब्**
** धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥ २.९३च्द् ॥**

यदाधमर्णिकः सकलम् ऋणं दातुम् असमर्थस् तदा शक्त्यनुसारेण दत्त्व पूर्वकृतस्य लेख्यस्य पृष्ठे ऽभिलिखेत् एतावन् मया दत्तम् इति । उत्तमर्णो वा उपगतं प्राप्तं धनं तस्यैव लेख्यस्य पृष्ठे दद्याद् अभिलिखेत् “एतावन् मया लब्धम्” इति । कथम् । स्वहस्तपरिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद् वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्नितम् अधमर्णायोत्तमर्णो दद्यात् ॥ २.९३॥

ऋणे तु कृत्स्ने दत्ते, लेख्यं किं कर्तव्यम् इत्य् अत आह ।

दत्त्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् । २.९४अब्

क्रमेण सकृद् एव वा कृत्स्नम् ऋणं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्या अधमर्णत्वनिवृत्त्यर्थम् अन्यल् लेख्यं कारयेद् उत्तमर्णेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमर्णो विशुद्धिपत्रम् अधमर्णाय दद्याद् इत्य् अर्थः ॥

ससाक्षिके ऋणे कृत्स्ने दातव्ये, किं कर्तव्यम् इत्य् अत आह ।

साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षिकम् ॥ २.९४च्द् ॥

यत् तु ससाक्षिकम् ऋणं तत् पूर्वसाक्षिसमक्षम् एव दद्यात् ॥ २.९४ ॥

**इति लेख्यप्रकरणम् **

**अथ दिव्यप्रकरणम् **

लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणम् उक्तम् । अथावसरप्राप्तं दिव्यं प्रमाणम् अभिधास्यन् “तुलाग्न्यापः” इत्यादिभिर् आद्यैः पञ्चभिः श्लोकैर् दिव्यमातृकां कथयति । तत्र तावद् दिव्यान्य् उपदिशति ।

तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । २.९५अब्

तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहनिवृत्तये दातव्यानीति ॥

ननु अन्यत्रान्यान्य् अपि तण्डुलादीनि दिव्यानि सन्ति,
धटो ऽग्निर् उदकं चैव विषं कोशस् तथैव च ।
तण्डुलाश् चैव दिव्यानि सप्तमस् तप्तमाषकः ॥ (ध्को ४६२; च्फ़्। बृस्म् १.८.३))

इति पितामहस्मरणात् ।

अतः कथम् एतावन्त्य् एवेत्य् अत आह ।

महाभियोगेष्व् एतानि । २.९५च्

एतानि महाभियोगेष्व् एव नान्यत्रेति नियम्यते न पुनर् इमान्य् एव दिव्यानीति । महत्त्वावधिं च वक्ष्यति ।

ननु अल्पाभियोगे ऽपि कोश इष्यते “कोशम् अल्पे ऽपि दापयेत्” इति स्मरणात् ।
सत्यम् । कोशस्य तुलादिषु पाठो न महाभियोगेष्व् एवेति नियमार्थः, किं तु सावष्टम्भाभियोगे ऽपि प्राप्त्यर्थः । अन्यथा शङ्काभियोगे एव स्यात्,
अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलाश् चैव कोशश् च शङ्कास्व् एव न संशयः ॥ (पिस्म् ३६; ध्को ४६२)

इति स्मरणात् ॥

महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविशेषेण प्राप्ताव् अपवादम् आह ।

** शीर्षकस्थे ऽभियोक्तरि ॥ २.९५द् ॥**

एतानि तुलादीन्य् अभियोक्तरि शीर्षकस्थे ऽभियुक्तस्य भवन्ति । शीर्षकं शिरोव्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस् तेन च दण्डो लक्ष्यते तत्र तिष्टतीति शीर्षकस्थः तत्प्रयुक्तदण्डभाग् इत्य् अर्थः ॥ २.९५ ॥

“ततो’र्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनं” (य्ध् २.७) इति भावप्रतिज्ञावादिन एव क्रियेति व्यवस्था दर्शिता । तद् अपवादम् आह ।

रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः । २.९६अब्

रुच्याभियोत्रभियुक्तयोः परस्परसंप्रतिपत्त्यान्यतरो ऽभियुक्तो ऽभियोक्ता वा दिव्यं कुर्यात् । इतरो ऽभियुक्तो ऽभियोक्ता वा शिरः शारीरम् अर्थदण्डं वा वर्तयेद् अङ्गीकुर्यात् । अयम् अभिसन्धिः । न मानुषप्रमाणवद् दिव्यं प्रमाणं भावैकगोचरं अपि तु भावाभावावविशेषेण गोचरयति । अतश् च मिथ्योत्तरे प्रत्यवस्कन्दने प्राङ्न्याये वार्थिप्रत्यर्थिनोर् अन्यतरस्येच्छया दिव्यं भवतीति ॥

अल्पाभियोगे महाभियोगे शङ्कासावष्टम्भयोर् अप्य् अविशेषेण कोशो भवतीत्य् उक्तं, तुलादीनि विषान्तानि तु महाभियोगेष्व् एव सावष्टम्भेष्व् एवेति च नियमो दर्शितः । तत्रावष्टम्भाभियोगेष्व् एवेत्य् अस्यापवादम् आह ।

विनापि शीर्षकात् कुर्यान् नृपद्रोहे ऽथ पातके ॥ २.९६च्द्

राजद्रोहाभिशण्कायां ब्रह्महत्यादिपातकाभिशण्कायां च शिरःस्थायिना विनापि तुलादीनि कुर्यात् महाचौर्याभिशण्कायां च । यथाह-

राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥ इति । (ध्को ४५४- नारद)

तण्डुलाः पुनर् अल्पचौर्यशङ्कायाम् एव,

चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः । (पिस्म् १६३; ध्को ४६३)

इति पितामहवचनात् । तप्तमाषस् तु महाचौर्याभिशण्कायाम् एव,

चौर्यशण्काभियुक्तानां तप्तमाषो विधीयते । (ध्को ४६३- पितामह)
इति स्मरणात् । अन्ये पुनः शपथा अल्पार्थविषयाः,
सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवतापितृपादांश् च दत्तानि सुकृतानि च ॥ (न्स्म् २०.२)
स्पृशेच् छिरांसि पुत्राणां दाराणां सुहृदां तथा ।
अभियोगेषु सर्वेषु कोशपानम् अथापि वा ॥
इत्य् एते शपथाः प्रोक्ता मनुना स्वल्पकारणे ॥ (ध्को ४४१)

इति नारदस्मरणात् ॥ यद्य् अपि मानुषप्रमाणानिर्णेयस्य निर्णायकं यत् तद् दिव्यम् इति लोकप्रसिद्ध्या शपथानाम् अपि दिव्यत्वं तथापि कालान्तरनिर्णयनिमित्तत्वेन समनन्तरनिर्णयनिमित्तेभ्यो धटादिभ्यो दिव्येभ्यो भेदत्वव्यपदेशो ब्राह्मणपरिव्राजकवत् । कोशस्य तु शपथत्वे ऽपि धटादिषु पाठो महाभियोगविषयत्वेनावष्टम्भाभियोगविषयत्वेन च धटादिसाम्यान् न तु समनन्तरनिर्णयनिमित्तत्वेन । तण्डुलानां तप्तमाषस्य च समनन्तरनिर्णयनिमित्तत्वे ऽप्य् अल्पविषयत्वेन शङ्काविषयत्वेन च धटादिवैलक्षण्यात् तेष्व् अपाठ इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश् च यथासंभवम् ऋणादिषु विवादेषु प्रयोक्तव्यानि । यत् तु पितामहवचनम्-

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् । (पिस्म् ३९; ध्को २३२)

इति, तद् अपि लिखितसामन्तादिसद्भावे दिव्यानि परिवर्जयेद् इति व्याख्येयम् ।

ननु विवादान्तरेष्व् अपि प्रमाणान्तरसंभवे दिव्यानाम् अनवकाश एव ।
सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाक्ष्युपन्यासे ऽर्थिना कृते ऽपि प्रत्यर्ती यदि दण्डाभ्युपगमावष्टम्भेन दिव्यम् अवलम्बते तदा दिव्यम् अपि भवति । साक्षिणाम् आशयदोषसंभवाद् दिव्यस्य च निर्दोषत्वेन वस्तुतत्त्वविषयत्वात् तल्लक्षणत्वाच् च धर्मस्य । यथाह नारदः-
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥ इति । (न्स्म् मा १.११)

स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृते ऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यम् इति विकल्पनिराकरणार्थं “स्थावरेषु विवादेषु” इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्ताद्यभावे स्थावरविवादेष्व् अनिर्णयप्रसङ्गात् ॥ २.९६ ॥

किं च ।[^२६]

** सचैलं स्नातम् आहूय सूर्योदय उपोषितम् । २.९७अब्**
** कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ २.९७च्द्**

पूर्वेद्युर् उपोषितम् उदिते सूर्ये सचैलं स्नातं दिव्यग्राहिणम् आहूय नृपस्य सभ्यानां ब्राह्मणानां च संनिधौ सर्वाणि दिव्यानि कारयेत् प्राड्विवाकः ।

त्रिरात्रोपोषिताय स्युर् एकरात्रोषिताय वा ।
नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥ (पिस्म् ५३; ध्को ४६८)

इत्य् उपवासविकल्पः पितामहेनोक्तो बलवदबलवन्महाकार्याल्पकार्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश् च कारयितुः प्राड्विवाकस्यापि,

दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥ (पिस्म् ५४; ध्को ४६५)

इति पितामहवचनात् ॥ अत्र यद्य् अपि सूर्योदय इत्य् अविशेषेणोक्तं तथापि शिष्टसमाचाराद् भानुवासरे दिव्यानि देयानि । तत्रापि,

पूर्वाह्ने ऽग्निपरीक्षा स्यात् पूर्वाह्ने च धटो भवेत् ।
मध्याह्ने तु जलं देयं धर्मतत्त्वम् अभीप्सता ॥
दिवसस्य तु पूर्वाह्ने कोशशुद्धिर् विधीयते ।
रत्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥ (पिस्म् ४५–४६; ध्को ४६५)

इति पितामहोक्तो विशेषो द्रष्टव्यः । अनुक्तकालविशेषाणां तण्डुलतप्तमाषप्रभृतीनां पूर्वाह्न एव प्रदानम्,

पूर्वाह्ने सर्वदिव्यानां प्रदानं परिकीर्तितम् । (न्स्म् २०.१२* अद्दितिओन्)

इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्ते पूर्वो भागः पूर्वह्नो मध्यमो मध्याह्न उत्तरो ऽपराह्नः । तथापरो ऽपि कालविशेषो विधिप्रतिषेधमुखेन दर्शितः । विधिमुखस् तावत्,

अग्नेः शिशिरहेमन्तौ वर्षाश् चैव प्रकीर्तिताः ।
शरद्ग्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥
चैत्रो मार्गशिरश् चैव वैशाखश् च तथैव च ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥
कोशस् तु सर्वदा देयस् तुला स्यात् सार्वकालिकी ॥ इति । (ध्को ४६४; नारद)

कोशग्रहणं सर्वशपथानाम् उपलक्षणम् । तण्डुलानां पुनर् विशेषानभिधानात् सार्वकालिकत्वम् । प्रतिषेधमुखो ऽपि,

न शीते तोयशुद्धिः स्यान् नोष्णकाले ऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात् प्रवाते न तुलां तथा ॥ (न्द्म् २०.८* अद्दितिओन्)
नापराह्ने न सन्ध्यायां न मध्याह्ने कदाचन ॥ इति । (न्स्म्, च् ३२०)

“न शीते तोयशुद्धिः स्याद्” इत्य् अत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । “नोष्णकाले ऽग्निशोधनम्” इत्य् अत्रोष्णकालशब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर् निषेध आदरार्थः । प्रयोजनं तु वक्ष्यते ॥ २.९७ ॥

अधिकारिव्यवस्थाम् आह ।

** तुलास्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् । २.९८अब्**
** अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ २.९८ च्द् ॥ **

स्त्री स्त्रीमात्रं जातिवयोवस्थाविशेषानादरेण । बाल आषोडशाद् वर्षाज् जातिविशेषानादरेण । वृद्धो ऽशीतिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादविकलः । ब्राह्मणो जातिमात्रम् । रोगी व्याधितः । एतेषां शोधनार्थं तुलैवेति नियम्यते । अग्निः फालस् तप्तमाषश् च क्षत्रियस्य । जलम् एव वैश्यस्य । वाशब्दो ऽवधारणे । विषस्य यवा उक्तपरिमाणाः सप्तैव शूद्रस्य शोधनार्थं भवन्ति । ब्राह्मणस्य तुलाविधानात् “शूद्रस्य यवाः सप्त विषस्य वा” इति विषविधानाद् अग्निर् जलं वेति क्षत्रियवैश्यविषयम् उक्तम् । एतद् एव स्पष्टीकृतं पितामहेन-

ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥ इति । (पिस्म् ४०)

यत् तु स्त्र्यादीनां दिव्याभावस्मरणम्,

सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम् ।
स्त्रीणां च न भवेद् दिव्यं यदि धर्मस् त्व् अपेक्षितः ॥ (पिस्म् ४४)

इति, तत् “रुच्या वान्यतरः कुर्यात्” (य्ध् २.९६) इति विकल्पनिवृत्त्यर्थम् । एतद् उक्तं भवति- अवष्टम्भाभियोगेषु स्त्र्यादीनाम् अभियोक्तृत्वे ऽभियोज्यानाम् एव दिव्यं, एतेषाम् अभियोज्यत्वे ऽप्य् अभियोक्तॄणाम् एव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेति कात्यायनवचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्त्र्यादीनां तुलैवेति एतच् च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्वदिव्यसमवधाने नियामकतयार्थवत् । न च सर्वकालं स्त्रीणां तुलैवेति,

स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
धटकोशादिभिस् तासाम् अन्तस् तत्त्वं विचारयेत् ॥ (न्स्म् २०.४८* अद्द्; ध्को ४५२)

इति विषसलिलव्यतिरिक्तधटकोशाग्न्यादिभिः शुद्धिविधानात् । एवं बालादिष्व् अपि योजनीयम् । तथा ब्राह्मणादीनाम् अपि न सार्वकालिकस् तुलादिनियमः,

सर्वेषाम् एव वर्णानां कोशशुद्धिर् विधीयते ।
सर्वाण्य् एतानि सर्वेषां ब्राह्मणस्य विषं विना ॥ (पिस्म् ४१)

इति पितामहस्मरणात् । तस्मात् साधारणे काले बहुदिव्यसमवधाने तुलादिनियमार्थम् एवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि वर्षास्व् अग्निर् एव सर्वेषाम् । हेमन्तशिशिरयोस् तु क्षत्रियादित्रयाणाम् अग्निविषयोर् विकल्पः । ब्राह्मणस्य त्व् अग्निर् एव न कदाचिद् विषम्, “ब्राह्मणस्य विषम् विना” इति प्रतिषेधात् । ग्रीष्मशरदोस् तु सलिलम् एव । येषां तु व्याधिविशेषेणाग्न्यादिनिषेधः,

कुष्टिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥ (न्स्म् ब् ५.११८)

इति तेषाम् अग्न्यादिकाले ऽपि साधारणं तुलाद्य् एव दिव्यं भवति । तथा,

तोयम् अग्निर् विषं चैव दातव्यं बलिनां नृणाम् । (ध्को ४६४- पितामह)

इति वचनाद् दुर्बलानाम् अपि सर्वथा विधिप्रतिषेधाद् ऋतुकालानतिक्रमेण जातिवयोवस्थाश्रितानि दिव्यानि देयानि ॥ २.९८ ॥

“महाभियोगेष्व् एतानि” (य्ध् २.९५) इत्य् उक्तम् । तत्राभियोगस्य यदपेक्षं महत्त्वं तद् इदानीम् आह ।

नासहस्राद् धरेत् फालं न विषं न तुलां तथा । २.९९अब्

पणसहस्राद् अर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलम् अपि । यथोक्तम्-

तुलादीनि विषान्तानि गुरुष्व् अर्थेषु दापयेत् । इति । (ध्को ४७१)

अत्र कोशस्याग्रहणं “कोशम् अल्पे ऽपि दापयेत्” इत्य् अल्पाभियोगे ऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्राद् ऊर्ध्वम् एव भवन्ति नार्वाग् इत्य् अर्थः ॥

ननु अर्वाग् अप्य् अग्न्यादीनि पितामहेन दर्शितानि-
सहस्रे तु धटं दद्यात् सहस्रार्धे तथायसम् ।
अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥ इति । (पिस्म् ४७)
सत्यम् । तत्रेत्थं व्यवस्था- यद्द्रव्यापहारे पातित्यं भवति तद्विषयं पितामहवचनं, इतरद्रव्यविषयं योगीश्वरवचनम् इति । एतच् च वचनद्वयं स्तेयसाहसविषयम् । अपह्नवे तु विशेषो दर्शितः कात्यायनेन-
दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेस्तु विनाशे वै दद्याच् चैव हुताशनम् ॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम् ।
विंशद्दशविनाशे तु कोशपानं विधीयते ॥
पञ्चाधिकस्य वा नाशे ततो ऽर्धार्धस्य तण्डुलाः ।
ततो ऽर्धार्धविनाशे हि स्पृशेत् पुत्रादिमस्तकान् ॥
ततो ऽर्धार्धविनाशे हि लौकक्यश् च क्रियाः स्मृताः ।
एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥ इति । (क्स्म् ४१६–२१)

“ज्ञात्वा संख्या सुवर्णानाम्” इत्य् अत्र सुवर्णशब्दः “षोडश माषाः सुवर्णः” (य्ध् १.३६३) इत्युक्तप्रिमाणवचनः । नाशशब्दश् चात्रापह्नववचनः । “नासहस्राद् धेर्त् फालम्” इत्य् अत्र तु ताम्रिकपणसहस्रं बोद्धव्यम् ॥

ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि, तत् कथं नासहस्राद् धरेत् फालम् इत्य् अत्राह ।
नृपार्थेष्व् अभिशापे च वहेयुः शुचयः सदा ॥ २.९९च्द् ॥

नृपद्रोहे महापातकाभियोगे च सदा द्रव्यसंख्याम् अनपेक्ष्यैवैतानि दिव्यानि वदेयुः कुर्युर् उपवासादिना शुचयः सन्तः । तथा देशविशेषो ऽपि नारदेनोक्तः ।

सभाराजकुलद्वारदेवायतनचत्वरे ।
निधेयो निश्चलः पूज्यो धूपमाल्यानुलेपनैः ॥ इति । (न्स्म् २०.१२* अद्द्)

निधेयो धटः । व्यवस्था च कात्यायनेनोक्ता ।

इन्द्रस्थाने ऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतो ऽन्येषु सभामध्ये दिव्यं देयं विदुर् बुधाः ॥ (क्स्म् ४३४–३५)
अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ।
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥ इति ॥ (क्स्म् ४३३) २.९९ ॥

इति दिव्यमातृका ॥

एवं सर्वदिव्योपयोगिनीं दिव्यमातृकाम् अभिधायेदानीं धतादिदिव्यानां प्रयोगम् आह ।

** तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः । २.१००अब्**
** प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ २.१००च्द् ॥**
** त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता । २.१०१अब्**
** तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥ २.१०१च्द् ॥**
** यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय । २.१०२अब्**
** शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ २.१०२च्द् ॥**

तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयस् तैः प्रतिमानेन मृदादिना समीभूतः समीकृतस् तुलाम् आश्रितो ऽधिरूढो ऽभियुक्तो ऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतले ऽवस्थितस् तस्मिन् पाण्दुलेखेनाङ्कयित्वावतारितस् तुलाम् अभिमन्त्रयेत् प्रार्थयेद् अनेन मन्त्रेण । हे तुले त्वं सत्यस्य स्थानम् असि । पुरा आदिसृष्टौ देवैर् हिरण्यगर्भप्रभृतिभिर् विनिर्मितोत्पादिता । तत् तस्मात् सत्यं संदिग्धस्यार्थस्य स्वरूपं वद दर्शय कल्याणि शोभने अस्मात् संशयान् मां विमोचय । हे मातः यद्य् अहं पापकृद् असत्यवाद्य् अस्मि ततो मं त्वम् अधो नय । अथ शुद्धः सत्यवाद्य् अस्मि ततो माम् ऊर्ध्वं गमयेति । प्राड्विवाकस्य तुलाभिमन्त्रणमन्त्रः स्मृत्यन्तरोक्तः । अयम् तु दिव्यकारिणः । जयपराजयलक्षणं तु मन्त्रलिङ्गाद् एवावगम्यत इति न पृथग् उक्तम् । धटनिर्माणं पुनर् आरोहणाद्यर्थसिद्धम् एव पितामहनारदादिभिः स्पष्टीकृतम् । तद् यथा-

छित्त्वा तु यज्ञियं वृक्षं यूपवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यस् तुला कार्या मनीषिभिः ॥
मन्त्रः सौम्यो वानस्पत्यश् छेदने जप्य एव च ।
चतुरस्रा तुला कार्या दृढा ऋज्वी तथ एव च ॥
कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् ।
चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ।
अन्तरं तु तयोर् हस्तौ भवेद् अध्यर्धम् एव च ।
हस्तद्वयं निखेयं तु पादयोर् उभयोर् अपि ॥
तोरणे च तथा कार्ये पार्श्वयोर् उभयोर् अपि ।
धटाद् उच्चतरे स्यातां नित्यं दशभिर् अङ्गुलैः ॥
अवलम्बौ च कर्तव्यौ तोरणाभ्याम् अधोमुखौ ।
मृन्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बिनौ ॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस् तथा ।
शिक्यद्वयं समासज्य पार्श्वयोर् उभयोर् अपि ॥
प्राङ्मुखान् कल्पयेद् दर्भाञ् शिक्ययोर् उभयोर् अपि ।
पश्चिमे तोलयेत् कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् ॥
पिटकं पूरयेत् तस्मिन्न् इष्टकाग्रावपांसुभिः । (पिस्म् ८४–९३)

अत्र च मृत्तिकेष्टकाग्रावपांसूनां विकल्पः ।

परीक्षका नियोक्तव्यास् तुलामानविशारदाः ॥
वणिजो हेमकारा श्च कांस्यकारास् तथैव च ।
कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ॥
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ।
यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ॥
तोलयित्वा नरं पूर्वं पश्चात् तम् अवतार्य तु ।
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ॥
तत आवाहयेद् देवान् विधिनानेन मन्त्रवित् ।
वादित्रतूर्यघोषैश् च गन्धमाल्यानुलेपनैः ॥
प्राङ्मुखः प्राञ्जलिर् भूत्वा प्राड्विवाकस् ततो वदेत् । (पिस्म् ९४–९९)
एह्य् एहि भगवन् धर्म अस्मिन् दिव्ये समाविश ॥
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ।
आवाह्य तु धटे धर्मं पश्चाद् अङ्गानि विन्यसेत् ॥
इन्द्रं पूर्वं तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥
अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥
कुबेरस् तु सुवर्णाभो वह्निश् चापि सुवर्णभः ।
तथाइव निरृतिः श्यामो वायुर् धूम्रः प्रशस्यते ॥
ईशानस् तु भवेद् रक्त एवं ध्यायेत् क्रमाद् इमान् ।
इन्द्रस्य दक्षिणे पार्श्वे वसून् आराधयेद् बुधः ॥
धरो ध्रुवस् तथा सोम आपश् चैवानिलो ऽनलः ।
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ॥
देवेशेशानयोर् मध्य आदित्यानां तथा गणम् ।
धातार्यमा च मित्रश् च वरुणो ऽंशुर्भगस् तथा ॥
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।
ततस् त्वष्टा ततो विष्णुर् अजघन्यो जघन्यजः ॥
इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ।
अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ॥
वीरभद्रश् च शम्भुश् च गिरिशश् च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥
भवनाधीश्वरश् चैव कपाली च विशां पतिः ।
स्थाणुर् भवश् च भगवान् रुद्रास् त्व् एकादश स्मृताः ॥
प्रेतेशरक्षोमध्ये तु मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ।
निरृतेर् उत्तरे भागे गणेशायतनं विदुः ॥
वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ।
पवनः स्पर्शनो वायुर् अनिलो मारुतस् तथा ॥
प्राणः प्राणेशजीवौ च मरुतो ऽष्टौ प्रकीर्तिताः ।
धटस्योत्तरभागे तु दुर्गाम् आवाहयेद् बुधः ॥
एतासां देवतानां तु स्वनाम्ना पूजनं विदुः ।
भूषावसानं धर्माय दत्त्वा चार्घ्यादिकं क्रमात् ॥
अर्घ्यादिपश्चाद् अङ्गानां भूषान्तम् उपकल्पयेत् ।
गन्धादिकां नैवेद्यान्तां परिचर्यां प्रकल्पयेत् ॥ इति । (पिस्म् ५७–७४)

अत्र च तुलां पताकाध्वजालंकृतां विधाय तस्याम् एह्य् एहीति मन्त्रेण धर्मम् आवाह्य धर्मायार्घ्यं कल्पयामि नम इत्यादिना प्रयोगेणार्घ्यपाद्याचमनीयमधुपर्काचमनीयस्नानवस्त्रयज्ञोपवीताचमनीय-मुकुटकटकादिभूषान्तं दत्त्वा इन्द्रादीनां दुर्गान्तानां प्रणवाद्यैः स्वनामभिश् चतुर्थ्यन्तैर् नमोन्तैर् अर्घ्यादिभूषान्तं पदार्थानुसमयेन दत्त्वा धर्माय गन्धपुष्पधूपदीपनैवेद्यादि दत्त्वा इन्द्रादीनां गन्धादीनि पूर्ववद् दद्यात् । गन्धपुष्पाणि च धटपूजायां रक्तानि कार्याणि । यथाह नारदः ।

रक्तैर् गन्धैश् च माल्यैश् च दध्यपूपाक्षतादिभिः ।
अर्चयेत् तु धटं पूर्वं ततः शिष्टांस् तु पूजयेत् ॥ इति । (ध्को ४७५)

इन्द्रादीनां तु विशेषानभिधानाद् यथालाभं रक्तैर् अन्यैर् वा पूजनम् इति पूजाक्रमः । एतच् च सर्वं प्राड्विवाकः कुर्यात् । यथोक्तम् ।

प्राड्विवाकस् ततो विप्रो वेदवेदाङ्गपारगः ।
श्रुतवृत्तोपसंपन्नः शान्तचित्तो विमत्सरः ॥
सत्यसंधः शुचिर् दक्षः सर्वप्राणिहिते रतः ।
उपोषितः शुद्धवासाः कृतदन्तानुधावनः ॥
सर्वासां देवतानां च पूजां कुर्याद् यथाविधि ॥ (ध्को ४७५- नारद)
तथा ऋत्विग्भिश् चतुर्भिश् चतसृषु दिक्षु लौकिकाग्नौ होमः कार्यः । यथाह ।
चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर् होमसाधनैः ॥
सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥ (पिस्म् ७५–७६)

प्रणवादिकां गायत्रीम् उच्चार्य पुनः स्वाहाकारान्तं प्रणवम् उच्चार्य समिदाज्यचरून् प्रत्येकम् अष्टोत्तरशतं जुहुयाद् इत्य् अर्थः । एवं हवनान्तां देवपूजां विधायानन्तरम् अभियुक्तम् अर्थं वक्ष्यमाणमन्त्रसहितं पत्रे लिखित्वा तत् पत्रं शोध्य शिरोगतं कुर्यात् । यथाह ।

यद् अर्थम् अभियुक्तः स्याल् लिखित्वा तं तु पत्रके ।
मन्त्रेणानेन सहितं तत् कार्यं तु शिरोगतम् ॥ (पिस्म् ७७)

मन्त्रश् चायम्-

आदित्यचन्द्राव् अनिलो ऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश्च ।
अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥ इति । (पिस्म् ७८)

एतच् च धर्मावाहनादि शिरसि पत्रारोपणान्तम् अनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम् ।

इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च देवानां तथैव परिकल्पयेत् ॥ इति । (पिस्म् ५८)

अनन्तरं प्राड्विवाको धटम् आमन्त्रयेत्,

धटम् आमन्त्रयेच् चैव विधिनानेन शास्त्रवित् । (पिस्म् ९९, नोते; ध्को ४८२)
इति स्मरणात् । मन्त्राश् च दर्शिताः-
त्वं धट ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलं नरम् ॥
धृतो भावयसे यस्माद् धटस् तेनाभिधीयसे ।
त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि च ॥
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ।
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ॥
तदेनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ इति । (पिस्म् १००–३)

शोध्यस् तु “त्वं तुले” इत्यादिना पूर्वोक्तेन मन्त्रेण तुलाम् आमन्त्रयेत् । अनन्तरं प्राड्विवाकः शिरोगतपत्रकं शोध्य यथास्थानं निवेश्य च धटम् आरोपयति,

पुनर् आरोपयेत् तस्मिञ् छिरोवस्थितपत्रकम् । (ध्को ४८४)

इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत् तथैवावस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्त्राभिज्ञः कुर्यात् ।

ज्योतिर्विद् ब्राह्मणः श्रेष्ठः कुर्यात् कालपरीक्षणं ।
विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः ॥ (पिस्म् १०४)

इति स्मरणात् । दशगुर्वक्षरोञ्चारणकालः प्राणः । षट्प्राणा विनाडी । उक्तं च ।

दशगुरुवर्णः प्राणः षट् प्राणाः स्याद् विनाडिका तासाम् ।
षष्ट्या घटी घटीनां षष्ट्याहः स्वाग्निभिर् दिनैर् मासः ॥ इति । (ध्को ५३६, नोते)

तस्मिंश् च काले शुद्ध्यशुद्धिपरीक्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्ध्यशुद्धी कथयन्ति । यथोक्तं पितामहेन ।

साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयो ऽलुब्धा नियोक्तव्या नृपेण तु ॥
शंसन्ति साक्षिणः श्रेष्ठाः शुद्ध्यशुद्धी नृपे तदा ॥ इति । (पिस्म् १०५–६)

शुद्ध्यशुद्धिनिर्णयकारणं चोक्तम् ।

तुलितो यदि वर्धेत स शुद्धः स्यान् न संशयः ।
समो वा हीयमानो वा न स शुद्धो भवेन् नरः ॥ इति । (न्स्म् २०.१२; पिस्म् १०७)

यत् तु पितामहवचनम् ।

अल्पदोषः समो ज्ञेयो बहुदोषस् तु हीयते । इति । (पिस्म् १०८)

तत्र यद्य् अप्य् अभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्येनावधारयितुं शक्यते तथापि सकृद् अमितपूर्वत्वेनाल्पत्वम् असकृन् मतिपूर्वत्वेन च महत्त्वम् इति दण्डप्रायश्चित्ताल्पत्वमहत्त्वम् अवधार्यते । यदा चानुपलक्ष्यमाणदृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्य् अशुद्धिर् एव ।

कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदे ऽक्षभङ्गे वा तथैवाशुद्धिम् आदिशेत् ॥ (न्स्म् च्–२८४)

इति स्मरणात् । कक्षं शिक्यतलम् । कर्कटौ तुलान्तयोः शिक्याधाराव् ईषद्वक्राव् आयसकीलकौ कर्कटशृङ्ग्संनिभौ । अक्षः पादस्तम्भयोर् उपरि निविष्टस् तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस् तदा पुनर् आरोपयेत्,

शिक्यादिच्छेदभङ्गेषु पुनर् आरोपयेन् नरम् । (न्स्म्–ब् ५.१३०)

इति स्मरणात् । ततश् च ।

ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् ।
एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ॥
महतीं कीर्तिम् आप्नोति ब्रह्मभूयाय कल्पते ॥ (पिस्म् ७९–८०)

यदा तूक्तलक्षणं धटं तथैव स्थापयितुम् इच्छति तदा वायसाद्युपघातनिरासार्थं कपाटादिसहितां शालां कुर्यात्,

विशालाम् उन्नतां शुभ्रां घटशालां तु कारयेत् ।
यत्रस्था नोपहन्येत श्वभिश् चण्डालवायसैः ॥
तत्रैव लोकपालादीन् सर्वान् दिक्षु निवेशयेत् ।
त्रिसन्ध्यं पूजयेद् एतान् गन्धमाल्यानुलेपनैः ॥
कपाटबीजसंयुक्तां परिचारकरक्षिताम् ।
मृत्पानीयाग्निसंयुक्ताम् अशून्यां कारयेन् नृपः ॥ (पिस्म् ८१–८३)

इति स्मरणात् । बीजानि यवव्रीह्यादीनि ॥ २.१०० ॥ २.१०१ ॥ २.१०२ ॥

इति धटविधिः ॥

इदानीं क्रमप्राप्तम् अग्निदिव्यम् आह ।

** करौ विमृदितव्रीहेर् लक्षयित्वा ततो न्यसेत् ।**
** सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥ २.१०३ ॥**

दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनादिशिरःपत्रारोपणान्ते च विध्यन्ते सत्य् अयम् अग्निविधौ विशेषः । विमृदितव्रीहेर् विमृदिता विघर्षिता व्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस् तस्य करौ लक्षयित्वा तिलकालकव्रणकिणादिस्थनेष्व् अलक्तकरसादिनाङ्कियत्वा । यथाह नारदः ।

हस्तक्षतेषु सर्वेषु कुर्याद् धंसपदानि तु । इति । (न्स्म् च्–३०१)

अन्तन्तरं सप्ताश्वत्थस्य पर्णानि हस्तयोर् अञ्जलीकृतयोर् न्यसेत्,

पत्रैर् अञ्जलिम् आपूर्य आश्वत्थैः सप्तभिः समैः । (ध्को ४९०- नारद)

इति स्मरणात् । तानि च हस्तसहितानि सूत्रेण तावद् वेष्टयेत् । यावन्त्य् अश्वत्थपर्णानि सप्तकृत्वो वेष्टयेद् इत्य् अर्थः । सूत्राणि च सप्त शुक्लानि भवन्ति,

वेष्टयीत सितैर् हस्तौ सप्तभिः सूत्रतन्तुभिः । (ध्को ४९०)

इति नारदवचनात् । तथा सप्त शमीपत्राणि सप्तैव दूर्वापत्राणि चाक्षतांश् च दध्यक्तान् अक्षतांश् चाश्वत्थपत्राणाम् उपरि विन्यसेत्,

सप्त पिप्पलपत्राणि शमीपत्राण्य् अथाक्षतान् ।
दूर्वायाः सप्त पत्राणि दध्यक्तांश् चाक्षतान् न्यसेत् ॥

इति स्मरणात् । तथा कुसुमानि च विन्यसेत्,

सप्त पिप्पलपत्राण्य् अक्षतान् सुमनो दधि ।
हस्तयोर् निक्षिपेत् तत्र सूत्रेणावेष्टनं तथा ॥ (ध्को ४९८)

इति पितामहवचनात् । सुमनसः पुष्पाणि । यद् अपि स्मरणम्,

अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस् त्व् अदग्धः सप्तमे पदे ॥ (ध्को ४९८- हारीत)

इति, तद् अश्वत्थपत्राभावे ऽर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्यत्वावगमात्-

पिप्पलाज् जायते वह्निः पिप्पलो वृक्षराट्** **स्मृतः ।
अतस् तस्य तु पत्राणि हस्तयोर् विन्यसेद् बुधः ॥ इति ॥ (पिस्म् ११९) २.१०३ ॥

कर्तुर् अग्न्यभिमन्त्रणम् आह ।

** त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक । २.१०४अब् **
** साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ २.१०४च्द् ॥**

हे अग्ने, त्वं सर्वभूतानां जरायुजाण्डजस्वेदजोद्भिज्जानाम् अन्तः शरीराभ्यन्तरे चरसि उपभुक्तान्नपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो कवे क्रान्तदर्शिन् साक्षिवत् पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्यपापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापान्य् अवेक्ष्य सत्यं ब्रूहि दर्शयेत्य् अर्थः । अयःपिण्डे त्रिभिस् तापैः संतप्ते संदंशेन पुरत आनीते कर्ता पश्चिममण्डले प्राङ्मुखस् तिष्ठन् अनेन मन्त्रेणाग्निं अभिमन्त्रयेत् । यथाह नारदः ।

अग्निवर्णम् अयःपिण्डं सस्फुलिङ्गम् सुरञ्जितम् ।
तापे तृतीये संताप्य ब्रूयात् सत्यपुरस्कृतम् ॥ इति । (न्स्म्–च् २८९, २९०)

अस्यार्थः- लोहशुद्ध्यर्थं सुतप्तं लोहपिण्डम् उदके निक्षिप्य पुनः संताप्योदके निक्षिप्य ट्र्तीये तपे संताप्य संदंशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्दयुक्तं “त्वम् अग्ने सर्वभूतानाम्” इत्यादिमन्त्रं कर्ता ब्रूयाद् इति ॥ प्राड्विवाकस् तु मण्डलभूभागाद् दक्षिणप्रदेशे लौकिकम् अग्निम् उपसमाधाय “अग्नये पावकाय स्वाहा” इत्य् आज्येनाष्टोत्तरशतवारं जुहुयात्,

शान्त्यर्थं जुहुयाद् अग्नौ घृतम् अष्टोत्तरं शतम् । (ध्को ४९६- पितामह)

इति स्मरणात् । हुत्वा च तस्मिन्न् अग्नाव् अयःपिण्डं पक्षिप्य तस्मिंस् ताप्यमाने धर्मावाहनादिहवनान्तं पूर्वोक्तं विधिं विधाय तृतीये तापे वर्तमाने अयःपिण्डम् अग्निम् एभिर् मन्त्रैर् अभिमन्त्रयेत्-

त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयसे ।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥
जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते ॥
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।
अथ वा शुद्धभावेषु शीतो भव हुताशन ॥
त्वम् अग्ने सर्वदेवानाम् अन्तश् चरसि साक्षवत् ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ।
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ इति ॥ (पिस्म् १२३–२७) २.१०४ ॥

अपि च ।

** तस्येत्य् उक्तवतो लौहं पञ्चाशत्पलिकं समम् । २.१०५अब्**
** अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥ २.१०५च्द्**

तस्य कर्तुर् इत्य् उक्तवतः “त्वम् अग्ने सर्वभूतानाम्” इत्यादिभिर् मन्त्रैर् अभिमन्त्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं समम् अस्ररहितम्, सर्वतश् च समं वृत्तं श्लक्ष्णं तथाष्टाङ्गुलायामम् ।

अस्रहीनं समं कृत्वा अष्टाङ्गुलम् अयोमयम् ।
पिण्डं तु तापयेद् अग्नौ पञ्चाशत्पलिकं समम् ॥ (पिस्म् १२१)

इति पितामहस्मरणात् । अग्निवर्णम् अग्निसदृशम् उभयोर् हस्तयोर् अश्वत्थपत्रदधिदूर्वाद्यन्तरितयोर् न्यसेन् निक्षिपेत् प्राड्विवाकः ॥ २.१०५ ॥

ततः किं कुर्याद् इत्य् अत आह ।

स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् । २.१०६अब्

स पुरुषस् तं तप्तलोहपिण्डं अञ्जलिना गृहीत्वा सप्त मण्डलानि शनैर् व्रजेत् । एवकारेण मण्डलेष्व् एव पदन्यासं मण्डलान् अतिक्रमणं च दर्शयति । यथाह पितामहः ।

न मण्डलम् अतिक्रामेन् नाप्य् अर्वाक् स्थापयेत् पदम् । इति । (पिस्म् १२९)

सप्तैव मण्डलानि शनैर् व्रजेद् इत्य् उक्तम् । तत्रैकैकं मण्डलं किंप्रमाणकं मण्डलयोर् अन्तरं च कियत्प्रमाणकम् इत्य् अत आह ।

षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम् ॥ २.१०६च्द् ॥

षोडश अङ्गुलानि यस्य तत् षोडशाङ्गुलकम् । षोडशाङ्गुलप्रमाणं मण्डलं बोद्धव्यम् । मण्डलयोर् अन्तरम् मध्यं च तावद् एव षोडशाङ्गुलकम् एव । “सप्त मण्डलानि व्रजेद्” इति वदता प्रथमम् अवस्थानमण्डलम् एकमुक्तम् । अतश् चाष्टमण्डलानि षोडशाङ्गुलकानि मण्डलानाम् अन्तराणि मध्यानीत्य् अर्थः । मण्डलान्तराणि तु सप्त तावत् प्रमाणानि । एतद् एव नारदेन परिसंख्यायोक्तम् ।

द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।
अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् । (न्स्म्–च् २८५–६)
चत्वारिंशत् समधिकं भूमेर् अङ्गुलमानतः ॥ इति । (ध्को ४८९)

अयम् अर्थः । अवस्थानमण्डलात् षोडशाङ्गुलान् मण्डलान्तरम् अन्यन् मण्डलम् । द्वितीयाद्य् एकम् एकं द्वात्रिंशदङ्गुलं सान्तरालं तद् एवम् अवस्थानमण्डलं षोडशाङ्गुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंशदङ्गुलानि । एवम् अष्टाभिर् मण्डलैश् चत्वारिंँँदशधिकंँँ शतद्वयं भूमेर् अङ्गुलम् आनतो ऽङ्गुलमानम् इति सार्वविभक्तिकस् तसिः । अस्मिंस् तु पक्षे ऽवस्थानमण्डलं षोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां सप्तानां सान्तरालमण्डलभूभागानाम् एकम् एकं भूभागां द्विधा विभज्यान्तरालभूभागान् षोडशाङ्गुलप्रमाणान् विहाय मण्डलभूभागेषु षोडशाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । तथा तेनैवोक्तम्।

मण्डलस्य प्रमाणं तु कुर्यात् तत्पदसंमितम् । इति ।

यत् तु पितामहेनोक्तम्,

कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ।
आग्नेयं मण्डलं चाद्यं द्वितीयं वारुणं स्मृतम् ॥
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ।
पञ्चमं त्व् इन्द्रदैवत्यं षष्टं कौबेरम् उच्यते ॥
सप्तमं सोमदैवत्यं सावित्रं त्व् अष्टमं तथा ।
नवमं सर्वदैवत्यम् इति दिव्यविदो विदुः ॥
द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।
अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ॥
षट्पञ्चाशत्समधिकं भूमेस् तु परिकल्पना ।
कर्तुः पदसमं कार्यं मण्डलं तु प्रमाणतः ॥
मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ॥ (पिस्म् १०९–१६)

इति, तत्र नवमं सर्वदैवत्यम् अपरिमिताङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर् मण्डलैर् अष्टाभिश् चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैर् अङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्तव्यानि सप्तैव मण्डलानि । यतः प्रथमे तिष्ठति नवमे क्षिपतीति न विरुध्यते । अङ्गुलप्रमाणं च-

तिर्यग् यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाङ्गुला ॥
हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् ।
तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥ (ध्को ५३४)

इति बोद्धव्यम् ॥ २.१०६ ॥

सप्त मण्डलानि गत्वा किं कर्तव्यम् इत्य् अत आह ।

मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् । २.१०७अब्

अष्टमे मण्डले स्थित्वा नवमे मण्डले ऽग्नितप्तम् अयःपिण्डं त्यक्त्वा व्रीहीन् कराभ्यां मर्दयित्वादग्धहस्तश् चेच् छुद्धिम् आप्नुयात् । दग्धहस्तश् चेद् अशुद्ध इत्य् अर्थसिद्धम् । यस् तु संत्रासात् प्रस्खलन् हस्ताभ्याम् अन्यत्र दह्यते तथाप्य् अशुद्धो न भवति । यथाह कात्यायनः ।

प्रस्खलन्न् अभिशस्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
अदग्धं तं विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥ इति । (क्स्म् ४४१)
अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ॥ २.१०७च्द्

यदा गच्छतो ऽन्तराष्टममण्डलाद् अर्वाग् एव पिण्डः पतति दग्धादग्धत्वे वा संशयस् तदा पुनर् हरेद् इत्य् अर्थप्राप्तम् उक्तम् । तत्र चायम् अनुष्ठानक्रमः । पूर्वेद्युर् भूशुद्धिं विधायापरेद्युर् मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश् च मन्त्रैस् तत्र तत्र संपूज्याग्निम् उपसमाधाय शान्तिहोमं निर्वर्त्याग्नाव् अयःपिण्डं निधाय धर्मावाहनादिसर्वदेवतापूजां हवनान्तां निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे मण्डले तिष्ठतो व्रीहिमर्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कर्तुः शिरसि बद्ध्वा प्राड्विवाकस् तृतीये तापे ऽग्निम् अभिमन्त्र्य तप्तम् अयःपिण्डं संदेशेन गृहीत्वा कर्त्रभिमन्त्रितं तस्याञ्जलौ निदध्यात् । सो ऽपि मण्डलानि सप्त गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ २.१०७ ॥

इत्यग्निविधिः ॥

संप्रत्य् उदकविधिम् आह ।

** सत्येन माभिरक्ष त्वं वरुणेत्य् अभिशाप्य कम् । २.१०८अब्**
** नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ २.१०८च्द् ॥ **

हे वरुण सत्येन माम् अभिरक्ष त्वम् इत्य् अनेन मन्त्रेण कम् उदकम् अभिशाप्याभिमन्त्र्य नाभिदघ्नोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योरू गृहीत्वा शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच् च वरुणपूजायां सत्याम्,

गन्धमाल्यैः सुरभिभिर् मधुक्षीरघृतादिभिः ।
वरुणाय प्रकुर्वीत पूजाम् आदौ समाहितः ॥ (न्स्म् ५०१)

इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा,

तोय त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धेश् च कारणं प्रोक्तम् द्रव्याणां देहिनां तथा ॥
अतस् त्वं दर्शयात्मानं शुभाशुभपरिक्षणे ॥ (पिस्म् १३९–४०)

इति प्राड्विवाकेनोदकाभिमन्त्रणे कृते शोध्यः “सत्येन माभिरक्ष त्वं वरुण” इति जलं प्रार्थयेत् । उदकस्थानानि च नारदेनोक्तानि ।

नदीषु तनुवेगासु सागरेषु वहेषु च ।
ह्रदेशु देवखातेषु तडागेषु सरःसु च ॥ इति । (न्स्म्–च् ३०५)

तथा पितामहेनापि ।

स्थिरतोये निमज्जेत न ग्राहिणि न चाल्पके ।
तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥
देवखातेषु यत् तोयं तस्मिन् कुर्याद् विशोधनम् ।
आहार्यं वर्जयेन् नित्यं शीघ्रगासु नदीषु च ॥
आविशेत् सलिले नित्यम् ऊर्मिपङ्कविवर्जिते । इति । (पिस्म् १३४–३६)

आहार्यं तडागादिभ्य आहृतं ताम्रकटाहादिक्षिप्तं जलम् । नाभिप्रमाणोदकस्थश् च यज्ञियवृक्षोद्भवां धर्मस्थूणाम् अवष्टभ्य प्राङ्मुखस् तिष्ठेत्,

उदके प्राङ्मुखस् तिष्ठेद् धर्मस्थूणां प्रगृह्य च । (ध्को ५०५)

इति स्मरणात् ॥ २.१०८ ॥

ततः किं कर्तव्यम् इत्य् अत आह ।

** समकालम् इषुं मुक्तम् आनीयान् यो जवी नरः । २.१०९अब्**
** गते तस्मिन् निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात् ॥ २.१०९च्द् ॥**

निमज्जनसमकालं गते तस्मिन् जविन्य् एकस्मिन् पुरुषे अन्यो जवी शरपातस्थानस्थितः पूर्वमुक्तम् इषुम् आनीय जले निमग्नाङ्गं यदि पश्यति तदा स शुद्धो भवति । एतद् उक्तं भवति- त्रिषु शरेषु मुक्तेष्व् एको वेगवान् मध्यमशरपातस्थानं गत्वा तम् आदाय तत्रैव तिष्ठति । अन्यस् तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति । एवं स्थितयोस् तृतीयस्यां करतालिकायां शोध्यो निमज्जति । तत्समकालम् एव तोरणमूलस्थितो ऽपि द्रुततरं मध्यशरपातस्थानं गच्छति । शरग्राही च तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति । एतद् एव स्पष्टीकृतं पितामहेन ।

गन्तुश् चापि च कर्तुश् च समं गमनमज्जनम् ।
गच्छेत् तोरणमूलात् तु लक्ष्यस्थानं जवी नरः ॥
तस्मिन् गते द्वितीओ ऽपि वेगाद् आदाय सायकम् ।
गच्छेत् तोरणमूलं तु यतः स पुरुषो गतः ॥
आगतस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धं विनिर्दिशेत् ॥ इति । (पिध् १४२–४४)

जविनोश् च पुरुषयोर् निर्धारणं कृतं नारदेन ।

पञ्चाशतो धावकानां यौ स्याताम् अधिकौ जवे ।
तौ च तत्र नियोक्तव्यौ शरानयनकारणात् ॥ इति । (ध्को ५०१; न्स्म् २०.२६* अद्द्)

तोरणं च निमज्जनसमीपस्थाने समे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम्,

गत्वा तु तज् जलस्थानं तटे तोरणम् उच्छ्रितम् ।
कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥ (ध्को ५००)

इति नारदस्मरणात् । शरत्रयं वैणवं च धनुर् मङ्गलद्रव्यैः श्वेतपुष्पादिभिः प्रथमं संपूजयेत्,

शरान् संपूजयेत् पूर्वं वैणवं च धनुस् तथा ।
मङ्गलैर् धूपपुष्पैश् च ततः कर्म समाचरेत् ॥ (पिस्म् १३३)

इति पितामहवचनात् ।धनुषः प्रमाणं लक्ष्यस्थानं च नारदेनोक्तम् ।

क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् ।
मन्दं पञ्चशतं ज्ञेयम् एष ज्ञेयो धनुर्विधिः ॥
मध्यमेन तु चापेन प्रक्षिपेच् च शरत्रयम् ।
हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
न्यूनाधिके तु दोषः स्यात् क्षिपतः सायकांस् तथा ॥ इति । (ध्को ५०१)

अङ्गुलानां सप्ताधिकं शतं सप्तशतं क्रूरं धनुः । एवं षट्शतं पञ्चशतं च । एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुषः प्रमाणम्, मध्यमस्य दशाङ्गुलाधिकम्, मन्दस्य नवाङ्गुलाधिकम् इत्य् उक्तं भवति । शराश् चानायसाग्रा वैणवाः कार्याः,

शरांश् चानायसाग्रांस् तु प्रकुर्वीत विशुद्धये ।
वेणुकाण्डमयांश् चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥ (क्स्म् ४४२)

इति स्मरणात् । क्षेप्ता क्षत्रियस् तद्वृत्तिर् वा ब्राह्मणः सोपवासो नियोक्तव्यः । यथाह ।

क्षेप्ता च क्षत्रियः प्रोक्तस् तद्वृत्तिर् ब्राह्मणो ऽपि वा ।
अक्रूरहृदयः शान्तः सोपवासस् ततः क्षिपेत् ॥ इति । (पिस्म् १४१)

त्रिषु मुक्तेषु मध्यमः शरो ग्राह्यः,

तेषाम् च प्रोषितानां च शराणां शास्त्रचोदनात् ।
मध्यमस् तु शरो ग्राह्यः पुरुषेण बलीयसा ॥ (पिस्म् १३४ नोते; ध्को ५०४)

इति वचनात् । तत्रापि पतनस्थानाद् आनेतव्यो न सर्पणस्थानात्,

शरस्य पतनं ग्राह्यं सर्पणं तु विवर्जयेत् ।
सर्पन् सर्पन् शरो यायाद् दूराद् दूरतरं यतः । (पिस्म् १४६)

इति वचनात् । वाते च प्रवायति विशमादिदेशे च शरमोक्षो न कर्तव्यः,

इषुं न प्रक्षिपेद् विद्वान् मारुते चातिवायति ।
विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥
तृणगुल्मलतावल्लीपङ्कपाषाणसंयुते ॥ (पिस्म् १४७–४८)

इति पितामहवचनात् । “निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात्” (य्ध् २.१०९) इति वदता उन्मज्जिताङ्गस्याशुद्धिर् दर्शिता । स्थानान्तरगमने चाशुद्धिः पितामहेनोक्ता,

अन्यथा न विशुद्धिः स्याद् एकाङ्गस्यापि दर्शनात् । इति ।
स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशितः ॥ इति

“एकाङ्गस्यापि दर्शनाद्” इति च, कर्णाद्यभिप्रायेण,

शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥ (पिस्म् १४५)

इति विशेषाभिधानात् । अयम् अत्र प्रयोगक्रमः- उक्तलक्षणजलाशयसंनिधाव् उक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं निधाय तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणम् आवाह्य पूजयित्वा तत्तीरे धर्मादिंश् च देवान् हवनान्तम् इष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रम् आबध्य प्राड्विवाको जलम् अभिमन्त्रयेत् “तोय त्वं प्राणिनां प्राणः” इत्यादिना मन्त्रेण । अथ शोध्यः “सत्येन” इत्यादिना मन्त्रेण जलम् अभिमन्त्र्य गृहीतस्थूणस्य नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य समीपम् उपसर्पति । अथ शरेषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्य् एकस्मिन् पुरुषे स्थिते अन्यस्मिंश् च तोरणमूले स्थिते प्राड्विवाकेन तालत्रये दत्ते युगपद्गमनमज्जनम् अथ शरानयनम् इति ॥ २.१०९ ॥

इत्य् उदकविधिः ॥

इदानीं विषविधानम् आह ।

** त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । २.११०अब्**
** त्रायस्वास्माद् अभीशापात् सत्येन भव मे ऽमृतम् ॥ २.११०च्द् एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् । २.१११अब्**
** यस्य वेगैर् विना जीर्येच् छुद्धिं तस्य विनिर्दिशेत् । २.१११च्द्**

“त्वं विष” इत्यादिमन्त्रेण विषम् अभिमन्त्र्य कर्ता विषं हिमशैलजं शृङ्गभवं भक्षयेत् । तच् च भक्षितं सत् यस्य विषवेगैर् विना जीर्यति स शुद्धो भवति । विषवेगो नाम धातोर् धात्वन्तरप्राप्तिः ।

धतोर् धात्वन्तरप्राप्तिर् विषवेग इति स्मृतः ।

इति वचनात् । धातवश् च त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणीति सप्त । एवं च सप्तैव विषवेगा भवन्ति । तेषां च लक्षणानि पृथग् एव विषतन्त्रे कथितानि-

वेगो रोमाञ्चमाद्यो रचयति विषजः स्वेदवक्त्रोपशोषौ
तस्योर्ध्वम् तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ ।
यो वेगः पञ्चमो ऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां
षष्ठो निःश्वासमोहौ वितरति च मृतिं सप्तमो भक्षकस्य ॥ इति ।

अत्र च महादेवस्य पूजा कर्तव्या । यथाह नारदः ।

दद्याद् विषं सोपवासो देवब्राह्मणसंनिधौ ।
धूपोपहारमन्त्रैश् च पूजयित्वा महेश्वरम् ॥ इति । (ध्को ५०८)

प्राड्विवाकः कृतोपवासो महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रतिज्ञापत्रं शोध्यस्य शिरसि निधाय विषम् अभिमन्त्रयते,

त्वं विष ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् ।
पापानां दर्शयात्मानं शुद्धानाम् अमृतं भव ॥
मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् ।
त्रायस्वैनं नरं पापात् सत्येनास्यामृतं भव ॥ इति । (पिस्म् १५२–५३)

एवम् अभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात्,

द्विजानां संनिधाव् एव दक्षिणाभिमुखे स्थिते ।
उदङ्मुखः प्राङ्मुखो वा विषं दद्यात् समाहितः ॥ (ध्को ५०८)

इति नारदवचनात् । विषं च वत्सनाभादि ग्राह्यम्,

शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ॥ (पिस्म् १४९)

इति पितामहवचनात् । वर्ज्यानि च तेनैवोक्तानि-

चारितानि च जीर्णानि कृत्रिमाणि तथाइव च ।
भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥ इति । (पिस्म् १५०)

तथा नारदेनापि-

भ्रष्टं च चारितं चैव धूपितं मिश्रितं तथा ।
कालकूटम् अलाबुं च विषं यत्नेन वर्जयेत् ॥ इति । (न्स्म् २०.३४)

कालश् च नारदेनोक्तः-

तोलयित्वेप्सितं काले देयं तद् धि हिमागमे ।
नापराह्ने न मध्याह्ने न संध्यायां तु धर्मवित् ॥ इति । (ध्को ५०७)

कालान्तरे तूक्तप्रमाणाद् अल्पं देयम्,

वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता ।
हेमन्ते सा सप्तयवा शरद्य् अल्पा ततो ऽपि हि ॥ (ध्को ५०८)

इति स्मरणात् । अल्पेति षड्यवेत्य् अर्थः । हेमन्तग्रहणेन शिशिरस्यापि ग्रहणम् । “हेमन्तशिशिरयोः समासेन” इति श्रुतेः । वसन्तस्य च सर्वदिव्यसाधारणत्वात् तत्रापि सप्त यवा विषं च घृतप्लुतं देयं नारदवचनात्-

विषस्य पलषड्भागाद् भागो विंशतिमस् तु यः ।
तम् अष्टभागहीनं तु शोध्ये दद्याद् घृतप्लुतम् ॥ इति । (न्स्म् २०.३७)

पलं चात्र चतुःसुवर्णकम् । तस्य षष्टो भागो दश माषाः दश यवाश् च भवन्ति । “त्रियवं त्व् एककृष्णलम् पञ्चकृष्णलको माषः” इत्य् एको माषः पञ्चदश यवा भवन्ति । एवं दशानां माषाणां यवाः सार्धशतं भवन्ति । पुर्वे च दश यवा इति षष्ट्यधिकं शतं यवाः पलस्य षष्ठो भागस् तस्माद् विंशतितमो भागो ऽष्टौ यवास् तस्याष्टभाग एकयवः तेन हीनं विंशतितमं भागं सप्तयवं घृतप्लुतं शोध्ये दद्यात् । घृतं च विषात् त्रिंशद्गुणं ग्राह्यम्,

पूर्वाह्ने शीतले देशे विषं देयं तु देहिनाम् ।
घृते नियोजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् ॥ (क्स्म् ४५०)

इति कात्यायनवचनात् । त्रिंशद्गुणेन घृतेनान्वितं विषम् । शोध्य च कुहकादिभ्यो रक्षणीयः,

त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैर् अधिष्टितम् ।
कुहकादिभयाद् राजा रक्षयेद् दिव्यकारिणम् ॥
ओषधीर् मन्त्रयोगांश् च मणीन् अथ विषापहाम् ।
कर्तुः शरिरसंस्थांस् तु गूढोत्पन्नान् परीक्षयेत् ॥ (पिस्म् १५४–५५)

इति पितामहस्मरणात् । तथा विषम् अपि रक्षणीयम्,

शार्ङ्गं हैमवतं शस्तं गन्धवर्णरसान्वितम् ।
अकृत्रिमम् असंमूढम् अमन्त्रोपहतं च यत् ॥ (ध्को ५०७; न्स्म्–अ३४)

इति नारदस्मरणात् । तथा विषे पीते यावत् करतालिकाशतपञ्चकं तावत् प्रतीक्षणीयो ऽनन्तरं चिकित्सनीयः । यथाह नारदः ।

पञ्चतालशतं कालं निर्विकारो यदा भवेत् ।
तदा भवति संशुद्धस् ततः कुर्याच् चिकित्सितम् ॥ इति । (ध्को ५०९)

पितामहेन तु दिनान्तो ऽवधिर् उक्तो ऽल्पमात्राविषयः ।

भक्षिते तु यदा स्वस्थो मूर्च्छाच् छर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते शुद्धं तम् अपि निर्दिशेत् ॥ इति । (पिध् १५६)

अत्र च प्राड्विवाकः सोपवासो महादेवं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादीन् इष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रं निधाय विषम् अभिमन्त्र्य दक्षिणाभिमुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषम् अभिमन्त्र्य भक्षयतीति क्रमः ॥ २.११० ॥ २.१११ ॥

इति विषविधानम् ॥

अथ कोशविधिम् आह ।

** देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् । २.११२अब्**
** संस्राव्य पाययेत् तस्माज् जलं तु प्रसृतित्रयम् ॥ २.११२च्द् ॥**

उग्रान् देवान् दुर्गादित्यादीन् समभ्यर्च्य गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य तत्स्नानोदकम् आहरेत् । आहृत्य च तोय “त्वं प्राणिनां प्राणः” इत्यादिना तत् तोयं प्राड्विवाकः संस्नाव्य शोध्येन च तत् तोयं पात्रान्तरे कृत्वा “सत्येन माभिरक्ष त्वं वरुण” इत्य् अनेनाभिमन्त्रितं पाययेत् प्रसृतित्रयम् । एतच् च साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु । अत्र च स्नाप्यदेवनियमः कार्यनियमो ऽधिकारिनियमश् च पितामहादिभिर् उक्तः ।

भक्तो यो यस्य देवस्य पाययेत् तस्य तज्जलम् ।
समभावे तु देवानाम् आदित्यस्य च पाययेत् ॥
दुर्गायाः पाययेच् चौरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत् तोयं ब्राह्मणं तन् न पाययेत् ॥
दुर्गायाः स्नापयेच् छूलम् आदित्यस्य तु मण्डलम् ।
अन्येषाम् अपि देवानां स्नापयेद् आयुधानि तु ॥ (पिध् १५७–५९)

इति देवतानियमः ।

विस्रम्भे सर्वशङ्कासु संधिकार्ये तथाइव च ।
एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥ (पिस्म् ३७)

इति कार्यनियमः ।

पूर्वाह्ने सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशुकस्याव्यसनिनः कोशपानं विधीयते ॥ (ध्को ५१७)

सशूक आस्तिकः ।

मद्यपस्त्रीव्यसनिनां कितवानां तथाइव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥ (पिस्म् ४३)
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदाशेषु कोशपानं विवर्जयेत् ॥ इति । (ध्को ४६४)

महापराधे महापातकम् । निर्धर्मो वर्णाश्रमधर्मरहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः । इत्य् अधिकारिनियमः । तथा गोमयेन मण्डलं कृत्वा तत्र शोध्यम् आदित्याभिमुखं स्थापयित्वा पाययेद् इति नारदवचनाद् अवगन्तव्यम् । यथाह ।

तम् आहूयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् ।
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् ॥ इति । (ध्को ५१३) २.११२ ॥

ननु तुलादिषु विषान्तेषु समनन्तरम् एव शुद्ध्यशुद्धिभावना कोशे तु कथम् इत्य् अत आह ।

** अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम् । २.११३अब्**
** व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥ २.११३च्द् ॥**

चतुर्दशाद् अह्नः पूर्वं यस्य राजिकं राजनिमित्तं दैविकं देवप्रभवं व्यसनं दुःखं घोरं महत् नो नैव जायते अल्पस्य देहिनाम् अपरिहार्यत्वात् स शुद्धो वेदितव्यः । ऊर्ध्वं पुनर् अवधेर् न दोषः । यथाह नारदः ।

ऊर्ध्वं यस्य द्विसप्ताहाद् वैकृतं तु महद् भवेत् ।
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् । (न्स्म्– च् ३३१)

इत्य् अर्थसिद्धम् एवोक्तम् । “अर्वाक् चतुर्दशाद् अह्नः” इत्य् एतन् महाभियोगविषयम्, “महाभियोगेष्व् एतानि” इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्य् अल्पविषयाणि, “कोशम् अल्पे ऽपि दापयेत्” इति स्मरणात् । तानि च,

त्रिरात्रात् सप्तरात्राद् वा द्वादशाहाद् द्विसप्तकात् ।
वैकृतं यस्य दृश्येत पापकृत् स उदाहृतः । इति । (पिस्म् १६१)

महाभियोगोक्तद्रव्याद् अर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्राद्य् अपि पक्षत्रयं व्यवस्थापनीयम् ॥ २.११३ ॥

इति कोशविधिः ॥

तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगीश्वरेण व्याख्यातानि । स्मृत्यन्तरे त्व् अल्पाभियोगविषयाण्य् अन्यान्य् अपि दिव्यानि कथितानि । यथाह पितामहः ।

तण्डुलानां प्रवक्ष्यामि विधिं भक्षणनोदितम् ।
चौरे तु तण्डुला देया नान्यस्येति विनिश्चयः ॥
तण्डुलान् कारयेच् छुक्लाञ् छालेर् नान्यस्य कस्यचित् ।
मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥
स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ।
प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ॥
तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत् ततः ।
पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव तु ॥
लोहितं यस्य दृश्येत हनुस् तालु च शीर्यते ।
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥ इति । (पिस्म् १६३–६८)

शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठीवयेत् प्राड्विवाकः ॥ भक्षयित्वेति च ण्यन्ताण्णिचि रूपम् । सर्वदिव्यसाधारणं च धर्मावाहनादि पूर्ववद् इहापि कर्तव्यम् ॥

इति तण्डुलविधिः ॥

तप्तमाषविधिः पितामहेनोक्तः । तथाहि-

सौवर्णं राजतं वापि ताम्रं वा षोडशाङ्गुलम् ।
चतुरङ्गुलखातं तु मृन्मयं वाथ मण्डलम् ॥ (पिस्म् १७०)

वर्तुलम् इत्यर्थः ।

पूरयेद् घृततैलाभ्यां विंशत्या तु पलैस् तु तत् ।
सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत् ततः ॥
अङ्गुष्ठाङ्गुलियोगेन उद्धरेत् तप्तमाषकम् ।
कराग्रं यो न धुनुयाद् विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥ (पिस्म् १७१–७३)

उद्धरेद् इति वचनात् पात्राद् उत्क्षेपणमात्रं न बहिः प्रक्षेपणम् आदरणीयम् ॥

अपरः कल्पः-

सौवर्णे राजते ताम्रे आयसे मृन्मये ऽपि वा ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥
सौवर्णीं राजतीं ताम्रीम् आयसीं वा सुशोधिताम् ।
सलिलेन सकृद् धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥
भ्रमद्वीचितरङ्गाढ्ये ह्य् अनखस्पर्शगोचरे ।
परीक्षेद् आर्द्रपर्णेन चुरुकारं सुघोषकम् ॥
ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् ॥
परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ।
दह पावक पापं त्वं हिमशीतं शुचौ भव ॥
उपोषितं ततः स्नातम् आर्द्रवाससमागतम् ।
ग्राहयेन् मुद्रिकां तां तु घृतमध्यगतां तथा ॥
प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
यस्य विस्फोटका न स्युः शुद्धो ऽसाव् अन्यथा ऽशुचिः ॥ इति । (पिस्म् १७४–८०)

अत्रापि धर्मावाहनाद्य् अनुसंधातव्यम् । घृतानुमन्त्रणं प्राड्विवाकस्य । “त्वम् अग्ने सर्वभूतानाम्” इति शोध्यस्याग्न्यभिमन्त्रणमन्त्रः । “प्रदेशिनीं परीक्षेयुः” इति वचनात् प्रदेशिन्यैव मुद्रिकोद्धरणम् ।

इति तप्तमाषविधिः ॥

धर्माधर्माख्यदिव्यविधिश् च पितामहेनोक्तः । तथा च-

अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।
हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥ इति । (पिस्म् १८१)

हन्तॄणाम् इति साहसाभियोगेषु, याचमानानाम् इत्य् अर्थाभियोगेषु, प्रायष्चित्तार्थिनाम् इति पातकाभियोगेषु ।

राजतं कारयेद् धर्मम् अधर्मं सीसकायसम् । (पिस्म् १८२)

इति प्रतिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरम् आह ।

लिखेद् भूर्जे पटे वापि धर्माधर्मौ सितासितौ ।
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥
सितपुष्पस् तु धर्मः स्याद् अधर्मो ऽसितपुष्पधृक् ।
एवं विधायोपलिख्य पिण्डयोस् तौ निधापयेत् ॥
गोमयेन मृदा वापि पिण्डौ कार्यौ समंततः ।
मृद्भाण्डके ऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥
उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ।
आवाहयेत् ततो देवांल् लोकपालांश् च पूर्ववत् ॥
धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ॥ (पिस्म् १८२–८६)

ततः-

यदि पापविमुक्तो ऽहं धर्मस् त्व् आयातु मे करे ।
अशुद्धश् चेन् मम करे पप आयातु धर्मतः ॥ इति ॥ (पिस्म् १८७)

अभिशस्तो ऽभिमन्त्रयते-

अभियुक्तस् तयोश् चैकं प्रगृह्नीताविलम्बितः ।
धर्मे गृहीते शुद्धः स्याद् अधर्मे तु स हीयते ॥
एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥ इति ॥ (पिस्म् १८८–८९)

इति धर्माधर्मदिव्यविधिः ॥

अन्ये च शपथा द्रव्याल्पत्वमहत्त्वविषया जातिविशेषविषयाश्च मन्वादिभिर् उक्ताः । ते यथा ।

निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
त्रिकाद् अर्वाक् तु पुण्यं स्यात् कोशपानम् अतः परम् ॥ (ध्को ४४२- हारीत)
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ (म्ध् ८.११३)

इत्यादयः । अत्र च शुद्धिविभावना मनुनोक्ता-

न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः । इति । (म्ध् ८.११४)

आर्तिर् अपि, “यस्य नो राजदैविकं व्यसनं जायते घोरम्” (य्ध् २.११३) इत्युक्तैव । कालनियमश् च एकरात्रम् आरभ्य त्रिरात्रपर्यन्तं त्रिरात्रम् आरभ्य पञ्चरात्रपर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवपर्यालोचनया द्रष्टव्यम् । एवं दिव्यैर् जयपराजयावधारणे दण्डविशेषो ऽपि दर्शितः कात्यायने-

शतार्धं दापयेच् छुद्धम् अशुद्धो दण्डभाग् भवेत् । इति । (क्स्म् ४५९)

तं दण्डम् आह-

विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद् दण्डं प्रकल्पयेत् ॥
सहस्रं षट्शतं चैव तथा पञ्चशतानि च ।
चतुस्त्रिद्व्येकम् एवं च हीनं हीनेषु कल्पयेत् ॥ इति ॥ (क्स्म् ४६०–६१)

“निह्नवे भावितो दद्याद्” इत्युक्तदण्डेनायं दिव्यनिबन्धनो दण्डः समुच्चीयते ॥

इति दिव्यप्रकरणम्

अथ दायविभागप्रकरणम्

प्रमाणम् मानुषं दैवम् इति भेदेन वर्णितम् ।
अधुना वर्ण्यते दायविभागो योगमूर्तिना ॥

तत्र दायशब्देन यद् धनं स्वामिसंबन्धाद् एव निमित्ताद् अन्यस्य स्वं भवति तद् उच्यते । स च द्विविधो ऽप्रतिबन्धः सप्रतिबन्धश् च । तत्र पुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्य् अप्रतिबन्धो दायः । पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दायः । एवं तत्पुत्रादिष्व् अप्य् ऊहनीयः । विभागो नाम द्रव्यसमुदायविषयाणाम् अनेकस्वाम्यानां तदेकदेशेषु व्यवस्थापनम् । एतद् एवाभिप्रेत्योक्तं नारदेन ।

विभागो ऽर्थस्य पित्र्यस्य तनयैर् यत्र कल्प्यते ।
दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥ इति । (न्स्म् १३.१)

पित्र्यस्येति स्वत्वनिमित्तसंबन्धोपलक्षणम् । तनयैर् इत्य् अपि प्रत्यासन्नोपलक्षणम् । इदम् इह निरूपणीयम् । कस्मिन् काले कस्य कथं कैश् च विभागः कर्तव्य इति । तत्र कस्मिन्काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्य् एतावद् इह चिन्त्यते । किं विभागात् स्वत्वम् उत स्वस्य सतो विभाग इति । तत्र स्वत्वम् एव तावन् निरूप्यते । किं शास्त्रैकसमधिगम्यं स्वत्वम् उत प्रमाणान्तरसमधिगम्यम् इति ।

तत्र शास्त्रैकसमधिगम्यम् इति तावद् युक्तम् गौतमवचनात्- “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु, ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य विजितं, निर्विष्टं वैश्यशूद्रयोः” (ग्ध् १०.३९–४२)। इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनम् अर्थवत् स्यात् । तथा स्तेनातिदेशे मनुः-
यो ऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥ इति । (म्ध् ८.३४०)

अदत्तादायिनः सकाशाद् याजनादिद्वारेणापि द्रव्यम् अर्जयतां दण्डविधानम् अनुपपन्नं स्यात् स्वत्वस्य लौकिकत्वे । अपि च । लौकिकं चेत् स्वत्वं मम स्वम् अनेनापहृतम् इति न ब्रूयाद् अपहर्तुर् एव स्वत्वात् । अन्य्थान्यस्य स्वं तेनापहृतम् इति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्वरूपवद् अस्य वा स्वम् अन्यस्य वा स्वम् इति संशयो न स्यात् । तस्माच् छास्त्रैकसमधिगम्यं स्वत्वम् इति ।

अत्रोच्यते- लौकिकम् एव स्वत्वं लौकिकार्थक्रियासाधनत्वात् व्रीह्यादिवत् । आहवनीयादीनां हि शास्त्रगम्यानां न लौकिकक्रियासाधनत्वम् अस्ति ॥
ननु आहवनीयादीनाम् अपि पाकादिसाधनत्वम् अस्त्य् एव ।
नैतत् । न हि तत्राहवनीयादिरूपेण पाकादिसाधनत्वम् । किं तर्हि प्रत्यक्षादिपरिदृश्यमानाग्न्यादिरूपेण । इह तु सुवर्णादिरूपेण न क्रयादिसाधनत्वम् अपि तु स्वत्वेनैव । न हि यस्य यत् स्वं न भवति तत् तस्य क्रयाद्यर्थक्रियां साधयति ॥ अपि च । प्रत्यन्तवासिनाम् अप्य् अदृष्टशास्त्रव्यवहाराणां स्वत्वव्यवहारो दृश्यते, क्रयविक्रयादिदर्शनात् । किं च । नियतोपायकं स्वत्वं लोकसिद्धम् एवेति न्यायविदो मन्यन्ते । तथाहि, लिप्सासूत्रे तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वम् एव न स्यात् । स्वत्वस्यालौकिकत्वाद् इति पूर्वपक्षासंभवम् आशङ्क्य द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्धम् इति पूर्वपक्षः समर्थितो गुरुणा ।
ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वम् एव न भवतीति याग एव न संवर्तेत, प्रलपितम् इदं केनाप्य् अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम् इति वदता । तथा सिद्धान्ते ऽपि स्वत्वस्य लौकिकत्वम् अङ्गिकृत्यैव विचारप्रयोजनम् उक्तम् “अतो नियमातिक्रमः पुरुषस्य न क्रतोः” इति । अस्य चार्थ एवं विवृतः । यदा द्रव्यार्जननियमानां क्रत्वर्थत्वं तदा नियमार्जिते नैव द्रव्येण क्रतुसिद्धिर् न नियमातिक्रमार्जितेन द्रव्येणेति न पुरुषस्य नियमातिक्रमदोषः पूर्वपक्षे
राद्धान्ते त्व् अर्जननियमस्य पुरुषार्थत्वात् तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर् भवति पुरुषस्यैव नियमातिक्रमदोष इति नियमातिक्रमार्जितस्यापि स्वत्वं स्याद् इति मन्तव्यम्, लोके तत्र स्वत्वप्रसिद्ध्यभावात् व्यवहारविसंवादाच् च । एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते, “ब्राह्मणस्य प्रतिग्रहादय उपायाः क्षत्रियस्य विजितादयः वैश्यस्य कृष्यादयः शूद्रस्य शुश्रूषादयः” इत्य् अदृष्टार्था नियमाः । रिक्थादयस् तु सर्वसाधारणाः “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु” (ग्ध् १०.३९) इत्य् उक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः । संविभागः सप्रतिबन्धो दायः । परिग्रहो ऽनन्यपूर्वस्य जलतृणकाष्टादेः स्वीकारः । अधिगमो निध्यादेः प्राप्तिः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते स्वामी । “ब्राह्मणस्याधिकं लब्धम्” (ग्ध् १०.४०) इति ब्राह्मणस्य प्रतिग्रहादिना यल् लब्धं तद् अधिकम् असाधारणम् । “क्षत्रियस्य विजितम्” (ग्ध् १०.४१) इत्य् अत्राधिकम् इत्य् अनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धम् असाधारणम् । “निर्विष्टं वैश्यशूद्रयोः” (ग्ध् १०.४२) इत्य् अत्राप्य् अधिकम् इत्य् अनुवर्तते । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तद् असाधरणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल् लब्धं तद् असाधारणम् । एवम् अनुलोमजानां प्रतिलोमजानां च लोकप्रसिद्धेषु स्वत्वहेतुषु यद् यद् असाधारणम् उक्तं सूतानाम् अश्वसारथ्यम् इत्यादि तत् तत् सर्वं निर्विष्टशब्देनोच्यते, सर्वस्यापि भृतिरूपत्वात्, “निर्वेशो भृतिभोगयोः” इति त्रिकाण्डीस्मरणात् । तत् तद् असाधारणं वेदितव्यम् । यद् अपि “पत्नी दुहितरश् चैव” इत्य् आदिस्मरणं तत्रापि स्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धे ऽपि स्वत्वे व्यामोहनिवृत्त्यर्थं स्मरणम् इति सर्वम् अनवद्यम् ।
यद् अपि मम स्वम् अनेनापहृतम् इति न ब्रूयात् स्वत्वस्य लौकिकत्व इति ।
तद् अप्य् असत्, स्वत्वहेतुभूतक्रयादिसंदेहात् स्वत्वसंदेहोपपत्तेः । विचारप्रयोजनं तु,
यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ इति । (नोत् इन् ध्को)

शास्त्रैकसमधिगम्ये स्वत्वे गर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वम् एव नास्तीति तत्पूत्राणां तद् अविभाज्यम् एव । यदा तु लौकिकं स्वत्वं तदा ऽसत्प्रतिग्रहादिलब्धस्यापि स्वत्वात् तत्पुत्राणां तद्विभाज्यम् एव । तस्योत्सर्गेण शुध्यन्ति इति प्रायश्चित्तम् अर्जयितुर् एव तत्पुत्रादीनां तु दायत्वेन स्वत्वम् इति न तेषां दोषसंबन्धः,

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ (म्ध् १०.११५)

इति मनुस्मरणात् ।

इदानीम् इदं संदिह्यते- किं विभागात् स्वत्वम् उत स्वस्य सतो विभाग इति । तत्र विभागात् स्वत्वम् इति तावद् युक्तम्, जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात् तदोत्पन्नस्य पुत्रस्यापि तत् स्वं साधारणम् इति द्रव्यसाध्येष्व् आधानादिषु पितुर् अनधिकारः स्यात् । तथा विभागात् प्राक् पितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते, सर्वानुमत्या दत्तत्वाद् विभागप्राप्त्यभावात् । यथाह-

शौर्यभार्याधने चोभे यच् च विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥ इति ॥ (न्स्म् १३.६)

तथा-

भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥ इति । (न्स्म् १.२४)

प्रीतिदानवचनं च नोपपद्यते जन्मनैव स्वत्वे । न च स्थावराद् ऋते यद्द् अत्तम् इति संबन्धो युक्तो व्यवहितयोजनाप्रसङ्गात् । यद् अपि-

मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः ।
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ (ध्को १२१९- नारद)

तथा-

पितृप्रसादाद् भुज्यन्ते वस्त्राण्य् आभरणानि च ।
स्थावरं तु न भुज्यते प्रसादे सति पैतृके ॥ इति । (ध्को १२१९- नारद)

स्थावरस्य प्रसाददाने प्रतिषेधवचनं तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पित्रापुत्रयोः साधारणम् अपि मणिमुक्तादि पितुर् एव । स्थावरं तु साधारणम् इत्य् अस्माद् एव वचनाद् अवगम्यते । तस्मान् न जन्मना स्वत्वं किं तु स्वामिनाशाद् विभागाद् वा स्वत्वम् । अत एव पितुर् ऊर्ध्वं विभागात् प्राग् द्रव्यस्वत्वस्य प्रहीणत्वाद् अन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानवकाशः । तथैकपुत्रस्यापि पितृप्रयाणाद् एव पुत्रस्य स्वम् इति न विभागम् अपेक्षत इति ।

अत्रोच्यते । लोकप्रसिद्धम् एव स्वत्वम् इत्य् उक्तम् । लोके च पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरं नापह्नवम् अर्हति । विभागशब्दश् च बहुस्वामिकधनविषयो लोकप्रसिद्धो नान्यदीयविषयो न प्रहीणविषयः, तथा “उत्पत्त्यैवार्थस्वामित्वं लभेतेत्य् आचार्याः” (नोत् इन् ग्ध्; ध्को ११२४) इति गौतमवचनाच् च । “मणिमुक्ताप्रवालानाम्” (ध्को १२१९) इत्यादिवचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । न च पितामहोपात्तस्थावरविषयम् इति युक्तम्, “न पिता न पितामहः” (ध्को १२१९) इति वचनात् । पितामहस्य हि स्वार्जितम् अपि पुत्रे पौत्रे च सत्य् अदेयम् इति वचनं जन्मना स्वत्वं गमयति । यथा परमते मणिमुक्ताप्रवालवस्त्राभरणादीनां पैतामहानाम् अपि पितुर् एव स्वत्वं वचनात्, एवम् अस्मन्मते ऽपि पित्रार्जितानाम् अप्य् एतेषां पितुर् दानाधिकारो वचनाद् इत्य् अविशेषः । यत् तु “भर्त्रा प्रीतेन” इत्यादिविष्णुवचनं[^२७] स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयैवेति व्याक्ख्येयम्, पूर्वोक्तैर् मणिमुक्तादिवचनैः स्थावरव्यतिरिक्तस्यैव प्रीतिदानयोग्यत्वनिश्चयात् । यद् अप्य् अर्थसाध्येषु वैदिकेषु कर्मस्व् अनधिकार इति तत्र तद्विधानबलाद् एवाधिकारो गम्यते । तस्मात् पैतृके पैतामहे च द्रव्ये जन्मनैव स्वत्वम् तथापि पितुर् आवश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकुटुम्बरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यम् इति स्थितम् । स्थावरे तु स्वार्जिते पित्रादिप्राप्ते च पुत्रादिपारतन्त्र्यम् एव,
स्थावरं द्विपदं चैव यद्य् अपि स्वयम् अर्जितम् ।
असंभूय सुतान् सर्वान् न दानं न च विक्रयः ॥
ये जाता ये ऽप्य् अजाताश् च ये च गर्भे व्यवस्थिताः ।
वृत्तिं च ते ऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥ (ध्को १५८७- व्यास)

इत्यादिस्मरणात् । अस्यापवादः-

एको ऽपि स्थावरे कुर्याद् दानाधमनविक्रयम् ।
आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥ इति । (ध्को १५८८- स्मृत्यन्तर)

अस्यार्थः- अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु वानुज्ञानादाव् असमर्थेषु भ्रातृषु वा तथाविधेष्व् अविभक्तेष्व् अपि सकलकुटुम्बव्यापिन्याम् आपदि तत्पोषणे वावश्यकर्तव्येषु च पितृश्राद्धादिषु स्थावरस्य दानाधमनविक्रयम् एको ऽपि समर्थः कुर्याद् इति । यत् तु वचनम्,

अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥ (बृस्म् १.१४.८)

इति तद् अप्य् अविभक्तेषु द्रव्यस्य मध्यस्थत्वाद् एकस्यानीश्वरत्वात् सर्वाभ्यनुज्ञावश्यं कार्या विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंशयव्युदासेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनर् एकस्यानीश्वरत्वेन । अतो विभक्तानुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्य् एवेति व्याख्येयम् । यद् अपि,

स्वग्रामज्ञातिसामन्तदायादानुमतेन च ।
हिरण्योदकदानेन षड्भिर् गच्छति मेदिनी ॥ (ध्को ९०१- स्मृत्यन्तर)

इति तत्रापि ग्रामानुमतिः,

प्रतिग्रहः प्रकाषः स्यात् स्थावरस्य विशेषतः । (य्ध् २.१७६)

इति स्मरणात्, व्यवहारप्रकाषनार्थम् एवापेक्ष्यते न पुनर् ग्रामानुमत्या विना व्यवहारासिद्धिः । सामन्तानुमतिस् तु सीमाविप्रतिपत्तिनिरासाय । ज्ञातिदायादानुमतेस् तु प्रयोजनम् उक्तम् एव “हिरण्योदकदानेन” (ध्को ९०१) इति ।

स्थावरे विक्रयो नास्ति कुर्याद् आधिम् अनुज्ञया । (ध्को १५८९)

इति स्थावरस्य विक्रयप्रतिषेधात् ।

भूमिं यः प्रतिगृह्नाति यश् च भूमिं प्रयच्छति ।
उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥ [^२८]

इति दानप्रशंसादर्शनाच् च । विक्रये ऽपि कर्तव्ये सहिरण्यम् उदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्याद् इत्य् अर्थः । पैतृके पैतामहे च धने जन्मनैव स्वत्वे ऽपि विषेशं “भूर् या पितामहोपात्ता” (य्ध् २.१२१) इत्य् अत्र वक्ष्यामः ॥ २.११३ ॥

इदानीं यत्र काले येन च यथा विभागः कर्तव्यस् तद् दर्शयन्न् आह ।

** विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् । २.११४अब्**
** ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ २.११४च्द् ॥**

यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्रान् आत्मनः सकाशात् पुत्रं पुत्रौ पुत्रान् । इच्छाया निरङ्कुशत्वाद् अनियमप्राप्तौ नियमार्थम् आह “ज्येष्ठं वा श्रेष्ठभागेन” इति । ज्येष्ठं श्रेष्ठभागेन मध्यमं मध्यभागेन कनिष्ठं कनिष्ठभागेन विभजेद् इत्य् अनुवर्तते । श्रेष्ठादिविभागश् च मनुनोक्तः-

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ इति । (म्ध् ९.११२)

वाशब्दो वक्ष्यमाणपक्षापेक्षः, “सर्वे वा स्युः समांशिनः” इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागः स्वार्जितद्रव्यविषयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान् नेच्छया विषमो विभागो युक्तः । “विभागं चेत्पिता कुर्याद्” इति यदा पितुर् विभागेच्छा स तावद् एकः कालः । अपरो ऽपि कालो जीवत्य् अपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च निवृत्तरजस्कायां पितुर् अनिच्छायाम् अपि पुत्रेच्छयैव विभागो भवति । यथोक्तं नारदेन,

अत ऊर्ध्वं पितुः पुत्रा विभजेयुर् धनं समम् । (न्स्म् १३.२ वरिअन्त्)

इति पित्रोर् ऊर्ध्वं विभागं प्रतिपाद्य,

मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणे पितर्य् उपरतस्पृहे ॥ (न्स्म् १३.३)

इति दर्शितः । अत्र पुत्रा धनं समं विभजेयुर् इत्य् अनुषज्यते । गौतमेनापि “ऊर्ध्वं पितुः पुत्रा रिक्थं विभजेरन्” (ग्ध् २८.१) इत्य् उक्त्वा, “निवृत्ते चापि रजसि” (ग्ध् २८.२) इति द्वितीयः कालो दर्शितः । जीवति चेच्छतीति तृतीयः कालः । तथा सरजस्कायाम् अपि मातर्य् अनिच्छत्य् अपि पितर्य् अधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्राणाम् इच्छया भवति विभागः । यथाह शङ्खः- “अकामे पितरि रिक्थाविभागो वृद्धे विपरीतचेतसि रोगिणि च” (ध्को ११४८) इति ॥ २.११४ ॥

पितुर् इच्छया विभागो द्विधा दर्शितः समो विषमश् चेति । तत्र समविभागे विशेषम् आह ।

** यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः । २.११५अब् **
** न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ २.११५च्द् ॥**

यदा स्वेच्छया पिता सर्वान् एव सुतान् समविभागिनः करोति तदा पत्न्याश् च पुत्रसमांशभाजः कर्तव्यः यासां पत्नीनां भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धांशं वक्ष्यति “दत्ते त्व् अर्धं प्रकल्पयेत्” (य्ध् २.१४८) इति ॥ यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्न्यः श्रेष्ठादिभागान् न लभन्ते किं तूद्धृतोद्धारात् समुदायात् समान् एवांशांल् लभन्ते स्वोद्धारं च । यथाह आपस्तम्बः- “परीभाण्डं च गृहे ऽलंकारो भार्यायाः” (आप्ध् २.१४.८–९) इति ॥ २.११५ ॥

“ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः” (य्ध् २.११४) इति पक्षद्वये ऽप्य् अपवादम् आह ।

शक्तस्यानीहमानस्य किंचिद् दत्त्वा पृथक् क्रिया । २.११६अब्

स्वयम् एव द्रव्यार्जनसमर्थस्य पितृद्रव्यम् अनीहमानस्यानिच्छतो ऽपि यत् किंचिद् असारम् अपि दत्त्वा पृथक् क्रिया विभागः कार्यः पित्रा, तत्पुत्रादीनां दायजिघृक्षा मा भूद् इति ।

“ज्येष्ठं वा श्रेष्ठभागेन” (य्ध् २.११४) इति न्यूनाधिको विभागो दर्शितः । तत्र शास्त्रोक्तोद्धारादिविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थम् आह ।

न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ २.११६च्द् ॥

न्यूनाधिकविभागेन विभक्तानां पुत्राणाम् असौ न्यूनाधिकविभागो यदि धर्म्यः शास्त्रोक्तो भवति तदासौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभिः स्मृतः । अन्यथा तु पितृकृतो ऽपि निवर्तत इत्य् अभिप्रायः । यथाह नारदः-

व्याधितः कुपितश् चैव विषयासक्तमानसः ।
अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥ इति ॥ (न्स्म् १३.१५* अद्द्) २.११६ ॥

इदानीं विभागस्य कालान्तरं कर्त्रन्तरं प्रकारनियमं चाह ।

विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् । २.११७अब्

पित्रोर् मातापित्रोर् ऊर्ध्वं प्रायणाद् इति कालो दर्शितः । सुता इति कर्तारो दर्शिताः । समम् इति प्रकारनियमः । समम् एवेति रिक्थम् ऋणं च विभजरेन् ।

ननु “ऊर्ध्वं पितुश् च मातुश् च” (म्ध् ९.१०४) इत्य् उपक्रम्य,
ज्येष्ठ एव तु गृह्नीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥ (म्ध् ९.१०५)

इत्य् उक्त्वोक्तम्-

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ इति । (म्ध् ९.११२)

सर्वस्माद् द्रव्यसमुदायाद् विंशतितमो भागः सर्वद्रव्येभ्यश् च यच् छ्रेष्ठं तज् ज्येष्ठाय दातव्यम् । तदर्धं चत्वारिंशत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् । तुरीयम् अशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यम् इति मातापित्रोर् ऊर्ध्वं विभजताम् उद्धारविभागो मुनुना दर्शितः । तथा-

उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ।
एकाधिकं हरेज् ज्येष्ठः पुत्रो ऽध्यर्धं ततो ऽनुजः ॥
अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥ इति । (म्ध् ९.११६–१७)

ज्येष्ठस्य द्वौ भागौ तदनन्तरजातस्य सार्धं एको भागः ततो ऽनुजानाम् एकैको विभाग इत्य् उद्धारव्यतिरेकेणापि विषमो विभागो दर्शितः पित्रोर् ऊर्ध्वं विभजताम् । जीवद्विभागे च स्वयम् एव विषमो विभागो दर्शितो “ज्येष्ठं वा श्रेष्ठभागेन” (य्स्ह् २.११४) इति । अतः सर्वस्मिन्न् अपि कले विषमो विभागो ऽस्तीति कथं समम् एव विभजेरन्न् इति नियम्यते ॥

अत्रोच्यते । सत्यम् । अयं विषमो विभागः शास्त्रदृष्टस् तथापि लोकविद्विष्टत्वान् नानुष्ठेयः, “अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन्न तु” (य्ध् १.१५६) इति निषेधात् । यथा “महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्” (य्ध् १.१०९) इति विधाने ऽपि लोकविद्विष्टत्वाद् अननुष्ठानम् । यथा वा “मैत्रावरुणीं गां वशाम् अनुबन्ध्याम् आलभेत” इति गवालम्भनविधाने ऽपि लोकविद्विष्टत्वाद् अननुष्ठानम् । उक्तं च यथा-
नियोगधर्मो नो नानुबन्ध्यावधो ऽपि वा ।
तथोद्धारविभागो ऽपि नैव संप्रति वर्तते ॥ इति । [^२९]

(नियोगम् अनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो देवराच् च सुतोत्पत्तिर् इत्यादिः स नो भवति) । आपस्तम्बो ऽपि “जीवन्पुत्रेभ्यो दायं विभजेत्” इति समताम् उक्त्वा, “ज्येष्ठो दायाद इत्य् एके” इति कृत्स्नधनग्रहणं ज्येष्ठस्यैकीयमतेनोपन्यस्य, “देशविशेषेण सुवर्णं कृष्णा गावः कृष्णभौमः जेष्ठस्य रथः पितुः परीभाण्डं च गृहे ऽलंकारो भार्याया ज्ञातिधनं चेत्य् एके” इत्य् एकीयमतेनैवोद्धारविभागं दर्शयित्वा, “तच् छास्त्रैर् विप्रतिषिद्धम्” इति निराकृतवान् (आप्ध् २.१४.१, ५, ६–१०) । तं च शास्त्रविप्रतिषेधं स्वयम् एव दर्शयति स्म “मनुः पुत्रेभ्यो दायं विभजेद् इत्य् अविशेषेण श्रूयते” । इति । (आप्ध् २.१४.११) तस्माद् विषमो विभागः शास्त्रदृष्टो ऽपि लोकविरोधाच् छ्रुतिविरोधाच् च नानुष्टेय इति समम् एव विभजेरन्न् इति नियम्यते ॥

मातापित्रोर् धनं सुता विभजेरन्न् इत्य् उक्तम् । तत्र मातृधने ऽपवादम् आह ।

मातुर् दुहितरः शेषम् ऋणात् २.११७च्

मातुर् धनं दुहितरो विभजेरन् । ऋणाच् छेषं मातृकृतर्णापाकरणावशिष्टं अतश् चर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्न् इत्य् अस्य विषयः । एतद् उक्तं भवति- मातृकृतम् ऋणं पुत्रैर् एवापाकरणीयं न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो गृह्नीयुर् इति । युक्तं चैतत्,

पुमान्पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः । (म्ध् ३.४९)

इति स्त्र्यवयवानां दुहितृषु बाहुल्यात्, स्त्रीधनं दुहितृगामि । पितृधनं पुत्रगामि पित्रवयवानां पुत्रेषु बाहुल्याद् इति । तत्र च गौतमेन विशेषो दर्शितः- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” (ग्ध् २८.२४) इति । अस्यार्थः- प्रत्ताप्रत्तासमवाये ऽप्रत्तानाम् एव स्त्रीधनम् । प्रत्तासु चाप्रतिष्ठिताप्रतिष्ठितासमवाये ऽप्रतिष्ठितानाम् एवेति । अप्रतिष्ठिता निर्धनाः ॥

दुहित्रभावे मातृधनम् ऋणावशिष्टं को गृह्नीयाद् इत्य् अत आह ।

ताभ्य ऋते ऽन्वयः ॥ २.११७द्

ताभ्यो दुहितृभ्यो विना दुहितॄणाम् अभावे अन्वयः पुत्रादिर् गृह्नीयात् । एतच् च “विभजेरन् सुताः पित्रोर् ऊर्ध्वम्” (य्ध् २.११७) इत्य् अनेनैव सिद्धं स्पष्टार्थम् उक्तम् ॥ २.११७ ॥

अविभाज्यम् आह ।

** पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम् । २.११८अब् **
** मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥ २.११८च्द् ॥**
** क्रमाद् अभ्यागतं द्रव्यं हृतम् अप्य् उद्धरेत् तु यः । २.११९अब्**
** दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ २.११९च्द् ॥**

मातापित्रोर्द्रव्याविनाशेन यत्स्वयम् अर्जितं मैत्रं मित्रसकाशाद्यल्लब्धं औद्वाहिकं विवाहाद्यल्लब्धं दायादानां भ्रातॄणां तन्न भवेत् । क्रमात्पितृक्रमादायातं यत्किञ्चिद्द्रव्यं अन्यैर्हृतमसामर्थ्यादिना पित्रादिभिर् अनुद्धृतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्यादुद्धर्तैव गृह्नीयात् । तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते शेषं तु सर्वेषां समम् एव । यथाह शङ्खः ।

पूर्वं नष्टां तु यो भूमिम् एकश् चेद् उद्धरेत् क्रमात् ।
यथाभागं लभन्ते ऽन्ये दत्त्वांशं तु तुरीयकम् ॥ इति । (ध्को १२०७)

“क्रमाद् अभ्यागतम्” इति शेषः । तथा विद्यया वेदाध्ययनेनाध्यापनेन वेदार्थव्याख्यानेन वा यल् लब्धं तद् अपि दायादेभ्यो न दद्यात्, अर्जक एव गृह्नीयात् । अत्र च “पितृद्रव्याविरोधेन यत् किंचित् स्वयम् अर्जितम्” इति सर्वशेषः । अतश् च पितृद्रव्याविरोधेन यन् मैत्रम् अर्जितम्, पितृद्रव्याविरोधेन यद् औद्वाहिकम्, पितृद्रव्याविरोधेन यत् क्रमायातम् उद्धृतम्, पितृद्रव्याविरोधेन विद्यया यल् लब्धम्, इति प्रत्येकम् अभिसंबध्यते । तथा च पितृद्रव्याविरोधेन प्रत्युपकारेण यन् मैत्रम्, आसुरादिविवाहेषु यल् लब्धम्, तथा पितृद्रव्यव्ययेन यत् क्रमायातम् उद्धृतम्, तथा पितृद्रव्यव्ययेन लब्धया विद्यया यल् लब्धम्, तत् सर्वं सर्वैर् भ्रातृभिः पित्रा च विभजनीयम् । तथा पितृद्रव्याविरोधेनेत्यस्य सर्वशेषत्वाद् एव पितृद्रव्याविरोधेन प्रतिग्रहलब्धम् अपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वाहिकम् इत्यादि नारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन् मैत्रादिलब्धं तस्याविभाज्यत्वाय मैत्रादिवचनम् अर्थवद् इत्य् उच्यते । तथा सति समाचारविरोधः, विद्यालब्धे नारदवचनविरोधश् च -

कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥ इति । (न्स्म् १३.१०)

तथा विद्याधनस्याविभाज्यस्य लक्षणम् उक्तं कात्यायनेन ।

परभक्तोपयोगेन विद्या प्राप्तान्यतस् तु या ।
तया लब्धं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥ इति । (क्स्म् ८६७)

तथा पितृद्रव्याविरोधेनेत्य् अस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वम् आचारविरुद्धम् आपद्येत । एत देव स्पष्टीकृतं मनुना-

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जितम् ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ इति (म्ध् ९.२०८)

श्रमेण सेवायुद्धादिना ।

ननु पितृद्रव्याविरोधेन यन् मैत्रादिलब्धं द्रव्यं तद् अविभाज्यम् इति न वक्तव्यम्, विभागप्राप्त्यभावात् । यद् येन लब्धं तत् तस्यैव नान्यस्येति प्रसिद्धतरम् । प्राप्तिपूर्वकश् च प्रतिषेधः । अत्र कश् चिद् इत्थं प्राप्तिम् आह-
यत् कञ्चित् पितरि प्रेते धनं ज्येष्ठो ऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ इति । (म्ध् ९.२०४)

ज्येष्ठो वा कनिष्टो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेति व्याख्यानेन पितरि सत्य् असति च मैत्रादीनां विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति ।

तद् असत् । न ह्य् अत्र प्राप्तस्य प्रतिषेधः किं तु सिद्धस्यैवानुवादो ऽयम् । लोकसिद्धस्यैवानुवादकान्य् एव प्रायेणास्मिन् प्रकरणे वचनानि । अथ वा,
समवेतैस् तु यत् प्राप्तं सर्वे तत्र समांशिनः । (बृस्म् १.२६.१८)

इति प्राप्तस्यापवाद इति संतुष्यतु भवान् । अतश् च “यत् किंचित् पितरि प्रेते” इत्य् अस्मिन् वचने ज्येष्ठादिपदाविवक्षया प्राप्तिर् इति व्यामोहमात्रं । अतो मैत्रादिवचनैः पितुः प्राग् ऊर्ध्वं वा विभाज्यत्वेनोक्तस्य “यत् किंचित् पितरि प्रेते” इत्य् अपवाद इति व्याख्येयम् । तथान्यद् अप्य् अविभाज्यम् उक्तं मनुना-

वस्त्रं पत्रम् अलंकारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ इति । (म्ध् ९.२१९)

धृतानाम् एव वस्त्राणाम् अविभाज्यत्वं यद् येन धृतं तत् तस्यैव । पितृधृतवस्त्राणि तु पितुर् ऊर्ध्वं विभजतां श्राद्धभोक्त्रे दातव्यानि । यथाह बृहस्पतिः ।

वस्त्रालंकारशय्यादि पितुर् यद् वाहनादिकम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे समर्पयेत् ॥ इति । (बृस्म् १.२६.६०)

अभिनवानि तु वस्त्राणि विभाज्यान्य् एव । पत्रं वाहनम् अश्वशिबिकादि तद् अपि यद् येनारूढं तत् तस्यैव । पित्र्यं तु वस्त्रवद् एव । अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभाज्यत्वम् एव । वैषम्येण विभाज्यत्वे ज्येष्ठस्य,

अजाविकं सैकशफं न जातु विषमं भजेत् ।
अजाविकं सैकशफं ज्येष्ठस्यैव विधीयते ॥ (म्ध् ९.११९)

इति मनुस्मरणात् । अलंकारो ऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो विभाज्य एव-

पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ इति । (म्ध् ९.२००)

“अलंकारो धृतो भवेद्” इति विशेषेणोपादानाद् अधृतानां विभाज्यत्वं गम्यते । कृटान्नं तण्डुलमोदकादि तद् अप्य् अविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कूपादिः, तच् च विषमं मूल्यद्वारेण न विभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश् च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः पर्यायेण कर्म कारयितव्याः । अवरुद्धास् तु पित्रा स्वैरिण्याद्याह् समा अपि पुत्रैर् न विभाज्याः, “स्त्रीषु च संयुक्तास्व् अविभागः” (ग्ध् २८.४७) इति गौतमस्मरणात् । योगश् च क्षेमं च योगक्षेमम् । योगशब्देनालब्धलाभकारणं श्रौतस्मार्ताग्निसाध्यम् इष्टं कर्म लक्ष्यते । क्षेमशब्देन लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूतं कर्म लक्ष्यते । तद् उभयं पैतृकम् अपि पितृद्रव्यविरोधार्जितम् अप्य् अविभाज्यम् । यथाह लौगाक्षिः-

क्षेमं पूतं योगम् इष्टम् इत्य् आहुस् तत्त्वदर्शिनः ।
अविभाज्ये च ते प्रोक्ते शयनासनम् एव च ॥ इति । (ध्को १२३३)

योगक्षेमशब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते इति केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्य् अन्ये । प्रचारो गृहारामादिषु प्रवेशनिर्गममार्गः, सो ऽप्य् अविभाज्यः । यत् तु उशनसा क्षेत्रस्याविभाज्यत्वम् उक्तम्,

अविभाज्यं सगोत्राणाम् आ सहस्रकुलाद् अपि ।
याज्यं क्षेत्रं च पत्रं च कृतान्नम् उदकं स्त्रियः ॥ (ध्को १२३२)

इति तद् ब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम्,

न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषां पिता दद्यान् मृते विप्रासुतो हरेत् ॥ (बृस्म् १.२६.१२१)

इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमस्याविभाज्यत्वम् अनन्तरम् एव निरासि । पितृद्रव्यविरोधेन यद् अर्जितं तद् विभजनीयम् इति स्थितं, तत्रार्जकस्य भागद्वयं वसिष्ठवचनात्- “येन चैषां स्वयम् उपार्जितं स्यात् स द्व्यंशम् एव लभेत” इति (वध् १७.५१) ॥ २.११८ ॥ २.११९ ॥

अस्यापवादम् आह ।

**सामान्यार्थसमुत्थाने विभागस् तु समः स्मृतः । २.१२०अब् **

अविभक्तानां भ्रातॄणां सामान्यस्यार्थस्य कृषिवाणिज्यादिना संभूय समुत्थाने सम्यग्वर्धने केनचित् कृते सम एव विभागो नार्जयितुर् अंशद्वयम् ॥

पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः । इदानीं पैतामहे पौत्राणां विभागे विशेषम् आह ।

अनेकपितृकाणां तु पितृतो भागकल्पना ॥ २.१२०च्द्

यद्य् अपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैर् अविशिष्टं तथापि तेषां पितृद्वारेणैव पैतामहद्रव्यविभागकल्पना न स्वरूपापेक्षया । एतद् उक्तं भवति । यदा ऽविभक्ता भ्रातरः पुत्रान् उत्पाद्य दिष्टं गतास् तदैकस्य द्वौ पुत्रावन्यस्य त्रयो ऽपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वाव् एकं स्वपित्र्यम् अंशं लभेते, अन्ये त्रयो ऽप्य् एकम् अंशं पित्र्यं चत्वारो ऽप्य् एकम् एवांशं पित्र्यं लभन्त इति । तथा केषुचित् पुत्रेषु ध्रियमाणेषु केषुचित् पुत्रान् उत्पाद्य विनष्टेष्व् अप्य् अयम् एव न्यायो ध्रियमाणाः स्वान् अंशान् एव लभन्ते, नष्टानाम् अपि पुत्राः पित्र्यान् एवांशांल् लभन्त इति वाचनिकी व्यवस्था ॥ २.१२० ॥

अधुना विभक्ते पितर्य् अविद्यमानभ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो नास्ति, अध्रियमाणे पितरि “पितृतो भागकलपना” (य्ध् २.१२०) इत्य् उक्तत्वात् । भवतु वा स्वार्जितवत् पितुर् इच्छयैवेत्य् आशङ्कित आह ।

** भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा । २.१२१अब्**
** तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥ २.१२१च्द् ॥**

भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्णभरकस्येयन्ति पर्णानि, तथा एकस्य क्रमुकफलभरस्येयन्ति क्रमुकफलानीत्याद्य् उक्तलक्षणः । द्रव्यं सुवर्णरजतादि यत् पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धम् इति कृत्वा विभागो ऽस्ति । हि यस्मात् तत्सदृशं समानं तस्मान् न पितुर् इच्छयैव विभागो नापि पितुर् भागद्वयम् । अतश् च “पितृतो भागकल्पना” (य्ध् २.१२०) इत्य् एतत् स्वाम्ये समे ऽपि वाचनिकम् । “विभागं चेत् पिता कुर्यात्” (य्ध् २,११४) इत्य् एतत् स्वार्जितविषयम् । तथा,

द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता । (न्स्म् १३.१२)

इत्य् एतद् अपि स्वार्जितविषयम् ।

जीवतोर् अस्वतन्त्रः स्याज् जरयापि समन्वितः । (न्स्म् १.३२)

इत्य् एतद् अपि पारतन्त्र्यं मातापित्रर्जितद्रव्यविषयम्, तथा “अनीशास् ते हि जीवतोः” (म्ध् ९.१०४) इत्य् एतद् अपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागम् अनिच्छत्य् अपि पुत्रेच्छया पैतामहद्रव्यविभागो भवति । तथा ऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधे ऽप्य् अधिकारः । पित्रार्जिते न तु निषेधाधिकारः, तत्परतन्त्रत्वात् । अनुमतिस् तु कर्तव्या । तथाहि, पैतृके पैतामहे च स्वाम्यं यद्य् अपि जन्मनैव तथापि पतृके पितृपरतन्त्रत्वात्, पितुश् चार्जकत्वेन प्राधान्यात्, पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्यम् अविशिष्टम् इति निषेधाधिकारो ऽस्तीति विशेषः । मनुर् अपि ।

पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् ।
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥ इति । (म्ध् ९.२०९)

यत् पितामहार्जितं केनाप्य् अपहृतं पितामहेनानुद्धृतं यदि पितोद्धरति तत् स्वार्जितम् इव पुत्रैः सार्धम् अकामः स्वयं न विभजेद् इति वदन् पितामहार्जितम् अकामो ऽपि पुत्रेच्छया पुत्रैः सह विभजेद् इति दर्शयति ॥ २.१२१ ॥

विभागोत्तरकालम् उत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्य् अत आह ।

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । २.१२२अब्

विभक्तेषु पुत्रेषु पश्चात् सवर्णायां भार्यायाम् उत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोर् विभागस् तं भजतीति विभागभाक् । पित्रोर् ऊर्ध्वं तयोर् अंशं लभत इत्य् अर्थः । मातृभागं चासत्यां दुहितरि, “मातुर् दुहितरः शेषम्” इत्य् उक्तत्वात् । असवर्णायाम् उत्पन्नस् तु स्वांशम् एव पित्र्याल् लभते । मातृकं तु सर्वम् एव । एतद् एव मनुनोक्तम् ।

ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् । इति । (म्ध् ९.२१६)

पित्रोर् इदं पित्र्यम् इति व्याख्येयम् ।

अनीशः पूर्वजः पित्रोर् भ्रातुर् भागे विभक्तजः । (बृस्म् १.२६.५५)

इति स्मरणात् । विभक्तयोर् मातापित्रोर् विभागे विभागात् पूर्वम् उत्पन्नो न स्वामी विभक्तजश् च भ्रातुर् भागे न स्वामीत्य् अर्थः । तथा विभागोत्तरकालं पित्रा यत् किंचिद् अर्जितं तत् सर्वं विभक्तजस्यैव,

पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥ (बृस्म् १.२६.५६)

इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्धं पितुर् ऊर्ध्वं विभक्तजो विभजेत् । यथाह मनुः ।

संस्पृष्टास्तेन वा ये स्युर् विभजेत स तैः सह । इति । (म्ध् ९.२१६)

पितुर् ऊर्ध्वं पुत्रेषु विभक्तेषु पश्चाद् उत्पन्नस्य कथं विभागकल्पनेत्य् अत आह ।

दृश्याद् वा तद् विभागः स्याद् आयव्ययविशोधितात् ॥ २.१२२च्द् ॥

तस्य पितरि प्रेते भ्रातृविभागसमये ऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तरकालम् उत्पन्नस्यापि विभागः । तद्विभागः कुत इत्य् अत आह । दृश्याद् भ्रातृभिर् गृहीताद् धनात् । कीदृशाद् आयव्ययविशोधितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं वा यद् उत्पद्यते । व्ययः पितृकृतर्णापाकरणम् । ताभ्याम् आयव्ययाभ्यां यच् छोधितं तत् तस्माद् उद्धृत्य तद् भागो दातव्यः स्यात् । एतद् उक्तं भवति । प्रातिस्विकेषु भागेषु तदुत्थम् आयं प्रवेश्य पितृकृतं चर्णम् अपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः किंचित् किंचिद् उद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच् च विभागसमये ऽप्रजस्य भ्रातुर् भार्यायाम् अस्पष्टगर्भायां विभागाद् ऊर्ध्वम् उत्पन्नस्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः- “अथ भ्रातॄणां दायविभागः, याश् चानपत्याः स्त्रियस् तासाम् आ पुत्रलाभात्” (वध् १७.४०–४१) इति । गृहीतगर्भाणाम् आ प्रसवात् प्रतीक्षणम् इति योजनीयम् ॥ २.१२२ ॥

विभक्तजः पित्र्यं मातृकं च सर्वं धनं गृह्नातीत्युक्तम् । तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशाद् आभरणादिकं प्रयच्छति तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यो नापि दत्तं प्रत्याहर्तव्यम् इत्य् आह ।

पितृभ्यां यस्य यद् दत्तं तत् तस्यैव धनं भवेत् ।२.१२३अब्

मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद् दत्तम् अलंकारादि तत् तस्यैव न विभक्तजस्य स्वं भवति । न्यायसाम्याद् विभागात् प्राग् अपि यस्य यद् दत्तं तत् तस्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोर् अंशं तद् ऊर्ध्वं विभजतां यस्य यद् दत्तं तत् तस्यैव नान्यस्येति वेदितव्यम् ॥

जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनाम् उक्तं “यदि कुर्यात् समान् अंशान्” (य्ध् २.११५) इत्यादिना । पितुर् ऊर्ध्वं विभागे ऽपि पत्नीनां स्वपुत्रसमांशित्वं दर्शयितुम् आह ।

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् ॥ २.१२३च्द् ॥

पितुर् ऊर्ध्वं पितुः प्रायणाद् ऊर्ध्वं विभजतां मातापि स्वपुत्रांशसमम् अंशं हरेत् यदि स्त्रीधनं न दत्तम् । दत्ते त्व् अर्धांशहारिणीति वक्ष्यते ॥ २.१२३ ॥

पितरि पेते यद्य् असंस्कृता भ्रातरः सन्ति, तदा तत्संस्कारे को ऽधिक्रियत इत्य् अत आह ।

असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । २.१२४अब्

पितुर् ऊर्ध्वं विभजद्भिर् भ्रातृभिर् असंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः ।

असंस्कृतासु भगिनीषु विशेषम् आह ।

भगिन्यश् च निजाद् अंशाद् दत्त्वांशं तु तुरीयकम् ॥ २.१२४च्द् ॥

अस्यार्थः । भगिन्यश् चासंस्कृताः संस्कर्तव्या भ्रातृभिः । किं कृत्वा । निजाद् अंशाच् चतुर्थम् अंशं दत्त्वा । अनेन दुहितरो ऽपि पितुर् ऊर्ध्वम् अंशभागिन्य इति गम्यते । तत्र “निजाद् अंशाद्” इति प्रत्येकं परिकल्पिताद् अंशाद् उद्धृत्य चतुर्थांशो दातव्य इत्य् अयम् अर्थो न भवति किं तु यज्जातीया कन्या तज्जातीयपुत्रभागाच् चतुर्थांशभागिनी सा कर्तव्या । एतद् उक्तं भवति । यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावान् अंशो भवति तस्य चतुर्थांशस् तस्या भवति । तद् यथा । यदि कस्यचिद् ब्राह्मणस्यैका पत्नी पुत्रश् चैकः कन्या चैका तत्र पित्र्यं सर्वम् एव द्रव्यं द्विधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयम् अंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्नीयात् । यदा तु द्वौ पुत्रौ एका च कन्या तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयम् अंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्नीतः ॥ अथ त्व् एकः पुत्रो द्वे कन्ये तदा पित्र्यं धनं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वावशिष्टं सर्वं पुत्रो गृह्नातीत्य् एवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रियाकन्या चैका तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागांस् त्रींश् चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्नाति । यत्र तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्या चैका तत्र पित्र्यं धनम् एकादशधा विभज्य तेषु त्रीन् अंशान् क्षत्रियापुत्रभागांश् चतुर्धा विभज्य चतुर्थम् अंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्वं ब्राह्मणीपुत्रौ विभज्य गृह्नीतः ॥ एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । न च “निजाद् अंशाद् दत्त्वांशं तु तुरीयकम्” इति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्त्वेति व्याख्यानं युक्तम्, मनुवचनविरोधात् ।

स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः प्रथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥ इति । (म्ध् ९.११८)

अस्यार्थः । ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः स्वेभ्यः स्वजातिविहितेभ्यो ऽंशेभ्यः “चतुरो ऽंशान् हरेद् विप्रः” इत्यादिवक्ष्यमाणेभ्यः स्वात् स्वाद् अंशाद् आत्मीयाद् आत्मीयाद् भागाच् चतुर्थं चतुर्थं भागं दद्युः । न चात्रात्मीयभागाद् उद्धृत्य चतुर्थांशो देय इत्य् उच्यते किं तु स्वजातिविहिताद् एकस्माद् एकस्माद् अंशात् पृथक् पृथग् एकस्याप्य् एकस्यै कन्यायै चतुर्थो ऽंशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागकॢप्तिर् उक्तैव । “पतिताः स्युर् अदित्सवः” इत्य् अकरणे प्रत्यवायश्रवणाद् अवश्यंदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनम् अविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानम् एव विवक्षितम् इति चेन् न, स्मृतिद्वये ऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाद्, अदाने प्रत्यवायश्रवणाच् चेति । यद् अपि कैश्चिद् उच्यते- अंशदानविवक्षायां बहुभ्रातृकायाः बहुधनत्वं बहुभगिनीकस्य च निर्धनता प्राप्नोतीति तद् उक्तरीत्या परिहृतम् एव । न ह्य् अत्रात्मीयाद् भागाद् उद्धृत्य चतुर्थांशस्य दानम् उच्यते येन तथा स्यात् । अतः असहायमेधातिथिप्रभृतीनां व्याख्यानम् एव चतुरस्रं न भारुचेः । तस्मात् पितुर् ऊर्ध्वं कन्याप्य् अंशभागिनी पूर्वं चेद् यत् किंचित् पिता ददाति तद् एव लभते विशेषवचनाभावाद् इति सर्वम् अनवद्यम् ॥ २.१२४ ॥

एवं “विभागं चेत् पिता कुर्यात्” य्ध् २.११४) इत्यादिना प्रबन्धेन समानजातीयानां भ्रातॄणां परस्परं पित्रा सह विभागकॢप्तिर् उक्ता । अधुना भिन्नजातीयानां विभागम् आह ।

** चतुस्त्रिद्व्येकभागाः स्युर् वर्णशो ब्राह्मणात्मजाः । २.१२५अब्**
** क्षत्रजास् त्रिद्व्येकभागा विड्जास् तु द्व्येकभागिनः ॥ २.१२५च्द् ॥ **

“तिस्रो वर्णानुपूर्व्येण” (य्ध् १.१७) इति ब्राह्मणस्य चतस्रः क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यैकेति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणोत्पन्ना वर्णशः वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यते । “संख्यैकवचनाच् च वीप्सायाम्” (पाण् ५.४.४३) इत्य् अधिकरणकारकाद् एकवचनाद् वीप्सायां शस् । अतश् च वर्णे वर्णे ब्राह्मणोत्पन्नाः यथाक्रमं चतुस्त्रिद्व्येकभागाः स्युर् भवेयुः । एतद् उक्तं भवति । ब्राह्मणेन ब्राह्मण्याम् उत्पन्ना एकैकशश् चतुरश् चतुरो भागांल् लभन्ते । तेनैव क्षत्रियायाम् उत्पन्नाः प्रत्येकं त्रींस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायाम् एकम् एकम् इति । क्षत्रजाः क्षत्रियेणोत्पन्नाः वर्णश इत्य् अनुवर्तते यथाक्रमं त्रिद्व्येकभागाः । क्षत्रियेण क्षत्रियायाम् उत्पन्नाः प्रत्येकं त्रींस्त्रीन्, वैश्यायां द्वौ द्वौ, शूद्रायाम् एकम् एकम् । विड्जाः वैष्येनोत्पन्नाः । अत्रापि वर्णश इत्य् अनुवर्तते यथाक्रमं द्व्येकभागिनः । वैश्येन वैश्यायाम् उत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्रायाम् एकम् एकम् । शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात् तत्पुत्राणां पूर्वोक्त एव विभागः । यद्य् अपि चतुस्त्रिद्व्येकभागा इत्य् अविशेषेणोक्तं तथापि प्रतिग्रहप्राप्तभूव्यतिरिक्तविषयम् इदं द्रष्टव्यम् । यतः स्मरन्ति ।

न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषा पिता दद्यान् मृते विप्रासुतो हरेत् ॥ इति । (बृस्म् १.२६.१२१)

प्रतिग्रहणात् क्रयादिनालब्धा भूः क्षत्रियादिसुतानाम् अपि भवत्य् एव । शूद्रापुत्रस्य विशेषपतिषेधाच् च-

शुद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति । इति । (बृस्म् १.२६.१२२)

यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत् तदा शूद्रापुत्रस्य विशेषप्रेतिषेधो नोपपद्यते । यत् पुनः,

ब्राह्मणक्षत्रियविषां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥ (म्ध् ९.१५५)

इति तद् अपि जीवता पित्रा यदि शूद्रापुत्राय किम् अपि प्रदत्तं स्यात् तद्विषयम् । यदा तु प्रसाददानं नास्ति तदैकांशभागित्यविरुद्धम् ॥ २.१२५ ॥

अथ सर्वविभागशेषं किंचिद् उच्यते ।

** अन्योन्यापहृतं द्रव्यं विभक्ते यत् तु दृश्यते । २.१२६अब्**
** तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥ २.१२६च्द् ॥ **

परस्परापहृतं समुदायद्रव्यं विभागकाले चाज्ञातं विभक्ते पितृधने यद् दृश्यते तत् समैर् अंशैर् विभजेरन्न् इत्येवं स्थितिः शास्त्रमर्यादा । अत्र “समैर् अंशैः” इति वदतोद्धारविभागो निषिद्धः । विभजेरन्न् इति वदता येन दृश्यते तेनैव न ग्राह्यम् इति दर्शितम् । एवं च वचनस्यार्थवत्त्वान् न समुदायद्रव्यापहारे दोषाभावपरत्वम् ।

ननु मनुना ज्येष्ठस्यैव समुदायद्रव्यापहारे दोषो दर्शितो न कनीयसाम्,
यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः ।
सो ऽज्येष्ठः स्याद् अभागश् च नियन्तव्यश् च राजभिः ॥ (म्ध् ९.२१३)

इति वचनात् ।

नैतत् । यतः संभावितस्वातन्त्र्यस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्त्राणां कनीयसां पुत्रस्थानीयानां दण्डापूपिकनीत्या[^३०] सुतरां दोषो दर्शित एव । तथा चाविशेषेणैव दोषः श्रूयते ।[^३१] “यो वै भागिनं भागान् नुदते चयते चैनं स यदि वैनं न चयते ऽथ पुत्रम् अथ पौत्रं चयते” (ऐत्ब् ६.७; ध्को १५७०) इति । यो भागिनं भागार्हं भागान् नुदते भागाद् अपाकरोति भागं तस्मै न प्रयच्छति स भागान् नुन्न एनं चोत्तारं चयते नाशयति दोषिणं करोति । यदि तं न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषम् अन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुतः ।
अथ साधारणं द्रव्यम् आत्मनो ऽपि स्वं भवतीति स्वबुद्ध्या गृह्यमाणं न दोषम् आवहतीति मतम् ।
तद् असत् । स्वबुद्ध्या गृहीते ऽप्य् अवर्जनीयतया परस्वम् अपि गृहीतम् एवेति निषेधानुप्रवेशाद् दोषम् आवहत्य् एव । यथा मौद्गे चरौ विपन्ने सदृशतया माषेषु गृह्यमाणेषु “अयज्ञिया वै माषाः” इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वाद् इति पूर्वपक्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्व् अवर्जनीयतया माषाव्यवा अपि गृह्यन्त एवेति निषेधः प्रविशत्य् एवेति राद्धान्तिनोक्तम् । तस्माद् वचनतो न्यायतश् च साधारणद्रव्यापहारे दोषो ऽस्त्य् एवेति सिद्धम् ॥ २.१२६ ॥

द्व्यामुष्यायणस्य भागविशेषं दर्शयंस् तस्य स्वरूपम् आह ।

** अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । २.१२७अब्**
** उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ १२७च्द् ॥**

“अपुत्रां गुर्वनुज्ञातः” (य्ध् १.६८) इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्र उभयोर् बीजिक्षेत्रिणोर् असौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः- यदासौ नियुक्तो देवरादिः स्वयम् अप्य् अपुत्रो ऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति स द्विपितृको द्व्यामुष्यायाणो द्वयोर् अपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थं प्रयतते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति न बीजिनः । स च न नियमेन बीजिनो रिक्थहारी पिण्डदो वेति । यथोक्तं मनुना-

क्रियाभ्युपगमात् क्षेत्रं बीजार्थं यत् प्रदीयते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ इति । (म्ध् ९.५३)

क्रियाभ्युपगमाद् इत्य् अत्रोत्पन्नम् अपत्यम् आवयोर् उभयोर् अपि भवत्व् इति संविदङ्गीकरणाद् यत् क्षेत्रं क्षेत्रस्वामिना बीजावपनार्थं बीजिने दीयते तत्र तस्मिन् क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा-

फलं त्व् अनभिसंधाय क्षेत्रिणा बीजिना तथा ।
प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् बलीयसी ॥ इति । (म्ध् ९.५२)

“फलं त्व् अनभिसंधाय” इति- अत्रोत्पन्नम् अपत्यम् आवयोस् उभयोर् अस्त्व् इत्येवम् अनभिसंधाय परक्षेत्रे यद् अपत्यम् उत्पाद्यते तद् अपत्यं क्षेत्रिण एव, यतो “बीजाद् योनिर् बलीयसी,” गवाश्वादिषु तथा दर्शनात् । अत्रापि नियोगो वाग्दत्ताविषय एव, इतरस्य नियोगस्य मनुना निषिद्धत्वात् ।

देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया ।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥
विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि ।
एकम् उत्पादयेत् पुत्रं न द्वितीयं कथंचन ॥ (म्ध् ९.५९–६०)

इत्य् एवं नियोगम् उपन्यस्य, मनुः स्वयम् एव निषेधति-

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥
अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुश्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥
स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे कामोपहतचेतनः ॥
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्य् अपत्यार्थे गर्हन्ते तं हि साधवः ॥ इति ॥ (म्ध् ९.६४–६८)

न च विहितप्रतिषिद्धत्वाद् विकल्प इति मन्तव्यम्, नियोक्तॄणां निन्दाश्रवणात्, स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणात्, संयमस्य प्रशस्तत्वाच् च । यथाह मनुर् एव,

कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ (म्ध् ५.१५७)

इति जीवनार्थं पुरुषान्तराश्रयणं प्रतिषिद्ध्य,

आसीत आ मरणात् क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसंततिम् ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥
अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते ।
सेह निन्दाम् अवाप्नोति परलोकाच् च हीयते ॥ (म्ध् ५.१५८–६१)

इति पुत्रार्थम् अपि पुरुषान्तराश्रयणं निषेधति । तस्माद् विहितप्रतिषिद्धत्वाद् विकल्प इति न युक्तम् ॥ एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस् तर्हि धर्म्यो नियोग इत्य् अत आह-

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥
यथाविध्य् अधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताप्रसवात् सकृत् सकृद् ऋताव् ऋतौ ॥ इति । (म्ध् ९.६९–७०)

यस्मै वाग्दत्ता कन्या स प्रतिग्रहम् अन्तरेणैव तस्याः पतिर् इत्य् अस्माद् एव वचनाद् अवगम्यते । तस्मिन् प्रेते देवरस् तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परिणयेत् । यथाविधि यथाशास्त्रम् अधिगम्य परिणीय अनेन विधानेन घृताभ्यङ्गवाङ्नियमादिना शुक्लवस्त्रां शुचिव्रतां मनोवाक्कायसंयतां मिथो रहस्य् आ गर्भग्रहणात् प्रत्यृत्व् एकवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादिनियमवन् नियुक्ताभिगमनाङ्गम् इति न देवरस्य भार्यात्वम् आपादयति । अतस् तदुत्पन्नम् अपत्यं क्षेत्रस्वामिन एव भवति न देवरस्य । संविदा तूभयोर् अपि ॥ २.१२७ ॥

समानासमानजातीयानां पुत्राणां विभागकॢप्तिर् उक्ता । अधुना मुख्यगौणपुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यंस् तेषां स्वरूपं तावद् आह ।

** औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः । २.१२८अब्**
** क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ॥ २.१२८च्द् ॥**

उरसो जात औरसः पुत्रः स च धर्मपत्नीजः सवर्णा धर्मविवाहोढा धर्मपत्नी तस्यां जात औरसः पुत्रो मुख्यः । “तत्समः पुत्रिकासुतः” तत्सम औरससमः पुत्रिकायाः सुतः पुत्रिकासुतः । अत एवौरससमः । यथाह वसिष्ठः ।

अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेद् इति ॥ इति । (वध् १७.१७)

अथ वा पुत्रिकैव सुतः पुत्रिकासुतः सो ऽप्य् औरससम एव पित्रवयवानाम् अल्पत्वात् मात्रवयवानां बाहुल्याच् च । यथाह वसिष्ठः- “तृतीयः[^३२] पुत्रिकैव” इति । तृतीयः[^३३] पुत्रः पुत्रिकैवेत्य् अर्थः । द्व्यामुष्यायणस् तु जनकस्यौरसाद् अपकृष्टो ऽन्यक्षेत्रोत्पन्नत्वात् । “क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा”- इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः ॥ २.१२८ ॥

** गृहे प्रच्छन्न उत्पन्नो गूढजस् तु सुतः स्मृतः । १२९अब्**
** कानीनः कन्यकाजातो मातामहसुतो मतः ॥ २.१२९च्द् ॥ **

गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्नो हीनाधिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावे ऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः । कानीनस् तु कन्यकायाम् उत्पन्नः पूर्ववत् सवर्णासु मातामहस्य पुत्रः । यद्य् अनूढा सा भवेत् तथा पितृगृह एव संस्थिता । अथोढा तदा वोढुर् एव पुत्रः । यथाह मनुः ।

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
तं कानीनं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥ इति ॥ (म्ध् ९.१७२) २.१२९
** अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । १३०अब्**
** दद्यान् माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ १३०च्द् ॥ **

पौनर्भवस् तु पुत्रो ऽक्षतायां क्षतायां वा पुनर्भ्वां सवर्णाद् उत्पन्नः । मात्रा भर्त्रनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यस्मै दीयते स तस्य दत्तकः पुत्रः । यथाह मनुः ।

माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ इति । (म्ध् ९.१६८)

आपद्ग्रहणाद् अनापदि न देयः । दातुर् अयं प्रतिषेधः । तथा एक पुत्रो न देयः । “न त्व् एवैकं पुत्रं दद्यात् प्रतिगृह्नीयाद् वा” (वध् १५.३) इति वसिष्ठस्मरणात् । तथानेकपुत्रसद्भावे ऽपि ज्येष्ठो न देयः ।

ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । (म्ध् ९.१०६)

इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश् च “पुत्रं प्रतिग्रहीष्यन् बन्धून् आहूय राजनि चावेद्य निवेशनमध्ये व्याहृतिभिर् हुत्वा अदूरबान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्नीयात्” (वध् १५.६) इति वसिष्ठेनोक्तः । अदूरबान्धवम् इत्य् अत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः । एवं क्रीतस्वयंदत्तकृत्रिमेष्व् अपि योजनीयम्, समानन्यायत्वात् ॥ २.१३० ॥

** क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः । २.१३१अब्**
** दत्त्वात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ २.१३१च्द् ॥**

क्रीतस् तु पुत्रस् ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् तथाइकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्य् एव । यत् तु मनुनोक्तम्,

क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥ (म्ध् ९.१७४)

इति तद्गुणैह् सदृशो ऽसदृशो वेति व्याख्येयं न जात्या, “सजातीयेष्व् अयं प्रोक्तस् तनयेषु” (य्ध् २.१३३) इत्य् उपसंहारात् । “कृत्रिमः स्यात् स्वयंकृतः”- कृत्रिमस् तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रलोभेनैव पुत्रीकृतो मातापितृविहीनः तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस् ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयंदत्तत्वम् उपगतः । सहोढजस् तु गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोढुः पुत्रः ॥ २.१३१ ॥

उत्सृष्टो गृह्यते यस् तु सो ऽपविद्धो भवेत् सुतः । २.१३२अब्

अपविद्धो मातापितृभ्याम् उत्सृष्टो यो गृह्यते स ग्रहीतुः पुत्रः सर्वत्र सवर्ण इत्य् एव ॥

एवं मुख्यामुख्यपुत्रान् अनुक्रम्यैतेषां दायग्रहणे क्रमम् आह ।

**पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ॥ २.१३२च्द् ॥ **

एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः श्राद्धदो ऽंशहरो धनहरो वेदितव्यः । औरसपौत्रिकेयसमवाये औरसस्यैव धनग्रहणे प्राप्ते मनुर् अपवादम् आह ।

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति । म्ध् ९.१३४)

तथा अन्येषाम् अपि पूर्वस्मिन् पूर्वस्मिन् सत्य् अप्य् उत्तरेषां पुत्राणां चतुर्थांशभागित्वम् उक्तं वसिष्ठेन । तस्मिंश् चेत् प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद् दत्तक इति । दत्तकग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम्, पुत्रीकरणाविशेषात् । तथा च कात्यायनः -

उत्पन्ने त्व् औरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास् तु ग्रासाच्छादनभाजनाः ॥ इति । (क्स्म् ८५७)

सवर्णा दत्तकक्षेत्रजादयस् ते सत्य् औरसे चतुर्थांशहराः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवास् ते त्व् औरसे सति न चतुर्थांशहराः किं तु ग्रासाच्छादनभाजनाः । यद् अपि विष्णुवचनम्,

अप्रशस्तास् तु कानीनगूढोत्पन्नसहोढजाः ।
पौनर्भवश् च नैवैते पिण्डरिक्थांशभागिनः ॥ (ध्को १३९०)

इति, तद् अप्य् औरसे सति चतुर्थांशनिषेधपरम् एव । औरसाद्यभावे तु कानीनादीनाम् अपि सकलपित्र्यधनग्रहणम् अस्त्य् एव, “पूर्वाभावे परः परः” इति वचनात् ॥ यद् अपि मनुवचनम्,

एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ (म्ध् ९.१६३)

इति तद् अपि दत्तकादीनाम् औरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम् । तत्र क्षेत्रजस्य विशेषो दर्शितस् तेनैव ।

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥ इति । (म्ध् ९.१६४)

प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्टम् अंशम्, एकतरसद्भावे पञ्चमम् इति विवेक्तव्यम् । यद् अपि मनुना पुत्राणां षट्कद्वयम् उपन्यस्य पूर्वषट्कस्य दायादबान्धवत्वं, उत्तरषट्कस्यादायादबान्धवत्वम् उक्तम्,

औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥ (म्ध् ९.१५९–६०)

इति, तद् अपि स्वपितृसपिण्डसमानोदकानां संनिहितरिक्थहरान्तराभावे पूर्वषट्कस्य तद्रिक्थहरत्वम् उत्तरषट्कस्य तु तन् नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि समम् एवेति व्याख्येयम् ।

गोत्ररिक्थे जनयितुर् न भजेद् दत्त्रिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ (म्ध् ९.१४२)

इत्य् अत्र दत्रिमग्रहणस्य पुत्रप्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषाम् अविशिष्टम्,

न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । (म्ध् ९.१८५)

इत्य् औरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । औरसस्य तु,

एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । (म्ध् ९.१६३)

इत्य् अनेनैव रिक्थभाक्त्वस्योक्तत्वात्, दायादशब्दस्य “दायादान् अपि दापयेत्” इत्यदौ पुत्रव्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच् च । वासिष्ठादिषु वर्गद्वये ऽपि कस्यचिद् व्यत्ययेन पाठो गुणवदगुणवद्विषयो वेदितव्यः । गौतमीये (ग्ध् २८.३२–३५) तु पौत्रिकेयस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात् स्थितम् एतत् पूर्वपूर्वाभावे परः परो ऽंशभाग् इति ॥ यत् तु,

भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥ (म्ध् ९.१८२)

इति, तद् अपि भ्रातृपुत्रस्य पुत्रीकरणसंभवे ऽन्येषां पुत्रीकरणनिषेधार्थम्, न पुनः पुत्रत्वप्रतिपादनाय, “तत्सुता गोत्रजा बन्धुः” इत्य् अनेन विरोधात् ॥ २.१३२ ॥

इदानीम् उक्तोपसंहारव्याजेन तत्रैव नियमम् आह ।

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । २.१३३अब्

समानजातीयेष्व् एव पुत्रेषु अयं पूर्वाभावे परः पर इत्य् उक्तो विधिः न भिन्नजातीयेषु । तत्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण न स्वरूपेण । तेषां, वर्णजातिलक्षणाभावस्योक्तत्वात् । तथानुलोमजानां मूर्धावसिक्तादीनाम् औरसेष्व् अन्तर्भावात् तेषाम् अप्य् अभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस् त्व् औरसो ऽपि कृत्स्नं भागम् अन्याभावे ऽपि न लभते । यथाह मनुः ।

यद्य् अपि स्यात् तु सत्पुत्रो यद्य् अपुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥ इति । (म्ध् ९.१५४)

यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्य् अपुत्रो ऽविद्यमानद्विजातिपुत्रो वा स्यात् तस्मिन् मृते क्षेत्रजादिर् वान्यो वा सपिण्डः शूद्रापुत्राय तद्धनाद् दशमांशाद् अधिकं न दद्याद् इत्य् अस्माद् एव क्षत्रियावैश्यापुत्रयोः सवर्णापुत्राभावे सकलधनग्रहणं गम्यते ॥

अधुना शूद्रधनविभागे विशेषम् आह ।

** जातो ऽपि दास्यां शूद्रेण कामतो ऽंशहरो भवेत् ॥ २.१३३च्द् ॥**
** मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम् । २.१३४अब्**
** अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते ॥ २.१३४च्द् ॥**

शूद्रेण दास्याम् उत्पन्न पुत्रः कामतः पितुर् इच्छया भागं लभते । पितुर् ऊर्ध्वं तु यदि परिणीतापुत्रा सन्ति तदा ते भ्रातरस् तं दासीपुत्रं अर्धभागिनं कुर्युः । स्वभागाद् अर्धं दद्युर् इत्य् अर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्स्नं धनं दासीपुत्रो गृह्नीयात् यदि परिणीतादुहितरस् तत्पुत्रा वा न सन्ति । तत्सद्भावे त्व् अर्धभागिक एव दासीपुत्रः । अत्र च शूद्रग्रहणाद् द्विजातिना दास्याम् उत्पन्नः पितुर् इच्छयाप्य् अंशं न लभते नाप्य् अर्धं, दूरत एव कृत्स्नम् । किं त्व् अनुकूलश् चेज् जीवनमात्रं लभते ॥ २.१३३ ॥ २.१३४ ॥

मुख्यगौणसुता दायं गृह्नन्तीति निरूपितम् । तेषाम् अभावे सर्वेषां दायादक्रम उच्यते ।

** पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा । २.१३५अब्**
** तत्सुता गोत्रजा बन्धुशिष्यसब्रह्मचारिणः ॥ २.१३५च्द् ॥**
** एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः । २.१३६अब्**
** स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥ २.१३६च्द् ॥**

पूर्वोक्ता द्वादशपुत्रा यस्य न सन्त्य् असाव् अपुत्रः, तस्यापुत्रस्य स्वर्यातस्य परलोकं गतस्य धनभाक् धनग्राही एषां पत्न्यादीनाम् अनुक्रान्तानां मध्ये पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो धनभाग् इति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु अनुलोमजेषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिषु अयं दायग्रहणविधिर् दायग्रहणक्रमो वेदितव्यः । तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता “पत्युर् नो यज्ञसंयोगे” (पाण् ४.१.३३) इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश् च बह्व्यश् चेत् सजातीया विजातीयाश् च तदा यथांशं विभज्य धनं गृह्नन्ति । वृद्धमनुर् अपि पत्न्याः समग्रधनसंबन्धं वक्ति-

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभते च ॥ इति । (ध्को १५२७)

वृद्धविष्णुर् अपि “अपुत्रधनं पत्न्यभिगामि । तदभावे दुहितृगामि । तदभावे पितृगामि । तदभावे मातृगामि” इति (ध्को १४७०) । कात्यायनो ऽपि ।

पत्नी पत्युर् धनहरी या स्याद् अव्यभिचारिणी ।
तद् अभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥ इति । (क्स्म् ९२६)

तथा-

अपुत्रस्यार्यकुलजा पत्नी दुहितरो ऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥ इति । (क्स्म् ९२७)

बृहस्पतिर् अपि ।

कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु ।
असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥ (बृस्म् १.२६.९४)

एतद्विरुद्धानीव वाक्यानि लक्ष्यन्ते ।

भ्रातॄणाम् अप्रजाः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।
विभजेरन् धनं तस्य शेषास् ते स्त्रीधनं विना ॥
भरणं चास्य कुर्वीरन् स्त्रीणाम् आजीवनक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिद्युर् इतरासु तु ॥ (न्स्म् १३.२४–२५)

इति पत्नीसद्भावे ऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु,

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । (म्ध् ९.१८५)
इत्य् अपुत्रस्य धनं पितुर् भ्रातुर् वेति दर्शितम् । तथा,
अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥ (म्ध् ९.२१७)

इति मातुः पितामह्याश् च धनसंबन्धो दर्शितः । शङ्खेनापि- “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यम् । तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी” (ध्को १४७१) इति भ्रातॄणां पित्रोर् ज्येष्ठायाश् च पत्न्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायनेनापि ।

विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वा ऽथ माता वा तत्पितुः क्रमात् ॥ (क्स्म् ९२८)

इत्येवमादीनां विरुद्धार्थानां वाक्यानां धारेश्वरेण[^३४] व्यवस्था दर्शिता “पत्नी गृह्नीयात्” इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । सा च यदि नियोगार्थिनी भवति । कुत एतत् नियोगसव्यपेक्षायाः पत्न्या धनहरणं न स्वतन्त्रायां इति । “पिता हरेद् अपुत्रस्य” (म्ध् ९.१८५) इत्यादिवचनात् तत्र व्यवस्थाकारणं वक्तव्यम् । नान्यद् व्यवस्थाकारणम् अस्तीति गौतमवचनाच् च “पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री वानपत्यस्य बीजं लिप्सेत” इति (ग्ध् २९.५–६) । अस्यार्थः- पिण्डगोत्रर्षिसंबन्धा अनपत्यस्य रिक्थं भजेरन् स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुर् अपि,

धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च ।
सो ऽपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद्धनम् ॥ (म्ध् ९.१४६)

इत्य् अनेनैतद् दर्शयति- विभक्तधने ऽपि भ्रातर्य् उपरते ऽपत्यद्वारेणैव पत्न्या धनसंबन्धो नान्यथेति । यथाविभक्तधने ऽपि ।

कनीयाञ् ज्येष्ठभार्यायां पुत्रम् उत्पादयेद् यदि ।
समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ॥ इति । (म्ध् ९.१२०)

तथा वसिष्ठो ऽपि “रिक्थलोभान् नास्ति नियोगः” (वध् १७.६५) इति रिक्थलोभान् नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्न्याः धन्संबन्धो नान्यथेति दर्शयति । नियोगाभावे ऽपि पत्न्या भरणमात्रम् एव नारदवचनात्,

भरणं चास्य कुर्वीरन् स्त्रीणाम् आजिवनक्षयात् । इति । (न्स्म् १३.२५)

योगीष्वरेणापि किल वक्ष्यते ।

अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ इति । (य्ध् २.१४२)

अपि च । द्विजातिधनस्य यथार्थत्वात् स्त्रीणां च यज्ञे ऽनधिकाराद् धनग्रहणम् अयुक्तम् । तथा च केनापि स्मृतम् ।

यज्ञार्थे द्रव्यम् उत्पन्नं तत्रानधिकृतास् तु ये ।
अरिक्थभाजस् ते सर्वे ग्रासाच्छादनभाजनाः ॥
यज्ञार्थं विहितं वित्तं तस्मात् तद् विनियोजयेत् ।
स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥ इति । (ध्को १३९०, १४५७–८)

तद् अनुपपन्नम् । “पत्नी दुहितरः” इत्य् अत्र नियोगस्याप्रतीतेर् अप्रस्तुतत्वाच् च । अपि चेदम् अत्र वक्तव्यम् । पत्न्याः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नम् अपत्यं वा । तत्र नियोगस्यैव निमित्तत्वे अनुत्पादितपुत्राया अपि धनसंबन्धः प्राप्नोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्नोति । अथ तदपत्यस्यैव निमित्तत्वम् । तथा सति पुत्रस्यैव धनसंबन्धात् पत्नीति नारब्धव्यम् ।

अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् ।
तद् अप्य् असत्,
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ (म्ध् ९.१९४)

इत्यादिविरोधात् । किं च, सर्वथा पुत्राभावे पत्नी दुहितर इत्य् आरब्धम् । तत्र नियुक्ताया धनसंबन्धं वदता क्षेत्रजस्यैव धनसंबन्ध उक्तो भवति । स च प्राग् एवाभिहित इत्य् अपुत्रप्रकरणे पत्नीति नारब्धव्यम् । “अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री वानपत्यस्य, बीजं वा लिप्सेत” (ग्ध् २८.२१–२२) इति गौतमवचनान् नियुक्ताया धनसंबन्ध इति । तद् अप्य् असत् । न हि यदि बीजं लिप्सेत तदानपत्यस्य स्त्री धनं गृह्नीयाद् इत्य् अयम् अर्थो ऽस्मात् प्रतीयते । किं तु “अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन् स्त्री वा सा स्त्री बीजं वा लिप्सेत संयता वा भवेत्” इति तस्या धर्मान्तरोपदेशः, वाशब्दस्य पक्षान्तरवचनत्वेन यद्यर्थाप्रतीतेः । अपि च संयताया एव धनग्रहणं युक्तं न नियुक्तायाः स्मृतिलोकनिन्दितायाः ।

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥ (ध्को १५२७)

इति संयताया एव धनग्रहणम् उक्तम् ॥

तथा नियोगश् च निन्दितो मनुना-
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ (म्ध् ९.६४)

इत्यादिना । यत् तु वसिष्ठवचनम् “रिक्थलोभान् नास्ति नियोगः” (वध् १७.६५) इति तद् अविभक्ते संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वापत्यस्य धनसंबन्धार्थं नियोगो न कर्तव्य इति व्याख्येयम् । यद् अपि नारदवचनम्,

भरणं चास्य कुर्वीरन् स्त्रीणां आजिवनक्षयात् । (न्स्म् १३.२५)

इति तद् अपि,

संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते । (न्स्म् १३.२३)

इति संसृष्टानां प्रस्तुतत्वात्, तत् स्त्रीणाम् अनपत्यानां भरणमात्रप्रतिपादनपरम् । न च “भ्रातॄणाम् अप्रजाः प्रेयाद्” (न्स्म् १२.२४) इत्य् एतस्य संसृष्टिविषयत्वे “संसृष्टानां तु यो भागः” (न्स्म् १३.२३) इत्य् अनेन पौनरुक्त्यम् आशङ्कनीयम् । यतः पूर्वोक्तिविवरणेन स्त्रीधनस्याविभाज्यत्वं तत् स्त्रीणां च भरणमात्रं विधीयते । यद् अपि “अपुत्रा योषितश् चैषाम्” (य्ध् २.१४०) इत्यादिवचनं तत् क्लीबादिस्त्रीविषयम् इति वक्ष्यते । यत् तु द्विजातिधनस्य यज्ञार्थत्वात् स्त्रीणां च यज्ञे ऽनधिकाराद् धनग्रहणम् अयुक्तम् इति तद् असत्, सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः । अथ यज्ञशब्दस्य धर्मोपलक्षणत्वाद् दानहोमादीनाम् अपि धर्मत्वात् तदर्थत्वम् अविरुद्धम् इति मतम् । एवं तर्ह्य् अर्थकामयोर् धनसाध्ययोर् असिद्धिर् एव स्यात् । तथा सति,

धर्मम् अर्थं च कामं च यथाशक्ति न हापयेत् । (य्ध् १.११५)

तथा, “न पूर्वाह्नमध्यन्दिनापराह्नान् अफलान् कुर्याद् यथाशक्ति धर्मार्थकामेभ्यः” (ग्ध् ९.४६), तथा,

न तथाइतनि शक्यन्ते संनियन्तुम् असेवया । (म्ध् २.९६)

इत्यादियाज्ञवल्क्यगौतममनुवचनविरोधः । अपि च धनस्य यज्ञार्थत्वे “हिरण्यं धार्यम्” इति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वम् उक्तम्, तत् प्रत्युद्धृतं स्यात् । किं च यज्ञशब्दस्य धर्मोपलक्षणपरत्वे स्त्रीणां अपि पूर्तधर्माधिकाराद् धनग्रहणं युक्ततरम् । यत् तु पारतन्त्र्यवचनं “न स्त्री स्वातन्त्र्यम् अर्हति” (म्ध् ९.५) इत्यादि तद् अस्तु पारतन्त्र्यं धनस्वीकारे तु को विरोधः । कथं तर्हि “यज्ञार्थं द्रव्यम् उत्पन्नम्” (ध्को १३९०)इत्यादिवचनम् । उच्यते । “यज्ञार्थम् एवार्जितं यद् धनं तद् यज्ञ एव नियोक्तव्यं पुत्रादिभिर् अपि” इत्येवंपरं तत्,

यज्ञार्थं लब्धम् अददद् भासः काको ऽपि वा भवेत् । (य्ध् १.१२७)

इति दोषश्रवणस्य पुत्रादिष्व् अविशेषात् । यद् अपि कात्यायनेनोक्तम्,

अदायिकं राजगामि योषिद्भृत्यौर्ध्वदेहिकम् ।
अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥ (क्स्म् ९३१)

इति, अदायिकं दायादरहितं यद् धनं तद् राजगामि राज्ञो भवति, योषिद्भृत्यौर्ध्वदेहिकम् अपास्य, तत् स्त्रीणाम् अशनाच्छादनोपयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाद्युपयुक्तम् चापरस्य परिहृत्य राजगामि भवतीति संबन्धः । अस्यापवाद उत्तरार्धे । श्रोत्रियद्रव्यं च योषिद्भृत्यौर्ध्वदेहिकम् अपास्य “श्रोत्रियायोपपादयेद्” इति तद् अप्य् अवरुद्धस्त्रीविषयम्, योषिद्ग्रहणात् । नारदवचनं च,

अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥ (न्स्म् १३.४९)

इत्य् अवरुद्धस्त्रीविषयम् एव, स्त्रीशब्दग्रहणात् । इह तु पत्नीशब्दाद् ऊढायाः संयताया धनग्रहणम् अविरुद्धम् । तस्माद् विभक्तासंसृष्टिन्य् अपुत्रे स्वर्याते पत्नी धनं प्रथमं गृह्नातीत्य् अयम् अर्थः सिद्धो भवति, विभागस्योक्तत्वात् संसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधनविषयत्वं श्रीकरादिभिर् उक्तं निरस्तं वेदितव्यम् । तथा ह्य् औरसेषु पुत्रेषु सत्स्व् अपि जीवद्विभागे अजीवद्विभागे च पत्न्याः पुत्रसमांशग्रहणम् उक्तम्,

यदि कुर्यात् समानंशान् पत्न्यः कार्याः समांशिकाः । इति । (य्ध् २.११५)

तथा,

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् । (य्ध् २.१२३)

इति च । तथा सत्य्, अपुत्रस्य स्वर्यातस्य धनं पत्नी भरणाद् अतिरिक्तं न लभत इति व्यामोहमात्रम् । अथ “पत्न्यः कार्याः समांशिकाः” इत्य् अत्र, “माताप्य् अंशं समं हरेत्” इत्य् अत्र च, जीवनोपयुक्तम् एव धनं स्त्री हरतीति मतं तद् असत्, अंशशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् । स्यान् मतम्- बहुधने जीवनोपयुक्तं धनं गृह्नात्य् अल्पे तु पुत्रांशसमांशं गृह्नातीति । तच् च न विधिवैषम्यप्रसङ्गात् । तथाहि “पत्न्यः कार्याः समांशिकाः”, “माताप्य् अंशं समं हरेत्” इति च बहुधने जीवनमात्रोपयुक्तं वाक्यान्तरम् अपेक्ष्य प्रतिपादयति, अल्पधने तु पुत्रांशसमम् अंशं प्रतिपादयतीति । यथा चातुर्मास्येषु “द्वयोः प्रणयन्ति” इत्यत्र पूर्वपक्षिणा सौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या “न वैश्वदेवे उत्तरवेदिम् उपकिरन्ति न शुनासीरीये” इत्य् उत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तैकदेशिना “न सौमिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोर् अयं प्रतिषेधः किं तूपात्र वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया उत्तरवेद्याः प्रतिषेधो ऽयम् इत्य् अभिहिते पुनः पूर्वपक्षिणा ऽउपात्र वपन्तिऽ इति प्रथमोत्तमयोः पर्वणोः प्रतिषेधम् अपेक्ष्य पाक्षिकीम् उउतरवेदिं प्रापयति । मध्यमयोस् तु निरपेक्षम् एव नित्यवद् उत्तरवेदिं प्रापयति” इति विधिवैषम्यं दर्षितम् । राद्धान्ते ऽपि विधिवैषम्यभयात् प्रथमोत्तमयोः पर्वणोर् उत्तरवेदिप्रतिषेधो नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवादपर्यालोचनया “उपात्र वपन्ति” इति मध्यमयोर् एव वरुणप्रघाससाकमेधपर्वणोर् उत्तरवेदिं विधत्त इति दर्शितम् । यद् अपि मतम्,

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । (म्ध् ९.१८५)

इति मनुस्मरणात्, तथा “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यम् । तदभावे पितरौ हरेयातां ज्येष्ठा व पत्नी” (ध्को १४७१) इति शङ्खस्मरणाच् च, अपुत्रस्य धनं भ्रातृगामीति प्राप्तम्,

भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवनक्षयात् । (न्स्म् १३.२५)

इत्यादिवचनाच् च भरणोपयुक्तं धनं पत्नी लभत इत्य् अपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वर्याते भरणोपयुक्तं पत्नी गृह्नाति शेषं च भ्रातरः । यदा तु पत्नीभरणमात्रोपयुक्तम् एव द्रव्यम् अस्ति ततो न्यूनं वा, तदा किं पत्न्य् एव गृह्नात्य् उत भ्रातरो ऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनार्थं पत्नी दुहितर इत्य् आरब्धम् इति । तद् अप्य् अत्र भगवान् आचार्यो न मृष्यति । यतः,

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । (म्ध् ९.१८५)

इति विकल्पस्मरणान् नेदं क्रमपरं वचनम्, अपि तु धनग्रहणे ऽधिकारप्रदर्शनमात्रपरम् । तच् चासत्य् अपि पत्न्यादिगणे घटत इति व्याचचक्षे । शङ्खवचनम् अपि संसृष्टभ्रातृविषयम् इति । अपि चाल्पविषयत्वम् अस्माद् वचनात् प्रकरनाद् वा नावगम्यते । “धनभाग् उत्तरोत्तरः” इत्य् अस्य च पत्नी दुहितर इति विषयद्वये वाक्यान्तरम् अपेक्ष्याल्पधनविषयत्वम्, पित्रादिषु तु धनमात्रविषयत्वम् इति पूर्वोक्तं विधिवैष्यं तदवस्थम् एवेति यत् किंचिद् एतत् । यत् तु हारीतवचनम्,

विधवा यौवनस्था चेन् नारी भवति कर्कशा ।
आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा । (ध्को १४६६)

इति, तद् अपि शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । अस्माद् एव वचनाद् अनाशङ्कितव्यभिचारायाः सकलधनग्रहणं गम्यते । एतद् एवाभिप्रेत्योक्तं शङ्खेन “ज्येष्ठा वा पत्नी” इति । ज्येष्ठा गुणज्येष्ठा अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वान्यां कर्कशाम् अपि मातृवत् पालयतीति सर्वम् अनवद्यम् । तस्माद् अपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणिता स्त्री संयता सकलम् एव गृह्नातीति स्थितम् ।

तद् अभावे दुहितरः । दुहितर इति बहुवचनं समानजातीयानाम् असमानजातीयानां च समविषमांशप्राप्त्यर्थम् । तथा च कात्यायनः ।
पत्नी भर्तुर् धनहरी या स्याद् अव्यभिचारिणी ।
तद् अभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥ इति । (क्स्म् ९२६)

बृहस्पतिर् अपि ।

भर्तुर् धनहरी पत्नी तां विना दुहिता स्मृता ।
अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता नृणाम् ॥
तस्मात् पितृधनं त्व् अन्यः कथं गृह्नीत मानवः ॥ इति । (बृस्म् १.२६.१२६–२७)

तत्र चोढानूढासमवाये ऽनूढैव गृह्नाति,

तद् अभावे तु दुहिता यद्य् अनूढ भवेत् तदा । (बृस्म् १.२६.१२८)

इति विशेषस्मरणात् । तथा प्रतिष्ठिताप्रतिष्ठितानां समवाये अप्रतिष्ठितैव तदभावे प्रतिष्ठिता, “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्टितानां च” (ग्ध् २८.२४) इति गौतमवचनस्य पितृधने ऽपि समानत्वात् । न चैतत् पुत्रिकाविषयम् इति मन्तव्यम्, तत्समः पुत्रिकासुत इति पुत्रिकायास् तत्सुतस्य चौरससमत्वेन पुत्रप्रकरणे ऽभिधानात् । चशब्दाद् दुहित्रभावे दौहित्रो धनभाक् । यथाह विष्णुः ।

अपुत्रपौत्रसंताने दौहित्रा धनम् आप्नुयुः ।
पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मताः ॥ इति । (ध्को १४७१)

मनुर् अपि ।

अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥ इति ॥ (म्ध् ९.१३६)
तद् अभावे पितरौ मातापितरौ धनभाजौ । यद्य् अपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात्, तद् अपवादत्वाद्, एकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते, तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपाताद् एकशेषाभावपक्षे च मातापितराव् इति मातृशब्दस्य पूर्वं श्रवणात् पाठक्रमाद् एवार्थक्रमावगमाद् धनसंबन्धे ऽपि क्रमापेक्षायां प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाक् तदभावे पितेति गम्यते । किं च पिता पुत्रान्तरेष्व् अपि साधारणो माता तु न साधारणीति प्रत्यासत्त्यतिशयात्,
अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत् । (म्ध् ९.१८७)

इति वचनान्, मातुर् एव प्रथमं धनग्रहणं युक्तम् । न च सपिण्डेष्व् एव प्रत्यासत्तिर् नियामिका अपि तु समानोदकादिष्व् अप्य् अविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिर् एव नियामिकेत्य् अस्माद् एव वचनाद् अवगम्यत इति । मातापित्रोर् मातुर् एव प्रत्यासत्त्यतिशयाद् धनग्रहणं युक्ततरम् । तद् अभावे पिता धनभाक् ।

पित्रभावे भ्रातरो धनभाजः । तथा च मनुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । इति । (म्ध् ९.१८५)

यत् पुनर् धारेश्वरेणोक्तम्,

अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥ (म्ध् ९.२१७)

इति मनुवचनात्, जीवत्य् अपि पितरि मातरि वृत्तायां पितुर् माता पितामही धनं हरेन् न पिता । यतः पितृगृहीतं धनं विजातीयेष्व् अपि पुत्रेषु गच्छति, पितामहीगृहीतं तु सजातीयेष्व् एव गच्छतीति पितामह्य् एव गृह्नातीति । तद् अप्य् आचार्यो नानुमन्यते । विजातीयपुत्राणाम् अपि धनग्रहणस्योक्तत्वात्, “चतुस्त्रिद्व्येकभागाः स्युः” (य्ध् २.१२५)) इत्यादिनेति । यत् पुनः,

अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः । (म्ध् ९.१८९)

इति मनुस्मरणं तन् नृपाभिप्रायं, न तु पुत्राभिप्रायम् । भ्रातृष्व् अपि सोदराः प्रथमं गृह्नीयुः, भिन्नोदराणां मात्रा विप्रकर्षात् । “अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत्” (म्ध् ९.१८७) इति स्मरणात् ।

सोदराणाम् अभावे भिन्नोदरा धनभाजः । भ्रातॄणाम् अप्य् अभावे तत्पुत्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणाम् अनधिकारः, भ्रात्रभावे भ्रातृपुत्राणाम् अधिकारवचनात् । यदा त्व् अपुत्रे भ्रातरि स्वर्याते तद्भ्रातॄणाम् अविशेषेण धनसंबन्धे जाते भ्रातृधनविभागात् प्राग् एव यदि कश्चिद् भ्राता मृतस् तदा तत्पुत्राणां पितृतो ऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे “पितृतो भागकल्पना” (य्ध् २.१२०) इति युक्तम् ।
भ्रातृपुत्राणाम् अप्य् अभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डाः समानोदकाश् च । तत्र पितामही प्रथमं धनभाक्, “मातर्य् अपि च वृत्तायां पितुर् माता हरेत्” इति (म्ध् ९.२१७) मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते, पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्ये ऽनुप्रवेशाभावात्, “पितुर् माता धनं हरेत्” (म्ध् ९.२१७) इत्य् अस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वाद्, उत्कर्षे तत्सुतानन्तरं पितामही गृह्नातीत्य् अविरोधः । पितामह्याश् चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः, भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास् तत्पुत्राश् च क्रमेण धनभाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस् तत्पुत्रास् तत्सूनवश् चेत्य् एवम् आ सप्तमात् समानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषाम् अभावे समानोदकानां धनसंबन्धः । ते च सपिण्डानाम् उपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाह बृहन्मनुः ।
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदक्भावस् तु निवर्तेताचतुर्दशात् ॥
जन्मनाम्नोः स्मृतेर् एके तत्परं गोत्रम् उच्यते ॥ इति । (ध्को १५२७)
गोत्रजाभावे बन्धवो धनभाजः । बन्धवश् च त्रिविधाः- आत्मबन्धवः पितृबन्धवो मातृबन्धवश् चेति । यथोक्तम् ।
आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।
पितुर् मतुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वसुः सुताः ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥ इति ॥ (ध्को १५२८–२९)

तत्र चान्तरङ्गत्वात्, प्रथमम् आत्मबन्धवो धनभाजस्, तदभावे पितृबन्धवस्, तदभावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनाम् अभावे आचार्यः । तदभावे शिष्यः, “पुत्राभावे यः प्रत्यासन्नः सपिण्डस् तदभावे आचार्यः । आचार्याभावे ऽन्तेवासी” (आप्ध् २.१४.२–३) इत्य् आपस्तम्बस्मरणात् ॥

शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकस्माद् आचार्याद् उपनयनाध्ययनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्नीयात्, “श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्” (ग्ध् २८.४१) इति गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम् । यथाह मनुः ।
सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥ इति । (म्ध् ९.१८८)

न कदाचिद् अपि ब्राह्मणद्रव्यं राजा गृह्नीयात्,

अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः । (म्ध् ९.१८९)

इति मनुवचनात् । नारदेनाप्युक्तम् ।

ब्राह्मणार्थस्य तन्नाशे दायादश् चेन् न कश्चन ।
ब्राह्मणायैव दातव्यम् एनस्वी स्यान् नृपो ऽन्यथा ॥ इति ॥ (ध्को १५१२)

क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानाम् अभावे राजा हरेत्, न ब्राह्मणः । यथाह मनुः ।

इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः । इति ॥ (म्ध् ९.१८९) २.१३५ ॥ २.१३६ ॥

पुत्राः पौत्राश् च दायं गृह्नन्ति तदभावे पत्न्यादय इत्युक्तम् । इदानीं तदुभयापवादम् आह ।

वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । २.१३७अब्
**क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ २.१३७च्द् ॥ **

वानप्रस्थस्य यतेर् ब्रह्मचारिणश् च क्रमेण प्रतिलोमक्रमेणाचार्यः सच्छिष्यो धर्मभ्रात्रेकतीर्थी च रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्टिकः, उपकुर्वाणस्य तु धनं मात्रादय एव गृह्नन्ति । नैष्टिकस्य तु धनं तदपवादतवेनाचार्यो गृह्नातीत्य् उच्यते । यतेस् तु धनं सच्छिष्यो गृह्नाति । सच्छिष्यः पुनर् अध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमः, दुर्वृत्तस्याचार्यादेर् अपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थी गृह्नाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासाव् एकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषाम् आचार्यादीनाम् अभावे पुत्रादिषु सत्स्व् अप्य् एकतीर्थ्य् एव गृह्नाति । ननु “अनंशास् त्व् आश्रमान्तरगताः” (वध् १७.५२) इति वसिष्ठस्मरणाद् आश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस् तद्विभागः । न च नैष्टिकस्य स्वार्जितधनसंबन्धो युक्तः, प्रतिग्रहादिनिषेधात् । “अनिचयो भिक्षुर्” (ग्ध् ३.११) इति गौतमस्मरणात् । भिक्षोर् अपि न स्वार्जितधनसंबन्धसंभवः । उच्यते । वानप्रस्थस्य तावत्,

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य निचयं कुर्यात् कृतम् आश्वयुजि त्यजेत् ॥ (य्ध् ३.४७)

इति वचनाद् धनसंबन्धो ऽस्त्य् एव । यतेर् अपि,

कौपीनाच्छादनार्थं वा वासो ऽपि बिभृयाच् च सः ।
योगसंभारभेदांश् च गृह्नीयात् पादुके तथा ॥

इत्यादिवचनाद्, वस्त्रपुस्तकसंबन्धो ऽस्त्य् एव । नैष्टिकस्यापि शरीरयात्रार्थं वस्त्रादिसंबन्धो ऽस्त्य् एवेति तद्विभागकथनं युक्तम् एव ॥ २.१३७ ॥

इदानीं स्वर् यातस्य पुत्रस्य पत्न्यादयो धनभाज इत्य् अस्यापवादम् आह ।

संसृष्टिनस् तु संसृष्टी २.१३८अ

विभक्तं धनं पुनर् मिश्रीकृतं संसृष्टं तद् अस्यास्तीति संसृष्टी । संसृष्टत्वं च न येन केनापि किं तु पित्रा भ्रात्रा पितृव्येण वा । यथाह बृहस्पतिः ।

विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृव्येणाथवा प्रीत्या स तत्संसृष्ट उच्यते ॥ इति । (ध्को १५५६)

तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले अविज्ञातगर्भायां भार्यायां पश्चाद् उत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्ट्य् एवापहरेद् गृह्नीयान् न पत्न्यादिः ॥

“संसृष्टिनस् तु संसृष्टी” इत्य् अस्यापवादम् आह ।

सोदरस्य तु सोदरः । २.१३८ब्
दद्याद् अपहरेच् चांशं जातस्य च मृतस्य च ॥ २.१३८च्द् ॥

संसृष्टिनः संसृष्टीत्य् अनुवर्तते । अतश् च सोदरस्य संसृष्टिनो मृतस्यांशं सोदरः संसृष्टी संसृष्टानुजातस्य सुतस्य दद्यात् । तद् अभावे अपहरेद् इति पूर्ववत् संबन्धः । एवं च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव संसृष्टी गॄह्नाति न भिन्नोदरः संसृष्ट्य् अपीति पूर्वोक्तस्यापवादः ॥ २.१३८ ॥

इदानीं संसृष्टिन्य् अपुत्रे स्वर्याते संसृष्टिनो भिन्नोदरस्य सोदरस्य चासंसृष्टिनः सद्भावे, कस्य धनग्रहणम् इति विवक्षायां द्वयोर् विभज्य ग्रहणे कारणम् आह ।

अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् । २.१३९अब्
असंसृष्ट्य् अपि वादद्यात् संसृष्टो नान्यमातृजः ॥ २.१३९च्द् ॥

अन्योदर्यः सापत्नो भ्राता संसृष्टी धनं हरेत् न पुनर् अन्योदर्यो धनं हरेद् असंसृष्टी । अनेनान्वयव्यतिरेकाभ्याम् अन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणम् उक्तं भवति । असंसृष्टीत्य् एतद् उत्तरेणापि संबध्यते । अतश् चासंसृष्ट्य् अपि संसृष्टिनो धनम् आददीत । को ऽसाव् इत्य् अत आह “संसृष्टः” इति । संसृष्टः एकोदरसंसृष्टः । सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणम् उक्तम्, संसृष्ट इत्य् उत्तरेणापि संबध्यते । तत्र च संसृष्टः संसृष्टीत्य् अर्थः । नान्यमातृजः । अत्रैवशब्दाध्याहारेण व्याख्यानं कार्यम् संसृष्ट्य् अप्य् अन्यमातृज एव संसृष्टिनो धनं नाददीतेति । एवं चासंसृष्ट्य् अपि वादद्याद् इत्य् अपिशब्दश्रवणात्, संसृष्टो नान्यमातृज एवेत्य् अवधारणनिषेधाच् चासंसृष्टसोदरस्य संसृष्टभिन्नोदरस्य च विभज्य ग्रहणं कर्तव्यम् इत्य् उक्तं भवति । द्वयोर् अपि धनग्रहणकारणस्यैकैकस्य सद्भावात् । एतद् एव स्पष्टीकृतं मनुना ।

विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि । (म्ध् ९.२१०)
इति संसृष्टिविभागं प्रक्रम्य,
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥
सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भागिन्यश् च सनाभयः ॥ (म्ध् ९.२११–१२)

इति वदता । येषां भ्रातॄणां संसृष्टिनां मध्ये ज्येष्ठः कनिष्ठो वा मध्यमो वांशप्रदानतो ऽंशप्रदाने । सार्वविभक्तिकस् तसिः । विभागकाल इति यावत् । हीयेत स्वांशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथग् उद्धरणीयो न संसृष्टिन एव गृहीयुर् इत्य् अर्थः । तस्योद्धृतस्य विनियोगम् आह- “सोदर्या विभजेयुस् तम्” इति । तम् उद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूयो भगिन्यश् च विभजेयुः । समं विभज्य गृह्नीयुर् इति स्पष्टो ऽर्थः ॥ २.१३९ ॥

पुत्रपत्न्यादिसंसृष्टिनां यद् दायग्रहणम् उक्तं तस्यापवादम् आह ।

क्लीबो ऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः । २.१४०अब्
**अन्धो ऽचिकित्स्यरोगाद्या भर्तव्याः स्युर् निरंशकाः ॥ २.१४०च्द् ॥ **

क्लीबस् तृतीया प्रकृतिः । पतितो ब्रह्महादिः । तज्जः पतितोत्पन्नः । पङ्गुः पादविकलः । उन्मत्तकः वातिकपैत्तिकश्लैष्मिकसांनिपातिकग्रहावेशलक्षणैर् उन्मादैर् अभिभूतः । जडो विकलान्तःकरणः । हिताहितावधारणाक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः । अचिकित्स्यरोगो ऽप्रतिसमाधेययक्षमादिरोगग्रस्तः । आद्यशब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां ग्रहणम् । यथाह वसिष्ठः “अनंशास् त्व् आश्रमान्तरगताः” (वध् १७.५२) इति । नारदेनापि ।

पितृद्विट् पतितः षण्धो यश् च स्याद् औपपातिकः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजः कुतः ॥ इति । (न्स्म् १३.२०)

मनुर् अपि ।

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ इति । (म्ध् ९.२०१)

निरिन्द्रियो निर्गतम् इन्द्रियं यस्माद् व्याध्यादिना स निरिन्द्रियः । एते क्लीबादयो ऽनंशाः रिक्थभाजो न भवन्ति । केवलम् अशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः,

सर्वेषाम् अपि तु न्यायं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥ (म्ध् ९.२०२)

इति मनुस्मरणात् । अत्यन्तं यावज्जीवम् इत्य् अर्थः । एतेषां विभागात् प्राग् एव दोषप्राप्ताव् अनंशत्वम् उपपन्नं न पुनर् विभक्तस्य । विभागोत्तरकालम् अप्य् औषधादिना दोषनिर्हरणे भागप्राप्तिर् अस्त्य् एव,

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । (य्ध् २.१२२)

इत्य् अस्य समानन्यायत्वात् । पतितादिषु तु पुंल्लिङ्गत्वम् अविवक्षितम् । अतश् च पत्नीदुहितृमात्रादीनाम् अप्य् उक्तदोषदुष्टानाम् अनंशित्वं वेदितव्यम् ॥ २.१४० ॥

क्लीबादीनाम् अनंशित्वात् तत्पुत्राणाम् अप्य् अनंशित्वे प्राप्ते, इदम् आह ।

औरसाः क्षेत्रजास् त्व् एषां निर्दोषा भागहारिणः । २.१४१ अब्

एतेषां क्लीबादीनाम् औरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंशग्रहणविरोधिक्लैब्यादिदोषरहिता भागहारिणो ऽंशग्राहिणो भवन्ति । तत्र क्लीबस्य क्षेत्रजः पुत्रः संभवत्य् अन्येषाम् औरसा अपि । औरसक्षेत्रजयोर् ग्रहणम् इतरपुत्रव्युदासार्थं ॥

क्लीबादिदुहितॄणां विशेषम् आह ।

**सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥ २.१४१च्द् ॥ **

एषां क्लीबादीनां सुता दुहितरो यावद् विवाहसंस्कृता भवन्ति तावद् भरणीयाः, चशब्दात् संस्कार्याश् च ॥ २.१४१ ॥

क्लीबादिपत्नीनां विशेषम् आह ।

अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः । २.१४२अब्
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ २.१४२च्द् ॥

एषां क्लीबादीनाम् अपुत्राः पत्न्यः साधुवृत्तयः सदाचाराश् चेद् भर्तव्या भरणीयाः । व्यभिचारिण्यस् तु निर्वास्याः । प्रतिकूलास् तथैव च निर्वास्या भवन्ति भरणीयाश् च । अव्यभिचारिण्यश् चेत् न पुनः प्रातिकूल्यमात्रेण भरणम् अपि न कर्तव्यम् ॥ २.१४२ ॥

“विभजेरन् सुताः पित्रोः” (य्ध् २.११७) इत्य् अत्र स्त्रीपूंधनविभागं संक्षेपेणाभिधाय पुरुषधनविभागो विस्तरेणाभिहितः । इदानीं स्त्रीधनविभागं विस्तरेणाभिधास्यंस् तत्स्वरूपं तावद् आह ।

पितृमातृपतिभ्रातृदत्तम् अध्यग्न्युपागतम् । २.१४३अब्
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ २.१४३च्द् ॥

पित्रा मात्रा पत्या भ्रात्रा च यद् दत्तं यच् च विवाहकाले ऽग्नाव् अधिकृत्य मातुलादिभिर् दत्तं आधिवेदनिकं अधिवेदननिमित्तं “अधिविन्नस्त्रियै दद्यात्” (य्ध् २.१४८) इति वक्ष्यमाणं । आद्यशब्देन रिक्थक्रयसंविभागपरिग्रहाधिगमप्राप्तम् एतत् स्त्रीधनं मन्वादिभिर् उक्तम् । स्त्रीधनशब्दश् च यौगिको न पारिभाषिकः, योगसंभवे परिभाषाया अयुक्तत्वात् । यत् पुनर् मनुनोक्तम्,

अध्यग्यध्यावहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ (म्ध् ९.१९४)

इति स्त्रीधनस्य षड्विधत्वम्, तन् न्यूनसंख्याव्यवच्छेदार्थं नाधिकसंख्याव्यवच्छेदाय ॥ अध्यग्न्यादिस्वरूपं च कात्यायनेनाभिहितम् ।

विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।
अध्यावहनिकं नाम स्त्रीधनं तद् उदाहृतम् ॥
प्रीत्या दत्तं तु यत् किंचिच् छ्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तद् उच्यते । (क्स्म् ८९५–९७)
ऊढया कन्यया वापि पत्युः पितृगृहे ऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥ (क्स्म् ९०१) इति ॥ २.१४३ ॥

किं च ।

बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च । २.१४४अब्

बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश् च यद् दत्तम् । शुल्कं यद् गृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनाद् अनु पश्चाद् आहितं दत्तम् । उक्तं च कात्यायनेन ।

विवाहात् परतो यच् च लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तु तद् द्रव्यं लब्धं पितृकुलात् तथा ॥ इति । (क्स्म् ८९९)

“स्त्रीधनं परिकीर्तितम्” इति गतेन संबन्धः ॥

एवं स्त्रीधनम् उक्तम् । तद्विभागम् आह ।

**अतीतायाम् अप्रजसि बान्धवास् तद् अवाप्नुयुः ॥ २.१४४च्द् ॥ **

तत् पूर्वोक्तं स्त्रीधनम् अप्रजस्य् अनपत्यायां दुहितृदौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियाम् अतीतायां बान्धवा भर्त्रादयो वक्ष्यमाणा गृह्नन्ति ॥ २.१४४ ॥

सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः । इदानीं विवाहभेदेनाधिकारिभेदम् आह ।

अप्रजस्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि । २.१४५अब्
**दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत् ॥ २.१४५च्द् ॥ **

अप्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदैवार्षप्राजापत्येषु चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तं धनं प्रथमं भर्तुर् भवति । तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेष्व् आसुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तद् अप्रजस्त्रीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वम् एवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्व् एव विवाहेषु प्रसूतापत्यवती चेद् दुहितॄणां तद्धनं भवति । अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते । साक्षाद् दुहितॄणां “मातुर् दुहितरः शेषम्” इत्य् अत्रोक्तत्वात्, अतश् च मातृधनं मातरि वृतायां प्रथमं दुहितरो गृह्नन्ति । तत्र चोढानूढासमवाये ऽनूढैव गृह्नाति । तदभावे च परिणिता । तत्रापि प्रतिष्ठिताप्रतिष्ठितासमवाये ऽप्रतिष्ठिता गृह्नाति । तदभावे प्रतिष्ठिता । यथाह गौतमः- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” (ग्ध् २८.२४) इति । तत्र चशब्दात् प्रतिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतच् च शुल्कव्यतिरेकेण । शुल्कं तु सोदर्याणाम् एव, “भगिनीशुल्कं सोदर्याणाम् ऊर्ध्वं मातुः” (ग्ध् २८.२५) इति गौतमवचनात् । सर्वासां दुहितॄणाम् अभावे दुहितृदुहितरो गृह्नन्ति, “दुहितॄणां प्रसूता चेत्” इत्यस्माद् वचनात् । तासां भिन्नमातृकाणां विषमाणां समवाये मातृद्वारेण भागकल्पना । “प्रतिमातृतो वा स्ववर्गेण भागविशेषः” (ग्ध् २८.१७) इति गौतमस्मरणात् ॥ दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचिद् एव दातव्यं । यथाह मनुः ।

यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥ इति ॥ (म्ध् ९.१९३)

दौहित्रीणाम् अप्य् अभावे दौहित्रा धनहारिणः । यथाह नारदः ।

मातुर् दुहितरो ऽभावे दुहितॄणां तदन्वयः । इति । (न्स्म् १३.२)

तच्छब्देन संनिहितदुहितृपरामर्शात्, दौहित्राणाम् अभावे पुत्रा गृह्नन्ति । ताभ्य ऋते ऽन्वय इत्युक्तत्वात् । मनुर् अपि दुहितॄणां पुत्राणां च मातृधनसंबन्धं दर्शयति-

जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥ इति । (म्ध् ९.१९२)

मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाभयो भगिन्यश् च समं भजेरन्न् इति संबन्धः । न पुनः सहोदराः समं भजेरन् सनाभयो भगिन्यश् च समं भजेरन्न् इति संबन्धः । न पुनः सहोदरा भगिन्यश् च सम्भूय भजेरन्न् इति इतरेतरयोगस्य द्वन्द्वैकशेषाभावाद् अप्रतीतेः, विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेः । यथा देवदत्तः कृषिं कुर्याद् यज्ञदत्तश् चेति । समग्रहणम् उद्धारविभागनिवृत्त्यर्थम् । सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्य् उत्तमजातीयसपत्नीदुहिता गृह्नाति । तदभावे तदपत्यम् । यथाह मनुः ।

स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥ इति । (म्ध् ९.१९८)

ब्राह्मणीग्रहणम् उत्तमजात्युपलक्षणम् । अतश् चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्नाति । पुत्राणाम् अभावे पौत्राः पितामहीधनहारिणः, “रिक्थभाज ऋणं प्रतिकुर्युः” (ग्ध् १२.४०) इति गौतमस्मरणात्, “पुत्रपौत्रेर् ऋणं देयम्” (य्ध् २.५०) इति पौत्राणाम् अपि पितामह्यृणापाकरणे ऽधिकारात् । पौत्राणाम् अप्य् अभावे पूर्वोक्ता भर्त्रादयो बान्धवा धनहारिणः ॥ २.१४५ ॥

स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिद् आह ।

**दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच् च सोदयम् । २.१४६अब् **

कन्यां वाचा दत्त्वापहरन् द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः । एतच् चापहारकारणाभावे । सति तु करणे “दत्ताम् अपि हरेत् कन्यां श्रेयांश् चेद् वर आव्रतेत्” (य्ध् २.६५) इत्य् अपहाराभ्यनुज्ञानान् न दण्ड्यः । यच् च वाग्दाननिमित्तं वरेण स्वसंबन्धिनां कन्यासंबन्धिनां वोपचारार्थं धनं व्ययीकृतं तत् सर्वं सोदयं सवृद्धिकं कन्यादाता वराय दद्यात् ॥

अथ कथंचिद् वाग्दत्ता संकारात् प्राङ् म्रियते, तदा किं कर्तव्यम् इत्य् अत आह ।

**मृतायां दत्तम् आदद्यात् परिशोध्योभयव्ययम् ॥ २.१४६च्द् ॥ **

यदि वाग्दत्ता मृता यत् पूर्वम् अङ्गुलीयकादि शुल्कं वरेण दत्तं तद् वर आददीत । परिशोध्योभयव्ययम् । अभयोर् आत्मनः कन्यादातुश् च यो व्ययस् तं परिशोध्य विगणय्यावशिष्टम् आददीत । यत् तु कन्यायै मातामहादिभिर् दत्तं शिरोभूषणादिकं वा क्रमायातं तत् सहोदरा भ्रातरो गृह्नीयुः, “रिक्थं मृतायाः कन्याया गृह्नीयुः सोदरास् तदभावे मातुस् तदभावे पितुः” इति बौधायनस्मरणात् (नोत् इन् ब्ध् ओर् ध्को) ॥ २.१४६ ॥

मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं जीवन्त्याः सप्रजाया अपि स्त्रियाः धनग्रहणे क्वचिद् भर्तुर् अभ्यनुज्ञाम् आह ।

दुर्भिक्षे धर्मकार्ये च व्याधौ सम्प्रतिरोधके । २.१४७अब्
**गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥ २.१४७च्द् ॥ **

दुर्भिक्षे कुटुम्बभरणार्थं, धर्मकार्ये अवश्यकर्तव्ये, व्याधौ च, संप्रतिरोधके बन्दिग्रहणनिग्रहादौ द्रव्यान्तररहितः स्त्रीधनं गृह्नन् भर्ता न पुनर् दातुम् अर्हति । प्रकारान्तरेणापहरन् दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धन्ं केनापि दायादेन न ग्रहीतव्यम्,

जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
तान् शिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ (म्ध् ८.२९)

इति दण्डविधानात् । तथा,

पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ (म्ध् ९.२००)

इति दोषश्रवणाच् च ॥ २.१४७ ॥

आधिवेदनिकं स्त्रीधनम् उक्तं तद् आह ।

अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् । २.१४८अब्
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकल्पयेत् ॥ २.१४८च्द् ॥

यस्या उपरि विवाहः साधिविन्ना साचासौ स्त्री चेत्य् अधिविन्नस्त्री तस्या अधिविन्नस्त्रिया आधिवेदनिकम् अधिवेदननिमित्तं धनं समं यावद् अधिवेदनार्थं व्ययीकृतं तावद् दद्यात् । यस्यै भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते पुनः स्त्रीधने आधिवेदनिकद्रव्यस्यार्धं दद्यात् । अर्धशब्दश् चात्र समविभागवचनो न भवति । अतश् च यावता तत् पूर्वदत्तम् आधिवेदनिकसमं भवति तावद् देयम् इत्य् अर्थः ॥ २.१४८ ॥

एवं विभागम् उक्त्वा इदानीं तत्संदेहे निर्णयहेतून् आह ।

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । २.१४९अब्
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥ २.१४९च्द्

विभागस्य निह्नवे अपलापे ज्ञातिभिः पितृबन्धुभिर् मातृबन्धुभिः मातुलादिभिः साक्षिभिः पूर्वोक्तलक्षणैर् लेख्येन च विभागपत्रेण विभागभावना विभागनिर्णयो ज्ञातव्यः । तथा यौतकैः पृथक्कृतैर् गृहक्षेत्रैश् च । पृथक्कृष्यादिकार्यप्रवर्तनं पृथक्पञ्चमहायज्ञादिधर्मानुष्ठानं च नारदेन विभागलिङ्गम् उक्तम् ।

विभागधर्मसंदेहे दायादानां विनिर्णयः ।
ज्ञातिभिर् भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥
भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेत् तेषां पृथक् पृथक् ॥ इति । (न्स्म् १३.३६–३७)

तथापराण्य् अपि विभागलिङ्गानि तेनैवोक्तानि ।

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः कथंचन ॥ इति ॥ (न्स्म् १३.३९) २.१४९ ॥

**इति रिक्थविभागप्रकरणम् **

**अथ सीमाविवादप्रकरणम् **

अधुना सीमाविवादनिर्णय उच्यते ।

सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । २.१५०अब्
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥ २.१५०च्द् ॥
नयेयुर् एते सीमानं स्थलाङ्गारतुषद्रुमैः । २.१५१अब्
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम् ॥ २.१५१च्द्

ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्नो विवादे तथाइकग्रामान्तर्वर्तिक्षेत्रमर्यादाविवादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैर् उपलक्षितां चिह्नितां सीमां नयेयुर् निश्चिनुयुः । सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा । जनपदसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । सा च यथासंभवं पञ्चलक्षणा । तद् उक्तं नारदेन ।

ध्वजिनि मत्स्यिनी चैव नैधानी भयवर्जिता ।
राजशासननिता च सिमा पञ्चविधा स्मृता ॥ इति । (ध्को ९४४)

ध्वजिनी वृक्षादिलक्षिता, वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती, मत्स्यशब्दस्य स्वाधारजललक्षकत्वात् । नैधानी निखाततुषाङ्गारादिमती, तेषां निखातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसंप्रतिपत्तिनिर्मिता । राजशासननीता, ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । एवंभूतायां षोढा विवादः संभवति । यथाह कात्यायनः ।

आधिक्यं न्यूनता चांशे अस्तिनास्तित्वम् एव च ।
अभोगभुक्तिः सीमा च षड् भूवादस्य हेतवः ॥ इति ॥ (क्स्म् ७३२)

तथा हि । ममात्र पञ्चनिवर्तनाया भूमेर् अधिका भूर् अस्तीति केनचिद् उक्ते, पञ्चनिवर्तनैव नाधिकेत्य् आधिक्ये विवादः । पञ्चनिवर्तना मदीया भूमिर् इत्य् उक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्चनिवर्तनो ममांश इत्य् उक्ते अंश एव नास्तीत्य् अस्तिनास्तित्वविवादः संभवति । मदीया भूः प्रागविद्यमानभोगैव भुज्यते इत्य् उक्तेन संतता चिरंतन्य् एव मे भुक्तिर् इत्य् अभोगभुक्तौ विवादः । इयं मर्यादेयं वेति सीमाविवाद इति षट्प्रकार एव विवादः संभवति । षट्प्रकारे ऽपि भूविवादे श्रुत्यर्थाभ्यां सीमाया अपि निर्णीयमानत्वात् सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ताद् भवाः सामन्ताः । चतसृषु दिक्ष्व् अनन्तरग्रामादयस् ते च प्रतिसीमं व्यवस्थिताः,

ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्टं समन्तात् परिरभ्य हि । (क्स्म् ७३६)

इति कात्यायनवचनात् । ग्रामादिशब्देन तत्स्थाः पुरुषा लक्ष्यन्ते, “ग्रामः पलायितः” इति यथा । सामन्तग्रहणं च तत्संसक्ताद्युपलक्षणार्थम् । उक्तं च कात्यायनेन ।

संसक्तकास् तु सामन्तास् तत्संसक्तास् तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्मकाराः प्रकीर्तिताः ॥ इति ॥ (क्स्म् ७३८)

स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्धृतयोर् ग्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम् –

निष्पाद्यमानं यैर् दृष्टं तत्कार्यं तद्गुणान्वितैः ।
वृद्धा वा यदि वावृद्धास् ते तु वृद्धाः प्रकीर्तिताः ॥ (क्स्म् ७४४)
ये तत्र पूर्वं सामन्ताः पश्चाद् देशान्तरं गताः ।
तन्मूलत्वात् तु ते मौला ऋषिभिः परिकीर्तिताः ॥ (क्स्म् ७४३)
उपश्रवणसंभोगकार्याख्यानोपचिह्निताः ।
उद्धरन्ति पुनर् यस्माद् उद्धृतास् ते ततः स्मृताः ॥ (क्स्म् ७४५) इति ॥

गोपा गोचारकाः । सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः । सर्वे च वनगोचरा वनचारिणो व्याधादयः । ते च मनुनोक्ता ।

व्याधाञ् शाकुनिकान् गोपान् कैवर्तान् मूलखातकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥ इति ॥ (म्ध् ८.२६०)

स्थलम् उन्नतो भूप्रदेशः । अङ्गारो ऽग्नेर् उच्छिष्टम् । तुषा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतुर् जलप्रवाहबन्धः । चैत्यं पाषाणादिबन्धः । आदिशब्देन वेणुवालुकादीनां ग्रहणम् । एतानि च प्रकाशाप्रकाशभेदेन द्विप्रकाराणि । यथाह मनुः-

सीमावृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीशालतालांश् च क्षीरिणश् चैव पादपान् ॥
गुल्मान् वेणूंश् च विविधाञ् शमीवल्लीस्थलानि च ।
शरान् कुञ्जकगुल्मांश् च तथा सीमा न नश्यति ॥
तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च ।
सीमासंधिषु कार्याणि देवतायतनानि च ॥ (म्ध् ८.२४६–४८)

इति प्रकाशरूपाणि ।

उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥
अश्मनो ऽस्थीनि गोवालांस् तुषान् भस्म कपालिकाः ।
करीषम् इष्टकाङ्गाराञ् शर्करा वालुकास् तथा ॥
यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत् ।
तानि संधिषु सीमायाम् अप्रकाशानि कारयेत् ॥
एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ॥ (म्ध् ८.२४९–५२)

इति प्रच्छन्नलिङ्गानि । एतैः प्रकाशाप्रकाशरूपैर् लिङ्गैः सामन्तादिप्रदर्शितैः सीमां प्रति विवदमानयोः सीमानिर्णयं कुर्याद् राजा ॥ २.१५० ॥ २.१५१ ॥

_यदा पुनश् चिह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि, तदा निर्णयोपायम् आह _।

सामन्ता वा समग्रामाश् चत्वारो ऽष्टौ दशापि वा । २.१५२अब्
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ २.१५२च्द् ॥

सामन्ताः पूर्वोक्तलक्षणाः । “समग्रामाश् चत्वारो ऽष्टौ दशापि वा” इत्य् एवं समसंख्याः प्रत्यासन्नग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्ध्य्** **आरोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः । “सामन्ता वा” इति विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्यभिप्रायम् । यथाह मनुः -

साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः । इति ॥ (म्ध् ८.२५३)

तत्र च साक्षिणां निर्णेतृत्वं मुख्यम् । तदभावे सामन्तानाम् । तद् उक्तम् ।

साक्ष्यभावे तु चत्वारो ग्राम्याः सामन्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ इति । (म्ध् ८.२५८)

तदभावे तत्सक्तादीनां निर्णेतृत्वम् । यथाह कात्यायनः ।

स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् ।
तत्संसक्तैस् तु कर्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास् तु राज्ञा धर्मं विजानता ॥ इति । (क्स्म् ७३९–४०)

सामन्ताद्यभावे मौलादयो ग्राह्याः,

तेषाम् अभावे सामन्तमौलव्र्द्धोद्धृतादयः ।
स्थावरे षट्प्रकारे ऽपि कार्या नात्र विचारणा ॥ (क्स्म् ७३७)

इति कात्यायनेन क्रमविधानात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति,

सामन्ताः साधनं पूर्वं निर्दोषाः स्युर् गुणान्विताः ।
द्विगुणास् तूत्तरा ज्ञेयास् ततो ऽन्ये त्रिगुणा मताः ॥ (क्स्म् ७४६)

इति स्मरणात् । ते च साक्षिणः सामन्तादयश् च स्वैः स्वैः शपथैः शापिताः सन्तः सीमां नयेयुः,

शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिथाः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥ (म्ध् ८.२५६)

इति स्मरणात् । नयेयुर् इति बहुवचनं द्वयोर् निरासार्थं नैकस्य,

एकश् चेद् उन्नयेत् सीमां सोपवासः समुन्नयेत् ।
रक्तमाल्याम्बरधरो भूमिम् आदाय मूर्धनि ॥ (न्स्म् ११.१०)

इति नारदेनैकस्याभ्यनुज्ञानात् ॥ यो ऽयं –

नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य कार्यस्य क्रियैषां बहुषु स्थिता ॥ (न्स्म् ११.९)

इत्य् एकस्य निषेधः, स उभयानुमतधर्मविद्व्यतिरिक्तविषय इत्य् अविरोधः । स्थलादिचिह्नाभावे ऽपि साक्षिसामन्तादीनां सीमाज्ञाने उपायविशेषो नारदेनोक्तः ।

निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानाच् च प्रमाणाद् भोगदर्शनात् ॥ इति । (न्स्म् ११.६)

निम्नगया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थानात् प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानाद् उत्सृष्टनष्टचिह्नानां प्राचीनप्रदेशानुमानात् ग्रामाद् आरभ्य सहस्रदण्डपरिमितं क्षेत्रम् अस्य ग्रामस्य पश्चिमे भागे इत्य् एवंविधात् प्रमाणाद् वा प्रत्यर्थिसमक्षविप्रतिपन्नाया अस्मार्तकालोपलक्षितभुक्तेर् वा निश्चिनुयुः । बृहस्पतिना चात्र विशेषो दर्शितः ।

आगमं च प्रमाणं च भोगकालं च नाम च ।
भूभागलक्षणं चैव ये विदुस् ते ऽत्र साक्षिणः ॥ इति । (बृस्म् १.१९.२८)

एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः ।

ग्रामेयककुलानां तु समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥ इति । (म्ध् ८.२५४)

ते च पृष्टाः साक्ष्यादयः एकमत्येन समस्ताः सीम्नि निर्णयं ब्रूयुः । तैर् निर्णीतां सीमां तत्प्रदर्शितसकललिङ्गयुक्तां साक्ष्यादिनामान्वितां चाविस्मरणार्थं पत्रे समारोपयेत् । उक्तं च मनुना ।

ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम् ।
निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥ इति । (म्ध् ८.२६१)

एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्क्रमणदिनाद् आरभ्य यावत् त्रिपक्षं राजदैविकव्यसनाव्यसनं चेन् नोत्पद्यते तदा तत्प्रदर्शनात् सीमानिर्णयः । अयं च राजदैविकव्यसनावधिः कात्यायनेनोक्तः ।

सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकम् इष्यते ॥ इति ॥ (क्स्म् ७५१) ॥ २.१५२)

यदा त्व् अमीषाम् उक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते, अथ वा प्रतिवादिनिर्दिष्टाभ्यधिकसंख्यागुणसाक्ष्यन्तरविरुद्धवचनता, तदा ते मृषाभाषितया दण्डनीयास् तद् आह ।

अनृते तु पृथग् दण्ड्या राज्ञा मध्यमसाहसम् । २.१५३अब्

अनृते मिथ्यावादने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः । सामन्तविषयता चास्य साक्षिमौलादीनां स्मृत्यन्तरे दण्डान्तरविधानाद् अवगम्यते । यथाह मनुः ।

यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥ इति ॥ (म्ध् ८.२५७)

नारदो ऽपि –

अथ चेद् अनृतं ब्रूयुः सामन्ताः सीमनिर्णये ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ (न्स्म् ११.७)

इति सामन्तानां मध्यमसाहसं दण्डम् अभिधाय,

शेषाश् चेद् अनृतं ब्रूयुर् नियुक्ता भूमिकर्मणि ।
प्रत्येकं तु जघन्यास् ते विनेयाः पूर्वसाहसम् ॥ (न्स्म्- ध्को ९४५)

इति तत्संसक्तादिषु प्रथमं साहसम् उक्तवान् । मौलादीनाम् अपि तम् एव दण्डम् आह ।

मौलवृद्धादयस् त्व् अन्ये दण्डगत्या पृथक् पृथक् ।
विनेयाः प्रथमेनैव साहसेनानृते स्थिता ॥ इति । (ध्को ९४६; च्फ़्। न्स्म् ११.८)

आदिशब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्य् अपि शाकुनिकादीनां पापरतत्वाल् लिङ्गप्रदर्शन एवोपयोगो न साक्षात् सीमानिर्णये तथापि लिङ्गदर्शन एव मृषाभाषित्वसंभवाद् दण्डविधानम् उपपद्यत एव । “अनृते तु पृथक् दण्ड्याः” इत्य् एतद् दण्डविधानम् अज्ञानविषयम् ।

बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर् भयाद् वा लोभाद् वा दण्ड्यास् तूत्तमसाहसम् ॥ (क्स्म् ७५०)

इति ज्ञानविषये सक्श्यादीनां कात्यायनेन दण्डान्तरविधानात् ।

तथा साक्षिवचनभेदे ऽप्य् अयम् एव दण्डस् तेनैवोक्तः ।

कीर्तिते यदि भेदः स्याद् दण्ड्यास् तूत्तमसाहसम् । इति । (क्स्म् ७४१)

एवम् अज्ञानादिनानृतवदने साक्ष्यादीन् दण्डयित्वा पुनः सीमाविचारः प्रवर्तयितव्यः ।

अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् । (क्स्म् ७४१)

इत्य् उक्त्वा,

त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ।
संमिश्र्य कारयेत् सीमाम् एवं धर्मविदो विदुः ॥ (क्स्म् ७४२)

इति निर्णयप्रकारस् तेनैवोक्तः ॥

यदा पुनः सामन्तप्रभृतयो ज्ञातारश् चिह्नानि च न सन्ति, तदा कथं निर्णय इत्य् अत आह ।

अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तिता ॥ २.१५३च्द् ॥

ज्ञातॄणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनाम् अभावे राजैव सीम्नः प्रवर्तिता प्रवर्तयिता । अन्तर्भावितो ऽत्र ण्यर्थः । ग्रामद्वयमध्यवर्तिनीं विवादास्पदीभूतां भुवं समं प्रविभज्य अस्येयं भूर् अस्येयम् इत्य् उभयोः समर्प्य तन्मध्ये सीमालिङ्गानि कुर्यात् । यदा तस्यां भूमाव् अन्यतरस्योपकारातिशयो दृश्यते तदा तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाह मनुः ।

सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥ इति ॥ (म्ध् ८.२६५) २.१५३ ॥

असत्याम् अप्य् अतद्भावाशङ्कायाम् अस्याः स्मृतेर् न्यायमूलतां दर्शयितुम् अतिदेशम् आह ।

आरामायतनग्रामनिपानोद्यानवेश्मसु । २.१५४अब्
**एष एव विधिर् ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ २.१५४च्द् ॥ **

आरामः पुष्पफलोपचयहेतुर् भूभागः । आयतनं निवेशनं पलालकूटाद्यर्थं विभक्तो भूप्रदेशः । ग्रामः प्रसिद्धः । ग्रामग्रहणं च नगराद्युपलक्षणार्थम् । निपानं पानीयस्थानं वापीकूपप्रभृतिकम् । उद्यानं क्रीडावनम् । वेश्म गृहम् । एतेष्व् आरामादिष्व् अयम् एव सामन्तसाक्ष्यादिलक्षणो विधिर् ज्ञातव्यः । तथा प्रवर्षणोद्भूतजलप्रवाहेषु अनयोर् गृहयोर् मध्येन जलौघः प्रवहत्य् अनयोर् वेत्य् एवंप्रकारे विवादे आदिग्रहणात् प्रासादादिष्व् अपि प्राचीन एव विधिर् वेदितव्यः । तथा च कात्यायनः ।

क्षेत्रकूपतडागानां केदारारामयोर् अपि ।
गृहप्रासादावसथनृपदेवगृहेषु च ॥ इति ॥ (क्स्म् ७४९) ॥२.१५४ ॥

सीमानिर्णयम् उक्त्वा तत्प्रसण्गेन मर्यादाप्रभेदनादौ दण्डम् आह ।

मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा । २.१५५अब्
**क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ २.१५५च्द् ॥ **

अनेकक्षेत्रव्यवच्छेदिका साधारणा भूर् मर्यादा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमाम् अतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेण अधमोत्तममध्यमसाहसा दण्डा वेदितव्याः । क्षेत्रग्रहणं चात्र गृहारामाद्युपलक्षणार्थम् । यदा पुनः स्वीयभ्रान्त्या क्षेत्रादिकम् अपहरति तदा द्विशतो दमो वेदितव्यः । यथाह मनुः ।

गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥ इति । (म्ध् ८.२६४)

अपह्रियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिद् उत्तमो ऽपि दण्डः प्रयोक्तव्यः । अत एवाह ।

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः ॥ इति ॥ (न्स्म् १४.७) ॥ २.१५५ ॥

यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयार्थदानेन वा लब्धानुज्ञो निर्मातुम् इच्छति तन्निषेधतः क्षेत्रस्वामिन एव दण्ड इत्य् आह ।

न निषेध्यो ऽल्पबाधस् तु सेतुः कल्याणकारकः । २.१५६अब्
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥ २.१५६च्द् ॥

परकीयां भूमिम् अपहरन् नाशयन्न् अपि सेतुर् जलप्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स चेद् ईषत्पीडाकरो बहूपकारकश् च भवति । कूपश् चाल्पक्षेत्रव्यापित्वेनाल्पबाधो बहूदकत्वेन कल्याणकारकश् चेतो बहूदको नैव निवारणीयः । कूपग्रहणं च वापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनर् असौ सर्वक्षेत्रवर्तितया बहुबाधो नद्यादिसमीपक्षेत्रवर्तितया वाल्पोपकारकस् तदासौ निषेध्य इत्य् अर्थाद् उक्तं भवति । सेतोश् च द्वैविध्यम् उक्तं नारदेन ।

सेतुश् च द्विविधो ज्ञेयः खेयो बन्ध्यस् तथैव च ।
तोयप्रवर्तनात् खेयो बन्ध्यः स्यात् तन्निवर्तनात् ॥ इति । (न्स्म् ११.१५)

यदा त्व् अन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तद्वंश्यं नृपं वा पृष्ट्वैव संस्कुर्यात् । यथाह नारदः ।

पूर्वप्रवृत्तम् उत्सन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत् फलभाग् भवेत् ॥
मृते तु स्वामिनि पुनस् तद्वंश्ये वापि मानवे ।
राजानम् आमन्त्र्य ततः कुर्यात् सेतुप्रवर्तनम् ॥ इति । (न्स्म् ११.१७–१८) ॥। २.१५६ ॥

क्षेत्रस्वामिनं प्रत्य् उपदिष्टम् । इदानीं सेतोः प्रवर्तयितारं प्रत्य् आह ।

** स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् । २.१५७अब्**
** उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः ॥ २.१५७च्द् ॥ **

क्षेत्रस्वामिनम् अनभ्युपगम्य तदभावे राजानं वा यः परक्षेत्रे सेतुं प्रवर्तयत्य् असौ फलभाङ् न भवत्य् अपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस् तदभावे राज्ञः । तस्मात् प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वानुज्ञाप्यैव परक्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्यार्थः ॥ २.१५७ ॥

क्षेत्रस्वामिना सेतुर् न प्रतिषेध्य इत्य् उक्तम् । इदानीं तस्यैव प्रसक्तानुप्रसक्त्या क्वचिद् विध्यनतरम् आह ।

** फालाहतम् अपि क्षेत्रं न कुर्याद् यो न कारयेत् । २.१५८अब्**
** स प्रदाप्यः कृष्टफलं क्षेत्रम् अन्येन कारयेत् ॥ २.१५८च्द् ॥ **

यः पुनः क्षेत्रस्वामिपार्श्वे अहम् इदं क्षेत्रं कृषामीत्य् अङ्गीकृत्य पश्चाद् उत्सृजति न चान्येन कर्षयति तच् च क्षेत्रं यद्य् अपि फालाहतं ईसद्धलेन विदारितं न सम्यग् बीजावापार्हं तथापि तस्याकृष्टस्य फलं यावत् तत्रोत्पत्त्यर्हं सामन्तादिकल्पितं तावद् असौ कर्षको दापनीयः । तच् च क्षेत्रं पूर्वकर्षकाद् आच्छिद्यान्येन कारयेत् ॥ २.१५८ ॥

**इति सीमाविवादप्रकरणम् **

**अथ स्वामिपालविवादप्रकरणम् **

व्यवहारपदानां परस्परहेतुहेतुमद्भावात् “तेषाम् आद्यम् ऋणादानम्” (म्ध् ८.४) इत्यादिपाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादो ऽभिधीयते ।

माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी । २.१५९अब्
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥ २.१५९च्द् ॥

परसस्यविनाशकारिणी महिष्य् अष्टौ माषान् दण्डनीया । गौस् तदर्धं चतुरो माषान् । अजा मेषाश् च माषद्वयं दण्डनीयाः । महिष्यादीनां धनसंबन्धभावात् तत्स्वामी पुरुषो लक्ष्यते । माषश् चात्र ताम्रिकपणस्य विंशतितमो भागः,

माषो विंशतिमो भागः पणस्य परिकीर्तितः । (ध्को ५३२, थेरे न्स्म् २१.५८)

इति नारदस्मरणात् । एतच् चाज्ञानविषयम् । ज्ञानपूर्वे तु,

पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा ।
तथाजाविकवत्सानां पादौ दण्डः प्रकीर्तितः ॥ (च्फ़्। ध्को ९१७)

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । यत् पुनर् नारदेनोक्तम्,

माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।
तथाजाविकवत्सानां दण्डः स्याद् अर्धमाषिकः ॥ (ध्को ९१७)

इति तत् पुनः प्ररोहयोग्यमूलावशेषभक्षणविषयम् ॥ २.१५९ ॥

अपराधातिशयेन क्वचिद् दण्डद्वैगुण्यम् आह ।

भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । २.१६०अब्

यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथोक्ताद् दण्डाद् द्विगुणो दण्डो वेदितव्यः । सवत्सानां पुनर् भक्षयित्वोपविष्टाणां यथोक्तदण्डाच् चतुर्गुणो दण्डो वेदितव्यः,

वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः । (नोत् इन् ध्को)

इति वचनात् ॥

क्षेत्रान्तरे पश्वन्तरे चातिदेशम् आह ।

समम् एषां विवीते ऽपि खरोष्ट्रं महिषीसमम् ॥ २.१६०च्द् ॥

विवीतः प्रचुरतृणकाष्टो रक्ष्यमाणः परिगृहीतो भूप्रदेशः । तदुपघाते ऽपीतरक्षेत्रदण्डेन समं दण्डम् एषां महिष्यादीनां विद्यात् । खराश् च उष्ट्राश् च खरोष्ट्रं तन् महिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रम् अपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषीतुल्यत्वाद् दण्डस्य चापराधानुसारित्वात् खरोष्ट्रम् इति समाहारो न विवक्षितः ॥ २.१६० ॥

परसस्यविनाशे गोस्वामिनो दण्ड उक्तः । इदानीं क्षेत्रस्वामिने फलम् अप्य् असौ दापनीय इत्य् आह ।

यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् । २.१६१अब्
गोपस् ताड्यश् च गोमी तु पूर्वोक्तं दण्डम् अर्हति ॥ २.१६१च्द् ॥

सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिन् क्षेत्रे यावत् पलालधान्यादिकं गवादिभिर् विनाशितं तावत् क्षेत्रफलम् एतावति क्षेत्रे एतावद् भवतीति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस् तु ताडनीय एव न फलं दापनीयः । गोपस्य च ताडन्ं पूर्वोक्तधनदण्डसहितम् एव पालदोषेण सस्यनाशे द्रष्टव्यम्,

या नष्टा पालदोषेण गौस् तु सस्यानि नाशयेत् ।
न तत्र गोमिनो दण्डः पालस् तं दण्डम् अर्हति ॥ (न्स्म् ११.३१; ध्को ९१७)

इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे पूर्वोक्तं दण्डम् एवार्हति न तादनम् । फलदानं पुनः सर्वत्र गोस्वामिन एव, तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण तत्क्षेत्रफलभागित्वात् । गवादिभक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम्, मध्यस्थकल्पितमूल्यदानेन क्रीतप्रायत्वात् । अत एव नारदः ।

गोभिस् तु भक्षितं सस्यं यो नरः प्रतियाचते ।
सामन्तानुमतं देयं धान्यं यत् तत्र वापितं ॥
पलालं गोमिने देयं धान्यं वै कर्षकस्य तु ॥ इति ॥ (न्स्म् ११.३४) ॥ २.१६१ ॥

क्षेत्रविशेषे अपवादम् आह ।

पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । २.१६२अब्
अकामतः कामचारे चौरवद् दण्डम् अर्हति ॥ २.१६२च्द् ॥

पथि ग्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोभिर् भक्षिते गोपगोमिनोर् द्वयोर् अप्य् अदोषः । दोषाभावप्रतिपादनं च दण्डाभावार्थं विनष्टसस्यमूल्यदानप्रतिषेधार्थं च । कामचारे कामतश् चारणे चौरवत् चौरस्य यादृशो दण्डस् तादृशं दण्डम् अर्हति । एतच् चानावृतक्षेत्रविषयम्,

तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ (म्ध् ८.२३८)

इति दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् । आवृते पुनर् मार्गादिक्षेत्रे ऽपि दोषो ऽस्त्य् एव । वृतिकरणं च तेनैवोक्तम् ।

वृतिं च तत्र कुर्वीत याम् उष्ट्रो नावलोकयेत् ।
छिद्रं निवारयेत् सर्वं श्वसूकरमुखानुगम् ॥ इति ॥ (म्ध् ८.२३९) २.१६२ ॥

पशुविशेषे ऽपि दण्डाभावम् आह ।

महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः । २.१६३अब्
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥ २.१६३च्द्

महांश् चासाव् उक्षा च महोक्षो वृषः सेक्ता । उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः । सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः स्वयूथात् परिभ्रष्टो देशान्तरागतः । एते मोच्याः परसस्यभक्षणे ऽपि न दण्ड्याः । येषां च पालो न विद्यते ते ऽपि दैवराजपरिप्लुताः दैवराजोपहताः सस्यविनाशकारिणो न दण्ड्याः । आदिशब्दग्रहणाद् धस्त्यश्वादयो गृह्यन्ते । ते च उशनसोक्ताः ।

अदण्ड्या हस्तिनो ह्य् अश्वाः प्रजापाला हि ते स्मृटाः ।
अदण्ड्यौ काणकुब्जौ च ये शश्वत्कृतलक्षणाः ॥
अदण्ड्या गन्तुकी गौश् च सूतिका वाभिसारिणी ।
अदण्ड्याश् चोत्सवे गावः श्राद्धकाले तथैव च ॥ इति । (ध्को ९२०)

अत्रोत्सृष्टपशूनाम् अस्वामिकत्वेन दण्ड्यत्वासंभवात् दृष्टान्तार्थम् उपादानम् । यथोत्सृष्टपशवो न दण्ड्या एवं महोक्षादय इति ॥ २.१६३ ॥

गोस्वामिन उक्तम् । इदानीं गोपं प्रत्य् उपदिश्यते ।

**यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा । २.१६४अब् **
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥ २.१६४च्द् ॥

गोस्वामिना प्रातःकाले गणयित्वा यथा समर्पिताः पशवस् तथैव सायंकाले गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन स्वापराधेन मृतान् नष्टाम्श् च पशून् कृतवेतनः कल्पितवेतनो गोपः स्वामिने दाप्यः । वेतनकल्पना च नारदेनोक्ता –

गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः ।
प्रतिसंवत्सरं गोपे संदोहश् चाष्टमे ऽहनि ॥ इति । (न्स्म् ६.११)

प्रमादनाशश् च मनुना स्पष्टीकृतः ।

नष्टं जग्धं च कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ इति ॥ (म्ध् ८.२३२)

प्रसह्य चौरैर् अपहृतं न दाप्यः । यथाह मनुः ।

विक्रम्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ इति । (म्ध् ८.२३३)

दैवमृतानां पुनः कर्णादि प्रदर्शनीयम् ।

कर्णौ चर्म च वालांश् च वस्तिं स्नायुं च रोचनाम् ।
पशुषु स्वामिनां दद्यान् मृतेष्व् अङ्गानि दर्शयन् ॥ (म्ध् ८.२३४)

इति मनुस्मरणात् ॥ २.१६४ ॥

किं च ।

पालदोषविनाशे तु पाले दण्डो विधीयते । २.१६५अब्
अर्धत्रयोदशपणः स्वामिनो द्रव्यम् एव च ॥ २.१६५च्द् ॥

पालदोषेणैव पशुविनाशे अर्धाधिकत्रयोदशपणं दण्डं पालो दाप्यः । स्वामिनश् च द्रव्यं विनष्टपशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्लोको ऽन्यत् पूर्वोक्तम् एव ॥ २.१६५ ॥

गोप्रसण्गात् गोप्रचारम् आह ।

ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा । २.१६६अब्
द्विजस् तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ २.१६६च्द् ॥

ग्राम्येच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षया राजेच्छया वा गोप्रचारः कर्तव्यः । गवादीनां चरणार्थं कियान् अपि भूभागो ऽकृष्टः परिकल्पनीय इत्य् अर्थः । द्विजस् तृणेन्धनाद्यभावे गवाग्निदेवतार्थं तृणकाष्ठकुसुमानि सर्वतः स्ववद् अनिवारित आहरेत् । फलानि त्व् अपवृताद् एव । “गोऽग्न्यर्थं तृणमेधांसि वीरुद्वनस्पतीनां च पुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम्” (ग्ध् १२.२८) इति गौतमस्मरणात् । एतच् च परिगृहीतविषयम्, अपरिगृहीते तु द्विजव्यतिरिक्तस्यापि परिग्रहाद् एव स्वत्वसिद्धेः । तथा तेनैवोक्तम् “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु” इति (ग्ध् १३.३९) । यत् पुनर् उक्तम्,

तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृच्छन् हि गृह्णानो हस्तच्छेदनम् अर्हति ॥ (बृस्म् १.२२.२५)

इति, तद् द्विजव्यतिरिक्तविषयम् अनापद्विषयं वा गवादिव्यतिरिक्तविषयं वेति ॥ २.१६६ ॥

इदम् अपरं गवादीनां स्थानासनसौकर्यार्थम् उच्यते ।

धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् । २.१६७अब्
द्वे शते खर्वटस्य स्यान् नगरस्य चतुःशतम् ॥ २.१६७च्द् ॥

ग्रामक्षेत्रयोर् अन्तरं धनुःशतपरिमितं परिणाहः । सर्वतो दिशम् अनुप्तसस्यं कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शतं परिणाहः । नगरस्य बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितम् अन्तरं कार्यम् ॥ २.१६७ ॥

**इति स्वामिपालविवादप्रकरणम् **

अथास्वामिविक्रयप्रकरणम्

संप्रत्य् अस्वामिविक्रयाख्यं व्यवहारपदम् उपक्रमते । तस्य च लक्षणं नारदेनोक्तम् ।

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते समक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥ इति (न्स्म् ७.१)

तत्र किम्[^३५]_ इत्य् आह_ ।

स्वं लभेतान्यविक्रीतं क्रेतुर् दोषो ऽप्रकाशिते । २.१६८अब्
हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ॥ २.१६८च्द् ॥

स्वम् आत्मसंबन्धि द्रव्यं अन्यविक्रीतम् अस्वामिविक्रीतं यदि पश्यति तदा लभेत गृह्नीयात्, अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ताहितयोर् उपलक्षणार्थम्, अस्वामिविक्रीतत्वेन तुल्यत्वात् । अत एवोक्तम् ।

अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् । इति । (क्स्म् ६१२)

क्रेतुः पुनर् अप्रकाशिते गोपिते क्रये दोषो भवति । तथा हीनात् तत्तद्द्रव्यागमोपायहीनाद् रहसि चैकान्ते संभाव्यद्रव्याद् अपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वेलया हीनो वेलाहीनः क्रयो रात्र्यादौ कृतस् तत्र च क्रेता तस्करो भवति । तस्करवद् दण्डादिभाग् भवतीत्य् अर्थः । यथोक्तम् ।

द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी तद् आप्नुयात् ।
प्रकाशे क्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात् ॥ इति ॥ (न्स्म् ७.२) ॥ २.१६८ ॥

स्वाम्यभियुक्तेन[^३६]_ क्रेत्रा किं कर्तव्यम् इत्य् अत आह ।_

नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् । २.१६९अब्
देशकालातिपत्तौ च गृहीत्वा स्वयम् अर्पयेत् ॥ २.१६९च्द् ॥

नष्टम् अपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतारं नरम् ग्राहयेत् चौरोद्धरणकादिभिर् आत्मविशुद्ध्यर्थं राजदण्डाप्राप्त्यर्थं च । अथाविदितदेशान्तरं गतः कालान्तरे वा विपन्नस् तदा मूलसमाहरणाशक्तेर् विक्रेतारम् अदर्शयित्वैव स्वयम् एव तद् धनं नाष्टिकस्य समर्पयेत् । तावतैवासौ शुद्धो भवतीति श्रीकराचार्येण व्याख्यातं तद् इदम् अनुपपन्नम्, “विक्रेतुर् दर्शनाच् छुद्धिः” (य्ध् २.१७०) इत्य् अनेन पौनरुक्त्यप्रसण्गात् । अतो ऽन्यथा व्याख्यायते । नष्टापहृतम् इति नाष्टिकं प्रत्ययम् उपदेशः । नष्टम् अपहृतं वात्मीयद्रव्यम् आसाद्य क्रेतुर् हस्तस्थं ज्ञात्वा तं हर्तारं क्रेतारं स्थानपालादिभिर् ग्राहयेत् । देशकालातिपत्तौ देशकालातिक्रमे स्थानपालाद्यसंनिधाने तद्विज्ञापनकालात् प्राक् पलायनशङ्कायां स्वयम् एव गृहीत्वा तेभ्यः समर्पयेत् ॥ २.१६९ ॥

ग्राहिते हर्तरि किं कर्तव्यम् इत्य् अत आह ।

विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् । २.१७०अब्
क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी ॥ २.१७०च्द् ॥

यद्य् असौ गृहीतः क्रेता न मयेदम् अपहृतम् अन्यसकशात् क्रीतम् इति वक्ति, तदा तस्य क्रेतुर् विक्रेतुर् दर्शनमात्रेण शुद्धिर् भवति । न पुनर् असाव् अभियोज्यः । किं तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः । यथाह बृहस्पतिः ।

मूले समाह्र्ते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस् तु नाष्टिकस्य विधीयते ॥ इति ॥ (बृस्म् १.१२.६)

तस्मिन् विवादे यद्य् अस्वामिविक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात् स्वामी नाष्टिकः स्वीयं द्रव्यम् अवाप्नोति नृपश् चापराधानुरूपं दण्डं क्रेता च मूल्यम् अवाप्नोति । अथासौ देशान्तरगतस् तदा योजनसंख्यया आनयनार्थं कालो देयः,

प्रकाशं वा क्रयं कुर्यान् मूलं वापि समर्पयेत् ।
मूलानयनकालश् च देयस् तत्राध्वसंख्यया ॥ (क्स्म् ६१५)

इति स्मरणात् ॥ अथाविज्ञातदेशतया मूलम् आहर्तुं न शक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति,

असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् । (क्स्म् ६१८)

इति वचनात् ॥ यदा पुनः साक्ष्यादिभिर् दिव्येन वा क्रयं न शोधयति मूलं च न प्रदर्शयति तदा स एव दण्डभाग् भवति । इति ।

अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥ (ध्को ७६०)

इति मनुस्मरणात् ॥ २.१७० ॥

“स्वं लभेतान्यविक्रीतम्” इत्य् उक्तम् (य्ध् २.१६८) । तल्लिप्सुना किं कर्तव्यम् इत्य् अत आह ।

आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा । २.१७१अब्
पञ्चबन्धो दमस् तस्य राज्ञे तेनाविभाविते ॥ २.१७१च्द् ॥

आगमेन रिक्थक्रयादिना उपभोगेन च मदीयम् इदं द्रव्यं तच् चैवं नष्टम् अपहृतं वेत्य् अपि भाव्यं साधनीयं तत्स्वामिना । अतो ऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः । अत्र चायं क्रमः । पूर्वस्वामी नष्टम् आत्मीयं साधयेत् । ततः क्रेता चौर्यपरिहारार्थं मूल्यलाभाय च विक्रेतारम् आनयेत् । अथानेतुं ना शक्नोति तदात्मदोषपरिहाराय क्रयं शोधयित्वा द्रव्यं नाष्टिकस्य समर्पयेद् इति ॥ २.१७१ ॥

तस्करस्य प्रच्छादकं प्रत्य् आह ।

हृतं प्रनष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् । २.१७२अब्
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ २.१७२च्द् ॥

हृतं प्रणष्टं वा चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यम् अपहृतम् इति नृपस्यानिविद्यैव दर्पादिना यो गृह्नाति, असौ षडुत्तरान् नवतिं पणान् दण्डनीयः, तस्करप्रच्छादकत्वेन दुष्टत्वात् ॥ २.१७२ ॥

राजपुरुषानीतं प्रत्य् आह ।

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् । २.१७३अब्
अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ २.१७३च्द् ॥

यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर् वा नष्टम् अपहृतं द्रव्यं राजपार्श्वं प्रत्यानीतं तदा संवतसराद् अर्वाक् प्राप्तश् चेत् नाष्टिकस् तद् द्रव्यम् अवाप्नुयात् । ऊर्ध्वं पुनः संवत्सराद् राजा गृह्नीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेषूद्घोष्य यावत् संवत्सरं राज्ञा रक्षनीयम् । यथाह गौतमः “प्रणष्टस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः । विख्यातं संवत्सरं राज्ञा रक्ष्यम्” (ग्ध् १०.३६–३७) इति । यत् पुनर् मनुना विध्यन्तरम् उक्तम्,

प्रणष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद् धरेत् स्वामी परतो नृपतिर् हरेत् ॥ इति । (म्ध् ८.३०)

तच् छ्रुतवृत्तसंपन्नब्राह्मणविषयम् । रक्षणनिमित्तषड्भागादिग्रहणं च तेनैवोक्तम् ।

आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥ इति ॥ (म्ध् ८.३३)

तृतीयद्वितीयप्रथमसंवत्सरेषु यथाक्रमं षष्ठादयो भागा वेदितव्याः । प्रपञ्चितं चैतत् पुरस्तात् ॥ २.१७३ ॥

मनूक्तषड्भागादिग्रहणस्य (च्फ़्। म्ध् ८.३३) द्रव्यविशेषे ऽपवादम् आह ।

पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे । २.१७४अब्
महिषोष्ट्रगवां द्वौ द्वौ पादं पादम् अजाविके ॥ २.१७४च्द् ॥

एकशफे अश्वादौ प्रणष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तं चतुरः पणान् दद्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् । महिषोष्ट्रगवां रक्षणनिमित्तं प्रत्येकं द्वौ द्वौ पणौ अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति सर्वत्रानुषज्यते । अजाविकम् इति समासनिर्देशे ऽपि पादं पादम् इति वीप्साबलात् प्रत्येकं संबन्धो ऽवगम्यते ॥ २.१७४ ॥

**इत्य् अस्वामिविक्रयप्रकरणम् **

अथ दत्ताप्रदानिकप्रकरणम्

अधुना विहिताविहितमार्गद्वयाश्रयतया दत्तानपकर्म दत्ताप्रदानिकम् इति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपदम् अभिधीयते । तत्स्वरूपं च नारदेनोक्तम् ।

दत्त्वा द्रव्यम् असम्यग् यः पुनर् अदातुम् इच्छति ।
दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥ इति । (न्स्म् ४.१)

असम्यग् अविहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनर् आदातुम् इच्छति यस्मिन् विवादपदे तद् दत्ताप्रदानिकं दत्तस्याप्रदानं पुनर्हरणं यस्मिन् दानाख्ये तद् दत्ताप्रदानिकं नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रतिपक्षभूतं तद् एव व्यवहारपदं दत्तानपकर्मेत्य् अर्थाद् उक्तं भवति । दत्तस्यानपकर्म अपुनरादानाख्यं यत्र दानाख्ये विवादपदे तद् दत्तानपकर्म । तच् च देयादेयादिभेदेन चतुर्विधम् । यथाह नारदः ।

अथ देयम् अदेयं च दत्तं वादत्तम् एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥ इति । न्स्म् ४.२)

तत्र देयम् इत्य् अनिषिद्धदानक्रियायोग्यम् उच्यते । अदेयम् अस्वतया निषिद्धतया वा दानानर्हम् । यत् पुनः प्रकृतिस्थेन दत्तम् अव्यावर्तनीयं तद् दत्तम् उच्यते । अदत्तं तु यत् प्रत्याहरणीयं तत् कथ्यते ।

तद् एतत् संक्षेपतो निरूपयितुम् आह ।

स्वं कुटुम्बाविरोधेन देयं २.१७५अ

स्वम् आत्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन । कुटुम्बभरणावशिष्टम् इति यावत् । तद् दद्यात्, तद्भरणस्यावश्यकत्वात् । यथाह मनुः ।

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥ इति । (म्ध् ११.१०)

“स्वं कुटुम्बाविरोधेन” इत्य् अनेनादेयम् एकविधं दर्शयति । स्वं दद्याद् इत्य् अनेन चास्वभूतानाम् अन्वाहितयाचितकाधिसाधारणनिक्षेपाणां पञ्चानाम् अप्य् अदेयत्वं व्यतिरेकतो दर्शितम् । यत् पुनर् नारदेन अष्टविधत्वम् अदेयानाम् उक्तम्,

अन्वाहितं याचितकम् आधिः साधारणं च यत् ।
निक्षेपः पुत्रदारांश् च सर्वस्वं चान्वये सति ।
आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥ (न्स्म् ४.४–५)

इति, एतद् अदेयत्वमात्राभिप्रायेण न पुनः स्वत्वाभावाभिप्रायेण, पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां स्वरूपं प्राग् एव प्रपञ्चितम् ॥

“स्वं दद्याद्” इत्य् अनेन दारसुतादेर् अपि स्वत्वाविशेषेण देयत्वप्रसण्गे प्रतिषेधम् आह ।

दारसुताद् ऋते । २.१७५ब्
नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम् ॥ २.१७५च्द् ॥

दारसुताद् ऋते दारसुतव्यतिरिक्तं स्वं दद्यान् न दारसुतम् इत्य् अर्थः । तथा पुत्रपौत्राद्यन्वये विद्यमाने सर्वं धनं न दद्यात्,

पुत्रान् उत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेत् । (?)

इति स्मरणात् । तथा हिरण्यादिकम् अन्यस्मै प्रतिश्रुतम् अन्यस्मै न देयम् ॥ २.१७५ ॥

एवं दारसुतादिव्यतिरिक्तं देयम् उक्त्वा प्रसङ्गाद् अदेयधनग्रहणं च प्रतिग्रहीत्रा प्रकाशम् एव कर्तव्यम् इत्य् आह ।

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । २.१७६अब्

प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । “स्थावरस्य च विशेषतः” प्रकाशम् एव ग्रहणं कार्यम् । तस्य सुवर्णादिवद् आत्मनि स्थितस्य दर्शयितुम् अशक्यत्वात् ॥

एवं प्रासङ्गिकम् उक्त्वा, प्रकृतम् अनुसरन्न् आह ।

देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः ॥ २.१७६च्द् ॥

“देयं प्रतिश्रुतं चैव” यद् यस्मै धमार्थं प्रतिश्रुतं तत् तस्मै देयम् एव यद्य् असौ धर्मात् प्रच्युतो न भवति । प्रच्युते न पुनर् दातव्यम् । “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” (ग्ध् ५.२३) इति गौतमस्मरणात् । “दत्त्वा नापहरेत्पुनः” । न्यायमार्गेण यद् दत्तं तत् सप्तविधम् अपि पुनर् नापहर्तव्यम्, किं तु तथैवानुमन्तव्यम् । यत् पुनर् अन्यायेन दत्तं तद् अदत्तं षोडशप्रकारम् अपि प्रत्यार्हतव्यम् एवेत्य् अर्थाद् उक्तं भवति । नारदेन च,

दत्तं सप्तविधं प्रोक्तम् अदत्तं षोडशात्मकम् । (न्स्म् ४.३)

इति प्रतिपाद्य, दत्तादत्तयोः स्वरूपं विवृतं ।

पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ।
अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
बालमूढास्त्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् ।
कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् ॥
अपात्रे पात्रम् इत्य् उक्ते कार्ये वा धर्मसंहिते ।
यद् दत्तं स्याद् अविज्ञानाद् अदत्तम् इति तत् स्मृतम् ॥ इति । (न्स्म् ४.७–१०)

अयम् अर्थः- पण्यस्य क्रीतद्रव्यस्य यन् मूल्यं दत्तम्, भृतिर् वेतनं कृतकर्मणे दत्तम्, तुष्ट्या बन्दिचारणादिभ्यो दत्तम्, स्नेहाद् दुहितृपुत्रादिभ्यो दत्तम्, प्रत्युपकारत उपकृतवते प्रत्युपकाररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थं कन्याज्ञातिभ्यो यद् दत्तम्, यच् चानुग्रहार्थम् अदृष्टार्थं दत्तं तद् एतत् सप्तविधम् अपि दत्तम् एव न प्रत्याहरणीयम् । भयेन बन्दिग्राहादिभ्यो दत्तम्, क्रोधेन पुत्रादिभ्यो वैरनिर्यातनायान्यस्मै दत्तम्, पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्यप्रतिबन्धनिरासार्थम् अधिकृतेभ्यो दत्तम्, परिहासेनोपहासेन दत्तम् । एकः स्वं द्रव्यम् अन्यस्मै ददात्य् अन्यो ऽपि तस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदानम् अभिसंधाय सहस्रम् इति परिभाष्य ददाति । बालेनाप्राप्तषोडशवर्षेण । मूढेन लोकवादानभिज्ञेन । अस्वतन्त्रेण पुत्रदासादिना । आर्तेन रोगाभिभूतेन । मत्तेन मदनीयमत्तेन । उन्मत्तेन वातिकाद्युन्मादग्रस्तेन अपवर्जितं दत्तं, यथायं मदीयम् इदं कर्म करिष्यतीति प्रतिलोभेच्छया दत्तम्, अचतुर्वेदाय चतुर्वेदो ऽहम् इत्य् उक्तवते दत्तम्, यज्ञं करिष्यामीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तम् इत्य् एवं षोडशप्रकारम् अपि दत्तम् अदत्तम् इत्य् उच्यते, प्रत्याहरणीयत्वात् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम्,

स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥ (क्स्म् ५६६)

इति कात्यायनस्मरणात् ॥ तथेदम् अपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् ।

योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ इति ॥ (म्ध् ८.१६५)

योग उपाधिः । येनागामिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास् तदुपाधिविगमे तान् क्रयादीन् विनिवर्तयेद् इत्य् अस्यार्थः । यः पुनः षोडशप्रकारम् अप्य् अदत्तं गृह्नाति यश् चादेयं प्रयच्छति तयोर् दण्डो नारदेनोक्तः ।

गृह्नात्य् अदत्तं यो लोभाद् यश् चादेयं प्रयच्छति ।
अदेयदायको दण्ड्यस् तथा दत्तप्रतीच्छकः ॥ इति ॥ (न्स्म् ४.११) ॥२.१७६ ॥

**इति दत्ताप्रदानिकं नाम प्रकरणम् **

अथ क्रीतानुशयप्रकरणम्

अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं नारदेनोक्तम् ।

क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीतानुषय इत्य् एतद् विवादपदम् उच्यते ॥ इति । (न्स्म् ९.१)

तत्र च यस्मिन्न् अहनि पण्यं क्रीतं तस्मिन्न् एवाह्नि तद् अविकृतं प्रत्यर्पणीयम् इति तेनैवोक्तम् ।

क्रीत्वा मूल्येन यत् पण्यं दुःक्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥ इति । (न्स्म् ९.२)

द्वितीयादिदिने तु प्रत्यर्पणे विशेषस् तेनैवोक्तः ।

द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आहरेत् ।
द्विगुणं तु तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ इति ॥ (न्स्म् ९.३)

परतो ऽनुशयो न कर्तव्य इत्य् अर्थः । एतच् च बीजातिरिक्तोपभोगादिविनश्वरवस्तुविषयम् ।

बीजादिक्रये पुनर् अन्य एव प्रत्यर्पणविधिर् इत्य् आह ।

दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकम् । २.१७७अब्
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ २.१७७च्द् ॥

बीजं व्रीह्यादिबीजम् । अयो लोहम् । वाह्यो बलीवर्दादिः । रत्नं मुक्ताप्रवालादि । स्त्री दासी । दोह्यं महिष्यादि । पुमान् दासः । एषां बीजादीनां यथाक्रमेण दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्य् असम्यक्त्वबुद्ध्यानुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिर् न पुनर् ऊर्ध्वम् इत्य् उपदेशप्रयोजनम् । यत् तु मनुवचनम्,

क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर् दशाहात् तद् द्रव्यं दद्याच् चैवाददीत च ॥ (म्ध् ८.२२२)

इति, तद् उक्तलोहादिव्यतिरिक्तोपभोगविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्वं चैतद् अपरीक्षितक्रीतविषयम् । यत् पुनः परीक्ष्य न पुनः प्रत्यर्पणीयम् इति समयं कृत्वा क्रीतं तद् विक्रेत्रे न प्रत्यर्पणीयम् । तद् उक्तम् ।

क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥ इति ॥ (न्स्म् ९.४) ॥ २.१७७ ॥

दोह्यादिपरीक्षाप्रसङ्गेन स्वर्णादेर् अपि परीक्षाम् आह ।

अग्नौ सुवर्णम् अक्षीणं रजते द्विपलं शते । २.१७८अब्
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ २.१७८च्द् ॥

वह्नौ प्रताप्यमानं सुवर्णं न क्षीयते । अतः कटकादिनिर्माणार्थं यावत् स्वर्णकारहस्ते प्रक्षिप्तं तावत् तुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दण्ड्याश् च । रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीसे च । शते इत्य् अनुवर्तते । त्रपुणि सीसे च शतपले प्रताप्यमाने ऽष्टौ पलानि क्षीयन्ते । ताम्रे पञ्चदशायसि ताम्रे शतपले पञ्चपलानि । अयसि दशपलानि क्षीयन्ते । अत्रापि शत इत्य् एव । कांस्यस्य तु त्रपुताम्रयोनित्वात् तदनुसारेण क्षयः कल्पनीयः । ततो ऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः ॥ २.१७८ ॥

क्वचित् कम्बलादौ वृद्धिम् आह ।

शते दशपला वृद्धिर् और्णे कार्पाससौत्रिके । २.१७९अब्
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ २.१७९च्द् ॥

स्थूलेनौर्णसूत्रेण यत् कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धिर् वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनिर्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिर् वेदितव्या । एतच् चाप्रक्षालितवासोविषयम् ॥ २.१७९ ॥

द्रव्यान्तरे विशेषम् आह ।

कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । २.१८०अब्
न क्षयो न च वृद्धिश् च कौशेये वाल्कलेषु च ॥ २.१८०च्द् ॥

कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रं सूत्रैः क्रियते तत् कार्मिकम् इत्य् उच्यते । यत्र प्रावारदौ रोमाणि बध्यन्ते स रोमबद्धः, तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः । कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वङ्निर्मितेषु वसनेषु वृद्धिह्रासौ न स्तः किं तु यावद् वयनार्थं कुविन्दादिभ्यो दत्तं तावद् एव प्रत्यादेयम् ॥ २.१८० ॥

द्रव्यानन्त्यात् प्रतिद्रव्यं क्षयव्र्द्धिप्रतिपादनाशक्तेः सामान्येन ह्रासवृद्धिज्ञानोपायम् आह ।

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् । २.१८१अब्
द्रव्याणां कुशला ब्रूयुर् यत् तद् दाप्यम् असंशयम् ॥ २.१८१च्द् ॥

शाणक्षौमादौ द्रव्ये नष्टे ह्रासम् उपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालम् उपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत् कल्पयन्ति तद् असंशयं शिल्पिनो दाप्याः ॥ २.१८१ ॥

**इति क्रीतानुशयप्रकरणम् **

**अथाभ्युपेत्याशुश्रूषाप्रकरणम् **

सांप्रतम् अभ्युपेत्याशुश्रूषाख्यम् अपरं विवादपदम् अभिधातुम् उपक्रमते । तत्स्वरूपं च नारदेनोक्तम् ।

अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥ इति । (न्स्म् ५.१)

आज्ञाकरणं शुश्रूषा ताम् अङ्गीकृत्य पश्चाद् यो न संपादयति तद्विवादपदम् अभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश् च पञ्चविधः । शिष्यो ऽन्तेवासी भृतको ऽधिकर्मकृद् दास इति । तेषाम् आद्याश् चत्वारः कर्मकरा इत्य् उच्यन्ते । ते च शुभकर्मकारिणः । दासाः पुनर् गृहजातादयः पञ्चदशप्रकाराः । गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तद् इदं नारदेन स्पष्टीकृतम् ।

शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधाः कर्मकरास् तेषां दासास् त्रिपञ्चकाः ॥
शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकरा ज्ञेया दासास् तु गृहजादयः ॥
सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः ।
जातिकर्मकृतस् तूक्तो विशेषो वृत्तिर् एव च ॥
कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥
इच्छतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥ इति ॥ (न्स्म् ५.२–७)

तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वताम् अधिष्ठाताधिकर्मकृत् । अशुचिस्थानम् उच्छिष्टप्रक्षेपार्थं गर्तादिकम् । अवस्करो गृहमार्जितपांस्वादिनिचयस्थानम् । उज्झनं त्यागः । भृतकश् चात्र त्रिविधः । तद् उक्तम्

उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाही स्याद् इत्य् एवं त्रिविधो भृतः ॥ इति । (न्स्म् ५.२१)

दासाः पुनः-

गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥
मोक्षितो महतश् चर्णाद् युद्धप्राप्तः पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ (न्स्म् ५। २४–२६)

गृहे दास्यां जातो गृहजातः । क्रीतो मूल्येन लब्धः प्रतिग्रहादिना । दायाद् उपागतः पित्रादिदासः । अनाकालभृतो दुर्भिक्षे यो दासत्वाय मरणाद् रक्षितः । आहितः स्वामिना धनग्रहणेनाधितां नीतः । ऋणमोचनेन दासत्वम् अभ्युपगतो ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितो यद्य् अस्मिन् विवादे पराजितो ऽहं तदा त्वद्दासो भवामीति परिभाष्य जितः । तवाहम् इत्य् उपगतः तवाहं दास इति स्वयं संप्रतिपन्नः । प्रव्रज्यावसितः प्रव्रज्यातश् च्युतः । कृतः एतावत् कालं त्वद्दास इत्य् अभ्युपगमितः । भक्तदासः सर्वकालं भक्तार्थम् एव दासत्वम् अभ्युपगम्य यः प्रविष्टः । वडवाहृतः वडवा गृहदासी तयाहृतः तल्लोभेन ताम् उद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणिते ऽसाव् आत्मविक्रेतेत्य् एवं पञ्चदश प्रकाराः ॥ यत् तु मनुना,

ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ॥ (म्ध् ८.४१५)

इति सप्तविधत्वम् उक्तंम्, तत् तेषां दासत्वप्रतिपादनार्थं न तु परिसंख्यार्थम् । तत्रैषां शिष्यान्तेवासिभृतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्राग् एव प्रतिपादिता,

आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् । (य्ध् १.२७)

इत्यादिना । अधिकर्मकृद् भृतकानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते,

यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् । (य्ध् २.१९६)

इत्यादिना ॥

दासान्तेवासिनोस् तु धर्मविशेषं वक्तुम् आह ।

बलाद् दासीकृतश् चौरैर् विक्रीतश् चापि मुच्यते । २.१८२अब्
**स्वामिप्राणप्रदो भक्तत्यागात् तन् निष्क्रयाद् अपि ॥ २.१८२च्द् ॥ **

बलात् बलावष्टम्भेन यो दासीकृतः, यश् चौरैर् अपहृत्य विक्रीतः, अपिशब्दाद् आहितो दत्तश् च, स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः । उक्तं च नारदेन ।

चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोचयितव्यास् ते दास्यं तेषु हि नेष्यते ॥ इति । (न्स्म् ५.३६)

चौरव्याघ्राद्यवरुद्धस्य स्वामिनः प्राणान् यः प्रददाति रक्षत्य् असाव् अपि मोचयितव्यः । तद् इदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम्,

यो वैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्यते पुत्रभागं लभेत च ॥ (न्स्म्५.२८)

इति नारदस्मरणात् ॥ भक्तदासादीनां प्रातिस्विकम् अपि मोक्षकरणम् उच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्यागाद् दासभावाद् आरभ्य स्वामिद्रव्यं यावद् उपभुक्तं तावद् दत्त्वा मुच्येते । आहितर्णदासौ तु तन्निष्क्रयाद् यद् गृहीत्वा स्वामिना आहितो यच् च दत्त्वा धनिनोत्तमर्णान् मोचितस् तस्य निष्क्रयात् सवृद्धिकस्य प्रत्यर्पणान् मुच्यते । नारदेन विशेषो ऽप्युक्तः ।

अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ।
संभक्षितं यद् दुर्भिक्षे न तच् छुध्येत कर्मणा ॥ (न्स्म् ५.२९)
भक्तस्योत्क्षेपणात् सद्यो भक्तदासः प्रमुच्यते । (न्स्म् ५.३४)
आहितो ’पि धनं दत्त्वा स्वामी यद्य् एनम् उद्धरेत् ॥ (न्स्म् ५.३०)
ऋणं तु सोदयं दत्त्वा ऋणी दास्यात् प्रमुच्यते ॥ (न्स्म् ५.३१) इति ॥

तथा तवाहमित्युपगतयुद्धप्राप्तपणजितकृतकवडावाहृतानां च प्रातिस्विकं मोचनकारणं च तेनैवोक्तम् । यथा ।

तवाहम् इत्य् उपगतो युद्धप्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्येरंस् तुल्यकर्मणा ॥ (न्स्म् ५.३२)
कृतकालव्यपगमात् कृतको ऽपि विमुच्यते । (न्स्म् ५.३१)
निग्रहाद् वडवायास् तु मुच्यते वडवाहृतः ॥ (न्स्म् ५.३४) इति ।

दासेन सह संभोगनिरोधाद् इत्य् अर्थः । तद् एवं गृहजातक्रीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्राणप्रदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति । विशेषकारणानभिधानात् । दासमोक्षश् चानेन क्रमेण कर्तव्यः,

स्वं दासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।
स्कन्धाद् आदाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा ॥
साक्षताभिः सपुष्पाभिर् मूर्धन्य् अद्भिर् अवाकिरेत् ।
अदास इत्य् अथोक्त्वा त्रिः प्राङ्मुखं तम् अवासृजेत् ॥ (न्स्म् ५.४०–४१)

इति तेनैवोक्तम् ॥ २.१८२ ॥

प्रवज्यावसित्यस्य तु मोक्षो नास्तीत्य् आह ।

प्रव्रज्यावसितो राज्ञो दास आ मरणान्तिकम् । २.१८३अब्

प्रव्रज्या संन्यासस् ततो ऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चितश् चेद् राज्ञ एव दासो भवति मरणम् एव तद्दासत्वस्यान्तो ऽन्यस्मिन् काले न मोक्षो ऽस्ति ॥

वर्णापेक्षया दास्यव्यवस्थाम् आह ।

वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ २.१८३च्द् ॥

ब्राह्मणादीनां वर्णानाम् आनुलोम्येन दास्यम् । ब्राह्मणस्य क्षत्रियादयः, क्षत्रियस्य वैश्यशूद्रौ, वैश्यस्य शूद्र इत्य् एवम् आनुलोम्येन दासभावो भवति न प्रातिलोम्येन । स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वम् इष्यत एव । यथाह नारदः ।

वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥ इति ॥ (न्स्म् ५.३७) ॥२.१८३ ॥

अन्तेवासिधर्मान् आह ।

कृतशिल्पो ऽपि निवसेत् कृतकालं गुरोर् गृहे । २.१८४अब्
अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः ॥ २.१८४च्द् ॥

अन्तेवासी गुरोर् गृहे कृतकालं “वर्षचतुष्टयम् आयुर्वेदादिशिल्पशिक्षार्थं त्वद् गृहे वसामि” इति यावद् अङ्गीकृतं तावत् कालं वसेत्, यद्य् अपि वर्षचतुष्टयाद् अर्वाग् एव लब्धापेक्षितशिल्पविद्यः । कथं निवसेत् । गुरुप्राप्तभोजनः गुरोः सकाशात् प्राप्तं भोजनं येन स तथोक्तः । तत्फलप्रदः तस्य शिल्पस्य फलम् आचार्याय प्रददातीति तत्फलप्रदः । एवंभूतो वसेत् । नारदेन विशेषो ऽप्य् अत्र दर्शितः ।

स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कृत्वा कालं सुनिश्चितम् ॥
आचार्याः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥
शिक्षयन् तम् असंदुष्टं य आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽर्हति ॥
शिक्षितो ऽपि कृतं कालम् अन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥
गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शिक्षितश् चानुमान्यैनम् अन्तेवासी निवर्तते ॥ इति । (न्स्म् ५.१५–१९)

वधशब्दो ऽत्र ताडनार्थः दोषस्याल्पत्वात् ॥ २.१८४ ॥

इत्य् अभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम्

**अथ संविद्व्यतिक्रमप्रकरणम् **

संप्रति संविद्व्यतिक्रमः कथ्यते । तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम् ।

पाखण्डिनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥ (न्स्म् १०.१)

इति पारिभाषिकधर्मेण व्यवस्थानं समयः, तस्यानपाकर्माव्यतिक्रमः परिपालनं तद्व्यतिक्रम्यमाणं विवादपदं भवतीत्य् अर्थः ॥

तदुपक्रमार्थं किंचिद् आह ।

राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु । २.१८५अब्
त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ॥ २.१८५च्द् ॥

राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणान् न्यस्य स्थापयित्वा तद् ब्राह्मणजातं त्रैविद्यं वेदत्रयसंपन्नं वृत्तिमद् भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिर् अनुष्ठीयताम् इति तान् ब्राह्मणान् ब्रूयात् ॥ २.१८५

एवं नियुक्तैस् तैर् यत् कर्म कर्तव्यं तद् आह ।

निजधर्माविरोधेन यस् तु समयिको भवेत् । १८६अब्
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ १८६च्द् ॥

श्रौतस्मार्तधर्मानुपमर्देन समयान् निष्पन्नो यो धर्मो गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सो ऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्माविरोधेनैव यः सामयिको धर्मो “यावत्पथिकं भोजनं देयम् अस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीयाः” इत्य् एवंरूपः कृतः सो ऽपि रक्षणीयः ॥ २.१८६ ॥

एवं समयधर्मः परिपालनीय इत्य् उक्त्वा तदतिक्रमादौ दण्डम् आह ।

गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः । २.१८७अब्
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥ २.१८७च्द् ॥

यः पुनर् गणस्य ग्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यम् अपहरति संवित् समयस् तां समूहकृतां राजकृतां वा यो लङ्घयेद् अतिक्रामेत् तदीयं सर्वं धनम् अपहृत्य स्वराष्ट्राद् विप्रवासयेन् निष्कासयेत् ॥ अयं च दण्डो ऽनुबन्धाद्यतिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु,

यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥
निगृह्य दापयेद् एनं समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण्निष्काञ् शतमानं च राजतम् ॥ (म्ध् ८.२१९–२०)

इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषण्निष्कशतमानानां चतुर्णाम् अन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥ २.१८७ ॥

इदं च तैः कर्तव्यम् इत्य् आह ।

कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् । २.१८८अब्

गणिनां मध्ये ये समूहहितवादनशीलास् तद्वचनम् इतरैर् गणानाम् अन्तर्गतैर् अनुसरणीयम् ॥

अन्यथा दण्ड इत्य् आह ।

यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ २.१८८च्द् ॥

यस् तु गणिनां मध्ये समूहहितवादिवचनप्रतिबन्धकारी स राज्ञा प्रथमसाहसं दण्डनीयः ॥ २.१८८ ॥

राज्ञा चेत्थं गणिषु वर्तनीयम् इत्य् आह ।

**समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् । २.१८९अब् **
**स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ २.१८९च्द् ॥ **

समूहकार्यनिवृत्त्यर्थं स्वपार्श्वं प्राप्तान् गणिनो निर्वर्तितात्मीयप्रयोजनान् दानमानसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ २.१८९ ॥

समूहदत्तापहारिणं प्रत्य् आह ।

समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् । २.१९०अब्
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥ २.१९०च्द् ॥

समूहकार्यार्थं महाजनैः प्रेरितो राजपार्श्वे यद् धिरण्यवस्त्रादिकं लभते तद् अप्रार्थित एव महाजनेभ्यो निवेदयेत् । अन्यथा लब्धाद् एकादशगुणं दण्डं दापनीयः ॥ २.१९० ॥

एवंप्रकाराश् च कार्यचिन्तकाः कार्या इत्य् आह ।

धर्मज्ञाः शुचयो ऽलुब्धा भवेयुः कार्यचिन्तकाः । २.१९१अब्
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ २.१९१च्द् ॥

श्रौतस्मार्तधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्व् अलुब्धाः कार्यविचारकाः कर्तव्याः । तेषां वचनम् इतरैः कार्यम् इत्य् एतद् आदरार्थं पुनर्वचनम् ॥ २.१९१ ॥

इदानीं त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्यादिष्व् अतिदिशन्न् आह ।

श्रेणिनैगमपाखण्डिगणानाम् अप्य् अयं विधिः । २.१९२अब्
भेदं चैषां नृपो रक्षेत् पूर्ववृत्तिं च पालयेत् ॥ २.१९२च्द् ॥

एकपण्यशिल्पोपजीविनः श्रेणयः । नैगमाः ये वेदस्याप्तप्रणीतत्वेन प्रामाण्यम् इच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेदस्य प्रामाण्यम् एव नेच्छन्ति नग्नाः सौगतादयः । गणो व्रात आयुधीयादीनाम् एककर्मोपजीविनां । एषां चतुर्विधानाम् अप्य् अयम् एव विधिर् यो “निजधर्माविरोधेन” (य्ध् २.२.१८६) इत्यादिना प्रतिपादितः । एतेषां च श्रेण्यादीनां भेदं धर्मव्यवस्थानं नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च पालयेत् ॥ २.१९२ ॥

**इति संविद्व्यतिक्रमप्रकरणम् **

**अथ वेतनादानप्रकरणम् **

संप्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम् ।

भृत्यानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ इति । (न्स्म् ६.१)

अस्यार्थः- भृत्यानां वेतनस्य वक्ष्यमाणश्लोकैर् उक्तो दानादानविधिक्रमो यत्र विवादपदे तद् वेतनस्यानपाकर्मेत्य् उच्यते ।

तत्र निर्णयम् आह ।

गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् । २.१९३अब्
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ २.१९३च्द् ॥

गृहीतं वेतनं येनासौ स्वाङ्गीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृतिं स्वामिने दद्यात् । यदा पुनर् अभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं यावद् वेतनम् अभ्युपगतं तावाद् दाप्यो न द्विगुणम् । यद् वाङ्गीकृतां भृतिं दत्त्वा बलात् कारयितव्यः,

कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् । (न्स्म् ६.५)

इति नारदवचनात् । भृतिर् अपि तेनैवोक्ता ।

भृत्याय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् ।
आदौ मध्ये ऽवसाने वा कर्मणो यद् विनिश्चितम् ॥ इति । (न्स्म् ६.२)

तैश् च भृत्यैर् उपस्कर उपस्करणं लाङ्गलादीनां प्रग्रहयोक्त्रादिकं यथाशक्त्या रक्षणीयम्, इतरथा कृष्यादिनिष्पत्त्यनुपपत्तेः ॥ २.१९३ ॥

भृतिम् अपरिच्छिद्य यः कर्म कारयति तं प्रत्य् आह ।

दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः । २.१९४अब्
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥ २.१९४च्द् ॥

यस् तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनम् एव भृत्यं कर्म कारयति, स तस्माद् वाणिज्यपशुसस्यलक्षणात् कर्मणो यल् लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीयः ॥ २.१९४ ॥

अनाज्ञप्तकारिणं प्रत्य् आह ।

देशं कालं च यो ऽतीयाल् लाभं कुर्याच् च यो ऽन्यथा । २.१९५अब्
तत्र स्यात् स्वामिनश् छन्दो ऽधिकं देयं कृते ऽधिके ॥ २.१९५च्द् ॥

यस् तु भृत्यः पण्यविक्रयाद्युचितं देशं कालं च पण्यविक्रयाद्य् अकुर्वन् दर्पादिनोल्लङ्घयेत् तस्मिन्न् एव वा देशे काले च लाभम् अन्यथा व्ययाद्यतिशयसाध्यतया हीनं करोति तस्मिन् भृतके भृतिदानं प्रति स्वामिनश् छन्द इच्छा भवेत्, यावद् इच्छति तावद् दद्यान् न पुनः सर्वाम् एव भृतिम् इत्य् अर्थः । यदा पुनर् देशकालाभिज्ञतयाधिको लाभः कृतस् तदा पूर्वपरिच्छन्नाय भृतेर् अधिकम् अपि धनं स्वामिना भृत्याय दातव्यम् ॥ २.१९५ ॥

अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारम् आह ।

यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् । २.१९६अब्
उभयोर् अप्य् असाध्यं चेत् साध्ये कुर्याद् यथाश्रुतम् ॥ २.१९६च्द् ॥

यदा पुनर् एकम् एव कर्म नियतवेतनम् उभाभ्यां क्रियमाणं उभयोर् अप्य् असाध्यं चेद् व्याध्याद्यभिभवाद् उभाभ्याम् अपि शब्दाद् बहुभिर् अपि यदि न परिसमापितं तदा यो भृत्यो यावत् कर्म करोति तावत् तस्मै तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं न पुनः समम् । न चावयवशः कर्मणि वेतनस्यापरिभाषितत्वाद् अदानम् इति मन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत् परिभाषितं तावद् उभाभ्यां देयं न पुनः प्रत्येकं कृत्स्नं वेतनं नापि कर्मानुरूपं परिकल्प्य देयम् ॥ २.१९६ ॥

आयुधीयभारवाहकौ प्रत्य् आह ।

अराजदैविकं नष्टं भाण्डं दाप्यस् तु वाहकः । २.१९७अब्
प्रस्थानविघ्नकृच् चैव प्रदाप्यो द्विगुणां भृतिम् ॥ २.१९७च्द् ॥

न विद्यते राजदैविकं यस्य भाण्डस्य तत् तथोक्तम् । तद् यदि प्रज्ञाहीनतया वाहकेन नाशितं तदा नाशानुसारेणासौ तद् भाण्डं दापनीयः । तद् आह नारदः ।

भाण्डं व्यसनम् आगच्छेद् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नश्येत् तु दैवराजकृताद् ऋते ॥ इति । (न्स्म् ६.१०)

यः पुनर् विवाहाद्यर्थं मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौपयिकं कर्म प्राग् अङ्गीकृत तदानीं न करिष्यामीति प्रस्थानविघ्नम् आचरति तदासौ द्विगुणां भृतिं दप्यः, अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ २.१९७ ॥

किं च ।

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् । २.१९८अब्
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजको ऽपि च ॥ २.१९८च्द् ॥

प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस् त्यजत्य् असौ भृतेः सप्तमं भागं दाप्यः । ननु अत्रैव विषये प्रस्थानविघ्नकृद् इत्यादिना द्विगुणभृतिदानम् उक्तम्, इदानीं सप्तमो भाग इति विरोधः । उच्यते । भृत्यान्तरोपादानावसरसंभवे स्वाङ्गीकृतं कर्म यस् त्यजति तस्य सप्तमो विभागः । यस् तु प्रस्थानलग्नसमय एव त्यजति तस्य द्विगुणभृतिदानम् इत्य् अविरोधः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश् चतुर्थं भागं दाप्यः । अर्धपथे पुनः सर्वां भृतिं दाप्यः । यस् तु त्याजकः कर्मात्यजन्तं त्याजयति स्वामी पूर्वोक्तप्रदेशेष्व् असाव् अपि पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः । एतच् चाव्याधितादिविषयम्,

भृत्यो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोचितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं तस्य वेतनम् ॥ (म्ध् ८.२१५)

इति मनुवचनात् । यदा पुनर् व्याधाव् अपगते ऽन्तरितदिवसान् परिगणय्य पूरयति तदा लभत एव वेतनम्,

आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः ।
स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ॥ (म्ध् ८.२१६)

इति मनुस्मरणात् ॥ यस् त्व् अपगतव्याधिः स्वस्थ एव वालस्यादिना स्वारब्धं कर्माल्पोनं न करोति परेण वा न समापयति तस्मै वेतनं न देयम् इति । यथाह मनुः ।

यथोक्तम् आर्तः स्वस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥ इति ॥ (म्ध् ८.२१७) २.१९८ ॥

इति वेतनादानप्रकरणम्

अथ द्यूतसमाह्वयप्रकरणम्

अधुना द्यूतसमाह्वयाख्यं विवादपदम् अधिक्रियते । तत्स्वरूपं च नारदेनाभिहितम् ।

अक्षवध्रशलाकाद्यैर् देवनं जिह्मकारितम् ।
पणक्रीडावयोभिश् च पदं द्यूतसमाह्वयम् ॥ इति । (न्स्म् १७.१)

अक्षाः पाशकाः । वध्रश् चर्मपट्टिका । शलाका दन्तादिमय्यो दीर्घचतुरस्राः । आद्यग्रहणाच् च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैर् अप्राणिभिर् यद् देवनं क्रीडा पणपूर्विका क्रियते, तथा वयोभिः पक्षभिः कुक्कुटपारावतादिभिः च शब्दान् मल्लमेषमहिषादिभिश् च प्राणिभिर् या पणपूर्विका क्रीडा क्रियते, तद् उभयं यथाक्रमेण द्यूतसमाह्वयाख्यं विवादपदम् । द्यूतं च समाह्वयश् च द्यूतसमाह्वयम् । तद् उक्तम् मनुना ।

अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियमाणस् तु स विज्ञेयः समाह्वयः ॥ इति ॥ (म्ध् ९.२२३)

तत्र द्यूतसभाधिकारिणो वृत्तिम् आह ।

ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम् । २.१९९अब्
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम् ॥ २.१९९च्द् ॥

परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्य् उच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तद् अधिकपरिमाणा वा व्र्द्धिर् यस्यासौ शतिकवृद्धिस् तस्माद् धूर्तकितवात् पञ्चकं शतम् आत्मवृत्त्यर्थं सभिको गृह्नीयात् । पञ्चपणा आयो यस्मिन् शते तत् पञ्चकं शतम् । “तद् अस्मिन् वृद्ध्यायलाभ-” (पाण् ५.१.४७) इत्यादिना कन् । जितग्लहस्य विंशतितमं भागं गृह्नीयाद् इत्य् अर्थः । सभा कितवनिवासार्था, यस्यास्त्य् असौ सभिकः । कल्पिताक्षादिनिखिलक्रीडोपकरणस् तदुपचितद्रव्योपजीवी सभापतिर् उच्यते । इतरस्मात् पुनर् अपि पूर्णशतिकवृद्धेः कितवाद् दशकं शतं जितद्रव्यस्य दशमं भागं गृह्नीयाद् इति यावत् ॥ २.१९९ ॥

एवं कॢप्तवृत्तिना सभिकेन किं कर्तव्यम् इत्य् आह ।

स सम्यक् पालितो दद्याद् राज्ञे भागं यथाकृतम् । २.२००अब्
जितम् उद्ग्राहयेज् जेत्रे दद्यात् सत्यं वचः क्षमी ॥ २.२००च्द् ॥

य एवं कॢप्तव्र्त्तिर् द्यूताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस् तस्मै राज्ञे यथा संप्रतिपन्नम् अंशं दद्यात् । तथा जितं यद् द्रव्यं तद् उद्ग्राहयेत् बन्धकग्रहणेनासेधादिना च पराजितसकाशाद् उद्धरेत् । उद्धृत्य च तद् धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थं द्यूतकारिणां दद्यात् । तद् उक्तं नरदेन ।

सभिकः कारयेद् द्यूतं देयं दद्याच् च तत्कृतम् इति । (न्स्म् १७.२) २.२०० ॥

यदा पुनः सभिको दापयितुं न शक्नोति तदा राजा दापयेद् इत्य् आह ।

प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । २.२०१अब्
जितं ससभिके स्थाने दापयेद् अन्यथा न तु ॥ २.२०१च्द् ॥

प्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवसमाजे सभिकेन च राजाभागे दत्ते राजा धूर्तकितवम् अविप्रतिपन्नं जितं पणं दापयेत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे द्यूते जितपणं जेत्रे न दापयेत् ॥ २.२०१ ॥

जयपराजयविप्रतिपत्तौ निर्णयोपायम् आह ।

द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि । २.२०२अब्

द्यूतव्यवहाराणां द्रष्टारः सभ्यास् त एव कितवा एव राज्ञा नियोक्तव्याः । न तत्र श्रुताध्ययनसंपन्ना इत्यादिर् नियमो ऽस्ति । साक्षिणश् च द्यूते द्यूतकारा एव कार्याः । न तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधो ऽस्ति ॥

क्वचिद् द्यूतं निषेद्धुं दण्डम् आह ।

राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ॥ २.२०२च्द् ॥

कूटैर् अक्षादिभिर् उपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान् निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्तः ।

कूटाक्षदेविनः पापान् राजा राष्ट्राद् विवासयेत् ।
कण्ठे ऽक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥ इति । (न्स्म् १७.६)

यानि च मनुवचनानि द्यूतनिषेधपराणि,

द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा ।
तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गितः ॥ (म्ध् ९.२२४)

इत्यादीनि तान्य् अपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया योज्यानि ॥ २.२०२ ॥

किं च ।

द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात् । २.२०३अब्

यत् पूर्वोक्तं द्यूतं तद् एकमुखं एकं मुखं प्रधानं यस्य द्यूतस्य तत् तथोक्तं कार्यम् । राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यम् इत्य् अर्थः, तस्करज्ञानकारणात् । तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायशश् चौर्यार्जितधना एव कितवा भवन्ति, अतश् चौरविज्ञानार्थम् एकमुखं कार्यम् ॥

द्यूतधर्मं समाह्वये ऽतिदिशन्न् आह ।

एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्वये ॥ २.२०३च्द् ॥

“ग्लहे शतिकवृद्धेः” (य्ध् २.१९९) इत्यादिना यो द्यूतधर्म उक्तः स एव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसंज्ञके ज्ञातव्यः ॥ २.२०३ ॥

**इति द्यूतसमाह्वयाख्यं प्रकरणम् **

अथ वाक्पारुष्यप्रकरणम्

इदानीं वाक्पारुष्यं प्रस्तूयते । तल्लक्षणं चोक्तं नारदेन ।

देशजातिकुलादीनाम् आक्रोशं न्यङ्गसंयुतम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते । इति । (न्स्म् १५–१६.१)

देशादीनाम् आक्रोशं न्यङ्गसंयुतम् । उच्चैर् भाषणम् आक्रोशः, न्यङ्गम् अवद्यं तदुभययुक्तं यत् प्रतिकूलार्थम् उद्वेगजननार्थं वाक्यं तद् वाक्पारुष्यं कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति जात्याक्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणात् स्वविद्याशिल्पादिनिन्दया विद्वच्छिल्पादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थं निष्ठुरादिभेदेन त्रैविध्यम् अभिधाय तल्लक्षणं तेनैवोक्तं ।

निष्ठुराश्लीलतीव्रत्वाद् अपि तत् त्रिविधं स्मृतम् ।
गौरवानुक्रमात् तस्य दण्डो ऽपि स्यात् क्रमाद् गुरुः ॥
साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् ।
पतनीयैर् उपाक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥ इति । (न्स्म् १५–१६.२–३)

तत्र धिङ् मूर्खं जाल्मम् इत्यादि साक्षेपम् । अत्र न्यङ्गम् इत्य् असभ्यम् । अवद्यं भगिन्यादिगमनं तद्युक्तम् अश्लीलम् । सुरापो ऽसीत्यादिमहापातकाद्याक्रोशैर् युक्तं वचस्तीव्रम् ॥

तत्र निष्ठुराक्रोशे सवर्णविषये दण्डम् आह ।

सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम् । २.२०४अब्
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान् ॥ २.२०४च्द् ॥

न्यूनाङ्गाः करचरणादिविकलाः । न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः । रोगिणो दुश्चर्मप्रभृतयः । तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । यत्र नेत्रयुगलहीन एषो ऽन्ध इत्य् उच्यते तत् सत्यम् । यत्र पुनश् चक्षुष्मान् एवान्ध इत्य् उच्यते तद् असत्यम् । यत्र विकृताकृतिर् एव दर्शनीयस् त्वम् असीत्य् उच्यते तद् अन्यथास्तोत्रम् । एवंविधैर् यः क्षेपं निर्भर्त्सनं करोत्य् असौ अर्धाधिकत्रयोदशपणान् दण्डनीयः ।

काणं वाप्य् अथवा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ (म्ध् ८.२७४)

इति यन् मनुवचनं तद् अतिदुर्वृत्तवर्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनैवोक्तम् ।

मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।
आक्षारयञ् शतं दाप्यः पन्थानं चाददद् गुरोः ॥ इति । (म्ध् ८.२७५)

एत च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २.२०४ ॥

अश्लीलाक्षेपे दण्डम् आह ।

अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । २.२०५अब्
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥ २.२०५च्द् ॥

“त्वदीयां भगिनीं मातरं वा अभिगन्तास्मि” इति शपन्तं अन्यां वा त्वज्जायाम् अभिगन्तेत्य् एवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर् यस्मिन् दण्डे स तथोक्तस् तं दमं दापयेत् ॥ २.२०५ ॥

एवं समानगुणेषु वर्णिषु दण्डम् अभिधाय विषमगुणेषु दण्डं प्रतिपादयितुम् आह ।

अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । २.२०६अब्

अधमेष्व् आक्षेप्त्रापेषया न्यूनवृत्तादिगुणेष्व् अर्धो दण्डः । पूर्ववाक्ये पञ्चविंशतेः प्रकृतत्वात् तदपेक्षार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनर् अविशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः । तथोत्तमेषु च स्वापेक्षयाधिकश्रुतवृत्तेषु दण्डः पञ्चाशत्पणात्मक एव ॥

वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनाम् आह ।

**दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २.२०६च्द् ॥ **

वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्ताद्याः । वर्णाश् च जातयश् च वर्णजातयः । उत्तराश् च अधराश् च उत्तराधराः, वर्णजातयश् च ते उत्तराधराश् च वर्णजात्युत्तराधराः, तैः वर्णजात्युत्तराधरैः परस्परम् आक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनम् ऊहनं वेदितव्यम् । तच् च दण्डकल्पनम् उत्तराधरैर् इति विशेषेणोपादानाद् उत्तराधरभावापेक्षयैव कर्तव्यम् इत्य् अवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद् धीनं क्षत्रियाद् उत्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात् प्रञ्चाशत्पणदण्डात् किंचिदधिकं पञ्च सप्तत्यात्मकं दण्डम् अर्हति, क्षत्रियो ऽपि तम् आक्रुश्य ब्राह्मणाक्षेपनिमित्ताच् छतदण्डाधीनं पञ्चसप्ततिम् एव दण्डम् अर्हति । मूर्धावसिक्तो ऽपि ताव् आक्रुश्य तम् एव दण्डम् अर्हति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तकौ यथाक्रमेण दण्डौ वेदितव्यौ । एवम् अन्यत्राप्य् ऊहनीयम् ॥ २.२०६ ॥

एवं सवर्णविषये दण्डम् अभिधाय वर्णानाम् एव प्रतिलोमानुलोमाक्षेपे दण्डम् आह ।

प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । २.२०७अब्
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ २.२०७च्द् ॥

अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादास् तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर् यथाक्रमेण पूर्ववाक्याद् द्विगुणपदोपात्तपञ्चाशत्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा भवति । यथाह मनुः ।

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽध्यर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ इति । (म्ध् ८.२६७)

विट्शूद्रयोर् अपि क्षत्रियाद् अनन्तरैकान्तरयोस् तुल्यन्यायतया शतम् अध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य च वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविट्शूद्राणां ब्राह्मणेनाक्रोशे कृते तस्माद् ब्राह्मणाक्रोशनिमित्ताच् छतपरिमितात् क्षत्रियदण्डात् प्रतिवर्णम् अर्धस्यार्धस्य हानिं कृत्वावशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तद् उक्तं मनुना ।

पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ इति ॥ (म्ध् ८.२६८)

क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथाक्रमं पञ्चाशत्पञ्चविंशतिकौ दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशद् इत्य् ऊहनीयम्, “ब्राह्मणराजन्यवत् क्षत्रियवैश्ययोः” (ग्ध् १२.१४) इति गौतमस्मरणात्, “विट्शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः” (म्ध् ८.२७७) इति मनुस्मरणाच् च ॥ २.२०७ ॥

पुनर् निष्टुराक्षेपम् अधिकृत्याह ।

बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । २.२०८अब्
शत्यस् तदर्धिकः पादनासाकर्णकरादिषु ॥ २.२०८च्द् ॥

बाह्वादीनां प्रत्येकं विनाशे वाचिके वाचा प्रतिपादिते “तव बाहू छिनद्मि” इत्य् एवंरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरादिषु आदिग्रहणात् स्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्धं तदर्धं तद् यस्यास्त्य् असौ तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २.२०८ ॥

किं च ।

अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश । २.२०९अब्
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २.२०९च्द् ॥

यः पुनर् ज्वरादिना क्षीणशक्तिस् “त्वद्बाह्वाद्यङ्गभङ्गं करोमि” इत्य् एवं शपत्य् असौ दश पणान् दण्डनीयः । यः पुनः समर्थः क्षीणशक्तिं पूर्ववद् आक्षिपत्य् असौ पूर्वोक्तशतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थं प्रतिभुवं दापनीयः ॥ २.२०९ ॥

तीव्राक्रोशे दण्डम् आह ।

पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । २.२१०अब्
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २.२१०च्द् ॥

पातित्यहेतुभिर् ब्रह्महत्यादिभिर् वर्णिनाम् आक्षेपे कृते मध्यमसाहसं दण्डः । उपपातकसंयुक्ते पुनर् गोघ्नस्त्वम् असीत्य् एवमादिरूपे क्षेपे प्रथमसाहसं दण्डनीयः ॥ २.२१० ॥

किं च ।

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । २.२११अब्
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २.२११च्द् ॥

त्रैविद्याः वेदत्रयसंपन्नास् तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर् ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास् तेषाम् आक्षेपे मध्यमसाहसो दण्डः । ग्रामदेशयोः प्रत्येकम् आक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥ २.२११ ॥

**इति वाक्पारुष्यं नाम विवादपदप्रकरणम् **

अथ दण्डपारुष्यप्रकरणम्

संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम् ।

परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश् चोपघातो दण्डपारुष्यम् उच्यते ॥ इति । (न्स्म् १५–१६.४)

परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैर् आदिग्रहणाद् ग्रावादिभिर् यो ऽभिद्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद् रजःपङ्कपुरीषाद्यैश् च य उपह्गातः संस्पर्शनरूपं मनोदुःखोत्पादनं तद् उभयं दण्डपारुष्यम् । दण्ड्यते ऽनेनेति दण्डो देयस् तेन यत् पारुष्यं विरुद्धाचरणं जङ्गमादेर् द्रव्यस्य तद् दण्डपारुष्यम् । तस्य चावगोरणादिकारणभेदेन त्रैविद्यम् अभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्मत्रैविद्यात् पुनस् त्रैविद्यं तेनैवोक्तम् ।

तस्यापि दृष्टं त्रैविद्यं हीनमध्योत्तमक्रमात् ।
अवगोरणनिःसङ्गपातनक्षतदर्शनैः ॥
हीनमध्योत्तमानां च द्रव्याणां समतिक्रमात् ।
त्रीण्य् एव साहसान्य् आहुस् तत्र कण्टकशोधनम् ॥ इति । (न्स्म् १५–१६.५–६)

निःसङ्गपातनं निःशङ्गप्रहरणं । त्रीण्य् एव साहसानि त्रिपकाराण्य् एव । सहसा कृतानि दण्डपारुष्याणीत्य् अर्थः । तथा वाग्दण्डपारुष्ययोर् उभयोर् अपि द्वयोः प्रवृत्तकलहयोर् मध्ये यः क्षमते तस्य न केवलं दण्डाभावः किं तु पूज्य एव । तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुर् एव दण्डभाक्त्वम् । तथा तयोर् द्वयोर् अपराधविशेषापरिज्ञाने दण्डः समः । तथा श्वपचादिभिर् आर्याणाम् अपराधे कृते सज्जना एव दण्डदापने ऽधिकारिणः, तेषाम् अशक्यत्वे तान् राजा घातयेद् एव, नार्थं गृह्नीयाद् इत्य् एवं पञ्च प्रकारा विधयस् तेनैवोक्ताः ।

विधिः पञ्चविधस् तूक्त एतयोर् उभयोर् अपि ।
पारुष्ये सति संरम्भाद् उत्पन्ने क्रुद्धयोर् द्वयोः ॥
स मन्यते यः क्षमते दण्डभाग्यो ऽतिवर्तते ।
पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ॥
पञ्चाद्यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ।
द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुनः ॥
स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वेतरः ।
पारुष्यदोषावृतयोर् युगपत्संप्रवृत्तयोः ॥
विशेषश् चेन् न लक्ष्यते विनयः स्यात् समस्तयोः ।
श्वपाकषण्डचण्डालव्यङ्गेषु वधवृत्तिषु ॥
हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च ।
मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥
यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जनं नृषु ।
स एव विनयं कुर्यान् नूनं विनयभाङ् नृपः ॥
मला ह्य् एते मनुष्याणां धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ इति ॥ (न्स्म् १५–१६.७–१५)

एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वाद् दण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णयहेतुम् आह ।

असाक्षिकहते चिह्नैर् युक्तिभिश् चागमेन च । २.२१२अब्
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृतो भयात् ॥ २.२१२च्द् ॥

यदा कश्चिद् रहस्य् अहम् अनेन हत इति राज्ञे निवेदयति तदा चिह्नैर् वर्णादिस्वरूपगतैर् लिङ्गैर् युक्त्या कारणप्रयोजनपर्यालोचनात्मिकया आगमेन जनप्रवादेन चशब्दाद् दिव्येन वा कूटचिह्नकृतसंभावनाभयात् परीक्षा कार्या ॥ २.२१२ ॥

एवं निश्चिते साधनविशेषेण दण्डविशेषम् आह ।

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । २.२१३अब्
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणस् ततः ॥ २.२१३च्द् ॥
समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च । २.२१४अब्
हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् ॥ २.२१४च्द् ॥

भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्य् असौ दशपणं दण्डं दाप्यः । अमेध्यम् इत्य् अश्रुश्लेष्मनखकेशकर्णविट्दूषिकाभुक्तोच्छिष्टादिकं च गृह्यते । पार्ष्णिः पादस्य पश्चिमो भागः । निष्ठ्यूतं मुखनिःसारितं जलम् । तैः स्पर्शने ततः पूर्वाद् दशपणाद् द्विगुणो विंशतिपणो दण्डो वेदितव्यः ॥ पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः ।

छर्दिमूत्रपुरीषाद्यैर् आपाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान् मूर्घ्नि त्व् अष्टगुणः स्मृतः ॥ इति । (क्स्म् ७८४)

आद्यग्रहणाद् वसाशुक्रासृङ्मज्जानो गृह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः, परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाधिकश्रुतवृत्तेषु पूर्वोक्ताद् दशपणाद् विंशतिपणाच् च दण्डाद् द्विगुणो दण्डो वेदितव्यः । हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः पञ्चपणो दशपणश् च वेदितव्यः । मोहश् चित्तवैकल्यम् । मदो मद्यपानजन्यो ऽवस्थाविशेषः । आदिग्रहणाद् ग्रहावेशादिकम् । एतैर् युक्तेन भस्मादिस्पर्शने कृते ऽपि दण्डो न कर्तव्यः ॥ २.२१३ ॥ २.२१४ ॥

प्रातिलोम्यापराधे दण्डम् आह ।

विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु । २.२१५अब्
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २.२१५च्द् ॥

ब्राह्मणानां पीडाकरम् अब्राह्मणस्य क्षत्रियादेर् यद् अङ्गं करचरणादिकं तच् छेत्तव्यम् । क्षत्रियवैश्ययोर् अपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनम् एव ।

येन केनचिद् अङ्गेन हिंस्याच् छ्रेयांसम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥ इति । (म्ध् ८.२७९)

द्विजातिमात्रस्यापराधे शूद्रस्याण्गच्छेदविधानाद् वैश्यस्यापि क्षत्रियापकारिणो ऽयम् एव दण्डस् तुल्यन्यायत्वात् । उद्गूर्णे वधार्थम् उद्यते शस्त्रादिके प्रथमसाहसो दण्डो वेदितव्यः । शूद्रस्य पुनर् उद्गूर्णे ऽपि हस्तादिच्छेदनम् एव,

पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति । (म्ध् ८.२८०)

इति मनुस्मरणात् ॥ उद्गूरणार्थं शस्त्रादिस्पर्शने तु तदर्धिकः प्रथमसाहसाद् अर्धदण्डो वेदितव्यः ॥ भस्मादिसंस्पर्शे पुनः क्षत्रियवैश्ययोः “प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः” (य्ध् २.२०७) इति वाक्पारुष्योक्तन्यायेन कल्पयम् । शूद्रस्य तत्रापि हस्तच्छेद एव,

अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥ (म्ध् ८.२८२)

इति मनुस्मरणात् ॥ २.२१४ ॥

एवं प्रातिलोम्यापराधे दण्डम् अभिधाय, पुनः सजातिम् अधिकृत्याह ।

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ । २.२१६अब्
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २.२१६च्द् ॥

हस्ते पादे वा ताडनार्थम् उद्गूर्णे यथाक्रमं दशपणो विंशतिपणश् च दण्डो वेदितव्यः । परस्परवधार्थं शास्त्रे उद्गूर्णे सर्वेषां वर्णिनां मध्यमसाहसो दण्डः ॥ २.२१६ ॥

किं च ।

पादकेशांशुककरोल्लुञ्चनेषु पणान् दश । २.२१७अब्
पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥ २.२१७च्द् ॥

पादकेशवस्त्रकराणाम् अन्यतमं गृहीत्वा य उल्लुञ्चति झटित्य् आकर्षयत्य् असौ दशपणान् दण्ड्यः । पीडा च कर्षश् चांशुकावेष्टश् च पादाध्यासश् च पीडाकर्षांशुकावेष्टपादाध्यासं तस्मिन् समुच्चिते शतं दण्ड्यः । एतद् उक्तं भवति । अंशुकेनावेष्ट्य गाढम् आपीड्याकृष्य च यः पादेन घट्टयति तं शतं पणान् दापयेद् इति ॥ २.२१७ ॥

किं च ।

शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर् नरः । २.२१८अब्
द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शने ऽसृजः ॥ २.२१८च्द् ॥

यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्टलोष्टादिभिः करोत्य् असौ द्वात्रिंशतं पणान् दण्ड्यः ॥ यदा पुनर् गाढताडनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्टिपणान् दण्डनीयः । त्वङ्मांसास्थिभेदे पुनर् विशेषो मनुना दर्शितः ।

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्निष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥ इति ॥ (म्ध् ८.२८४) २.२१८ ॥

किं च ।

करपाददतो भङ्गे छेदने कर्णनासयोः । २.२१९अब्
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २.२१९च्द् ॥

करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च प्रत्येकं छेदने रूढव्रणस्योद्भेदने मृतकल्पो यथा भवति तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादिना विषयस्य साम्यमत्रापादनीयम् ॥ २.२१९ ॥

किं च ।

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । २.२२०अब्
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥ २.२२०च्द् ॥

गमनभोजनभाषणनिरोधे नेत्रस्य आदिग्रहणाज् जिह्वायाश् च प्रतिभेदने । कन्धरा ग्रीवा, बाहुः प्रसिद्धः, सक्थि ऊरुस् तेषां प्रत्येकं भञ्जने मध्यमसाहसो दण्डः ॥ २.२२० ॥

अपि च ।

एकं घ्नतां बहूनां च यथोक्ताद् द्विगुणो दमः । २.२२१अब्

यदा पुनर् बहवो मिलिता एकस्याङ्गभङ्गादिकं कुर्वन्ति तदा यस्मिन् यस्मिन् अपराधे यो यो दण्ड उक्तस् तत्र तस्माद् द्विगुणो दण्डः प्रत्येकं वेदितव्यः । अतिक्रूरत्वात् तेषां प्रातिलोम्यानुलोम्यापराधयोर् अप्य् एतस्यैव सवर्णविषये ऽभिहितस्य दण्डजातस्य वाक्पारुष्योक्तक्रमेण हानिं वृद्धिं च कल्पयेत्,

वाक्पारुष्ये य एवोक्तः प्रतिलोम्यानुलोमतः ।
स एव दण्डपारुष्ये दाप्यो राज्ञा यथाक्रमम् ॥ (क्स्म् ७८६)

इति स्मरणात् ॥

किं च ।

कलहापहृतं देयं दण्डश् च द्विगुणस् ततः ॥ २.२२१च्द् ॥

कलहे वर्तमाने यद् येनापहृतं तत् तेन प्रत्यर्पणीयम् । अपहृतद्रव्याद् द्विगुणश् चापहारनिमित्तो दण्डो देयः ॥ २.२२१ ॥

किं च ।

दुःखम् उत्पादयेद् यस् तु स समुत्थानजं व्ययम् । २.२२२अब्
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ २.२२२च्द् ॥

यो यस्य ताडनाद् दुःखम् उत्पादयेत् स तस्य व्रणरोपणादौ औषधार्थं पथ्यार्थं च यो व्ययः क्रियते तं दद्यात् । समुत्थानं व्रणरोपणम् । यस्मिन् कलहे यो दण्डस् तं च दद्यान् न पुनः समुत्थानजव्ययमात्रम् ॥ २.२२२ ॥

परगात्राभिद्रोहे दण्डम् उक्त्वानन्तरं बहिरङ्गार्थनाशे दण्डम् आह ।

अभिघाते तथा छेदे भेदे कुड्यावपातने । २.२२३अब्
पणान् दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥ २.२२३च्द् ॥

मुद्गरादिना कुड्यस्याभिघाते विदारणे द्विधाकरणे च यथाक्रमं पञ्चपणो दशपणो विंशतिपणश् च दण्डो वेदितव्यः । अवपातने पुनः कुड्यस्यैते त्रयो दण्डाः समुच्चिता ग्राह्याः । पुनः कुड्यसंपादनार्थं च धनं स्वामिने दद्यात् ॥ २.२२३ ॥

अपि च ।

दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा । २.२२४अब्
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥ २.२२४च्द् ॥

परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन् षोडशपणान् दण्ड्यः । प्राणहरं पुनर् विषभुजङ्गादिकं प्रक्षिपन् मध्यमसाहसं दण्ड्यः ॥ २.२२४ ॥

पश्वभिद्रोहे दण्डम् आह ।

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा । २.२२५अब्
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २.२२५च्द् ॥

क्षुद्राणां पशुनाम् अजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्स्त्रावणे शाखाङ्गच्छेदने, शाखाशब्देन चात्र प्राणसंचाररहितं शृङ्गादिकं लक्ष्यते, अङ्गानि करचरणप्रभृतीनि, शाखा चाङ्गं च शाखाङ्गं, तस्य छेदने द्विपणप्रभृतिर्दण्डः । द्वौ पणौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिर् आदिर् यस्य दण्डगणस्यासौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश् चतुःपणः षट्पणो ऽष्टपण इत्येवंरूपो न पुनर् द्विपणस् त्रिपणश् चतुष्पणः पञ्चपण इति । कथम् इति चेद्, उच्यते । अपराधगुरुत्वात् तावत् प्रथमदण्डाद् गुरुतरम् उपरितनं दण्डत्रितयम् अवगम्यते । तत्र चाश्रुतत्रित्वादिसंख्याश्रयणाद् वरं श्रुतिद्विसंख्याया एवाभ्यासाश्रयणेन गुरुत्वसंपादनम् इति निरवद्यम् ॥ २.२२४ ॥

किं च ।

ल्इङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च । २.२२६अब्
महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥ २.२२६च्द् ॥

तेषां क्षुद्रपशूनं लिङ्गछेदने मरणे च मध्यमसाहसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापशूनां पुनर् गोगजवाजिप्रभृतीनाम् एतेषु स्थानेषु ताडनलोहितस्रावणादिषु निमित्तेषु पूर्वोक्ताद् दण्डाद् द्विगुणो दण्डो वेदितव्यः ॥ २.२२६ ॥

स्थावराभिद्रोहे दण्डम् आह ।

प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे । २.२२७अब्
उपजीव्यद्रुमाणां च विंशतेर् द्विगुणो दमः ॥ २.२२७च्द् ॥

प्ररोहा अङ्कुरास् तद्वन्त्यः शाखाः प्ररोहिण्यः याश् छिन्नाः पुनर् उप्ताः प्रतिकाण्डं प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखिनस् तेषां शाखाच्छेदने । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस् तस्य छेदने समूलवृक्षच्छेदने च यथाक्रमं विंशतिपणदण्डाद् आरभ्य पूर्वस्मात् पूर्वस्माद् उत्तरोत्तरो दण्डो द्विगुणः । एतद् उक्तं भवति । विंशतिपणश् चत्वारिंशत्पणो ऽशीतिपण इत्य् एवं त्रयो दण्डा यथाक्रमं शाखाच्छेदनादिष्व् अपराधेषु भवन्तीति । अप्ररोहिशाखिनाम् अप्य् उपजीव्यवृक्षाणाम् आम्रादीनां पूर्वोक्तेषु स्थानेषु पूर्वोक्ता एव दण्डा अनुपजीव्याप्ररोहिशाखिषु पुनर् वृक्षेषु कल्प्याः ॥ २.२२७ ॥

वृक्षविशेषं प्रत्य् आह ।

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । २.२२८अब्
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २.२२८च्द् ॥

चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद् दण्डाद् द्विगुणः । विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २.२२८ ॥

गुल्मादीन् प्रत्य् आह ।

गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् । २.२२९अब्
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २.२२९च्द् ॥

गुल्मा अनतिदीर्गनिबिडलता मालत्यादयः । गुच्छा अवल्लीरूपा असरलप्रायाः कुरण्टकादयः । क्षुपाः करवीरादयः सरलप्रायाः । लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः । प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृतयः । ओषध्यः फलपाकावसानाः शालिप्रभृतयः । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद् दण्डाद् अर्धदण्डो वेदितव्यः ॥ २.२२९ ॥

इति दण्डपारुष्यप्रकरणम्

अथ साहसप्रकरणम्

संप्रति साहसं नाम विवादपदं व्याचिख्यासुस् तल्लक्षणं तावद् आह ।

सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम् । २.२३०अब्

सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः । प्रसभहरणात् प्रसह्य हरणात् । बलावष्टम्भेन हरणाद् इति यावत् । एतद् उक्तं भवति । राजदण्डं जनक्रोशं चोल्लङ्घ्य राजपुरुषेतरजनसमक्षं यत् किंचिन् मारणहरणपरदारप्रधर्षणादिकं क्रियते तत् सर्वं साहसम् इति साहसलक्षणम् । अतः साधारणधनपरधनयोर् हरणस्यापि बलावष्टम्भेन क्रियमाणत्वात् साहसत्वम् इति । नारदेनापि साहसस्य स्वरूपं विवृतम् ।

सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥ इति । (न्स्म् १४.१)

तद् इदं साहसं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणीषु व्यासक्तम् अपि बलदर्पावष्टम्भोपाधितो भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । तस्य च दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैविद्यम् अभिधाय तल्लक्षणं तेनैव विवृतं ।

तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥
वासःपश्वन्नपानानाम् गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥
व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् ।
प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर् दृष्टः पञ्चशतावरः ॥
उत्तमे साहसे दण्डः सहस्रावर इषते ।
वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥ इति ॥ (न्स्म् १४.२–७)

वधादयश् चापराधतारतम्याद् उत्तमसाहसे समस्ता व्यस्ता वा योज्याः ॥

तत्र परद्रव्यापहरणरूपे साहसे दण्डम् आह ।

तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २.२३०च्द् ॥

तस्यापहृतद्रव्यस्य मूल्यात् द्विगुणो दण्डः । यः पुनः साहसं कृत्वा नाहम् अकार्षम् इति निह्नुते तस्य मूल्याच् चतुर्गुणो दण्डो भवति । एतस्माद् एव विशेषदण्डविधानात् प्रथमसाहसादिसामान्यदण्डविधानम् अपहारव्यतिरिक्तविषयं गम्यते ॥ २.२३० ॥

साहसिकस्य प्रयोजयितारं प्रत्य् आह ।

यः साहसं कारयति स दाप्यो द्विगुणं दमम् । २.२३१अब्
यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ २.२३१च्द् ॥

यस् तु “साहसं कुरु” इत्य् एवम् उक्त्वा कारयत्य् असौ साहसिकाद् दण्डाद् द्विगुणं दण्डं दाप्यः । यः पुनः “अहं तुभ्यं धनं दास्यामि, त्वं कुरु” इत्य् एवम् उक्त्वा साहसं कारयति, स चतुर्गुणं दण्डं दाप्यो ऽनुबन्धातिशयात् ॥ २.२३१ ॥

साहसिकविशेषं प्रत्य् आह ।

अर्घ्याक्षेपातिक्रमकृद् भ्रातृभार्याप्रहारकः । २.२३२अब्
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २.२३२च्द् ॥
सामन्तकुलिकादीनाम् अपकारस्य कारकः । २.२३३अब्
पञ्चाशत्पणिको दण्ड एषाम् इति विनिश्चयः ॥ २.२३३च्द् ॥

अर्घ्यस्यार्घार्हस्याचार्यादेर् आक्षेपम् आज्ञातिक्रमं च यः करोति, यश् च भ्रातृभार्यां ताडयति तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्याप्रदाता यश् च मुद्रितं गृहम् उद्घाटयति तथा स्वगृहे क्षेत्रादिसंसक्तगृहक्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां आदि ग्रहणात् स्वग्राम्यस्वदेशीयानां च यो ऽपकर्ता, ते सर्वे पञ्चाशत्पणपरिमितेन दण्डेन दण्डनीयाः ॥ २.२३२ ॥ २.२३३ ॥

किं च ।

स्वच्छन्दविधवागामी विक्रुष्टे ऽनभिधावकः । २.२३४अब्
अकारणे च विक्रोष्टा चण्डालश् चोत्तमान् स्पृशेत् ॥ २.२३४च्द् ॥
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः । २.२३५अब्
अयुक्तं शपथं कुर्वन्न् अयोग्यो योग्यकर्मकृत् ॥ २.२३५च्द् ॥
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् । २.२३६अब्
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ २.२३६च्द् ॥
पितृपुत्रस्वसृभ्रातृदंपत्याचार्यशिष्यकाः । २.२३७अब्
एषाम् अपतितान्योन्यत्यागी च शतदण्डभाक् ॥ २.२३७च्द् ॥

नियोगं विना यः स्वेच्छया विधवां गच्छति। चौरादिभयाकुलैर् विक्रुष्टे च यः शक्तो ऽपि नाभिधावति, यश् च वृठाक्रोषं करोति, यश् च चण्डालो ब्राह्मणादीन् स्पृशति, यश् च शूद्रप्रव्रजितान् दिगम्बरादीन् दैवे पित्र्ये च कर्मणि भोजयति, यश् चायुक्तं “मातरं गमिष्यामि” इत्य् एवं शपथं करोति, तथा यश् च अयोग्य एव शूद्रादियोग्यकर्माध्ययनादि करोति, वृषो बलीवर्दः क्षुद्रपशवो ऽजादयस् तेषां पुंस्त्वस्य प्रजननशक्तेर् विनाशकः, वृक्षक्षुद्रपशूनाम् इति पाठे हिंग्वाद्यौषधप्रयोगेण वृक्षादेः फलप्रसूनानां पातयिता, साधारणम् अपलपति साधारणद्रव्यस्य च वञ्चकः, दासीगर्भस्य च पातयिता, ये च पित्रादयो ऽपतिता एव सन्तो ऽन्योन्यं त्यजन्ति, ते सर्वे प्रत्येकं पणशतं दण्डार्हा भवन्ति ॥ २.२३४-२३७ ॥

इति साहसप्रकरणम् ॥

साहसप्रसङ्गात् तत्सदृशापराधेषु निर्णेजकादीनां दण्डम् आह ।

वसानस् त्रीन् पणान् दण्ड्यो नेजकस् तु परांशुकम् । २.२३८अब्
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ २.२३८च्द् ॥

नेजको वस्त्रस्य धावकः, स यदि निर्णेजनार्थं समर्पितानि वासांसि स्वयम् आच्छादयति तदासौ पणत्रयं दण्ड्यः । यः पुनस् तानि विक्रीणीते अवक्रयं वा “एतावत् कालम् उपभोगार्थं वस्त्रं दीयते मह्यम् एतावद् धनं देयम्” इत्य् एवं भाटकेन यो ददाति, आधित्वं वा नयति, स्वसुहृद्भ्यो याचितं वा ददाति, असौ प्रत्यपराधं दशपणान् दण्डनीयः । तानि च वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनीयानि न पाषाणे न च व्यत्यसनीयानि न च स्वगृहे वासयितव्यानि, इतरथा दण्ड्यः,

शाल्मलीफलके श्लक्ष्णे निज्याद् वासांसि नेजकः ।
न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ॥ (म्ध् ८.३९६)

इति मनुस्मरणात् ॥ यदा पुनः प्रमादात् तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम् ।

मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः ।
द्विः पादस् त्रिस् तृतीयां शश् चतुर्धौते ऽर्धम् एव च ॥
अर्धक्षयात् तु परतः पादांशापचयः क्रमात् ।
यावत् क्षीणदशं जीर्णं जीर्णस्यानियमः क्षयः ॥ इति । (न्स्म् ९.८–९)

अष्टपणक्रीतस्य सकृद्धौतस्य वस्त्रस्य नाशितस्याष्टमभागपणोनं मूल्यं देयम् । द्विर्धौतस्य तु पादोनं पणद्वयोनं त्रिर्धौतस्य पुनस् तृतीयांशन्यूनम् । चतुर्धौतस्यार्धं पणचतुष्टयं देयम् । ततः परं प्रतिनिर्णेजनम् अवशिष्टं मूल्यं पादपादापचयेन देयम् । यावज् जीर्णस्य पुनर् नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २.२३८ ॥

पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः । २.२३९अब्
अन्तरे च तयोर् यः स्यात् तस्याप्य् अष्टगुणो दमः ॥ २.२३९च्द् ॥

पितापुत्रयोः कलहे यः साक्ष्यम् अङ्गीकरोति न पुनः कलहं निवारयत्य् असौ पणत्रयं दण्ड्यः । यश् च तयोः सपणे विवादे पणदाने प्रतिभूर् भवत्य् असौ चकारात् तयोर् यः कलहं वर्धयति सो ऽपि त्रिपणाद् अष्टगुणं चतुर्विंशतिपणान् दण्डनीयः । दम्पत्यादिष्वयम् एव दण्डो ऽनुसरणीयः ॥ २.२३९ ॥

तुलाशासनमानानां कूटकृन् नाणकस्य च । २.२४०अब्
एभिश् च व्यवहर्ता यः स दाप्यो दमम् उत्तमम् ॥ २.२४०च्द् ॥

तुला तोलनदण्डः । शासनं पूर्वोक्तम् । मानं प्रस्थद्रोणादि । नाणकं मुद्रादिचिह्नितं द्रम्मनिष्कादि । एतेषां यः कूटकृत् देशप्रसिद्धपरिमाणाद् अन्यथा न्यूनत्वम् आधिक्यं वा द्रम्मादेर् अव्यवहारिकमुद्रात्वं ताम्रादिगर्भत्वं वा करोति यश् च तैः कूटैर् जानन् अपि व्यवहरति ताव् उभौ प्रत्येकम् उत्तमसाहसं दण्डनीयौ ॥ २.२४० ॥

नाणकपरीक्षिणं प्रत्य् आह ।

अकूटं कूटकं ब्रूते कूटं यश् चाप्य् अकूटकम् । २.२४१अब्
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥ २.२४१च्द् ॥

यः पुनर् नाणकपरीक्षी ताम्रादिगर्भम् एव द्रम्मादिकं सम्यग् इति ब्रूते सम्यक् वा कूटकम् इत्य् असाव् उत्तमसाहसं दण्ड्यः ॥ २.२४१ ॥

चिकित्सकं प्रत्य् आह ।

भिषङ् मिथ्याचरन् दण्ड्यस् तिर्यक्षु प्रथमं दमम् । २.२४२अब्
मानुषे मध्यमं राजपुरुषेषूत्तमं दमम् ॥ २.२४२च्द् ॥

यः पुनर् भिषक् मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थं चिकित्सितज्ञो ऽहम् इति तिर्यङ्मनुष्यराजपुरुषेषु चिकित्साम् आचरत्य् असौ यथाक्रमेण प्रथममध्यमोत्तमसाहसान् दण्डनीयः । तत्रापि तिर्यगादिषु मूल्यविशेषेण वर्णविशेषेण राजप्रत्यासत्तिविशेषेण दण्डानां लघुगुरुभावः कल्पनीयः ॥ २.२४२ ॥

अबन्ध्यं यश् च बध्नाति बद्धं यश् च प्रमुञ्चति । २.२४३अब्
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम् ॥ २.२४३च्द् ॥

यः पुनर् बन्धनानर्हम् अनपराधिनं राजाज्ञया विना बध्नाति । यश् च बद्धं व्यवहारार्थम् आहूतं अनिवृत्तव्यवहारं चोत्सृजत्य् असौ उत्तमसाहसं दाप्यः ॥ २.२४३ ॥

मानेन तुलया वापि यो ऽंशम् अष्टमकं हरेत् । २.२४४अब्
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ २.२४४च्द् ॥

यः पुनर् वणिक् व्रीहिकार्पासादेः पण्यस्याष्टमम् अंशं कूटमानेन कूटतुलया वा अन्यथापहरत्य् असौ पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर् वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये ॥ २.२४४ ॥

भेषजस्नेहलवणगन्धधान्यगुडादिषु । २.२४५अब्
पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस् तु षोडश ॥ २.२४५च्द् ॥

भेषजम् औषधद्रव्यम् । स्नेहो घृतादिः । लवणं प्रसिद्धम् । गन्धद्रव्यम् उशीरादि । धान्यगुडौ प्रसिद्धौ । आदिशब्दाद् धिङ्गुमरीचादि । एतेष्व् असारद्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः ॥ २.२४५ ॥

किं च ।

मृच्चर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् । २.२४६अब्
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ २.२४६च्द् ॥

न विद्यते बहुमूल्या जातिर् यस्मिन् मृच्चर्मादिके तद् अजाति, तस्मिन् जातिकरणे विक्रयार्थं गन्धवर्णरसान्तरसंचारणेन बहूमूल्यजातीयसादृश्यसंपादनेन । यथा मल्लिकामोदसंचारेण मृत्तिकायां सुगन्धामलकम् इति । मार्जारचर्मणि वर्णोत्कर्षापादनेन व्याघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग इति । कार्पासिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रम् इति । कालायसे वर्णोत्कर्षाधानेन रजतम् इति । बिल्वकाष्टे चन्दनामोदसंचारेण चन्दनम् इति । कङ्कोले त्वगाख्यं लवङ्गम् इति । कार्पासिके वाससि गुणोत्कर्षाधनेन कौशेयम् इति । विक्रेयस्यापादितसादृश्यमृच्चर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥ २.२४६

समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् । २.२४७अब्
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ २.२४७च्द् ॥
भिन्ने पणे च पञ्चाशत् पणे तु शतम् उच्यते । २.२४८अब्
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ २.२४८च्द् ॥

मुद्गं पिधानं मुद्गेन सह वर्तत इति समुद्गं करण्डकं परिवर्तनं व्यत्यासः । यो ऽन्यद् एव मुक्तानां पूर्णं करण्डकं दर्शयित्वा हस्तलाघवेनान्यद् एव स्फटिकानां पूर्णं करण्डकं समर्पयति यश् च सारभाण्डकं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयम् आधिं वा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेर् मूल्यभूते पणे भिन्ने न्यूने । न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनः शतम् । द्विपणमूल्ये द्विशतो दण्ड इत्य् एवं मूल्यवृद्धौ दण्डवृद्धिर् उन्नेया ॥ २.२४७ ॥ २.२४८ ॥

वणिजः प्रत्य् आह ।

सम्भूय कुर्वताम् अर्घं सबाधं कारुशिल्पिनाम् । २.२४९अब्
अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः ॥ २.२४९च्द् ॥

राजनिरूपितार्घस्य ह्रासं वृद्धिं वा जानन्तो ऽपि वणिजः संभूय मिलित्वा कारूणां रजकादीनां शिल्पिनां चित्रकारादीनां सबाधं पीडाकरम् अर्घान्तरं लाभलोभात् कुर्वन्तः पणसहस्रं दण्डनीयाः ॥ २.२४९ ॥

किं च ।

सम्भूय वणिजां पण्यम् अनर्घेणोपरुन्धताम् । २.२५०अब्
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ २.२५०च्द् ॥

ये पुनर् वणिजो मिलित्वा देशान्तराद् आगतं पण्यम् अनर्घेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति महार्घेण वा विक्रीणते तेषाम् उत्तमसाहसो दण्डो विहितो मन्वादिभिः ॥ २.२५० ॥

केन पुनर् अर्घेण पणितव्यम् इत्य् अत आह ।

राजनि स्थाप्यते यो ऽर्घः प्रत्यहं तेन विक्रयः । २.२५१अब्
क्रयो वा निःस्रवस् तस्माद् वणिजां लाभकृत् स्मृतः ॥ २.२५१च्द् ॥

राजनि संनिहिते सति यस् तेनार्घः स्थाप्यते निरूप्यते तेनार्घेण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गतः स्रवो निःस्रवो विशेषस् तस्माद् राजनिरूपितार्घाद् यो निःस्रवः स एव वणिजां लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् । मनुना चार्घकरणे विशेषो दर्शितः ।

पञ्चरात्रे पञ्चरात्रे पक्षे मासे तथा गते ।
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥ इति ॥ (म्ध् ८.४०२) २.२५१ ॥

किं च ।

स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् । २.२५२अब्
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ २.२५२च्द् ॥

स्वदेशप्राप्तं पण्यं गृहीत्वा यो विक्रीणीते असौ पञ्चकं शतं पणशते पणपञ्चकं लाभं गृह्नीयात् । परदेशात् प्राप्ते पुनः पण्ये शतपणमूल्ये दशपणांल् लाभं गृह्नीयात् । यस्य पणस्य ग्रहणदिवस एव विक्रयः संपद्यते । यः पुनः कालानन्तरे विक्रीणीते तस्य कालोत्कर्षवशाल् लाभोत्कर्षः कल्प्यः । एवं च यथार्घे निरुपिते पणशते पञ्चपणो लाभो भवति तथैवार्घो राज्ञा स्वदेशपण्यविषये स्थापनीयः ॥ २.२५२ ॥

पारदेश्यपण्ये ऽर्घनिरूपणप्रकारम् आह ।

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । २.२५३अब्
अर्घो ऽनुग्रहकृत् कार्यः क्रेतुर् विक्रेतुर् एव च ॥ २.२५३च्द् ॥

देशान्तराद् आगते पण्ये देशान्तरगमनप्रत्यागमनभाण्डग्रहणशुल्कादिस्थानेषु यावान् उपयुक्तो ऽर्थस् तावन्तम् अर्थं परिगणय्य पण्यमूल्येन सह मेलयित्वा यथा पणशते दशपणो लाभः संपद्यते तथा क्रेतृविक्रेत्रोर् अनुग्रहकार्य् अर्घो राज्ञा स्थापनीयः ॥ २.२५३ ॥

**इति साहसे प्रासङ्गिकप्रकरणम् **

**अथ विक्रीयासंप्रदानप्रकरणम् **

प्रासङ्गिकं परिसमाप्य। अधुना विक्रीयासंप्रदानं प्रक्रमते । तत्स्वरूपं च नारदेनाभिहितम् ।

विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।
विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥ इति । (न्स्म् ८.१)

तत्र विक्रेयद्रव्यस्य चराचरभेदेन द्वैविध्यम् अभिधाय पुनः षड्विधत्वं तेनैव प्रत्यपादि ।

लोके ऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा ।
षड्विधस् तस्य तु बुधैर् दानादानविधिः स्मृतः ॥
गणितं तुलितं मेयं क्रियया रूपतः श्रिया ॥ इति । (न्स्म् ८.२–३)

गणितं क्रमुकफलादि । तुलितं कनककस्तूरीकुङ्कुमादि । मेयं शाल्यादि । क्रियया वाहदोहादिरूपयोपलक्षितम् अश्वमहिष्यादि । रूपतः पण्याङ्गनादि । श्रिया दीप्त्या मरकतपद्मरागादीति ॥

एतत् षट्प्रकारकम् अपि पण्यं विक्रीयासंप्रयच्छतो दण्डम् आह ।

गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति । २.२५४अब्
सोदयं तस्य दाप्यो ऽसौ दिग्लाभं वा दिगागते ॥ २.२५४च्द् ॥

गृहीतं मूल्यं यस्य पण्यस्य विक्रेत्रा तद् गृहीतमूल्यम्, तद् यदि विक्रेता प्रार्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति, तच् च पण्यं यदि क्रयकाले बहुमूल्यं सत् कालान्तरे ऽल्पमूल्येनैव लभ्यते, तदार्ह्हह्रासकृतो य उदयो वृध्हिः पण्यस्य स्थावरजङ्गमात्मकस्य तेन सहितं पण्यं विक्रेता क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्यस्योदयो नास्ति, किं तु क्रयकाले यावद् एव यतो मूल्यस्येयत् पण्यम् इति प्रतिपन्नं तावद् एव तदा तत् पण्यम् आदाय तस्मिन् देशे विक्रीणानस्य यो लाभस् तेनोदयेन सहितं द्विकं त्रिकम् इत्यादिप्रतिपादितवृद्धिरूपोदयेन वा सहितं क्रेतृवाञ्छावशाद् दापनीयः । यथाह नारदः ।

अर्घश् चेद् अवहीयेत सोदयं पण्यम् आवहेत् ।
स्थानिनाम् एष नियमो दिग्लाभं दिग्विचारिणाम् ॥ इति । (न्स्म् ८.५)

यदा त्व् अर्घमहत्त्वेन पण्यस्य न्यूनभावस् तदा तस्मिन् पण्ये वस्त्रगृहादिके य उपभोगस् तदाच्छादनसुखनिवासादिरूपो विक्रेतुस् तत्सहितं पण्यम् असौ दाप्यः । यथाह नारदः ।

विक्रीय पण्यं मूल्येन यः क्रेतुर् न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ इति । (न्स्म् ८.४)

विक्रेतुर् उपभोगः क्षय उच्यते, क्रेतृसंबन्धित्वेन क्षीयमाणत्वात्, न पुनः कुड्यपातसस्यघातादिरूपः, तस्य तु,

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥ (न्स्म् ८.६)

इत्य् अत्रोक्त्त्वात् । यदा त्व् असौ क्रेता देशान्तरात् पण्यग्रहणार्थम् आगतस् तदा तत् पण्यम् आदाय देशान्तरे विक्रीणानस्य यो लाभस् तेन सहितं पण्यं विक्रेता क्रेत्रे दापयितव्यः । अयं च क्रीतपण्यसमर्पणनियमो ऽनुशयाभावे द्रष्टव्यः ॥ सति त्व् अनुशये “क्रीत्वा विक्रीय वा किंचिद्” (म्ध् ८.२२) इत्यादि मनूक्तं वेदितव्यम् ॥ २.२५४ ॥

किं च ।

विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति । २.२५५अब्
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ॥ २.२५५च्द् ॥

यदा पुनर् जातानुशयः क्रेता पण्यं न जिघृक्षति तदा विक्रीतम् अपि पण्यम् अन्यत्र विक्रेयम् । यदा पुनर् विक्रेत्रा दीयमानं क्रेता न गृह्णाति तच् च पण्यं राजदैविकेनोपहतं तदा क्रेतुर् एवासौ हानिर् भवेत्, पण्याग्रहणरूपेण क्रेतृदोषेण नाशितत्वात् ॥ २.२५५ ॥

अपि च ।

राजदैवोपघातेन पण्ये दोषम् उपागते । २.२५६अब्
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥ २.२५६च्द् ॥

यदा पुनः क्रेत्रा प्रार्थ्यमानम् अपि पण्यं विक्रेता न समर्पयत्य् अजातानुशयो ऽपि तच् च राजदैविकेनोपहतं भवति तदासौ हानिर् विक्रेतुर् एव । अतो ऽन्यद् अदुष्टं पण्यं विनष्टसदृशं क्रेत्रे देयम् ॥ २.२५६ ॥

किं च ।

अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद् यदि । २.२५७अब्
विक्रीणीते दमस् तत्र मूल्यात् तु द्विगुणो भवेत् ॥ २.२५७च्द् ॥

यः पुनर् विनैवानुशयम् एकस्य हस्ते विक्रीतं पुनर् अन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्रच्छादितदोषं विक्रीणीते तदा तत्पण्यमूल्याद् द्विगुणो दमो वेदितव्यः । नारदेनाप्य् अत्र विशेषो दर्शितः ।

अन्यहस्ते च विक्रीय यो ऽन्यस्मै तत् प्रयच्छति ।
द्रव्यं तद्द्विगुणं दाप्यो विनयस् तावद् एव तु ॥
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
स मूल्याद् द्विगुणं दाप्यो विनयं तावद् एव तु ॥ इति ॥ (न्स्म् ८.७–८)

सर्वश् चायं विधिर् दत्तमूल्ये पण्ये द्रष्टव्यः । अदत्तमूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रोर् नियमकारिणः समयाद् ऋते प्रवृत्तौ निवृत्तौ वा न कश्चिद् दोषः । यथाह नारदः ।

दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः ।
अदत्ते ऽन्यत्र समयान् न विक्रेतुर् अविक्रयः ॥ इति ॥ (न्स्म् ८.१०) ॥ २.२५७ ॥

विक्रयानुशयो ऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितम् । अधुना तद् उभयसाधारणं धर्मम् आह ।

क्षयं वृद्धिं च वणिजा पण्यानाम् अविजानता । २.२५८अब्
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥ २.२५८च्द् ॥

परीक्षितक्रीतपण्यानां क्रयोत्तरकालं क्रयकालपरिमाणतो ऽर्घकृतां वृद्धिम् अपश्यता क्रेत्रा अनुशयो न कार्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयम् अपश्यता नानुशयितव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतृविक्रेत्रोर् अनुशयो भवतीति व्यतिरेकाद् उक्तं भवति । अनुशयकालावधिस् तु नारदेनोक्तः ।

क्रीत्वा मूल्येन यः पण्यं दुःक्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥
द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् ।
द्विगुणं तु तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ इति । (न्स्म् ९.२–३)

अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्धनानुशयावधिर् “दशैकपञ्चसप्ताह” (य्ध् २.१७७) इत्यादिना दर्शित एव । तद् अनया वचोयुक्त्या वृद्धिक्षयपरिज्ञानस्यानुशयकारणत्वम् अवगम्यते । यथा गण्यपरीक्षाविधिबलात् पण्यदोशाणाम् अनुशयकारणत्वं अतः पण्यदोषतद्वृद्धिक्षयकारणत्रितयाभावे ऽनुशयकालाभ्यन्तरे ऽपि यद्य् अनुशयं करोति तदा पण्यषड्भागं दण्डनीयः । अनुशयकारणसद्भावे ऽप्य् अनुशयकालातिक्रमेणानुशयं कुर्वतो ऽप्य् अयम् एव दण्डः । उपभोगेनाविनश्वरेषु स्थिरार्घेष्व् अनुशयकालातिक्रमेणानुशयं कुर्वतो मनूक्तो दण्डो द्रष्टव्यः ।

परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।
आददानो ददत् चैव राज्ञा दण्ड्यः शतानि षट् ॥ इति ॥ (म्ध् ८.२२३) ॥ २.२५८ ॥

**इति विक्रीयासंप्रदानं नाम प्रकरणम् **

**अथ संभूयसमुत्थानप्रकरणम् **

संभूयसमुत्थानं नाम विवादपदमिदानीम् अभिधीयते ।

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् । २.२५९अब्
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ २.२५९च्द् ॥

“सर्वे वयम् इदं कर्म मिलिताः कुर्मः” इत्य् एवंरूपा संप्रतिपत्तिः समवायः, तेन ये वणिङ्नटनर्तकप्रभृतयो लाभलिप्सवः प्रातिस्विकं कर्म कुर्वते तेषां लाभालाभाव् उपचयापचयौ यथाद्रव्यं येन यावद् धनं पण्यग्रहणाद्यर्थं दत्तं तदनुसारेणावसेयौ । यद् वा प्रधानगुणभावपर्यालोचनयास्य भागद्वयम् अस्यैको भाग इत्य् एवंरूपया संविदा समयेन यथा संप्रतिपन्नौ तथा वेदितव्यौ ॥ २.२५९ ॥

किं च ।

प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम् । २.२६०अब्
स तद् दद्याद् विप्लवाच् च रक्षिताद् दशमांशभाक् ॥ २.२६०च्द् ॥

तेषां सभूय प्रचरतां मध्ये पण्यम् इदम् इत्थं न व्यवहर्तव्यम् इति प्रतिषिद्धम् आचरता यन् नाशितम् अनादिष्टम् अननुज्ञातं वा कुर्वाणेन तथा प्रमादात् प्रज्ञाहीनतया वा येन यन् नाशितं स तत् पण्यं वणिग्भ्यो दद्यात् । यः पुनस् तेषां मध्ये चौरराजादिजनिताद् व्यसनात् पण्यं पालयति स तस्माद् रक्षितात् पण्याद् दशमम् अंशं लभते ॥ २.२६० ॥

अर्घप्रक्षेपणाद् विंशं भागं शुल्कं नृपो हरेत् । २.२६१अब्
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥ २.२६१च्द् ॥

“इयतः पण्यस्येयन् मूल्यम्” इत्य् अर्घः, तस्य प्रक्षेपणात् राजतो निरूपणाद् धेतोर् असौ मूल्याद् विंशतितमम् अंशं शुल्कार्थं गृह्णीयात् । यत् पुनर् व्यासिद्धम् अन्यत्र न विक्रेयम् इति राज्ञा प्रतिषिद्धम्, यच् च राजयोग्यं मणिमाणिक्याद्यप्रतिषिद्धम् अपि तद् राज्ञे ऽनिवेद्य लाभलोभेन विक्रीतं चेद् राजगामि मूल्यदाननिरपेक्षं तत् सर्वं पण्यं राजापहरेद् इत्य् अर्थः ॥ २.२६१ ॥

मिथ्या वदन् परीमाणं शुल्कस्थानाद् अपासरन् । २.२६२अब्
दाप्यस् त्व् अष्टगुणं यश् च स व्याजक्रयविक्रयी ॥ २.२६२च्द् ॥

यः पुनर् वणिक् शुल्कवञ्चनार्थं पण्यपरिमाणं निह्नुते शुल्कग्रहणस्थानाद् वापसरति यश् च “अस्येदम् अस्येदं वा” इत्य् एवं विवादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते वा, ते सर्वे पण्याद् अष्टगुणं दण्डनीयाः ॥ २.२६२ ॥

अपि च ।

तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश । २.२६३अब्
ब्राह्मणप्रातिवेश्यानाम् एतद् एवानिमन्त्रणे ॥ २.२६३च्द् ॥

शुल्कं हि द्विविधम्, स्थलजं जलतं च । तत्र स्थलजम् “अर्घप्रक्षेपणाद् विंशं भागं शुल्कं नृपो हरेत्” (य्ध् २.२६१) इत्य् अत्रोक्तम् । जलजं तु मानवे ऽभिहितम् ।

पणं यानं तरे दाप्यं पौरुषो ऽर्धपणं तरे ।
पादं पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किंचित् पुमांसश् चपरिच्छदाः ॥
गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं नराः ॥ इति ॥ (म्ध् ८.४०४-५, ४०७)

शुल्कद्वये ऽप्य् अयम् अपरो विशेषः ।

न भिन्नकार्षापणम् अस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ।
न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥ इति ॥ (वध् १९.३७)

तीर्यते ऽनेनेति तरिः नावादिः, तज्जन्यशुल्के ऽधिकृतस्तरिकः । स यदा स्थलोद्भवं शुल्कं गृह्णाति तदा दशपणान् दण्डनीयः । वेशो वेश्म, प्रतिवेश इति स्ववेश्माभिमुखं स्ववेश्मपार्श्वस्थं चोच्यते । तत्र भवाः प्रातिवेश्याः ब्राह्मणाश् च ते प्रातिवेश्याश् च ब्राह्मणप्रातिवेश्याः । तेषां श्रुतवृत्तसंपन्नानां श्राद्धादिषु विभवे सत्य् अनिमन्त्रणे एतद् एव दशपणात्मकं दण्डनं वेदितव्यम् ॥ २.२६३ ॥

देशान्तरमृतवणिग्रिक्थं प्रत्य् आह ।

देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । २.२६४अब्
ज्ञातयो वा हरेयुस् तदागतास् तैर् विना नृपः ॥ २.२६४च्द् ॥

यदा संभूयकारिणां मध्ये यः कश्चिद् देशान्तरगतो मृतस् तदा तदीयम् अंशं दायादाः पुत्राद्यपत्यवर्गो बान्धवाः मातृपक्षा मातुलाद्याः ज्ञातयो ऽपत्यवर्गव्यतिरिक्ताः सपिण्डा वा आगताः संभूय व्यवहारिणो ये देशान्तराद् आगतास् ते वा गृह्णीयुः । तैर् विना दायादाद्यभावे राजा गृह्णीयात् । वाशब्देन च दायादादीनां वैकल्पिकम् अधिकारं दर्शयति । पौर्वापर्यनियमश् च “पत्नी दुहितरः” (य्ध् २.१३५) इत्यादिना प्रतिपादित एवात्रापि वेदितव्यः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो वणिक्प्राप्तिश् च वचनप्रयोजनम् । वणिजाम् अपि मध्ये यः पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् । सामर्थ्याविशेषे पुनः सर्वे वणिजः संसृष्टिनो विभज्य गृह्णीयुः । तेशाम् अप्य् अभावे दशवर्षं दायादाद्यागमनं प्रतीक्ष्यानागतेषु स्वयम् एव राजा गृह्णीयात् । तद् इदं नारदेन स्पष्टीकृतम् ।

एकस्य चेत् स्यान् मरणं दायादो ऽस्य तद् आप्नुयात् ।
अन्यो वासति दायादे शक्ताश् चेत् सर्व एव ते ॥ (न्स्म् ३.७)
तद् अभावे तु गुप्तं तत् कारयेद् दशवत्सरान् । (न्स्म् ३.१५)
अस्वामिकम् अदायादं दशवर्षस्थितं ततः ॥
राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥ (न्स्म् ३.१६) इति ॥ २.२६४ ॥

किं च ।

जिह्मं त्यजेयुर् निर्लाभम् अशक्तो ऽन्येन कारयेत् । २.२६५अब्

जिह्मो वञ्चकः तं निर्लाभं निर्गतलाभं लाभम् आच्छिद्य त्यजेयुर् बहिः कुर्युः । यश् च संभूयकारिणां मध्ये भाण्डप्रत्यवेक्षणादिकं कर्तुम् असमर्थो ऽसाव् अन्येन स्वं कर्म भाण्डभारवाहनं तदायव्ययपरीक्षणादिकं कारयेत् ॥

प्रागुपदिष्टं वणिग्धर्मम् ऋत्विगादिष्व् अतिदिशति ।

अनेन विधिर् आख्यात ऋत्विक्कर्षककर्मिणाम् ॥ २.२६५च्द् ॥

अनेन “लाभालाभौ यथाद्रव्यम्” इत्यादिवणिग्धर्मकथनेन ऋत्विजां होत्रादीनां कृषीवलानां नटनर्तककक्षादीनां च शिल्पकर्मोपजीविनां विधिर् वर्तनप्रकार आख्यातः । तत्र च ऋत्विजां धनविभागे विशेषो मनुना दर्शितः ।

सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥ इति ॥ (म्ध् ८.२१०)

अस्यायम् अर्थः । ज्योतिष्टोमेन “तं शतेन दीक्षयन्ति” इति वचनेन गवां शतमृत्विगानतिरूपे दक्षिणाकार्ये विनियुक्तम् । ऋत्विजश् च होत्रादयः षोडश । तत्र कस्य कियान् आंश इत्य् अपेक्षायाम् इदम् उच्यते । सर्वेषां होत्रादीनां षोडशर्त्विजां मध्ये ये मुख्याश् चत्वारो होत्रध्वर्युब्रह्मोद्गातारः ते गोशतस्यार्धिनः सर्वेशां भागपूरणोपपत्तिवशाद् अष्टाचत्वारिंशद्रूपार्धेनार्धभाजः । अपरे मैत्रावरुणप्रतिस्थातृब्राह्मणाच्छंसिप्रस्तोतारस् तदर्धेन तस्य मुख्यांशस्यार्धेन चतुर्विंशति रूपेणार्धभाजः । ये पुनस् तृतीयिनो ऽच्छावाकनेष्ट्राग्नीध्रप्रतिहर्तारस् ते तृतीयिनो मुख्यस्यांशस्य षोडशगोरूपेण तृतीयांशेन तृतीयांशभाजः । ये तु पादिनः ग्रावस्तदुन्नेतृपोतृसुब्रह्मण्यास् ते मुख्यभागस्य यश् चतुर्थांशो द्वादशगोरूपस् तद्भाजः ॥

ननु कथम् अयम् अंशनियमो घटते न तावद् अत्र समयो नापि द्रव्यसमवायो नापि वचनं यद्वशाद् ईदृग्भागनियमः स्याद् अतः समं स्याद् अश्रुतत्वाद् इति न्यायेन सर्वेषां समांशभाक्त्वं कर्मानुरूपेण चांशभाक्त्वम् इति युक्तम् ॥
अत्रोच्यते । ज्योतिष्टोमप्रकृतिके द्वादशाहे ऽर्धिनस् तृतीयिनः पादिन इति सिद्धवदनुवादो न घटते, यदि तत्प्रकृतिभूते ज्योतिष्टोमे अर्धतृतीयचतुर्थांशभाक्त्वं मैत्रावरुणादीनां न स्यात्, अतो वैदिकर्द्धिप्रभृतिसमाख्याबलात् प्रागुक्तो ऽंशनियमो ऽवकल्पयत इति निरवद्यम् ॥ २.२६५ ॥

इति संभूयसमुत्थानप्रकरणम्

**अथ स्तेयप्रकरणम् **

इदानीं स्तेयं प्रस्तूयते । तल्लक्षणं च मनुनाभिहितम् ।

स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं कृत्वापह्नुवते च यत् । इति । (म्ध् ८.३३२)

अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत् परधनहरणादिकं क्रियते तत् साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यस्वाम्याद्यसमक्षं वञ्चयित्वा यत् परधनहरणं तद् उच्यते । यच् च सान्वयम् अपि कृत्वा न मयेदं कृतम् इति भयान् निह्नुते तद् अपि स्तेयम् ॥ नारदेनाप्युक्तम् ।

उपायैर् विविधैर् एषां छलयित्वापकर्षणम् ।
सुप्तमत्तप्रमत्तेभ्यः स्तेयम् आहुर् मनीषिणः ॥ इति ॥ (न्स्म् १४.१६)

तत्र तस्करग्रहणपूर्वकत्वात्, दण्डस्य ग्रहणस्य ज्ञानपूर्वकत्वात्, ज्ञानोपायं तावद् आह ।

ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा । २.२६६अब्
पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ २.२६६च्द् ॥

यश् “चौरो ऽयम्” इति जनैर् विख्याप्यते, असौ ग्राहकै राजपुरुषैः स्थानपालप्रभृतिभिर् ग्रहीतव्यः । लोप्त्रेणापहृतभाजनादिना वा चौर्यचिह्नेन नाशदिवसाद् आरभ्य चौर्यपदानुसारेण वा ग्राह्यः । यश् च पूर्वकर्मापराधी प्राक् प्रख्यातचौर्यः । अशुद्धो ऽप्रज्ञातो वासः स्थानं यस्यासाव् अशुद्धवासकः सो ऽपि ग्राह्यः ॥ २.२६६ ॥

किं च ।

अन्ये ऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । २.२६७अब्
द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः ॥ २.२६७च्द् ॥
परद्रव्यगृहाणां च पृच्छका गूढचारिणः । २.२६८अब्
निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥ २.२६८च्द् ॥

न केवलं पूर्वोक्ता ग्राह्याः किं त्व् अन्ये ऽपि वक्ष्यमाणैर् लिङ्गैह् शङ्कया ग्राह्याः । जातिनिह्नवेन नाहं शूद्र इत्य् एवंरूपेण, नामनिह्नवेन नाहं लपित्थ इत्य् एवंरूपेण, आदिग्रहणात् स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । द्यूतपण्याङ्गनामद्यपानादिव्यसनेष्व् अतिप्रसक्तास् तथा “कुतस्त्यो ऽसि त्वम्” इति चौरग्राहिभिः पृष्टो यदि शुष्कमुखो भिन्नस्वरो वा भवति, तर्ह्य् असाव् अपि ग्राह्यः । बहुवचनात् स्विन्नललाटादीनां ग्रहणम् । तथा ये निष्कारणं “कियद् अस्य धनं, किं वास्य गृहम्” इति पृच्छन्ति, ये च वेषान्तरधारणेनात्मानं गूहयित्वा चरन्ति, ये चायाभावे ऽपि बहुव्ययकारिणः, ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनाम् अविज्ञातस्वामिकानां विक्रायकास् ते सर्वे चौरसंभावनया ग्राह्याः । एवं नानाविधचौर्यलिङ्गान् पुरुषान् गृहीत्वा एते चौराः किं वा साधव इति सम्यक् परीक्षेत, न पुनर् लिङ्गदर्शनमात्रेण चौर्यनिर्णयं कुर्यात्, अचौरस्यापि लोप्त्रादिचौर्यलिङ्गसंबन्धसंभवात् । यथाह नारदः ।

अन्यहस्तात् परिभ्रष्टम् अकामाद् उत्थितं भुवि ।
चौरेण वा प्रिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ॥ (ध्को १७५२)

तथा ।

असत्याः सत्यसंकाशाः सत्याश् चासत्यसंनिभाः ।
दृश्यन्ते विविधा भावास् तस्माद् उक्तं परीक्षणम् ॥ इति ॥ (न्स्म् मा १.६२)

एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय इत्य् आह ।

गृहीतः शङ्कया चौर्ये नात्मानं चेद् विशोधयेत् । २.२६९अब्
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २.२६९च्द् ॥

यदि चौर्यशङ्कया गृहीतस् तन्निस्तरणार्थम् आत्मानं न शोधयति तर्हि वक्ष्यमाणधनदापनवधादिदण्डभाग् भवेत् । अतो मानुषेण तदभावे दिव्येन वा आत्मा शोधनीयः ॥

ननु नाहं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति, तस्याभावरूपत्वात् ।
उच्यते । दिव्यस्य तावद् भावाभावगोचरत्वं “रुच्या वान्यतरः कुर्याद्” (य्ध् २.९६) इत्य् अत्र प्रतिपादितम् । मनुषं पुनर् यद्य् अपि साक्षाच् छुद्धमिथ्योत्तरे न संभवति, तथापि कारणेन संसृष्ट्भावरूपमिथ्याकारणसाधनमुखेनाभावम् अपि गोचरयत्य् एव । यथा नाशापहारकाले अहं देशान्तरस्थ इत्य् अभियुक्तैर् भाविते चौर्याभावस्याप्य् अर्थात् सिद्धेः शुद्धिर् भवत्य् एव ॥ २.२६९ ॥

चौरदण्डम्[^३७]_ आह ।_

चौरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः । २.२७०अब्

यस् तु प्रागुक्तपरीक्षया तन्निरपेक्षं वा निश्चितचौर्यस् तं स्वामिने अपहृतं धनं स्वरूपेण मूल्यकल्पनया वा दापयित्वा विविधैर् वधैर् घातैर् घातयेत् । एतच् चोत्तमसाहसदण्डप्राप्तियोग्योत्तमद्रव्यविषयम्, न पुनः पुष्पवस्त्रादिक्षुद्रमध्यमद्रव्यापहारविषयम्,

साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥ (न्स्म् १४.२०)

इति नारदवचनेन, वधरूपस्योत्तमसाहसस्योत्तमद्रव्यविषये व्यव्स्थापितत्वात् ॥ यत् पुनर् वृद्धमनुवचनम्,

अन्यायोपात्तवित्तत्वाद् धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ (ध्को १७६६)

इति, तद् अपि महापराधविषयम् ॥

चौरविशेषे ऽपवादम् आह ।

सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ॥ २.२७०च्द् ॥

ब्राह्मणं पुनश् चौरं महत्य् अप्य् अपराधे न घातयेद्, अपि तु ललाटे ऽङ्कयित्वा स्वदेशान् निष्कासयेत् । अङ्कनं च श्वपदाकारं कार्यम् । तथा च मनुः ।

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये च श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥ इति । (म्ध् ९.२३७)

एतच् च दण्डोत्तरकालं प्रायश्चित्तम् अचिकीर्षतो द्रष्टव्यम् । यथाह मनुः ।

प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटे तु दाप्यास् तूत्तमसाहसम् ॥ इति । (*म्ध् ९.२४०) २.२७० ॥

चौरादर्शने अपहृतद्रव्यप्राप्त्युपायम् आह ।

घातिते ऽपहृते दोषो ग्रामभर्तुर् अनिर्गते । २.२७१अब्
विवीतभर्तुस् तु पथि चौरोद्धर्तुर् अवीतके ॥ २.२७१च्द् ॥

यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेर् एव चौरोपेक्षादोषः, तत्परिहारार्थं स एव चौरं गृहीत्वा राज्ञे ऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्, यदि चौरस्य पदं स्वग्रामान् निर्गतं न दर्शयति । दर्शिते पुनस् तत्पदं यत्र प्रविशति तद्विषयाधिपतिर् एव चौरं धनं वार्पयेत् । तथा च नारदः ।

गोचरे यस्य लुप्येत तेन चौरः प्रयत्नतः ।
ग्राह्यो दाप्यो ऽथवा शेषं पदं यदि न निर्गतम् ॥
निर्गते पुनर् एतस्मान् न चेद् अन्यत्र पातितम् ।
सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥ इति ॥ (न्स्म् १९.२३–२४)

विवीते त्व् अपहारे विवीतस्वामिन एव दोषः । यदा त्व् अध्वन्य् एव तद्द्ःऋतं भवत्य् अवीतके वा विवीताद् अन्यत्र क्षेत्रे तदा चौरोद्धर्तुर् मार्गपालस्य दिक्पालस्य वा दोषः ॥ २.२७१ ॥

किं च ।

स्वसीम्नि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति । २.२७२अब्
पञ्चग्रामी बहिः क्रोशाद् दशग्राम्य् अथवा पुनः ॥ २.२७२च्द् ॥

यदा पुनर् ग्रामाद् बहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तद्ग्रामवासिन एव दद्युः, यदि सीम्नो बहिश् चौरपदं न निर्गतम् । निर्गते पुनर् यत्र ग्रामादिके चौरपदं प्रविशति स एव चौरार्पणादिकं कुर्यात् । यदा त्व् अनेकग्राममध्ये क्रोशमात्राद् बहिः प्रदेशे घातितो मुषितो वा चौरपदं च जनसंमर्दादिना भग्नं, तदा पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो दशग्रामी वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्त्यपहृतधनप्रत्यर्पणादिकं कुर्याद् इत्य् एवमर्थम् । यदा त्व् अन्यतो ऽपहृतं द्रव्यं दापयितुं न शक्नोति तदा स्वकोशाद् एव राजा दद्यात्, “चौरहृतम् अवजित्य यथास्थानं गमयेत् । स्वकोशाद् वा दद्यात्” (ग्ध् १०.४६–४७) इति गौतमस्मरणात् । मुषितामुषितसंदेहे मानुषेण दिव्येन वा निर्णयः कार्यः,

यदि तस्मिन् दाप्यमाने भवेन् मोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर् वापि साधयेत् ॥ (ध्को १७६६)

इति वृद्धमनुस्मरणात् ॥ २.२७२ ॥

अपराधविशेषेण दण्डविशेषम् आह ।

बन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः । २.२७३अब्
प्रसह्य घातिनश् चैव शूलान् आरोपयेन् नरान् ॥ २.२७३च्द् ॥

बन्दिग्राहादीन् बलावष्टम्भेन घातकांश् च नरान् शूलान् आरोपयेत् । अयं च वधप्रकारविशेषोपदेशः ।

कोष्ठागारायुधागारदेवतागारभेदकान् ।
हस्त्यश्वरथहर्तॄंश् च हन्याद् एवाविचारयन् ॥ (म्ध् ९.२८०)

इति मनुस्मरणात् ॥ २.२७३ ॥

किं च ।

उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ । २.२७४अब्
कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २.२७४च्द् ॥

वस्त्राद्युत्क्षिपत्य् अपहरतीत्य् उत्क्षेपकः । वस्त्रादिबद्धं स्वर्णादिकं विस्त्रस्योत्कृत्य वा यो ऽपहरत्य् असौ ग्रन्थिभेदः । तौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्याङ्गुष्टेन च हीनौ कार्यौ । द्वितीयापराधे पुनः करश् च पादश् च करपादं तच् च तद् एकं च करपादैकं तद्धीनं ययोस् तौ करपादैकहीनकौ कार्यौ । उत्क्षेपकग्रन्थिभेदकयोर् एकम् एकं करं पादं छिन्द्याद् इत्य् अर्थः । एतद् अप्य् उत्तमसाहसप्राप्तियोग्यद्रव्यविषयम्,

तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः । (न्स्म् १४.७)

इति नारदवचनात् । तृतीयापराधे तु वध एव । तथा च मनुः ।

अङ्गुलीग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥ इति । (म्ध् ९.२७७)

जातिद्रव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २.२७४ ॥

जातिद्रव्यपरिमाणपरिग्रहविनियोगवयःशक्तिगुणदेशकालादीनां दण्डगुरुलघुभावकारणानाम् आनन्त्यात् प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनोपायम् आह ।

क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः । २.२७५अब्
देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २.२७५च्द् ॥

क्षुद्राणां मध्यमानाम् उत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो दण्डः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् ।

मृद्भाण्डासनखड्वास्थिदारुचर्मतृणादि यत् ।
शमीधान्यं कृतान्नं च क्षुद्रं द्रव्यम् उदाहृतम् ॥
वासः कौशेयवर्ज्यं च गोवर्ज्यं पशवस् तथा ।
हिरण्यवर्ज्यं लोहं च मध्यं व्रीहियवा अपि ॥
हिरण्यरत्नकौशेयस्त्रीपुङ्गोगजवाजिनः ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयम् उत्तमम् ॥ (न्स्म् १४.१३–१५)

त्रिप्रकारेष्व् अपि द्रव्येष्व् औत्सर्गिकः प्रथममध्यमोत्तमसाहसरूपो दण्डनियमस् तेनैव दर्शितः ।

साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥ इति ॥ (न्स्म् १४.२०)

मृन्मयेषु मणिकमल्लिकादिषु गोवाजिव्यतिरिक्तेषु च महिषमेषादिपशुषु ब्राह्मणसंबन्धिषु च कनकधान्यादिषु तरतमभावो ऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां मूल्याद्यनुसारेण दण्डः कल्पनीयः । तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशकालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच् च जातिद्रव्यपरिमाणपरिग्रहादीनाम् उपलक्षणम् । तथाहि “अष्टपाद्यं स्तेयकिल्बिषं शूद्रस्य । द्विगुणोत्तराणीतरेषां प्रतिवर्णम् । विदुषो ऽतिक्रमे दण्डभूयस्त्वम्” (ग्ध् १२.१५–१७) इति । अयम् अर्थः । किल्बिषशब्देनात्र दण्डो लक्ष्यते । यस्मिन्न् अपहारे यो दण्ड उक्तः स विद्वच्छूद्रकर्तृके ऽपहारे ऽष्टगुण आपादनीयः । इतरेषां पुनर् विट्क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिषाणि षोडशद्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः, यस्माद् विद्वच्छूद्रादिककर्तृकेष्व् अपहारेषु दण्डभूयस्त्वम् । मनुनाप्य् अयम् एवार्थो दर्शितः ।

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस् तद्दोषगुणवेदिनः ॥ इति ॥ (म्ध् ८.३३७–३८)

तथा परिमाणकृतम् अपि दण्डगुरुत्वं दृश्यते । यथाह मनुः ।

धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।
शेषेश्व् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥ इति ॥ (म्ध् ८.३२०)

विंशतिद्रोणकः कुम्भः । हर्तुर् ह्रियमाणस्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालाद्यपेक्षया ताडनाङ्गच्छेदनवधरूपा दण्डा योज्याः ॥ तथा संख्याविशेषाद् अपि दण्डविशेषो रत्नादिषु ।

सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।
रत्नानां चैव सर्वेषां शताद् अभ्यधिके वधः ॥
पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषेष्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥ इति ॥ (म्ध् ८.३२१–२२)

तथा द्रव्यविशेषाद् अपि । (८.३२३) –

पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
रत्नानां चैव सर्वेषां हरणे वधम् अर्हति ॥ (म्ध् ८.३२३)

अकुलीनानां तु दण्डान्तरम् ।

पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः ।
स्त्र्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥ इति ॥ (न्स्म् १९.३५)

क्षुद्रद्रव्याणां तु माषतो न्यूनमूल्यानां मूल्यात् पञ्चगुणो दमः,

काष्टभाण्डतृणादीनां मृण्मयानां तथैव च ॥
वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ।
शाकानाम् आर्द्रमूलानां हरणे फलमूलयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥
पक्वान्नानं कृतान्नानां मत्स्यानाम् आमिषस्य च ।
सर्वेषां मूल्यभूतानां मूल्यात् पञ्चगुणो दमः ॥ (न्स्म् १९.२९–३१)

इति नारदस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः पञ्चशतपर्यन्तो ऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं व्यवस्थापनीयः ॥ यत् पुनर् मानवं क्षुद्रद्रव्यगोचरवचनं “तन्मूल्याद् द्विगुणो दमः” (म्ध् ८.३२९) इति तद् अल्पप्रयोजनशरावादिविषयम् । तथापराधगुरुत्वाद् अपि दण्डगुरुत्वम् । यथा,

संधिं भित्त्वा तु ये चौर्यं रात्रौ कुर्वति तस्कराः ।
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥ (म्ध् ९.२७६)

इत्य् एवं सर्वेषाम् आनन्त्यात् प्रतिद्रव्यं वक्तुम् अशक्तेर् जातिपरिमाणादिभिः कारणैर् दण्डगुरुलघुभावः कल्पनीयः । पथिकादीनां पुनर् अल्पापराधे न दण्डः । यथाह मनुः-

द्विजो ऽध्वगः क्षीणवृत्तिर् द्वाव् इक्षू द्वे च मूलके ।
आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥ (म्ध् ८.३४१)

तथा,

चणकव्रीहिगोधूमयवानां मुद्गमाषयोः ।
अनिषिधैर् गृहीतव्यो मुष्टिर् एकः पथि स्थितैः ॥ (ध्को १७२३)
तथैव सप्तमे भक्तं भक्तानि षड् अनश्नता ।
अश्वस्तना विधानेन हर्तव्यं हीनकर्मणः ॥ (म्ध् ११.१६) इति ॥ २.२७५ ॥

अचौरस्यापि चौरोपकारिणो दण्डम् आह ।

भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् । २.२७६अब्
दत्त्वा चौरस्य वा हन्तुर् जानतो दम उत्तमः ॥ २.२७६च्द् ॥

भक्तम् अशनम् । अवकाशो निवासस्थानम् । अग्निश् चौरस्य शीतापनोदाद्यर्थः । उदकं तृषितस्य । मन्त्रश् चौर्यप्रकारोपदेशः । उपकरणं चौर्यसाधनम् । व्ययो ऽपहारार्थं देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर् वा दुष्टत्वं जानन्न् अपि यः प्रयच्छति तस्योत्तमसाहसो दण्डः । चौरोपेक्षिणाम् अपि दोषः,

शक्ताश् च य उपेक्षन्ते ते ऽपि तद्दोषभागिनः । (न्स्म् १४.१८)

इति नारदस्मरणात् ॥ २.२७६ ॥

किं च ।

शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः । २.२७७अब्
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ २.२७७च्द् ॥

परगात्रेषु शस्त्रस्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्डः । दासीगर्भनिपातने तु “दासीगर्भविनाशकृद्” (य्ध् २.२३६) इत्यादिना शतदण्डो ऽभिहितः । ब्राह्मणगर्भविनाशे तु “हत्वा गर्भम् अविज्ञातम्” (म्ध् ११.८७) इत्य् अत्र ब्रह्महत्यातिदेशं वक्ष्यते । पुरुषस्य स्त्रियाश् च प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २.२७७ ॥

अपि च ।

विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम् । २.२७८अब्
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २.२७८च्द् ॥

विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्नी स्वगर्भपातिनी च । या च पुरुषस्य हन्त्री सेतूनां भेत्त्री च एता गर्भरहिताः स्त्रीर् गले शिलां बद्ध्वा अप्सु प्रवेशयेत् यथा न प्लवन्ति ॥ २.२७८ ॥

किं च ।

विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् । २.२७९अब्
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २.२७९च्द् ॥

अगर्भिणीम् इत्य् अनुवर्तते । या च परवधार्थम् अन्नपानादिषु विषं ददाति क्षिपति । या च दाहार्थं ग्रामादिष्व् अग्निं ददाति तथा या च निजपतिगुर्वपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्टीं कृत्वा अदान्तैर् दुष्टबलीवर्दैः प्रवाह्य मारयेत् । स्तेयप्रकरणे यद् एतत् साहसिकस्य दण्डविधानं तत् प्रासङ्गिकम् इति मन्तव्यम् ॥ २.२७९ ॥

अविज्ञातकर्तृके हनने हन्तृज्ञानोपायम् आह ।

अविज्ञातहतस्याशु कलहं सुतबान्धवाः । २.२८०अब्
प्रष्टव्या योषितश् चास्य परपुंसि रताः पृथक् ॥ २.२८०च्द् ॥

अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः सुताः प्रत्यासन्नबान्धवाश् च केनास्य कलहो जात इति कलहम् आशु प्रष्टव्याः । तथा मृतस्य संबन्धिन्यो योषितो याश् च परपुंसि रता व्यभिचारिण्यस् ता अपि प्रष्टव्याः ॥ २.२८० ॥

कथं प्रष्टव्या इत्य् अत आह ।

स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । २.२८१अब्
मृत्युदेशसमासन्नं पृच्छेद् वापि जनं शनैः ॥ २.२८१च्द् ॥

किम् अयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा तथा कस्यां किंसंबन्धिन्यां वा स्त्रियाम् अस्य रतिर् आसीत् कस्मिन् वा द्रव्ये प्रीतिः कुतो वा वृत्तिकामः केन वा सह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक् पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाटविकाद्या ये जनास् ते ऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्नैर् हन्तारं निश्चित्य तद् उचितो दण्डो विधातव्यः ॥ २.२८१ ॥

किं च ।

क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । २.२८२अब्
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना ॥ २.२८२च्द् ॥

क्षेत्रं पक्वफलसस्योपेतम् । वेश्म गृहम् । वनम् अटवीं क्रीडावनं वा । ग्रामम् । विवीतम् उक्तलक्षणम् खलं वा ये दहन्ति ये च राजपत्नीम् अभिगच्छन्ति तान् सर्वान् कटैर् वीरणमयैर् वेष्टयित्वा दहेत् । क्षेत्रादेर् दाहकानां मारणदण्डप्रसङ्गाद् दण्डविधानम् ॥ २.२८२ ॥

इति स्तेयप्रकरणम्

अथ स्त्रीसंग्रहणप्रकरणम्

स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम् ।

त्रिविधं तत् समाख्यातं प्रथमं मध्यमोत्तमम् ।
अदेशकालभाषाभिर् निर्जने च परस्त्रियाः ॥
कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ।
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥
प्रलोभनं चान्नपानैर् मध्यमं साहसं स्मृतम् ।
सहासनं विविक्तेषु परस्परम् उपाश्रयः ॥
केशाकेशिग्रहश् चैव सम्यक् संग्रहणं स्मृतम् ॥ (ध्को १८८९)

स्त्रीपुंसयोर् मिथुनीभावः संग्रहणम् ॥

संग्रहणज्ञानपूर्वकत्वात् तत्कर्तुर् दण्डविधानं तज्ज्ञानोपायं तावद् आह ।

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया । २.२८३अब्
सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥ २.२८३च्द् ॥

संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर् लिङ्गैर् ज्ञात्वा ग्रहीतव्यः । परस्परं केशग्रहणपूर्विका क्रीडा केशाकेशि । “तत्र तेनेदम्” (पाण् २.२.२७) इति सरूपे इति बहुव्रीहौ सति, “इच् कर्मव्यतिहारे” (पाण् ५.४.१२७) इति समासान्त इच्प्रत्ययः । अव्ययत्वाच् च लुप्ततृतीयाविभक्तिः । ततश् चायम् अर्थः । परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशनादिकृतव्रणैः रागकृतैर् लिङ्गैर् द्वयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तौ ग्रहीतव्यः । परस्त्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् ॥ २.२८३ ॥

किं च ।

नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । २.२८४अब्
अदेशकालसंभाषं सहैकासनम् एव च ॥ २.२८४च्द् ॥

यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्टते यः सो ऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच् चाशङ्क्यमानदोषपुरुषविषयम् । इतरस्य तु न दोषः । यथाह मनुः ।

यस् त्व् अनाक्षारितः पूर्वम् अभिभाषते कारणात् ।
न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥ इति । (म्ध् ८.३५५)

यः परस्त्रिया स्पृष्टः क्षमते ऽसाव् अपि ग्राह्य इति तेनैवोक्तम् ।

स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तथा ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥ इति । (म्ध् ८.३५८)

यश् च मयेयं विदग्धासकृद्रमितेति श्लाघया भुजंगजनसमक्षं ख्यापयत्य् असाव् अपि ग्राह्य इति तेनैवोक्तम् ।

दर्पाद् वा यदि वा मोगाच् छ्लाघया वा स्वयं वदेत् ।
पूर्वं मयेयं भक्तेति तच् च संग्रहणं स्मृतम् ॥ इति ॥ (ध्को १८५३)

प्रतिषिद्धयोर् द्वयोः स्त्रीपुंसयोः पुनः सल्लापादिकरणे दण्डम् आह ।

स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान् । २.२८५अब्
प्रतिषेधे तयोर् दण्डो यथा संग्रहणे तथा ॥ २.२८५च्द् ॥

प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर् येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनर् एवं निषिद्धे प्रवर्तमानो द्विशतं दद्यात् । द्वयोस् तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच् च चारणादिभार्याव्यतिरेकेण । (८.३६२) –

नैष चारणदारेषु विधिर् नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीं निगूढाश् चारयन्ति च ॥ (म्ध् ८.३६२)

इति मनुस्मरणात् ॥ २.२८५ ॥

तद् इदानीं संग्रहणे दण्डम् आह ।

सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः । २.२८६अब्
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २.२८६च्द् ॥

चतुर्णाम् अपि वर्णानां बलात्कारेण सजातीयगुप्तपरदाराभिगमने साशीतिपणसहस्रं दण्डनीयः । यदा त्व् आनुलोम्येन हीनवर्णां स्त्रियम् अगुप्ताम् अभिगच्छति तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णाम् अगुप्ताम् आनुलोम्येन गुप्तां वा व्रजति तदा मानवे विशेष उक्तः ।

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह संगतः ॥ (म्ध् ८.३७८)
तथा ।
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रियविशोः साहस्रं तु भवेद् दमः ॥ इति ॥ (म्ध् ८.३८३)

एतच् च गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम्,

माता मातृष्वसा श्वश्रूमातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥ (न्स्म् १२.७२–७४)

इति नारदस्मरणात् । प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच् च गुप्ताविषयम् । अन्यत्र तु धनदण्डः ।

उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ (म्ध् ८.३७७)
ब्राह्मणीं यद्य् अगुप्तां तु सेवेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ (म्ध् ८.३७६)

इति मनुस्मरणात् । शूद्रस्य पुनर् अगुप्ताम् उत्कृष्टवर्णां स्त्रियं व्रजतो लिङ्गच्छेदनसर्वस्वापहारौ ।

शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।
अगुप्तम् अङ्गसर्वस्वैर् गुप्तं सर्वेण हीयते ॥ इति । (म्ध् ८.३७४)

नार्याः पुनर् हीनवर्णं व्रजन्त्याः कर्णयोर् आदिग्रहणान् नासादेश् च कर्तनम् । आनुलोम्येन वा सवर्णं वा व्रजन्त्या दण्डः कल्प्यः । अयं च वधाद्युपदेशो राज्ञ एव तस्यैव पालनाधिकारान् न द्विजातिमात्रस्य । तस्य “ब्राह्मणः परीक्षार्थम् अपि शस्त्रं नाददीत” (ध्को १६०५- आपस्तम्ब) इति शस्त्रग्रहणनिषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशण्का तदा स्वयम् एव जारादीन् हन्यात् ।

शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते । (म्ध् ८.३४८)

तथा ।

नाततायिवधे दोषो हन्तुर् भवति कश् चन ।
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ (म्ध् ८.३५१)

इति शस्त्रग्रहणाभ्यनुज्ञानाच् च । तथा क्षत्रियवैश्ययोर् अन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्रपञ्चशतपणात्मकौ दण्डौ वेदितव्यौ । तद् आह मनुः ।

वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥ इति ॥ (म्ध् ८.३८२) २.२८६ ॥

पारदार्यप्रसङ्गात् कन्यायाम् अपि दण्डम् आह ।

अलंकृतां हरन् कन्याम् उत्तमं ह्य् अन्यथाधमम् । २.२८७अब्
दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २.२८७च्द् ॥

विवाहाभिमुखीभूताम् अलंकृतां सवर्णां कन्याम् अपहरन्न् उत्तमसाहसं दण्डनीयः । तदनभिमुखीं सवर्णां हरन् प्रथमं साहसम् । उत्कृष्टवर्णजां कन्याम् अपहरतः पुनः क्षत्रियादेर् वध एव । दण्डविधानाच् चापहर्तृसकाशाद् आच्छिद्यान्यस्मै देयेति गम्यते ॥ २.२८७ ॥

आनुलोम्यापहरणे दण्डम् आह ।

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः । २.२८८अब्

यदि सानुरागां हीनवर्णां कन्याम् अपहरति तदा दोषाभावान् न दण्डः । अन्यथा त्व् अनिच्छन्तीम् अपहरतः प्रथमसाहसो दण्डः ॥

कन्यादूषणे दण्डम् आह ।

दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ २.२८८च्द् ॥

अनुलोमास्व् इत्य् अनुवर्तते । यद्य् अकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति, तदा तस्य करश् छेत्तव्यः । यदा पुनस् ताम् एवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन् दूषयति तदा मनूक्तषट्शतसहितो ऽङ्गुलिच्छेदः ।

अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥ इति । (म्ध् ८.३६७)

यदा पुनः सानुरागां पूर्ववद् दूषयति तदापि तेनैव विशेष उक्तः ।

सकामां दूषयन् कन्यां नाङ्गुलिछेदम् अर्हति ।
द्विशतं तु दमम् दाप्यः प्रसङ्गविनिवृत्तये ॥ इति । (म्ध् ८.३६८)

यदा तु कन्याइव कन्यां दूषयति विदग्धा वा तत्रापि विशेषस् तेनैवोक्तः ।

कन्यैव कन्यां या कुर्यात् तस्यास् तु द्विशतो दमः ।
या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव वा च्छेदं खरेणोद्वहनं तथा ॥ इति । (म्ध् ८.३६९–७०)

कन्यां कुर्याद् इति कन्यां योनिक्षतवतीं कुर्याद् इत्य् अर्थः ॥ यदा पुनर् उत्कृष्टजातीयां कन्याम् अविशेषात् सकामाम् अकामां वाभिगच्छति तदा हीनस्य क्षत्रियादेर् वध एव ।

उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति । (म्ध् ८.३६६)

इति मनुस्मरणात् ॥ यदा सवर्णां सकामाम् अभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् यदीच्छति । पितरि तु शुल्कम् अनिच्छति दण्डरूपेण तद् एव राज्ञे दद्यात् । सवर्णाम् अकामां तु गच्छतो वध एव । यथाह मनुः ।

शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥ (म्ध् ८.३६६)
यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥ (म्ध् ८.३६४) इति ॥

किं च ।

शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसने । २.२८९अब्
पशून् गच्छन् शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ २.२८९च्द् ॥

स्त्रीशब्देनात्र प्रकृतत्वात् कन्यावमृश्यते । तस्या यदि कश्चिद् विद्यमानान् एवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोषान् प्रकाश्येयम् अकन्येति दूषयत्य् असौ शतं दाप्यः । मिथ्याभिशंसने तु पुनर् अविद्यमानदोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्यः । यः पुनर् हीनां स्त्रियम् अन्त्यावसायिनीम् अविशेषात् सकामाम् अकामां वा गां चाभिगच्छत्य् असौ मध्यमसाहसं दण्डनीयः ॥ २.२८९ ॥

साधारणस्त्रीगमने दण्डम् आह ।

अवरुद्धासु दासीषु भुजिष्यासु तथैव च । २.२९०अब्
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ २.२९०च्द् ॥

“गच्छन्” इत्य् अनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस् ता एव स्वामिना शुश्रूषाहानिव्युदासार्थं गृह एव स्थातव्यम् इत्य् एवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्यो ऽवरुद्धा भुजिष्या वा भवेयुस् तदा तासु तथा । चशब्दाद् वेश्यास्वैरिणीनाम् अपि साधारणस्त्रीणां भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्व् अपि गच्छन् पञ्चाशत् पणान् दण्डनीयः, परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच् च स्पष्टम् उक्तं नारदेन ।

स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासनी च या ।
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥
आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्यास्व् अपि हि नोपेयाद् यत् ताः परपरिग्रहाः ॥ इति ॥ (न्स्म् १२.७७–७८)

निष्कासिनी स्वाम्यनवरुद्धा दासी ।

ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानम् उक्तम् । न हि जातितः शास्त्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते । तथा हि । स्वैरिण्यो दास्यश् च तावद् वर्णस्त्रिय एव,
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् । (य्ध् १.६७)
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ (य्ध् २.१८३)

इति स्मरणात्[^३८] । न च वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते ।

दुःशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।
उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥
कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ (म्ध् ५.१५४, १५७)

इति निषेधस्मरणात् ॥ नापि कन्यावस्थायाः साधारणत्वम् । पित्रादिपरिरक्षितायाः कन्याया एव दानोपदेशात् । दात्रभावे ऽपि तथाविधाया एव स्वयंवरोपदेशात् । न च दासीभावात् स्वधर्माधिकारच्युतिः । पारतन्त्र्यं हि दास्यं न स्वधर्मपरित्यागः । नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभवात् । तद् अन्तःपातित्वे च पूर्ववद् एवागम्यत्वम् । प्रतिलोमजत्वे तु तासां नितराम् अगम्यत्वम् । अतः पुरुषान्तरोपभोगे तासां निन्दितकर्माभ्यासेन पातित्यात् । पतितसंसर्गस्य निषिद्धत्वाच् च न सकलपुरुषोपभोगयोग्यत्वम् ।

सत्यम् एवम् । किं त्व् अत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद् गम्यत्ववाचोयुक्तिः । दण्डाभावश् चावरुद्धासु दासीष्व् इति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात् तदुपाधिरहितास्व् अर्थाद् अवगम्यते । स्वैरिण्यादीनां पुनर् दण्डाभावो विधानाभावात्,
कन्यां भजन्तीम् उत्कृष्टां न किंचिद् अपि दापयेत् । (म्ध् ८.३६५)

इति लिङ्गनिदर्शनाच् चावगम्यते । प्रायश्चित्तं तु स्वधर्मस्खलननिमित्तं गम्यानां गन्तॄणां चाविशेषाद् भवत्य् एव । यत् पुनर् वेश्यानां जात्यन्तरासंभवेन वर्णान्तःपातित्वम् अनुमानाद् उक्तम्, “वेश्या वर्णानुलोमाद्यन्तःपातित्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्” इति । तन् न, तत्र कुण्डगोलकादिभिर् अनैकान्तिकत्वात् । अतो वेश्याख्या काचिज् जातिर् अनादिर् वेश्यायाम् उत्कृष्टजातेः समानजातेर् वा पुरुषाद् उत्पन्ना पुरुषसंभोगवृत्तिर् वेश्येति ब्राह्मण्यादिवल् लोकप्रसिद्धिबलाद् अभ्युपगमनीयम् । न च निर्मूलेयं प्रसिद्धिः । स्मर्यते हि स्कन्दपुराणे- “पञ्चचूडा नाम काश्चनाप्सरसस् तत्सन्ततिर् वेश्याख्या पञ्चमी जातिः” इति । अतस् तासां नियतपुरुषपरिणयनविधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्य् अपि न दण्डस् तथाप्य् अदृष्टदोषो ऽस्त्य् एव “स्वदारनिरतः सदा” (म्ध् ३.४५) इति नियमात्,

पशुवेश्याभिगमने प्राजापत्यं विधियते । (च्फ़्। विध् ५३.७)

इति प्रायश्चित्तस्मरणाच्, चेति निरवद्यम् ॥ २.२९० ॥

“अवरुद्धासु दासीषु” इत्य् अनेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं विदधतस् तास्व् अभुजिषास्व् दण्डो नास्तीत्य् अर्थाद् उक्तम्, तद् अपवादम् आह ।

प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः । २.२९१अब्
बहूनां यद्य् अकामासौ चतुर्विंशतिकः पृथक् ॥ २.२९१च्द् ॥

पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्य बलात्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव एकाम् अनिच्छन्तीम् अपि बलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस् तदिच्छया भाटिं दत्त्वा पश्चाद् अनिच्छन्तीम् अपि बलाद् व्रजन्ति तदा तेषाम् अदोषः, यदि व्याध्याद्यभिभवस् तस्या न स्यात्,

व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा ।
आमन्त्रिता चेन् नागच्छेद् अदण्ड्या वडवा स्मृता ॥ (बृस्म् १.१६.१३)

इति नारदवचनात् ।

गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । २.२९२अब्
अगृहीते समं दाप्यः पुमान् अप्य् एवम् एव हि ॥ २.२९२च्द् ॥

यदा तु शुल्कं गृहीत्वा स्वस्थाप्य् अर्थपतिं नेच्छति तदा द्विगुणं शुल्कं दद्यात् । तथा शुल्कं दत्त्वा स्वयम् अनिच्छतः स्वस्थस्य पुंसः शुल्कहानिर् एव,

शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छन् दत्तशुल्को ऽपि शुल्कहानिम् अवाप्नुयात् ॥ (न्स्म् ६.२०; ध्को ८५१)

इति तेनैवोक्तम् । तथान्यो ऽपि विशेषस् तेनैव दर्शितः ।

अप्रयच्छंस् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् । (न्स्म् ६.२०)
अक्रमेण च संगच्छन् पाददन्तनखादिभिः ॥ (ध्को ८५१)
अयोनौ वाभिगच्छेद् यो बहुभिर् वापि वासयेत् ।
शुल्कम् अष्टगुणं दाप्यो विनयं तावद् एव तु ॥ (न्स्म् ६.२१)
वेश्याप्रधाना यास् तत्र कामुकास् तद्गृहोषिताः ।
तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥ (ध्को ८५१) इति ॥ २.२९२ ॥

किं च ।

अयोनौ गच्छतो योषां पुरुषं वापि मेहतः । २.२९३अब्
चतुर्विंशतिको दण्डस् तथा प्रव्रजितागमे ॥ २.२९३च्द् ॥

यस् तु स्वयोषां मुखादाव् अभिगच्छति पुरुषं वाभिमुखो मेहति तथा प्रव्रजितां वा गच्छत्य् असौ चतुर्विंशतिपणान् दण्डनीयः ॥ २.२९३ ॥

किं च ।

अन्त्याभिगमने त्व् अङ्क्यः कुबन्धेन प्रवासयेत् । २.२९४अब्
शूद्रस् तथान्त्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥ २.२९४च्द् ॥

अन्त्या चाण्डाली तद्गमने त्रैवर्णिकान् प्रायश्चित्तानभिमुखान् “सहस्रं त्व् अन्त्यजस्त्रियम्” (म्ध् ८.३८५) इति मनुवचनात् पणसहस्रं दण्डयित्वा, कुबन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा, स्वराष्ट्रान् निर्वासयेत् । प्रायश्चित्ताभिमुखस्य पुनर् दण्डनम् एव । शूद्रः पुनश् चाण्डाल्यभिगमे ऽन्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश् चाण्डालादेर् उत्कृष्टजातिस्त्र्यभिगमे वध एव ॥ २.२९४ ॥

इति स्त्रीसंग्रहणप्रकरणम्

अथ प्रकीर्णकप्रकरणम्

व्यवहारप्रकारणमध्ये स्त्रीपुंसयोगाख्यम् अप्य् अपरं विवादपदं मनुनारदाभ्यां विवृतम् । तत्र नारदः ।

विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगसंज्ञं तद्विवादपदम् उच्यते ॥ इति ॥ (न्स्म् १२.१)

मनुर् अप्याह ।

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्या ह्य् आत्मनो वशे ॥ इत्यादि । (म्ध् ९.२)

यद्य् अपि स्त्रीपुंसयोः परस्परम् अर्थिप्रत्यर्हितया नृपसमक्षं व्यवहारो निषिद्धस् तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दण्डादिना दम्पती निजधर्मार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग् भवति व्यवहारप्रकरणे राजधर्ममध्ये ऽस्य स्त्रीपुंसधर्मजातस्योपदेशः । एतच् च विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितम् इति योगीश्वरेण न पुनर् अत्रोक्तम् ॥

सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं च कथितं नारदेन ।

प्रकीर्णकेषु विज्ञेया व्यवहारा नृपाश्चयाः ।
राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥
पुरःप्रदानं संभेदः प्रकृतीनां तथाइव च ।
पाखण्डिनैगमश्रेणीगणधर्मविपर्ययाः ॥
पित्रापुत्रविवादश् च प्रायश्चित्तव्यसंक्रमः ।
प्रतिग्रहविलोपश् च कोपश् चाश्रमिणाम् अपि ॥
वर्णसंकरदोषश् च तद्वृत्तिनियमस् तथा ।
न दृष्टं यच् च पूर्वेषु सर्वं तत् स्यात् कीर्णकम् ॥ इति ॥ (न्स्म् १८.१–४)

प्रकीर्णके विवादपदे ये विवादा राजाज्ञोल्लङ्घनतदाज्ञाकरणादिविषयास् ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्तमानानां प्रतिकूलताम् आस्थाय व्यवहारनिर्णयं कुर्यात् । एवं च वदता यो नृपाश्रयो व्यवहारस् तत्प्रकीर्णकम् इत्य् अर्थाल् लक्षितं भवति ॥

तत्रापराधविशेषेण दण्डविशेषम् आह ।

ऊनं वाभ्यधिकं वापि लिखेद् यो राजशासनम् । २.२९५अब्
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥ २.२९५च्द् ॥

राजदत्तभूमेर् निबन्धस्य वा परिमाणान् न्यूनत्वम् आधिक्यं वा प्रकाशयन् राजशासनं यो ऽभिलिखति, यश् च पारदारिकं चौरं वा गृहीत्वा राज्ञे ऽनर्पयित्वा मुञ्चति, ताव् उभाव् उत्तमसाहसं दण्डनीयौ ॥ २.२९५ ॥

प्रसङ्गान् नृपाश्रयव्यतिरिक्तव्यवहारविषयम् अपि दण्डम् आह ।

अभक्ष्येण द्विजं दूष्यो दण्ड उत्तमसाहसम् । २.२९६अब्
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रम् अर्धिकम् ॥ २.२९६च्द् ॥

मूत्रपुरीषादिना अभक्ष्येण भक्ष्यानर्हेण ब्राह्मणं दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनर् एवं दूषयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्यार्धं दण्ड्यो भवतीति संबन्धः । लशुनाद्यभक्ष्यदूषणे तु दोषतारतम्याद् दण्डतारतम्यम् ऊहनीयम् ॥ २.२९६ ॥

किं च ।

कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । २.२९७अब्
त्र्यङ्गहीनस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम् ॥ २.२९७च्द् ॥

रसवेधाद्यापादितवर्णोत्कर्षैः कूटैः स्वर्णैर् व्यवहारशीलो यः स्वर्णकारादिः । यश् च विमांसस्य कुत्सितमांसस्य श्वादिसंबद्धस्य विक्रयशीलः सौनिकादिः । चशब्दात् कूटरजतादिव्यवहारी च । ते सर्वे प्रत्येकं नासाकर्णकरैस् त्रिभिर् अङ्गैर् हीनाः कार्याः । चशब्दात् त्र्यङ्गच्छेदेन समुच्चितम् उत्तमसाहसं दण्डं दाप्याः । यत् पुनर् मनुनोक्तम् ।

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
प्रवर्तमानम् अन्याये छेदयेल् लवशः क्षुरैः ॥ (म्ध् ९.२९२)

इति तद् एतद् देवब्राह्मणराजस्वर्णविषयम् ॥ २.२९७ ॥

विषयविशेषे दण्डाभावम् आह ।

चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः । २.२९८अब्
काष्ठलोष्टेषुपाषाणबाहुयुग्यकृतस् तथा ॥ २.२९८च्द् ॥

चतुष्पादैर् गोगजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपो ऽसौ गवादिस्वामिनो न भवत्य् अपसरेति प्रकर्षेणोच्चैर् भाषमाणस्य । तथा लकुटलोष्टसायकपाषाणोत्क्षेपणेन बाहुना युग्येन च युगं वहताश्वादिना कृतो यः पूर्वोक्तो दोषः सो ऽपि काष्ठादीन् प्रास्यतो न भवत्य् अप्रसरेति प्रजल्पतः । काष्टाद्युत्क्षेपणेन हिंसायां दोषाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तम् पुनर् अबुद्धिपूर्वकरणनिमित्तम् अस्त्य् एव । काष्टादिग्रहणं च शक्तितोमरादेर् उपलक्षणार्थम् ॥ २.२९८ ॥

किं च ।

छिन्ननस्येन यानेन तथा भग्नयुगादिना । २.२९९अब्
पश्चाच् चैवापसरता हिंसने स्वाम्य् अदोषभाक् ॥ २.२९९च्द् ॥

नासि भवा रज्जुर् नस्या छिन्ना शकटादियुक्तबलीवर्दनस्या रज्जुर् यस्मिन् याने तत् छिन्ननस्यं शकटादि तेन । तथा भग्नयुगेन आदिग्रहणाद् भग्नाक्षचक्रादिना च यानेन पश्चात् पृष्ठतो ऽपसरता चशब्दात् तिर्यगपगच्छता प्रतिमुखं चागच्छता च मनुष्यादिहिंसने स्वामी प्राजको वा दोषभाङ् न भवति, अतत्प्रयत्नजनितत्वाद् धिंसनस्य । तथाच मनुः ।

छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥ इति ॥ (म्ध् ८.२९१–९२)

उपेक्षायां स्वामिनो दण्डम् आह ।

शक्तो ऽप्य् अमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । २.३००अब्
प्रथमं साहसं दद्याद् विक्रुष्टे द्विगुणं तथा ॥ २.३००च्द् ॥

अप्रवीणप्राजकप्रेरितैर् दंष्ट्रिभिर् गजादिभिः शृङ्गिभिर् गवादिभिर् वध्यमानं समर्थो ऽपि तत्स्वामी यद्य् अमोक्षयन्न् उपेक्षते तदा अकुशलप्राजकनियोजननिमित्तं प्रथमसाहसं दण्डं दद्यात् । यदा तु मारितो ऽहम् इति विक्रुष्टे ऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणम् एव प्राजकं प्रेरयति तदा प्राजक एव दण्ड्यो न स्वामी । यथाह मनुः ।

प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति । इति । (म्ध् ८.२९४)

प्राजको यन्ता । आप्तो ऽभियुक्तः । प्राणिविशेषाच् च दण्डविशेषः कल्पनीयः । यथाह मनुः ।

मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषी भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥
क्षुद्राणां च पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥
गर्धभाजाविकानां तु दण्डः स्यात् पञ्चमाषकः ।
माषकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥ इति ॥ (म्ध् ८.२९६–९८)

किं च ।

जारं चौरेत्य् अभिवदन् दाप्यः पञ्चशतं दमम् । २.३०१अब्
उपजीव्य धनं मुञ्चंस् तद् एवाष्टगुणीकृतम् ॥ २.३०१च्द् ॥

स्ववंशकलङ्कभयाज् जारं पारदारिकं चौरं निर्गच्छेत्य् अभिवदन् पञ्चशतं पणानां पञ्च शतानि यस्मिन् दमे स तथोक्तस् तं दमं दाप्यः । यः पुनर् जारहस्ताद् धनम् उपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्य् असौ यावद्गृहीतं तावदष्टगुणीकृतं दण्डं दाप्यः ॥ २.३०१ ॥

किं च ।

राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । २.३०२अब्
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ २.३०२च्द् ॥

राज्ञो ऽनिष्टस्यानभिमतस्यामित्रस्तोत्रादेः प्रकर्षेण भूयो भूयो वक्तारं तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्धिहेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य जिह्नाम् उत्कृत्य स्वराष्ट्रान् निष्कासयेत् । कोशापहरणादौ पुनर् वध एव,

राज्ञः कोशापहर्तॄंश् च प्रतिकूलेषु च स्थितान् ।
घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ॥ (म्ध् ९.२७५)

इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छेदवधरूपैर् इत्य् अर्थः । सर्वस्वापहारे ऽपि यद् यस्य जीवनोपकरणं तन् नापहर्तव्यम् चौर्योपकरणं विना । यथाह नारदः ।

आयुधान्य् आयुधियानां बाह्यादीन् बाह्यजीविनाम् ।
वेश्यास्त्रीणाम् अलंकारान् वाद्यतोद्यादि तद्विदाम् ॥
यच् च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणे ऽप्य् एतन् न राजा हर्तुम् अर्हति ॥ इति । (न्स्म् १८.११–१२)

ब्राह्मणस्य पुनः “न शारीरो ब्राह्मणे दण्डः” (ग्ध् १२.४६) इति निषेधाद्, वधस्थाने शिरोमुण्डनादिकं कर्तव्यम्,

ब्राह्मणस्य वधो मौण्ड्यं पुरान् निर्वासनाङ्कने ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥ (च्फ़्। ध्को १८५८; न्स्म् १४.९)

इति मनुस्मरणात् ॥ २.३०२ ॥

किं च ।

मृताङ्गलग्नविक्रेतुर् गुरोस् ताडयितुस् तथा । २.३०३अब्
राजयानासनारोढुर् दण्ड उत्तमसाहसः ॥ २.३०३च्द् ॥

मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर् विक्रेतुः गुरोः पित्राचार्यादेस् ताडयितुः तथा राजानुमतिं विना तद्यानं गजाश्वाद्य् असनं सिंहासनाद्य् आरोहतश् चोत्तमसाहसो दण्डः ॥ २.३०३ ॥

किं च ।

द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा । २.३०४अब्
विप्रत्वेन च शूद्रस्य जीवतो ऽष्टशतो दमः ॥ २.३०४च्द् ॥

यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश् च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यतिरिक्तो राज्ञो द्विष्टम् अनिष्टं संवत्सरान्ते तव राज्यच्युतिर् भविष्यतीत्य् एवमादिरूपम् आदेशं करोति । तथा यः शूद्रो भोजनार्थं यज्ञोपवीतादीनि ब्रामणलिङ्गानि दर्शयति तेषाम् अष्टशतो दमः । अष्टौ पणशतानि यस्मिन् दमे स तथोक्तः । “श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस् तप्तशलाकया यज्ञोपवीतवद् वपुष्य् आलिखेत्” इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव, “द्विजातिलिङ्गिनः शूद्रान् घातयेत्” इति स्मरणात् ॥ (चोउल्द् नोत् त्रचे थेसे) २.३०४ ॥

रागलोभादिनान्यथा व्यवहारदर्शने दण्डम् आह ।

दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु । २.३०५अब्
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥ २.३०५च्द् ॥

दुर्दृष्टान् स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिर् असम्यग्विचारितत्वेनाशङ्क्यमानान् व्यवहारान् पुनः स्वयं राजा सम्यग् विचार्य निश्चितदोषाः पूर्वसभ्याः सजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्द्विगुणं दाप्याः । अप्राप्तजेतृदण्डविधिपरत्वाद् वचनस्य “रागाल् लोभाद्” (य्ध् २.४) इत्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्दृष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्या न जयी नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुर्दृष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः,

पादो गच्छति कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ (म्ध् ८.१८)

इति वचनात् । एतच् च प्रत्येकं राजादीनां दोषप्रतिपादनपरं न पुनर् एकस्यैव पापापूर्वस्य विभागाय । यथोक्तम्- “कर्तृसमवायिफलजननस्वभावत्वाद् अपूर्वस्य” इति ॥ २.३०५ ॥

न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्तयितुर् दण्डम् आह ।

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः । २.३०६अब्
तम् आयान्तं पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥ २.३०६च्द् ॥

यः पुनर् न्यायमार्गेण पराजितो ऽप्य् औद्धत्यान् नाहं पराजितो ऽस्मीति मन्यते, तम् आयान्तं कूटलेख्याद्युपन्यासेन पुनर् धर्माधिकारिणम् अधितिष्ठन्तम् धर्मेण पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् । नारदेनाप्य् उक्तम् ।

तीरितं चानुशिष्टं वा यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत्कार्यं पुनर् उद्धरेत् ॥ इति । (न्स्म् मा १.५६)

तीरितं साक्षिलेख्यादिनिर्णीतम् अनुद्धृतदण्डम् । अनुशिष्टम् उद्धृतदण्डम् । दण्डपर्यन्तं नीतम् इति यावत् । यत् पुनर् मनुवचनम् ।

तीरितं चानुशिष्टं च यत्र क्वचन विद्यते ।
कृतं तद् धर्मतो ज्ञेयं न तत् प्राज्ञो निवर्तयेत् ॥ (म्ध् ९.२३३)

इति, तद् अर्थिप्रत्यर्थिनोर् अन्यतरवचनाद् व्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनर् द्विगुणदण्डप्रतिज्ञापूर्वकं व्यवहारं प्रवर्तयेत् न पुनर् धर्मतो वृत्तत्वनिश्चये ऽपि राज्ञा लोभादिना प्रवर्तयितव्य इत्य् एवंपरम् । यत् पुनर् ण्र्पान्तरेणापि न्यायापेतं कार्यं निवर्तितं तद् अपि सम्यक्परीक्षणेन धर्म्ये पथि स्थापनीयम्,

न्यायापेतं यद् अन्येन राज्ञा ज्ञानकृतं भवेत् ।
तद् अप्य् अन्यायविहितं पुनर् न्याये निवेशयेत् ॥ (न्स्म् १८.९)

इति स्मरणात् ॥ २.३०६ ॥

अन्याय्गृहीतदण्डधनस्य गतिम् आह ।

राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् । २.३०७अब्
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ २.३०७च्द् ॥

अन्यायेन यो दण्डो राज्ञा लोभादिना गृहीतस् तं त्रिंशद्गुणिकृतं वरुणाये ँँदमिति संकल्प्य्ँँअ ब्राह्मणेभ्यः स्वयं दद्यात्, यस्माद् दण्डरूपेण यावत् गृहीतम् अन्यायेन तावत् तस्मै प्रतिदेयम्, इतरथापहारदोषप्रसङ्गात्, अन्यायेन दण्डग्रहणे पूर्वस्वामिनः स्वत्त्वविच्छेदाभावाच् च ॥ २.३०७ ॥

इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकाचार्यविज्ञानेश्वरभट्टारकस्यकृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृतौ द्वितीयो ‘ध्यायो व्यवहाराख्यः संपूर्णः ॥।

अथ प्रायश्चित्ताध्यायः ।

अथाशौचप्रकरणम्

गृहस्थाश्रमिणां नित्यनैमित्तका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थविशेषस्य गुणधर्माश् च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौचप्रतिपादनमुखेन तेषाम् अपवादः प्रतिपाद्यते । आशौचशब्देन च कालस्नानाद्यपनोद्यः पिण्डोदकदानादिविधेर् अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुषगतः कश्चनातिशयः कथ्यते, न पुनः कर्मानधिकारमात्रम्, “अशुद्धा बान्धवाः सर्वे” (म्ध् ५.५८) इत्यादाव् अशुद्धत्वाभिधानात्, अशुद्धशब्दस्य च वृद्धव्यवहारे ऽनाहिताग्निदीक्षितादाव् अनधिकारिमात्रे प्रयोगाभावात्, वृद्द्धव्यवहारव्युत्पत्तिनिबन्धनत्वाच् च शब्दार्थावग्ःअतेः । किं च यद्य् आशौचिनां दानादिनिषेधदर्शनात् तदयोग्यत्वम् अशौचशब्दाभिधेयं कल्प्यते, तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वम् अप्य् आशौचशब्दाभिधेयं स्यात् । तत्रानेकार्थकल्पनादोषप्रसङ्गं इत्य् उपेक्षणीयो ऽयं पक्षः ॥

तत्राशौचिभिः सपिण्डाद्यैर् यत् कर्तव्यं तत् तावद् आह ।

ऊनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः । ३.१अब्
आ श्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ॥ ३.१च्द्
यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना । ३.२अब्
स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥ ३.२च्द्

ऊने अपरिपूर्णे द्वे वर्षे यस्यासाव् ऊनद्विवर्षस् तं प्रेतं निखनेत् भूमाव् अवटं कृत्वा निदध्यान् न पुनर् दहेद् इत्य् अर्थः । न च “सकृत् प्रसिंचन्त्य् उदकम्” (य्ध् ३.५) इत्यादिभिः प्रेतोद्देशेन विहितम् उदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुपलेपनादिभिर् अलंकृत्य शुचौ भूमौ श्मशानाद् अन्यत्रास्थिनिचयरहितायां बहिर्ग्रामान् निखननीयः । यथाह मनुः ।

ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।
अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ॥
नास्य कार्यो ऽग्निसंस्कारो नापि कार्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा क्षिपेयुस् त्र्यहम् एव तु ॥ इति । (म्ध् ५.६८–६९)

“अरण्ये काष्ठवत् त्यक्त्वा” इत्यस्यायमर्थः । यथारण्ये काष्ठं त्यक्त्वोदासीनास् तद्विषये भवन्ति तथोनद्विवार्षिकम् अपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौर्ध्वदेहिकेषु उदासीनैर् भवितव्यम् इत्य् आचारादिप्राप्तश्राद्धाद्यभावो ऽनेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पठद्भिर् निधातव्यः,

ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद् भुवि ।
यमगाथा गायमानो यमसूक्तम् अनुस्मरन् ॥

इति यमस्मरणात् ॥ ततस् तस्माद् ऊनद्विवार्षिकाद् इतरपूर्णद्विवर्षो यो मृतो ऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश् च ज्येष्ठपुरःसरैर्[^३९] अनुव्रज्यो ऽनुगन्तव्यः । अस्माद् एव वचनाद् ऊनद्विवर्षस्यानुगमनम् अनियतम् इति गम्यते । अनुगम्य च “परेयिवांसम्” (र्व् १०.१४.१) इत्यादियमसूक्तं यमदैवत्या गाथाश् च जपद्भिर् लौकिकेनासंस्कृतेनाग्निना दग्धव्यो यदि जातारणिर् नास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन, तस्याग्निसंपाद्यकार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश् च चण्डालादिव्यतिरिक्तो ग्राह्यः,

चण्डालाग्निर् अमेध्याग्निः सूतिकाग्निश् च कर्हिचित् ।
पतिताग्निश् चिताग्निश् च न शिष्टग्रहणोचिताः ॥

इति देवलस्मरणात् । लौगाक्षिणा चात्र विशेष उक्तः ।

तूष्णीम् एवोदकं कुर्यात् तूष्णीं संस्कारम् एव च ।
सर्वेषां कृतचूडानाम् अन्यत्रापीच्छया द्वयम् ॥ इति ।

अयम् अर्थः- चौलकर्मानन्तरकाले नियमेनाग्न्युदकदानं कार्यम् । अन्यत्रापि नामकरणाद् ऊर्ध्वं अकृतचूडे ऽपीच्छया प्रेताभ्युदयकामनया द्वयं अग्न्युदकदानात्मकं तूष्णीं कार्यं न नियमेनेति विकल्पः । मनुनाप्य् अत्र विशेषो दर्शितः ।

नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।
जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥ इति । (म्ध् ५.७०)

उदकग्रहणं साहचर्याद् अग्निसंस्कारस्याप्य् उपलक्षणार्थम्, “नात्रिवर्षस्य” इति वचनात् । कुलधर्मापेक्षया चूडोत्कर्षे ऽपि वर्षत्रयाद् ऊर्ध्वम् अग्न्युदकदानादिनियमो ऽवगम्यते । लौगाक्षिवचनाद् वर्षत्रयात् प्राग् अपि कृतचूडस्य तयोर् नियम इति विवेचनीयम् । उपेतश् चेद् यद्य् उपनीतस् तर्ह्य् आहिताग्न्यावृता आहिताग्नेर् दाहप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनैव दग्धव्यः । अर्थवत् प्रयोजनवत् । अयम् अर्थः- यद्य् अस्य कॢप्तं दाहद्वारं कार्यरूपं प्रयोजनं संभवति भूमिजोषणप्रोक्षणादि तद् उपादेयम् । यत् पुनर् लुप्तप्रयोजनं पात्रयोजनादि तन् निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहिताग्नेर् गृह्याग्निना दाहविधानेन च अपहृतप्रयोजनत्वाद् आहवनीयादेर् अपि निवृत्तिर् इति ॥ अग्न्यन्तरविधानं च वृद्धयाज्ञवल्क्येनोक्तम् ।

आहिताग्निर् यथान्यायं दद्घव्यस् त्रिभिर् अग्निभिः ।
अनाहिताग्निर् एकेन लौकिकेनापरो जनः ॥ इति ।

न च शूद्रेण श्मशानं प्रत्य् अग्निकाष्ठादिनयनं कार्यम्,

यस्यानयति शूद्रो ऽग्निं तृणं काष्ठं हवींषि च ।
प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥

इति यमस्मरणात् ॥ तथा दाहश् च स्नपनानन्तरं कार्यः,

प्रेतं दहेच् छुभैर् गन्धैः स्नापितं स्रग्विभूषितम् ।

इति स्मरणात् । प्रचेतसा अप्य् उक्तम् ।

स्नानं प्रेतस्य पुत्राद्यैर् वस्त्राद्यैः पूजनं तथा ।
नग्नदेहं दहेन् नैव किंचिद् देयं परित्यजेत् ॥ इति ।

“किंचिद् देयम्” इति शववस्त्रैकदेशं श्मशानवास्यर्थं देयं परित्यजेद् इत्य् अर्थः ॥ तथा प्रेतनिर्हरणे ऽपि मनुना विशेषो दर्शितः ।

न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् ।
अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंपर्कदूषिता ॥ (म्ध् ५.१०४)

अत्र च “स्वेषु तिष्ठत्सु” इत्य् अविवक्षितम्, अस्वर्ग्यत्वादिदोषश्रवणात् ॥

दक्षिणेन मृतं शूद्रं परद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वैस् तु यथा संख्यं द्विजातयः ॥ (म्ध् ५.९२)

तथा हारीतो ऽपि “न ग्रामाभिमुखं प्रेतं हरेयुः” इति । यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा तेषाम् अप्य् अलाभे पर्णशरैः शौनकादिगृह्योक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकम् एव, “आहिताग्निश् चेत् प्रवसन् म्रियेत पुनःसंस्कारं कृत्वा शववद् आशौचम्” इति (वध् ४.३७) वसिष्ठस्मरणात् ॥ अनाहिताग्निस् तु त्रिरात्रम्,

सुपिष्टैर् जलसंमिश्रैर् दग्धव्यश् च तथाग्निना ।
असौ स्वर्गाय लोकाय स्वाहेत्य् उक्त्वा स बान्धवैः ॥
एवं पर्णशरं दग्ध्वा त्रिरात्रम् अशुचिर् भवेत् ॥

इति वचनात् । ततश् चायम् अर्थः- नामकरणाद् अर्वाङ् निखननम् एव न चोदकदानादि । तत ऊर्ध्वं यावत् त्रिवर्षं वैकल्पिकम् अग्न्युदकदानम् । ततः परं यावद् उपनयनं तूष्णीम् एवाग्न्युदकदानं नियतम् । वर्षत्रयात् प्राग् अपि कृतचूडस्य । उपनयनाद् ऊर्ध्वं पुनर् आहिताग्न्यावृता दाहं कृत्वा सर्वम् और्ध्वदेहिकं कार्यम् । अयं तु विशेषः । उपनीतस्य लौकिकाग्निना दाहः कार्यः । अनाहिताग्नेर् गृह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥ ३.१ ॥ ३.२ ॥

संस्कारानतरं किं कर्तव्यम् इत्य् अत आह ।

सप्तमाद् दशमाद् वापि ज्ञातयो ऽभ्युपयन्त्य् अपः । ३.३अब्
अप नः शोशुचद् अघम् अनेन पितृदिङ्मुखाः ॥ ३.३च्द्

सप्तमाद् दिवसाद् अर्वाग् दशमदिवसाद् वा ज्ञातय्ः समानगोत्राः सपिण्डाः समानोदकाश् च “अप नः शोशुचद् अघम्” (र्व् १.९७.१–८) इत्य् अनेन मन्त्रेण दक्षिणामुखा अपो ऽभ्युपनयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टम् अभ्युपगमनं लक्ष्यते, “एवं मातामहाचार्येष्व्” इत्य् अनन्तरम् उदकदानस्यातिदेशदर्शनात् । एतच् चायुग्मासु तिथिषु कार्यम्, “प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया” (ग्ध् १४.४०) इति गौतमस्मरणात् । एतच् च स्नानानन्तरं कार्यं । “शरीरम् अग्नौ संयोज्यानवेक्षमाणा अपो ऽभ्युपयन्ति” इति शातातपस्मरणात् । तथा प्रचेतसाप्य् अत्र विशेषो दर्शितः- “प्रेतस्य बान्धवा यथावृद्धम् उदकम् अवतीर्य नोद्धर्षयेयुर् उदकान्ते प्रसिञ्चेयुर् अपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योदङ्मुखाः प्रत्यङ्मुखाश् च राजन्यवैश्ययोः” इति । स्मृत्यन्तरे तु यावन्त्य् आशौचदिनानि तावद् उदकदानस्यावृत्तिर् उक्ता । यथाह विष्णुः- “यावद् आशौचं तावत् प्रेतस्योदकं पिण्डं च दद्युः” (विध् १९.१३) इति ॥ तथा च प्रचेतसाप्य् उक्तम् ।

दिने दिने’ञ्जलीन् पूर्णान् प्रदद्यात् प्रेतकारणात् ।
तावद् वृद्धिः प्रकर्तव्या यावत् पिण्डः समाप्यते ॥ इति ।

प्रतिदिनम् अञ्जलीनां वृद्धिः कार्या यावद् दशमः पिण्डः समाप्यत इत्य् अर्थः ॥ यद्य् अप्य् अनयोर् गुरुलघुकल्पयोर् अन्यतरानुष्ठानेनापि शास्त्रार्थः सिद्धस् तथापि बहुक्लेशावहत्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनीयम्, अन्यथा गुरुतरकल्पाम्नायस्यानर्थक्यप्रसङ्गात् । वसिष्ठेनापि विशेषो ऽभिहितः- “सव्योत्तराभ्यां पाणिभ्याम् उदकक्रियां कुर्वीरन्” (वध् ४.१२) इति ॥ ३.३ ॥

वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर् गुणैर् विशिष्टस्योदकदानस्यासमानगोत्रेषु मातामहादिष्व् अतिदेशम् आह ।

एवं मातामहाचार्यप्रेतानाम् उदकक्रिया । ३.४अब्
कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम् ॥ ३.४च्द्

यथा सगोत्रसपिण्डानां प्रेतानाम् उदकं दीयते तथा मातामहानाम् आचार्याणां च प्रेतानां नित्यम् उदकक्रिया कार्या । सखा मित्रं, प्रत्तः परिणीता दुहितृभगिन्यादयः, स्वस्त्रीयो भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः एषां सख्यादिनां प्रेतानां कामोदकं कार्यं । काम इच्छा । कामेनोदकदानं कामोदकं प्रेताभ्युदयकामनायां सत्याम् उदकं देयम् असत्यां न देयम् इत्य् अकरणे प्रत्यवायो नास्तीत्य् अर्थः ॥ ३.४ ॥

उदकदाने गुणविधिम् आह ।

सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः । ३.५अब्

तच् चोदकदानम् इत्थं कर्तव्यम् । सपिण्डाः समानोदकाश् च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य अमुकनामा प्रेतो ऽमुकगोत्रस् तृप्यत्व् इति सकृद् एवोदकं प्रसिञ्चेयुः त्रिर् वा, “त्रिः प्रसेकं कुर्युः प्रेतस् तृप्यत्व् इति” इति प्रचेतसः स्मरणात् । प्रतिदिनम् अञ्जलिवृद्धिस् तु प्रतिपादितैव । तथा अयम् अपि विशेषस् तेनैवोक्तः ।

नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् ।
वस्त्रं संशोधयेद् आदौ ततः स्नानं समाचरेत् ॥
सचैलस् तु ततः स्नात्वा शुचिः प्रयतमानसः ।
पाषाणं तत आदाय विपेर् दद्याद् दशाञ्जलीन् ॥
द्वादश क्षत्रिये दद्याद् वैश्ये पञ्चदश स्मृताः ।
त्रिंशच् छूद्राय दातव्यास् ततः संप्रविशेद् गृहम् ।
ततः स्नानं पुनः कार्यं गृहशौचं च कारयेत् ॥ इति ॥

सपिण्डानां मध्ये केषांचिद् उदकदानप्रतिषेधम् आह ।

न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा ॥ ३.५च्द्

ज्ञातित्वे सत्य् अपि ब्रह्मचारिणः समावर्तनपर्यन्तं पतिताश् च प्रच्युतद्विजातिकर्माधिकारा उदकादिदानं न कुर्युः । ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डादीनाम् उदकदानम् अशौचं च कुर्याद् एव । यथाह मनुः ।

आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रम् अशुचिर् भवेत् ॥ इति । (म्ध् ५.८८)

आदिष्टी “ब्रह्मचार्य्[^४०] अस्य् अपो ऽशान कर्म कुरु दिवा मा स्वाप्सीः” (आश्गृ १.२२.२) इत्यादिव्रतादेशयोगाद् ब्रह्मयचार्य् उच्यते । एतच् च पित्रादिव्यतिरेकेणेति वक्ष्यति, “आचार्यपित्रुपाध्यायान्” इति (य्ध् ३.१५) । आत्राचार्यः पुनर् एवं मन्यते “आदिष्टीति प्रकान्तप्रायश्चित्तः कथ्यते तस्यैवायम् उदकदानादिनिषेधः प्रायश्चित्तरूपव्रतस्य समाप्त्युत्तरकालम् उदकदानाशौचविधिर्” इति । तथा क्लीबादीनां चोदकदायित्वं निषिद्धम्,

क्लीबाद्या नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः ।
गर्भभर्तृद्रुहश् चैव सुराप्यश् चैव योषितः ॥

इति वृधमनुस्मरणात् ॥ ३.५ ॥

एवम् उदकदाने कर्तृविशेषप्रतिषेधम् उक्त्वा संप्रदानविशेषेण प्रतिषेधम् आह ।

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । ३.६अब्
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ३.६च्द्

नरशिरःकपालादि श्रुतिबाह्यलिङ्गधारणं पाखण्डं, तद् विद्यते येषां ते पाखण्डिनः । अनाश्रिता अधिकारे सत्य् अप्य् अकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्रव्यहारिणः । भर्तृघ्न्यः प्रतिघातिन्यः । कामगाः कुलटाः । आदिग्रहणात् स्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाग्न्युदकोद्बन्धनाद्यैर् आत्मानं यास् त्यजन्ति । एते पाखण्ड्यादयः “त्रिरात्रं दशरात्रम्” (य्ध् ३.१८) वा इति वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदेहिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः सपिण्डादीनाम् आशौचादिनिमित्तभूता न भवन्ति । अतस् तन्मरणे सपिण्डैर् उदकदानादि न कार्यम् इत्य् एतत् प्रतिपादनपरं वचनम् । अत्र च सुराप्य इत्यादिषु लिङ्गम् अविवक्षितम्,[^४१]

लिङ्गं च वचनं देशः कालो ऽयं कर्मणः फलम् ।
मीमांसाकुशलाः प्राहुर् अनुपादेयपञ्चकम् ॥

इत्यनुपादेयगतत्वात् । एतच् च बुद्धिपूर्वविषयम् । यथाह गौतमः- “प्रायो ऽनाशकशस्त्रग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम्” (ग्ध् १४.१२) इति । प्रायो महाप्रस्थानम् । अनाशकम् अनशनम् । गिरिशिखराद् अवपातः प्रपतनम् । अत्र “चेच्छताम्” इति विशेषणोपादानात् प्रमादकृत्ये दोषो नास्तीत्य् अवगन्तव्यम्,

अथ कश्चित् प्रमादेन म्रियेताग्न्युदकादिभिः ।
तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥

इत्य् अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषाद् अप्य् आशौचादिनिषेधः ।

चाण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मिणाम् ॥
उदकं पिण्डदानं च प्रेतेभ्यो यत् प्रदीयते ।
नोपतिष्ठति तत् सर्वम् अन्तरिक्षे विनश्यति ॥
इति एतद् अपीच्छापूर्वम् आत्महननविषयम्, गौतमवचनेनेच्छापूर्वकम् एवोदकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि “चण्डालाद् उदकात् सर्पाद्” इति तत्साहचर्यदर्शनाद् बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चण्डालादीन् हन्तुं गतो यस् तैर् मारितस् तस्यायं सर्वत एवात्मानं गोपायेद् इति विध्यतिक्रमनिमित्तः पिण्डदानादिनिषेधः एवं दुष्टदंष्ट्र्यादिग्रहणार्थम् आभिमुख्येन दर्पाद् गच्छतो मरणे ऽप्य् अयं निषेध इत्य् अनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकालावच्छिन्नस्य,
हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् । (य्ध् ३.२१)

इति सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकम् अप्य् एषां न कार्यम्,

नाशौचं नोदकं नाश्रु न दाहाद्यन्त्यकर्म च ।
ब्रह्मदण्डहतानां च न कुर्यात् कटधारणम् ॥
इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहता । प्रेतवहनसाधनं खट्वादि कटशब्देनोच्यते । न चाहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेत्य् एतत् श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गाद् अयं स्मार्तो दाहादिनिषेधो विप्रादिहताहिताग्निविषयं नास्कन्दतीत्य् आशङ्कनीयम् । यतश् चण्डालादिहताहिताग्निसंबन्धिनाम् अग्नियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते ।
वैतानं प्रक्षिपेद् अप्सु आवसथ्यं चतुष्पथे ।
पात्राणि तु दहेद् अग्नौ यजमाने वृथा मृते ॥ इति ।

तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरम् उक्तम्,

आत्मनस् त्यागिनां नास्ति पतितानां तथा क्रिया ।
तेषाम् अपि तथा गङ्गातोये संस्थापनं हितम् ॥

इति स्मरणात् । तस्माद् अविशेषेण सर्वेषां दहनादिनिषेधः । अतः स्नेहादिना निषेधातिक्रमे प्रायश्चित्तं कर्तव्यम्,

कृट्वाग्निम् उदकं स्नानं स्पर्शनं वहनं कथाम् ।
रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुध्यति ॥

इति स्मरणात् । एतच् च प्रत्येकं बुद्धिपूर्वके वेदितव्यम् । अबुद्धिपूर्वकरणे तु,

एषाम् अन्यतमं प्रेतं यो वहेत दहेत वा ।
कटोदकक्रियां कृट्वा कृच्छ्रं सान्तपनं चरेत् ॥
इति संवर्तोक्तं द्रष्टव्यम् । यः पुनः,
तच्छवं केवलं स्पृष्टम् अश्रु वा पातितं यदि ।
पूर्वोक्तानाम् अकारी चेद् एकरात्रम् अभोजनम् ॥

इति स्पर्शाश्रुपातयोर् उपवास उक्तः । असौ कृच्छ्रेष्व् अशक्तस्य तथा “बन्धनच्छेदने दहने वा मासं भैक्षाहारस् त्रिषवणं च” इति सुमन्तुना भैक्षाशित्वम् उक्तं तद् अप्य् अशक्तस्यैव । एवम् अन्यान्य् अपि तद्विषयाणि स्मृतिवाक्यानि व्यवस्थापनीयानि । अयं च दाहादिप्रतिषेधो नित्यकर्मानुष्ठानासमर्थजीर्णवानप्रस्थादिव्यतिरिक्तविषयः, तेषाम् अभ्यनुज्ञादर्शनात्,

वृद्धः शौचस्मृतेर् लुप्तः प्रत्याख्यातभिषक्क्रियः ।
आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनाम्बुभिः ॥
तस्य त्रिरात्रम् आशौचं द्वितीये त्व् अस्थिसंचयः ।
तृतीये तूदकं कृत्वा चतुर्थे श्राद्धम् आचरेत् ॥

इति स्मरणात् ।

एवं येन येनोपाधिना आत्महननं शास्त्रतो ऽभ्यनुज्ञायते तत्तद्व्यतिरिक्तमार्गेणात्महनने श्राद्धाद्यौर्ध्वदेहिकेषु निषिद्धेषु किं पुनस् तेषां कार्यम् इत्य् अपेक्षायां वृद्धयाज्ञवल्क्य-छागलेयाभ्याम् उक्तम् ।
नारायणबलिः कार्यो लोकगर्हाभयान् नरैः ।
तथा तेषां भवेच् छौचं नान्यथेत्य् अब्रवीद् यमः ।
तस्मात् तेभ्यो ऽपि दातव्यम् अन्नम् एव सदक्षिणम् ॥ इति ।

व्यासेनाप्य् उक्तम् ।

नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते ।
तस्य शुद्धिकरं कर्म तद् भवेन् नैतद् अन्यथा ॥ इति ।

एवं नारायणबलिः प्रेतस्य शुद्ध्यापादनद्वारेण श्राद्धादिसंप्रदानत्वे योग्यतां जनयतीत्य् और्ध्वदेहिकम् अपि सर्वं कार्यम् एव । अत एव षट्त्रिंशन्मते ऽप्य् और्ध्वदेहिकस्याभ्यनुज्ञा दृश्यते ।

गोब्राह्मणहतानां च पतितानां तथैव च ।
ऊर्ध्वं संवत्सरात् कुर्यात् सर्वम् एवौर्ध्वदेहिकम् ॥ इति ।

एवं संवत्सराद् ऊर्ध्वम् एव नारायणबलिं कृत्वाउर्ध्वदेहिकं कार्यम् ॥

नारायणबलिश् चेत्थं कार्यः । कस्यांचिच् छुक्लैकादश्यां विष्णुं वैवस्वतं यमं च यथावद् अभ्यर्च्य तत्समीपे मधुघृतप्लुतांस् तिलमिश्रान् दश पिण्डान् विष्णुरूपिणं प्रेतम् अनुस्मरन् प्रेतनामगोत्रे उच्चार्य दक्षिणाग्रेषु दर्भेषु दक्षिणाभिमुखो दत्त्वा गन्धादिभिर् अभ्यर्च्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् न पत्न्यादिभ्यो दद्यात् । ततस् तस्याम् एव रात्र्याम् अयुग्मान् ब्राह्मणान् आमन्त्र्योपोषितः श्वोभूते मध्याह्ने विष्ण्वाराधनं कृट्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा पिण्डपितृयज्ञावृतोल्लेखनाद्यवनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च परिवारसहिताय चतुरः पिण्डान् दत्त्वा नामगोत्रसहितं प्रेतं संस्मृत्य विष्णोर् नाम संकीर्त्य पञ्चमं पिण्डं दद्यात् । ततो विप्रान् आचान्तान् दक्षिणाभिस् तोषयित्वा तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्ध्या संस्मरन् गोभूहिरण्यादिभिर् अतिशयेन संतोष्य ततः पवित्रपाणिभिर् विप्रैः प्रेताय तिलादिसहितम् उदकं दापयित्वा स्वजनैः सार्धं भुञ्जीत ।
सर्पहते त्व् अयं विशेषः । संवत्सरं यावत् पुराणोक्तविधिना पञ्चभ्यां नागपूजां विधाय पूर्णे संवत्सरे नारायणबलिं कृत्वा सौवर्णं नागं दद्यात् गां च प्रत्यक्षाम् । ततः सर्वम् और्ध्वदेहिकं कुर्यात् ॥
नारायणबलिस्वरूपं च वैष्णवे ऽभिहितं यथा ।
एकादशीं समासाद्य शुक्लपक्षस्य वै तिथिम् ।
विष्णुं समर्चयेद् देवं यमं वैवस्वतं तथा ॥
दश पिण्डान् घृताभ्यक्तान् दर्भेषु मनुसंयुतान् ।
तिलमिश्रान् प्रदद्याद् वै संयतो दक्षिणामुखः ॥
विष्णूं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् ।
नामगोत्रग्रहं तत्र पुष्पैर् अभ्यर्चनं तथा ॥
धूपदीपप्रदानं च भक्ष्यं भोज्यं तथा परम् ।
निमन्त्रयेत विप्रान् वै पञ्च सप्त नवापि वा ॥
विद्यातपःसमृद्धान् वै कुलोत्पन्नान् समाहितान् ।
अपरे ऽहनि संप्राप्ते मध्याह्ने समुपोषितः ॥
विष्णोर् अभ्यर्चनं कृत्वा विप्रांस् तान् उपवेशयेत् ।
उदङ्मुखान् यथा ज्येष्ठं पितृरूपम् अनुस्मरन् ॥
मनो निवेश्य विष्णौ वै सर्वं कुर्याद् अतन्द्रितः ।
आवाहनादि यत् प्रोक्तं देवपूर्वं तद् आचरेत् ॥
तृप्तान् ज्ञात्वा ततो विप्रांस् तृप्तिं पृष्ट्वा यथाविधि ।
हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥
पञ्च पिण्डान् प्रदद्याच् च देवरूपम् अनुस्मरन् ।
प्रथमं विष्णवे दद्याद् ब्रह्मणे च शिवाय च ॥
यमाय सानुचराय चतुर्थं पिण्डम् उत्सृजेत् ।
मृतं संकीर्त्य मनसा गोत्रपूर्वम् अतः परम् ॥
विष्णोर् नाम गृहित्वैवं पञ्चमं पूर्ववत् क्षिपेत् ।
विप्रान् आचम्य विधिवद् दक्षिणाभिः समर्चयेत् ॥
एकं वृद्धतमं विप्रं हिरण्येन समर्चयेत् ।
गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् ॥
ततस् तिलाम्भो विप्रास् तु हस्तैर् दर्भसमन्वितैः ।
क्षिपेयुर् गोत्रपूर्वं तु नाम बुद्धौ निवेश्य च ॥
हविर् गन्धतिलाम्भस् तु तस्मै दद्युः समाहिताः ।
मित्रभृत्यजनैः सार्धं पश्चाद् भुञ्जित वाग्यतः ॥
एवं विष्णुमते स्थित्वा यो दद्याद् आत्मघातिने ।
समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥

सर्पदंशनिमित्तं सौवर्णनागदानं प्रतिकृतिरूपेण भविष्यत्पुराणे सुमन्तुनाभिहितम् ।

सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
व्यासाय दत्त्वा विधिवत् पितुर् आनृण्यम् आप्नुयात् ॥ इति ॥ ३.६ ॥

एवम् उदकदानं सापवादम् अभिधायानन्तरं किं कार्यम् इत्य् अत आह ।

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् । ३.७अब्
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥ ३.७च्द्

कृतम् उदकदानं यैस् तान् कृतोदकान् स्नातान् सम्यग् उदकाद् उत्तीर्णान् मृदुशाद्वले नवोद्गततृणचयावृतभूभागे सम्यक् स्थितान् पुत्रादीन् कुलवृद्धाः पुरातनैर् इतिहासैर् वक्ष्यमाणैर् अपवदेयुः शोकनिरसनसमर्थैर् वचोभिर् बोधयेयुः ॥ ७ ॥

शोकनिरसनसमर्थेतिहासस्वरूपम् आह ।

मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । ३.८अब्
करोति यः स संमूढो जलबुद्बुदसंनिभे ॥ ३.८च्द्

मनुष्यशब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते तस्य भावो मनुष्यं तत्र संसरणधर्मित्वेन कदलीस्तम्भवद् अन्तःसाररहिते जलबुद्बुदवद् अचिरविनश्वरे संसारे सारस्य स्थिरस्य मार्गणम् अन्वेषणं यः करोति स संमूढो ऽत्यन्तविनष्टचित्तः । तस्मात् संसारस्वरूपवेदिभिर् भवद्भिर् इत्थं न कार्यं ॥ ३.८ ॥

किं च ।

पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः । ३.९अब्
कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥ ३.९च्द्

जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वफलोपभोगार्थं पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोपभोगनिवृत्तौ पञ्चत्वम् आगतः पुनः पृथिव्यादिरूपतां प्राप्तस् तत्र भवतां किम् अर्था परिदेवना । निष्प्रयोजनत्वान् नानुशोचनं कर्तव्यम्, वस्तुस्थितेस् तथात्वात् । न हि केनचिद् वस्तुस्थितिर् अतिक्रमितुं शक्यते ॥ ३.९ ॥

अपि च ।

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च । ३.१०अब्
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ ३.१०च्द्

नेदम् आश्चर्यं मरणं नाम । यतः पृथिव्यादीनि महान्त्य् अपि भूतानि नाशं गच्छन्ति । तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथम् इवास्थिरतया फेनसंनिभो मरणधर्मा भूतसंघो विनाशं न यास्यति । उचितम् एव हि मरणधर्मिणः प्रयाणम् । अतो निष्प्रयोजनः शोकसमावेशः ॥ ३.१० ॥

अनिष्टापादकत्वाद् अप्य् अनुशोचनं न कार्यम् इत्य् आह ।

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः । ३.११अब्
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ३.११च्द्

यस्माद् अनुशोचद्भिर् बान्धवैर् वदननयननिर्गमितं श्लेष्माश्रु वा यस्माद् अवशो ऽकामो ऽपि प्रेतो भुङ्क्ते तस्मान् न रोदितव्यं किं तु प्रेतहितेप्सुभिः स्वशक्त्यनुसारेण श्राद्धादिक्रियाः कार्याः ॥ ३.११ ॥

इति संश्रुत्य गच्छेयुर् गृहं बालपुरःसराः । ३.१२अब्
**विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ ३.१२च्द् **
आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् । ३.१३अब्
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ ३.१३च्द्

एवं कुलवृद्धवचांसि सम्यग् आकर्ण्य त्यक्तशोकाः सन्तो बालान् अग्रतः कृट्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियताः संयतमनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा खादित्वा आचमनं च कृत्वाग्न्युदकगोममयगौरसर्षपानालभ्य आदिग्रहणाद् दूर्वाप्रवालम् अग्निवृषभौ वेति शङ्खोक्तौ दूर्वाङ्कुरवृषभाव् अपि स्पृष्ट्वा अश्मनि च पदं निधाय शनैर् अस्खलितं वेश्म प्रविशेयुः ॥ ३.१२ ॥ ३.१३ ॥

अतिदेशम् आह ।

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनाम् अपि । ३.१४अब्
इच्छतां तत्क्षणाच् छुद्धिः परेषां स्नानसंयमात् ॥ ३.१४च्द्

यद् एतत् पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म तन् न केवलं ज्ञातीनाम् अपि तु परेषाम् अपि धर्मार्थं प्रेतालंकारनिर्हरणादिकं कुर्वतां भवति । प्रवेशनादिकम् इत्य् अत्र आदिशब्दो ऽमाङ्गलिक्त्वात् प्रतिलोमक्रमाभिप्रायः । तेषां च धर्मार्थं निर्हरणादौ प्रवृत्तानां तत्क्षणाच् छुद्धिम् इच्छतां असपिण्डानां स्नानप्राणायामाभ्याम् एव शुद्धिः । यथाह पराशरः ।

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलम् अनुपूर्वं लभन्ति ते ॥
न तेषाम् अशुभं किंचित् पापं वा शुभकर्मणाम् ।
जलावगाहनात् तेषां सद्यः शौचं विधीयते ॥ इति ॥ (प्स्म् ३.३९–४०)

स्नेहादिना निर्हरणे तु मनूक्तो विशेषः ।

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥
यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति ।
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ इति । (म्ध् ५.१०१–०२)

अत्रेयं व्यवस्था- यः स्नेहादिना शवनिर्हरणं कृत्वा तदीयम् एवान्नम् अश्नाति तद्गृहे च वसति तस्य दशाहेनैव शुद्धिः । यस् तु केवलं तद्गृहे वसति न पुनस् तदन्नम् अश्नाति तस्य त्रिरात्रम् । यः पुनर् निर्हरणमात्रं करोति न तद्गृहे वसति न च तदन्नम् अश्नाति तस्यैकाह इति । एतत् सजातीयविषयम् । विजातीयविषये पुनर् यज्जातीयं प्रेतं निर्हरति तज्जातिप्रयुक्तम् आशौचं कार्यम् । यथाह गौतमः “अवरश् चेद् वर्णः पूर्वं वर्णम् उपस्पृशेत् पूर्वो वावरं तत्र तच्छवोक्तम् आशौचम्” (ग्ध् १४.२९) इति । उपस्पर्शनं निर्हरणं । विप्रस्य शूद्रनिर्हरणे मासम् आशौचम् । शूद्रस्य तु विप्रनिर्हरणे दशरात्रम् इत्य् एवं शववद् आशौचं कर्तव्यम् इत्य् अर्थः ॥ ३.१४ ॥

ब्रह्मचारिणं प्रत्य् आह ।

आचार्यपित्रुपाध्यायान् निर्हृत्यापि व्रती व्रती । ३.१५अब्
संकटान्नं च नाश्नीयान् न च तैः सह संवसेत् ॥ ३.१५च्द्

आचार्य उक्तलक्षणः माता च पिता च पितरौ उपाध्यायश् च पूर्वोक्तः एतान् निर्हृत्यापि व्रती ब्रह्मचारी व्रत्य् एव न पुनर् अस्य व्रतभ्रंशः । कटशब्देनाशौचं लक्ष्यते, तत्सहचरितम् अन्नं सकटान्नं तद् ब्रह्मचारी नाश्नीयात् । न चाशौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रेतनिर्हरणे तु ब्रह्मचारिणो व्रतलोप इत्य् अर्थाद् उक्तं भवति । अत एव वसिष्ठेनोक्तम् “ब्रह्मचारिणः शवकर्मिणो व्रतान् निवृत्तिर् अन्यत्र मातापित्रोः” (वध् २३.७–८) इति ॥ ३.१५ ॥

आशौचिनां नियमविशेषम् आह ।

क्रीतलब्धाशना भूमौ स्वपेयुस् ते पृथक् क्षितौ । ३.१६अब्
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ ३.१६च्द्

क्रीतम याचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः । भवेयुर् इति शेषः । क्रीतलब्धाशननियमात् तदलाभे ऽनशनम् अर्थात्सिद्धं भवति । अत एव वसिष्ठः “गृहान् व्रजित्वा अधःप्रस्तरे त्र्यहम् अनश्नन्त आसीरन् क्रीतोत्पन्नेन वर्तेरन्” (वध् ४.१४–१५) इति । अधःप्रस्तर आशौचिनां शयनासनार्थस् तृणमयः प्रस्तरः । ते च सपिण्डा भूमाव् एव पृथक् पृथक् शयीरन् न खट्वादौ । मनुनाप्यत्र विशेषो दर्शितः ।

अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥ इति । (म्ध् ५.७३)

तथा गौतमेनापि विशेष उक्तः “अधःशय्याशायिनो ब्रह्मचारिणः शवकर्मिणः” (ग्ध् १४.३७) इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावीतित्वादिरूपया प्रेताय दिनत्रयं पिण्डरूपम् अन्नं तूष्णीं क्षितौ देयम् । यथाह मरीचिः ।

प्रेतपिण्डं बहिर् दद्याद् दर्भमन्त्रविवर्जितम् ।
प्राग् उदीच्यां चरुं कृत्वा स्नातः प्रयतमानसः ॥ इति । दर्भमन्त्रविवर्जितत्वम् अनुपनीतविषयम् । “असंस्कृतानां भूमौ पिण्डं दद्यात् संस्कृतानां कुशेषु” इति प्रचेतःस्मरणात् । तथा कर्तृनियमश् च गृह्यपरिशिष्टाद् विज्ञेयः ।
असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
प्रथमे ऽहनि यो दद्यात् स दशाहं समापयेत् ॥ इति ।

तथा द्रव्यविनियमश् च शुनःपुच्छेन दर्शितः ।

शालिना सक्तुभिर् वापि शाकैर् वाप्य् अथ निर्वपेत् ।
प्रथमे ऽहनि यद् द्रव्यं तद् एव स्याद् दशाहिकम् ॥
तूष्णीं प्रसेकं पुष्पं च दीपं धूपं तथैव च ॥ इति ।

पिण्डश् च पाषाणे देयः, “भूमौ माल्यं पिण्डं पानीयम् उपले वा दद्युः” इति शङ्खस्मरणात् । “न च दद्युर्” इति बहुवचनेनोदकदानवत् सर्वैः पिण्डदानं कार्यम् इत्य् आशङ्कनीयं । किं तु पुत्रेणैव कार्यम् । “पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युस् तदभावे ऋत्विगाचार्यौ” (ग्ध् १५.१३–१४) इति गौतमस्मरणात् । पुत्रबहुत्वे पुनर् ज्येष्ठेनैव कार्यम्,

सर्वैर् अनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् ।
द्रव्येण चाविभक्तेन सर्वैर् एव कृतं भवेत् ॥

इति मरीचिस्मरणात् । पिण्डसंख्यानियमश् च- ब्राह्मणस्य दश पिण्डाः क्षत्रियस्य द्वादशैवेति । एवमाशौचदिवससंख्यया विष्णुनाभिहितम्- “यावद् आशौचं प्रेतस्योदकं पिण्डम् एकं च दद्युः” (च्फ़्। विध् १९.७) इति । तथा स्मृट्यन्तरे ऽपि,

नवभिर् दिवसैर् दद्यान् नव पिण्डान् समाहितः ।
दशमं पिण्डम् उत्सृज्य रात्रिशेषे शुचिर् भवेत् ॥

इति शुचित्ववचनम् अपरेद्युः क्रियमाणश्राद्धार्थब्राह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानम् अभिहितम् । अनयोश् च गुरुलघुकल्पयोर् उदकदानविषयोक्ता व्यवस्था विज्ञेया । अत्रापरः शातातपीयो विशेषः ।

आशौचस्य तु ह्रासे ऽपि पिण्डान् दद्याद् दशैव तु । इति ।

त्रिरात्राशौचिनां पुनः पारस्करेण विशेषो दर्शितः ।

प्रथमे दिवसे देयास् त्रयः पिण्डाः समाहितैः ।
द्वितीये चतुरो दद्याद् अस्थिसंचयनं तथा ॥
त्रींस् तु दद्यात् तृतीये ऽह्नि वस्त्रादि क्षालयेत् तथा ॥ इति ॥ ३.१६ ॥

किं च ।

जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये । ३.१७अब्

जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथग् आकाशे शिक्यादाव् एकाहं स्थापनीयम् । अत्र विशेषानुपादानात् प्रथमे ऽहनि कार्यम्, तथा पारस्करवचनात्- “प्रेतात्र स्नाहीत्य् उदकं स्थाप्यं पिब चेदम् इति क्षीरम्” । तथास्थिसंचयनं च प्रथमादिदिनेषु कार्यम् । तथाह संवर्तः ।

प्रथमे ऽह्नि तृतीये वा सप्तमे नवमे तथा ।
अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥ इति ।

क्वचिद् “द्वितीये त्व् अस्थिसंचयः” इत्य् उक्तम् । वैष्णवे तु “चतुर्थे दिवसे ऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्बसि प्रक्षेपः” (विध् १९.१०–११) इति । अतो ऽन्यतमस्मिन् दिने स्वगृह्योक्तविधिनास्थिसंचयनं कार्यम् । अङ्गिरसा चात्र विशेषो दर्शितः ।

अस्थिसंचयने यागो देवानां परिकीर्तितः ।
प्रेतीभूतं तम् उद्दिश्य यः शुचिर् न करोति चेत् ।
देवतानां तु यजनं तं शपन्त्य् अथ देवताः ॥

देवताश् चात्र श्मशानवासिन्यः । तत्र पूर्वदग्धाः,

श्मशानवासिनो देवाः शवानां परिकीर्तिताः ।

इति तेनैवोक्तम् । अतस् तान् देवान् अचिरमृतं च प्रेतम् उद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमे ऽहनि कार्यम्,

दशमे ऽहनि संप्राप्ते स्नानं ग्रामाद् बहिर् भवेत् ।
तत्र त्याज्यानि वासांसि केशश्मश्रुनकानि च ॥

इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरे ऽपि ।

द्वितीये ऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः ।
तृतीये पञ्चमे वापि सप्तमे वा प्रदानतः ॥ इति ।

श्राद्धप्रदानाद् अर्वाग् अनियम इति यावत् । वपनं च केषाम् इत्य् आकाङ्क्षायाम् आपस्तम्बेनोक्तम्- “अनुभाविनां च परिवापनम्” (आप्ध् १.१०.६) इति । अयम् अर्थः- शावं दुःखम् अनुभवन्तीत्य् अनुभाविनः सपिण्डास् तेषां चाविशेषेण वपनम् उताल्पवयसाम् इत्य् अपेक्षायाम् इदम् एवोपतिष्ठते “अनुभाविनां च परिवापनम्” इति । अनु पश्चाद् भवन्तीत्य् अनुभाविनो ऽल्पवयसस् तेषां वपनम् इति । अनुभाविनः पुत्रा इति केचिन् मन्यन्ते,

गङ्गायां भास्करक्षेत्रे मातापित्रोर् गुरोर् मृतौ ।
आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥

इति नियमदर्शनात् ॥

अशुचित्वेन सकलश्रौतस्मार्तकर्माधिकारनिवृत्तौ प्रसक्तायां केषुचिद् अभ्यनुज्ञानार्थम् आह ।

वैतानौपासनाः कार्याः क्रियाश् च श्रुतिचोदनात् ॥ ३.१७च्द्

वितानो ऽग्नीनां विस्तारस् तत्र भवा वैतानाः त्रेताग्निसाध्या अग्निहोत्रदर्शपूर्णमासाद्याः क्रिया उच्यन्ते । प्रतिदिनम् उपास्यत इत्य् उपासनो गृह्याग्निस् तत्र भवा औपासनाः सायंप्रातर्होमक्रिया उच्यन्ते । ता वैतानौपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वम् इति चेत्, श्रुतिचोदनात् । तथाहि “यावज्जीवम् अग्निहोत्रं जुहुयात्” इत्यादिश्रुतिभिर् अग्निहोत्रादीनां चोदना स्पष्टैव । तथा “अहर् अहः स्वाहा कुर्याद् अन्नाभावे केनचिद् आकाष्टात्” इति श्रुत्यौपासनहोमो ऽपि चोद्यते । अत्र च श्रौतत्वविशेषणोपादानात् स्मार्तक्रियाणां दानादीनाम् अननुष्ठानं गम्यते । अत एव वैयाघ्रपादेनोक्तम्,

स्मार्तकर्मपरित्यागो राहोर् अन्यत्रा सूतके ।
श्रौते कर्मणि तत्कालं स्नातः शुद्धिम् अवाप्नुयात् ॥

इति श्रौतानां च कार्यत्वाभिधानं नित्यनैमित्तिकाभिप्रायेण । यथाह पैठीनसिः “नित्यानि विनिवर्तेरन् वैतानवर्जं शालाग्नौ चैके” इति । “नित्यानि विनिवर्तेरन्न्” इत्य् अविशेषेण आवश्यकानां नित्यनैमित्तिकानां निवृत्तप्रसक्तायां वैतानवर्जम् इत्य् अग्नित्रयसाध्यावश्यकानां पर्युदासः । “शालाग्नौ चैके” इति गृह्याग्नौ भवानाम् अप्य् आवश्यकानां पाक्षिकः पर्युदास उक्तः । अतस् तेष्व् आशौचं नास्त्य् एव । काम्यानां पुनः शौचाभावाद् अननुष्ठानम् । मनुनाप्य् अनेनैवाभिप्रायेणोक्तम्- “प्रत्यूहेन् नाग्निषु क्रियाः” इति (म्ध् ५.८४) । अग्निषु क्रिया न प्रत्यूहेद् इत्य् अनग्निसाध्यानां पञ्चमहायज्ञादीनां निवृत्तिः । अत एव संवर्तः ।

होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा ।
पञ्चयज्ञविधानं तु न कुर्यान् मृत्युजन्मनोः ॥ इति । वैश्वदेवस्याग्निसाध्यत्वे ऽपि वचनान् निवृत्तिः, “विप्रो दशाहम् आसीत वैश्वदेवविवर्जितः” इति तेनैवोक्तत्वात् ।
सूतके कर्मणां त्यागः संध्यादीनां विधीयते ।

इति यद्य् अपि संध्याया विनिवृत्तिः श्रूयते तथाप्य् अञ्जलिप्रक्षेपादिकं कुर्यात् । “सूतके सावित्र्या चाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायन् नमस्कुर्यात्” इति पैठीनसिस्मरणात् । यद्य् अपि “वैतनौपासनाः कार्याः” इति सामान्येनोक्तं तथाप्य् अन्येन कारयितव्यम्, “अन्य एतानि कुर्युः” इति पैठीनसिस्मरणात् । बृहस्पतिनाप्युक्तम् ।

सूतके मृतके चैव अशक्तौ श्राद्धभोजने ।
प्रवासादिनिमित्तेषु हावयेन् न तु हापयेत् ॥ इति ।

तथा स्मार्तत्वे ऽपि पिण्डपितृय्ँँअज्ञश्रवणाकर्माश्वयुँँज्यादिकश् च नित्यहोमः कार्य एव,

सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् ।
पिण्डयज्ञं चरुहोमम् असगोत्रेण कारयेत् ॥

इति जातूकर्ण्यस्मरणात् । यद्य् अपि सङ्गे कर्मण्य् अन्यकर्तृत्वं तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात्, तस्यानन्यनिष्पाद्यत्वात् । अत एवोक्तम् –

श्रौते कर्मणि तत्कालं स्नातः शुद्धिम् अवाप्नुयात् । इति ।

यत् पुनः “दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते” इति होमप्रतिषेद्धः स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः । तथा सूतकान्नभोजनम् अपि न कार्यम्, “उभयत्र दशाहानि कुलस्यान्नं न भुज्यते” इति यमस्मरणाद् उभयत्र जननमरणयोः । दशाहानीत्य् आशौचकालोपलक्षणम् । कुलस्य सूतकयुक्तस्य संबन्ध्यन्नं असकुल्यैर् न भोक्तव्यं । सकुल्यानां पुनर् न दोषः । “सूतके तु कुलस्यान्नम् अदोषं मनुर् अब्रवीत्” इति तेनैवोक्तत्वात् । अयं च निषेधो दातृभोक्त्रोर् अन्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्यः,

उभाभ्याम् अपरिज्ञाते सूतकं नैव दोषकृत् ।
एकेनापि परिज्ञाते भोक्तुर् दोषम् उपावहेत् ॥

इति षट्त्रिंशन्मतदर्शनात् । तथा विवाहादिषु सूतकोत्पत्तेः प्राक् ब्राह्मणार्थं पृथक् कृतम् अन्नं भोक्तव्यम् एव,

विवाहोत्सवयज्ञेषु त्व् अन्तरा मृतसूतके ।
पूर्वसंकल्पितार्थेषु न दोषः परिकीर्तितः ॥ (च्फ़्। प्स्म् ३.३८)

इति बृहस्पतिस्मरणात् । तथापरो ऽपि विशेषः षट्त्रिंशन्मते दर्शितः ।

विवाहोत्सवयज्ञेषु त्व् अन्तरा मृतसूतके ।
परैर् अन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥
भुञ्जानेषु तु विप्रेषु त्व् अन्तरा मृतसूतके ।
अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः ॥ इति ।

तथाशौचपरिग्रहत्वे ऽपि केषुचिद् द्रव्येषु दोषाभावः । यथाह मरीचिः ।

लवणे मधुमांसे च पुष्पमूलफलेषु च ।
शाककाष्ठतृणेष्व् अप्सु दधिसर्पिःपयस्सु च ॥
तिलौषधाजिने चैव पक्वापक्वे स्वयंग्रहः ।
पण्येषु चैव सर्वेषु नाशौचं मृतसूतके ॥ इति ।

पक्वं भक्ष्यजातं मोदकाद्य् अपक्वं तण्डुलादि । स्वयंग्रह इति स्वयम् एव स्वाम्यनुज्ञातो गृह्णीयाद् इत्य् अर्थः । पक्वापक्वाभ्यनुज्ञानम् अन्नसत्रप्रवृत्तविषयम्,

अन्नसत्रप्रवृत्तानाम् आमम् अन्नम् अगर्हितम् ।
भुक्त्वा पक्वान्नम् एतेषां त्रिरात्रं तु पयः पिबेत् ॥

इत्य् अङ्गिरःस्मरणात् । अतः पक्वशब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्व् अङ्गिरसा विशेष उक्तः ।

आशौचं यस्य संसर्गाद् आपतेद् गृहमेधिनः ।
क्रियास् तस्य न लुप्यन्ते गृह्याणां च न तद् भवेत् ॥ इति ।

तद् आशौचं केवलं गृहमेधिन एव न पुनस् तद्गृहेभवानां भार्यादीनां तद्द्रव्याणां च भवेद् इत्य् अर्थः । अतिक्रान्ताशौचे ऽप्य् अयम् एवार्थः स्मृत्यन्तरे दर्शितः ।

अतिक्रान्ते दशाहे तु पश्चाज् जानाति चेद् गृही ।
त्रिरात्रं सूतकं तस्य न तद् द्रव्यस्य कर्हिचित् ॥ इति ॥ ३.१७ ॥

एवम् आशौचिनो विधिप्रतिषेधरूपान् धर्मान् अभिधायाधुना आशौचनिमित्तं कालनियमं चाह ।

त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते । ३.१८अब्
ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि ॥ ३.१८च्द्

शवनिमित्तम् शावम् । सूतकशब्देन च जननवाचिना तन्निमित्तम् आशौचम् लक्ष्यते । एवं च वदता जननमरणयोर् आशौचनिमित्तत्वम् उक्तं भवति । तच् च जननमरणम् उत्पन्नज्ञातम् एव निमित्तम्, “निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च” (म्ध् ५.७७) इत्यादिलिङ्गदर्शनात्, तथा,

विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम् ।
यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥

इत्यादिवाक्यारम्भसामर्थ्याच् च । उत्पत्तिमात्रापेक्षत्वे ह्य् आशौचस्य दशाहाद्याशौचकालनियमास् तत्तत्प्रभृतिका एवेत्य् अनिर्दशज्ञातिमरणश्रवणे दशरात्रशेषम् एवाशौचम् अर्थात् सिध्यतिति “यच् छेषं दशरात्रस्य” इत्यनारम्भणीयं स्यात् । तस्माज् ज्ञातम् एव जननं मरणं च निमित्तं । तच् चोभयनिमित्तम् अप्य् आशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः । अत्राशौचप्रकरणे अहर्ग्रहणं रात्रिग्रहणं चाहोरात्रोपलक्षणार्थम् । “मन्वादिभिर् इष्यते” इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् । तथाहि ।

दशाहं शावाम् आशौचं सपिण्डेषु विधीयते । (म्ध् ५.५९)
जनने ऽप्य् एवम् एव स्यान् निपुणां शुद्धिम् इच्छताम् । (म्ध् ५.६१)
जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते । (म्ध् ५.७१)
शवस्पृशो विशुध्यन्ति त्र्यहात् तूदकदायिनः । (म्ध् ५.६४)

इत्य् एतैर् वाक्यैस् त्रिरात्रदशरात्रयोः समानोदकसपिण्डविषयत्वेन व्यवस्थाकृता । अतः सपिण्डानां सप्तमपुरुषावधिकानाम् अविशेषेण दशरात्रम् । समानोदकानां त्रिरात्रम् इति । यत् पुनः स्मृत्यन्तरवचनम्,

चतुर्थे दशरात्रं स्यात् षण्निशाः पुंसि पञ्चमे ।
षष्ठे चतुरहाच् छुद्धिः सप्तमे त्व् अहर् एव तु ॥

इति तद्विगीतत्वान् नादरणीयम् । यद् अप्य् अविगीतं तथापि मधुपर्काङ्गपश्वालम्भनवल् लोकविद्विष्टत्वान् नानुष्ठेयम्,

अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु । (य्ध् १.१५६)

इति मनुस्मरणात् । न च सप्तमे प्रत्यासन्ने सपिण्डे एकाहो विप्रकृष्टाष्टमादिषु समानोदकेषु त्र्यहम् इति युक्तम् । एवम् अविशेषेण सपिण्डानाम् आशौचे प्राप्ते क्वचिन् नियमार्थम् आह । ऊनद्विवर्षे संस्थिते उभयोर् एव मातापित्रोर् दशरात्रम् आशौचं न सर्वेषां सपिण्डानाम् । तेषां तु वक्ष्यति “आदन्तजन्मनः सद्यः” इति । तथा च पैङ्ग्यः- “गर्भस्थे प्रेते मातुर् दशाहं, जात उभयोः, कृते नाम्नि सोदराणां च” इति । अथ वा अयम् अर्थः- ऊनद्विवर्षे संस्थिते उभयोर् मातापित्रोर् एव अस्पृश्यत्वलक्षण्म् आशौचं च सपिण्डानाम् । तथा स्मृत्यन्तरे, “ऊनद्विवर्षे प्रेते मातापित्रोर् एव नेतरेषाम्” इत्य् अस्पृश्यत्वलक्षणम् अभिप्रेतम् । इतरस्य पुनः कर्मण्य् अनधिकारलक्षणस्य सपिण्डेष्व् अपि “आ दन्तजन्मनः सद्यः” इत्यादिभिर् विहितत्वात् । अत्र दृष्टान्तः “सूतकं मातुर् एव हि” इति । यथा सूतकं जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचं मातुर् एव केवलं तथोनद्विवर्ष्ōप्रमे मातापित्रोर् एवास्पृश्यत्वम् इति । ऊनद्विवर्षे सपिण्डानाम् अस्पृश्यत्वं प्रतिषेधतान्यत्रास्पृश्यत्वम् अभ्यनुज्ञातं भवति । तथा च देवलः ।

स्वाशौचकालाद् विज्ञेयं स्पर्शनं च त्रिभागतः ।
शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥ इति ।

एतच् चानुपनीतप्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषये ऽपि तेनैवोक्तम् ।

दशाहादित्रिभागेन कृते संचयने क्रमात् ।
अङ्गस्पर्शनम् इच्छन्ति वर्णानां तत्त्वदर्शिनः ॥
त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु ।
भोज्यान्नो दशभिर् विप्रः शेषा द्वित्रिषडुत्तरैः ॥ इति ।

द्व्युत्तरैर् दशभिः त्र्युत्तरैर् द्वादशभिः षडुत्तरैः पञ्चदशभिर् इति द्रष्टव्यम् ।

जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचम् आह ।

पित्रोस् तु सूतकं मातुस् तदसृग्दर्शनाद् ध्रुवम् । ३.१९अब्
तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ ३.१९च्द्

सूतकं जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचं पित्रोर् मातपित्रोर् एव न सर्वेषां सपिण्डानाम् । तच् चास्पृश्यत्वं मातुर् ध्रुवं दशाहपर्यन्तं स्थिरम् इत्य् अर्थः । कुतः । तदसृग्दर्शनात् तस्याः संबन्धित्वेनासृजो दर्शनात् । अत एव वसिष्ठः ।

नाशौचं विद्यते पुंसः संसर्गं चेन् न गच्छति ।
रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥ इति । (वध् ४.२३)

पितुस् तु ध्रुवं न भवति स्नानमात्रेणास्पृश्यत्वं निवर्तते । यथाह संवर्तः ।

जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।
माता शुध्येद् दशाहेन स्नानात् तु स्पर्शनं पितुः ॥ इति ।

“माता शुध्येद् दशाहेन” इत्य् एतच् च संव्यवहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः- “सूतिकां पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्” इति । अङ्गरसा च सपिण्डानाम् अस्पृश्यत्वाभावः स्पष्टीकृतः ।

सूतके सूतिकावर्ज्यं संस्पर्शो न निषिध्यते ।
संस्पर्शे सूतिकायास् तु स्नानम् एव विधीयते ॥ इति ।

यस्मिन् दिवसे कुमारजननं तद् अहर् न प्रदुष्येत । तन्निमित्तदानाद्यधिकारापहारकृन् न भवतीत्य् अर्थः । यस्मात् तस्मिन्न् अहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस् तस्मात् तद् अहर् न प्रदुष्येत । तथा च वृद्धयाज्ञवल्क्येनोक्तम् ।

कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः ।
हिरण्यभूगवाश्वाजवासःशय्यासनादिषु ॥
तत्र सर्वं प्रतिग्राह्यं कृतान्नं न तु भक्षयेत् ।
भक्षयित्वा तु तन् मोहाद् द्विजश् चान्द्रायणं चरेत् ॥ इति ॥

व्यासेनाप्य् अत्र विशेष उक्तः ।

सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तं तु शुचिर् जन्मनि कीर्तिता ॥
प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥

मार्कण्डेयेनाप्युक्तम् ।

रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कुर्युर् दशम्यां चैव सूतके ॥ इति ॥ ३.१९ ॥

आशौचमध्ये पुनर्जनने मरणे वा जाते “प्रतिनिमित्तं नैमित्तिकम् आवर्तते” इति न्यायेन पुनर्दशाहाद्याशौचप्राप्तौ तदपवादम् आह ।

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति । ३.२०अब्

वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावान् आशौचकालस् तदन्तरा तत्समस्य ततो न्यूनस्य वाशौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वाशौचावशिष्टैर् एवाहोभिर् विशुध्यति । न पुनः पश्चाद् उत्पन्नजननादिनिमित्तं पृथक् पृथग् आशौचं कार्यम् । यदा पुनर् अल्पाद् वर्तमानाशौचाद् दीर्घकालम् आशौचम् अन्तरा पतति तदा न पूर्वशेषेण शुद्धिः । यथाह उशनाः ।

स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद् यदि ।
न पूर्वेण विशुद्धिः स्यात् स्वकालेनैव शुध्यति ॥ इति ।

यमो ऽप्य् आह ।

अघवृद्धिमद् आशौचं पश्चिमेन समापयेत् । इति ।

अत्र च “अन्तरा जन्ममरणे” इति यद्य् अप्य् अविशेषेणाभिहितं तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः ।

सूतके मृतकं चेत् स्यान् मृतके त्व् अथ सूतकं ।
तत्राधिकृत्य मृतकं शौचं कुर्यान् न सूतकम् ॥ इति ।

तथा षट्त्रिंशन्मते ऽपि ।

शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।
शावने शुध्यते सूतिर् न सूतिः शावशोधिनी ॥ इति ।

तस्मान् न सूतकान्तःपातिनः शावाशौचस्य पूर्वशेषेण शुद्धिः, किं तु शावान्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वे ऽपि शावस्य क्वचित् पूर्वशेषेण शुद्धेर् अपवादः स्मृत्यन्तरे दर्शितः ।

मातर्य् अग्रे प्रमीतायाम शुद्धौ म्रियते पिता ।
पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणीम् ॥ इति ।

अयम् अर्थः- मातरि पूर्वं मृतायां तन्निमित्ताशौचमध्ये यदि पितुर् उपरमः स्यात् तदा न पूर्वशेषेण शुद्धिः, किं तु पितुः प्रयाणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितुः प्रयाणनिमित्ताशौचमध्ये मातरि स्वर्यातायाम् अपि न पूर्वशेषमात्राच्छुद्धिः, किं तु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेद् इति ॥ तथाशौचसन्निपातकालविशेषकृतो ऽप्य् अपवादो गौतमेनोक्तः- “रात्रिशेषे सति द्वाभ्यं प्रभाते सति तिसृभिः” (ग्ध् १४.७–८) इति । अयम् अर्थः- रात्रिमात्रावशिष्टे पूर्वाशौचे यद्य् आशौचान्तरं सन्निपतेत् तर्हि पूर्वाशौचं समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । प्रभाते पुनस् तस्या रात्रेः पश्चिमे यामे जननाद्याशौचान्तरसन्निपते सति तिसृभी रात्रिभिः शुद्धिः न पुनस् तच्छेषमात्रेण । शातातपेनाप्युक्तम्- “रात्रिशेषे द्व्यहाच् छुद्धिर् यामशेषे शुचिस् त्र्यहात्” इति । प्रेतक्रिया पुनः सूतकसन्निपाते ऽपि न निवर्तत इति तेनैवोक्तम् ।

अन्तर्दशाहे जननात् पश्चात् स्यान् मरणं यदि ।
प्रेतम् उद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥
प्रारब्धे प्रेतपिण्डे तु मध्ये चेज् जननं भवेत् ।
तथाइवाशौचपिण्डांस् तु शेषान् दद्याद् यथाविधि ॥ इति ।

तथा शावाशौचयोः सन्निपाते ऽपि प्रेतकृत्यं कार्यम्, तुल्यन्यायत्वात् । तथा जातकर्मादिकम् अपि पुत्रजन्मनिमित्तकम् आशौचान्तरसन्निपाते ऽपि कार्यम् एव । तथा प्रजापतिः ।

आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् ।
कर्तुस् तात्कालिकी शुद्धिः पूर्वाशौचेन शुध्यति ॥ इति ॥

पूर्णप्रसवकालजननाशौचम् अभिधायाधुना अप्राप्तकालगर्भनिःसरणनिमित्तम् आशौचम् आह ।

गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम् ॥ ३.२०च्द्

स्रवतिर् यद्य् अपि लोके द्रवद्रव्यकर्तृके परिस्यन्दे प्रयुज्यते, तथाप्य् अत्र द्रवाद्रवद्रव्यसाधारणरूपे ऽधःपतने वर्तते । कुतः, द्रवत्वस्य प्रथममास एव संभवात् तत्र च “मासतुल्या निशाः” इति बहुवचनानुपपत्तेः । गर्भस्रावे यावन्तो गर्भग्रहणमासास् तत्समसंख्याका निशाः शुद्धेः कारणम् । एतच् च स्त्रिया एव, “गर्भस्रावे मासतुल्या रात्रयः स्त्रीणां स्नानमात्रम् एव पुरुषस्य” इति वृद्धवसिष्ठस्मरणात् । यत् पुनर् गौतमेन “त्र्यहं च” (ग्ध् १४.१८) इति त्रिरात्रम् उक्तं, तन् मासत्रयाद् अर्वाग् वेदितव्यम्,

गर्भस्रुत्यां यथामासम् अचिरे तूत्तमे त्रयः ।
राजन्ये तु चतूरात्रं वैश्ये पञ्चाहम् एव तु ॥
अष्टाहेन तु शूद्रस्य शुद्धिर् एषा प्रकीर्तिता ॥

इति मरीचिस्मरणात् । अचिरे मासत्रयाद् अर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रम् इत्य् अर्थः । एतच् च षण्मासपर्यन्ते द्रष्टव्यम् । सप्तमादिषु पुनः परिपूर्णम् एव प्रसवाशौचं कार्यम्, तत्र परिपूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात्, तत्र च लोके प्रसवशब्दप्रयोगात्,

षण्मासाभ्यन्तरे यावद् गर्भस्रावो भवेद् यदा ।
तदा माससमैस् तासां दिवसैः शुद्धिर् इष्यते ॥
अत ऊर्ध्वं स्वजात्युक्तं तासाम् आशौचम् इष्यते ।
सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥

इति स्मरणात् ॥ एतच् च सपिण्डानां सद्यःशौचविधानं द्रवभूतगर्भपतने वेदितव्यम् । यत् पुनर् वसिष्ठवचनम् “ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्” (वध् ४.३४) इति, तत् पञ्चमषष्टयोः कठिनगर्भपतनविषयम्,

आ चतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्टयोः ।
अत ऊर्ध्वं प्रसूतिः स्याद् दशाहं सूतकं भवेत् ॥
स्रावे मातुस् त्रिरात्रं स्यात् सपिण्डाशौचवर्जनम् ।
पाते मातुर् यथामासं पित्रादीनां दिनत्रयम् ॥

इति मरीचिस्मरणात् ॥ सप्तममासप्रभृति मृतजनने जातमृते वा सपिण्डानां जनननिमित्तं परिपूर्णम् आशौचम्, “जातमृते मृतजाते वा सपिण्डानां दशाहं” इति हारीतस्मरणात्, “अतः सूतके चेदोथानाशौचं सूतकवत्” इति पारस्करवचनाच् च । आ उत्थानाद् आ सूतिकाया उत्थानाद् दशाहम् इति यावत् । सूतकवद् इति शिशूपरमनिमित्तोदकदानरहितम् इत्य् अर्थः । बृहन्मनुर् अपि ।

दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः ।
शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥ इति ।

तथा च स्मृत्यन्तरम् अपि “अन्तर्दशाहोपरतस्य सूतिकाहोभिर् एवाशौचम्” इति । एवमादिवचननिचयपर्यालोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत् पुनर् बृहद्विष्णुवचनम् “जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्” इति, तच् छिशूपरमनिमित्तस्याशौचस्य स्नानाच् छुद्धिप्रतिपादनपरं न प्रसवनिमित्तस्य । तथा च पारस्करः “गर्भे यदि विपत्तिः स्याद् दशाहं सूतकं भवेत्”, सपिण्डानां प्रसवनिमित्तस्य विद्यमानत्वात् । “जीवञ्जातो यदि प्रेयात् सद्य एव विशुध्यति” इति प्रेताशौचाभिप्रायम् । तथा च शङ्खेनोक्तम् “प्राङ् नामकरणात् सद्यःशौचम्” इति । यत् पुनः कात्यायनवचनम्,

अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति ।
सद्य एव विशुद्धिः स्यान् न प्रेतं नोदकक्रिया ॥

इति, तद् अपि वैष्णवेन समानार्थम् । यदा तु “न प्रेतं नैवसूतकम्” इति पाठस् तदा सूतकम् अस्पृश्यत्वं नैव पित्रादीनां भवतीत्य् अर्थः । अथ वायम् अर्थः- अन्तर्दशाहे यदि शिशूपरमस् तदा न प्रेताशौचम् । यदि तत्र सपिण्डजननं तदा सूतकम् अपि नैव कार्यं किं तु पूर्वाशौचेनैव शुद्धिर् इति । यत् तु बृहन्मनुवचनम्,

जीवञ्जातो यदि ततो मृतः सूतक एव तु ।
सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥

इति, यच् च बृहत्प्रचेतोवचनम्,

मुहूर्तं जीवतो बालः पञ्चत्वं यदि गच्छति ।
मातुः शुद्धिर् दशाहेन सद्यः शुद्धास् तु गोत्रिणः ॥

इति, तत्रेयं व्यवस्था- जननानन्तरं नाभिवर्धनात् प्राङ् मृतौ पित्रादीनां जनननिमित्तनाशौचं दिनत्रयम् । सद्यःशौचं त्व् अग्निहोत्राद्यर्थम्, “अग्निहोत्रार्थं स्नानोपस्पर्शनात् तत्कालं शौचम्” इति शङ्खस्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रयाणे ऽपि जनननिमित्तं संपूर्णम् आशौचं सपिण्डानाम्,

यावन् न छिद्यते नालं तावन् नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥

इति जमिनिस्मरणात् ।

मनुनाप्य् अयम् अर्थो दर्शितः ।
रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ इति । (म्ध् ५.६६)

पूर्वभागस्यार्धो दर्शितः । उत्तरस्य त्व् अयम् अर्थः । रजसि निःसरणाद् उपरते निवृत्ते रजस्वला स्त्री स्नानेन साध्वी दैवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनर् अनुपरते ऽपि रजसि चतुर्थे ऽहनि स्नानाच् छुद्धा भवति । तद् उक्तं वृद्धमनुना ।

चतुर्थे ऽहनि संशुद्धा भवति व्यावहारिकी । इति ।

तथा स्मृत्यन्तरम् ।

शुद्धा भर्तुश् चतुर्थे ऽह्नि स्नानेन स्त्री रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमे ऽहनि शुध्यति ॥

“पञ्चमे ऽहनि” इति रजोनिवृत्तिकालोपलक्षणार्थम् । यदा रजोदर्शनाद् आरभ्य पुनः सप्तदश दिनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्य् एव । अष्टादशे त्व् एकाहाच् छुद्धिः । एकोनविंशे द्व्यहात् । तत उत्तरेषु त्र्यहाच् छुद्धिः । यथाह अत्रिः ।

रजस्वला यदि स्नाता पुनर् एव रजस्वला ।
अष्टादशदिनाद् अर्वाग् अशुचित्वं न विद्यते ॥
एकोनविंशतेर् अर्वाग् एकाहं स्यात् ततो द्व्यहम् ।
विंशत्प्रभृत्युत्तरेषु त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।

“चतुर्दशादिनाद् अर्वाग् अशुचित्वं न विद्यते” इति स्मृत्यन्तरं तत्र स्नानप्रभृतित्वम् अभिप्रेतम्, अतो न विरोधः । अयं चाशुचित्वप्रतिषेधो यस्य विंशतिदिनोत्तरकालम् एव प्रायशो रजोदर्शनं तद् विषयः । यस्याः पुनर् आरूड्ःअयौवनायाः प्राग् एवाष्टादशदिनात् प्राचुर्येण रजोनिर्गमस् तस्यास् त्रिरात्रम् एवाशौचम् । तया च यावत् त्रिरात्रं स्नानादिरहितया स्थातव्यम्, “रजस्वला त्रिरात्रम् अशुचिर् भवति, सा च नाञ्जीत नाभ्यञ्जीत नाप्सु स्नायाद् अधः शयीत न दिवा स्वप्यात् न ग्रहान् वीक्षेत नाग्निं स्पृशेत् नाश्नीयान् न रज्जुं सृजेत् न च दन्तान् धावयेत् न हसेन् न च किंचिद् आचरेद् अखर्वेण पात्रेण पिबेद् अञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते” (वध् ५.६–८) इति वसिष्ठस्मरणात् ।

आङ्गिरसे ऽपि विशेषः ।
हस्ते ऽश्नीयान् मृन्मये वा हविर्भुक् क्षितिशायिनी ।
रजस्वला चतुर्थे ऽह्नि स्नात्वा शुद्धिम् अवाप्नुयात् ॥ इति ।

पाराशरे ऽपि विशेषः -

स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥
सिक्तगात्रा भवेद् अद्भिः साङ्गोपाङ्गा कथंचन ।
न वस्त्रपीडनं कुर्यान् नान्यद् वासश् च धारयेत् ॥ इति ।

उशनसाप्य् अत्र विशेषो दर्शितः ।

ज्वराभिभूता या नारी रजसा च परिप्लुता ।
कथं तस्या भवेच् छौचं शुद्धिः स्यात् केन कर्मणा ॥
चतुर्थे ऽहनि संप्राप्ते स्पृशेद् अन्या तु तां स्त्रियम् ।
सा सचेलावगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् ।
दशद्वादशकृत्वो वा आचमेच् च पुनः पुनः ॥
अन्ते च वाससां त्यागस् ततः शुद्धा भवेच् च सा ।
दद्याच् छक्त्या ततो दानं पुण्याहेन विशुध्यति ॥ इति ।
अयं चातुरमात्रे स्नानप्रकारो ऽनुसरणीयः,
आतुरे स्नान उत्पन्ने दशकृत्वो ह्य् अनातुरः ।
स्नात्वा स्नात्वा स्पृशेद् एनं ततः शुध्येत् स आतुरः ॥

इति पराशरस्मरणात् । यदा तु रजस्वलायाः सूतिकाया वा मृतिर् भवति तदायं स्नानप्रकारः-

सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः ।
कुम्भे सलिलम् आदाय पञ्चगव्यं तथैव च ॥
पुण्यर्ग्भिर् अभिमन्त्र्यापो वाचा शुद्धिं लभेत् ततः ।
तेनैव स्नापयित्वा तु दाहं कुर्याद् यथाविधि ॥

रजस्वलायास् तु-

पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ।
वस्त्रान्तरावृतां कृत्वा दाहयेद् विधिपूर्वकम् ॥ इति ।

एतच् च रजोदर्शनपुत्रजन्मादि, यद्य् उदयोत्तरकालम् उत्पन्नं तदा तद्दिवसप्रभृत्याशौचाहोरात्रगणना कार्या । यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्धरात्रात् प्राक् जननाद्युत्पत्तौ पूर्वदिवसैकदेशव्यापित्वे ऽप्य् आशौचस्य तत्पूर्वदिवसप्रभृत्य् एव गणना कार्येत्य् एकः कल्पः । रात्रिं त्रेधा विभज्याद्ये भागद्वये जननादौ जाते पूर्वदिनं ग्राह्यम् इति द्वितीयः । प्रागुदयाद् इत्य् अपरः । यथाह कश्यपः ।

उदिते तु यदा सूर्ये नारीणां दृश्यते रजः ।
जननं वा विपत्तिर् वा यस्याहस् तस्य शर्वरी ॥
अर्धरात्रावधिः कालः सूतकादौ विधीयते ।
रात्रिं कुर्यात् त्रिभागं तु द्वौ भागौ पूर्व एव तु ॥
उत्तरांशः प्रभातेन युज्यते ऋतुसूतके ।
रात्राव् एव समुत्पन्ने मृते रजसि सूतके ॥
पूर्वम् एव दिनं ग्राह्यं यावन् नोदयते रविः ॥ इति ।

एतेषां च कल्पानां देशाचारतो व्यवस्था विज्ञेया ।

इदं चाशौचम् आहिताग्नेर् उपरमे संस्कारदिवसप्रभृति कर्तव्यम् । अनाहिताग्नेस् तु मरणदिवसप्रभृति संचयनं तूभयोर् इति संस्कारदिवसप्रभृतीति विवेचनीयम् । यथाहाङ्गिराः ।
अनग्निम् अत उत्क्रान्तेः साग्ने संस्कारकर्मणः ।
शुद्धिः संचयनं दाहान् मृताहस् तु यथाविधि ॥ इति ।

“साग्नेः संस्कारकर्मणः” इति श्रवणाद्, आहिताग्नौ पितरि देशान्तरमृते तत्पुत्रादीनाम् आ संस्कारात् संध्यादिकर्मलोपो नास्तीत्य् अनुसंधेयम् । तथा च पैठीनसिः ।

अनग्निम् अत उत्क्रान्तेर् आशौचं हि द्विजातिषु ।
दाहाद् अग्निमतो विद्याद् विदेशस्थे मृते सति ॥ इति ॥ ३.२० ॥

सपिण्डत्वादिना दशाहादिप्राप्तौ क्वचिन् मृत्युविशेषेणापवादम् आह ।

हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् । ३.२१अब्

नृपो ऽभिषिक्तः क्षत्रियादिः । गोग्रहणं षृङ्गिदंष्ट्र्यादितिरश्चाम् उपलक्षणार्थम् । विप्रग्रहणम् अन्त्यजोपलक्षणम् । एतैर् हतानां संबन्धिनो ये सपिण्डास् तेषाम् । विषोद्बन्धनादिभिः बुद्धिपूर्वम् आत्मानं ये व्यापादयन्ति ते आत्मघातिनः । आत्मघतिग्रहणं “पाखण्ड्यनाश्रिता” इत्य् एकयोगोपात्तपतितपात्रोपलक्षणार्थम् । तत्संबन्धिनां चान्वक्षम् अनुगतम् अक्षम् अन्वक्षं सद्यः शौचम् इत्य् अर्थः । तत्संबन्धिनां च सान्वक्षं यावद् दर्शनम् आशौचं न पुनर् दशाहादिकम् । तथा च गौतमः “गोब्राह्मणहतानाम् अन्वक्षं राजक्रोधाच् चायुद्धे प्रायो ऽनाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम्” (ग्ध् १४.९–१२) इति । क्रोधग्रहणं प्रमादव्यापादितनिरासार्थम् । अयुद्धग्रहणं युद्धहतस्यैकाहम् आशौचम् अस्तीति ज्ञापनार्थम्,

ब्राह्मणार्थं विपन्नानां योषितां गोग्रहे ऽपि च ।
आहवे ऽपि हतानां च एकरात्रम् अशौचकम् ॥

इति स्मरणात् । एतच् च युद्धकालक्षतेनैव कालान्तरविपन्नस्य । समरमूर्धनि हतस्य पुनः सद्यः शौचम् । यथाह मनुः ।

उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च ।
सद्यः संतिष्ठते यज्ञस् तथाशौचम् इति स्थितिः ॥ इति ॥ (म्ध् ५.९८)

ज्ञातस्यैव जननादेर् आशौचनिमित्तत्वाज् जन्मदिनाद् उत्तरकाले ऽपि ज्ञाते दशाहादिप्राप्ताव् अपवादम् आह ।

प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः ॥ ३.२१च्द्

प्रोशिते देशान्तरस्थे यत्रस्थेन प्रथमदिवस एव सपिण्डजननादिकं न ज्ञायते तस्मिन् सपिण्डे कालस्य दशाहाद् यवच् छिन्नस्य यः शेषो ऽवशिष्टकालः स एव शुद्धिहेतुर् भवति । पूर्णे पुनराशौचकाले दशाहादिके प्रेतायोदकं दत्त्वा शुद्धिर् भवति । उदकदानस्य स्नानपूर्वकत्वात् स्नात्वोदकं दत्त्वा शुचिर् भवति । तद् उक्तं मनुना ।

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥ इति । (म्ध् ५.७७)

" पूर्णे दत्त्वोदकं शुचिः” इति प्रेतोदकदानसहचरितस्याशौचकालस्य शुद्धिहेतुत्वविधानात्, जन्मन्य् अतिक्रान्ताशौचं सपिण्डानां नास्तीति गम्यते । पितुस् तु निर्दशे ऽपि जनने स्नानम् अस्त्य् एव, “श्रुत्वा पुत्रस्य जन्म च” (म्ध् ५.७७) इति वचनात् । एतच् च पुत्रग्रहणं जन्मनि सपिण्डानाम् अतिक्रान्ताशौचं नास्तीति ज्ञापकम् । अन्यथा “निर्दशं ज्ञातिमरणं श्रुत्वा जन्म च निर्दशम्” इत्य् एवावक्ष्यत् । न चोक्तम् । तथा च देवलः ।

नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्व् अपि । इति । तस्माद् विपत्ताव् एवातिक्रान्ताशौचम् इति स्थितम् । केचिद् अन्यथेमं श्लोकं पठन्ति-
प्रोषिते कालशेषः स्याद् अशेषे त्र्यहम् एव तु ।
सर्वेषां वत्सरे पूर्णे प्रेते दत्त्वोदकं शुचिः ॥ इति ।

प्रोषिते प्रेते सर्वेषां ब्राह्मणक्षत्रियादीनाम् अविशेषेण कालशेषः शुद्धिहेतुः । अशेषे पुनर् अतिक्रान्ते दशाहादौ सर्वेषां त्र्यहम् एवाशौचम् । संवत्सरे पूर्णे यदि प्रोषितप्रयाणम् अवगतं स्यात् तदा सर्वो ब्राह्मणादिः स्नात्वोदकं दत्त्वा शुचिः स्यात् । तथा च मनुः ।

संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति । इति । (म्ध् ५.७६)

अयं च त्र्यहो दशाहाद् ऊर्ध्वं मासत्रयाद् अर्वाग् द्रष्टव्यः । पूर्वोक्तं तु सद्यःशौचं नवममासाद् ऊर्ध्वम् अर्वाक् संवत्सराद् द्रष्टव्यम् । यत् पुनर् वासिष्ठं वचनम् “ऊर्ध्वं दशाहाच् छुत्वैकरात्रम्” (वध् ४.३६) इति, तद् ऊर्ध्वं षण्मासेभ्यो यावन् नवमम् । यद् अपि गौतमवचनम् “श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी” (ग्ध् १४.१९) इति, तन् मासत्रयाद् ऊर्ध्वम् अर्वाक् षष्टात् । तथा च वृद्धवसिष्ठः ।

मासत्रये त्रिरात्रम् स्यात् षण्मासे पक्षिणी तथा ।
अहस् तु नवमाद् अर्वाग् ऊर्ध्वं स्नानेन शुध्यति ॥ इति ।

एतच् च मातापितृव्यतिरिक्तविषयम्,

पितरौ चेन्मृतौ स्यातां दूरस्थो ऽपि हि पुत्रकः ।
श्रुत्वा तद्दिनम् आरभ्य दशाहं सूतकी भवेत् ॥

इति पैठीनसिस्मरणात् । तथा च स्मृत्यन्तरे ऽपि

महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना ।
अतीते ऽब्दे ऽपि कर्तव्यं प्रेतकार्यं यथाविधि ॥ इति ।

संवत्सराद् ऊर्ध्वम् अपि प्रेतकार्यम् आशौचोदकदानादिकं कार्यं न पुनः स्नानमात्राच् छुद्धिर् इत्य् अर्थः । पितृपत्न्याम् अपि मातृव्यतिरिक्तायां स्मृत्यन्तरे विशेषो दर्शितः ।

पितृपत्न्याम् अपेतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे व्यतीते ऽपि त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।

यस् तु नद्यादिव्यवहिते देशान्तरे मृतस् तत्सपिण्डानां दशाहाद् ऊर्ध्वं मासत्रयाद् अर्वाग् अपि सद्यःशौचम्-

देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ ।
मृते स्नानेन शुध्यन्ति गर्भस्रावे च गोत्रिणः ॥ इति ।

देशान्तरलक्षणं च बृहस्पतिनोक्तम् ।

महानद्यन्तरं यत्र गिरिर् वा व्यवधायकः ।
वाचो यत्र विभिद्यन्ते तद्देशान्तरम् उच्यते ॥
देशान्तरं वदन्त्य् एके षष्टियोजनम् आयतम् ।
चत्वारिंशद् वदन्त्य् अन्ये त्रिंशद् अन्ये तथैव च ॥ इति ।

इदं चातिक्रान्ताशौचम् उपनीतोपरमविषयम्, न पुनर् वयोवस्थाविशेषाशौचविषयम् अपि । तथाचोक्तं व्याग्रपादेन ।

तुल्यं वयसि सर्वेषाम् अतिक्रान्ते तथैव च ।
उपनीते तु विषमं तस्मिन्न् एवातिकालजम् ॥ इति ।

अयम् अर्थः- वयसि त्रिवर्षादिरूपे यदाशौचं “आ दन्तजन्मनः सद्यः” (य्ध् ३.२३) इत्यादिवाक्यविहितं तत् सर्वेषां ब्राह्मणादिवर्णानां तुल्यम् अविशिष्टम् । अतिक्रान्ते च दशाहादिके त्र्यहादि यदाशौचं तद् अपि सर्वेषाम् अविशिष्टम् । उपनीते पुनर् उपरते दशद्वादशपञ्चदशत्रिंशद्दिनानीत्य् एवं विषमम् आशौचं ब्राह्मणादिनाम् । तस्मिन्न् एवोपनीतोपरम एव अतिकालजम् अतिक्रान्ताशौचं भवति न वयोवस्थाशौचातिक्रम इति ॥ ३.२१ ॥

क्षत्रियादिषु दशरात्रस्य सपिण्डाशौचस्यापवादम् आह ।

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । ३.२२अब्
त्रिंशद् दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ ३.२२च्द्

क्षत्रियवैश्यशूद्राणां सपिण्डजनने तदुपरमे च यथाक्रमेण द्वादशपञ्चदशत्रिंशद्दिनान्य् आशौचं भवति । न्यायवर्तिणः पुनः शूद्रस्य पाकयज्ञद्विजशुश्रूषादिरतस्य तदर्धं तस्य मासस्यार्धं पञ्चदशरात्रम् आशौचम् । एवं च “त्रिरात्रं दशरात्रं वा” (य्ध् ३.१८) इत्य् एतद् दशरात्रम् आशौचं पारिशेष्याद् ब्राह्मणविषये व्यवतिष्ठते । स्मृत्यन्तरेषु तु क्षत्रियादीनां दशाहादयो ऽप्य् आशौचकल्पा दर्शिताः । यथाह पराशरः ।

क्षत्रियस् तु दशाहेन स्वकर्मनिरतः शुचिः ।
तथैव द्वादशाहेन वैश्यः शुद्धिम् अवाप्नुयात् ॥

तथाच शातातपः ।

एकादशाहाद् राजन्यो वैश्यो द्वादशभिस् तथा ।
शूद्रो विंशतिरात्रेण शुध्येत मृतसूतके ॥

वसिष्ठस् तु “पञ्चदशरात्रेण राजन्यो विंशतिरात्रेण वैश्यः” (वध् ४.२८–२९) इति ।

अङ्गिरास् त्व् आह ।

सर्वेषाम् एव वर्णानां सूतके मृतके तथा ।
दशाहाच् छुद्धिर् एतेषाम् इति शातातपो ऽब्रवीत् ॥

इत्येवम् अनेकोच्चावचाशौचकल्पा दर्शिताः । तेषां लोके समाचाराभावान् नातीव व्यवस्थाप्रदर्शनम् उपयोगीति नात्र व्यवस्था प्रदर्श्यते । यदा पुनर् ब्राह्मणादीनां क्षत्रियादयः सपिण्डा भवन्ति, तदा हारीताद्युक्ताशौचकल्पो ऽनुसरणीयः ।

दशाहाच् छुध्यते विप्रो जन्महानौ स्वयोनिषु ।
षड्भिस् त्रिभिर् अथैकेन क्षत्रविट्शूद्रयोनिषु ॥ इति ।

विष्णुर् अप्य् आह “क्षत्रियस्य विट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षड्रात्रेण शुद्धिर् हीनवर्णानां तूत्कृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाशौचव्यपगमे शुद्धिः” (विध् २२.२३–२४, २१) इति । बौधायनेन त्व् अविशेषेण दशाह इत्य् उक्तम् ।

क्षत्रविट्शूद्रजातीया ये स्युर् विप्रस्य बान्धवाः ।
तेषाम् आशौचे विप्रस्य दशाहाच् छुद्धिर् इष्यते ॥ इति ।

अनयोश् च पक्षयोर् आपदनापद्विषयत्वेन व्यवस्था । दास्यादीनां तु स्वामिशौचेन स्पृश्यत्वं कर्मानधिकारत्वं तु मासावधिर् एव । तदाह अङ्गिराः ।

दासी दासश् च सर्वो वै यस्य वर्णस्य यो भवेत् ।
तद्वर्णस्य भवेच् छौचं दास्या मासस् तु सूतकम् ॥ इति ।

प्रतिलोमानां त्व् आशौचाभाव एव, “प्रतिलोमा धर्महीनाः” इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थं मूत्रपुरीषोत्सर्गवत् शौचं भवत्य् एव ॥ ३.२२ ॥

वयोवस्थाविशेषाद् अपि दशाहाद्याशौचस्यापवादम् आह ।

आ दन्तजन्मनः सद्य आ चूडान् नैशिकी स्मृता । ३.२३अब्
त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥ ३.२३च्द्

यावता कालेन दन्तानाम् उत्पत्तिस् तस्मिन् काले अतीतस्य बालस्य तत्संबन्धिनां सद्यः शौचम् । चूडाकरणाद् अर्वाङ् मृतस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्रव्यापिन्य् अशुद्धिः । व्रतादेश उपनयनं ततो ऽर्वाक् चूडायाश् चोर्ध्वम् अतीतस्य त्र्यहम् अशुद्धिः । अत्र च “आ दन्तजन्मनः सद्यः” इति यद्य् अप्य् अविशेषेणाभिधानं, तथाप्य् अग्निसंस्काराभावे द्रष्टव्यम्, “अदन्तजाते बाले प्रेते सद्य एव शुद्धिर् नास्याग्निसंस्कारो नोदनक्रिया” (विध् २२.२७–२८) इति वैष्णवे अग्निसंस्काररहितस्य सद्यःशौचविधानात् । सति त्व् अग्निसंस्कारे “अहस् त्व् अदत्तकन्यासु बालेषु च” (य्ध् ३.२४) इति वक्ष्यमाण एकाहः । तथा च यमः ।

अदन्तजाते तनये शिशौ गर्भच्युते तथा ।
सपिण्डानां तु सर्वेषाम् अहोरात्रम् अशौचकम् ॥ इति ।

नामकरणात् प्राक् सद्यःशौचम् एव नियतम्, “प्राङ् नामकरणात् सद्यः शुद्धिः” इति शङ्खस्मरणात् । चूडाकर्म च प्रथमे तृतीये वा वर्षे स्मर्यते,

चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।
प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥

इति स्मरणात् । ततश् च दन्तजननाद् ऊर्ध्वं प्रथम वार्षिकचूडापर्यन्तम् एकाहः । तत्र त्व् अकृतचूडस्य दन्तजनने सत्य् अपि त्रिवर्षं यावद् एकाह एव । तथा च विष्णुः- “दन्तजाते ऽप्य् अकृतचूडे ऽहोरात्रेण शुद्धिः” (विध् २२.२९) इति । तत ऊर्ध्वं प्राग् उपनयात् त्र्यहः । यत् तु मनुवचनम्,

नॄणाम् अकृतचूडानां अशुद्धिर् नैशिकी स्मृता ।
निर्वृत्तचूडकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ (म्ध् ५.६७)

इति, तस्याप्य् अयम् एव विषयः । यत् तूनद्विवर्षम् अधिकृत्य तेनैवोक्तम्,

अरण्ये काष्ठवत् त्यक्त्वा क्षिपेयुस् त्र्यहम् एव तु । इति । (म्ध् ५.६९)

यच् च वसिष्ठवचनम्, “ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्” (वध् ४.३४) इति, तत् संवत्सरचूडाभिप्रायेण । यत् तु अङ्गिरोवचनम्,

यद्य् अप्य् अकृतचूडो वै जात दन्तश् च संस्थितः ।
तथापि दाहयित्वैनम् आशौचं त्रयहम् आचरेत् ॥

इति, तद् वर्षत्रयाद् ऊर्ध्वं कुलधर्मापेक्षया चूडोत्कर्षे वेदितव्यम्,

विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस् तु नैशिकी ।

इति तेनैवाभिहितत्वात् । न चायम् एकाहो दन्तजननाभाव इति शङ्कनीयम् । न हि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्य् अपि दन्तजनने अकृतचूडस्यैकाहं विदधता विष्णुवचनेन (विध् २२.२९) विरोधश् च दुष्परिहरः स्यात् । तस्मात् प्राचीनैव व्याख्या ज्याजसी । यत् तु कश्यपवचनम् “बालानामदन्तजातानां त्रिरात्रेण शुद्धिः” इति, तन् मातापितृविषयम्,

निरस्य तु पुमाञ् शुक्रम् उपस्पर्शाद् विशुध्यति ।
बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहं ॥

इति जन्यजनकसंबन्धोपाधिकतया त्रिरात्रस्मरणात् । ततश् चायम् अर्थः- प्राङ् नामकरणात् सद्यःशौचं, तद् ऊर्ध्वं दन्तजननाद् अर्वाग् अग्निसंस्कारक्रियायां एकाहः, इतरथा सद्यःशौचम्, जातदन्तस्य च प्रथमवार्षिकाच् चौलाद् अर्वाग् एकाहः, प्रथमवर्षाद् ऊर्ध्वं त्रिवर्षपर्यन्तं कृतचूडस्य त्र्यहम्, इतरस्य त्व् एकाहः, वर्षत्रयाद् ऊर्ध्वम् अकृतचूडस्यापि त्र्यहम्, उपनयनाद् ऊर्ध्वं सर्वेषां ब्राह्मादीनां दशरात्रादिकम् इति ॥ ३.२३ ॥

इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादम् आह ।

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् । ३.२४अब्

अदत्ता अपरिणीता याः कन्यास् तासु कृतचूडासु वाग्दानात् प्राग् अहोरात्रं विशेषेण शुद्धिकारणम् । सपिण्डानां सापिण्ड्यं च कन्यानां त्रिपुरुषप्रयन्तम् एव, “अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते” (वध् ४.१८) इति वसिष्ठस्मरणात् । बालेषु चानुत्पन्नदन्तेषु अग्निसंस्कारे सत्य् एकाहो विशोधनम् । अकृतचूडायां तु कन्यायां सद्यः शौचम्,

अचूडायां तु कन्यायां सद्यः शौचं विधीयते ।

इत्य् आपस्तम्बस्मरणात् । वाग्दानाद् ऊर्ध्वं तु संस्कारात् प्राक् पतिपक्षे पितृपक्षे च त्र्यहम् एव । यथाह मनुः ।

स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ इति । (म्ध् ५.७२)

बान्धवाः पतिपक्ष्यास् त्रिरात्रेण शुध्यन्ति । सनाभयस् तु पितृपक्ष्याः सपिण्डा यथोक्तेनैव कल्पेन “निर्वृत्तचूडकानाम्” इत्यादिनोक्तेन त्रिरात्ररूपेण न पुनर् दशरात्ररूपेण, विवाहात् प्राक् तस्यायुक्तत्वात् । अत एव मरीचिः ।

वारिपूर्वं प्रदत्ता तु या नैव प्रतिपादिता ।
असंस्कृता तु सा ज्ञेया त्रिरात्रम् उभयोः स्मृतम् ॥ इति ।

उभयोः पतिपितृपक्षयोः । विवाहाद् ऊर्ध्वं तु विष्णुना विशेषो दर्शितः- “संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेत् पितृगृहे स्यातां तदैकरात्रं त्रिरात्रं वा” (विध् २२.३३–३४) इति । तत्र प्रसवे एकाहः प्रयाणे त्रिरात्रम् इति व्यवस्था । इदं च वयोवस्थाशौचं सर्ववर्णसाधरणम्, “क्षत्रस्य द्वादशाहानि” (य्ध् ३.२२) इति तद्वर्णविशेषोपादानेनाभिधानात् । अत एव मनुना अनुपात्तवर्णविशेषाशौचविधेः साधारण्यप्रतिपादनार्थं चातुर्वर्ण्याधिकारे सत्य् अपि पुनः,

चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः । (म्ध् ५.५७)

इत्य् उक्तम् । तथा अङ्गिरसाप्य् उक्तम् ।

अविशेषेण वर्णानाम् अर्वाक् संस्कारकर्मणः ।
त्रिरात्रात् तु भवेच् छुद्धिः कन्यास्व् अह्ना विधीयते ॥ इति ।

व्याघ्रपादवचनं च “तुल्यं वयसि सर्वेषाम्” इति प्राक्प्रदर्शितम् । अतो यथा “पिण्डयज्ञावृता देयम्” (य्ध् ३.१६) इत्यादिः पिण्डोदकदानविधिः सर्ववर्णसाधारणः । यथा वा समानोदकाशौचविधिः “अन्तरा जन्ममरणे” (य्ध् ३.२०) इति सम्निपाताशौचविधिश् च यद्वच् च “गर्भस्रावे मासतुल्या निशाः” (य्ध् ३.२०) इति स्रावाशौचविधिः “प्रोषिते कालशेषः स्याद् अशेषे त्र्यहम् एव तु” (य्ध् ३.२१) इति विदेशस्थाशौचविधिश् च यथा गुर्वाद्याशौचविधिः सर्ववर्णसाधारणः, तथा वयोवस्थानिमित्तम् अप्य् आशौचं सर्ववर्णसाधारणम् एव भवितुम् अर्हति । अत एव,

क्षत्रे षड्भिः कृते चौले वैश्ये नवभिर् उच्यते ।
ऊर्ध्वं त्रिवर्षाच् छुद्रे तु द्वादशहो विधीयते ॥

तथा,

यत्र त्रिरात्रं विप्राणाम् आशौचं संप्रदृश्यते ।
तत्र शूद्रे द्वादशाहः षण् नव क्षत्रवैश्ययोः ॥

इत्यादीनि ऋष्यशृङ्गादिवचनानि विगीतत्वबुद्ध्यानाद्रियमाणैर् धारेश्वर-विश्वरूप-मेधातिथि-प्रभृतिभिर् आचार्यैर् अयम् एव साधारणः पक्षो ऽङ्गीकृतः । अविगीतानि चार्तानार्तक्षत्रियादिविषयतया व्याख्येयानि ॥

गुर्वादिष्व् अतिदेशम् आह ।

गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च । ३.२४च्द्

गुरुर् उपाध्यायो ऽन्तेवासी शिष्यो ऽनूचानो ऽङ्गानां प्रवक्ता मातुलग्रहणेनात्मबन्धवो मातृबन्धवः पितृबन्धवश् च योनिसंबद्धा उपलक्ष्यन्ते । ते च “पत्नीदुहितरः” (य्ध् ३.१३५) इत्य् अत्र दर्शिताः । श्रोत्रिय एकशाखाध्यायी, “एकां शाखम् अधीत्य श्रोत्रियः” (च्फ़्। आप्ध् २.६.४) इति बौधायनस्मरणात् । एषूपरतेष्व् अहोरात्रम् आशौचम् । यस् तु मुख्यो गुरुः पिता तदुपरमे सपिण्डत्वाद् दशाहम् एव । यस् तु पिता पुत्रान् उत्पाद्य संस्कृत्य वेदान् अध्याप्य वेदार्थं ग्राहयित्वा वृत्तिं च विदधाति तस्य महागुरुत्वात् तदुपरमे द्वादशरात्रं वा । “महागुरुषु दानाध्ययने वर्जयेरन्” (आश्गृ ४.४.१७) इत्य् आश्वलायनेनोक्तं द्रष्टव्यम् । आचार्योपरमे तु त्रिरारम् एव । यथाह मनुः ।

त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति ।
तस्य पुत्रे च पत्न्यां च दिवारात्रम् इति स्थितिः ॥ इति । (म्ध् ५.८०)

यदा त्व् आचार्यादेर् अन्त्येष्टिं करोति तदा दशरात्रम् आशौचम्,

गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समारभेत् ।
प्रेतहारैः समं तत्र दशाहेन विशुध्यति ॥ (म्ध् ५.६५)

इति तेनैवोक्तत्वात् । श्रोत्रियस्य तु समानग्रामीणस्यैतद् आशौचम्, “एकाहं सब्रह्मचारिणि समानग्रामीणे च श्रोत्रिये” (आश्गृ ४.४.२६–२७) इत्य् आश्वलायनस्मरणात् । एकाचार्योपनीतः सब्रह्मचारी । एतच् चासंनिधाने द्रष्टव्यम् । संनिहिते तु शिष्यादौ त्रिरात्रादि, यथाह मनुः ।

श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् ।
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥ इति । (म्ध् ५.८१)

उपसंपन्ने मैत्रीप्रातिवेश्यत्वादिना संबद्धे शीलयुक्ते वा । मातुलग्रहणं मातृष्वस्रादेर् ऊपलक्षणार्थम् । बान्धवा इत्य् आत्मबन्धवो मातृबन्धवः पितृबन्धवश् चोच्यन्ते । तथा च बृहस्पतिः ।

त्र्यहं मातामहाचार्यश्रोत्रियेष्व् अशुचिर् भवेत् । इति ।

तथा प्रचेताः ।

मृते चर्त्विजि याज्ये च त्रिरात्रेण विशुध्यति । इति ।

तथा च वृद्धवसिष्ठाः ।

संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते ।
संस्कृते तु त्रिरात्रं स्याद् इति धर्मो व्यवस्थितः ॥
पित्रोर् उपरमे स्त्रीणाम् ऊढानां तु कथं भवेत् ।
त्रिरात्रेणैव शुद्धिः स्याद् इत्य् आह भगवान् यमः ॥
श्वशुरयोर् भगिन्यां च मातुलान्यां च मातुले ।
पित्रोः स्वसरि तद्वच् च पक्षिणीं क्षपयेन् निशाम् ॥

तथा ।

मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च ।
आशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥

तथाच गौतमः- “पक्षिणीम् असपिण्डे योनिसंबद्धे सहाध्यायिनि च” (ग्ध् १४.१९–२०) इति । योनिसंबद्धा मातुलमातृष्वस्त्रीयपितृष्वस्त्रीयादयः । तथा जाबालः ।

एकोदकानां तु त्र्यहो गोत्रजानाम् अहः स्मृतम् ।
मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ॥ इति ।

विष्णुः- “असपिण्डे स्ववेश्मनि मृत एकरात्रम्” (विध् २२.४६) इति । तथा वृद्धः ।

भगिन्यां संस्कृतायां तु भ्रातर्य् अपि च संस्कृते ।
मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ।
शालके तत्सुते चैव सद्यः स्नानेन शुध्यति ॥
ग्रामेश्वरे कुलपतौ श्रोत्रिये वा तपस्विनि ।
शिष्ये पञ्चत्वम् आपन्ने शुचिर् नक्षत्रदर्शनात् ॥
ग्राममध्यगतो यावच् छवस् तिष्ठति कस्यचित् ।
ग्रामस्य तावद् आशौचं निर्गते शुचिताम् इयात् ॥

इत्यादीन्य् आशौचविशेषप्रतिपादकानि स्मृतिवचनान्य् अन्वेषणीयानि । ग्रन्थगौरवभयाद् अत्र न लिख्यन्ते । एष चैकविषयगुरुलघ्वाशौचप्रतिपादकतया परस्परविरुद्धेषु संनिधिविदेशस्थापेक्षया व्यवस्थानुसंधातव्या ॥ ३.२४ ॥

किं च ।

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च । ३.२५अब्
निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥ ३.२५च्द्

अहर् इत्य् अनुवर्तते । अनौरसाः क्षेत्रजदत्तकादयः । तेषु जातेषूपरतेषु वाहोरात्रम् आशौचम् । तथा स्वभार्यास्व् अन्यगतास्व् अन्यं प्रतिलोमव्यतिरिक्तं आश्रितासु अतीतासु चाहोरात्रम् एव न पुनः सत्य् अपि सापिण्डे दशारात्रम् । प्रतिलोमाश्रितासु चाशौचाभाव एव । “पाखण्ड्यनाश्रिताः स्तेनाः” (य्ध् ३.६) इत्य् अनेन प्रतिषेधात् । एतच् च भार्यापुत्रत्वशब्दयोः संबन्धिशब्दत्वात् यत् प्रातियौगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदम् आशौशं । सपिण्डानां त्व् आशौचाभाव एव । अत एव प्रजापतिः ।

अन्याश्रितेषु दारेषु परपत्नीसुतेषु च ।
गोत्रिणः स्नानशुद्धाः स्युस् त्रिरात्रेणैव तत्पिता ॥ इति ।

स्वैरिण्याद्यास् तु यम् आश्रितास् तस्य तु त्रिरारत्रम् एव । यथाह विष्णुः ।

अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ इति । (विध् २२.४३)

त्रिरात्रम् अत्र प्रकृतम् । अनयोश् च त्रिरात्रैकरात्रयोः संनिधिविदेशस्थापेक्षया व्यवस्था । यदा तु पितुस् त्रिरात्रं तदा सपिण्डानाम् एकरात्रम् । यथाह मरीचिः ।

सूतके मृतके चैव त्रिरात्रं परपूर्वयोः ।
एकाहस् तु सपिण्डानां त्रिरात्रं यत्र वै ँँपितःँँ ॥ इति ।

किंच । निवसत्य् अस्मिन्न् इति निवासः स्वदेश उच्यते । तस्य यो राजा स्वामी विषयाधिपतिः स यस्मिन्न् अहन्य् अतीतस् तदहर्मात्रं शुद्धिकारणम् । रात्रौ चेद् अतीतस् तदा रात्रिमात्रम् । अत एव मनुः ।

प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः । इति । (म्ध् ५.८२)

ज्योतिषा सह वर्तते इति सज्योतिर् आशौचम् । अह्नि चेद् यावत् सूर्यदर्शनं रात्रौ चेद् यावन् नक्षत्रदर्शनम् इत्य् अर्थः ॥ ३.२५ ॥

अनुगमनाशौचम् आह ।

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् । ३.२६अब्
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥ ३.२६च्द्

ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि स्नेहादिनानुगच्छति तदाम्भसि तडागादिस्थे स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य शुचिर् भवेत् । अस्य च घृतप्राशनस्य भोजनकार्यविधाने प्रमाणाभावान् न भोजनप्रतिषेधः । इदं समानोत्कृष्टजातिविषयम् । यथाह मनुः ।

अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च ।
स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ इति । (म्ध् ५.१०३)

ज्ञातयो मातृसपिण्डाः । इतरेषां तु विहितत्वान् न दोषः । निकृष्टजात्यनुगमने तु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तत्र शूद्रानुगमने,

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन् नीयमानं स त्रिरात्रेण शुध्यति ॥
त्रिरात्रेण तु ततस् तीर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥

इति पराशरोक्तम् । क्षत्रियानुगमने त्व् अहोरात्रम् । “माङुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रम् आशौचं अस्निग्धे त्व् अहोरात्रं शवानुगमने चैकम्” (वध् २३.२४–२५) इति वसिष्ठोक्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यानन्तरवैश्यानुगमने अहोरात्रं एकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूद्रानुगमने एकाह इत्य् ऊहनीयम् । यथा रोदने ऽपि पारस्करेणोक्तम् ।

मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् ।
वर्जयेत् तदहोरात्रं दानं श्राद्धादिकर्म च ॥ इति ।

तथालंकरणम् अपि न कार्यम्,

कृच्छ्रपादो ऽसपिण्डस्य प्रेतालंकरणे कृते ।
अज्ञानाद् उपवासः स्याद् अशक्तौ स्नानम् इष्यते ॥

इति शङ्खेन प्रायश्चित्तस्याम्नातत्वात् ॥ ३.२६ ॥

सपिण्डाशौचे क्वचिद् अपवादम् आह ।

महीपतीनां नाशौचं हतानां विद्युता तथा । ३.२७अब्
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥ ३.२७च्द्

यद्य् अपि महीशब्देन कृत्स्नं भूगोल्लकम् अभिधीयते तथाप्य् अत्र सकलायाः क्षितेर् एकभर्तृकत्वानुपपत्तेः महीपतीनाम् इति बहुवचनानुरोधाच् च तदेकदेशभूतानि मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनाम् अभिषिक्तानां नाशौचम् । तैर् आशौचं न कार्यम् इत्य् अर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थं विपन्नानां च संबन्धिनो ये सपिण्डास् तैर् अप्य् आशौचं न कार्यम् । यस्य च मान्त्रिपुरोहितादेर् भूमिपो ऽनन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थम् आशौचाभावम् इच्छति तेनापि न कार्यम् । अत्र च महीपतीनां यद् असाधारणत्वेन विहितं प्रजापरिरक्षणं तद् येन दानमानसत्कारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुनः पञ्चमहायज्ञादिष्व् अपि । तथाच मनुः ।

राज्ञो महात्मिके स्थाने सद्यः शौचं विधीयते ।
प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ॥ इति । (म्ध् ५.९५)

गौतमेनाप्य् उक्तम्- “राज्ञा च कार्याविघातार्थम्” (ग्ध् १४,४५) इति राजभृत्यादेर् अप्य् आशौचं न भवति । यथाह प्रचेताः ।

कारवः शिल्पिनो वैद्या दासीदासास् तथैव च ।
राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥ इति ।

कारवः सूपकारादयः । शिल्पिनश् चित्रकारचैलनिर्णेजकादयः । अयं चाशौचाभावः किंविषय इत्य् अपेक्षायां कर्मनिमित्तैः शब्दैस् तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात् तत्रैव द्र्ष्टव्यः । अत एव विष्णुः “न राज्ञां राजकर्मणि, न व्रतिनां व्रते, न सत्रिणां सत्रे, न कारूणां कारुकर्मणि” (विध् २२.४८–५१) इति प्रतिनियतविषयम् एवाशौचाभावं दर्शयति । शातातपीये ऽप्य् उक्तम् ।

मूल्यकर्मकराः शूद्रा दासीदासास् तथैव च ।
स्नाने शरीरसंस्कारे गृहकर्मण्य् अदूषिताः ॥ इति ।

इयं च दासादिशुद्धिर् अपरिहरणीयतया प्राप्तस्पर्शविषयेत्य् अनुसंधेयम् । अत एव स्मृत्यन्तरम् ।

सद्यःस्पृश्यो गर्भदासो भक्तदासस् त्र्यहाच् छुचिः ।

तथा ।

चिकित्सको यत्कुरुते तद् अन्येन न शक्यते ।
तस्माच् चिकित्सकः स्पर्शे शुद्धो भवति नित्यशः ॥ इति ॥ ३.२७ ॥

किं च ।

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । ३.२८अब्
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ ३.२८च्द्
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । ३.२९अब्
आपद्य् अपि हि कष्टायां सद्यःशौचं विधीयते ॥ ३.२९च्द्

ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता दीक्षितास् तेषां यज्ञियं यज्ञे भवं कर्म कुर्वतां सद्यःशौचं विधीयत इति सर्वत्रानुषङ्गः । दीक्षितस्य “वैतानौपासनाः कार्याः” (य्ध् ३.१७) इत्य् अनेन सिद्धे ऽप्य् अधिकारे पुनर्वचनं यजमाने स्वयंकर्तृत्वविधानार्थं सद्यः स्नानेन विशुद्ध्यर्थं च । सत्रिग्रहणेन संततानुष्ठानतुल्यतयान्नसत्रप्रवृत्ता लक्ष्यन्ते, मुख्यानां तु सत्रिणां दीक्षितग्रहणेनैव सिद्धेः । व्रतिशब्देन कृच्छ्रचान्द्रायणादिप्रवृत्ताः स्नातकव्रतप्रायश्चित्तप्रवृत्ताश् चोच्यन्ते । तथा ब्रह्मचारिग्रहणेन ब्रह्मचर्यादिव्रतयोगिनः श्राद्धकर्तुर् भोक्तुश् च ग्रहणम् । तथा स्मृत्यन्तरम् ।

नित्यम् अन्नप्रदस्यापि कृच्छ्रचान्द्रायणादिषु ।
निर्वृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥
गृहीतनियमस्यापि न स्याद् अन्यस्य कस्यचित् ।
निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ॥
निमन्त्रितस्य विप्रस्य स्वाध्यायादिरतस्य च ।
देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥
प्रायश्चित्तप्रवृत्तानां दातृब्रह्मविदां तथा ॥ इति ।

सत्रिणां व्रतिनां सत्रे व्रते च शुद्धिर् न कर्ममात्रे संव्यवहारे वा । तथा च विष्णुः- “न व्रतिनां व्रते, न सत्रिणां सत्रे” (विध् २२.४९–५०) इति । ब्रह्मचार्य् उपकुर्वाणको नैष्ठिकश् च । यस् तु नित्यं दातैव न प्रतिग्रहीता स वैखानसो दातृशब्देनोच्यते । ब्रह्मविद् यतिः । एतेषां च त्रयाणाम् आश्रमिणां सर्वत्र शुद्धिः, विशेषे प्रमाणाभावात् । दाने च पूर्वसंकल्पितद्रव्यस्य नाशौचम्,

पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति ।

इति क्रतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्तः ।

विवाहोत्सवयज्ञादिष्व् अनतरा मृतसूतके ।
शेषम् अन्नं परैर् देयं दातॄन् भोक्तॄंश् च न स्पृशेत् ॥ इति ।

यज्ञे वृषोत्सर्गादौ, विवाहे च पूर्वसंभृतसंभारे । तथा च स्मृत्यन्तरं ।

यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि । इति ।

सद्यःशौचम् अत्र प्रकृतम् । विवाहग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कारकर्मोपलक्षणम् । यज्ञग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाद्युत्सवमात्रोपलक्षणम्, “न देवप्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्य् अपि च कष्टायाम् आशौचम्” (विध् २२.५३–५५) इति विष्णुस्मरणात् । संग्रामे युद्धे । “संग्रामे समुपोऌहे राजानं संनाहयेत्” (आश्गृ ३.१२.१) इत्य् आश्वलायनाद्युक्तसंनहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यःशुद्धिः । देशस्य विस्फोटादिभिर् उपसर्गे राजभयाद् वा विप्लवे तदुपशमनार्थे शान्तिकर्मणि सद्यःशौचम् । विप्लवाभावे ऽपि क्वचिद्देशविशेषेण पैठिनसिना शुद्धिर् उक्ता ।

विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि ।
न तत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत् ॥ इति ।

तथा कष्टायाम् अप्य् आपदि व्याध्याद्यभिभवेन मुमूर्षावस्थायां दुरितशमनार्थे दाने । तथा संकुचितवृत्तेश् च क्षुत्परिश्रान्तमातापित्रादिबहुकुटुम्बस्य तद्भरणोपयोगिनि प्रतिग्रहे सद्यःशुद्धिः । इयं च शुद्धिर् यस्य सद्यःशौचं विनार्त्युपशमो न भवत्य् अश्वस्तनिकस्य तद्विषया । यस् त्व् एकाहपर्याप्तसंचितधनस् तस्यैकाहः, यस् त्र्यहोपयोगिसंचयी तस्य त्र्यहः यस् तु चतुरहार्थम् आपादितद्रव्यः कुम्भीधान्यस् तस्य चतुरहः कुसूलधान्यकस्य दशाह इत् येवं यस्य यावत् कालम् आर्त्यभावस् तस्य तावत् कालम् आशौचम्, आपदुपाधिकत्वाद् आशौचसंकोचस्य । अत एव मनुना,

कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव वा ॥ (म्ध् ४.७)

इत्य् अत्र प्रतिपादितचतुर्विधगृहस्थाभिप्रायेण,

दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।
अर्वाक् संचयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥ (म्ध् ५.५९)

इति कल्पचतुष्टयं प्रतिपादितम् । समानोदकविषयाश् च संकुचिताशौचकल्पाः पक्षिण्येकाहःसद्यःशौचरूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयैव योज्याः । अयं चाशौचसंकोचो येनैव प्रतिग्रहादिना विनार्तिस् तद्विषयो न सर्वत्रेत्य् अवगन्तव्यम् ॥

(ननु?)[^४२] ँँमनुःँँ ।
एकाहाद् ब्राह्मणः शुध्येद् यो ऽग्निवेदसमन्वितः ।
त्र्यहात् केवलवेदस् तु विहीनो दशभिर् दिनैः ॥ इत्यादिस्मृत्यन्तरवचनपर्यालोचनयाध्ययनज्ञानानुष्ठानयोगिनां त्र्येकाहादिभिः सर्वात्मना शुद्धिर् इत्य् एवं कस्मान् नेष्यते ।
उच्यते,
दशाहं शावम् आशौचं सपिण्डेषु विधीयते । (म्ध् ५.५९)

इति सामान्यप्राप्तदशाहबाधपुरःसरम् एव ह्य् “एकाहाद् ब्राह्मणः शुध्येद्” इति विधायकं भवति । बाधस्य चानुपपत्तिनिब्दन्धनत्वात् यावत्य् अबाधिते ऽनुपपत्तिप्रशमो न भवति तावद् बाधनीयम् । अतः कियद् अनेन बाध्यम् इत्य् अपेक्षायाम् अपेक्षितविशेषसमर्पणक्षमस्य “अग्निवेदसमन्वितः” इति वाक्यविशेषस्य दर्शनाद्, अग्निवेदविषये ऽग्निहोत्रादिकर्मणि स्वाध्याये च व्यवतिष्ठते न पुनर् दानादाव् अपि । एवं चाग्निवेदपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्निवेदसाध्यं कर्म कृतं तस्यैकाहाच् छुधिर् इति पुरुषविशेषोपलक्षणत्वम् एव स्यात् । न चैतद् युक्तम् । एवं च सति,

प्रत्यूहेन् नाग्निषु क्रियाः । (म्ध् ५.८४)
वैतानोपासनाः कार्याः क्रियाश् च श्रुतिचोदिताः । (य्ध् ३.१७) इति ।

तथा ब्राह्मणस्य च स्वाध्यायादिनिवृत्त्यर्थं सद्यःशौचम् इत्य् एवमादिभिर् मन्वादिवचनैर् एकवाक्यता भवति । तथा च

उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।

इति दशाहप्रयन्तं भोजनादिकं प्रतिषेधयद्भिर् यमादिवचनैर् विरोधो ऽपि सिध्यति, अतः क्वाचित्कम् एवेदम् आशौचसंकोचविधानं न पुनः सर्वसंव्यवहारादिगोचरम् इत्य् अलम् अतिप्रपञ्चेन ॥

इदं च स्वाध्यायविषये सद्यःशौचविधानं बहुवेदस्य ब्रह्मोज्झत्वकृतायाम् आर्तौ द्रष्टव्यम् । इतरस्य तु,
दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते ।

इति प्रतिषेध एव । एवं ब्राह्मणादिमध्ये यस्य यावत्कालम् आशौचम् उक्तं स तस्यानन्तरं स्नात्वा शुध्येत् न तत्कालातिक्रममात्रात् । यथाह मनुः ।

विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।
वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ इति । (म्ध् ५.९९)

अयमर्थः- कृतक्रिय इति प्रत्येकम् अभिसंबध्यते । विप्रो ऽनुभूताशौचकालः कृतक्रियः कृतस्नानो हस्तेनापः स्पृष्ट्वा शुध्यति । स्पृष्ट्वेति स्पर्शनक्रियैवोच्यते न स्नानम् आचमनं वा, वाहनादिषु तस्यैवानुषङ्गात् । अथ वा कृतक्रियो यावद् आशौचं कृतोदकादिक्रियः तदनन्तरं विप्रादिर् उदकादि स्पृष्ट्वा शुध्यतीत्य् आशौचकालानन्तरभाविस्नानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादिर् वाहनादिकं स्पृष्ट्वा शुध्येद् इति ॥ ३.२८ ॥ ३.२९ ॥

कुलव्यापिनीं शुद्धिम् अभिधायेदानीं प्रसङ्गात् प्रतिपुरुषव्यापिनीं शुद्धिम् आह ।

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् । ३.३०अब्
अब्लिङ्गानि जपेच् चैव गायत्रीं मनसा सकृत् ॥ ३.३०च्द्

उदकया रज्स्वला, अशुचयः शवचण्डालपतितसूतिकाद्याः शावाशौचिनश् च, एतैः संस्पृष्टः स्नायात् । तैः पुनर् उदक्याशुचिसंस्पृष्टादिभिः संस्पृष्ट उपस्पृशेद् आचामेत् । आचम्याब्लिङ्गान्य् आपोहिष्टेत्य् एवमादीनि त्रीणि मन्त्रवाक्यानि जपेत्, त्रिष्व् एव बहुवचनस्य चरितार्थत्वात् । तथा गायत्रीं च सकृन् मनसा जपेत् । ननु “उदक्या संस्पृष्टः स्नायाद्” इत्य् एकवचननिर्दिष्टस्य कथं तैर् इति बहुवचनपरामर्शः । सत्यम् एवम् । किं त्व् अत्र उदक्यादिसंस्पृष्टव्यतिरिक्तस्नानार्हमात्रस्पर्शेष्व् आचमनविधानार्थं तैर् इति बहुवचननिर्देश इत्य् अविरोधः । ते च स्नानार्हाः स्मृत्यन्तरे ऽवगन्तव्याः । यथाह पराशरः ।

दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्मणि ।
चितिपूयश्मशानास्थ्नां स्पर्शने स्नानम् आचरेत् ॥ इति ।

तथा च मनुः ।

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् ।
आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ इति । (म्ध् ५.१४४)

मैथुनिनः स्नानम् ऋतुकालविषयम्,

अनृतौ तु यदा गच्छेच् छौचं मूत्रपुरीषवत् ।
इति बृहस्पतिस्मरणात् । अनृताव् अपि कालविशेषे स्मृत्यन्तरे स्नानम् उक्तम् ।
अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् ।
कृत्वा सचेलं स्नात्वा च वारुणीभिश् च मार्जयेत् ॥ इति ।

तथा च यमः ।

अजीर्णे ऽभ्युदिते वान्ते तथाप्य् अस्तम् इते रवौ ।
दुःस्वप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥ इति ।

तथा च बृहस्पतिः ।

मैथुने कटधूमे च सद्यःस्नानं विधीयते ।

इत्येतद् असचेलस्पर्शविषयम् । सचेलेन तु चित्यादिस्पर्शे सचेलम् एव स्नानम् । यथाह च्यवनः। “श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीविनम् । ग्रामयाजकं सोमविक्रयिणं पूयं चितिं चितिकाष्ठं च मद्यं मद्यभाण्डं सस्नेहं मानुषास्थि शवस्पृष्टं रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचेलम् अम्भो ऽवगाह्योत्तीर्याग्निम् उपस्पृश्य गायत्रीम् अष्ठशतं जपेत् । घृतं प्राश्य पुनः स्नात्वा त्रिर् आचामेत्” इति । एतच् च बुद्धिपूर्वविषयम् । अन्यत्र स्नानमात्रम्,

शवस्पृष्टं दिवाकीर्तिं चितिं पूयं रजस्वलाम् ।
स्पृष्ट्वा त्व् अकामतो विप्रः स्नानं कृत्वा विशुध्यति ॥

इति बृहस्पतिस्मरणात् । एवम् अन्यत्रापि वक्ष्यमाणेषु विषयसमीकरणम् ऊहनीयम् । यथाह कश्यपः “उदयास्तमययोः स्कन्दयित्वा अक्षिस्पन्दने कर्णाक्रोशने चित्यारोहणे पूयसंस्पर्शने च सचैलं स्नानं ऽपुनर् मनऽ इति जपेन् महाव्याहृतिभिः सप्ताज्याहुतीर् जुहुयात्” इति । तथा च स्मृत्यन्तरे ।

स्पृष्ट्वा देवलकं चैव सवासा जलम् आविशेत् ।
देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ॥
आसौ देवलको नाम हव्यकव्येषु गर्हितः ॥

तथा ब्रह्माण्डपुराणे ।

शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान् सवासा जलम् आविशेत् ॥ इति ।

यथा,

अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंपर्कदूषिता ।

इति लिङ्गाच् च शूद्रस्पर्शने निषेधः ॥ तथा अङ्गिराः ।

यस् तु छाया श्वपाकस्य ब्राह्मणो ह्य् अधिरोहति ।
तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥

तथा व्याघ्रपादः ।

चण्डालं पतितं चैव दूरतः परिवर्जयेत् ।
गोवालव्यजनाद् अर्वाक् सवासा जलम् आविशेत् ॥ इति ।

एतद् अतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पतिनोक्तम् ।

युगं च द्वियुगं चैव त्रियुगं च चतुर्युगम् ।
चण्डालसूतिकोदक्यापतितानाम् अधः क्रमात् ॥ इति ।

तथा पैठीनसिः- “काकोलूकस्पर्शने सचेलस्नानम् अनुदकमूत्रपुरीषकरणे सचेलस्नानं महाव्याहृतिहोमश् च” । अनुदकमूत्रपुरीषकरणे इत्य् एतच् चिरकालमूत्रपुरीषाशौचाकरणपरम् । तथा अङ्गिराः ।

भासवायसमार्जारखरोष्ट्रं च श्वशूकरान् ।
अमेध्यानि च संस्पृश्य सचेलो जलमाविशेत् ॥ इति ।

मार्जारस्पर्शनिमित्तं स्नानम् उच्छिष्टसमये ऽनुष्टानसमये च वेदितव्यं समाचारात् । अन्यदा तु,

मार्जारश् चैव दर्वी च मारुतश् च सदा शुचिः ।

इति स्नानाभावः । श्वस्पर्शे तु स्नाङं नाभेर् ऊर्ध्वं वेदितव्यम्, अधस्तात् तु क्षालनम् एव,

नाभेर् ऊर्ध्वं करौ मुक्त्वा शुना यद्य् उपहन्यते ।
तत्र स्नानम् अधस्ताच् चेत् प्रक्षाल्याचम्य शुध्यति ॥

इति तेनैवोक्तत्वात् । तथा पक्षिस्पर्शे विशेषो जातूकर्ण्येनोक्तः ।

ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अग्नं संस्पृशेत् खगः ।
स्नानं तत्र प्रकुर्वीत शेषं प्रक्षाल्य शुध्यति ॥ इति ।

अमेध्यस्पर्शे ऽपि विष्णुना विशेषो दर्शितः- “नाभेर् अधस्तात् प्रबाहुषु च कायिकैर् मलैः सुराभिर् मद्यैर् वापहतो मृत्तोयैस् तदङ्गं प्रक्षाल्याचान्तः शुध्येत् । अन्यत्रापहतो मृत्तोयैस् तदङ्गं प्रक्षाल्य स्नायात् । तैर् इन्द्रियेषूपहतस् तूपोष्य स्नात्वा पञ्चगव्येन दशनच्छदोपहतश् च” (विध् २२.७७–८०) इति । एतच् च परकीयामेध्यस्पर्शविषयम् । आत्मीयमलस्पर्शे तु ऊर्ध्वम् अपि नाभेः क्षालनम् एव । यथाह देवलः ।

मानुषास्थिं वसां विष्टाम् आर्तवं मूत्रेतसी ।
मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् ॥
स्नात्वा प्रमृज्य लेपादीन् आचम्य स शुचिर् भवेत् ।
तान्येव स्वानि संस्पृश्य पूतः स्यात् परिमार्जनात् ॥ इति ।

तथा च शङ्खः ।

रथ्याकर्दमतोयेन ष्टीवनाद्येन वा तथा ।
नाभेर् ऊर्ध्वं नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥ इति ।

यमेनाप्य् अत्र विशेष उक्तः ।

सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् ।
जङ्घयोर् मृत्तिकास् तिस्रः पादयोर् द्विगुणास् ततः ॥ इति ।

ग्रामसंकरं ग्रामसलिलप्रवाहप्रवेशं सकर्दमं प्रविश्येत्य् अर्थः । मारुतशोषिते तु कर्दमादौ न दोषः,

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ (य्ध् १.१९७)

इति प्रागुक्तत्वात् । अस्थनि मनुना विशेष उक्तः ।

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गाम् स्पृष्ट्वा वीक्ष्य वा रविम् ॥ इति । (म्ध् ५.८७)

इदं द्वैजातास्थिविषयम् । अन्यत्र वसिष्ठोक्तम्- “मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रम् आशौचम् अस्निग्धे त्व् अहोरात्रम्” (वध् २३.२४–२५) इति । अमानुषे तु विष्णूक्तम्- “भक्ष्यवर्ज्यं पञ्चनखशवं तदस्थि च सस्नेहं स्पृष्ट्वा स्नातः पूर्ववस्त्रं प्रक्षालितं बिभृयात्” (विध् २२.७०–७१) इति ॥ एवम् अन्ये ऽपि स्नानार्हाः स्मृत्यन्तरतो ऽवबोद्धव्याः ॥ एवं स्नानार्हाणां बहुत्वात् तदभिप्रायं “तैर्” इति बहुवचनम् अविरुद्धम् । “उदक्याशुचिभिः स्नायाद्” इत्य् एतच् च दण्डाद्यचेतनव्यवधानस्पर्शे वेदितव्यम् । चेतनव्यवधाने तु मानवम् ।

दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ इति । (म्ध् ५.८५)

तृतीयस्य त्व् आचमनम् एव,

तत्स्पृष्टिनं स्पृशेद् यस् तु स्नानं तस्य विधीयते ।
ऊर्ध्वम् आचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥

इति संवर्तस्मरणात् । एतच् चाबुद्धिपूर्वकविषयम् । मतिपूर्वे तु तृतीयस्यापि स्नानम् एव । यथाह गौतमः “पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलम् उदकोपस्पर्शनाच् छुध्येत्” (ग्ध् १४.३०) इति । चतुर्थस्य त्व् आचमनम्,

उपस्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः ।
हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति ॥

इति देवलस्मरणात् । अशुचीनां पुनर् उदक्यादिस्पर्शे देवलेन विशेष उक्तः ।

श्वपाकं पतितं व्यङ्गम् उन्मत्तं शवहारकम् ।
सूतिकां साविकां नारीं रजसा च परिप्लुताम् ॥
श्वकुक्कुटवराहांश् च ग्राम्यान् संस्पृश्य मानवः ।
सचेलः सशिरः स्नात्वा तदानीम् एव शुध्यति ॥ इति ।
अशुद्धान् स्वयम् अप्य् एतान् अशुद्धस् तु यदि स्पृशेत् ।
विशुध्यत्य् उपवासेन तथा कृच्छ्रेण वा पुनः ॥ इति ।

साविका प्रसवस्य कारयित्री । कृच्छ्रः श्वपाकादिविषयः श्वादिषु तूपवास इति व्यवस्था ॥ ३.३० ॥

अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणोक्तांस् तथैवात्र प्रकरणे वक्ष्यमाणांश् च शुद्धिहेतून् अनुक्रामति ।

कालो ऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम् । ३.३१अब्
पश्चात्तापो निराहारः सर्वे ऽमी शुद्धिहेतवः ॥ ३.३१च्द्

यथाग्न्यादयो ऽमी सर्वे स्वविषये शुद्धिहेतवस् तथा कालो ऽपि दशरात्रादिकः, शास्त्रगम्यत्वाच् छुद्धिहेतुत्वस्य । अग्निस् तावच् छुद्धिहेतुः । यथाभ्यधायि “पुनःपाकान् महीमयम्” (य्ध् १.१८७) इति । कर्म च शुद्धिनिमित्तं यथा वक्ष्यति “तथा अश्वमेधावभृथस्नानात्” इति (य्ध् ३.२४४) । तथा मृद् अपि शुद्धिकारणं यथा कथितम्,

सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये । इति । (य्ध् १.१८९)

वायुर् अपि शुद्धिहेतुः यथोदीरितं “मारुतेनैव शुध्यन्ति” इति (य्ध् १.१९७) । मनो ऽपि वाचः शुद्धिसाधनं यथाम्नायि “मनसा वा इषिता वाग् वदति” इत्यादि । ज्ञानं चाध्यात्मिकं बुद्धिशुद्धौ निदानं यथाभिधास्यति “क्षेत्रज्ञस्येश्वरज्ञानात्” इति (य्ध् ३.३४) । तपश् च कृच्छ्रादि यथा वदिष्यति “प्राजापत्यं चरेत् कृच्छ्रं समो वा गुरुतल्पगः” इत्यादि (य्ध् ३.२६०) । तथा जलम् अपि शरीरादेः, यथा जल्पिष्यति “वर्ष्मणो जलम्” इति (य्ध् ३.३३) । पश्चात्तापो ऽपि शुद्धिजनकः यथा गदितं “ख्यापनेनानुतापेन” इति (म्ध् ११.२२८) । निराहारो ऽपि शुद्ध्यपादानं यथा व्याहरिष्यति “त्रिरात्रोपोषितो जप्त्वा” इत्यादि (य्ध् ३.३०१) ॥ ३.३१ ॥

किं च ।

अकार्यकारिणां दानं वेगो नद्याश् च शुद्धिकृत् । ३.३२अब्
शोध्यस्य मृच् च तोयं च संन्यासो वै द्विजन्मनाम् ॥ ३.३२च्द्
तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम् । ३.३३अब्
जपः प्रच्छन्नपानानां मनसः सत्यम् उच्यते ॥ ३.३३च्द्
भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम् । ३.३४अब्
क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता ॥ ३.३४च्द्

अकार्यकारिणां निषिद्धसेविनां दानम् एव मुख्यं शुद्धिकारणं यथा व्याख्यास्यति “पात्रे धनं वा पर्याप्तं दत्त्वा” इति । नद्याः निदाघादाव् अल्पतोयतया अमेध्योपहततीरायाः कूलंकषवर्षाम्बुप्रवाहवेगः शुद्धिकृत् । शोधनीयस्य द्रव्यस्य मृच् च तोयं च शुद्धिकृत् यथेह भणितम् “अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धापकर्षणात्” इति (य्ध् १.१९१) । संन्यासः प्रव्रज्या द्विजन्मनां मानसापचारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्रादि तु सर्वसाधारणं न वेदविदाम् एव । क्षान्तिर् उपशमो विदुषां वेदार्थविदाम् । वर्ष्मणः शरीरस्य जलम् । प्रच्छन्नपापानाम् अविख्यातदोषाणां अघमर्षणादिसूक्तजपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्संकल्पात्मकं तस्यासत्संकल्पत्वाद् अशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । भूतशब्देन तद्विकारभूतो देहेन्द्रियसंघो लक्ष्यते । तत्र स्थूलो ऽहं कृशो ऽहं काणो ऽहं बधिरो ऽहम् इत्येवं तदभिमानित्वेन यो ऽयम् आत्मा वर्तते स भूतत्मा, तस्य तपोविद्ये शुद्धिनिमित्ते । तपः शब्देनानेकजन्मस्व् एकस्मिन्न् अपि वा जन्मनि जागरस्वप्नसुषुप्त्यवस्थास्व् आत्मनो यो ऽयम् अन्वयः शरीरादेश् च व्यतिरेकः सो ऽभिधीयते । यथा “तपसा ब्रह्म विजिज्ञासस्व” (तैतु ३.२.१) इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये । विद्याशब्देन चौपनिषदं “अस्थूलम् अनण्व् अह्रस्वम्,"(बृउ ३.९.२६) “असङ्गो ह्य्,” (बृउ २.५.१४) “अयम् आत्मा” (बृउ ३.८.८) इत्यादि त्वंपदार्थनिरूपणविषयवाक्यजन्यं ज्ञानम् उच्यते । एताभ्याम् अस्य शुद्धिः । शरीरादिव्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनं । क्षेत्रस्य तपोविद्याविशुद्धस्य त्वंपदार्थभूतस्य “तत् त्वम् असि” (छु ६.८.७) आदिवाक्यजन्यात् साक्षात्काररूपाद् ईष्वरज्ञानात् परमा विशुद्धिर् मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास् तद्वद् युक्ततरा कालशुद्धिर् अपीत्य् एवं प्रशंसार्थं भूतात्मादिविशुद्ध्यभिधानम् ॥ ३.३२ ॥ ३.३३ ॥ ३.३४ ॥

**इत्य् आशौचप्रकरणम् **

अथापद्धर्मप्रकरणम्

“आपद्य् अपि च कष्टायां सद्यःशौचं विधीयते” (य्ध् ३.१९) इत्य् आपदि मुख्याशौचकल्पानाम् अनुष्ठानासंभवेन सद्यःशौचाद्यनुकल्पम् उक्त्वेदानीं तत्प्रसङ्गाद् आपदि “प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा” (य्ध् १.११८) इत्याद्युक्तयाजनादिमुख्यवृत्त्यसंभवेन वृत्त्यन्तरम् आह ।

क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः । ३.३५अब्
निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि ॥ ३.३५च्द्

द्विजो विप्रो बहुकुटुम्बतया स्ववृत्त्या जीवितुम् असमर्थः क्षत्रसंबन्धिना कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुम् अशक्नुवन् वैश्यसंबन्धिना कर्मणा वाणिज्यादिना जीवेत्, न शूद्रवृत्त्या । तथा च मनुः ।

उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् ।
कृषिगोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ॥ इति । (म्ध् १०.८२)

तथा आपद्य् अपि न हीनवर्णेन ब्राह्मी वृत्तिर् आश्रयणीया किं तु ब्राह्मणेन क्षात्री क्षत्रियेण वैश्यसंबन्धिनी वैश्येन च शौद्रीत्य् एवं स्वानन्तरहीनवर्णवृत्तिर् एव । “अजीवन्तः स्वधर्मेणान्तरां पापीयसीं वृत्तिम् आतिष्ठेरन्न् अतु कदाचिज् ज्यायसीम्” (वध् २.२२–२३) इति वसिष्ठस्मरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथा च स्मृत्यन्तरम् ।

उत्कृष्टं वापकृष्टं वा तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ इति ।

शूद्रस्योत्कृष्टं ब्राह्मं कर्म न विद्यते । तथा ब्राह्मणस्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनर् आपद्गतसर्ववर्णसाधारणे इति । शूद्रश् चापद्गतो वैश्यवृत्त्या शिल्पैर् वा जीवेत्,

“शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग्भवेत् ।
शिल्पैर्वा विव्धैर्जीवेद्द्विजातिहितमाचरन्” ॥ (य्ध् १.१२९)

इति प्रागुक्तत्वात् । मनुना चात्र विशेषो दर्शितः ।

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥ इति । (म्ध् १०.१००)

अनेनैव न्यायेनानुलोमोत्पन्नानाम् अपि स्वानन्तरा वृत्तिर् ऊहनीया । एवं स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पावयित्वा पथि न्यसेत् । स्ववृत्ताव् आत्मानं स्थापयेद् इत्य् अर्थः । यद् वायम् अर्थः । गर्हितवृत्त्यार्जितं धनं पथि न्यसेद् उत्सृजेद् इति । तथा च मनुः ।

जपहोमैर् अपैत्य् एनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ इति ॥ (म्ध् १०.१११) ३.३५ ॥

वैश्यवृत्त्यापि जीवतो ब्राह्मणस्य यद् अपणनीयं तद् आह ।

फलोपलक्षौमसोममनुष्यापूपवीरुधः । ३.३६अब्
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥ ३.३६च्द्
शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । ३.३७अब्
मृच्चर्मपुष्पकुतपकेशतक्रविषक्षितिः ॥ ३.३७च्द्
कौशेयनीललवणमांसैकशफसीसकान् । ३.३८अब्
शाकार्द्रौषधिपिण्याकपशुगन्धांस् तथैव च ॥ ३.३८च्द्
वैश्यवृत्त्यापि जीवन् नो विक्रीणीत कदाचन । ३.३९अब्

नो विक्रीणीतेति प्रत्येकम् अभिसंबन्ध्यते । फलानि कदलीफलादीनि बदरेङ्गुदव्यतिरिक्तानि । यथाह नारदः ।

स्वयंशीर्णानि पर्णानि फलानां बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच् चेद् अविकृतं भवेत् ॥ इति ।

उपलं मणिमाणिक्याद्यश्ममात्रम् । क्षौमम् अतसीसूत्रमयं वस्त्रम् । क्षौमग्रहणं तान्तवादेर् उपलक्षणम् । यथाह मनुः ।

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।
अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥ इति । (म्ध् १०.८७)

सोमो लताविशेषः । मनुष्यपदेनाविशेषात् स्त्रीपुंनपुंसकानां ग्रहणम् । अपूपं मण्डकादि भक्ष्यमात्रम् । वीरुधो वेत्रामृतादिलताः । तिलाः प्रसिद्धाः । ओदनग्रहणं भोज्यमात्रोपलक्षणम् । रसा गुडेक्षुरसशर्करादयः । तथा च मनुः ।

क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ इति । (म्ध् १०.८८)

क्षारा यवक्षारादयः । दधिक्षीरयोर् ग्रहणं मस्तुपिण्डकिलाटकूर्चिकादीनां तद्विकाराणाम् उपलक्षणम्, “क्षीरं सविकारम्” (ग्ध् ७.११) इति गौतमस्मरणात् । घृतग्रहणं तैलादिस्नेहमात्रोपलक्षणम् । जलं प्रसिद्धम् । शस्त्रं खड्गादि । आसवग्रहणं मद्यमात्रोपलक्षणम् । मधूच्छिष्टं सिक्थकम् । मधु क्षौद्रम् । लाक्षा जतु । बर्हिषः कुशाः । मृत् प्रसिद्धा । चर्माजिनम् । पुष्पं प्रसिद्धम् । अजलोमकृतः कम्बलः कुतपः । केशाश् चमर्यादिसंबद्धाः । तक्रम् उदश्वित् । विषं शृङ्ग्यादि । क्षितिर् भूमिः, “नित्यं भूमिव्रीहियवाजाव्यश्वर्षभधेन्वनडुहश् चैके” इति सुमन्तुस्मरणात् । कौशेयं कोशप्रभवं वसनम् । नीलं नीलीरसम् । लवणग्रहणेनैव बिडसौवर्चलसैन्धवसामुद्रसोमककृत्रिमाण्य् अविशेषेण गृह्यन्ते । मांसं प्रसिद्धम् । एकशफा हयादयः । सीसग्रहणं लोहमात्रोपलक्षणम् । शाकं सर्वम् अविशेषात् । ओषधयः फलपाकान्ताः । “आर्द्रौषधयः” इति विशेषोपादानाच् छुष्केषु न दोषः । पिण्याकः प्रसिद्धः । पशव आरण्याः,

आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च । (म्ध् १०.८९)

इति मनुस्मरणात् । गन्धाश् चन्दनागुरुप्रभृतयः । सर्वान् एतान् वैश्यवृत्त्या जीवन् ब्राह्मणः कदाचिद् अपि न विक्रीणीत । क्षत्रियादेस् तु न दोषः । अत एव नारदेन,

वैश्यवृत्ताव् अविक्रेयं ब्राह्मणस्य पयो दधि । (न्स्म् १.५७)
इति ब्राह्मणग्रहणं कृतम् ॥ ३.३६ ॥ ३.३७ ॥ ३.३८ ॥

प्रतिप्रसवम् आह ।

धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ॥ ३.३९च्द्

यद्य् आवश्यकाः पाकयज्ञादिधर्माः स्वसाधनव्रीह्यादिधान्याभावे न निष्पद्यन्ते, तर्हि धान्येन तिला विक्रयं नेयाः । तत्समाः द्रोणपरिमिता द्रोणपरिमितेनेत्य् एवं तेन धान्येन समाः । तथा च मनुः ।

कामम् उत्पाद्य कृष्यात् तु स्वयम् एव कृषीवलः ।
विक्रीणीत तिलाञ् शुद्धान् धर्मार्थम् अचिरस्थितान् ॥ इति । (म्ध् १०.९०)

धर्मग्रहणम् आवश्यकभेषजाद्युपलक्षणम् । अत एव नारदः ।

अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च ।
यद्य् अवश्यं तु विक्रेयास् तिला धान्येन तत्समाः ॥ इति ।(न्स्म् १.६२)

यद्य् अन्यथा विक्रीणीते तर्हि दोषः,

भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
कृमिर् भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥ (म्ध् १०.९१)

इति मनुस्मरणात् । सजातीयैः पुनर् विनिर्मयो भवत्य् एव ।

रसा रसैर् निमातव्या न त्व् एव लवणं रसैः ।
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ इति । (म्ध् १०.९४)

कृतान्नं सिद्धान्नं तच् च कृतान्नेन परिवर्तनीयम् । “कृतान्नं चाकृतान्नेन” इति पाठे तु सिद्धम् अन्नम् अकृतान्नेन तण्डुलादिना परिवर्तनीयम् इति ॥ ३.३९ ॥

पूर्वोक्तनिषिद्धातिक्रमे दोषम् आह ।

लाक्षालवणमांसानि पतनीयानि विक्रये । ३.४०अब्
पायो दधि च मद्यं च हीनवर्णकराणि तु ॥ ३.४०च्द्

लाक्षालवणमांसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्महानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि । एतद्व्यतिरिक्तापण्यविक्रये वैश्यतुल्यता । यथाह मनुः ।

सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥
इतरेषाम् अपण्यानां विक्रयाद् इह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं च गच्छति ॥ इति । (म्ध् १०.९२–९३) ३.४० ॥

किं च ।

आपद्गतः सम्प्रगृह्णन् भुञ्जानो वा यतस् ततः । ३.४१अब्
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ३.४१च्द्

यस् त्व् अधनो ऽवसन्नकुटुम्बतया आपद्गतो ऽपि क्षत्रवृत्तिं वैश्यवृत्तिं वा न प्रविविक्षति स यतस् ततो हीनहीनतरहीनतमेभ्यः प्रतिगृह्णंस् तदन्नं भुञ्जानो ऽपि वा एनसा पापेन न लिप्यते । यतस् तस्याम् आपदवस्थायाम् असत्प्रतिग्रहादाव् अधिकारित्वेन ज्वलनार्कसमः, यथा ज्वलनो ऽर्कश् च हीनसंस्कारे ऽपि न दुष्यति तथायम् आपद्गतो ऽपि न दुष्यतीत्य् एतावता तत्साम्यम् । एवं च वदता आपद्गतस्य परधर्माश्रयणाद् विगुणम् अपि स्वधर्मानुष्ठानम् एव मुख्यम् इति दर्शितं भवति । तथा च मनुः ।

वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्माश्रयाद् विप्रः सद्यः पतति जातितः ॥ इति ॥ (म्ध् १०.९७) ॥३.४१ ॥

किं च ।

कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः । ३.४२अब्
सेवानूपं नृपो भैक्षम् आपत्तौ जीवनानि तु ॥ ३.४२च्द्

“आपत्तौ जीवनानि” इति विशेषणात् कृष्यादीनां मध्ये अनापदवस्थायां यस्य या वृत्तिः प्रतिषिद्धा तस्य सा वृत्तिर् अनेनाभ्यनुज्ञायते । यथापदि वैश्यवृत्तिः स्वयंकृता कृषिर् विप्रक्षत्रिययोर् अभ्यनुज्ञायते एवं शिल्पादीन्य् अप्य् अस्याभ्यनुज्ञायन्ते । शिल्पं सूपकरणादि । भृतिः प्रेष्यत्वम् । विद्या भृतकाध्यापकत्वाद्या । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः । तत् स्वयंकृतम् अभ्यनुज्ञायते । शकटं भाटकेन धान्यादिवहनद्वारेण जीवनहेतुः । गिरिस् तद्गततृणेन्धनद्वारेण जीवनम् । सेवा परचित्तानुवर्तनम् । अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः । तथा नृपो नृपयाचनम् । भैक्षं स्नातकस्यापि । एतान्य् आपत्तौ जीवनानि । तथा च मनुः ।

विद्या शिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः ।
गिरिर् भैक्षं कुसीदं च दश जीवनहेतवः ॥ इति । (म्ध् १०.११६)। ३.४२ ॥

यदा कृष्यादीनाम् अपि जीवनहेतूनाम् असंभवस् तदा कथं जीवनम् इत्य् अत आह ।

बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद् धरेत् । ३.४३अब्
प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः ॥ ३.४३च्द्

धान्याभावेन त्रिरात्रं बुभुक्षितो ऽनश्नन् स्थित्वा अब्राह्मणाच् छूद्रात् तदभावे वैश्यात् तदभावे क्षत्रियाद् वा हीनकर्मण एकाहपर्याप्तं धान्यम् आहरेत् । यथाह मनुः ।

तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ इति । (म्ध् ११.१६)

तथा च प्रतिग्रहोत्तरकालं यद् अपहृतं तद् धर्मतो यथावृत्तम् आख्येयम्, यदि नास्तिकेन स्वामिना “त्वयेदं किं नामापहृतम्” इत्य् अधियुज्यते । यथाह मनुः ।

खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।
आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥ इति ॥ (म्ध् ११.१७) ३.४३ ॥

इदम् अपरम् आप्तसङ्गाद् राज्ञो विधीयते ।

तस्य वृत्तं कुलं शीलं श्रुतम् अध्ययनं तपः । ३.४४अब्
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ ३.४४च्द्

यो ऽशनायापरीतो ऽवसीदति तस्य वृत्तम् आचारं, कुलम् आभिजात्यं, शीलम् आत्मगुणं, श्रुतं शास्त्रश्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य राजा धर्माद् अनपेतां वृत्तिं प्रकल्पयेत् । अन्यथा तस्य दोषः । तथा च मनुः ।

यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा ।
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥ इति ॥ (म्ध् ७.१३४) ३.४४ ॥

इत्य् आपद्धर्मप्रकरणम्

अथ वानप्रस्थधर्मप्रकरणम्

चतुर्णाम् आश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर् धर्माः प्रतिपादिताः । साम्प्रतम् अवसरप्राप्तान् वानप्रस्थधर्मान् प्रतिपिपादयितुम् आह ।

सुतविन्यस्तपत्नीकस् तया वानुगतो वनम् । ३.४५अब्
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ३.४५च्द्

वने प्रकर्षेण नियमेन तिष्ठति चरतीति वनप्रस्थः । वनप्रस्थ एव वानप्रस्थः संज्ञायां दैर्ध्यम् । भाविनीं वृत्तिम् आश्रित्य वनं प्रतिष्ठासुर् इति यावत् । असौ सुतविन्यस्तपत्नीकः त्वयेयं भरणीया इत्य् एव सुते विन्यस्ता निःक्षिप्ता पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयम् अपि वनं जिगमिषति, तदा तयानुगतो वा सहितः । तथा ब्रह्मचारी उर्ध्वरेताः साग्निर् वैतानाग्निसहितः तथा सोपासनो गृह्याग्निसहितश् च वनं व्रजेत् । “सुतविन्यस्तपत्नीकः” इति वदता कृतगार्हस्थ्यो वानप्रस्थे ऽधिक्रियत इति दर्शितम् । एतच् चाश्रमसमुच्चयपक्षम् अङ्गीकृत्योक्तम् । इतरथा “अविप्लुतब्रह्मचर्यो यम् इच्छेत् तम् आवसेद्” (वध् ७.३) इत्य् अकृतगार्हस्थ्यो ऽपि वनवासे ऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरकलेवरस्य जातपौत्रस्य वा । यथाह मनुः ।

गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः ।
अपत्यस्यैव वापत्यं तदारण्यं समाश्रयेत् ॥ इति । (म्ध् ६.२)

अयं च पुत्रेषु पत्नीनिःक्षेपो विद्यमानभार्यस्य मृतभार्यस्याप्य् आपस्तम्बादिभिः वनवासस्मरणात् (आप्ध् २.२२.६–२४)। अतो यत् “दाहयित्वाग्निहोत्रेण” (य्ध् १.८९) इति पुनराधानविधानं, तद् अपरिपक्वकषायविषयम् । “साग्निः सोपासनः” (य्ध् ३.४५) इत्य् अत्रापि यदार्धाधानं कृतं तदा श्रौताग्निभिर् गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु श्रौतैर् एव केवलम् । यदि कथंचिज् ज्येष्ठभ्रातुर् अनाहिताग्नित्वादिना श्रौताग्नयो ऽनाहितास् तर्हि केवलं सोपासनो व्रजेद् इत्य् एवं विवेचनीयम् । अग्निनयनं च तन्निवर्त्याग्निहोत्रादिकर्मसिद्ध्यर्थम् । अत एव मनुः ।

वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि ।
दार्शम् अस्कन्दयन् पर्व पौर्णमासं च शक्तितः ॥ इति ॥ (म्ध् ६.९)

ननु च पुत्रनिक्षिप्तपत्नीकस्य तद्विरहिणः कथम् अग्निहोत्रादिकर्मानुष्ठानं घटते, “पत्न्या सह यष्टव्यम्” इति सहाधिकारनियमात् । सत्यम् एवम् । किं त्व् अत्र पत्नीनिक्षेपविधिबलाद् एव तन्नैरपेक्ष्येणाधिकारः कल्प्यते । यथा हि रजस्वलायां “यस्य व्रत्ये ऽहनि पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेत” इत्य् अवरोधविधिबलात् तन्निरपेक्षता । यद् वा वनं प्रतिष्ठमानम् एव पतिं पत्न्य् अनुमन्यत इति न विरोधः । न च यथा ब्रह्मचारिणो विधुरस्य वा वनं प्रस्थितस्याग्निहोत्रादिपरिलोपस् तथा निक्षिप्तपत्नीकस्याप्य् अग्निहोत्राद्यभाव इति शङ्कनीयम्, अपाक्षिकत्वेन श्रवणात् । न च ब्रह्मचारिविधुरयोर् अप्य् अग्निसाध्यकर्मस्व् अनधिकारः, पञ्चममासाद् ऊर्ध्वम् आहितश्रावणिकाग्नेस् तदधिकारदर्शनात्, “वानप्रस्थो जटिलश् चीराजिनवासा न फालकृष्टम् अधित्ष्ठेत्, अक्षृटं मूलफलं संचिन्वीत ऊर्ध्वरेताः क्षमाशयो दद्याद् एव न प्रतिगृह्णीयाद् ऊर्ध्वं पञ्चभ्यो मासेभ्यः श्रावणिकेनाग्नीन् आधायाहिताग्निर् वृक्षमूलको दद्याद् देवपितृमनुष्येभ्यः स गच्छेत् स्वर्गम् आनन्त्यम्” (वध् ९.११२) इति वसिष्ठस्मरणात् । चीरं वस्त्रखण्डो वल्कलं वा । फालकृष्टम् अधितिष्ठेत् कृष्टक्षेत्रस्योपरि न निवसेत् । श्रावणिकेन वैदिकेन मार्गेण न लौकिकेनेत्यर्थः ॥ ३.४५ ॥

“साग्निः सोपासनो व्रजेत्” (य्ध् ३.४५) इत्य् एतद् अग्निसाध्यश्रौतस्मार्तकर्मानुष्ठानार्थम् इत्य् उक्तम् । तत्र गुणविधिम् आह ।

अफालकृष्टेनाग्नींश् च पितॄन् देवातिथीन् अपि । ३.४६अब्
भृत्यांश् च तर्पयेत् श्मश्रुजटालोमभृद् आत्मवान् ॥ ३.४६च्द्

फालग्रहणं कर्षणसाधनोपलक्षणम् । अकृष्टक्षेत्रोद्भवेन नीवारवेणुश्यामाकादिना अग्नींस् तर्पयेद् अग्निसाध्यानि कर्माण्य् अनुतिष्ठेत् । चशब्दाद् भिक्षादानम् अपि तेनैव कुर्यात् । तथा पितॄन् देवातिथीन् अपिशब्दाद् भूतान्य् अपि तेनैव तर्पयेत् । तथा भृत्यान्, चशब्दाद् आश्रमप्राप्तान् अपि । तथा च मनुः ।

यद्भक्षः स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।
अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतान् ॥ इति ॥ (म्ध् ६.७)

एवं पञ्चमहायज्ञान् कृत्वा स्वयम् अपि तच्छेषम् एव भुञ्जीत,

देवताभ्यश् च तद् धुत्वा वन्यं मेध्यतरं हविः ।
शेषम् आत्मनि युञ्जीत लवणं च स्वयंकृतम् ॥ (म्ध् ६.१२)

इति मनुस्मरणात् । स्वयंकृतम् ऊषरलवणम् । एवं भोजनार्थे योगाद्यर्थे च मुन्यन्ननियमाद् ग्राम्याहारपरित्यागो ऽर्थसिद्धः । अत एव मनुः ।

संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् । इति । (म्ध् ६.३)

ननु च दर्शपूर्णमासादेर् व्रीह्यादिग्राम्यद्रव्यसाद्यत्वात् कथं तत्परित्यागः । न च वचनीयम् “अफालकृष्टेनाग्नींश् च” (वध् ९.३) इति विशेषवचनसामर्थ्याद् व्रीह्यादिबाध इति, विशेषविषयिण्यापि स्मृत्या श्रुतिबाधस्यान्याय्यत्वात्, अफालकृष्टविधेश् च स्मार्ताग्निसाध्यकर्मविषयत्वेनाप्य् उपपत्तेः । सत्यम् एव । किं त्व् अत्र व्रीह्यादेर् अप्य् अफालकृष्टत्वसम्भवान् न विरोधः । अत एवोक्तं मनुना ।

वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः ।
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथग् ॥ इति ॥ (म्ध् ६.११)

नीवारदीनाम् उत्पन्नानां स्वतो मेध्यत्वे सिद्धे ऽपि पुनर् मेध्यग्रहणं यज्ञार्हव्रीह्यादिप्राप्त्यर्थं कृतं, मेधो यज्ञस् तदर्हं मेध्यम् इति । तथा श्मश्रूणि मुखजानि रोमाणि जटारूपांश् च शिरोरुहान् कक्षादीनि च रोमाणि बिभृयात् । रोमग्रहणं नखानाम् अप्य् उपलक्षणम् । तथा च मनुः ।

जटाश् च ब्व्भृयान् नित्यं श्मश्रुलोमनखांस् तथा । इति । (म्ध् ६.६)

तथात्मवान् आत्मोपासनाभिरतः स्यात् ॥ ३.४६ ॥

पूर्वोक्तद्रव्यसंचयनियमम् आह ।

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । ३.४७अब्
अर्थस्य संचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥ ३.४७च्द्

एकस्याह्नः संबन्धि भोजनयजनादिदृष्टाद्षृटकर्मणः पर्याप्तस्यार्थस्य संचयं कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्तं संचयं कुर्यात्, नाधिकम् । यद्य् एवं क्रियमाणम् अपि कथंचिद् अतिरिच्यते तर्हि तदतिरिक्तम् आश्वयुजे मासि त्वजेत् ॥ ३.४७ ॥

किं च ।

दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् । ३.४८अब्
स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥ ३.४८च्द्

दान्तो दर्परहितः । त्रिषु सवनेषु प्रातर्मध्यंदिनापराह्णेषु स्नानशीलः । तथा प्रतिग्रहे पराङ्मुखः । चशब्दाद् याजनादिनिवृत्तश् च । स्वाध्यायवान् वेदाभ्यासरतः । तथा फलमूलभिक्षादिदानशीलः सर्वप्राणिहिताचरणनिरतश् च भवेत् ॥ ३.४८ ॥

किं च ।

दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः । ३.४९अब्
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात् तथा क्रियाः ॥ ३.४९च्द्

दन्ता एवोलूखलं निस्तूषीकरणसाधनं दन्तोलूखलं तद् यस्यास्ति स दन्तोलूखलिकः । कालेनैव पक्वं कालपक्वं नीवारवेणुश्यामाकादि बदरेङ्गुदादिफलं च तदशनशीलः कालपक्वाशी । वाशब्दः,

अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा । (म्ध् ६.१७)

इति मनूक्ताग्निपक्वाशित्वाभिप्रायः । अश्मकुट्टको वा भवेत् । अश्मना कुट्टनम् अवहननं यस्य स तथोक्तः । तथा श्रौत्रं स्मार्तं च कर्म दृष्टार्थाश् च भोजनाभ्यञ्जनादिक्रियाः लकुचमधूकादिमेध्यतरुफलोद्भवैः स्नेहद्रव्यैः कुर्यान् न तु घृतादिकैः । तथा च मनुः ।

मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसम्भवान् । इति ॥ (म्ध् ६.१३) ३.४९ ॥

पुरुषार्थतया विहितद्विर्भोजननिवृत्त्यर्थम् आह ।

चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा । ३.५०अब्
पक्षे गते वाप्य् अश्नीयान् मासे वाहनि वा गते ॥ ३.५०च्द्

चान्द्रायणैर् वक्ष्यमाण्लक्षणैः कालं नयेत् । कृच्छ्रैर् वा प्राजापत्यादिभिः कालं वर्तयेत् । यद् वा पक्षे पञ्चदशदिनात्मके ऽतीते ऽश्नीयात् । मासे वाहनि गते वा नक्तम् अश्नीयात् । अपिशब्दाच् चतुर्थकालिकत्वादिनापि । यथाह मनुः ।

नक्तं वान्नं समश्नीयाद् दिवा वाहृत्य शक्तितः ।
चतुर्थकालिको वा स्याद् यद् वाप्य् अष्टमकालिकः ॥ इति । (म्ध् ६.१९)

एतेषाम् च कालनियमानां स्वशक्त्यपेक्षया विकल्पः ॥ ३.५० ॥

किं च ।

स्वप्याद् भूमौ शुची रात्रौ दिवा संप्रपदैर् नयेत् । ३.५१अब्
स्थानासनविहारैर् वा योगाभ्यासेन वा तथा ॥ ३.५१च्द्

आहारविहारावसरवर्ज्यं रात्रौ शुचिः प्रयतः स्वप्यात् नोपविशेन् नापि तिष्ठेत् । दिवास्वप्नस्य पुरुषमात्रार्थतया प्रतिषिद्धत्वान् न तन्निवृत्तिपरम् । तथा भूमाव् एव स्वप्यात् । तच् च भूमाव् एव न शय्यान्तरितायां मञ्चकादौ वा । दिनं तु संप्रपदैर् अटनैर् नयेत् । स्थानासनरूपैर् वा विहारैः संचारैः कंचित् कालं स्थानं कंचिच् चोपवेशनम् इत्य् एवं वा दिनं नयेत् । योगाभ्यासेन वा । तथा च मनुः ।

विविधाश् चौपनिषदीर् आत्मसंसिद्धये श्रुतीः । इति । (म्ध् ६.२९)

आत्मनः संसिद्धये ब्रह्मत्वप्राप्तये । तथाशब्दात् क्षितिपरिलोडनाद् वा नयेत्,

भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् । (म्ध् ६.२२)

इति मनुस्मरणात् । प्रपदैः पादाग्रैः ॥ ३.५१ ॥

किं च ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः । ३.५२अब्
आर्द्रवासास् तु हेमन्ते शक्त्या वापि तपश् चरेत् ॥ ३.५२च्द्

“त्र्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः” इति दर्शनात्, ग्रीष्मे चैत्रादिमासचतुष्टये चतसृषु दिक्षु चत्वारो ऽग्नय उपरिष्टाद् आदित्य इत्य् एवं पञ्चानाम् अग्नीनां मध्ये तिष्ठेत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधाराविनिवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशिर्षादिमासचतुष्टये क्लिन्नं वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश् चरेत् । यथा शरीरशोषस् तथा यतेत,

तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः । (म्ध् ६.२८)

इति मनुस्मरणात् ॥ ३.५२ ॥

किं च ।

यः कण्टकैर् वितुदति चन्दनैर् यश् च लिम्पति । ३.५३अब्
अक्रुद्धो ऽपरितुष्टश् च समस्तस्य च तस्य च ॥ ३.५३च्द्

यः कश्चित् कण्टकादिभिर् विविधम् अङ्गानि तुदति व्यथयति तस्मै न क्रुध्येत् । यश् चन्दनादिभिर् उपलिम्प्यति सुखयति तस्य न परितुष्यते । किं तु तयोर् उभयोर् अपि समः स्याद् उदासीनो भवेत् ॥ ३.५३ ॥

अग्निपरिचर्याक्षमं प्रत्य् आह ।

अग्नीन् वाप्य् आत्मसात्कृत्वा वृक्षावासो मिताशनः । ३.५४अब्
वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्षम् आचरेत् ॥ ३.५४च्द्

अग्नीन् आत्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स तथोक्तः । मिताशनः स्वल्पाहारः । अपिशब्दात् फलमूलाशनश् च भवेत् । यथाह मनुः ।

अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि ।
अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥ इति । (म्ध् ६.२५)

मुनिर् मौनव्रतयुक्तः । फलमूलासंभवे च यावत्प्राणधारणं भवति तावन्मात्रं भैक्षं वानप्रस्थगृहेष्व् आचरेत् ॥ ३.५४ ॥

यदा तु तदसंभवो व्याध्यभिभवो वा तदा किं कार्यम् इत्य् अत आह ।

ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः । ३.५५अब्

ग्रामाद् वा भैक्षम् आहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान् भूञ्जीत । ग्राम्यभैक्षविधानान् मुन्यन्ननियमो ऽर्थलुप्तः । यदा पुनर् अष्टभिर् ग्रासैः प्राणधारणं न संभवति तदा,

अष्टौ ग्रासा मुनेर् भैक्षं वानप्रस्थस्य षोडश ।

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥

सकलानुष्ठानासमर्थं प्रत्य् आह ।

वायुभक्षः प्रागुदीचीं गच्छेद् आ वर्ष्मसंक्षयात् ॥ ३.५५च्द्

अथ वा वायुर् एव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीम् ऐशानीं दिशं गच्छेत् । आ वर्ष्मसंक्षयात् वर्ष्म वपुस् तस्य निपातपर्यन्तम् अकुटिलगतिर् गच्छेत् । यथाह मनुः ।

अपराजितां वास्थाय गच्छेद् दिशम् अजिह्मगः । इति । (म्ध् ६.३१)

महाप्रस्थाने ऽप्य् अशक्तौ भृगुपतनादिकं वा कुर्यात्, “वानप्रस्थो वीराध्वानं ज्वलनाम्बुप्रवेशनं भृगुपतनं वानुतिष्ठेत्” इति स्मरणात् । स्नानाचमनादिधर्मा ब्रह्मचारिप्रकरणाद्यभिहिताश् चाविरोधिनो ऽस्यापि भवन्ति, “उत्तरेषां चैतदविरोधि” (ग्ध् ३.१०) इति गौतमस्मरणात् । एवं प्रागुदितैन्दवादिदीक्षामहाप्रस्थानपर्यन्तं तनुत्यागान्तम् अनुतिष्ठन् ब्रह्मलोके पूज्यतां प्राप्नोति । यथाह मनुः ।

आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ इति । (म्ध् ६.३१)

ब्रह्मलोकः स्थानविशेषो न तु नित्यं ब्रह्म, तत्र लोकशब्दस्याप्रयोगात्, तुरीयाश्रमम् अन्तरेण मुक्त्यनङ्गीकाराच् च । न च “योगाभ्यासेन वा पुनः” इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशङ्कनीया, सालोक्यादिप्राप्त्यर्थत्वेनापि तद् उपपत्तेः । अत एव श्रुतौ “त्रयो धर्मस्कन्धाः” इत्य् उपक्रम्य, “यज्ञो ऽध्ययनं दानम् इति प्रथमः । तप एवेति द्वितीयः ।ब्रह्मचर्य् आचार्यकुलवासी तृतीयः । अत्यन्तम् आचर्यकुल एवम् आत्मानम् अवसादयन्” इति गार्हस्थ्यवानप्रस्थनैष्टिकत्वस्वरूपम् अभिधाय, “सर्व एते पुण्यलोका भवन्ति” इति त्रयाणाम् आश्रमिणां पुण्यलोकप्राप्तिम् अभिधाय, “ब्रह्मसंस्थो ऽमृतत्वम् एति” (छु २.२३.१) इति पारिशेष्यात् परिव्राजकस्यैव ब्रह्मसंस्थस्य मुक्तिलक्षणामृतत्वप्राप्तिर् अभिहिता । यद् अपि

श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि विमुच्यते । (य्ध् ३.२०५)

इति गृहस्थस्यापि मोक्षप्रतिपादनं तद् भवान्तरानुभूतपारिव्रज्यस्येत्य् अवगन्तव्यम् ॥ ३.५५ ॥

**इति वानप्रस्थधर्मप्रकरणम् **

**अथ यतिधर्मप्रकरणम् **

वैखानसधर्मान् अनुक्रम्य क्रमप्राप्तान् परिव्राजकधर्मान् सांप्रतं प्रस्तौति ।

वनाद् गृहाद् वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । ३.५६अब्
प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥ ३.५६च्द्
अधीतवेदो जपकृत् पुत्रवान् अन्नदो ऽग्निमान् । ३.५७अब्
शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥ ३.५७च्द्

यावता कालेन तीव्रतपःशोषितवपुषो विषयकषायपरिपाको भवति पुनश् च मदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवासं कृत्वा तत्समनन्तरं “मोक्षे मनः कुर्यात्” । वनगृहशब्दाभ्यां तत्संबन्ध्याश्रमो लक्ष्यते । मोक्षशब्देन च मोक्षैकफलकश् चतुर्थाश्रमः । अथ वा गृहाद् गार्हस्थ्याद् अनन्तरं मोक्षे मनः कुर्यात् । अनेन च पूर्वोक्तश् चतुराश्रमसमुच्चयपक्षः पाक्षिक इति द्योतियति । तथा च विकल्पो जाबाल्श्रुतौ श्रूयते- “ब्रह्मचर्यं परिसमाप्य गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत् गृहाद् वा वनाद् वा” इति (जाबाल उपनिषद्, प्। ६४) । तथा गार्हस्थोत्तराश्रमबाधश् च गौतमेन दर्शितः- “ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्य” (ग्ध् ३.३६) इति । एतेषां च समुच्चयविकल्पबाधपक्षाणां सर्वेषां श्रुतिमूलस्त्वाद् इच्छया विकल्पः । अतो यत् कैश्चित् पण्डितंमन्यैर् उक्तम् “स्मार्तत्वान् नैष्ठिकत्वादीनां गार्हस्थ्येन श्रौतेन बाधः गार्हस्थ्यानधिकृतान्धक्लीबादिविषयता वा” इति, तत् स्वाध्यायाध्ययनवैधुर्यनिबन्धनम् इत्य् उपेक्षणीयम् । किं च यथा विष्णुक्रमणाज्यावेक्षणाद्यक्षमतया पङ्ग्वादीनां श्रौतेष्व् अनधिकारस् तथा स्मार्तेष्व् अप्य् उदकुम्भाहरणभिक्षाचर्यादिष्व् अक्षमत्वात् कथं पङ्ग्वादिविषयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः । अस्मिंश् चाश्रमे ब्राह्मणस्यैवाधिकारः,

आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् । (म्ध् ६.२५)

तथा,

एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । (म्ध् ६.९७)

इत्य् उपक्रमोपसेहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात् । “ब्राह्मणाः प्रव्रजन्ति” इति श्रुतेश् चाग्रजन्मन एवाधिकारो न द्विजातिमात्रस्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात्, “त्रयाणां वर्णानां वेदम् अधीत्य चत्वार आश्रमाः” इति सूत्रकारवचनाच् च द्विजातिमात्रस्याधिकारम् आहुः । यदा वनाद् गृहाद् वा प्रव्रजति तदा सार्ववेदसदक्षिणां सार्ववेदसी सर्ववेदसंबन्धिनी दक्षिणा यस्याः सा तथोक्ता तां प्रजापतिदेवताकाम् इष्टिं कृत्वा तदन्ते तान् वैतानान् अग्नीन् आत्मनि श्रुत्युक्तविधानेन समारोप्य, चशब्दात् “उदगयने पौर्णमास्यां पुरश्चरणम् आदौ कृत्वा शुद्धेन कायेनाष्टौ श्राद्धानि निर्वपेत् द्वादश वा” इति बौधायनाद्युक्तं पुरश्चरणादिकं च कृत्वा, तथाधीतवेदो जपपरायणो जातपुत्रो दीनान्धकृपणार्पितार्थो यथाशक्त्यान्नदश् च भूत्वानाहिताग्निर् ज्येष्ठत्वादिना प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान् यज्ञान् कृट्वा, मोक्षे मनः कुर्यात् चतुर्थाश्रमं प्रविशेन् नान्यथा । अनेनानपाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायाम् अधिकारं दर्शयति । यथाह मनुः ।

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ इति ॥ (म्ध् ६.३५)

यदा तु ब्रह्मचर्यात् प्रव्रजति तदा न प्रजोत्पादनादिनियमः, अकृतदारपरिग्रहस्य तत्रानधिकारात्, रागप्रयुक्तत्वाच् च विवाहस्य । न च ऋणत्रयापाकरणविधिर् एव दारान् आक्षिपतीति शङ्कनीयम् । विद्याधनार्जननियमवद् अन्यप्रयुक्तदारसंभवे तस्यानाक्षेपकत्वात् । ननु “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवाञ् जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” (तैत्सं ६.३.१०.५) इति जातमात्रस्यैव प्रजोत्पादनादीन्य् आवश्यकानीति दर्शयति । मैवम् । न हि जातमात्रो ऽकृतदाराग्निपरिग्रहो यज्ञादिष्व् अधिक्रियते । तस्माद् अधिकारी जायमानो ब्राह्मणादिर् यज्ञादीन् अनुतिष्ठेद् इति तस्यार्थः । अतश् चोपनीतस्य वेदाध्ययनम् एवावश्यकम् । कृतदाराग्निपरिग्रहस्य प्रजोत्पादनम् अपीति निरवद्यम् ॥ ३.५६ ॥ ३.५७ ॥

एवम् अधिकारिणं निरूप्य तद्धर्मान् आह ।

सर्वभूतहितः शान्तस् त्रिदण्डी सकमण्डलुः । ३.५८अब्
एकारामः परिव्रज्य भिक्षार्थी ग्रामम् आश्रयेत् ॥ ३.५८च्द्

सर्वभूतेभ्यः प्रियाप्रियकारिभ्यो हित उदासीनो न पुनर् हिताचरणः, “हिंसानुग्रहयोर् अनारम्भी” (ग्ध् ३.२४–२५) इति गौतमस्मरणात् । शान्तो बाह्यान्तःकरणोपरतः । त्रयो दण्डा अस्य सन्तीति त्रिदण्डी । ते च दण्डा वैणवा ग्राह्याः, “प्राजापत्येष्ट्यनन्तरं त्रीन् वैणवान् दण्डान् मूर्धप्रमाणान् दक्षिणेन पाणिना धारयेत् सव्येन सोदकं कमण्डलुम्” इति स्मृत्यन्तरदर्शनात् । एकं वा दण्डं धारयेत्, “एकदण्डी त्रिदण्डी वा” (ब्ध् २.१८.१) इति बौधायनस्मरणात्,

चतुर्थम् आश्रमं गच्छेद् ब्रह्मविद्यापरायणः ।
एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जितः ॥

इति चतुर्विंशतिमते दर्शनाच् च । तथा शिखाधारणम् अपि वैकल्पिकम् । “मुण्डः शिखी वा” (ग्द्ह् ३.२२) इति गौतमस्मरणात्, “मुण्डो ऽममो ऽक्रोधो ऽपरिग्रहः” (वध् १०.६) इति वसिष्ठस्मरणात् । तथा यज्ञोपवीतधारणम् अपि वैकल्पिकम् एव, “सशिखान् केशान् निकृन्त्य विसृज्य यज्ञोपवीतम्” (कटश्रुति उप्। ३२) इति काठकश्रुतिदर्शनात्,

कुटुम्बं पुत्रदारांश् च वेदाङ्गानि च सर्वशः ।
केशान् यज्ञोपवीतं च त्यक्त्वा गूढश् चरेन् मुनिः ॥

इति बाष्कलस्मरणाच् च, “अथ यज्ञोपवीतम् अप्सु जुहोति भूः स्वाहेत्य् अथ दण्डम् आदत्ते सखे मां गोपाय” इति परिशिष्टदर्शनाच् च । यद्य् अशक्तिस् तदा कन्थापि ग्राह्या, “काषायी मुण्डस् त्रिदण्डी सकमण्डलुपवित्रपादुकासनकन्थामात्रः” इति देवलस्मरणात् । शौचाद्यर्थं कमण्डलुसहितश् च भवेत् । एकारामः प्रव्रजितान्तरेणासहायः संन्यासिनीभिः स्त्रीभिश् च, “स्त्रीणां चैके” (नोत् इन् ब्ध्) इति बौधायनेन स्त्रीणाम् अपि प्रव्रज्यास्मरणात् । तथा च दक्षः ।

एको भिक्षुर् यथोक्तश् च द्वाव् एव मिथुनं स्मृतम् ।
त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥
राजवार्तादि तेषां तु भिक्षावार्ता परस्परम् ।
अपि पैशुन्यमात्सर्यं सन्निकर्षान् न संशयः ॥ इति ।

परिव्रज्य परिपूर्वो व्रजतिस् त्यागे वर्तते । अतश् चाहंममाभिमानं तत्कृतं च लौकिकं कर्मनिचयं वैदिकं च नित्यकाम्यात्मकं संत्यजेत् । तद् उक्तं मनुना ।

सुखाभ्युदयिकं चैव नैश्रेयसिकम् एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥
इह वामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥
यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥ इति । (म्ध् १२.८८-८९, ९२)

अत्र वेदाभ्यासः प्रणवाभ्यासस् तत्र यत्नवान् । भिक्षाप्रयोजनार्थं ग्रामम् आश्रयेत् प्रविशेत् न पुनः सुखनिवासार्थम् । वर्षाकाले तु न दोषः, “ऊर्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थानवासी” इति शङ्कस्मरणात् । अशक्तौ पुनर् मासचतुष्टयपर्यन्तम् अपि स्थातव्यं न चिरम् एकत्र वसेद् अन्यत्र वर्षाकालात्, “श्रावणादयश् चत्वारो मासा वर्षाकालः” इति देवलस्मरणात्,

एकरात्रं वसेद् ग्रामे नगरे रात्रिपञ्चकम् ।
वर्षाभ्यो ऽन्यत्र वर्षासु मासांस् तु चतुरो वसेत् ॥

इति काण्वस्मरणात् ॥ ३.५८ ॥

कथं भिक्षाटनं कार्यम् इत्य् अत आह ।

अप्रमत्तश् चरेद् भैक्षं सायाह्ने ऽनभिलक्षितः । ३.५९अब्
रहिते भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः ॥ ३.५९च्द्

अप्रमत्तो वाक्चक्षुरादिचापलरहितो भैक्षं चरेत् । वसिष्ठेन अत्र विशेषो दर्शितः- “सप्तागाराण्य् असंकल्पितानि चरेद् भैक्षम्” (वध् १०.६) इति । सायाह्ने अह्नः पञ्चमे भागे । तथा च मनुः ।

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्ज्जने ।
वृत्ते शरावसंपाते नित्यं भिक्षां यतिश् चरेत् ॥ इति । (म्ध् ६.५६)

तथा,

एककालं चरेद् भिक्षां प्रसज्येन् न तु विस्तरे ।
भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ॥ इति । (म्ध् ६.५५)

अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिह्नितः,

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ (म्ध् ६.५०)

इति तेनोक्तत्वाद् इति ॥ यत् पुनर् वसिष्ठवचनम् “ब्राह्मणकुले वा यल् लभेत् तद् भुञ्जीत सायंप्रातर् मांसवर्ज्यम्” (वध् १०.२४) इति, तद् अशक्तविषयम् । भिक्षुकैर् भिक्षणशीलैः पाखण्ड्यादिभिर् वर्जिते ग्रामे । मनुनात्र विशेष उक्तः ।

न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।
आकीर्णं भिक्षुकैर् अन्यैर् अगारम् उपसंव्रजेत् ॥ इति । (म्ध् ६.५१)

यावता प्राणयात्रा वर्तते तावन्मात्रं भैक्षं चरेत् । तथा च संवर्तः ।

अष्टौ भिक्षाः समादाय मुनिः सप्त च पञ्च वा ।
अद्भिः प्रक्षाल्य ताः सर्वास् ततोऽ’श्नीयाच् च वाग्यतः ॥ इति ।

अलोलुपो मिष्टान्नव्यञ्जनादिष्व् अप्रसक्तः ॥

भिक्षाचरणार्थं पात्रम् आह ।

यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च । ३.६०अब्
सलिलं शुद्धिर् एतेषां गोवालैश् चावघर्षणम् ॥ ३.६०च्द्

मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः । तेषां सलिलं गोवालावघर्षणं च शुद्धिसाधनम् । इयं च शुद्धिर् भिक्षाचरणादिप्रयोगाङ्गभूता नामेध्याद्युपहतिविषया । तदुपघाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या । अत एव मनुना ।

अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥ इति । (म्ध् ६.५३)

चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर् दर्शिता । पात्रान्तराभावे भोजनम् अपि तत्रैव कार्यम्, “तद् भैक्ष्यं गृहीत्वैकान्ते तेन पात्रेणान्येन वा तूष्णीं प्राणमात्रं भुञ्जीत” इति देवलस्मरणात् ॥ ३.६० ॥

एवंभूतस्य यतेर् आत्मौपासनाङ्गं नियमविषयम् आह ।

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च । ३.६१अब्
भयं हित्वा च भूतानाम् अमृतीभवति द्विजः ॥ ३.६१च्द्

चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यङ् निरुद्ध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा चशब्दाद् ईर्ष्यादीन् अपि तथा भूतानाम् अपकारेण भयम् अकुर्वन् शुद्धान्तःकरणः सन्न् अद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥ ३.६१ ॥

किं च ।

कर्तव्याशयशुद्धिस् तु भिक्षुकेण विशेषतः । ३.६२अब्
ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥ ३.६२च्द्

विषयाभिलाषद्वेषजनितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणायामैः कर्तव्या । तस्याः शुद्धेर् आत्माद्वैतसाक्षात्काररूपज्ञानोत्पत्तिनिमित्तत्वात् । एवं च सति विषयासक्तितज्जनितदोषात्मकप्रतिबन्धक्षये सत्य् आत्मध्यानधारणादौ स्वतन्त्रो भवति । तस्माद् भिक्षुकेण त्व् एषा शुद्धिर् विशेषतो ऽनुष्ठेया, तस्य मोक्षप्रधानत्वात्, मोक्षस्य च शुद्धान्तःकरणाम् अन्तरेण दुर्लभत्वात् । यथाह मनुः ।

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ इति ॥ (म्ध् ६.७१) ३.६२ ॥

इन्द्रियनिरोधोपायतया संसारस्वरूपनिरूपणम् आह ।

अवेक्ष्या गर्भवासाश् च कर्मजा गतयस् तथा । ३.६३अब्
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ ३.६३च्द्
भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । ३.६४अब्

वैराग्यसिद्ध्यर्थं मूत्रपुरीषादिपूर्णनानाविधगर्भवासा आवेक्षणीयाः पर्यालोचनीयाः । चशब्दाज् जनोपरमाव् अपि । तथा निषिद्धाचरणादिक्रियाजन्या महारौरवादिनिरयपतनरूपा गतयः । तथाधयो मनःपीडाः, व्याधयश् च ज्वरातीसाराद्याः शारीराः, क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च, जरा वलीपलिताद्यभिभवः, रूपविपर्ययः खञ्जकुब्जत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा श्वसूकरखरोरगाद्यनेकजातिषु भव उत्पत्तिः । इष्टस्याप्राप्तिर् अनिष्टस्य प्राप्तिर् इत्यादिबहुतरक्लेशावहं संसारस्वरूपं पर्यालोच्य तत्परिहारार्थम् आत्मज्ञानोपायभूतेन्द्रियजये प्रयतेत ॥ ३.६३ ॥

एवम् अवेक्ष्यानन्तरं किं कार्यम् इत्य् अत आह ।

ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥ ३.६४च्द्

योगश् चित्तवृत्तिनिरोध आत्मैकाग्रता ध्यानं तस्या एव बाह्यविषयत्वोपरमः ध्यानयोगेन निदिध्यासतापरपर्यायेण सूक्ष्मशरीरप्राणादिव्यतिरिक्तः क्षेत्रज्ञ आत्मा आत्मनि ब्रह्मण्य् अवस्थित इत्य् एवं तत्त्वंपदार्थयोर् अभेदं सम्यक् पश्येद् अपरोक्षीकुर्यात् । अत एव श्रुतौ “आत्मा वारे द्रष्टव्यः” इति साक्षात्काररूपं दर्शनम् अनूद्य, तत्साधनत्वेन “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बृउ २.१.५) इति श्रवणमनननिदिध्यासनानि विहितानि ॥ ३.६४ ॥

किं च ।

नाश्रमः कारणं धर्मे क्रियमाणो भवेद् धि सः । ३.६५अब्
अतो यद् आत्मनो ऽपथ्यं परेषां न तद् आचरेत् ॥ ३.६५च्द्

प्राक्तनश्लोकोक्तात्मोपासनाख्ये धर्मे नाश्रमो दण्डकमण्डल्वादिधारणं कारणम्, यस्माद् असौ क्रियमाणो भवेद् एव नातिदुष्करः । तस्माद् यद् आत्मनो ऽपथ्यम् उद्वेगकरं परुषभाषणादि तत् परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्तःकरणशुद्ध्यापादनत्वेनान्तरङ्गत्वाद् रागद्वेषप्रहाणस्य प्रधानत्वेन प्रशंसार्थम् आश्रमनिराकरणं न पुनस् तत्परित्यागाय, तस्यापि विहितत्वात् । तद् उक्तं मनुना ।

दोषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ इति ॥ (म्ध् ६.६६) ॥ ३.६५ ॥

किं च ।

सत्यम् अस्तेयम् अक्रोधो ह्रीः शौचं धीर् धृतिर् दमः । ३.६६अब्
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥ ३.६६च्द्

सत्यं यथार्थप्रियवचनम् । अस्तेयं परद्रव्यानपहारः । अक्रोधो ऽपकारिण्य् अपि क्रोधस्यानुत्पादनम् । ह्रीर् लज्जा । शौचम् आहारादिशुद्धिः । धीर् हिताहितविवेकः । धृतिर् इष्टवियोगे ऽनिष्टप्राप्तौ प्रचलितचितस्य यथापूर्वम् अवस्थापनम् । दमो मदत्यागः । संयतेन्द्रियता अप्रतिषिद्धेष्व् अपि विषयेष्व् अनतिसङ्गः । विद्या आत्मज्ञानम् । एतैः सत्यादिभिर् अनुष्ठितैः सर्वो धर्मो ऽनुष्ठितो भवति । अनेन दण्डकमण्डल्वादिधारणबाह्यलक्षणात् सत्यादीनाम् आत्मगुणानाम् अन्तरङ्गतां द्योतयति ॥

ननु ध्यानयोगेनात्मनि स्थितम् आत्मानं पश्येद् इत्य् अयुक्तं जीवपरमात्मनोर् भेदाभावाद् इत्य् अत आहा ।

निःसरन्ति यथा लोहपिण्डात् तप्तात् स्फुलिङ्गकाः । ३.६७अब्
सकाशाद् आत्मनस् तद्वद् आत्मानः प्रभवन्ति हि ॥ ३.६७च्द्

यद्य् अपि जीवपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्य् आत्मनः सकाशाद् अविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद् युज्यत एव जीवपरमात्मनोर् भेदव्यपदेशः । यथाहि तप्ताल् लोहपिण्डाद् अयोगोलकाद् विस्फुलिङ्गकास् तेजोऽवयवा निःसरन्ति निःसृताश् च स्फुलिङ्गव्यपदेशं लभन्ते तद्वत् । अत उपपन्नं आत्मात्मनि स्थितो द्रष्टव्य इति । यद् वायम् अर्थः । ननु सुषुप्तिसमये प्रलये च सकलक्षेत्रज्ञानां ब्रह्मणि प्रलीनत्वात् कस्यायम् आत्मोपासनाविधिर् इत्य् अत आह निःसरन्तीत्यादि । यद्य् अपि सूक्ष्मरूपेण प्रलयवेलायां प्रलीनास् तथाप्य् आत्मनः सकाशाद् अविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति, पुनः कर्मवशात् स्थूलशरीराभिमानिनो जायन्ते, तस्मान् नोपासनाविधिविरोधः, तैजसस्य पृथग्भावसाम्याल् लोहपिण्डदृष्टान्तः ॥ ३.६७ ॥

ननु चानुपात्तवपुषां क्षेत्रज्ञानां निष्परिस्पन्दतया कथं तन्निबन्धनो जरायुजाण्डजादिचतुर्विधदेहपरिग्रह इत्य् अत आह ।

तत्रात्मा हि स्वयं किंचित् कर्म किंचित् स्वभावतः । ३.६८अब्
करोति किंचिद् अभ्यासाद् धर्माधर्मोभयात्मकम् ॥ ३.६८च्द्

यद्य् अपि तस्याम् अवस्थायां परिस्पन्दात्मकक्रियाभावस् तथापि धर्माधर्माध्यवसायात्मकं कर्म मानसं भवत्य् एव । तस्य च विशिष्टशरीरग्रहणहेतुत्वम् अस्त्य् एव,

वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् । (म्ध् १२.९)

इति मनुस्मरणात् । एवं गृहीतवपुः स्वयम् एवान्वयव्यतिरेकनिरपेक्षः स्तन्यपानादिके कृते तृप्तिर् भवत्य् अकृते न भवतीत्य् एवंरूपौ याव् अन्वयव्यतिरेकौ तत्र निरपेक्षं प्राग्भवीयानुभवभावितभावनानुभावोद्भूतकार्यावबोधः किंचित् स्तन्यपानादिकं करोति किंचित् स्वभावतो यदृच्छया प्रयोजनाभिसंधिनिरपेक्षं पिपीलिकादिभक्षणं करोति, किंचिद् भवान्तराभ्यासवशाद् धर्माधर्मोभयरूपं करोति । तथा च स्मृत्यन्तरम्-

प्रतिजन्म यद् अभ्यस्तं दानम् अध्ययनं तपः ।
तेनैवाभ्यासयोगेन तद् एवाभ्यसते पुनः ॥ इति ॥

एवं जीवानां कर्मवैचित्र्यं तत्कृतं जरायुजादिदेहवैचित्र्यं युज्यत एव ॥ ३.६८ ॥

ननु एवं सति ब्राह्मण एव कथंचिज् जीवव्यपदेश्यत्वात् तस्य च नित्यत्वादिधर्मत्वात् कथं “विष्णुमित्रो जातः” इति व्यवहार इत्य् आशङ्क्याह ।

निमित्तम् अक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी । ३.६९अब्
अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥ ३.६९च्द्

सत्यम् आत्मा सकलजगत्प्रपञ्चाविर्भावे ऽविद्यासमावेशवशात् समवाय्यसमवायिनिमित्तम् इत्य् एवं स्वयम् एव त्रिविधम् अपि कारणं न पुनः कार्यकोटिनिविष्टः । यस्माद् अक्षरो ऽविनश्वरः ।

ननु सत्त्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनात् तद्गुणवत्याः प्रकृतेर् एव जगत्कर्तृतोचिता, न पुनर् निर्गुणस्य ब्रह्मणः ।
मैवं मंस्थाः । आत्मैव कर्ता । यस्माद् असौ जीवोपभोग्यसुखदुःखहेतुभूतादृष्टादेर् बोद्धा । न ह्य् अचेतनायाः प्रकृतेर् नामरूपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादियोगिजगत्प्रपञ्चरचना घटते । तस्माद् आत्मैव कर्ता । तथा स एव ब्रह्म बृंहको विस्तारकः । न चासौ निर्गुणः । यतस् तस्य त्रिगुणशक्तिर् अविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते । अतः स्वतो निर्गुणत्वे ऽपि शक्तिमुखेन सत्त्वादिगुणयोगी कथ्यते । न चैतावता प्रकृतेः कारणता, यस्माद् आत्मैव वशी स्वतन्त्रः न प्रकृतिर् नाम स्वतन्त्रं तत्त्वान्तरं, तादृग्विधत्वे प्रमाणाभावात् । न च वचनीयं शक्तिरूपापि सैव कर्तृभूतेति । यतः शक्तिमत्कारकं न शक्तिः, तस्माद् आत्मैव जगतस् त्रिविधम् अपि कारणम् । तथा अज उत्पत्तिरहितः ।अतस् तस्य यद्य् अपि साक्षाद् जननं नोपपद्यते तथापि शरीरग्रहणमात्रेण जात इत्य् उच्यते अवस्थान्तरयोगितयोत्पत्तेर् गृहस्थो जात इतिवत् ॥ ३.६९ ॥

शरीरग्रहणप्रकारम् आह ।

सर्गादौ स यथाकाशं वायुं ज्योतिर् जलं महीम् । ३.७०अब्
सृजत्य् एकोत्तरगुणांस् तथादत्ते भवन्न् अपि ॥ ३.७०च्द्

सृष्टिसमये स परमात्मा यथाकाशादीन् शब्दैकगुणं गगनं शब्दस्पर्शगुणः पवनः शब्दस्पर्शरूपगुणं तेजः शब्दस्पर्शरूपरसगुणवद् उदकम् शब्दस्पर्शरूपरसगन्धगुणा जगतीत्य् एवम् एकोत्तरगुणान् सृजति । तथात्मा जीवभावम् आपन्नो भवन्न् उत्पद्यमानो ऽपि स्वशरीरस्यारम्भकत्वेनापि गृह्णाति ॥ ३.७० ॥

कथं शरीरारम्भकत्वं पृथिव्यादीनाम् इत्य् अत आह ।

आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिर् अथौषधिः । ३.७१अब्
तद् अन्नं रसरूपेण शुक्रत्वम् अधिगच्छति ॥ ३.७१च्द्

यजमानैः प्रक्षिप्तयाहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः । सूर्याच् च कालवशेन परिपक्वाज्यादिहवीरसाद् वृष्टिर् भवति । ततो व्रीह्याद्यौषधिरूपम् अन्नम् । तच् चान्नं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोनितभावम् आपद्यते ॥ ३.७१ ॥

ततः किम् इत्य् अत आह ।

स्त्रीपुंसयोस् तु संयोगे विशुद्धे शुक्रशोणिते । ३.७२अब्
पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत् प्रभुः ॥ ३.७२च्द्

ऋतुवेलायां स्त्रीपुंसयोर् योगे शुक्रं च शोणितं च शुक्रशोनितं तस्मिन् परस्परसंयुक्ते विशुद्धे “वातपित्तश्लेष्मदुष्टग्रन्थिपूयक्षीणमूत्रपुरीषगन्धरेतांस्य् अबीजानि” इति स्मृत्यन्तरोक्तदोषरहिते स्थित्वा पञ्चधातून् पृथिव्यादिपञ्चमहाभूतानि शरीरारम्भकतया स्वयं षष्टश् चिद्धातुर् आत्मा प्रभुः शरीरारम्भकारणादृष्टकर्मयोगितया समर्थो युगपद् आदत्ते योगायतनत्वेन स्वीकरोति । तथा च शारीरके “स्त्रीपुंसयोः संयोगे योनौ रजसाभिसंसृष्टं शुक्रं तत्क्षणम् एव सह भूतात्मना गुणैश् च सत्त्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति” इति (सुश्रुत ३.४) ॥ ३.७२ ॥

किं च ।

इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः । ३.७३अब्
धारणा प्रेरणं दुःखम् इच्छाहंकार एव च ॥ ३.७३च्द्
प्रयत्न आकृतिर् वर्णः स्वरद्वेषौ भवाभवौ । ३.७४अब्
तस्यैतद् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः ॥ ३.७४च्द्

इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि, । मनश् चोभयसाधारणम् । प्राणो ऽपानो व्यान उदानः समान इत्य् एवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राणः, ज्ञानम् अवगमः, आयुः कालविशेषावच्छिन्नं जीवनम्, सुखं निर्वृतिः, धृतिश् चित्तस्थैर्यम्, धारणा प्रज्ञा मेधा च, प्रेरणं ज्ञानकर्मेन्द्रियाणाम् अधिष्ठातृत्वम्, दुःखम् उद्वेगः, इच्छा स्पृहा, अहंकारो ऽहंकृतिः, प्रयत्न उद्यमः, आकृतिर् आकारः, वर्णो गौरिमादिः, स्वरः षड्जगान्धारादिः, द्वेषो वैरम्, भवः पुत्रपश्वादिविभवः, अभवस् तद्विपर्ययः, तस्यानादेर् आत्मनो नित्यस्यादिम् इच्छतः शरीरं जिघृक्षमाणस्य सर्वम् एतद् इन्द्रियादिकम् आत्मजनितं प्राग्भवीयकर्मबीजजन्यम् इत्य् अर्थः ॥ ३.७४ ॥

संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतौ क्रमम् आह ।

प्रथमे मासि संक्लेदभूतो धातुविमूर्छितः । ३.७५अब्
मास्य् अर्बुदं द्वितीये तु तृतीये ऽङ्गेन्द्रियैर् युतः ॥ ३.७५च्द्

असौ चेतनः षष्टो धातुः धातुविमूर्च्छितो धातुषु पृथिव्यादिषु विमूर्च्छितो लोलीभूतः । क्षीरनीरवद् एकीभूर इति यावत् । प्रथमे गर्भमासे संक्लेदभूतो द्रवरूपतां प्राप्त एवावतिष्ठते, न कठिनतया परिणमते । द्वितीये मास्य् अर्बुदम् ईषत्कठिनमांसपिण्डरूपं भवति । अयम् अभिप्रायः । कौष्ठ्यपवनजठरदहनाभ्यां प्रतिदिनम् ईषदीषच्छोष्यमाणं शुक्रसंपर्कसंपादितद्रवीभावं भूतजातं त्रिंशद्भिर् दिनैः काठिन्यम् आपद्यत इति । तथाच सुश्रुते “द्वितीये शीतोष्णानिलैर् अभिपच्यमानो भूतसंघातो घनो जायते” (शारीर ३.१८) इति । तृतीये तु मास्य् अङ्गैर् इन्द्रियैश् च संयुक्तो भवति ॥ ३.७५ ॥

किं च ।

आकाशाल् लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् । ३.७६अब्
वायोश् च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यम् एव च ॥ ३.७६च्द्
पित्तात् तु दर्शनं पक्तिम् औष्ण्यं रूपं प्रकाशिताम् । ३.७७अब्
रसात् तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ ३.७७च्द्
भूमेर् गन्धं तथा घ्राणं गौरवं मूर्तिम् एव च । ३.७८अब्
आत्मा गृह्णात्य् अजः सर्वं तृतीये स्पन्दते ततः ॥ ३.७८च्द्

आत्मा गृह्णातीति सर्वत्र संबध्यते । गगनाल् लघिमानं लङ्घनक्रियोपयोगिनम्, सौक्ष्म्यं सूक्ष्मेक्षित्वम्, शब्दं विषयम्, ष्रोत्रं श्रवणेन्द्रियम्, बलं दार्ढ्यम् । आदिग्रहणात् सुषिरत्वं विविक्ततां च, “आकाशाच् छब्दं श्रोत्रं विविक्ततां सर्वच्छिद्रसमूहांश् च” इति गर्भोपनिषद्दर्शनात् । पवनात् स्पर्शेन्द्रियम्, चेष्टां गमनागमनादिकाम्, व्यूहनम् अङ्गानां विविधं प्रसारणम्, रौक्ष्यं कर्कशत्वं चशब्दात् स्पर्शं च, पित्तात् तेजसो दर्शनं चक्षुरिन्द्रियम्, पक्तिं भुक्तस्यान्नस्य पचनम्, औष्ण्यम् उष्णस्पर्शत्वम् अङ्गानाम्, रूपं श्यामिकादि, प्रकाशितां भ्राजिष्णुताम् । तथा संतापामर्षादि च, “शौर्यामर्षतैक्ष्ण्यपक्त्यौष्ण्यभ्राजिष्णुतासंतापवर्णरूपेन्द्रियाणि तैजसानि” इति गर्भोपनिषद्दर्शनात् । एवं रसाद् उदकाद् रसनेन्द्रियम्, शैत्यम् अङ्गानां स्निग्धताम् मृदत्वसहितं, क्लेदम् आर्द्रताम्, तथा भूमेर् गन्धं घ्राणेन्द्रियं गरिमाणं मूर्तिं च । सर्वम् एतत् परमार्थतो जन्मरहितो ऽप्य् आत्मा तृतीये मासि गृह्णाति । ततश् चतुर्थे मासि स्पन्दते चलति । तथा शारीरके (३.१८)- “तस्माच् चतुर्थे मासि चलनादाव् अभिप्रायं करोति” इति ॥ ३.७६ ॥ ३.७७ ॥ ३.७८ ॥

किं च ।

दौहृदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् । ३.७९अब्
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥ ३.७९च्द्

गर्भस्यैकं हृदयं गर्भिण्याश् चापरम् इत्य् एवं द्विहृदया तस्याः स्त्रिया यद् अभिलषितं तत् द्वौहृदं, तस्याप्रदानेन गर्भो विरूपता मरणरूपं वा दोषं प्राप्नोति । तस्मात् तद्दोषपरिहारार्थं गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रियाः यत् प्रियम् अभिलषितं तत् संपादनीयम् । तथा च सुश्रुते- “द्विहृदयां नारीं दौहृदिनीम् आचक्षते, तद् अभिलषितं दद्यात्, वीर्यवन्तं चिरायुषं पुत्रं जनयति” (शारीर ३.१८) इति । तथा च व्यायामादिकम् अपि गर्भग्रहणप्रभृति तया परिहरणीयम्, “ततः प्रभृति व्यायामव्यवायातितर्पणदिवास्वप्नरात्रिजागरणशोकभययानारोहणवेगधारण-कुक्कुटासनशोणितमोक्षणानि परिहरेत्” (शारीर ३.१६) इति तत्रैवाभिधानात् । गर्भग्रहणं च श्रमादिभिर् लिङ्गैर् अवगन्तव्यम् । “सद्योगृहीतगर्भायाः श्रमो ग्लानिः पिपासा सक्थिसीदनं शुक्रशोणितयोर् अवबन्धः स्फुरणं च योनेः” (शारीर ३.१३) इत्यादि तत्रैवोक्तम् ॥ ३.७९ ॥

किं च ।

स्थैर्यं चतुर्थे त्व् अङ्गानां पञ्चमे शोणितोद्भवः । ३.८०अब्
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ३.८०च्द्

तृतीये मासि प्रादुर्भूतस्याङ्गसङ्घस्य चतुर्थे मासि स्थैर्यं स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठे बलस्य वर्णस्य कररुहरोम्णां च संभवः ॥ ३.८० ॥

किं च ।

मनश्चैतन्ययुक्तो ऽसौ नाडीस्नायुशिरायुतः । ३.८१अब्
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमान् अपि ॥ ३.८१च्द्

असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतसा चेतनया च युक्तो नाडीभिर् वायुवाहिनीभिः स्नायुभिर् अस्थिबन्धनैः शिराभिर् वातपित्तश्लेष्मवाहिनीभिश् च संयुतः । तथाष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ३.८१ ॥

किं च ।

पुनर् धात्रीं पुनर् गर्भम् ओजस् तस्य प्रधावति । ३.८२अब्
अष्टमे मास्य् अतो गर्भो जातः प्राणैर् वियुज्यते ॥ ३.८२च्द्

तस्याष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषो धात्रीं गर्भं च प्रति पुनः पुनर् अतितरां चञ्चलतया शीघ्रं गच्छति । अतो ऽष्टमे मासि जातो गर्भः प्राणैर् वियुज्यते । अनेनौजःस्थितिर् एव जीवनहेतुर् इति दर्शयति । ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम् ।

हृदि तिष्ठति यच् छुद्धम् ईषदुष्णं सपीतकम् ।
ओजः शरीरे संख्यातं तन् नाशान् नाशम् ऋच्छति ॥ इति ॥ ३.८२ ॥

किं च ।

नवमे दशमे वापि प्रबलैः सूतिमारुतैः । ३.८३अब्
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ ३.८३च्द्

एवं करचरणचक्षुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासे अपिशब्दात् प्राग् अपि सप्तमे ऽष्टमे वा अत्यायासादिदोषवत्प्रबलसूतिहेतुप्रभञ्जनप्रेरितस्नाय्वस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सूक्ष्मसुषिरेण सज्वरो दुःसहदुःखाभिभूयमानो निःसार्यते धनुर् यन्त्रेण सुधन्वप्रेरितो बाण इवातिवेगेन निर्गमसमनन्तरं च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर् भवति, “जातः स वायुना स्पृष्टो न स्मरति पूर्वं जन्म मरणं कर्म च शुभाशुभम्” इति निरुक्तस्याष्टादशे ऽभिधानात् ॥ ३.८३ ॥

कायस्वरूपं विवृण्वन्न् आह ।

तस्य षोढा शरीराणि षट् त्वचो धारयन्ति च । ३.८४अब्
षडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥ ३.८४च्द्

तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरिपाकहेतुभूतषडग्निस्थानयोगित्वेन । तथा ह्य् अन्नरसो जाठराग्निना पच्यमानो रक्ततां प्रतिपद्यते । रक्तं च स्वकोशस्थेनाग्निना पच्यमानं मांसत्वम् । मांसं च स्वकोशानलपरिपक्वं मेदस्त्वम् । मेदो ऽपि स्वकोशवह्निना पक्वम् अस्थिताम् । अस्थ्य् अपि स्वकोशशिखिपरिपक्वं मज्जात्वम् । मज्जापि स्वकोशपावकपरिपच्यमानश् चरमधातुतया परिणमते । चरमधातोस् तु परिणतिर् नास्तीति स एवात्मनः प्रथमः कोशः । इत्य् एवं षट्कोशाग्नियोगित्वात् षट्प्रकारत्वं शरीराणां । अन्नरसरूपस्य तु प्रथमधातोर् अनियतत्वान् न तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट् त्वचो धारयन्ति रक्तमांसमेदोऽस्थिमज्जाशुक्राख्याः षट् धातव एव रम्भास्तम्भत्वग् इव बाह्याभ्यन्तररूपेण स्थिताः त्वगिवाच्छादकत्वात् त्वचस् ताः षट् त्वचो धारयन्ति । तद् इदम् आयुर् वेदप्रसिद्धम् । तथाङ्गानि च षड् एव करयुग्मं चरणयुगलम् उत्तमाङ्गं गात्रम् इति । अस्थ्नां तु षष्टिसहितं शतत्रयम् उपरितनषट्श्लोक्या वक्ष्यमाणम् अवगन्तव्यम् ॥ ३.८४ ॥

किं च ।

स्थालैः सह चतुःषष्टिर् दन्ता वै विंशतिर् नखाः । ३.८५अब्
पाणिपादशलाकाश् च तेषां स्थानचतुष्टयम् ॥ ३.८५च्द्

स्थालानि दन्तमूलप्रदेशस्थान्य् अस्थीनि द्वात्रिंशतैः सह द्वात्रिंशद्दन्ताश् चतुःषष्टिर् भवन्ति । नखाः करचरणरुहा विंशतिर् हस्तपादस्थानि शलाकाकाराण्य् अस्थीनि मणिबन्धस्योपरिवर्तीन्य् अङ्गुलिमूलस्थानि विंशतिर् एव । तेषां नखानां शलाकास्थ्नां च स्थानचतुष्टयं द्वौ चरणौ करौ चेत्य् एवम् अस्थ्नां चतुरुत्तरं शतम् ॥ ३.८५ ॥

किं च ।

षष्ट्य् अङ्गुलीनां द्वे पार्ष्ण्योर् गुल्फेषु च चतुष्टयम् । ३.८६अब्
चत्वार्य् अरत्निकास्थीनि जङ्घयोस् तावद् एव तु ॥ ३.८६च्द्

विंशतिर् अङ्गुलयस् तासां एकैकस्यास् त्रीणि त्रीणीत्य् एवम् अङ्गुलिसंबन्धीन्य् अस्थीनि षष्टिर् भवन्ति । पादयोः पश्चिमौ भागौ पार्ष्णी, तयोर् अस्थीनि द्वे एकैकस्मिन् पादे गुल्फौ द्वाव् इत्य् एवं चतुर्षु गुल्फेषु चत्वार्य् अस्थीनि, बाह्वोर् अरत्निप्रमाणानि चत्वार्य् अस्थीनि, जङ्घयोस् तावद् एव चत्वार्य् एवेत्य् एवं चतुःसप्ततिः ॥ ३.८६ ॥

किं च ।

द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे । ३.८७अब्
अक्षतालूषके श्रोणीफलके च विनिर्दिशेत् ॥ ३.८७च्द्

जङ्घोरुसन्धिर् जानुः, कपोलो गल्लः, ऊरुः सक्थि तत्फलकं, अंसो भुजशिरः, अक्षः कर्णनेत्रयोर् मध्ये शङ्खाद् अधोभागः, तालूषकं काकुदं, श्रोणी ककुद्मती तत्फलकं, तेषाम् एकैकत्रास्थीनि द्वे द्वे विनिर्देशेद् इत्य् एवं चतुर्दशास्थीनि भवन्ति ॥ ३.८७ ॥

किं च ।

भगास्थ्य् एकं तथा पृष्ठे चत्वारिंशच् च पञ्च च । ३.८८अब्
ग्रीवा पञ्चदशास्थिः स्याज् जत्र्व् एकैकं तथा हनुः ॥ ३.८८च्द्

गुह्यास्थ्य् एकं पृष्ठे पश्चिमभागे पञ्चचत्वारिंशद् अस्थीनि भवन्ति । ग्रीवा कंधरा सा पञ्चदशास्थिः स्यात् भवेत् । वक्ष्ॐसयोः सन्धिर् जत्रु प्रतिजत्रु एकैकम् हनुश् चिबुकम् । तत्राप्य् एकम् अस्थीत्य् एवं चतुःषष्टिः ॥ ३.८८ ॥

किं च ।

तन्मूले द्वे ललाटाक्षिगण्डे नासा घनास्थिका । ३.८९अब्
पार्श्वकाः स्थालकैः सार्धम् अर्बुदैश् च द्विसप्ततिः ॥ ३.८९च्द्

तस्य हनोर् मूले ऽस्थिनी द्वे । ललाटं भालं अक्षि चक्षुः गण्डः कपोलाक्षयोर् मध्यप्रदेशः, तेषां समाहारो ललाटाक्षिगण्डं, तत्र प्रत्येकम् अस्थियुगुलम् । नासा घनसंज्ञकास्थिमती । पार्श्वकाः कक्षाधःप्रदेशसंबन्धान्य् अस्थीनि तदाधारभूतानि स्थालकानि, तैः स्थालकैर् अर्बुदैश् चास्थिविशेषैः सह पार्श्वका द्विसप्ततिः । पूर्वोक्तैश् च नवभिः सार्धम् एकाशीतिर् भवन्ति ॥ ३.८९ ॥

किं च ।

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस् तथा । ३.९०अब्
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ३.९०च्द्

भ्रूकर्णयोर् मध्यप्रदेशाव् अस्थिविशेषौ शङ्खकौ । शिरसः संबन्धीनि चत्वारि कपालानि । उरो वक्षस् तत् सप्तदशास्थिकम् इत्य् एवं त्रयोविंशतिः । पूर्वोक्तैश् च सह षष्ट्यधिकं शतत्रयम् इत्य् एवं पुरुषस्यास्थिसंग्रहः कथितः ॥ ३.९० ॥

सविषयाणि ज्ञानेन्द्रियाण्य् आह ।

गन्धरूपरसस्पर्शशब्दाश् च विषयाः स्मृताः । ३.९१अब्
नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥ ३.९१च्द्

एते गन्धादयो विषयाः पुरुषस्य बन्धनहेतवः, विषयशब्दस्य “षिञ् बन्धने” इत्य् अस्य धातोर् व्युत्पन्नत्वात् । एतैश् च गन्धादिभिर् बोध्यत्वेन व्यवस्थितैः स्वस्वगोचरसंवित्साधनतयानुमेयानि घ्राणादीनि पञ्चेन्द्रियाणि भवन्ति ॥ ३.९१ ॥

कर्मेन्द्रियाणि दर्शयितुम् आह ।

हस्तौ पायुर् उपस्थं च जिह्वा पादौ च पञ्च वै । ३.९२अब्
कर्मेन्द्रियाणि जानीयान् मनश् चैवोभयात्मकम् ॥ ३.९२च्द्

हस्तौ प्रसिद्धौ, पायुर् गुदं, उपस्थं रतिसंपाद्यसुखसाधनं, जिह्वा प्रसिद्धा, पादौ च, एतानि हस्तादीनि पञ्च कर्मेन्द्रियाण्य् आदाननिर्हारानन्दव्याहारविहारादिकर्मसाधनानि जानीयात् । मनो ऽन्तःकरणं युगपत् ज्ञानानुत्पत्तिगम्यं तच् च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् ॥ ३.९२ ॥

प्राणायतनानि दर्शयितुम् आह ।

नाभिर् ओजो गुदं शुक्रं शोणितं शङ्खकौ तथा । ३.९३अब्
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥ ३.९३च्द्

नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समाननाम्नः पवनस्य सकलाङ्गचारित्वे ऽपि नाभ्यादिस्थानविशेषवाचोक्तिः प्राचुर्याभिप्राया ॥ ३.९३ ॥

प्राणायतनानि प्रपञ्चयितुम् आह ।

वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा । ३.९४अब्
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानम् एव च ॥ ३.९४च्द्
आमाशयो ऽथ हृदयं स्थूलान्त्रं गुद एव च । ३.९५अब्
उदरं च गुदौ कोष्ठ्यौ विस्तारो ऽयम् उदाहृतः ॥ ३.९५च्द्

वपा प्रसिद्धा, वसा मांसस्नेहः, अवहननं फुप्फुसः, नाभिः प्रसिद्धा, प्लीहा आयुर्वेदप्रसिद्धा, तौ च मांसपिण्डाकारौ स्तः सव्यकुक्षिगतौ । यकृत् कालिका, क्लोम मांसपिण्डस् तौ च दक्षिणकुक्षिगतौ, क्षुद्रान्त्रं हृत्स्थान्त्रम्, वृक्ककौ हृदयसमीपस्थौ मांसपिण्डौ, बस्तिर् मूत्राशयः, पुरीषाधानं पुरीषाशयः, आमाशयो ऽपक्वान्नस्थानम्, हृदयं हृत्पुण्डरीकम्, स्थूलान्त्रगुदोदराणि प्रसिद्धानि, बाह्याद् गुदवलयाद् अन्तर्गुदवलये द्वे, तौ च गुदौ कौष्ठ्यौ कोष्टे नाभेर् अधःप्रदेशे भवौ । अयं च प्राणायतनस्य विस्तार उक्तः । पूर्वश्लोके तु संक्षेपः । अत एव पूर्वश्लोकोक्तानां केषांचिद् इह पाठः ॥ ३.९४ ॥ ३.९५ ॥

पुनः प्राणायतनप्रपञ्चार्थम् आह ।

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ । ३.९६अब्
कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टाव् ओष्ठौ ककुन्दरे ॥ ३.९६च्द्
वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ । ३.९७अब्
उपजिह्वा स्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥ ३.९७च्द्
तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके । ३.९८अब्
अवटश् चैवम् एतानि स्थानान्य् अत्र शरीरके ॥ ३.९८च्द्
अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च । ३.९९अब्
नव छिद्राणि तान्य् एव प्राणस्यायतनानि तु ॥ ३.९९च्द्

कनीनिके अक्षितारके, अक्षिकूटे अक्षिनासिकयोः सन्धी, शष्कुली कर्णशष्कुली, कर्णपत्रकौ कर्णपाल्यौ, कर्णौ प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्ठौ प्रसिद्धौ, कुक्न्दरे जघनकूपकौ, वङ्क्षणौ जघनोरुसंधी, वृक्कौ पूर्वोक्तौ, स्तनौ च श्लेष्मसंघातजौ, उपजिह्वा घण्टिका, स्फिजौ कटिप्रोथौ, बाहू प्रसिद्धौ, जङ्घोरुषु च पिण्डिका गङ्घ्योर् ऊर्वोश् च पिण्डिका मांसलप्रदेशः, गलशुण्डिके हनुमूलगल्लयोः सन्धी, शीर्षं शिरः, अवटः शरीरे यः कश्चन निम्नो देशः कण्ठमूलकक्षादिः । अवटुर् इति पाठे कृकाटिका । तथाक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्श्वद्वयम् इति वर्णचतुष्टयम् । यद् वा अक्षिपुटचतुष्टयम् । शेषं प्रसिधम् । एवम् एतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगुलं कर्णयुग्मं । नासाविवरद्वयम् आस्यं पायुर् उपस्थम् इत्य् एतानि पूर्वोक्तानि नव च्छिद्राणि च प्राणस्यायतनान्य् एव ॥ ३.९६-९९ ॥

किं च ।

शिराः शतानि सप्तैव नव स्नायुशतानि च । ३.१००अब्
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ ३.१००च्द्

शिरा नाभिसंबद्धाश् चत्वारिंशत्संख्या वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्यो नानाशाखिन्यः सत्यः सप्तशतसंख्या भवन्ति । तथाङ्गप्रत्यङ्गसंधिबन्धनाः स्नायवो नवशतानि । धमन्यो नाम नाभेर् उद्भूताश् चतुर्विंशतिसंख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेश्यः पुनर् मांसलाकारा ऊरुपिण्डकाद्यङ्गप्रत्यङ्गसंधिन्यः पञ्चशतानि भवन्ति ॥ ३.१०० ॥

पुनश् चासाम् एव शिरादीनां शाखाप्राचुर्येण संख्यान्तरम् आह ।

एकोनत्रिंशल् लक्षाणि तथा नव शतानि च । ३.१०१अब्
षट्पञ्चाशच् च जानीत सिरा धमनिसंज्ञिताः ॥ ३.१०१च्द्

शिराधमन्यो मिलिताः शाखोपशाखाभेदेन एकोनत्रिंशल् लक्षाणि नवशतानि षट्पञ्चाशच् च भवन्तीत्य् एवं हे सामश्रवःप्रभृतयः मुनयो जानीत ॥ ३.१०१ ॥

किं च ।

त्रयो लक्षास् तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । ३.१०२अब्
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ ३.१०२च्द्

शरीरिणां श्मश्रूणि केशाश् च मिलिताः सन्तस् त्रयो लक्षा विज्ञेयाः । मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं ज्ञेयम् । अस्थ्नां तु द्वे सन्धिशते स्नायुशिरादिसन्धयः पुनर् अनन्ताः ॥ ३.१०२ ॥

सकलशरीरसुषिरादिसंख्याम् आह ।

रोम्णां कोट्यस् तु पञ्चाशच् चतस्रः कोट्य एव च । ३.१०३अब्
सप्तषष्टिस् तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ ३.१०३च्द्
वायवीयैर् विगण्यन्ते विभक्ताः परमाणवः । ३.१०४अब्
यद्य् अप्य् एको ऽनुवेत्त्य् एषां भावनां चैव संस्थितिम् ॥ ३.१०४च्द्

पूर्वोदितशिराकेशादिसहितानां रोम्णां परमाणवः सूक्ष्मसूक्ष्मतररूपा भागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर् विभक्ताः पवनपरमाणुभिः पृथक्कृता विगण्यन्ते । एतच् एतच् च शास्त्रदृष्ट्याभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावाद् अस्यार्थस्य । इमम् अतिगहनम् अर्थं शिरादिभावसंस्थानरूपं हे मुनयः भवतां मध्ये यः कश्चिद् अनुवेत्ति सो ऽपि महान् अग्र्यो बुद्धिमताम् । अतो यत्नतो बुद्धिमता बोद्धव्या भावसंस्थितिः ॥

शरीररसादिपरिमाणम् आह ।

रसस्य नव विज्ञेया जलस्याञ्जलयो दश । ३.१०५अब्
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ ३.१०५च्द्
षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रम् एव च । ३.१०६अब्
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वम् तु मस्तके ॥ ३.१०६च्द्
श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव तु । ३.१०७अब्
इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ ॥ ३.१०७च्द्

सम्यक्परिणताहारस्य सारो रसस् तस्य परिमाणं नवाञ्जलयः । पार्थिवपरमाणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः । पुरीषस्य वर्चस्कस्य सप्तैव । रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टाव् अञ्जलयः प्रकीर्तिताः । श्लेष्मणः कफस्य षड् अञ्जलयः । पित्तस्य तेजसः पञ्च । मूत्रस्योच्चारणस्य चत्वारः । वसाया मांसस्नेहस्य त्रयः । मेदसो मांसरसस्य द्वाव् अञ्जली । मज्जा त्व् अस्थिगतसुषिरगतस् तस्यैको ऽञ्जलिः । मस्तके पुनर् अर्धाञ्जलिः मज्जा श्लेष्मौजसः श्लेष्मसारस्य । तथा रेतसश् चरमधातोस् तावद् एवार्धाञ्जलिर् एव । एतच् च समधातुपुरुषाभिप्रायेणोक्तम् । विषमधातोस् तु न नियमः,

वैलक्षण्याच् छरीराणाम् अस्थायित्वात् तथैव च ।
दोषधातुमलानां च परिमाणं न विद्यते ॥

इत्य् आयुर्वेदस्मरणात् । इतीदृशम् अस्थिस्नाय्वाद्यारब्धम् एतद् अशुचिनिधानं वर्ष्मास्थिरम् इति यस्य बुद्धिर् असौ कृती पण्डितो मोक्षाय समर्थो भवति, वैराग्यनित्यानित्यविवेकयोर् मोक्षोपायत्वात्, अस्थिमूत्रपुरीषादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् । अत एव व्यासः ।

सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥
यदि नामास्य कायस्य यद् अन्तस् तद् बहिर् भवेत् ।
दण्डमादाय लोको ऽयं शुनः काकांश् च वारयेत् ॥ इति ।

तस्माद् ईदृशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थम् आत्मोपासने प्रयतितव्यम् ॥ ३.१०५-१०७ ॥

उपासनीयात्मस्वरूपम् आह ।

द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः । ३.१०८अब्
हिताहिता नाम नाड्यस् तासां मध्ये शशिप्रभम् ॥ ३.१०८च्द्
मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः । ३.१०९अब्
स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु ॥ ३.१०९च्द्

हृदयप्रदेशाद् अभिनिःसृताः कदम्बकुसुमकेसरवत् सर्वतो निर्गता हिताहितकरत्वेन हिताहितेति संज्ञा द्वासप्ततिसहस्राणि नाड्यो भवन्ति । अपरास् तिस्रो नाड्यस् तासाम् इडापिङ्गलाख्ये द्वे नाड्यौ सव्यदक्षिणपार्ष्वगते हृदि विपर्यस्ते नासाविवरसंबद्धे प्राणापानायतने । सुषुम्नाख्या पुनस् तृतीया दण्डवन् मध्ये ब्रह्मरन्ध्रविनिर्गता । तासां नाडीनां मध्ये मण्डलं चन्द्रप्रभं तस्मिन्न् आत्मा निर्वातस्थदीप इवाचलः प्रकाशमान आस्ते स एवंभूतो ज्ञातव्यः । यतस् तत्साक्षात् करणाद् इह संसारे न पुनः संसरत्य् अमृतत्वं प्राप्नोति ॥ ३.१०८ ॥ ३.१०९ ॥

किं च ।

ज्ञेयं चारण्यकम् अहं यद् आदित्याद् अवाप्तवान् । ३.११०अब्
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगम् अभीप्सता ॥ ३.११०च्द्

चित्तवृत्तेर् विषयान्तरतिरस्कारेणात्मनि स्थैर्यं योगस् तत्प्राप्त्यर्थं बृहदारण्यकाख्यम् आदित्याद् यन् मया प्राप्तं तच् च ज्ञातव्यम् । तथा यन् मयोक्तं योगशास्त्रं तद् अपि ज्ञातव्यम् ॥ ३.११० ॥

_कथं पुनर् असाव् आत्मा ध्येय इत्य् अत आह _

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । ३.१११अब्
ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ॥ ३.१११च्द्

आत्मव्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्याहृत आत्मैकविषयाणि कृत्वा आत्मा ध्येयः । यो ऽसौ प्रभुर् निर्वातस्थप्रदीपवद् दीप्यमानो निष्प्रकम्पो हृदि तिष्ठति । एतद् एव तस्य ध्येयत्वं यच् चित्तवृत्तेर् बहिर्विषयावभासतिरस्कारेणात्मप्रवणता नाम शरावसंपुटनिरुद्धप्रभाप्रतानप्रसरस्यैव प्रदीपस्यैकनिष्ठत्वम् ॥ ३.१११ ॥

यस्य पुनश् चित्तवृत्तिर् निराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मोपासनं कार्यम् इत्य् आह ।

यथाविधानेन पठन् सामगायम् अविच्युतम् । ३.११२अब्
सावधानस् तदभ्यासात् परं ब्रह्माधिगच्छति ॥ ३.११२च्द्

स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । साम्नो गानात्मकत्वे ऽपि गायम् इति विशेषणं प्रगीतमन्त्रव्युदासार्थम् । अविच्युतम् अस्खलितं सावधानं सामध्वन्यनुस्यूतात्मैकाग्रचित्तवृत्तिः पठंस् तदभ्यासवशात् तत्र निष्णातः शब्दाकारशून्योपासनेन परं ब्रह्माधिगच्छति । तद् उक्तम्-

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । इति ॥ ३.११२ ॥

यस्य पुनर् वैदिक्यां गीतौ चित्तं नाभिरमते तेन लौकिकगीतानुस्मृतात्मोपासनं कार्यम् इत्य् आह ।

अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा । ३.११३अब्
औवेणकं सरोबिन्दुम् उत्तरं गीतकानि च ॥ ३.११३च्द्
ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका । ३.११४अब्
गेयम् एतत् तदभ्यासकरणान् मोक्षसंज्ञितम् ॥ ३.११४च्द्

अपरान्तकोल्लोप्यमद्रकप्रकर्यौवेणकानि सरोबिन्दुसहितं चोत्तरम् इत्य् एतानि प्रकराख्यानि सप्त गीतकानि । चशब्दाद् आसारितवर्धमानकादिमहागीतानि गृह्यन्ते । ऋग्गाथाद्याश् चतस्रो गीतिका इत्य् एतद् अपरान्तकादिगीतजातम् अध्यारोपितात्मभावं मोक्षसाधनत्वान् मोक्षसंज्ञितं मन्तव्यम्, तदभ्यासस्यैकाग्रतापादनद्वारेणात्मैकग्रतापत्तिकारणत्वात् ॥ ३.११३ ॥ ३.११४ ॥

किं च ।

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । ३.११५अब्
तालज्ञश् चाप्रयासेन मोक्षमार्गं नियच्छति ॥ ३.११५च्द्

भरतादिमुनिप्रतिपादितवीणावादनतत्त्ववेदी । श्रूयत इति श्रुतिः द्वाविंशतिविधा सप्तस्वरेषु । तथा हि । षड्जमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतयः ऋषभधैवतौ प्रत्येकं त्रिश्रुती गान्धारनिषादौ प्रत्येकं द्विश्रुती इति । जातयस् तु षड्जादयः सप्त शुद्धाः संकरजातयस् त्व् एकादशेत्य् एवम् अष्टादशविधास्, तासु विशारदः प्रवीणः । ताल इति गीतपरिमाणं कथ्यते । तत्स्वरूपज्ञश् च तदनुविद्धब्रह्मोपासनतया तालादिभङ्गभयाच् चित्तवृत्तेर् आत्मैकाग्रतायाः सुकरत्वाद् अल्पायासेनैव मुक्तिपथं नियच्छति प्राप्नोति ॥ ३.११५ ॥

चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरम् आह ।

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् । ३.११६अब्
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ३.११६च्द्

गीतज्ञो यदि कथंचिद् योगेन परमं पदं नाप्नोति, तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदिते क्रीडति ॥ ३.११६ ॥

पूर्वोक्तम् उपसंहरति ।

अनादिर् आत्मा कथितस् तस्यादिस् तु शरीरकम् । ३.११७अब्
आत्मनस् तु जगत् सर्वं जगतश् चात्मसंभवः ॥ ३.११७च्द्

प्रागुक्तरीत्या अनादिर् आत्मा क्षेत्रज्ञस् तस्य च शरीरग्रहणम् एवादिर् उद्भवः कथितः “अजः शरीरग्रहणाद्” य्ध् ३.६९) इत्य् अत्र । परमात्मनश् च सकाशात् पृथिव्यादिसकलभुवनोद्भवः तस्माद् उद्भूताच् च पृथिव्यादिभूतसंघाताज् जीवानां स्थूलशरीरतायां संभवश् च कथितः “सर्गादौ स यथाकाशम्” (य्ध् ३.७०) इत्यादिना ॥ ३.११७ ॥

एतद् एव प्रश्नपूर्वकं विवृणोति ।

कथम् एतद् विमुह्यामः सदेवासुरमानवम् । ३.११८अब्
जगदुद्भूतम् आत्मा च कथं तस्मिन् वदस्व नः ॥ ३.११८च्द्

यद् एतत् सकलसुरासुरमनुजादिसहितं जगत् तद् आत्मनः सकाशात् कथम् उत्पन्नम्, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभाग् भवतीत्य् एतस्मिन्न् अर्थे विमुह्यामः । अतो मोहापनुत्त्यर्थम् अस्माकं विस्तरशो वदस्व ॥ ३.११८ ॥

एवं मुनिभिः पृष्टः प्रत्युत्तरम् आह ।

मोहजालम् अपास्येह पुरुषो दृश्यते हि यः । ३.११९अब्
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ ३.११९च्द्
स आत्मा चैव यज्ञश् च विश्वरूपः प्रजापतिः । ३.१२०अब्
विराजः सो ऽन्नरूपेण यज्ञत्वम् उपगच्छति ॥ ३.१२०च्द्

इह जगति यद् इदं स्थूलकलेवरादाव् अनात्मन्य् आत्माभिमानरूपं मोहजालं तद् अपास्य तद्व्यतिरिक्तो यः पुरुषो ऽनेककरचरणलोचनः सूर्यवर्चा अनन्तरश्मिः सहस्रकः बहुशिरा दृश्यते । एतच् च तत्तद्गोचरशक्त्याधारतयोच्यते, तस्य साक्षात्कारादिसंबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश् च । यतो ऽसौ विश्वरूपः सर्वात्मकः । वैश्वरूप्यम् एव कथम् इति चेत्, यस्माद् असौ विराजः पुरोडाशाद्यन्नरूपेण यज्ञत्वम् उपगच्छति । यज्ञाच् च वृष्ट्यादिद्वारेण प्रजासृष्टिर् इत्य् एवं वैश्वरूप्यम् ॥ २.११९ ॥ २.१२० ॥

एतद् एव प्रपञ्चयति ।

यो द्रव्यदेवतात्यागसम्भूतो रस उत्तमः । ३.१२१अब्
देवान् संतर्प्य स रसो यजमानं फलेन च ॥ ३.१२१च्द्
संयोज्य वायुना सोमं नीयते रश्मिभिस् ततः । ३.१२२अब्
ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ ३.१२२च्द्
खमण्डलाद् असौ सूर्यः सृजत्य् अमृतम् उत्तमम् । ३.१२३अब्
यज्जन्म सर्वभूतानाम् अशनानशनात्मनाम् ॥ ३.१२३च्द्
तस्माद् अन्नात् पुनर् यज्ञः पुनर् अन्नं पुनः क्रतुः । ३.१२४अब्
एवम् एतद् अनाद्यन्तं चक्रं सम्परिवर्तते ॥ ३.१२४च्द्

द्रव्यस्य चरुपुरोडाशादेर् देवतोद्देशेन त्यागाद् यो रसो ऽदृष्टरूपम् आत्मनः परिणत्यन्तरम् उत्तमः सकलजगज्जन्मबीजतयोत्कृष्टतमः संभूतः, स देवान् संप्रदानकारकभूतान् सम्यक् प्रीणयित्वा, यजमानं चाभिलषितफलेन संयोज्य, पवनेन प्रेर्यमाणश् चन्द्रमण्डलं प्रति नीयते । ततः शशिमण्डलाद् रश्मिभिर् भानुमण्डलम् । सैषा त्रय्य् एव विद्या तपतीत्य् अभेदाभिधानात्, ऋग्यजुःसाममयं प्रत्य् उपनीयते । ततश् च स्वमण्डलाद् असौ सूर्यो ऽमृतरसं वृष्टिरूपम् उत्तमं यत् सकलभूतानाम् अशनानशनात्मनां चराचराणां जनननिमित्तं तत् सृजति । तस्माद् वृष्टिसंपादितौषधिमयात् प्रजोत्पत्तिहेतोर् अन्नात् पुनर् यज्ञो यज्ञाच् च पूर्वाभिहितभङ्ग्या पुनर् अन्नं अन्नाच् च पुनः क्रतुर् इत्य् एवम् एतद् अखिलं संसारचक्रं प्रवाहरूपेणोत्पत्तिविनाशविरहितं सम्यक् परिवर्तत इत्य् अनेन क्रमेणात्मनः सकाशाद् अखिलजगदुत्पत्तिः । तत्र चात्मनः स्वकर्मानुरूपविग्रहपरिग्रहः ॥ ३.१२१-१२४ ॥

ननु यद्य् आत्मनः संसरणम् अनाद्यन्तं तर्ह्य् अनिर्मुक्तिप्रसङ्गः, इत्य् अत आह ।

अनादिर् आत्मा संभूतिर् विद्यते नान्तरात्मनः । ३.१२५अब्
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ ३.१२५च्द्

यद्य् अप्य् आत्मनो ऽनादित्वात् संभूतिर् न विद्यते अन्तरात्मनः शरीरव्यापिनः, तथापि पुरुषः शरीरेण समवायी भवति भोगायतने सुखदुःखात्मकं भोग्यजातम् उपभुङ्क्ते इत्य् एवंभूतेन संबन्धेन संबन्धी भवत्य् एव । स च समवायो मोहेच्छाद्वेषजनितकर्मनिर्मेयो न तु निसर्गजातः । तस्य कार्यत्वेन विनाशोपपत्तेर् नानिर्मुक्तिः ॥ ३.१२५ ॥

आत्मनो जगज्जन्मेत्य् उक्तम्, तत्प्रपञ्चयितुम् आह ।

सहस्रात्मा मया यो व आदिदेव उदाहृतः । ३.१२६अब्
मुखबाहूरुपज्जाः स्युस् तस्य वर्णा यथाक्रमम् ॥ ३.१२६च्द्
पृथिवी पादतस् तस्य शिरसो द्यौर् अजायत । ३.१२७अब्
नस्तः प्राणा दिशः श्रोत्रात् स्पर्शाद् वायुर् मुखाच् छिखी ॥ ३.१२७च्द्
मनसश् चन्द्रमा जातश् चक्षुषश् च दिवाकरः । ३.१२८अब्
जघनाद् अन्तरिक्षं च जगच् च सचराचरम् ॥ ३.१२८च्द्

यो ऽसौ सकलजीवात्मकतया प्रपञ्चात्मकतया च सहस्रात्मा बहुरूपस् तथा सकलजगद्धेतुतया आदिदेवो मया युष्माकम् उदाहृतः तस्य वदनभुजसक्थिचरणजाता यथाक्रमम् अग्रजन्मादयश् चत्वारो वर्णाः । तथा तस्य पादाद् भूमिर् मस्तकात् सुरसद्म घ्राणात् प्राणः कर्णात् ककुभः स्पर्शात् पवनो वदनाद् धुतवहः मनसः शशाङ्कः नेत्राद् भानुः जघनाद् गगनं जङ्गमाजङ्गमात्मकं जगच् च ॥ ३.१२६-१२८ ॥

अत्र चोदयन्ति ।

यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते । ३.१२९अब्
ईश्वरः स कथं भावैर् अनिष्टैः सम्प्रयुज्यते ॥ ३.१२९च्द्

हे ब्रह्मन् योगीश्वर, यद्य् आत्मैव जीवादिभावं भजते तर्हि कथम् असौ पापयोनिषु मृगपक्ष्यादिषु जायते । अथ मोहरागद्वेषादिदोषदुष्टत्वात् तत्र जन्मेत्य् उच्यते । तच् च न । यस्माद् ईश्वरः स्वतन्त्रः कथम् अनिष्टैर् मोहरागादिभावैः संयुज्यते ॥ ३.१२९ ॥

किं च ।

करणैर् अन्वितस्यापि पूर्वं ज्ञानं कथं च न । ३.१३०अब्
वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम् ॥ ३.१३०च्द्

तथेदम् अप्य् अत्र दूषणम् । मनःप्रभृतिज्ञानोपायैः सहितस्यापि तस्यात्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मान् नोत्पद्यते । तथा सर्वप्राणिगतां वेदनां सुखदुःखादिरूपां स्वयं सर्वगो ऽपि सर्वदेहगतो ऽपि कस्मान् न वेत्ति । तस्माद् आत्मैवेश्वरो जीवादिभावं भजत इत्य् अयुक्तम् ॥ ३.१३० ॥

तत्र पूर्वचोद्यस्योत्तरम् आह ।

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । ३.१३१अब्
दोषैः प्रयाति जीवो ऽयं भवं योनिशतेषु च ॥ ३.१३१च्द्

यद्य् अपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्य् अविद्यासमावेशवशान् मोहरागादिभावैर् अभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनिचयम् आचरति । तेन चान्त्यजादिहीनयोनिताम् आपद्यते । अन्त्याश् चण्डालादयः पक्षिणः काकादयः स्थावरा वृक्षादयः तेषां भावो ऽन्त्यपक्षिस्थावरता तां यथाक्रमेण मनोवाक्कायारब्धकर्मदोषैर् जन्मसहस्रेष्व् अयम् जीवः प्राप्नोति ॥ ३.१३१ ॥

किं च ।

अनन्ताश् च यथा भावाः शरीरेषु शरीरिणाम् । ३.१३२अब्
रूपाण्य् अपि तथैवेह सर्वयोनिषु देहिनाम् ॥ ३.१३२च्द्

शरीरिणां जीवानां शरीरेषु भावा अभिप्रायविशेषाः सत्त्वाद्युद्रेकतारतम्याद् यथानन्तास् तथा तत्कार्याण्य् अपि कुब्जवामनत्वादीनि रूपाणि देहिनां सर्वयोनिषु भवन्ति ॥ ३.१३२ ॥

ननु यदि कर्मजन्यानि कुब्जत्वादीनि तर्हि कर्मानन्तरम् एव तैर् भवितव्यम्, इत्य् आशङ्क्याह ।

विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते । ३.१३३अब्
इह वामुत्र वैकेषां भावस् तत्र प्रयोजनम् ॥ ३.१३३च्द्

केषांचिज् ज्योतिष्टोमादिकर्मणां विपाकः फलं प्रेत्य देहान्तरे भवति । केषांचित् कारीर्यादिकर्मणां वृष्ट्यादिफलम् इहैव भवति । केषांचिच् चित्रादीनां फलं पश्चादिकम् इह देहान्तरे वेत्य् अनियतम् । न ह्य् अनन्तरम् एव कर्मफलेन भवितव्यम् इति शास्त्रार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्त्वादिभाव एव प्रयोजकभूतस् तदायत्तत्वात् फलतारतम्यस्य ॥ ३.१३३ ॥

मनोवाक्कायकर्मजैर् अन्त्यादियोनीः प्राप्नोतीत्य् उक्तं, तत् प्रपञ्चयितुम् आह ।

परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् । ३.१३४अब्
वितथाभिनिवेशी च जायते ऽन्त्यासु योनिषु ॥ ३.१३४च्द्

परधनानि कथम् अहम् अपहरेयम् इत्याभिमुक्ज्येन ध्यायंस्, तथानिष्टानि ब्रह्महत्यादीनि हिंसात्मकानि करिष्यामीति चिन्तयन्, वितथे असत्यभूते वस्तुन्य् अभिनिवेशः पुनः पुनः संकल्पस् तद्वांश् च श्वचण्डालाद्यन्त्ययोनिषु जायते ॥ ३.१३४ ॥

किं च ।

पुरुषो ऽनृतवादी च पिशुनः परुषस् तथा । ३.१३५अब्
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ ३.१३५च्द्

यस् त्व् अनृतवदनशीलः पुरुषः पिशुनः कर्णेजपः पुरुषः परोद्वेगकरभाष्य् अनिबद्धप्रलापी प्रकृतासङ्गतार्थवादी च बुद्धिपूर्वाबुद्धिपूर्वादितारतम्याद् धीनोत्कृष्टेषु मृगपक्षिषु जायते ॥ ३.१३५ ॥

किं च ।

अदत्तादाननिरतः परदारोपसेवकः । ३.१३६अब्
हिंसकश् चाविधानेन स्थावरेष्व् अभिजायते ॥ ३.१३६च्द्

अदत्तादाननिरतो ऽदत्तपरधनापहारप्रसक्तः परदारप्रसक्तश् च अविहितमार्गेण प्राणिनां घातकश् च दोषगुरुलघुभावतारतम्यात् तरुलताप्रतानादिस्थावरेषु जायते ॥ ३.१३६ ॥

सत्त्वादिगुणपरिपाकम् आह ।

आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः । ३.१३७अब्
धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम् ॥ ३.१३७च्द्

आत्मज्ञो विद्याधनाभिजनाद्यभिमानरहितः शौचवान् बाह्याभ्यन्तरशौचयुक्तः दान्त उपशमान्वितः तपस्वी कृच्छ्रादितपोयुक्तः तथेन्द्रियार्थेष्व् अप्रसक्तः नित्यनैमित्तिकधर्मानुष्ठाननिरतः वेदार्थवेदी च यः सात्त्विकः स च सत्त्वोद्रेकतारतम्यवशाद् उत्कृष्टोत्कृष्टतरसुरयोनितां प्राप्नोति ॥ ३.१३७ ॥

किं च ।

असत्कार्यरतो ऽधीर आरम्भी विषयी च यः । ३.१३८अब्
स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ३.१३८च्द्

असत्कार्येषु तूर्यवादित्रनृत्यादिष्व् अभिरतो यस् तथा अधीरो व्यग्रचित्त आरम्भी सदा कार्याकुलो विषयेष्व् अतिप्रसक्तश् च स रजोगुणयुक्तः तद्गुणतारतम्याद् धीनोत्कृष्टमनुष्यजातिषु मरणानन्तरम् उत्पत्तिं प्राप्नोति ॥ ३.१३८ ॥

तथा च[^४३] ।

निद्रालुः क्रूरकृल् लुब्धो नास्तिको याचकस् तथा । ३.१३९अब्
प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः ॥ ३.१३९च्द्

यः पुनर् निद्राशीलः प्राणिपीडाकरो लोभयुक्तश् च तथा नास्तिको धर्मादेर् निन्दकः याचनशीलः प्रमादवान् कार्याकार्यविवेकशून्यः विरुद्धाचारश् च असौ तमोगुणयुक्तस् तत्तारतम्याद् धीनहीनतरपश्वादियोनिषु जायते ॥ ३.१३९ ॥

पूर्वोक्तम् उपसंहरति ।

रजसा तमसा चैवं समाविष्टो भ्रमन्न् इह । ३.१४०अब्
भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ ३.१४०च्द्

एवम् अविद्याविद्धो ऽयम् आत्मा रजस्तमोभ्यां सम्यग् आविष्ट इह संसारे पर्यटन् नानाविधदुःखप्रदैर् भावैर् अभिभूतः पुनः पुनः संसारं देहग्रहणं प्राप्नोति । इतीश्वरः स कथं भावैर् अनिष्टैः संप्रयुज्यत इत्य् अस्य चोद्यस्यानवकाशः ॥ ३.१४० ॥

यद् अपि “करणैर् अन्वितस्यापि” (य्ध् ३.१३०) इति द्वितीयं चोद्यं तस्योत्तरम् आह ।

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः । ३.१४१अब्
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥ ३.१४१च्द्

यद्य् अप्य् आत्मा अन्तःकरणादिज्ञानसाधनसंपन्नस् तथापि जन्मान्तरानुभूतार्थावबोधे न समर्थो ऽविपक्वकरणो रागादिमलाक्रान्तचित्तो यस्मात् । यथा दर्पणो मलछन्नो रूपज्ञानोत्पादनसमर्थो न भवति ॥ ३.१४१ ॥

ननु प्राग्भवीयज्ञानस्याप्य् आत्मप्रकाशित्वात् तस्य च स्वतःसिद्धत्वान् नानुपलम्भो युक्तः, इत्य् आशङ्क्याह ।

कट्वेर्वारौ यथापक्वे मधुरः सन् रसो ऽपि न । ३.१४२अब्
प्राप्यते ह्य् आत्मनि तथा नापक्वकरणे ज्ञता ॥ ३.१४२च्द्

अपक्वे कट्वेर्वारौ तिक्तकर्कटिकायां विद्यमानो ऽपि मधुरो रसो यथा नोपलभ्यते तथात्मन्य् अपक्वकरणे विद्यमानापि ज्ञता ज्ञातृता प्राग्भवीयवस्तुगोचरता न प्राप्यते ॥ ३.१४२ ॥

“वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम्” (य्ध् ३.१३०) इति यद् उक्तं तत्रोत्तरम् आह ।

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् । ३.१४३अब्
योगी मुक्तश् च सर्वासां यो न चाप्नोति वेदनाम् ॥ ३.१४३च्द्

यः पुनर् देही देहाभिमानयुक्तः स सर्वाश्रयाम् आध्यात्मिकादिरूपां वेदनां स्वकर्मोपार्जित एव देहे प्राप्नोति न देहान्तरगतां भोगायतनारम्भादृष्टवैलक्षण्याद् एव । यस् तु योगी मुक्तो मुक्ताहंकारादिः सकलक्षेत्रगतानां सुखदुःखादिसंविदां वेदिता भवति परिपक्वकरणत्वात् ॥ ३.१४३ ॥

ननु एकस्मिन्न् आत्मनि सुरनरादिदेहेषु भेदप्रत्ययो न घटते, इत्य् आशङ्क्याह ।

आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् । ३.१४४अब्
तथात्मा एको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान् ॥ ३.१४४च्द्

यथैकम् एव गगनं कूपकुम्भाद्युपाधिभेदभिन्नं नानेवानुभूयते, यथा वा भानुर् एको ऽपि भिन्नेषु जलभाजनेषु करकमणिकमल्लिकादिषु नानेवानुभूयते, तथैको ऽप्य् आत्मा अन्तःकरणोपाधिभेदेन नाना प्रतीयते । द्वितीयदृष्टान्तोपादानम् आत्मभेदस्यापारमार्थिकत्वद्योतनार्थम् ॥ ३.१४४ ॥

“पञ्चधातून् स्वयं षष्ट आदत्ते युगपत् प्रभुः” (य्ध् ३.७२) इत्याद्युक्तम् अर्थम् उपसंहृत्याह ।

ब्रह्मखानिलतेजांसि जलं भूश् चेति धातवः । ३.१४५अब्
इमे लोका एष चात्मा तस्माच् च सचराचरम् ॥ ३.१४५च्द्

ब्रह्म आत्मा, खं गगनम्, अनिलो वायुः, तेजो ऽग्निः, जलं प्रसिद्धं, भूश् चेत्य् एते वातादिधातव एव शरीरं व्याप्य धारयन्तीति धातवो ऽभिधीयन्ते । तत्र खादयः पञ्च धातवः लोक्यन्ते दृश्यन्ते इति लोकाः । जडा इति यावत् । एष चिद्धातुर् आत्मा एतस्माज् जडाजडसमुदायात् स्थावरजङ्गमात्मकं जगद् उत्पद्यते ॥ ३.१४५ ॥

कथम् असाव् आत्मा जगत् सृजतीत्य् आह ।

मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् । ३.१४६अब्
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः ॥ ३.१४६च्द्
हेममात्रम् उपादाय रूपं वा हेमकारकः । ३.१४७अब्
निजलालासमायोगात् कोशं वा कोशकारकः ॥ ३.१४७च्द्
कारणान्य् एवम् आदाय तासु तास्व् इह योनिषु । ३.१४८अब्
सृजत्य् आत्मानम् आत्मा च सम्भूय करणानि च ॥ ३.१४८च्द्

यथा हि कुलालो मृच्चक्रचीवरादिकं कारणजातम् उपादाय करकशरावादिकं नानाविधकार्यजातं रचयति । यथा वा वर्धकिस् तृणमृत्काष्ठैः परस्परसापेक्षैः एकं गृहाख्यं कार्यं करोति । यथा वा हेमकारकः केवलं हेमोपादाय हेमानुगतम् एव कटकमुकुटकुण्डलादिकार्यम् उत्पादयति । यथा वा कोशकारकः कीटविशेषो निजलालयारब्धम् आत्मबन्धनं कोशाख्यम् आरभते तथात्मापि पृथिव्यादीनि साधनानि परस्परसापेक्षाणि तथा करणान्य् अपि श्रोत्रादीन्य् उपादाय अस्मिन् संसारे तासु तासु सुरादियोनिषु स्वयम् एवात्मानं निजकर्मबन्धबद्धं शरीरितया सृजति ॥ ३.१४६-१४८ ॥

किं पुनर् वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणम्, इत्य् आशङ्क्याह ।

महाभूतानि सत्यानि यथात्मापि तथैव हि । ३.१४९अब्
को ऽन्यथैकेन नेत्रेण दृष्टम् अन्येन पश्यति ॥ ३.१४९च्द्
वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् । ३.१५०अब्

यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणागम्यत्वात् तथात्मापि सत्यः । अन्यथा यदि बुद्धीन्द्रियव्यतिरिक्तो ज्ञाता ध्रुवो न स्यात् तर्हि एकेन चक्षुरिन्द्रियेण दृष्टं वस्तु अन्येन स्पर्शनेन्द्रियेण को विजानाति “यम् अहम् अद्राक्षं तम् अहं स्पृशामि” इति । तथा कस्यचित् पुरुषस्य वाचं पूर्वं श्रुत्वा पुनः श्रूयमाणां वाचं तस्य वाग् इयम् इति कः प्रत्यभिजानाति । तस्मात् ज्ञानेन्द्रियातिरिक्तो ज्ञाता ध्रुव इति सिद्धम् ॥ ॥ ३.१४९ ॥

किं च ।

अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ ३.१५०च्द्
जातिरूपवयोवृत्तविद्यादिभिर् अहंकृतः । ३.१५१अब्
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ ३.१५१च्द्

यद्य् आत्मा ध्रुवो न स्यात् तर्ह्य् अनुभूतार्थगोचरा स्मृतिः पूर्वानुभवभावितसंस्कारोद्बोधनिबन्धना कस्य भवेत्? न ह्य् अन्येन दृष्टे वस्तुन्य् अन्यस्य स्मृतिर् उपपद्यते । तथा कः स्वप्नज्ञानस्य कारकः? न हीन्द्रियाणाम् उपरतव्यापाराणां तत्कारकत्वम् । तथाहम् एवाभिजनत्वादिसंपन्न इत्य् एवंविधो ऽनुसंधानप्रत्ययः कस्य भवति स्थिरात्मव्यतिरिक्तस्य? तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थम् उद्योगं मनोवाक्कायैः कः कुर्यात्? तस्माद् अपि बुद्धीन्द्रियव्यतिरिक्त आत्मा स्थितः ॥ ३.१५० ॥ ३.१५१ ॥

उपासनाविशेषविध्यर्थं संसारस्य रूपं विवृण्वन्न् आह ।

स संदिग्धमतिः कर्मफलम् अस्ति न वेति वा । ३.१५२अब्
विप्लुतः सिद्धम् आत्मानम् असिद्धो ऽपि हि मन्यते ॥ ३.१५२च्द्

यो ऽसौ पूर्वोक्त आत्मा विप्लुतो ऽहंकारदूषितः स सकलकर्मसु फलम् अस्ति न वेति संदिग्धमतिर् भवति । तथासिद्धो ऽप्य् अकृतार्थो ऽपि सिद्धम् एव कृतार्थम् आत्मानं मन्यते ॥ ३.१५२ ॥

किं च ।

मम दाराः सुतामात्या अहम् एषाम् इति स्थितिः । ३.१५३अब्
हिताहितेषु भावेषु विपरीतमतिः सदा ॥ ३.१५३च्द्

तस्य विप्लुतमतेर् मम कलत्रपुत्रप्रेष्यादयो ऽहम् एषाम् इत्य् अतीव ममताकुलस्थितिर् भवति । तथा हिताहितकरे कार्यप्रकरे स विप्लुतमतिर् विपरीतमतिः सदा भवेत् ॥ ३.१५३ ॥

किं च ।

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् । ३.१५४अब्
अनाशकानलाघातजलप्रपतनोद्यमी ॥ ३.१५४च्द्
एवंवृत्तो ऽविनीतात्मा वितथाभिनिवेशवान् । ३.१५५अब्
कर्मणा द्वेषमोहाभ्याम् इच्छया चैव बध्यते ॥ ३.१५५च्द्

ज्ञेयं जानातीति ज्ञेयज्ञस् तस्मिन्न् आत्मनि प्रकृतौ चात्मनो गुणसाम्यावस्थायां विकारे चाहंकारादाव् अविशेषवान् विवेकानभिज्ञो भवति । तथानशनहुताशनाम्बुप्रवेशविषाशनादिषु विप्लववशात् कृतप्रयत्नो भवेत् । एवं नानाप्रकाराकार्यप्रवृत्तो ऽविनीतात्मासंयतात्मा असत्कार्याभिनिवेशयुक्तः सन् तत्कृतकर्मजातेन रागद्वेषाभ्यां मोहेन च बध्यते ॥ ३.१५४ ॥ ३.१५५ ॥

शरीरग्रहणद्वारेण कथं पुनस् तस्य विस्रम्भो भवतीत्य् अत आह ।

आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता । ३.१५६अब्
तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर् गिरः शुभाः ॥ ३.१५६च्द्
स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् । ३.१५७अब्
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ ३.१५७च्द्
विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम् । ३.१५८अब्
शरीरपरिसंख्यानं प्रवृत्तिष्व् अघदर्शनम् ॥ ३.१५८च्द्
नीरजस्तमसा सत्त्वशुद्धिर् निःस्पृहता शमः । ३.१५९अब्
एतैर् उपायैः संशुद्धः सत्त्वयोग्य् अमृतीभवेत् ॥ ३.१५९च्द्

विद्यार्थम् आचार्यसेवा, वेदान्तार्थेषु पातञ्जलादियोगशास्त्रार्थेषु च विवेकित्वम्, तत्प्रतिपादितध्यानकर्मणाम् अनुष्ठानम्, सत्पुरुषसण्गः प्रियहितवचनत्वम्, ललनालोकनालम्भयोः परित्यागः, सर्वभूतेष्व् आत्मवद् दर्शनं समत्वदर्शनम्, परिग्रहाणां च पुत्रक्षेत्रकलत्रादीनां त्यागः, जीर्णकाषायधारणम्, तथा शब्दस्पर्शादिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधः, तन्द्रा निद्रानुकारिणी, आलस्यम् अनुत्साहः तयोर् विशेषेण त्यागः, शरीरस्य परिसंख्यानम् अस्थिराशुचित्वादिदोषानुसंधानम्, तथा सकलगमनादिषु प्रवृत्तिषु सूक्ष्मप्राणिवधादिदोषपरामर्शः, तथा रजस्तमोविधुरता प्राणायामादिभिर् भावशुद्धिः, निःस्पृहता विषयेष्व् अनभिलाषः, शमो बाह्यान्तःकरणसंयमः, एतैर् आचार्योपासनादिभिर् उपायैः सम्यक् शुद्धः, केवलसत्त्वयुक्तो ब्रह्मोपासनेनामृती भवेत् मुक्तो भवति ॥ ३.१५६-१५९ ॥

कथम् अमृतत्वप्राप्तिर् इत्य् अत आह ।

तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात् । ३.१६०अब्
कर्मणां संनिकर्षाच् च सतां योगः प्रवर्तते ॥ ३.१६०च्द्

आत्माख्यतत्त्वस्मृतेर् आत्मनि निश्चलतयोपस्थानात् सत्त्वशुद्धियोगात् केवलसत्त्वगुणयोगात् कर्मबीजानां परिक्षयात् सत्पुरुषाणां च संबन्धाद् आत्मयोगः प्रवर्तते ॥ ३.१६० ॥

किं च ।

शरीरसंक्षये यस्य मनः सत्त्वस्थम् ईश्वरम् । ३.१६१अब्
अविप्लुतमतिः सम्यक् स जातिसंस्मरताम् इयात् ॥ ३.१६१च्द्

यस्य पुनर् योगिनो ऽविप्लुतमतेः शरीरसंक्षयसमये मनः सत्त्वयुक्तं सम्यग् एकाग्रतयेश्वरं प्रति व्याप्रियते स यद्य् उपासनाप्रयोगाप्रवीणतयात्मानं नाधिगच्छति तर्हि विशिष्टसंस्कारपाटववशेन जात्यन्तरानुभूतकृमिकीटादिनानागर्भवासादिसमुद्भूतदुःखस्मरत्वं प्राप्नुयात् । तत्स्मरणेन च जातोद्वेगतस् तद्विच्छेदकारिणि मोक्षे प्रवर्तते ॥ ३.१६१ ॥

यस् त्व् अपटुसंस्कारतया पूर्वं जातिं न स्मरति तस्य का गतिर् इत्य् अत्राह ।

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् । ३.१६२अब्
नानारूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ॥ ३.१६२च्द्

भरतो नटः स यथा रामरावणादिनानारूपाणि कुर्वाणः सितासितपीतादिभिर् वर्णैर् आत्मनस् तनुं वर्णयति रचयति तथैवात्मा तत्तत्कर्मफलोपभोगार्थं कुब्जवामनादिनानारूपाणि कर्मनिमित्तानि कलेवराण्य् आदत्ते ॥ ३.१६२ ॥

किं च ।

कालकर्मात्मबीजानां दोषैर् मातुस् तथैव च । ३.१६३अब्
गर्भस्य वैकृतं दृष्टम् अङ्गहीनादि जन्मनः ॥ ३.१६३च्द्

न केवलं कर्मैव कुब्जवामनत्वादिनिमित्तं किं तु कालकर्मणि स्वकारणपितृबीजदोषो मातृदोषश् चेति सर्वम् एतत् सहकारिकारणम् । एतेन दृष्टादृष्टस्वरूपेण कारणकलापेन गर्भस्याङ्गहीनत्वादिविकारो जन्मन आरभ्यानियतकालो दृष्टः ॥ ३.१६३ ॥

ननु प्राकृतिकप्रलयावसरे महदाद्यखिलविकारविनाशे कर्मणो नाशात् कथं तन्निबन्धनः प्रथमपिण्डपरिग्रहः, इत्य् आशङ्क्याह ।

अहंकारेण मनसा गत्या कर्मफलेन च । ३.१६४अब्
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ ३.१६४च्द्

मनोऽहंकारौ प्रसिद्धौ । गतिः संसरणहेतुभूतो दोषराशिः । कर्मफलं धर्माधर्मरूपम् । शरीरं लिङ्गात्मकं एतैर् अहंकारादिभिर् अयम् आत्मा कदाचिद् अपि न मुच्यते यावन् मोक्षः ॥ ३.१६४ ॥

ननु प्रतिनियतकर्मणां जीवानां प्रतिनियतकालम् एवोपरतिर् युक्ता न पुनः संग्रामादौ युगपद् अकाले प्राणसंक्षयः, इत्य् आशङ्क्याह ।

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः । ३.१६५अब्
विक्रियापि च दृष्टैवम् अकाले प्राणसंक्षयः ॥ ३.१६५च्द्

यथा हि खलु तैलक्लिन्नानेकवर्तिवर्तिनीनां नानाज्वालानां युगपत्संस्थितिः तासां च स्थितानां तदुत्तरं दोधूयमानपवनाहतिरूपविपत्तिहेतूपनिपातयौगपद्याद् युगपदुपरतिर् यथा भवति तथैव रथिसारथिवाजिकुञ्जरादिजीवानां युद्धाख्योपरतिहेतुयौगपद्याद् अकाले ऽपि प्राणपरिक्षयो नानुपपन्नः । एतद् उक्तं भवति । प्रतिनियतकालविपत्तिहेतुभूतादृष्टस्य तद्विरुद्धकार्यकरदृष्टहेतूपनिपातेन प्रतिबन्ध इति ॥ ३.१६५ ॥

मोक्षमार्गम् आह ।

अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि । ३.१६६अब्
सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥ ३.१६६च्द्
ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम् । ३.१६७अब्
ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम् ॥ ३.१६७च्द्

यो ऽसौ हृदि प्रदीपवत् स्थितो जीवस् तस्यानन्ता रश्मयो नाड्यः सुखदुःखहेतुभूताः द्वासप्ततिसहस्राणीत्यादिनोक्ताः सितासितकर्बुरादिरूपाः सर्वतः स्थितास् तेषाम् एको रश्मिर् ऊर्ध्वं व्यवस्थितः यो ऽसौ मार्तण्डमण्डलं निर्भिद्य हिरण्यगर्भनिलयं चातिक्रम्य वर्तते तेन जीवः परां गतिम् अपुनरावृत्तिलक्षणां प्राप्नोति ॥ ३.१६७ ॥

यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम् । ३.१६८अब्
तेन देवशरीराणि सधामानि प्रपद्यते ॥ ३.१६८च्द्

यद् अस्यात्मनो मुक्तिमार्गभूताद् रश्मेर् अन्यद् रश्मिशतम् ऊर्ध्वाकारम् एव व्यवस्थितं तेन सुरशरीराणि तैजसानि सुखैकभोगाधिकरणानि सधामानि कनकरजतरत्नरचितामरपुरसहितानि प्रपद्यते ॥ ३.१६८ ॥

संसरणमार्गम् आह ।

ये ऽनेकरूपाश् चाधस्ताद् रश्मयो ऽस्य मृदुप्रभाः । ३.१६९अब्
इह कर्मोपभोगाय तैः संसरति सो ऽवशः ॥ ३.१६९च्द्

ये पुनस् तस्याधस्ताद् रश्मयो मृदुप्रभास् तैर् इह फलोपभोगार्थं संसारे संसरत्य् अवशः स्वकृतकर्मपरतन्त्रः ॥ ३.१६९ ॥

भूतचैतन्यवादिपक्षं परिजिहीर्षुर् आह ।

वेदैः शास्त्रैः सविज्ञानैर् जन्मना मरणेन च । ३.१७०अब्
आर्त्या गत्या तथागत्या सत्येन ह्य् अनृतेन च ॥ ३.१७०च्द्
श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः । ३.१७१अब्
निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ ३.१७१च्द्
तारानक्षत्रसंचारैर् जागरैः स्वप्नजैर् अपि । ३.१७२अब्
आकाशपवनज्योतिर्जलभूतिमिरैस् तथा ॥ ३.१७२च्द्
मन्वन्तरैर् युगप्राप्त्या मन्त्रौषधिफलैर् अपि । ३.१७३अब्
वित्तात्मानं वेद्यमानं कारणं जगतस् तथा ॥ ३.१७३च्द्

वेदैः “स एष नेति नेत्य् आत्मा” (बृउ ४.४.२२) इति, “अस्थूलम् अनण्व् अह्रस्वम्” (बृउ ३.८.८), “अपाणिपादम्” (मुण्डु १.१.६) इत्यादिभिः, शास्त्रैश् च मीमांसान्वीक्षिक्यादिभिः, विज्ञानैश् च “ममेदं शरीरम्” इत्यादिदेहव्यतिरिक्तात्मानुभवैः, तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्यां देहातिरिक्तात्मानुमानम्, आर्त्या जन्मान्तरगतकर्मानुष्ठातृनियतया, तथा गमनागमनाभ्यां ज्ञानेच्छाप्रयत्नाधारनियताभ्याम् अपि भौतिकदेहातिरिक्तात्मानुमानम् । न हि देहस्य चैतन्यादि संभवति । यतः कारणगुणप्रोक्तक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भो दृष्टः । न च तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादिसमवायः संभवति, तदारब्धस्तम्भकुम्भादिभौतिकेष्व् अनुपलम्भात् । न च मदशक्तिवद् उदकादिद्रव्यान्तरसंयोगज इति वाच्यम्, शक्तेः साधारणगुणत्वात् । अतो भौतिकदेहातिरिक्तश् चैतन्यादिसमवाय्य् अङ्गीकर्तव्यः । सत्यानृते प्रसिद्धे । श्रेयो हितप्राप्तिः । सुखदुःखे आमुष्मिके । तथा शुभकर्मानुष्ठानम् अशुभकर्मपरित्यागः । एतैश् च ज्ञाननियतैर् देहातिरिक्तात्मानुमानम् । निमित्तं भूकम्पादि । शाकुनज्ञानं पिङ्गलादिपतत्त्रिचेष्टालिङ्गकं ज्ञानम् । ग्रहाः सूर्यादयः तत्संयोगजैः फलैःतारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्य् अश्वयुक्प्रभृतीनि, एतेषां संचारैः शुभाशुभफलद्योतनैः, जागरैर् जागरावस्थाजन्यैश् च सच्छिद्रादित्यादिदर्शनैः, तथा स्वप्नजैः खरवराहयुक्तरथारोहणादिज्ञानैः, तथा आकाशाद्यैश् च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राप्त्या युगान्तरप्राप्त्या देहे ऽनुपपद्यमानतया तथा मन्त्रौषधिबलैः प्रेक्षापूर्वकैः क्षुद्रकर्माद्यैः साक्षात् परम्परया वा देहे ऽनुपपद्यमानैर् वेद्यमानं हे मुनयः वित्त जानीत ॥ ३.१७०-१७३ ॥

किं च ।

अहंकारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः । ३.१७४अब्
इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ ३.१७४च्द्
स्वर्गः स्वप्नश् च भावानां प्रेरणं मनसो गतिः । ३.१७५अब्
निमेषश् चेतना यत्न आदानं पाञ्चभौतिकम् ॥ ३.१७५च्द्
यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः । ३.१७६अब्
तस्माद् अस्ति परो देहाद् आत्मा सर्वग ईश्वरः ॥ ३.१७६च्द्

अहंकृतिर् अहंकारः, स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्बोधनिबन्धना स्तन्यपानादिगोचरा, सुखम् ऐहिकम्, द्ःर्तिर् धैर्यम्, इन्द्रियान्तरेण हि दृष्टे ऽर्थे इन्द्रियान्तरस्य संचारो “यम् अहम् अद्राक्षं तम् अहं स्पृशामि” इत्येवमनुसन्धानरूप इन्द्रियान्तरसंचारः । अत्र इच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम् । पूर्वश्लोके तु गमनसत्यवचनादिहेतुतया आर्थिकं लिङ्गत्वम् इत्य् अपौनरुक्त्यम् । तथा धारणं शरीरस्य, जीवितं प्राणधारणम्, स्वर्गो नियतदेहान्तरोपभोग्यः सुखविशेषः, स्वप्नः प्रसिद्धः । पूर्वश्लोके तु स्वप्नस्य शुभफलद्योतनाय लिङ्गत्वं अत्र स्वरूपेणेत्य् अपौनरुक्त्यम् । तथा भावानाम् इन्द्रियादीनां प्रेरणम्, मनसो गतिश् चेतनाधिष्ठानव्याप्ता, निमेषः प्रसिद्धः, तथा पञ्चभूतानाम् उपादानम् । यस्माद् एतानि लिङ्गानि भूतेष्व् अनुपपन्नानि साक्षात् परम्परया वा परमात्मनो द्योतकानि दृश्यन्ते तस्माद् अस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् ॥ ३.१७४-१७६ ॥

क्षेत्रज्ञस्वरूपम् आह ।

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । ३.१७७अब्
अहंकारश् च बुद्धिश् च पृथिव्यादीनि चैव हि ॥ ३.१७७च्द्
अव्यक्तम् आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते । ३.१७८अब्
ईश्वरः सर्वभूतस्थः सन्न् असन् सद् असच् च यः ॥ ३.१७८च्द्

बुद्धीन्द्रियाणि श्रोत्रादीनि सार्थानि शब्दादिविषयसहितानि मनः कर्मेन्द्रियाणि वागादीनि तथ्आहंकारो बुद्धिश् च निश्चयात्मिका पृथिव्यादीनि पञ्चभूतान्य् अव्यक्तं प्रकृतिर् इत्य् एतत् क्षेत्रम् अस्य यो ऽसाव् ईश्वरः सर्वगतः, अत एव सद्रूपः, प्रमाणान्तराग्राह्यत्वात् । असन् अस्पष्टप्रतीतिकत्वात् । सदसद्रूपो ऽसाव् आत्मा क्षेत्रज्ञ इति निगद्यते ॥ ३.१७७ ॥ ३.१७८ ॥

बुद्ध्यादेर् उत्पत्तिम् आह ।

बुद्धेर् उत्पत्तिर् अव्यक्तात् ततो ऽहंकारसंभवः । ३.१७९अब्
तन्मात्रादीन्य् अहंकाराद् एकोत्तरगुणानि च ॥ ३.१७९च्द्

सत्त्वादिगुणसाम्यम् अव्यक्तम् । ततस् त्रिप्रकारायाः सत्त्वरजस्तमोमय्या बुद्धेर् उत्पत्तिः तस्याश् च वैकारिकस् तैजसो भूतादिर् इति त्रिविधो ऽहंकार उत्पद्यते । तत्र तामसाद् भूतादिसंज्ञकाद् अहंकारात् तन्मात्राण्य् आदिग्रहणाद् गगनादीनि तानि चैकोत्तरगुणान्य् उत्पद्यन्ते । चशब्दाद् वैकारिकतैजसाभ्यां बुद्धिकर्मेन्द्रियाणाम् उत्पत्तिः ॥ ३.१७९ ॥

गुणस्वरूपम् आह ।

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः । ३.१८०अब्
यो यस्मान् निःसृतश् चैषां स तस्मिन्न् एव लीयते ॥ ३.१८०च्द्

तेषां गगनादिपञ्चभूतानाम् एकोत्तरवृद्ध्या पञ्च शब्दादयो गुणा वेदितव्याः । एषां च बुद्ध्यादिविकाराणां मध्ये यो यस्मात् प्रकृत्यादेर् उत्पन्नः स तस्मिन्न् एव सूक्ष्मरूपेण प्रलयसमये प्रलीयते ॥ ३.१८० ॥

प्रकरणार्थम् उपसंहरन्न् आह ।

यथात्मानं सृजत्य् आत्मा तथा वः कथितो मया । ३.१८१अब्
विपाकात् त्रिप्रकाराणां कर्मणाम् ईश्वरो ऽपि सन् ॥ ३.१८१च्द्
सत्त्वं रजस् तमश् चैव गुणास् तस्यैव कीर्तिताः । ३.१८२अब्
रजस्तमोभ्याम् आविष्टश् चक्रवद् भ्राम्यते ह्य् असौ ॥ ३.१८२च्द्
अनादिर् आदिमांश् चैव स एव पुरुषः परः । ३.१८३अब्
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ ३.१८३च्द्

मानसादित्रिप्रकारकर्मणां विपाकाद् ईश्वरो ऽपि सन्न् आत्मा यथात्मानं सृजति तथा युष्माकं कथितः । सत्त्वाद्याश् च गुणास् तस्यैवाविद्याविशिष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्याम् आविष्टश् चक्रवद् इह संसारे भ्राम्यतीत्य् अपि कथितम् । स एवानादिः परमपुरुषः शरीरग्रहणेनादिमान् कुब्जवामनादिविकारसहितस् तथा स्थूलाकारतया परिणतो लिङ्गैर् इन्द्रियैश् च ग्राह्यस्वरूप उदाहृतः ॥ ३.१८१-१८३ ॥

स्वर्गमार्गम् आह ।

पितृयानो ऽजवीथ्याश् च यद् अगस्त्यस्य चान्तरम् । ३.१८४अब्
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ ३.१८४च्द्

अजवीथ्य् अमरमार्गः तस्यागस्त्यस्य च यद् अन्तरम् असौ पितृयानस् तेनाग्निहोत्रिणः स्वर्गकामाः दिवं यान्ति स्वर्गं प्राप्नुवान्ति ॥ ३.१८४ ॥

किं च ।

ये च दानपराः सम्यग् अष्टाभिश् च गुणैर् युताः । ३.१८५अब्
ते ऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ ३.१८५च्द्

ये च दानादिस्मार्तकर्मपराः सम्यग् दम्भरहिताः तथाष्टाभिर् आत्मगुणैर् “दया क्षान्तिर् अनसूया शौचम् अनायासो मङ्गलम् अकार्पण्यम् अस्पृहा” (ग्ध् ८.२३) इति गौतमादिप्रतिपादितैर् युक्ताः । तथा ये च सत्यवदननिरतास् ते ऽपि तेनैव पितृयानेनैव सुरसदनम् आप्नुवन्ति ॥ ३.१८५ ॥

ननु नैमित्तिकादिप्रतिसंचरे ऽखिलाध्यापकप्रलयाद् अविदितवेदास् तस्योपरितना जनाः कथम् अग्निहोत्रादिकं कर्म करिष्यन्ति कथंतरां चाकृतकर्माणः स्वर्गमार्गम् अधिरोक्ष्यन्ति, इत्य् अत आह ।

तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः । ३.१८६अब्
पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ ३.१८६च्द्

तत्र पितृयाने ऽष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे बीजभूताः सन्तो ऽग्निहोत्रादिधर्मप्रवर्तकाः, अतो न प्रागुदितदोषसमासङ्गः ॥ ३.१८६ ॥

किं च ।

सप्तर्षिनागवीथ्यन्तर् देवलोकं समाश्रिताः । ३.१८७अब्
तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ ३.१८७च्द्
तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । ३.१८८अब्
तत्र गत्वावतिष्ठन्ते यावद् आभूतसंप्लवम् ॥ ३.१८८च्द्

सप्तर्षयः प्रसिद्धाः, नागवीथ्य् ऐरावतपन्थाः, तदन्तराले तावन्त एव अष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठाः तपोब्रह्मचर्ययुक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिता आभूतसंप्लवं प्राकृतप्रलयपर्यन्तम् अवतिष्ठन्ते । तत्र च स्थिताः सृष्ट्यादाव् आध्यात्मिकधर्माणां प्रवर्तकाः ॥ ३.१८७ ॥ ३.१८८ ॥

कथंभूतास् ते मुनयः, इत्य् अत आह ।

यतो वेदाः पुराणानि विद्योपनिषदस् तथा । ३.१८९अब्
श्लोकाः सूत्राणि भाष्याणि यच् च किंचन वाङ्मयम् ॥ ३.१८९च्द्

यतो द्विविधाद् अपि मुनिसमूहाच् चत्वारो वेदाः पुराणाङ्गविद्योपनिषदश् च नित्यभूता एवाध्येतृपरम्परायाताः प्रवृत्तास् तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि च सूत्रव्याख्यारूपाणि यद् अन्यद् आयुर्विद्यादिकं वाङ्मयं तद् अपि यत्सकाशात् प्रवृत्तं तथाविधास् ते मुनयो धर्मप्रवर्तकाः । एवं सति वेदस्यापि नानित्यतादोषप्रसङ्गः ॥ ३.१८९ ॥

ततः किम्, इत्य् अत आह ।

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः । ३.१९०अब्
श्रद्धोपवासः स्वातन्त्र्यम् आत्मनो ज्ञानहेतवः ॥ ३.१९०च्द्

वेदस्य नित्यत्वे सति तत्प्रामाण्यबलाद् वेदानुवचनादयः सत्त्वशुद्ध्यापादनद्वारेणात्मज्ञानस्य हेतव इत्य् उपपन्नं भवति ॥ ३.१९० ॥

किं च ।

स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु । ३.१९१अब्
द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥ ३.१९१च्द्
य एनम् एवं विन्दन्ति ये चारण्यकम् आश्रिताः । ३.१९२अब्
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ ३.१९२च्द्

यस्मान् नित्यतयात्मप्रमाणभूतो वेदस् तस्माद् असाव् उक्तमार्गेण सकलाश्रमिभिर् नानाप्रकारं जिज्ञासितव्यः । तम् एव प्रकारं दर्शयति द्विजातिभिर् द्रष्टव्यो ऽपरोक्षीकर्तव्यः । तत्रोपायं दर्शयति, “श्रोतव्यो मन्तव्यः” इति । प्रथमतो वेदान्तश्रवणेन निर्णेतव्यः । तदनन्तरं मन्तव्यः युक्तिभिर् विचारयितव्यः । ततो ऽसौ ध्यानेनापरोक्षीभवति । ये द्विजातयो ऽतिशयश्रद्धायुक्ताः सन्तो निर्जनप्रदेशम् आश्रिताः सन्त एवम् उक्तेन मार्गेण एनम् आत्मानं सत्यं पर्मार्थभूतम् उपासते ते आत्मानं विदन्ति लभन्ते प्राप्नुवन्ति ॥ ३.१९१ ॥ ३.१९२ ॥

प्राप्तिमार्गं देवयानम् आह ।

क्रमात् ते सम्भवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम् । ३.१९३अब्
अयनं देवलोकं च सवितारं सवैद्युतम् ॥ ३.१९३च्द्
ततस् तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् । ३.१९४अब्
करोति पुनर् आवृत्तिस् तेषाम् इह न विद्यते ॥ ३.१९४च्द्

ते विदितामानः क्रमाद् अग्न्याद्यभिमानिदेवतास्थानेषु मुक्तिमार्गभूतेषु विश्राम्य तैः प्रस्थापिताः परमपदं प्राप्नुवन्ति । अर्चिर् वह्निः, अहर् दिनं, शुक्लपक्षः, तथोत्तरायणं, सुरसद्म, सविता सूर्यः, वैद्युतं च तेजः तान् एवं क्रमाद् अर्चिरादिस्थानगतान् मानसः पुरुषो ब्रह्मलोकभाजः करोति । तेषाम् इह संसारे पुनर् आवृत्तिर् न विद्यते किं तु प्राकृतप्रतिसंचरावसरे त्यक्तलिङ्गशरीराः परमात्मन्य् एकीभवन्ति ॥ ३.१९३ ॥ ३.१९४ ॥

पूर्वोक्तपितृयानम् आह ।

यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः । ३.१९५अब्
धूमं निशां कृष्णपक्षं दक्षिणायनम् एव च ॥ ३.१९५च्द्
पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् । ३.१९६अब्
क्रमात् ते सम्भवन्तीह पुनर् एव व्रजन्ति च ॥ ३.१९६च्द्
एतद् यो न विजानाति मार्गद्वितयम् आत्मवान् । ३.१९७अब्
दन्दशूकः पतङ्गो वा भवेत् कीटो ऽथ वा कृमिः ॥ ३.१९७च्द्

ये पुनर् विहितैर् मार्गैर् यज्ञदानतपोभिः स्वर्गफलभोक्तारस् ते क्रमाद् धूमादिचन्द्रपर्यन्तपदार्थाभिमानिनीर् देवताः प्राप्य पुनर् एव वायुवृष्टिजलभूमीः प्राप्य व्रीह्याद्यन्नरूपेण शुक्रत्वम् अवाप्य संसारिणो योनिं व्रजन्ति । एतन् मार्गद्वयं प्रमत्तो यो न विजानाति मार्गद्वयोपायभूतधर्मानुष्ठानं न करोत्य् असौ दन्दशूको भुजङ्गः, पतङ्गः शलभः, कृमिः कीटो वा भवेत् ॥ ३.१९५-१९७ ॥

उपासनाप्रकारम् आह ।

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् । ३.१९८अब्
उत्तानं किंचिद् उन्नाम्य मुखं विष्टभ्य चोरसा ॥ ३.१९८च्द्
निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशन् । ३.१९९अब्
तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः ॥ ३.१९९च्द्
संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः । ३.२००अब्
द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत् ॥ ३.२००च्द्
ततो ध्येयः स्थितो यो ऽसौ हृदये दीपवत् प्रभुः । ३.२०१अब्
धारयेत् तत्र चात्मानं धारणां धारयन् बुधः ॥ ३.२०१च्द्

ऊरुस्थाव् उत्तानौ चरणौ यस्य स तथोक्तः बद्धपद्मासनः । तथोत्ताने सव्यकरे दक्षिणम् उत्तानं न्यस्य मुखं किंचिद् उन्नाम्योरसा च विष्टभ्य स्तम्भयित्वा तथा निमीलिताक्षः सत्त्वस्थः कामक्रोधादिरहितो दन्तैर् दन्तान् असंस्पृशन् तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः । तथा संवृतास्यः पिहिताननः सुनिश्चलो निष्प्रकम्पः तथा सम्यग् इन्द्रियसमूहं विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्युच्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासम् उपक्रमेत् । ततो वशीकृतपवनेन योगिना यो ऽसौ हृदये दीपवद् अप्रकम्पः प्रभुः स्थितो ऽसौ ध्यातव्यः । तत्र च हृद्य् आत्मानं मनोगोचरतया धारयेत् । धारणाम् अवधारयन् । धारणास्वरूपं च । जान्वग्रभ्रमणेन च्छोटिकादानकालो मात्रा । ताभिः पञ्चदशमात्राभिर् अधमः प्राणायामः । त्रिंशद्भिर् मध्यमः । पञ्चचत्वारिंशद्भिर् उत्तमः । एवं प्राणायामत्रयात्मिकैका धारणा । तास् तिस्रो योगशब्दवाच्यास् ताश् च धारयेत् । यथोक्तम् अन्यत्र-

संभ्रम्य च्छोटिकां दद्यात् कराग्रं जानुमण्डले ।
मात्राभिः पञ्चदशभिः प्राणायामो ऽधमः स्मृतः ॥
मध्यमो द्विगुणः श्रेष्ठस् त्रिगुणो धारणा तथा ।
त्रिभिस् त्रिभिः स्मृतैकैका ताभिर् योगस् तथैव च ॥ इति ॥ ३.१९८ -२०१ ॥

धारणात्मकयोगाभ्यासे प्रयोजनम् आह ।

अन्तर्धानं स्मृतिः कान्तिर् दृष्टिः श्रोत्रज्ञता तथा । ३.२०२अब्
निजं शरीरम् उत्सृज्य परकायप्रवेशनम् ॥ ३.२०२च्द्
अर्थानां छन्दतः सृष्टिर् योगसिद्धेर् हि लक्षणम् । ३.२०३अब्
सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते ॥ ३.२०३च्द्

अणिमप्राप्त्या परैर् अदृश्यत्वम् अन्तर्धानम् । स्मृतिर् अतीन्द्रियेष्व् अर्थेषु मन्वादेर् इव स्मरणम् । कान्तिः कमनीयता । दृष्टिर् अतीतानागतेष्व् अप्य् अर्थेषु । तथा श्रोत्रज्ञता अतिदवीयसि देशे ऽभिव्यज्यमानतया श्रोत्रपथम् अनासेदुषाम् अपि शब्दानां ज्ञातृता । निजशरीरत्यागेन परशरीरप्रवेशनम् । स्ववाञ्छावशेनार्थानां कारणनिरपेक्षतया सृष्टिर् इत्य् एतद् योगस्य सिद्धेर् लक्षणं लिङ्गम् । न चैतावद् एव प्रयोजनं किं तु “सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते” ब्रह्मत्वप्राप्तये च प्रभवति ॥ ३.२०२ ॥ ३.२०३ ॥

यज्ञदानाद्यसंभवे सत्त्वशुद्धाव् उपायान्तरम् आह ।

अथ वाप्य् अभ्यसन् वेदं न्यस्तकर्मा वने वसन् । ३.२०४अब्
अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात् ॥ ३.२०४च्द्

अथ वा त्यक्तकाम्यनिषिद्धकर्मा अन्यतमं वेदम् अभ्यसन् एकान्तशीलो ऽयाचितमिताशनापादितसत्त्वशुद्धिर् आत्मोपासनेन परां मुक्तिलक्षणां सिद्धिं प्राप्नोति ॥ ३.२०४ ॥

किं च ।

न्यायागतधनस् तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः । ३.२०५अब्
श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि हि मुच्यते ॥ ३.२०५च्द्

सत्प्रतिग्रहादिन्यायेनोपार्जितधनो ऽतिथिपूजातत्परः नित्यनैमित्तिकश्राद्धानुष्ठाननिरतः सत्यवदनशीलः सन्न् आत्मतत्त्वध्याननिरतो गृहस्थो ऽपि हि यस्मान् मुक्तिम् अवाप्नोति तस्मान् न केवलम् ऐहिकपारिव्राज्यपरिग्रह एव मुक्तिसाधनम् ॥ ३.२०५ ॥

इत्य् अध्यात्मप्रकरणम्

**अथ प्रायश्चित्तप्रकरणम् **

“वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः” (य्ध् १.१) इत्य् अत्र प्रतिपाद्यतया प्रतिज्ञातषड्विधधर्ममध्ये पञ्चप्रकारं धर्मम् अभिधायाधुनावशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्तपदाभिलप्यं प्रारिप्सुः प्रथमतस् तत्प्ररोचनार्थम् अधिकारिविशेषप्रदर्शनार्थं चार्थवादरूपं कर्मविपाकं तावद् आह ।

महापातकजान् घोरान् नरकान् प्राप्य दारुणान् । ३.२०६अब्
कर्मक्षयात् प्रजायन्ते महापातकिनस् त्व् इह ॥ ३.२०६च्द्

ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा “ब्रह्महा मद्यपः” (य्ध् ३.२२७) इत्य् अत्र वक्ष्यते तद्योगिनो महापातकिनस् ते महापातकजनितांस् तामिस्रादिनरकान् स्वजनितदुष्कृतानुरूपान् घोरान् अतितीव्रवेदनापादकत्वेनातिभयंकरान् दारुणान् दुःखैकभोगनिलयान् प्राप्य कर्मक्षयात् कर्मजन्यनरकदुःखोपभोगक्षयाद् अनन्तरं कर्मशेषात् पुनर् इह संसारे दुःखबहुलश्वसृगालादितिर्यग्योनिषु प्रकर्षेण भूयो भूयो जायन्ते । महापातकिग्रहणम् इतरेषाम् अप्य् उपपातक्यादीनाम् उपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्तेर् वक्ष्यमाणत्वात् ॥ ३.२०६ ॥

महापातकिनां संसारप्राप्तिम् उक्त्वा तद्विशेषकथनायाह ।

मृगश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति । ३.२०७अब्
खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ ३.२०७च्द्
कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । ३.२०८अब्
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ ३.२०८च्द्

मृगा हरिणादयः, श्वसूकरोष्ट्राः प्रसिद्धाः, तेषां योनिं ब्रह्महा स्वकर्मशेषेण प्राप्नोति । खरो रासभः, पुल्कसः प्रतिलोमनिषादेन शूद्र्यां जातः, वैदेहकेनाम्बष्ट्यां जातो वेणस्, तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीयसंभोगनिरपेक्षां मांसविष्टागोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः पिपीलिकादयः कीटाः, पतङ्गाः शलभाः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मलते प्रागुक्ते, तज्जातीयतां क्रमेण गुरुतल्पगः प्राप्नोति । एतच् चाकामकृतविषयम् । कामकारकृते त्व् अन्यास्व् अपि दुःखबहुलयोनिषु संसरन्ति । यथाह मनुः ।

श्वसूकरखरोष्ट्राणां गोऽवाजिमृगपक्षिणां ।
चण्डालपुक्कसानां च ब्रह्महा योनिम् ऋच्छति ॥
कृमिकीटपतंगानां विड्भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥

लूतोर्णनाभः । सरठः कृकलासः ।

तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणाम् अपि ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ इति ॥ (म्ध् १२.५५–५८) ३.२०७–८ ॥

_किं च _।[^४४]

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः । ३.२०९अब्
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ ३.२०९च्द्
यो येन संवसत्य् एषां स तल्लिङ्गो ऽभिजायते । ३.२१०अब्

एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखम् अनुभूयानन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः प्रचुरेषु मानवशरीरेषु संसरन्ति । ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापः स्वभावतः कृष्णदशनः । ब्राह्मणहेम्नो हर्ता कुत्सितनखत्वम् । गुरुदारगामी दुश्चर्मत्वं कुष्ठिताम् । एतेषां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति स तल्लिङ्गो’भिजायते । ॥ ३.२०९ ॥

किं च ।

अन्नहर्तामयावी स्यान् मूको वागपहारकः ॥ ३.२१०च्द्
धान्यमिश्रो ऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । ३.२११अब्
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस् तु सूचकः ॥ ३.२११च्द्

अन्नस्यापहर्ता आमयाव्य् अजीऋणान्नः । वागपहारको ऽननुज्ञाताध्यायी पुस्तकापहारी च मूको वागिन्द्रियविकलो भवेत् । धान्यमिश्रो ऽतिरिक्ताङ्गः षडङ्गुल्यादिः पिशुनो विद्यमानपरदोषप्रख्यापनशीलः । पूतिनासिकः दुर्गन्धनासिकः तैलस्य हर्ता तैलपायी कीटविशेषो भवति । सूचको ऽसद्दोषसंकीर्तनो दुर्गन्धिवदनो जायते । एतच् च तिर्यक्त्वप्राप्त्युत्तरकालं मनुषरीरप्राप्तौ द्रष्टव्यम्,

यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ (म्ध् १२.६८)

इति मनुस्मरणात् ॥ ३.२१० ॥ ३.२११ ॥

किं च ।

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च । ३.२१२अब्
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ ३.२१२च्द्

[^४५]यः परदारान् अपहरति, ब्रह्मस्वं च सुवर्णव्यतिरिक्तम् अपहरति, असाव् अरण्ये निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ॥ ३.२१२ ॥

किं च ।

हीनजातौ प्रजायेत पररत्नापहारकः । ३.२१३अब्
पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान् ॥ ३.२१३च्द्

हीनजातौ हेमकाराख्यायां पक्षिजातौ पररत्नाद्यपहारको जायते । तथा च मनुः ।

मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधाणि च रत्नानि जायते हेमकर्तृषु ॥ इति । (म्ध् १२.६९)

पत्रात्मकं शाकं हृत्वा मयूरः । शुभान् गन्धान् अपहृत्य छुच्छुन्दरी राजदुहिताख्या मूषिका जायते ॥ ३.२१३ ॥

किं च ।

मूषको धान्यहारी स्याद् यानम् उष्ट्रः कपिः फलम् । ३.२१४अब्
जलं प्लवः पयः काको गृहकारी ह्य् उपस्करम् ॥ ३.२१४च्द्
मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा । ३.२१५अब्
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ ३.२१५च्द्

धान्यहार्य् आखुः, यानं हृत्वोष्ट्रः, फलं वानरः, जलं प्लवः शकटविलाख्यः पक्षी, पयः क्षीरं काको ध्वाङ्क्षः, गृहोपस्करं मुसलादि हृट्वा गृहकारी चटकाख्यः कीटविशेषः, मधु हृत्वा दांशाख्यः कीटः, पलं मांसं तद् धृत्वा गृध्राख्यः पक्षी, गां हृत्वा गोधाख्यः प्राणिविशेषः, अग्निं हृत्वा बकाख्यः पक्षी, वस्त्रं हृत्वा श्वित्री, इक्ष्वादिरसं हृत्वा सारमेयः, लवणहारी चीर्याख्य उच्चैःस्वरः कीटः ॥ ३.२१४ ॥ ३.२१५ ॥

एवं प्रदर्शनार्थं किंचिद् उक्त्वा प्रतिद्रव्यं पृष्टाकोटिन्यायेन वक्तुम् अशक्तेर् एकोपाधिना कर्मविपाकं दर्शयितुम् आह ।

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि । ३.२१६अब्
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ ३.२१६च्द्

द्रव्यस्यापह्रियमाणस्य याद्दृशाः प्रकारास् तादृशा एव प्राणिजातयः स्तेयकर्मण्य् अपहर्तारो भवन्ति । यथा कांस्यहारी हंस इति । अथ वा यत्फलसाधनं द्रव्यम् अपहरति तत्साधनविकलो यथा पङ्गुताम् अश्वहारक इति । शङ्खेन क्वचिद् विशेषो दर्शितः ।

ब्रह्महा कुष्ठी, तैजसापहारी मण्डली, देवब्राह्मणाक्रोशकः खलतिः, गरदाग्निदाव् उन्मत्तौ, गुरुं प्रतिहन्तापस्मारी, गोघ्नश् चान्धः, धर्मपत्नीं त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः, कुण्डाशी भगभक्षो, देवब्रह्मस्वहारी पाण्डुरोगी, न्यासापहारी च काणः, स्त्रीपण्योपजीवी षण्ढः, कौमारदारत्यागी दुर्भगः, मिष्टैकाशी वातगुल्मी, अभक्ष्यभक्षको गण्डमाली, ब्राह्मणीगामी निर्बीजी, क्रूरकर्मा वामन्ः, वस्त्रापहारी पतंगः, शय्यापहारी क्षपणकः, शन्खशुक्त्यपहारी कपाली, दीपापहारी कौशिकः, मित्रध्रुक् क्षयी, मातापित्रोर् आक्रोशः खञ्जकः । इति ।

गौतमो ऽपि क्वचिद् विशेषम् आह ।

अनृतवाग् उल्बलः मुहुर् मुहुः संलग्नवाक्, दारत्यागी जलोदरी, कूटसाक्षी श्लीपदी उच्छिन्नजङ्घाचरणः, विवाहविघ्नकर्ता छिन्नोष्ठः, अवगूरणः छिन्नहस्तः, मातृघ्नो ऽन्धः, स्नुषागामी वातवृषणः, चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री, कन्यादूषकः षण्ढः, ईर्ष्यालुर् मशकः, पित्रा विवदमानो ऽपस्मारी, न्यासापहार्य् अनपत्यः, रत्नापहार्य् अत्यन्तदरिद्रः, विद्याविक्रयी पुरुषमृगः, वेदविक्रयी द्वीपी, बहुयाजको जलप्लवः, अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायसः, मृष्टैकभोजी वानरः, यतस्ततो ऽश्नन् मार्जारः, कक्षवनदहनात् खद्योतः, दारकाचार्यो मुखविगन्धिः, पर्युषितभोजी कृमिः, अदत्तादायी बलीवर्दः, मत्सरी भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्यः श्वपाकः, गोहर्ता सर्पः, स्नेहापहारी क्षयी, आन्नापहार्य् अजीर्णी, ज्ञानापहारी मूकः, चण्डालीपुल्कसीगमने अजगरः, प्रव्रजितागमने मरुपिशाचः, शूद्रीगमने दीर्घकीटः, सवर्णाभिगामी दरिद्रः, जलहारी मत्स्यः, क्षीरहारी बलाकः, वार्धुषिको ऽङ्गहीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशको गर्दभः, गोगामी मण्डूकः, अनध्यायाध्यने सृगालः, परद्रव्यापहारी परप्रेष्यः, मस्त्यवधे गर्भवासि, इत्य् एते ऽनूर्ध्वगमनाः । इति ॥ (नोत् इन् ग्ध्)

स्त्रियो ऽप्येतेषु निमित्तेषु पूर्वोक्तास्व् एव जातिषु स्त्रीत्वम् अनुभवन्ति । यथाह मनुः ।

स्त्रियो ऽप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः ।
एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥ इति । (म्ध् १२.६९)

एतच् च क्षयित्वादिलक्षणकथनं प्रायश्चित्तोन्मुखीभूतब्रह्महाद्युद्वेगजननार्थं न पुनः क्षयित्वादिलक्षणयुक्तानां द्वादशवार्षिकादिव्रतप्राप्त्यर्थं संसर्गनिवृत्त्यर्थं वा । तथा हि पापक्षयार्थं प्रायश्चित्तम् । न च प्रायश्चित्तेन प्रारब्धफलपापापूर्वविनाशे किंचन प्रयोजनम् अस्ति । न हि कार्मुकनिर्मुक्तो बाणो लक्ष्यवेधे वेद्धुस् तद्व्यापारस्य वा सत्तान्तरं पुनर् अपेक्षते । न च तदारब्धफलनाशार्थो ऽपूर्वनाशो ऽन्वेषणीयः । न हि निमित्तकारणीभूतचक्रचीवरादिविनाशेन तदारब्धकरकादिविनाशः । न च नैसर्गिकं कौनख्यादिकं प्रत्यानेतुं शक्यते । किं च नरकतिर्यग्योन्यादिजन्यदुःखपरम्पराम् अनुभूतस्य हि कौनख्यादिको विकारश् चरमं फलम् । तेन चोत्पन्नमात्रेण स्वकारणापूर्वनाशो जन्यते मन्थनजनिताशुशुक्षणिनेवारणिक्षयः । तस्मान् न पापविनाशार्थं व्रतपरिचर्या नापि संव्यवहारार्थम् । न हि शिष्टाः कुनख्यादिभिः सह संबन्धं परिहरन्ति । प्राचीनक्षयात् पापनाशेन संव्यवहार्यत्वस्यापि सिद्धेर् नार्थो व्रतचर्यया । यत्तु वसिष्ठेनोक्तम् “कुनखी श्यावदन्तश् च कृच्छ्रं द्वादशरात्रं चरेत्” (वध् २०.६) इति तत्क्षामवत्यादिवन् नैमित्तिकमात्रं न पुनः पापक्षयार्थं संव्यवहार्यत्वसिद्ध्यर्थं वेति मन्तव्यम् ॥ ३.२१६ ॥

किं च ।

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् । ३.२१७अब्
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ ३.२१७च्द्

यथाकर्म स्वकृततदुष्कृतानतिक्रमेण तदनुरूपं नरकादि फलं तिर्यक्त्वं च प्राप्य कालक्रमेण क्षीणे कर्मणि दुष्टलक्षणा दरिद्राश् च पुरुषेषु निकृष्टा जायन्ते ॥ ३.२१७ ॥

किं च ।

ततो निष्कल्मषीभूताः कुले महति भोगिनः । ३.२१८अब्
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ ३.२१८च्द्

ततो दुर्लक्षणमनुष्यजन्मानन्तरं निष्कल्मषीभूता नरकाद्युपभोगद्वारेण क्षीणपापाः प्राग्भवीयसुकृतशेषेण महाकुले भोगसम्पन्नाः विद्याधनधान्यसंपन्ना जायन्ते ॥ ३.२१८ ॥

एवं प्राय्श्चित्तेषु प्ररोचनार्थं कर्मविपाकम् अभिधायाधुना तेष्व् एवाधिकारिणं निरूपयितुम् आह ।

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् । ३.२१९अब्
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ ३.२१९च्द्
तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । ३.२२०अब्
एवम् अस्यान्तरात्मा च लोकश् चैव प्रसीदति ॥ ३.२२०च्द्

विहितम् इति यद् आवश्यकं संध्योपासनाग्निहोत्रादिकं नित्यम् अशुचिस्पर्शादौ नैमित्तिकत्वेन चोदितं स्नानादिकं च तद् उभयम् उच्यते, तस्याकरणात् निन्दितस्य निषिद्धस्य सुरापानादेः करणाद् इन्द्रियाणाम् अनिग्रहाच् च नरः पतनम् ऋच्छति प्राप्नोति । प्रत्यवायी भवतीति यावत् ।

ननु निद्रियार्थेषु सर्वेषु न प्रसज्येत कामत इति इन्द्रियप्रसक्तेर् अपि निषिद्धत्वान् निन्दितग्रहणेनैव गतार्थत्वात् किमर्थम् “अनिग्रहाच् चेन्द्रियाणाम्” इति पृथग् उपादानम् ।
अत्रोच्यते- इन्द्रियप्रसक्तिनिषेधस्य नैकान्ततः प्रतिषेधरूपता स्नातकव्रतमध्ये ऽस्य पाठात् तत्र च “व्रतानीमानि धारयेत्” इति व्रतशब्दाधिकारान् नञ्श्रवणाच् चेन्द्रियप्रसक्तिप्रतिषेधकः संकल्पो विधीयते । स च भावरूप इति पृथग् उपादानम् । ननु विहिताकरणात् प्रत्यवैतीति कुतो ऽवसितम् । न तावद् अग्निहोत्रादिचोदना पुरुषप्रवर्तनात्मिकाननुष्ठानस्य प्रत्यवायहेतुताम् आक्षिपति । विषयानुष्ठानस्य पुरुषार्थत्वावगतिमात्रपर्यवसायिनी हि सा तावन्मात्रेण प्रवृत्त्युपपत्तेर् न पुनर् अकरणस्य प्रत्यवायहेतुत्वम् अपि वक्ति, क्षीणशक्तित्वाद् अनुपपत्तेः । किं च, यद्य् अनुपपत्त्युपशमेति प्रवृत्तिसिद्ध्यर्थम् अर्थान्तरं कल्प्यते तर्हि निषिद्ध्यमानक्रियाजन्यप्रत्यवायपरिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धाव् अपि फलान्तरं कल्पयेत । न चैतत् कस्यचिद् अपि संमतम् ।
ननु यथा निषिद्धेष्व् अर्थवादावगतप्रत्यवायपरिहार्थतयैव पुरुषार्थत्वं तथा विहितेष्व् अप्य् अर्थवादावगताकरणजन्यप्रत्यवायपरिहारार्थता कस्मान् न स्यात् ।
मैवम् । न हि सर्वत्राग्निहोत्रादिषु तादृग्विधार्थवादाः सन्ति । न च “विहितस्याननुष्ठानान् नरः पतनम् ऋच्छति” इतीयं स्मृतिर् एव वाक्यशेषस्थानीयेति चतुरस्रम् । न हि वाक्यान्तरप्रमिते कार्ये वाक्यान्तरेणार्थवादः संभवति । भवतु वा कथंचिद् एकवाक्यतयार्थवादस् तथापि नाभावरूपं विहिताकरणे कार्यान्तरं जनयितुं क्षमते ।
ननु “ज्वरे चैवातिसारे च लङ्घनं परमौषधम्” इत्य् आयुर्वेदवचनाद् भोजनाभावरूपं लङ्घनं ज्वरशान्तिं जनयतीति यथावगम्यते तथात्रापि भवतु ।
मैवम्, यतो नात्रापि लङ्घनाज् ज्वरशान्तिः ।
किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलपरिपाकजनिताद् धातुसाम्याद् इति मन्तव्यम् । तस्मात् विहितस्याननुष्ठानान् नरः पतनम् ऋच्छति इति कथम् अस्याः स्मृतेर् गतिर् इति वाच्यम् ।
उच्यते । अग्निहोत्रादिविषयाधिकारासिद्धिरूपप्रत्यवायाभिप्रायेणेति न दोषः ।
ननु,
वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ॥
मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ॥ इति । (म्ध् १२.७१–७२)

एतानि विहिताकरणप्रत्यवायपराणि मनुवचनानि कथं घटन्ते ।

उच्यते । यथा वान्तम् अश्नत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितम् अकुर्वतः पुरुषस्य पुरुषार्थासिद्धेर् इत्य् अकरणनिन्दनम् अनुष्ठानप्ररोचनार्थम् इत्य् अविरोधः । यद् वा प्राग्भवीयनिषिद्धाचरणाक्षिप्तविहितानुष्ठानविरोधिरागालस्यादिजन्यवान्ताश्युल्कामुख-प्रेतत्वादिरूपम् इति न क्वचिद् अभावस्य कारणतेति मन्तव्यम् ।
ननु पुंश्चलीवानरखरदृष्ट(श्वदष्ट)मिथ्याभिशस्तादौ विहिताकरणादिनिमित्तानाम् अन्यतमस्याप्य् अभावात् कथं प्रत्यवायिता, कथं च तदभावे प्रायश्चित्तविधानम् ।
उच्यते । अस्माद् एव पापक्षयार्थप्रायश्चित्तविधानाज् जन्मान्तराचरितनिषिद्धसेवादिजन्यपापापूर्वं समाक्षिप्तम् इत्य् अभिशापादिकं तन्निमित्तप्रायश्चित्तापनोद्यम् अनेनानुष्ठितम् इति कल्प्यते । पुरुषप्रयत्ननैर् अपेक्ष्येण कार्यरूपपापोत्पत्त्यनुपपत्तेः । न च पुंश्चल्यादिगतप्रयत्नेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायित्वनियमाद् धर्माधर्मयोः, तस्माद् युक्तैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथा च मनुः ।
अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसक्तश् चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ इति । (म्ध् ११.४४)

नरगरहणं प्रतिलोमजातानाम् अपि प्रायश्चित्ताधिकारप्राप्त्यर्थम्, तेषाम् अप्य् अहिंसादिसाधारणधर्मव्यतिक्रमसंभवात् । यस्माद् एवं निषिद्धाचरणादिना प्रत्यवैति तस्मात् तेन कृतनिषिद्धसेवादिना पुरुषेण प्रायश्चित्तं कर्तव्यम् इह लोके परत्र च विशुद्ध्यर्थम् । प्रायश्चित्तशब्दश् चायं पापक्षयार्थे निमित्तिके कर्मविशेषे रूढः । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्धतया प्रसीदति, लोकश् च संव्यवहर्तुं प्रसीदति । एवं वदतैतद् दर्शितम् । नैमित्तिको ऽयं प्रायश्चित्ताधिकारः, तत्र चार्थवादगतदुरितक्षयो ऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते । न च दुरितपरिजिहासुनानुष्टीयत इत्य् एतावता कामाधिकाराशङ्का कार्या । यस्मात्,

चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ऽनिष्कृतैनसः ॥ इति । (म्ध् ११.५४)

इत्य् अकरणे दोषश्रवणेनावश्यकत्वावगमात् ॥ ३.२१९ ॥ ३.२२० ॥

प्रायश्चित्ताकरणे दोषम् आह ।

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । ३.२२१अब्
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान् ॥ ३.२२१च्द्

पापेषु शास्त्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषा अपश्चात्तापिनो “मया दुष्कृतं कृतम्” इत्य् एवम् उद्वेगरहिताः प्रायश्चित्तम् अकुर्वाणाः दुःसहान् नरकान् प्राप्नुवन्ति ॥ ३.२२१ ॥

नरकस्वरूपं विवृण्वन्न् आह ।

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली । ३.२२२अब्
रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ ३.२२२च्द्
संघातं लोहितोदं च सविषं संप्रपातनम् । ३.२२३अब्
महानरककाकोलं संजीवनमहापथम् ॥ ३.२२३च्द्
अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च । ३.२२४अब्
असिपत्रवनं चैव तापनं चैकविंशकम् ॥ ३.२२४च्द्
महापातकजैर् घोरैर् उपपातकजैस् तथा । ३.२२५अब्
अन्विता यान्त्य् अचरितप्रायश्चित्ता नराधमाः ॥ ३.२२५च्द्

तामिस्रप्रभृतींस् तपनपर्यन्तान् एकविंशतिनरकान् अन्वर्थसंज्ञाद्योतितावान्तरभेदान् महापातकोपपातकजनितभयंकरदुरितैर् अन्विता अनाचरितप्रायश्चित्ताः पुरुषाधमाः प्राप्नुवन्ति ॥ ३.२२२-२२५ ॥

उपात्तदुरितनाशार्थं प्रायश्चित्तम् इत्य् उक्तम् । तत्र विशेषम् आह ।

प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत् । ३.२२६अब्
कामतो व्यवहार्यस् तु वचनाद् इह जायते ॥ ३.२२६च्द्

प्रायश्चित्तैर् वक्ष्यमाणलक्षणैर् अज्ञाद् यद् एनः पापं कृतं तद् अपैति गच्छति न कामतः कृतं । किं तु तत्र प्रायश्चित्तविधायकवचनबलाद् इह लोके व्यवहार्यो जायते । अत्र च “प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतम्” इत्य् उपक्रमात् तत्प्रतियोगितया “ज्ञानतः” इति वक्तव्ये यत् “कामतः” इत्य् उक्तं, तत् ज्ञानकामयोस् तुल्यत्वप्रदर्शनार्थम् । तथा हि,

विहितं यद् अकामानां कामात् तद्द्विगुणं भवेत् ।

तथाबुद्धिपूर्वक्रियायाम् अर्धं प्रायश्चित्तम्, तथा,

म्लेच्छेनाधिगतः शूद्रस् त्व् अज्ञानात् तु कथंचन ।
कृच्छ्रत्रयं प्रकुर्वीत ज्ञानात् तु द्विगुणं भवेत् ॥

इत्यादिभिर् वचनैर् ज्ञानकामनयोस् तुल्यप्रायश्चित्तदर्शनात् तुल्यफलतैव । किं च, स्वतन्त्रप्रवृत्तिर् विषयज्ञानकामनाभ्यां नियताः, तयोर् अन्यतरापाये ऽपि तस्या असंभवाद् अतः “कामतः” इत्य् उक्तम् । “ज्ञानाज्ञानतः” इत्य् उक्ते ऽपि कामः प्राप्नोत्य् अविनाभावात् । न च चौरादिभिर् बलात् प्रवर्त्यमानस्य सत्य् अपि विषयज्ञाने कामनाभावान् नाविनाभाव इति वाच्यम् । यतो ऽत्र विद्यमानस्यापि ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्समत्वम् । यत् तु शुष्के ऽपि पिपतिषोर् भ्रान्त्या कर्दमपतनं, तत्रापि वास्तवज्ञानाभावात् तद्विषयकामनायाश् चाभाव एव । एवम् अज्ञानाकामनयोर् अप्य् अव्यभिचार एव ।

ननु “प्रायश्चित्तैर् अपैत्येनः” इति न युक्तम्, फलविनाश्यत्वात् कर्मणः ।
मैवम्, यथा पापोत्पत्तिः शास्त्रगम्या तथा तत्परिक्षयो ऽपीति नात्र प्रमाणान्तरं क्रमते । अत एव गौतमेन पूर्वोत्तरपक्षभङ्ग्या अयमर्थो दर्शितः । “तत्र प्रायश्चित्तं कुर्यान् न कुर्याद् इति मीमांसन्ते । न कुर्याद् इत्य् आहुः । न हि कर्म क्षीयते इति । कुर्याद् इत्य् अपरे । पुनःस्तोमेनेष्ट्वा पुनःसवनम् आयान्तीति विज्ञायते । व्रात्यस्तोमेनेष्ट्वा तरति सर्वं पाप्मानं तरति भ्रूणहत्यां यो ऽश्वमेधेन यजते” (ग्ध् १९.३–९) इति । पुनःसवनम् आयान्ति इति सवनसंपाद्यज्योतिष्टोमादिद्विजातिकर्मणि योग्यो भवतीत्य् अर्थः । न चेदम् अर्थवादमात्रम् । अधिकारिविशेषणाकाङ्क्षायां रात्रिसत्रन्यायेनार्थवादिकफलस्यैव कल्पनाया न्याय्यत्वात्, अतो युक्तं “प्रायश्चित्तैर् अपैत्येनः” इति ।
ननु कामकृते प्रायश्चित्ताभावात् कथं व्यवहार्यत्वं तदभावश् च “अनभिसंधिकृते ऽपराधे प्रायश्चित्तम्” इति (वध् २०.१) वसिष्ठवचनात्,
इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ (म्ध् ११.९०)

इति मनुवचनाच् चावगम्यते ।

नैतत्
यः कामतो महापापं नरः कुर्यात् कथंचन ।
न तस्य निष्कृतिर् दृष्टा भृग्वग्निपतनाद् ऋते ॥

इति, तथा

विहितं यद् अकामानां कामात् तद्द्विगुणं भवेत् ।

इति च, कामकृते ऽपि प्रायश्चित्तदर्शनात् । यत् तु वसिष्ठवचनं तस्याप्य्।

अकामकृते ऽपराधे प्रायश्चित्तं शुद्धिकरम् ।

इत्य् अभिप्रायो न पुनः कामकृते प्रायश्चित्ताभाव इति । यत् तु मनुवचनं “इयं विशुद्धिर् उदिता” इत्यादि, तद् अपीयम् इति सर्वनामपरामृष्टद्वादशवार्षिकादिव्रतचर्याया एव । “कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते” इत्य् अनेन प्रतिषेधो न पुनः प्रायश्चित्तमात्रस्य, मरणान्तिकादेः प्रायश्चित्तस्य दर्शितत्वात् ।

ननु यदि कामकृते ऽपि प्रायश्चित्तम् अस्ति तर्हि पापक्षयो ऽपि कस्मान् न स्याद् अविशेषाद्, यदि पापक्षयो ऽपि नास्ति तर्हि व्यवहार्यतापि कथं भवति ।
उच्यते । उभयत्र प्रायश्चित्ताविशेषे ऽपि फलविशेषः शास्त्रतो ऽवगम्यते । अज्ञातकृते तु सर्वत्र पापक्षयः । यत्र तु “ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबद्धागस्तेननास्तिकनिन्दितकर्माभ्यासि-पतितताग्यपतितत्यागिनः पतिताः पातकसंयोजकाश् च” इति (ग्ध् २१.१–२) गौतमोक्तमहापातकादौ व्यवहार्यत्वं निषिद्धं, तस्मिन् पतनीये कर्मणि कामतः कृते व्यवहार्यत्वमात्रं न पापक्षय इति । न च पापक्षयाभावे व्यवहार्यत्वम् अनुपपन्नम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका चेति । तत्रेतरशक्त्यविनाशे ऽपि व्यवहारनिरोधिकायाः शक्तेर् विनाशो नानुपपन्नस् तस्मात् पापानपगमे ऽपि व्यवहार्यत्वं नानुपपन्नम् । यत् तु मनुवचनम्,
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।
कामकारकृते’प्याहुरेके श्रुतिनिदर्शनात् ॥ (म्ध् ११.४५)

इति, तद् अपि कामकृते प्रायश्चित्तप्राप्त्यर्थं न पुनः पापक्षयप्रतिपादनपरम् । अपतनीये पुनः कामकृते ऽपि प्रायश्चित्तेन पापक्षयो भवत्य् एव,

अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ (म्ध् ११.४६)

इति मनुस्मरणात् । पतनीये ऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्तेषु कल्मषक्षयो भवत्य् एव, फलान्तराभावात् । “नास्यास्मिंल् लोके प्रत्यापत्तिर् विद्यते कल्मषं तु निहन्यते” इत्य् (आप्ध् १.२४.२५) आपस्तम्बस्मरणात् ॥ ३.२२६ ॥

निषिद्धाचरणादिकं प्रायश्चित्ते निमित्तम् इत्य् उक्तं तत्पञ्चयितुम् आह ।

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः । ३.२२७अब्
एते महापातकिनो यश् च तैः सह संवसेत् ॥ ३.२२७च्द्

हन्तिर् अयं प्राणवियोगकरे व्यापारे रूढः । यद् व्यापारसमनन्तरं कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति, सः । ब्राह्मणं हतवान् इति ब्रह्महा । मद्यपो निषिद्धसुरायाः पाता । स्तेनः ब्राह्मणसुवर्णस्य हर्ता, “ब्राह्मणसुवर्णापहरणं महापातकं” इत्य् आपस्तम्बस्मरणात् । गुरुतल्पगो गुरुभार्यागामी । तल्पशब्देन शयनवाचिना साहचर्याद् भार्या लक्ष्यते । एते ब्रह्महादयो महापातकिनः । पातयन्तीति पातकानि ब्रह्महत्यादीनि । महच्छब्देन तेषां गुरुत्वं ख्याप्यते तद्योगिनो ँँमहापातकिनँँ इति । लाघवार्थं संज्ञाकरणम् । यश् च तैर् ब्रह्महादिभिः प्रत्येकं सह संवसति “एभिस् तु संवसेद् यो वै वत्सरं सो ऽपि तत्समः” य्ध् ३.२६६) इति वक्ष्यमाणन्यायेन सो ऽपि महापातकी । तथाशब्दः प्रकारवचनो ऽनुग्राहकप्रयोजकादिकर्तृसंग्रहार्थः । अनुग्राहकश् च यः पलायमानम् अमित्रं उपरुन्धन् परेभ्यश् च हन्तारं परिरक्षन् हन्तुर् द्रढिमानम् उपजनयन्न् उपकरोति स उच्यते । अत एव मनुनानुग्राहकस्य हिंसाफलसंबन्धो दर्शितः ।

बहूनाम् एककार्याणां सर्वेषां शस्त्रधारिणाम् ।
यद्य् एको घातयेत् तत्र सर्वे ते घातकाः स्मृताः ॥ इति ।

तथा प्रयोजकादीनाम् अप्य् आपस्तम्बेन फलसंबन्ध उक्तः “प्रयोजितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु यो भूय आरभते तस्मिन् फलविशेषः” (नोत् इन् आप्ध्) इति तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः । स च त्रिप्रकारः- आज्ञापयिताभ्यर्थयमान उपदेष्टेति । तत्राज्ञापयिता नाम स्वयम् उच्चः सन् नीचं भृत्यादिकं यः प्रेरयति मदीयम् अमित्रं जहीति स उच्यते । अभ्यर्थयमानस् तु यः स्वयम् असमर्थः सन् प्रार्थनादिना मच्छत्रुं व्यापादयेत्य् उच्चं प्रवर्तयति सो ऽभिधियते । अनयोश् च स्वार्थसिद्ध्यर्थम् एव प्रयोक्तृत्वम् । उपदेष्टा पुनस् त्वं शत्रुम् इत्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरं प्रेरयन् कथ्यते । तत्र च प्रयोज्यगतम् एव फलम् इति तेषां भेदः । अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः । स द्विप्रकारः- कश्चित् स्वार्थसिद्ध्यर्थम् अनुजानाति कश्चित् परार्थम् इति ॥

ननु अनुमननस्य कथं हिंसाहेतुत्वं, न तावत् प्राणवियोगोत्पादनेन, तस्य साक्षात्कर्तृव्यापारजन्यत्वात् । नापि प्रयोजकस्येव, साक्षात्कर्तृप्रवृत्त्युत्पादनद्वारेण प्रवृत्तस्य प्रवर्तकत्वात् । न च साधु त्वयाध्यवसितम् इति प्रवृत्तम् एवानुमन्यत इति शङ्कनीयम् । तादृशस्यानुमननस्य हिंसां प्रत्यहेतुत्वाद् व्यर्थत्वाच् च ।
उच्यते । यत्र हि राजादिपारतन्त्र्यात् स्वयं मनसा प्रवृत्तो ऽपि प्रवृत्तिविच्छेदभयाद् आगामिदण्डभयाद् वा शिथिलप्रयत्नो राजाद्यनुमतिम् अपेक्षते तत्रानुमतिर् हन्तुः प्रवृत्तिम् उपोद्बलयन्ती हिंसाफलं प्रति हेतुतां प्रतिपद्यते । तथा यो ऽपि भर्त्सनताडनधनापहारादिना परान् कोपयति सो ऽपि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसाहेतुर् भवत्य् एव । अत एव विष्णुनोक्तम् ।
आक्रुष्टस् ताडितो वापि धनैर् वा विप्रयोजितः ।
यम् उद्दिश्य त्यजेत् प्राणांस् तम् आहुर् ब्रह्मघातकम् ॥ इति ।

तथा,

ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थम् एव च ।
यम् उद्दिश्य त्यजेत् प्राणांस् तम् आहुर् ब्रह्मघातकम् ॥ इति ।

न च कृतेष्व् अप्य् आक्रोशनादिषु कस्यचिन् मन्यूत्पत्त्यदर्शनाद् अकारणतेति शङ्कनीयम्, पुरुषस्वभाववैचित्र्यात् । ये अल्पतरेणापि निमित्तेन जातमन्यवो भवन्ति तेष्व् अव्यभिचार इति नाकारणता । एतेषां चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलगुरुलाघवात् प्रायश्चित्तगुरुलाघवं बोद्धव्यम्, “यो भूय आरभते तस्मिन् फलविशेषः” इति वचनात् । तथा ह्य् अनुग्राहकस्य तावत् स्वयम् एव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्य् अपि साक्षात् प्राणवियोगफलकखङ्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्तृवद् भूयो हिंसारम्भकत्वाभावाद् अल्पफलत्वम् अल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यवहितत्वात् ततो ऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्त्वेनोपदेष्टुर् अल्पफलत्वम् । ननु प्रयोजकहस्तस्थानीयत्वात् प्रयोज्यस्य न फलसंबन्धो युक्तः । यदि परप्रयुक्त्या प्रवर्तमानस्यापि संबन्धस् तर्हि स्थपतितडागखनितृप्रभृतीनाम् अपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते । शास्त्रोक्तं फलं प्रयोक्तरीति न्यायेनाधिकारिकर्तृगतफलजनका देवकूपतडागनिर्माणादयः । न च स्थपतितडागखनित्रादयो देवकूपतडागकरणादिष्व् अधिकारिणः, अस्वर्गकामित्वात् । अत्र पुनः परप्रयुक्त्या प्रवर्तमानानाम् अप्य् अहिंसायाम् अधिकारित्वाद् भवत्य् एव तद्व्यतिक्रमनिबन्धनो दोषः । अनुमन्तुस् तु प्रयोजकाद् अप्य् अल्पफलत्वं प्रयोजकव्यापाराद् बहिरङ्गत्वाल् लघुत्वाच् चानुमननस्य । निमित्तकर्तुः पुनर् आक्रोशकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन व्यवहितत्वान् मरणानुसंधानं विना प्रवृत्तत्वाच् चानुमन्तुः सकाशाद् अप्य् अल्पफलत्वम् ।

ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोर् अपि हन्तृपुरुषोत्पादनद्वारेण हननकर्तृत्वप्रसङ्गः ।
उच्यते । न हि पूर्वभावित्वमात्रेण कारणत्वम् कारणतयापि तथाभावित्वोपपत्तेः । यत् खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद् धि कारणम् । यदि रथन्तरसामा सोमः स्याद् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति रथन्तरसामतेव क्रतोर् ऐन्द्रवायवाग्रतायां कारणं । न हि तत्र सोमयागः स्वरूपेण कारणं व्यभिचारात् । न च पित्रोस् तादृग्विधकारणलक्षणयोगित्वम् इति नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतितब्राह्मणादिमरणे खानयितुर् दोषाभावः । न हि कूपो ऽनेन खातितो ऽतो ऽहम् आत्मानं व्यापादयामीत्य् एवं कूपखनननिमित्तं व्यापादनं यथाक्रोशादौ । अतः कूपकर्तुर् अपि कारणकारणत्वम् एव न पुनर् हिंसाहेतुत्वम् इति मातापितृतुल्यतैव । तथा क्वचित् सत्य् अपि हिंसानिमित्तयोगित्वे परोपकारार्थप्रवृत्तौ वचनाद् दोषाभावः । यथाह संवर्तः ।
बन्धने गोश् चिकित्सार्थे मूड्ःअगर्भविमोचने ।
यत्ने कृते विपत्तिश् चेत् प्रायश्चित्तं न विद्यते ॥
औषधं स्नेहम् आहारं ददद् गोब्राह्मणादिषु ।
दीयमाने विपत्तिः स्यान् न स पापेन लिप्यते ॥
दाहच्छेदशिराभेदप्रयत्नैर् उपकुर्वताम् ।
प्राणसंत्राणसिद्ध्यर्थं प्रायश्चित्तं न विद्यते ॥ इति ।

एतच् चादाननिदाननिपुणभिषग्विषयम् । इतरस्य तु “भिषङ् मिथ्याचरन् दाप्यः” (य्ध् २.१४२) इत्य् अत्र दोषो दर्शितः । यत्र तु मन्युनिमित्ताकोशनादिकम् अकुर्वतो ऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति तत्रापि न दोषः,

अकारणं तु यः कश्चिद् द्विजः प्राणान् परित्यजेत् ।
तस्यैव तत्र दोषः स्यान् न तु यं परिकीर्तयेत् ॥

इति स्मरणात् ॥ तथा यत्राप्य् आक्रोशकादिजनितमन्युर् आत्मानं खड्गादिना प्रहृत्य मरणाद् अर्वाग् आक्रोशनादिकर्त्रा धनदानादिना संतोषितो यदि जनसमक्षम् उच्चैः श्रावयति नात्राक्रोशकस्यापराध इति तत्रापि वचनान् न दोषः । यथाह विष्णुः ।

उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत् पुनः ।
तस्मिन् मृते न दोषो ऽस्ति द्वयोर् उच्छ्रावणे कृते ॥ इति ।

एतेषां च प्रयोजकादिना दोषगुरुलघुभावपर्यालोचनया प्रायश्चित्तविशेषं वक्ष्यामः ॥ ३.२२७ ॥

ब्रह्महत्यासमान्य् आह ।

गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः । ३.२२८अब्
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम् ॥ ३.२२८च्द्

गुरुणाम् आधिक्येनाधिक्षेपो ऽनृताभिशंसनम् । “गुरोर् अनृताभिशंसनम् इति महापातकसमानि” (ग्ध् २१.१०) इति गौतमस्मरणात् । एतच् च लोकाविदितदोषाभिशंसनविषयम्, “दोषं बुद्ध्वा न पूर्वः परेषां समाख्याता स्यात् संव्यवहारे चैनं परिहरेत्” (आप्ध् १.२१.२०) इत्य् आपस्तम्बस्मरणात् । नास्तिक्याभिनिवेशेन वेदकुत्सनस् । सुहृन् मित्रं तस्याब्राह्मणस्यापि वधः । अधीतस्य वेदस्यासच्छास्त्रविनोदेनालस्यादिना वा नशनं विस्मरणम् । एतानि प्रत्येकं ब्रह्महत्यासमानि । यत् पुनः “स्वाध्यायाग्निसुतत्यागः” (य्ध् ३.२३९) इत्य् अधीतत्यागस्योपपातकमध्ये परिगणनं, तत् कथंचित् कुटुम्बभरणाकुलतयासच्छास्त्रश्रवणव्यग्रतया वा विस्मरणे द्रष्टव्यम् ॥ ३.२२८ ॥

सुरापानसमान्य् आह ।

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचो ऽनृतम् । ३.२२९अब्
रजस्वलामुखास्वादः सुरापानसमानि तु ॥ ३.२२९च्द्

निषिद्धं लशुनादिकं तस्य मतिपूर्वं भक्षणम् । अत एव मनुः ।

छत्त्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेन् नरः ॥ इति । (म्ध् ५.१९)

अमतिपूर्वे तु प्रायश्चित्तान्तरम्,

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ (म्ध् ५.२०)

इति तेनैवोक्तत्वात् । जैह्मयं कौटिल्यं अन्याभिसंधानेनान्यवादित्वम् अन्यकर्तृत्वं च । अत्र च जैह्मयम् इति यद्य् अपि सामान्येनोक्तं तथापि प्रायश्चित्तस्य गुरुत्वान् निमित्तस्यापि गुरुविषयं जैह्मयम् इति गौरवं गम्यते । अस्ति च नैमित्तिकपर्यालोचनया निमित्तस्य विशेषावगतिः । यथा यस्योभावग्न्य् अनुमतौ स्यातां दुष्टौ भवेताम् अभिनिम्लोचेतां वा पुनर् आधेयं तत्र प्रायश्चित्तिर् इत्य् अत्रोभाव् इत्य् अस्य निमित्तविशेषणत्वेन हविर् उभयत्वाद् अविवक्षितत्वे ऽप्य् अग्निद्वयनिष्पादकपुनराधेयरूपनैमित्तिकविधिबलाद् अग्निद्वयानुगतिर् एव निमित्तम् इति कल्प्यते तथात्रापीति युक्तं निमित्तगौरवकल्पनम् । तथा समुत्कर्षनिमित्तं राजकुलादाव चतुर्वेद एव चतुर्वेदो ऽहम् इत्य् अनृतभाषणम् । रजस्वलाया (कामवशेन) वक्त्रासवसेवनम् । एतानि सुरापानसमानि ॥ ३.२२९ ॥

सुवर्णस्तेयसमान्य् आह ।

अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा । ३.२३०अब्
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसंमितम् ॥ ३.२३०च्द्

अश्वादीनां ब्राह्मणसंबन्धिना निक्षेपस्य च सुवर्णव्यतिरिक्तस्यापहरणम् एतत् सर्वं सुवर्णस्तेयसमं वेदितव्यम् ॥ ३.२३० ॥

गुरुतल्पसमान्य् आह ।

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च । ३.२३१अब्
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ ३.२३१च्द्

सखा मित्रं तस्य भार्या कुमार्य् उत्तमजातीया कन्यका तासु ।

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः ।
दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ (य्ध् २.२८८)

इति तत्रैव दण्डविशेषप्रतिपादनात् प्रायश्चित्तगुरुत्वं युक्तम् । स्वयोनिर् भगिनी, अन्त्यजा चाण्डाली, सगोत्रा समानगोत्रा, सुतस्त्री स्नुषा, एतासां गमनं प्रत्येकं गुरुतल्पसमम् । एतच् च रेतःसेकाद् ऊर्ध्वं वेदितव्यम् । अर्वाङ् निवृत्तौ तु न गुरुतल्पसमत्वं किंत्व् अल्पम् एव प्रयाश्चित्तम्,

रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ (म्ध् ११.५९)

इति मानवे रेतःसेक इति विशेषणोपादानात् । सगोत्राग्रहणेनैव सिद्धे पुनः सुतस्त्रीग्रहणं प्रायश्चित्तगौरवप्रतिपादनार्थम् । अत्र च ब्रह्महत्यादिसमत्ववचनं गुर्वधिक्षेपादेस् तत्तन्निमित्तप्रायश्चित्तोपदेशार्थम् ।

ननु वेदनिन्दादौ दोषस्य लघुत्वाद् गुरुतरं ब्रह्महत्यादिप्रायश्चित्तं न युज्यते ।
मैवम्, गुरुप्रायश्चित्तोपदेशबलाद् एव दोषगुरुत्वावगतेः । न च ब्रह्महत्यादिप्रायश्चित्तातिदेशार्थम् एवेदं वचनं न भवति, किं तु दोषगौरवमात्रप्रतिपादनपरम् इत्य् आशङ्कनीयम् । यतस् तावन्मात्रप्रतिपादनपरत्वे ब्रह्महत्यासमम् इदं गुरुतल्पसमम् इत्यादिभेदेन समत्वाभिधानं नोपपद्यते । तच् च प्रायश्चित्तं समशब्देनोपदिश्यमानं ब्रह्महत्यादिप्रायश्चित्तेभ्यः किंचिन् न्यूनम् एवोपदिश्यते । लोके राजसमो मन्त्री इत्यादिवाक्येषु समशब्दस्य किंचिद्धीने प्रयोगदर्शनात् महतः पातकस्येतरस्य च तुल्यत्वस्यायुक्तत्वाच् च । एवं च सति याज्ञवल्क्येन ब्रह्महत्यासमत्वेनोक्तानाम् अपि ब्रह्मोज्झत्ववेदनिन्दासुहृद्वधानां मनुना यत् सुरापानसाम्यम्,
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितान्नाज्ययोर् जग्धिः सुरापानसमानि षट् ॥ (म्ध् ११.५७)

इत्य् उक्तं तत् प्रायश्चित्तविकल्पार्थम् । एवम् अन्येष्व् अपि वचनेषु विरोधः परिहर्तव्यः । यत् तु वसिष्ठेन “गुरोर् अलीकनिर्बन्धे कृच्छ्रं द्वादशरात्रकं चरित्वा सचैलः स्नातो गुरुप्रसादात् पूतो भवति” (वध् २१.२८) इति लघुप्रायश्चित्तम् उक्तं, तद् अमतिपूर्वं सकृदनुष्ठाने च वेदितव्यम् ॥ ३.२३१ ॥

गुरुतल्पानिदेशम् आह ।

पितुः स्वसारं मातुश् च मतुलानीं स्नुषाम् अपि । ३.२३२अब्
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥ ३.२३२च्द्
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः । ३.२३३अब्
लिङ्गं छित्त्वा वधस् तस्य सकामायाः स्त्रिया अपि ॥ ३.२३३च्द्

पितृष्वस्रादयः प्रसिद्धास् ताः गच्छन् गुरुतल्पगस् तस्य लिङ्गं छित्त्वा राज्ञा वधः कर्तव्यो दण्डार्थं प्रायश्चित्तं च तद् एव । चशब्दाद् राज्ञीप्रव्रजितादीनां ग्रहणम् । यथाह नारदः ।

माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥ (न्स्म् १२.७२–७४) इति ।

राज्ञी राज्यस्य कर्तुर् भार्या न क्षत्रियस्यैव, तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यतिरिक्ता स्तन्यदानादिना पोषयित्री । साध्वी व्रतचारिणी । वर्णोत्तमा ब्राह्मणी, अत्र मातृग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य्,

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् । (म्ध् ८.३८०)

इति तस्य वधनिषेधात्, वधस्यैव प्रायश्चित्तरूपत्वात् । अस्य च विषयं गुरुतलप्रायश्चित्तप्रकरणे प्रपञ्चयिष्यामः । अत्र स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनर्ग्रहणं प्रायश्चित्तविकल्पार्थम् । यदा पुनर् एताः स्त्रियः सकामाः सत्य एतान् एव पुरुषान् वशीकृत्योपभुञ्जन्ते तदा तासाम् अपि पुरुषवद् वध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वधिक्षेपादितनयागमपर्यन्तानि महापातकातिदेशविषयाणि सद्यःपतनहेतुत्वात् पातकान्य् उच्यन्ते । यथाह यमः ।

मातृष्वसा मातृसखी दुहिता च पितृष्वसा ।
मातुलानी स्वसा श्वश्रूर् गत्वा सद्यः पतेन् नरः ॥ इति ।

गौतमेन पुनर् अन्येषां अपि पातकत्वम् उक्तम् । “मातृपितृयोनिसंबद्धाङ्गस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश् च” (ग्ध् २१.१२) इति । तेषां च महापातकोपपातकमध्यपाठान् महापातकान् न्यूनत्वम् उपपातकाच् च गुरुत्वम् अवगम्यते । तद् उक्तम् ।

महापातकतुल्यानि पापान्य् उक्तानि यानि तु ।
तानि पातकसम्ज्ञानि तन्न्यूनम् उपपातकम् ॥ इति ।

तथा चाङ्गिराः ।

पातकेषु सहस्रं स्यान् महत्सु द्विगुणं तथा ।
उपपापे तुरियं स्यान् नरकं वर्षसंख्यया ॥ इति ॥ ३.२३२ ॥ ३.२३३ ॥

एवं महापातकानि तत्समानि च पातकानि परिगणय्योपपातकानि परिगणयितुम् आह ।

गोवधो व्रात्यता स्तेयम् ऋणानां चानपक्रिया । ३.२३४अब्
अनाहिताग्नितापण्यविक्रयः परिदेवनम् ॥ ३.२३४च्द्
भृताद् अध्ययनादानं भृतकाध्यापनं तथा । ३.२३५अब्
पारदार्यं पारिवित्त्यं वार्द्धुष्यं लवणक्रिया ॥ ३.२३५च्द्
स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् । ३.२३६अब्
नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः ॥ ३.२३६च्द्
धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम् । ३.२३७अब्
पितृमातृसुतत्यागस् तडागारामविक्रयः ॥ ३.२३७च्द्
कन्यासंदूषणं चैव परिविन्दकयाजनम् । ३.२३८अब्
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ ३.२३८च्द्
आत्मनो ऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । ३.२३९अब्
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ ३.२३९च्द्
इन्धनार्थं द्रुमछेदः स्त्रीहिंसौषधजीवनम् । ३.२४०अब्
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥ ३.२४०च्द्
शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् । ३.२४१अब्
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥ ३.२४१च्द्
असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता । ३.२४२अब्
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥ ३.२४२च्द्

गोवधो गोपिण्डव्यापादनम्, काले ऽनुपनीतत्वं व्रात्यता, ब्राह्मणसुवर्णतत्समव्यतिरिक्तपरद्रव्यापहरणं स्तेयम्, गृहीतस्य सुवर्णादेर् अप्रदानम्, ऋणानाम् अनपाकरणम्, तथा देवर्षिपितॄणां संबन्ध्यृणस्यानपाकरणं च, सत्य् अधिकारे ऽनाहिताग्नित्वम् ।

ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्गभूताग्निनिष्पत्त्यर्थम् आधानं प्रयुञ्जत इति मीमांसकप्रसिद्धिर् अतश् च यस्याग्निभिः प्रयोजनं तस्य तदुपायभूताधाने प्रवृत्तिर् वीह्याद्यर्थिन इव धनार्जने । यस्य पुनर् अग्निभिः प्रयोजनं नास्ति तस्याप्रवृत्तिर् इति कथम् अनाहिताग्नितादोषः ।
उच्यते । अस्माद् एवाधानस्यावश्यकत्ववचनान् नित्यश्रुतयो ऽपि साधिकारित्वाविशेषाद् आधानस्य प्रयोजिका इति स्मृतिकाराणाम् अभिप्रायो लक्ष्यत इत्य् अदोषः । तथा अपण्यस्य लवणादेर् विक्रयः, सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर् दाराग्निसंयोगः परिवेदनम्, पणपूर्वाध्यापकाद् अध्ययनग्रहणम्, पणपूर्वाध्यापनम्, परदारसेवनं गुरुदारतत्समव्यतिरेकेण, पारिवित्त्यं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम्, वार्धुष्यं प्रतिषिद्धवृद्ध्युपजीवनम्, लवणक्रिया लवणस्योत्पादानम्, स्त्रिया वधो ऽब्राह्मण्या अप्य् आत्रेयीव्यतिरेकेण, शूद्रवधः, अदीक्षितविट्क्षत्रियवधः, निन्दितार्थोपजीवनम् अराजस्थापितार्थोपजीवनम्, नास्तिक्यं नास्ति परलोक इत्याद्यभिनिवेशः, व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः, सुतानाम् अपात्यानां विक्रयः, धान्यं व्रीह्यादि, कुप्यम् असारद्रव्यं त्रपुसीसादि, पशवो गवादयस् तेषाम् अपहरणम् । “गोवधो व्रात्यता स्तेयम्” इत्य् अनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं नित्यार्थम् । अतो धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यम् एतद् एव प्रायश्चित्तम् अपि तु ततो न्यूनम् अपि भवत्य् एव । एतेन बान्धवत्यागग्रहणेनैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम् । अयाज्यानां जातिकर्मदुष्टानां शूद्रव्रात्यादीनां याजनम्, पितृमातृसुतानाम् अपतितानां त्यागो गृहान् निष्कासनम्, तडागस्यारामस्य चोद्यानोपवनादेर् विक्रयः । कन्याया संदूषणम् अङ्गुल्यादिना योनिविदारणं न तु भोगः, तस्य सखिभार्याकुमारीष्व् इति गुरुतल्पगसमत्वस्योक्तत्वात् । परिविन्दकयाजनं तस्य च कन्याप्रदानम् । कौटिल्यं गुरोर् अन्यत्र, गुरुविषयस्य तु कौटिल्यस्य सुरापानसमत्वम् उक्तम् । पुनर् व्रतलोपग्रहणम् अशिष्टाप्रतिषिद्धेष्व् अपि श्रीहरिचरणकमलप्रेक्षणात् प्राक् ताम्बूलादिकं न भक्षयामीत्य् एवंरूपेषु प्राप्त्यर्थं न तु स्नातकव्रतप्राप्त्यर्थम् । तत्र,
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् । (म्ध् ११.२०४)

इति मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात् । तथात्मार्थं च पाकलक्षणक्रियारम्भः,

अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् । (म्ध् ३.११८)

इति तस्यैव प्रतिषिद्धत्वात् । क्रियामात्रविषयत्वे तु प्रतिषेधकल्पनाया गौरवं स्यात् । मद्यपायाः स्त्रियाः जायाया अपि निषेवणम् उपभोगः । स्वाध्यायत्यागो व्याख्यातः । अग्नीनां च श्रौतस्मार्तानां त्यागः, सुतत्यागः संस्काराद्यकरणम्, बान्धध्वानां पितृव्यमातुलादीनां त्यागः सति विभवे अपरिरक्षणम्, पाकादिदृष्टप्रयोजनसिद्ध्यर्थम् आर्द्रद्रुमच्छेदो न त्व् आहवनीयपरिरक्षणार्थम् अपि, स्त्रिया हिंसया औषधेन च वर्तनं जीवनं स्त्रीहिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भार्यां पण्यभावेन प्रयोज्य तल्लब्धोपजीवनम्, स्त्रीधनेनोपजीवनं वा । हिंसस्या जीवनं प्राणिवधेन जीवनम् । औषधजीवनं वशीकरणादिना । हिंसयन्त्रस्य तिलेक्षुपीडाकारस्य प्रवर्तनम् । व्यसनानि मृगयादीन्य् अष्टादश । आत्मविक्रयो द्रव्यग्रहणेन परदास्यकरणम् । शूद्रसेवनं हीनेषु मैत्रीकरणम् । अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनं साधारणस्त्रीसंभोगश् च । अनाश्रमवासो ऽगृहीताश्रमित्वं सत्य् अधिकारे । परान्नपरिपुष्टता परपाकरतित्वम् । असच्छास्त्रस्य चार्वाकादिग्रन्थस्याधिगमः । सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम् । भार्याया विक्रयः । चशब्दान् मन्वाद्युक्ताभिचारामतिपूर्वलशुनादिभक्षणादेर् ग्रहणम् । एषां गोवधादीनां प्रत्येकम् उपपातकसंज्ञा वेदितव्या । मनुना पुनर् अन्यान्य् अपि निमित्तानि जातिभ्रंशकरसंकरीकरणापात्रीकरणमलिनीकरणसंज्ञानि परिगणितानि ।

ब्राह्मणस्य रुजः कृत्या घ्रातिर् अघ्रेयमद्ययोः ।
जैह्म्यं पुंसि च मैथुनं जातिभ्रंशकरं स्मृतम् ॥
खराश्वोष्ट्रमृगेभानाम् अजाविकवधस् तथा ।
संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ॥
कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
फलैधःकुसुमस्तेयम् अधैर्यं च मलावहम् ॥ इति ॥ (म्ध् ११.६८–७१)

अतो ऽन्यन् निमित्तजातं प्रकीर्णकं कथ्यते । बृहद्विष्णुना च समस्तानि प्रायश्चित्तनिमित्तान्य् उत्तरोत्तरं लघीयांसि पृथक्संज्ञाभेदभिन्नानि दर्शितानि- “ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णापहरणं गुरुदारगमनम् इति महापातकानि, तत्संयोगश् च । मातृगमनं दुहितृगमनं स्नुषागमनम् इत्य् अतिपातकानि । यागस्थक्षत्रियवधो वैश्यस्य च रजस्वलायाश् चान्तर्वत्न्याश् चासगोत्रायाश् चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि । कौटसाक्ष्यं सुहृद्वध इत्य् एतौ सुरापानसमौ । ब्राह्मणस्य भूमिहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलनृपपत्न्यभिगमनं गुरुदारगमनसमम्, पितृष्वसृमातृष्वसृगमनं श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च । स्वसुः सख्याः सगोत्राया उत्तमवर्णाया रजस्वलायाः शरणागतायाः प्रव्रजितायाः निक्षिप्तायाश् च गमनम् इत्य् एतान्य् अनुपातकानि । अनृतवचनं समुत्कर्षे राजगामि च पैशुनम्, गुरोश् चालीकनिर्बन्धो वेदनिन्दा अधीतस्य त्यागो ऽग्निपितृमातृसुतदाराणां च । अभोज्यान्नभक्षणं परस्वापहरणं परदारानुगमनम् अयाज्यानां च याजनं व्रात्यता भृतकाध्यापनं भृतकाध्ययनादानं सर्वाकरेष्व् अधिकारो महायन्त्रप्रवर्तनं द्रुमगुल्मलतौषधीनां हिंसया जीवनम् अभिचारमूलकर्मसु च प्रवृत्तिर् आत्मार्थक्रियारम्भो ऽनाहिताग्निता देवर्षिपितॄणाम् ऋणस्यानपक्रिया असच्छास्त्राधिगमनं नास्तिकता कुशीलता मद्यपस्त्रीनिषेवणम् इत्य् उपपातकानि । ब्राह्मणस्य रुजःकरणम् अघ्रेयमद्ययोर् घ्रातिर् जैह्मयं पशुषु पुंसि च मैथुनाचरणम् इत्य् एतानि जातिभ्रंशकराणि । ग्राम्यारण्यपशूनां हिंसनं संस्करीकरणम् । निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनं असत्यभाषणम् शूद्रसेवनम् इत्य् अपात्रीकरणानि । पक्षिणां जलचराणां जलजानां च घातनं कृमिकीटघातनं मद्यानुगतभोजनम् इति मलावहानि । यद् अनुक्तं तत् प्रकीर्णकम्” । इति । कात्यायनेन तु महापातकसमानां विष्नुनाप्य् उपपातकत्वेनोक्तानां पातकसंज्ञा दर्शिता ।

महापापं चातिपापं तथा पातकम् एव च ।
प्रासङ्गिकं चोपपापम् इत्य् एवं पञ्चको गणः ॥ इति ।

ननु उपपातकादीनां कथं पातकत्वं पतनहेतुत्वाभावात् । यदि तेषाम् अपि पतनहेतुत्वं तर्हि “मातृपितृयोनिसंबन्ध्ँँआङ्ग्ँँअः” इत्यादिपरिगणनम् अनर्थकम् ।

अथैवम् उच्यते । यद्य् अपि महापातकतत्समेष्व् इव सद्यःपातित्यहेतुत्वं नास्ति तथाप्य् अभ्यासापेक्षया पातित्यहेतुत्वम् अविरुद्धम् । “निन्दितकर्माभ्यासी[^४६]” (ग्ध् २१.१) इति गौतमवचनाद् इति ।
मैवम्, अभ्यासस्यानिरूप्यमाणत्वात् । द्विः शतकृत्वो वेति तत्राविशेषे ऽङ्गीक्रियमाणे यो ऽपि द्विर् दिवा स्वपिति यः शतकृत्वो वा गोवधं करोति तयोर् अविशेषेण पातित्यं स्यात् । अत्रोच्यते । यत्रार्थवादे प्रत्यवायविशेषः श्रूयते प्रायश्चित्तबहुत्वं वा तस्मिन् निन्दितकर्मणि यावत्य् अभ्यस्यमाने महापातकतुल्यत्वं भवति तावान् अभ्यासः पातित्यहेतुः । दिवास्वप्नादौ तु सहस्रकृत्वो ऽप्य् अभ्यस्यमाने न महापातकतुल्यत्वं भवतीति न तत्र पातित्यम् । अतो युक्तम् उपपातकादेर् अभ्यासापेक्षया पतनहेतुत्वम् ॥ ३.२३४-२४२ ॥

एवं व्यवहारार्थं संज्ञाभेदसहितं प्रायश्चित्तनिमित्तपरिगणनं कृत्वा नैमित्तिकानि प्रदर्शयितुम् आह ।

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ३.२४३अब्
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिम् आप्नुयात् ॥ ३.२४३च्द्

शिरसः कपालम् अस्यास्तीति शिरःकपाली । तथा ध्वजवान् “कृत्वा शवशिरोध्वजम्” (म्ध् ११.७३) इति मनुस्मरणात् । अन्यच्छिरःकपालं दण्डाग्रसमारोपितं ध्वजशब्दवाच्यं गृह्णीयात् । तच् च कपालं स्वव्यापादितब्राह्मणशिरःसंबन्धि ग्राह्यम्, “ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालम् आदाय तीर्थान्य् अनुसंचरेत्” इति शातातपस्मरणात् । तदलाभे ऽन्यस्यैव ब्राह्मणस्य ग्राह्यम् । एतद् उभयं पाणिनैव ग्राह्यम्, “खट्वाङ्गकपालपाणिः” (ग्ध् २२.४) इति गौतमस्मरणात् । खट्वाङ्गशब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते, न पुनः खट्वैकदेशः, “महोक्षः खट्वाङ्गं परशुः” इत्यादिव्यवहारेषु तस्यैव प्रसिद्धेः । एतच् च कपालधारणं चिह्नार्थं न पुनर् भोजनार्थं भिक्षार्थं वा, “मृन्मयकपालपाणिर् भिक्षायै ग्रामं प्रविशेत्” (ग्ध् २२.४) इति गौतमस्मरणात् । तथा वनवासिना च तेन भवितव्यम्,

ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् । (म्ध् ११.७३)

इति मनुस्मरणात् । ग्रामसमीपादौ वा,

कृतवापनो निवसेद् ग्रामान्ते गोव्रजे ऽपि वा ।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ (म्ध् ११.७९)

इति तेनैवोक्तत्वात् । “कृतवापनो वा” इति विकल्पाभिधानाज् जटी वेति लक्ष्यते । अत एव संवर्तः ।

ब्रह्म्हा द्वादशाब्दानि बालवासा जटी ध्वजी । इति ।

तथा भिक्षाशनशिलश् च भवेत् । भिक्षा च लोहितकेन मृन्मयखण्डशरावेण ग्राह्या, “लोहितकेन खण्डशरावेण ग्रामं भिक्षायै प्रविशेत्” (आप्ध् १.२४.१४) इत्य् आपस्तम्बस्मरणात् । सप्तागाराण्य् एवान्नम् इष्टं लभ्येत वा न वेत्य् एवम् असंकल्पितानि भिक्षार्थं प्रविशेत् “सप्तागाराण्य् असंकल्पितानि चरेद् भैक्षम्” (वध् १०.७) इति वसिष्ठस्मरणात् । तथैकाल एव सा ग्राह्या, “एककालाहारः” इति (नोत् इन् वध्) तेनैवोक्तत्वात् । एतच् च भैक्षं ब्राह्मणादिवर्णेष्व् एव कार्यम् “चातुर्वर्ण्ये चरेद् भैक्षं खट्वाङ्गी संयतात्मवान्” इति संवर्तस्मरणात् । तथा ब्रह्महास्मीति स्वकर्म ख्यापयन् द्वारि स्थितो भिक्षां याचेत्,

वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः ।

इति पराशरस्मरणात् । अयं च भैक्षाशित्वनियमो वन्यैर् जीवनाशक्तौ द्रष्टव्यः,

भिक्षायै प्रविशेद् ग्रामं वन्यैर् यदि न जीवति ।

इति संवर्तस्मरणात् । तथा ब्रह्मचर्यादियुकेन च तेन भवितव्यम्, “खट्वाङ्गकपालपाणिर् द्वादशवत्सरान् ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत् कर्माचक्षाणः । यथोपक्रामेत् स संदर्शनाद् आर्यस्य । (उत्थितस् तु दिवा तिष्ठेद् उपविष्टस् तथा निशि । एतद् वीरासनं नाम सर्वपापप्रणाशनम् ॥)[^४७] स्थानासनाभ्यां विहरेत् सवनेषूदकोपस्पर्शी शुध्येत्” (ग्ध् २२.४–६) इति गौतमस्मरणात् । ब्रह्मचारिग्रहणं च “वर्जयेन् मधुमांसगन्धमाल्यदिवा-स्वप्नाञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहहर्षण्र्त्यगीतपरिवादनभयानि” (ग्ध् २.१३) इति ब्रह्मचारिप्रकरणोक्ताविरुद्धधर्मप्राप्त्यर्थम् । अत एव शङ्खः ।

स्थानवीरासनी मौनी मौञ्जी दण्डकमण्डलुः ।
भिक्षाचर्याग्निकार्यं च कूष्माण्डीभिः सदा जपः ॥ इति ।

तस्य भवेद् इति शेषः । अत्र “सवनेषूदकस्पर्शी” (च्फ़्। ग्ध् १९.१५) इति स्नानविधानात्, तदङ्गभूतमन्त्रादिप्राप्तिर् अप्य् अवगम्यते । तथा “शुचिना कर्म कर्तव्यम्” इत्य् अस्य सर्वकर्मसाधारणात्वाद् व्रतचर्याङ्गभूतशौचसंपत्त्यर्थं स्नानवत् संध्योपासनम् अपि कार्यम्, तस्यापि शौचापादनद्वारेण सर्वकर्मशेषत्वात् । तथा च दक्षः ।

संध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यत् किंचित् कुरुते कर्म न तस्य फलभाग् भवेत् ॥ इति ।

न च “द्विजातिकर्मभ्यो हानिः पतनम्” इति वचनात्, संध्योपासनायाश् च द्विजातिकर्मत्वाद् अप्राप्तिर् इति शङ्कनीयम्, यस्मात् पतितस्यैव व्रतचर्योपदेशात् तदङ्गतयैव संध्योपासनादिप्राप्तिः । अतो “द्विजातीनाम् अध्ययनम् इज्या दानं, ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः” (ग्ध् १०.१–२) इत्यादीनाम् एव द्विजातिकर्मणां व्रतचर्यानङ्गभूतानां हानिर् न सर्वेषाम्, तावन्मात्रबाधेन हानिवचनस्य चरितार्थत्वात् । इयं च मनुयाज्ञवल्क्यगौतमादिप्रतिपादिता द्वादशवार्षिकव्रतचर्यैकैव न पुनर् भिन्ना, परस्परसापेक्षत्वाद् अविरोधाच् च । तथा हि, भिक्षाशी कर्म वेदयन् नियुक्ते किं भिक्षापात्रं केषां वा गृहेषु कतिषु वेत्याकाङ्क्षा जायेतैव । तत्र “लोहितकेन खण्डशरावेण” (आप्ध् १.२४.१४) इत्य् आपस्तम्बवचनैः परिपूरणम् अविरुद्धम् । अतः सर्वैर् एककल्पोपदेशात् कैश्चिद् उक्तं मनुगौतमाद्युक्तेतिकर्तव्यतायाः परस्परसापेक्षत्वे ऽपि विकल्प इति, तद् अनिरूप्यैवोक्तम् इति मन्तव्यम् । एवं द्वादशवर्षाणि व्रतचर्याम् आवर्त्य ब्रह्महा शुद्धिम् आप्नुयात्, इयं चाकामकृतब्रह्मवधविषया,

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ (म्ध् ११.९०)

इति मनुस्मरणात् ।

अत्रेदं चिन्तनीयम् । किं द्वित्रब्राह्मणवधे प्रायश्चित्तस्य तन्त्रत्वम् उतावृत्तिर् इति । तत्र केचिन् मन्यन्ते “ब्रह्महा द्वादशाब्दानि” (य्ध् ३.२४३) इत्य् अत्र ब्रह्मशब्दस्यैकस्मिन् द्वयोर् बहुषु साधारणत्वाद् एकस्मिन् ब्राह्मणवधे यत् प्रायश्चित्तं तद् एव द्वितीये तृतीये ऽपि । तत्रैकब्राह्मणवधनिमित्तैकप्रायश्चित्तानुष्ठाने सतीदं कृतम् इदं नेति न शक्यते वक्तुम् । देशकालकर्तॄणां प्रयोगानुबन्धभूतानाम् अभेदेनागृह्यमाणविशेषत्वात् तन्त्रानुष्ठानेनैव पापक्षयलक्षणकार्यनिष्पत्तिर् युक्ता । यथा तन्त्रानुष्ठितैः प्रयाजादिभिर् आग्नेयादिषु तन्त्रेणैवानेकोपकारलक्षणकार्याणां निष्पत्तिः । न चैवं वाच्यम् द्वित्रब्राह्मणवधे पापस्य गुरुत्वाद् “एनसि गुरुणि गुरूणि लघुनि लघूनि” (ग्ध् १९.१९) इति गौतमवचनाद् आवृत्तम् एव प्रायश्चित्तानुष्ठानं युक्तम् विलक्षणकार्ययोस् तन्त्रेण निष्पत्त्यनुपपत्तेर् इति । यतो नेदं वचनम् आवृत्तिविधायकं किं तूपदिष्टानां गुरुलगुकल्पानां व्यवस्थाप्रतिपादनपरम् । न च द्वितीयब्राह्मणवधे पापस्य गुरुत्वं, प्रमाणाभावात् । यच् च मनुदेवलाभ्याम् उक्तम्,
विधेः प्राथमिकाद् अस्माद् द्वितीये द्विगुणं भवेत् ।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥

इति, तद् अपि प्रतिनिमित्तं नैमित्तिकशास्त्रम् आवर्तते इति न्यायेन द्वित्रब्राह्मणवधगोचरनैमित्तिकशास्त्रावृत्त्यनुवादेन चतुर्थे तदभावविधिपरम् न पुनर् द्वितीयब्रह्मवधे प्रायश्चित्तानुष्ठानद्वैगुण्यविधिपरम् अपि, वाक्यभेदप्रसङ्गात् । तस्मात् द्वित्रब्राह्मणवधे ऽपि सकृद् एव द्वादशवार्षिकाद्यनुष्ठानं युक्तम्, यथा “अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर्वपेद्” इत्यादिगृहदाहादिनिमित्तेषु चोदितानां क्षामवत्यादीनां युगपद् अनेकेष्व् अपि गृहदाहादिनिमित्तेषु सकृद् एवानुष्ठानम् ।

अत्रोच्यते । न हि वचनविरोधे न्यायः प्रभवति । वचनं च “विधेः प्राथमिकाद्” इत्यादिकं द्वित्रब्राह्मणवधे प्रायश्चित्तानुष्ठानावृत्तिविधिपरम् । एवं सति न्यायलभ्यतन्त्रानुष्ठानबाधेनावृत्तिविधाव् इदं वचनं प्रवृत्तिविशेषकरं स्यात् । इतरथा शास्त्रतः प्राप्त्यनुवादकत्वेनानर्थकं स्यात् । न च वाक्यभेदः, चतुर्थादिब्रह्मवधपर्युदासेनेतरत्रावृत्तप्रायश्चित्तविधानेनैकार्थत्वात् । किं च, “चतुर्थे नास्ति निष्कृतिर्” इति लिङ्गदर्शनाद् घन्यमानब्राह्मणसंख्योत्कर्षे दोषगौरवं गम्यते, तथा देवलादिवचनाच् च ।
यत् स्याद् अनभिसंधाय पापं कर्म सकृत् कृतम् ।
तस्येयं निष्कृतिर् दृष्टा धर्मविद्भिर् मनीषिभिः ॥ इति ।

न च विलक्षणयोर् गुरुलघुदोषयोः क्षयस् तन्त्रेण निष्पद्यते । अत एवंविधेषु दोषगुरुत्वेन कार्यवैलक्षण्याद् अपि प्रतिनिमित्तं नैमित्तिकस्यावृत्तिर् युक्ता । क्षामवत्यादिषु पुनः कार्यस्यावैलक्षण्याद् युक्तस् तन्त्रभाव इत्य् अलं प्रपञ्चेन । यच् चेदं “चतुर्थे नास्ति निष्कृतिर्” इति तद् अपि महापातकविषयम्, पापस्यातिगुरुत्वेन प्रायश्चित्ताभावप्रतिपादनपरत्वात् । अतः शूद्रान्नसेवनादौ बहुशो ऽप्य् अभ्यस्ते तदनुगुणप्रायश्चित्तावृत्तिः कल्पनीया न पुनः प्रायश्चित्ताभावः । अत एवोक्तं मनुना ।

पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् । इति । (म्ध् ११.१४१)

इदं च द्वादशवार्षिकं व्रतं साक्षाद् घन्तुर् एव, “ब्रह्महा” इति तस्यैवाभिधानात् । अनुग्राहकप्रयोजकादेस् तु तत् तद् दोषानुसारेण प्रायश्चित्ततारतम्यं कल्पनीयम् । तत्रानुग्राहको यत् प्रायश्चित्तभाजं पुरुषम् अनुगृह्णाति स तत् प्रायश्चित्तं पादोनं कुर्यात् । अनुमन्ता पुनः सार्धपादं सार्धचतुर्वार्षिकं निमित्ती त्व् एकपादं त्रिवार्षिकम् । अत एव सुमन्तुः ।

तिरस्कृतो यदा विप्रो हत्वात्मानं मृतो यदि ।
निर्गुणः साहसात् क्रोधाद् गृहक्षेत्रादिकारणात् ॥
त्रैवार्षिकं व्रतं कुर्यात् प्रतिलोमां सरस्वतीम् ।
गच्छेद् वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥
अत्यर्थं निर्गुणो विप्रो ह्य् अत्यर्थं निर्गुणोपरि ।
क्रोधाद् वै म्रियते यस् तु निर्मित्तं तु भर्त्सितः ॥
वत्सरत्रितयं कुर्यान् नरः कृच्छ्रं विशुद्धये ॥ इति ।

यदा पुनर् निमित्त्य् अत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणस् तदैकवर्षम् एव ब्रह्महत्याव्रतं कुर्यात्,

केषश्मश्रुनखादीनां कृत्वा तु वपनं वने ।
ब्रह्मचर्यं चरन् विप्रो वर्षेणैकेन शुध्यति ॥

इति तेनैवोक्तत्वात् । अनयैव दिशानुग्राहकप्रयोजकादीनां ये ऽनुग्राहकप्रयोजकादयस् तेषाम् अपि प्रायश्चित्तं कल्प्यम् । अस्यां च कल्पनायां “प्रयोजयितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनो यो भूय आरभते तस्मिन् फलविशेषः” (आप्ध् २.२९.१–२) इत्य् आपस्तम्बीयं वचनं मूलम् । तथा प्रोत्साहकादीनाम् अपि दण्डप्रायश्चित्ते कल्प्ये । यथाह पैठीनसिः ।

हन्ता मन्तोपदेष्टा च तथा संप्रतिपादकः ।
प्रोत्साहकः सहायश् च तथा मार्गानुदेशकः ॥
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ।
उपेक्षकः शक्तिमांश् चेद् दोषवक्तानुमोदकः ॥
अकार्यकारिणस् त्व् एषां प्रायश्चित्तं प्रकल्पयेत् ।
यथाशक्त्य् अनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥ इति ।

तथा बालवृद्धादीनां साक्षात्कर्तृत्वे ऽप्य् अर्धम् एव,

अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ॥

इत्य् अङ्गिरःस्मरणात् । तथा सुमन्तुः ।

अर्वाक् तु द्वादशाद् वर्षाद् अशीतेर् ऊर्ध्वम् एव वा ।
अर्धम् एव भवेत् पुंसां तुरीयं तत्र योषिताम् ॥ इति ॥

तथानुपनीतस्यापि बालकस्य पादमात्रम् एव प्रायश्चित्तम्,

स्त्रीणाम् अर्धं प्रदातव्यं वृद्धानां रोगिणां तथा ।
पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः ॥

इति विष्णुस्मरणात् । अतश् च यत् शङ्खेन,

ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।
प्रायश्चित्तं चरेद् भ्राता पिता वान्यः सुहृज्जनः ॥

इति प्रतिपाद्योक्तम्,

अतो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥

इति, तद् अपि संपूर्णप्रायश्चित्ताभावप्रतिपादनपरं, न पुनः सर्वात्मना तदभावप्रतिपादनपरम्, आश्रमविशेषनिरपेक्षेण श्रूयमाणेषु “ब्राह्मणो न हन्तव्यः,” “तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत्” इत्येवमादिष्व् अनपेक्षितवयोविशेषस्यैवाधिकारात् । अतश् च तदीयम् अपि प्रायश्चित्तं पित्रादिभिर् एवाचरणीयम्, “पुत्रान् उत्पाद्य संस्कृत्य वेदम् अध्याप्य वृत्तिं विदध्यात्” इति तस्यैवपुत्रादिहिताचरणे ऽधिकृतत्वात् । यत्र पुनः कस्मिंश्चिद् ब्रह्मवधे प्रयोजकभावम् आपन्नस्यान्यस्मिन् साक्षात्कर्तृत्वे गुरुलघुप्रायश्चित्तसंपातस् तत्र द्वादशवार्षिकादिगुरुप्रायश्चित्तान्तःपातिनः प्रयोजकसंबन्धिलघुप्रायश्चित्तप्रसङ्गात् कार्यसिद्धिः । न चैवं सत्य् अविशेषाल् लघुकल्पेन महतो ऽपि सिद्धिः स्याद् इत्य् आशङ्कनीयम् । अत्र ह्य् अन्तःपातितयानुष्ठाने विशेषानवगमात् प्रसङ्गात् कार्यसिद्धिर् अवगम्यते । न च लघ्वन्तःपाती महाकल्प इति कुतः प्रसङ्गाशङ्का । न च चैत्रवधजनितकल्मषक्षयार्थम् अनुष्ठितेन कथं विष्णुमित्रवधोत्पाद्यपापनिवृत्तिर् इति वाच्यम्, चैत्राद्युद्देशस्यातन्त्रत्वात् । अतो यथा काम्यनियोगनिष्पत्त्यर्थं स्वर्गार्थं वानुष्ठितैर् आग्नेयादिभिर् नित्यनियोगनिष्पत्तिस् तद्वल् लघुप्रायश्चित्तस्यापि कार्यसिद्धिः । यत् पुनर् मध्यमाङ्गिरोवचनम्,

गवां सहस्रं विधिवत् पात्रेभ्यः प्रतिपादयेत् ।
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥

इति तत् सवनस्थगुणवद्ब्राह्मणविषयम् । एतच् च,

द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ।

इत्येतद्वाक्यविहितद्विगुणद्वादशवार्षिकव्रतचर्याशक्तस्य वेदितव्यम्, प्रायश्चित्तस्यातिगुरुत्वात् । न त्व् अनावृत्तद्वादशवार्षिकविषयम् । तत्र हि द्वादशदिनान्य् एकैकप्राजापत्यम् इति गणनायां प्राजापत्यानां षष्ट्यधिकशतत्रयं भवति । यद्य् अपि प्राजापत्यस्यान्ते त्र्यहम् उपवासो ऽधिकस् तथाप्य् अत्र वनवासजटाधारणवन्याहारत्वादिरूपतपोविशेषयुक्तत्वाद् उपवासाभावे ऽप्य् एकैकस्य द्वादशाहस्य प्राजापत्यतुल्यत्वम् । ततश् च,

प्राजापत्यक्रियाशक्तौ धेनुं दद्याद् विचक्षणः ।
गवाम् अभावे दातव्यं तन्मूल्यं वा न संशयः ॥

इत्य् अनेन न्यायेन प्रतिप्राजापत्यम् एकैकस्यां धेन्वां दीयमानायां धेनूनाम् अपि षष्ट्यधिकं शतत्रयं भवति न पुनः सहस्रम् । अतो यथोक्त एव विषयो युक्तः । यद् अपि शङ्खवचनम् “पूर्ववद् अमतिपूर्वं चतुर्षु वर्णेषु विप्रं प्रमाप्य द्वादशवत्सरान् षट् त्रीन् सार्धं संवत्सरं च व्रतान्य् आदिशेत् तेषाम् अन्ते गोसहस्रं तदर्धं तस्यार्धं तदर्धं च दद्यात् सर्वेषां वर्णानाम् आनुपूर्व्येण” इति द्वादशवार्षिकगोसहस्रयोः समुच्चयविधिपरं तदाचार्यादिहननविषयं द्रष्टव्यम्, तस्यातिगुरुत्वात् । तथा च दक्षः,

समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
आचार्ये शतसाहस्रं श्रोत्रिये दत्तम् अक्षयम् ॥

इति प्रतिपाद्योक्तवान्,

समद्विगुणसाहस्रम् आनन्त्यं च यथाक्रमम् ।
दाने फलविशेषः स्याद् धिंसायां तद्वद् एव हि ॥ इति ।

तथा आपस्तम्बेन द्वादशवार्षिकम् उक्त्वोक्तम् अस्मिन्न् एव विषये “गुरुं हत्वा श्रोत्रियं वा एतद् एव व्रतम् ओत्तमाद् उच्छ्वासाच् चरेत्” (आप्ध् २.२४.२४) इति तत्र यावज्जीवम् आवर्तमाने व्रते यदा त्रैगुण्यं चातुर्गुण्यं वा संभाव्यते तदा तत्र समर्थस्य बहुधनस्यायं दानतपसोः समुच्चयो द्रष्टव्यः । द्वादशवार्षिकव्यतिरिक्तानां तु सुमन्तुपराशराद्युक्तानां प्रायश्चित्तानाम् उत्तरत्र व्यवस्थां वक्ष्यामः ।

ननु द्वादशवार्षिकादिकल्पानां व्यवस्था कुतो ऽवसिता । न तावद् द्वादशवार्षिकादिविधायकवाक्यैर् इति युक्तम्, तत्राप्रतीतेः । न च वाच्यं प्रमाणावगतगुरुलघुकल्पानां बाधो मा प्रसाङ्क्षीद् इति व्यवस्था कल्प्यत इति, विकल्पसमुच्चयाङ्गाङ्गिभावानाम् अन्यतमाश्रयणेनापि बाधस्य सुपरिहरत्वात् ।
अत्रोच्यते । न तावद् द्वादशवार्षिकसेतुदर्शनादीनां विषमकल्पानां विकल्पो ऽवकल्प्यते, विकल्पाश्रयणे गुरुकल्पानाम् अनुष्ठानासंभवेनानर्थक्यप्रसङ्गात् । न च षोडशिग्रणाग्रहणवद् विषमयोर् अपि विकल्पोपपत्तिर् इति वाच्यम् । यतस् तत्रापि सति संभवे ग्रहणम् एवेति युक्तं कल्पयितुम् । यद् वा षोडशिग्रहणानुगृहीतेनातिरात्रेण क्षिप्रं स्वर्गादिसिद्धिर् अतिशयितस्य वा स्वर्गस्येति कल्पनीयम्, इतरथा ग्रहणविधेर् आनर्थक्यप्रसङ्गात् । नापि समुच्चयः । उपदेशातिदेशप्राप्तिम् अन्तरेण समुच्चयो न संभवति, उपदेशावगतनैरपेक्ष्यस्य बाधप्रसङ्गात् । न चाङ्गाङ्गिभावः, श्रुत्यादिविनियोजकानाम् अभावात् । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि विनियोजकानि । अतः परस्परोपमर्दपरिहारार्थं विषयव्यवस्थाकल्पनैवोचिता । सा च जातिशक्तिगुणाद्यपेक्षया कल्पनीया,
जातिशक्तिगुणापेक्षं सकृद्बुद्धिकृतं तथा ।
अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥

इति देवलस्मरणात् ॥ २.२४३ ॥

पूर्वोक्तस्य ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्तिकसमाप्त्यवधिम् आह ।

ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य च । ३.२४४अब्
तथाश्वमेधावभृथस्नानाद् वा शुद्धिम् आप्नुयात् ॥ ३.२४४च्द्

यश् चौरव्याघ्रादिभिर् व्यापाद्यमानस्य ब्राह्मणस्यैकस्याप्य् आत्मप्राणानन्तरे कृत्वा प्राणत्राणं करोति गवां द्वादशकस्यासाव् असंपूर्णे ऽपि द्वादशवार्षिके शुध्येत् । यद्य् अपि प्राणत्राणे प्रवृत्तस् तदकृत्वैव म्रियते तथापि शुध्यत्य् एव । अत एव मनुना ।

ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ (म्ध् ११.८०)

इति ब्राह्मणरक्षणं तदर्थं मरणं च पृथग् उपात्तम् । तथा परकीयाश्वमेधावभृथाख्यकर्माङ्गभूतस्नानसमये स्वयम् अपि स्नात्वा ब्रह्महत्यायाः शुद्धिं प्राप्नुयात् । स्नानं च स्वकल्मषं विख्याप्य कुर्यात् । तथा च मनुः ।

शिष्ट्वा वा भूमिदेवानां नरदेवसम् आगमे ।
स्वम् एनो ऽवभृथे स्नात्वा हयमेधे विमुच्यते ॥ इति । (म्ध् ११.८३)

भूमिदेवा ब्राह्मणा ऋत्विजस् तेषां नरदेवेन यजमानेन राज्ञा समवाये स्वीयम् एनः शिष्ट्वा विख्याप्याश्वमेधावभृथे स्नात्वा शुध्यति, यदि तैर् अनुज्ञातो भवति, “अश्वमेधावभृथं गत्वा तत्रानुज्ञातः स्नातः सद्यः पूतो भवति” इति शङ्खस्मरणात् । अश्वमेधावभृथग्रहणम् अग्निष्टुन्मध्यानां पञ्चदशरात्रादिक्रत्वन्तराणाम् अग्निष्टुत्समाप्तिकानां वा सर्वमेधादीनाम् उपलक्षणम्, “अश्वमेधावभृथे वान्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत्” इति (ग्ध् २२.९–१०) गौतमस्मरणात् । अयं च प्रक्रान्तद्वादशवार्षिकस्य कथंचिद् ब्राह्मणप्राणत्राणादिकं कुर्वतो व्रतसमाप्त्यवधिर् उच्यते । यथा सारस्वते सत्रे प्लाक्षं प्रस्रवणं प्राप्योत्थानम् ऋषभैकशतानां वा गवां सहस्रम् अभावे सर्वस्वदानं गृहपतिमरणे चेति । न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् । तथाच शङ्खः, “द्वादशे वर्षे शुद्धिं प्राप्नोत्य् अन्तरा वा ब्राह्मणं मोचयित्वा गवां द्वादशानां परित्राणात् सद्य एवाश्वमेधावभृथस्नानाद् वा पूतो भवति” इति । अत एव मनुना “कृतवापनो वा निवसेत्” इति (म्ध् ११.७८) द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य,

ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ (म्ध् ११.८०)

इत्यादिना मध्ये ब्राह्मणत्राणादिकम् अभिधाय,

एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति ॥ (म्ध् ११.८२)

इति द्वादशवार्षिकम् एवोपसंहृतम् ।

ननु “ब्रह्महत्यायाः शुद्धिम् आप्नुयाद्” इति ब्राह्मणत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमात् स्वातन्त्र्यम् एव युक्तं न पुनर् अङ्गत्वम् । किं च प्रधानविरोधित्वाद् अपि नाङ्गत्वम् । प्रधानानुग्राहकं ह्य् अङ्गं भवति । न च प्रारब्धद्वादशवार्षिकस्येदं विधानम्, येन तत्कार्ये विधानं गम्यते । यथा “सत्रायावगूर्य विश्वजिता यजेत” इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानम् अतो ऽपि स्वातन्त्र्यम् एव युक्तम्, यथाग्निप्रवेशलक्ष्यभावादीनाम् । न च तेषाम् अपि द्वादशवार्षिकोपक्रमोपसंहारमध्यपठितत्वेन तदङ्गत्वम् इति शङ्कनीयम् । यतः सत्य् अपि मध्यपाठे निर्ज्ञातप्रयोजनत्वेन प्रयोजनाकाङ्क्षाविरहान् न परस्परम् अङ्गाङ्गित्वं युक्तं । यथा सामिधेनीप्रकरणमध्यवर्तिनां निर्वित्पदानाम् अग्निसमिन्धनप्रकाशत्वेन सामिधेनीभिः सहैककार्याणां न सामिधेन्यङ्गत्वम् । न चैकान्ततो ऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठः वसिष्ठगौतमादिभिर् एषां द्वादशवार्षिकप्रक्रमात् प्राग् एव पठितत्वात् । इदम् एव स्वातन्त्र्यं प्रकटयितुं मनुना “लक्ष्यं शास्त्रभृतां वा स्यात्” “प्रास्येद् आत्मानाम् अग्नौ वा” (म्ध् ११.७४) इति प्रतिवाक्यं वाशब्दः पठितः । तथा प्रतिप्रायश्चित्तम् एवोपसंहृतम्,
अतो ऽन्यतमम् आस्थाय विधिं विप्रः समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मशुद्धये ॥ इति । (म्ध् ११.८७)

अतो ऽग्निप्रवेशादीनां स्वातन्त्र्यम् एव युक्तम् । अतश् च ब्राह्मणत्राणादेर् अप्य् एकफलत्वान् नाङ्गत्वम् इति ।

उच्यते । परिहृतम् एतत् “अन्तरा ब्राह्मणं मोचयित्वा” इत्यादिना शङ्खवचनेनाङ्गत्वावगमात्, अङ्गस्यैव सतः प्रधानद्वारेण फलसंबन्धः । न च प्रधानविरोधः यतो ब्राह्मणत्राणावधिकस्यैव व्रतानुष्ठानस्य फलसाधनत्वं विधीयत इति न विरोधः ॥ ३.२४४ ॥

किं च ।

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा । ३.२४५अब्
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ ३.२४५च्द्

दीर्घेण बहुकालव्यापिना तीव्रेण दुःसहेनामयेन कुष्ठादिव्याधिना ग्रस्तं पीडितं ब्राह्मणं गां वा तथाविधां पथि दृष्ट्वा निरातङ्कं नीरुजं कृत्वा ब्रह्महा शुचिर् भवति ।

ननु “ब्राह्मणस्य परित्राणाद्” इत्य् अत्र यद् उक्तं ब्राह्मणरक्षणं तद् एव किम् अर्थं पुनर् उच्यते “ब्राह्मणं गाम् अथापि वा” इति ।
सत्यम् एवम् । किं त्व् आत्मप्राणपरित्यागेनाधस्तनवाक्ये ब्राह्मणरक्षणम् उक्तम् अधुना पुनर् औषधदानादिनेति विशेषः । अमुनैवाभिप्रायेणोक्तं मनुना ।
विप्रस्य तन्निमित्ते वा प्राणलाभे विमुच्यते । इति ॥ (म्ध् ११.८१) ३.२४५ ॥

किं च ।

आनीय विप्रसर्वस्वं हृतं घातित एव वा । ३.२४६अब्
तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि विशुध्यति ॥ ३.२४६च्द्

विप्रस्यापहृतसर्वस्वतयावसीदतः संबन्धि द्रव्यं भूहिरण्यादिकं चौरैर् हृतं साकल्येनानीय रक्षणं यः स विशुध्यति । आनयने प्रवृत्तः स्वयं चौरैर् घातितो वा यदि वा तन्निमित्तं ब्राह्मणसर्वस्वानयनार्थं तत्र युध्यमानः शस्त्रैः क्षतो मृतकल्पो जीवन्न् अपि विशुध्यति । शस्त्रैर् इति बहुवचनं क्षतबहुत्वप्राप्त्यर्थम् । अत एव मनुना,

त्र्यवरं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा । (म्ध् ११.८१)

इति त्र्यवरग्रहणं कृतम् । एतस्य श्लोकद्वयोक्तकल्पपञ्चकस्य ब्राह्मणरक्षणरूपकत्वेन “अन्तरा वा ब्राह्मणं मोचयित्वा” इत्य् अनेन शङ्खवचनेन क्रोडीकृतत्वात् द्वादशवार्षिकसमाप्त्यवधित्वेनेतरग्रहणे विनियोगान् न स्वातन्त्र्यम् ॥ ३.२४६ ॥

प्रायश्चित्तान्तरम् आह ।

लोमभ्यः स्वाहेत्य् एवं हि लोमप्रभृति वै तनुम् । ३.२४७अब्
मज्जान्तां जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम् ॥ ३.२४७च्द्

लोमभ्यः स्वाहेत्य् एवमादिभिर् मन्त्रैर् लोमप्रभृतिमज्जान्तां तनुं जुहुयात् । इतिशब्दः करणत्वनिर्देशार्थः । एवंशब्दः प्रकारसूचनार्थः । हिशब्दः स्मृत्यन्तरप्रसिद्धत्वगादीनां प्रभृतिशब्देनाक्षिप्यमाणानां द्योतनार्थः । ततश् च लोमादीनि होमद्रव्याणि चतुर्थ्या निर्दिश्यन्ते स्वाहाकारं पठित्वा तैर् मन्त्रैर् जुहुयात् । ते च हूयमानद्रव्याणां लोमत्वग्लोहितमांसमेदःस्नाय्वस्थिमज्जानाम् अष्टसंख्यत्वाद् अष्टौ मन्त्रा भवन्ति । तथा च वसिष्ठः “ब्रह्महाग्निम् उपसमाधाय जुहुयाल् लोमानि मृत्योर् जुहोमि लोमभिर् मृत्युं वाशय इति प्रथमाम् । १ । त्वचं म्र्त्योर् जुहोमि त्वचा मृत्युं वाशय इति द्वितीयां । २ । लोहितं मृत्योर् जुहोमि लोहितेन मृत्युं वाशय इति तृतीयाम् । ३ । मांसानि मृत्योर् जुहोमि मांसैर् मृत्युं वाशय इति चतुर्थीम् । ४ । मेदो मृत्योर् जुहोमि मेदसा मृत्युं वाशय इति पञ्चमीम् । ५ । स्नायूनि मृत्योर् जुहोमि स्नायुभिर् मृत्युं वाशय इति षष्टीम् । ६ । अस्थीनि मृत्योर् जुहोम्य् अस्थिभिर् मृत्युं वाशय इति सप्तमीम् । ७ । मज्जां मृत्योर् जुहोमि मज्जाभिर् मृत्युं वाशय इत्य् अष्टमीम् । ८ ॥” (वध् २५.२५–२६) इति । अत्र च लोमप्रभृति तनुं जुहुयाद् इति लोमादीनां होमद्रव्यत्वावगमाल् लोमभ्यः स्वाहेति सत्य् अपि चतुर्थीनिर्देशे लोमादीनां न देवतात्वं कल्प्यते, द्रव्यप्रकाशनेनैव मन्त्राणां होमसाधनत्वोपपत्तेः । किं तु लोमभिर् मृत्युं वाशय इत्यादिवसिष्ठमन्त्रपर्याकोचनया मृत्योर् एव हविःसंबन्धावगमाद् देवतात्वं कल्प्यते । अतश् च लोमादीनि सामर्थ्यात् स्वधितिनावदाय मृत्यूद्देशे नाष्टौ होमान् कृत्वान्ते तनुं प्रक्षिपेत् । अतो यत् कैश्चिद् उक्तम् अनादिष्टद्रव्यत्वाद् आज्यहविष्का होमा इति तद् अनिरूप्यैवोक्तम् इत्य् उपेक्षणीयम् । जुहुयाद् इत्य् अनेनाग्नौ सिद्धे “भ्रूणहाग्निम् उपसमाधाय” ति पुनर् अग्निग्रहणं लौकिकाग्निप्राप्त्यर्थम् । युक्तं चैतत्, पतिताग्नीनां प्रतिपत्तिविधानात्,

आहिताग्निस् तु यो विप्रो महापातकभाग् भवेत् ।
प्रायश्चित्तैर् न शुध्येत तदग्नीनां तु का गतिः ॥
वैतानं प्रक्षिपेत् तोये शालाग्निं शमयेद् बुधः ॥

इत्य् उशनःस्मरणात्, तथा,

महापातकसंयुक्तो दैवात् स्याद् अग्निमान् यदि ।
पुत्रादिः पालयेद् अग्नीन् युक्तश् चादोषसंक्षयात् ॥
प्रायश्चित्तं न कुर्याद् यः कुर्वन् वा म्रियते यदि ।
गृह्यं निर्वापयेच् छ्रौतम् अप्स्व् अस्येत् सपरिच्छदम् ॥

इति कात्यायनस्मरणात् । तनुप्रक्षेपश् चोत्थायोत्थाय त्रिर् अधोमुखेन कर्तव्यः । यथाह मनुः ।

प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः । इति । (म्ध् ११.७४)

गौतमेनाप्य् अत्र विशेषो दर्शितः “प्रायश्चित्तम् अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य” (ग्ध् २२.१–२) इति । अवच्छातस्य अनशनकर्षितकलेवरस्येत्य् अर्थः । तथा च काठकश्रुतिः- “अनशनेन कर्शितो ऽग्निम् आरोहेत्” इति । इदं च मरणान्तिकं प्रायश्चित्तं कामकारविषयम् । यथाह मध्यमाङ्गिराः ।

प्राणान्तिकं च यत् प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
तत् कामकारविषयं विज्ञेयं नात्र संशयः ॥ इति ।

तथा,

यः कामतो महापापं नरः कुर्यात् कथंचन ।
न तस्य शुद्धिर् निर्दिष्टा भृग्वग्निपतनाद् ऋते ॥ इति ।

एतच् च प्रायश्चित्तम् एव न ब्राह्मणत्राणादिवत् द्वादशवार्षिकान्तर्भूतम् इत्य् उक्तं प्राक् ॥ ३.२४७ ॥

किं च ।

संग्रामे वा हतो लक्ष्यभूतः शुद्धिम् अवाप्नुयात् । ३.२४८अब्
मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति ॥ ३.२४८च्द्

अथ वा संग्रामे युद्धभूमाव् उभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिम् अवाप्नुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूर्छितो जीवन्न् अपि विशुध्यति । लक्ष्यभावश् च प्रायश्चित्त्य् अयम् इत्य् एवं विदुषां धनुर्विद्याविदां संग्रामे स्वेच्छया कर्तव्यो न तु राज्ञा बलात् कारयितव्यः । यथाह मनुः ।

लक्ष्यं शास्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः । इति । (म्ध् ११.१७)

इदं च मरणान्तिकत्वात् साक्षात् कर्तुः क्षत्रियस्य कामकारविषयम् । अपिशब्दाद् अश्वमेधादिनापि विशुध्यति । यथाह मनुः ।

यजेत वाश्वमेधेन स्वर्जिता गोसवेन च ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥ इति । (म्ध् ११.७५)

अश्वमेधानुष्ठानं सार्वभौमक्षत्रियस्यैव,

यजेत वाश्वमेधेन क्षत्रियस् तु महीपतिः ।

इति पराशरस्मरणात्, “नासार्वभौमो यजेत” इत्य् असार्वभौमस्य प्रतिषेधदर्शनाच् च । इदं चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम्,

महापातककर्तारश् चत्वारो मतिपूर्वकम् ।
अग्निं प्रविश्य शुध्यन्ति स्थित्वा वा महति क्रतौ ॥

इति यमेन मरणकालाग्निप्रवेशतुल्यतया महाक्रतोर् अश्वमेधस्य निर्दिष्टत्वात् । स्वर्जितादयश् च त्रैवर्णिकस्याहिताग्नेर् इष्टप्रथमयज्ञस्य द्वादशवार्षिकेण सह विकल्पन्ते । न च स्वर्जिताद्यर्थम् आधानं प्रथमयज्ञानुष्ठानं वा कार्यम्, पतितस्य द्विजातिकर्मस्व् अनधिकारात् । न च संध्योपासनवद् अविरोध इति युक्तम्, आधनादेर् उत्तरक्रतुशेषत्वाभावात् । ते च दक्षिणान्यूनाधिक्याश्रयणेन द्वाद्वशवार्षिकाद्यर्हेषु साक्षाद् धन्त्रादिषु व्यवस्थापनीयाः ॥ ३.२४८ ॥

किं च ।

**अरण्ये नियतो जप्त्वा त्रिर् वै वेदस्य संहिताम् । ३.२४९अब् **
शुध्येत वा मिताशित्वात् प्रतिस्रोतः सरस्वतीम् ॥ ३.२४९च्द्

अरण्ये निर्जनप्रदेशे, नियतो नियताहारः, “जपेद् वा नियताहारः” (म्ध् ११.७८) इति मनुस्मरणात् । त्रिवारं मन्त्रब्राह्मणात्मकं वेदं जपित्वा शुध्यति । संहिताग्रहणं पदक्रमव्युदासार्थम् । यद् वा मिताशनो भूत्वा प्लाक्षात् प्रस्रवणाद् आरभ्य पश्चिमोदधेः प्रतिस्रोतः स्रोतःस्रोतः प्रति सरस्वतीं इत्वा गत्वा विशुध्यति । अशनं च हविष्येण कार्यम्,

हविष्यभुग् वानुचरेत् प्रतिस्रोतः सरस्वतीम् । (म्ध् ११.७८)

इति मनुस्मरणात् । अयं च वेदजपो विदुषो हन्तुर् निर्धनस्यात्यन्तगुणवतो निर्गुणव्यापादने प्रमादकृते द्रष्टव्यः । सरस्वतीगमनं तु तादृश एव विषये विद्याविरहिणो द्रष्टव्यम् । निमित्तिनश् च,

तिरस्कृतो यदा विप्रो निर्गुणो म्रियते यदि ।

इति सुमन्तुवचनस्य दर्शितत्वात् । यत् पुनर् मनुवचनम्,

जपित्वान्यतमं वेदं योजनानां शतं व्रजेत् । (म्ध् ११.७६)

इति तद् अप्य् अरण्ये नियतो जप्त्वेत्य् एतस्यैव विषये ऽशक्तस्य द्रष्टव्यम् ॥ ३.२४९ ॥

किं च ।

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात् । ३.२५०अब्
आदातुश् च विशुद्ध्यर्थम् इष्टैर् वैश्वानरी स्मृता ॥ ३.२५०च्द्

“न विद्यया केवलया” (य्ध् १.२००) इत्याद्युक्तलक्षणे पात्रे गोभूहिरण्यादिकं जीवनपर्याप्तं समर्थं धनं दत्त्वा शुद्धिम् अवापुन्यात् । तद् धनं यः प्रतिगृह्णाति तस्य वैश्वानरदैवत्येष्टिः शुद्ध्यर्थं कर्तव्या । एतच् चाहिताग्निविषयम् । अनाहिताग्नेस् तु तद्दैवत्यश् चरुर् भवति, “य एवाहिताग्नेर् धर्मः स एवौपासनिकस्य” इति गृह्यकारवचनात् । वाशब्दात् सर्वस्वं सपरिच्छदं वा गृहं दद्यात् । यथाह मनुः ।

सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ इति । (म्ध् ११.७७)

इदं च पात्रे धनदानं निर्गुणस्य धनवतो हन्तुर् निर्गुणव्यापादने द्रष्टव्यम् । तत्रैव विषये अविद्यामानान्वयस्य सर्वस्वदानं सान्वयस्य तु सोपस्करगृहदानम् इति व्यवस्था । यद् अपि पराशरेणोक्तम्,

चातुर्विद्योपपन्नस् तु विधिवद् ब्रह्मघातके ।
समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाहरेत् ।
वर्जयित्वा विकर्मस्थाञ् छत्रोपानद्विवर्जितः ॥
अहं दुष्कृतकर्मा वै महापातककारकः ।
गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥
गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च ।
तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥
एतेषु ख्यापयेद् एनः पुण्यं गत्वा तु सागरम् । (प्स्म् १२.६५–६९)
ब्रह्महापि प्रमुच्येत स्नात्वा तस्मिन् महोदधौ ॥
ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् ।
दत्त्वा वस्त्रं पवित्राणि पूतात्मा प्रविशेद् गृहम् ॥
गवां वापि शतं दद्याच् चातुर्विद्याय दक्षिणाम् ।
एवं शुद्धिम् अवाप्नोति चातुर्विद्यानुमोदितः ॥

इति, तद् अपि “पात्रे धनं वा पर्याप्तम्” इत्य् अनेन समानविषयम् । यच् च सुमन्तुवचनम्, “ब्रह्महा संवत्सरं कृच्छ्रं चरेद् अधःशायी त्रिषवणी कर्मावेदको भैक्षाहारो दिव्यनदीपुलिनसंगमाश्रमगोष्टपर्वतस्रवणतपोवनविहारी स्यात् स्थानवीरासनी संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिसर्पींषि ब्राह्मणेभ्यो ददत् पूतो भवति” इति, तद् अपि हन्तुर् मूर्खस्य धनवतो जातिमात्रव्यापादने द्रष्टव्यम् । यत् पुनर् वसिष्ठवचनम् “द्वादशरात्रम् अब्भक्षो द्वादशरात्रम् उपवसेत्” (च्फ़्। वध् ११.७७) इति तन् मनसाध्यवसितब्रह्महत्यस्य स्वत एवोपरतजिघांषस्य वेदितव्यम् । यत् पुनः,

षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ।
चान्द्रायणं वा कुर्वीत पराकद्वयम् एव च ॥

इति षट्त्रिंशन्मतवचनं, तद् अप्रत्यानेयपुंस्त्वस्य सप्रत्ययवधे द्रष्टव्यम् । अत्रैव विषये अप्रत्ययवधे बृहस्पतिर् आह ।

अरुणायाः सरस्वत्याः संगमे लोकविश्रुते ।
शुध्येत् त्रिप्षवणस्नावी त्रिरात्रोपोषितो द्विजः ॥ इति ।

एवम् अन्यान्य् अपि स्मृतिवचनान्य् अन्विष्य विषमाणां व्यवस्था विज्ञेया । समानां तु विकल्पः । एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रियादेस् तु द्विगुणादिकम् । यथाहाङ्गिराः ।

पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥ इति ।

एवं च ब्राह्मणानां येन हन्तृहन्यमानगतगुणविशेषेण यः प्रायश्चित्तविशेषो व्यवस्थितः स एव तद्गुणविशिष्टे क्षत्रियादौ हन्तरि द्विगुणस् त्रिगुणो वेदितव्यः । अनयैव दिशा क्षत्रियवैश्यादाव् अपि हीनेनोत्कृष्टवधे दोषगौरवात् प्रायश्चित्तस्यापि द्वैगुण्यादि कल्पनीयम् । दोषगौरवं च दण्डगौरवाद् अवगम्यते । यथोक्तम् ।

प्रतिलोमापवादेषु द्विगुणस् त्रिगुणो दमः ।
वर्णानाम् आनुलोम्ये च तस्माद् अर्धार्धहानितः ॥ इति ।

यत् तु चतुर्विंशतिमतवचनम्,

प्रायश्चित्तं यद् आम्नातं ब्राह्मणस्य महर्षिभिः ।
पादोनं क्षत्रियः कुर्याद् अर्धं वैश्यः समाचरेत् ॥
शूद्रः समाचरेत् पादम् अशेषेष्व् अपि पाप्मषु ॥

इति, तत् प्रतिलोमानुष्टितचतुर्विधसाहसव्यतिरिक्तविषयम् । तथा मूर्धावसिक्तादीनाम् अप्य् अनुलोमोत्पन्नानां दण्डवत् प्रायश्चित्तम् ऊहनीयम् । दर्शितं दण्डतारतम्यम्,

दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः । इति ।

ततश् च मूर्धावसिक्तस्य ब्राह्मणवधे ब्राह्मणाद् अतिरिक्तं क्षत्रियान् न्यूनम् अध्यर्धं द्वादशवार्षिकं भवति । अनयैव दिशा प्रतिलोमोत्पन्नानाम् अपि प्रायश्चित्तगौरवम् ऊहनीयम् । तथा आश्रमिणामप्य् अङ्गिरसा विशेषो दर्शितः ।

गृहस्थोक्तानि पापानि कुर्वन्त्य् आश्रमिणो यदि ।
शौचवच् छोधनं कुर्युर् अर्वाग् ब्रह्मनिदर्शनात् ॥ इति ।

“शौचवद्” इति,

एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥ (म्ध् ५.१३७)

इति वचनाद्, यथा ब्रह्मचार्यादीनां शौचं द्वैगुण्यादिक्रमेण वर्धते तथा शोधनं प्रायश्चित्तम् अपि भवतीत्य् अर्थः । ब्रह्मचारिणस् तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षाद् ऊर्ध्वम् एव । अर्वाक् तु पुनः “बालो वाप्य् ऊनषोडशः प्रायश्चित्तार्धम् अर्हन्ति” इति षोडशवर्षाद् अर्वाचीनस्यार्धप्रायश्चित्ताभिधानात् । न च द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाप्त्यनुपपत्तेः प्रवृत्तिर् एव नोपपद्यत इति शङ्कनीयम् । यतः प्रक्रान्तप्रायश्चित्तस्य मध्ये विपत्ताव् अपि पापक्षयो भवत्य् एव । यथाह हारीतः ।

प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते ।
पूतस् तदहर् एवासाव् इह लोके परत्र च ॥ इति ।

व्यासो ऽप्य् आह ।

धर्मार्थं यतमानस् तु न चेच् छक्नोति मानवः ।
प्राप्तो भवति तत् पुण्यम् अत्र वै नास्ति संशयः ॥ इति ॥ ३.२५० ॥

अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशम् आह ।

यागस्थक्षत्रविड्घाती चरेद् ब्रह्महणि व्रतम् । ३.२५१अब्
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ ३.२५१च्द्

दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यौ यो व्यापादयत्य् असौ ब्रह्महणि पुरुषे यद् ब्रह्महत्याव्रतम् उपदिष्टं द्वादशवार्षिकादि तच् चरेत् । यद्य् अपि यागशब्दः सामान्यवचनस् तथाप्य् अत्र सोमयागम् अभिधत्ते, “सवनगतौ च राजन्यवैश्यौ” इति (वध् २०.३४) वसिष्ठेन सवनत्रयसंपाद्यस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्र च गुरुलघुभूतानां द्वादशवार्षिकादिब्रह्महत्याव्रतानां जातिशक्तिगुणाद्यपेक्षया प्रागुक्तवद् व्यवस्था वेदितव्या । एवं गर्भवधादिष्व् अपि । मरणानित्कं तु नातिदिश्यते, व्रतग्रहणात् । अतः कामतो यागस्थक्षत्रियादिवधे व्रतस्यैव द्वैगुण्यम् । एतच् च व्रतं संपूर्णम् एव कर्तव्यम् । “पूर्वयोर् वर्णयोर् वेदाध्यायिनं हत्वा” (आप्ध् १.२४.६) इति प्रक्रम्य, आपस्तम्बेन द्वादशवार्षिकाभिधानात् (आप्ध् १.२४.२०) । । गर्भं च विन्नासु संभूतं हत्वा यथावर्णं यद्वर्णपुरुषवधे यत्प्रायश्चित्तम् उक्तं तद्वर्णगर्भवधे तच् चरेत् । एतच् चानुपजातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषययम्,“हत्त्वा गर्भम् अविज्ञातम्” (म्ध् ११.८८) इति मानवे विशेषदर्षनात् । अत्र च यद्य् अपि ब्राह्मणगर्भस्य ब्राह्मणत्वाद् एव तद्वधनिमित्तव्रतप्राप्तिस् तथापि स्त्रीत्वस्यापि संभवात् स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकत्वेन तत्प्रायश्चित्तप्रप्तिर् अपि स्याद् अतः स्त्रीपुंनपुंसकत्वेनाविज्ञाते ऽपि ब्राह्मणगर्भत्वमात्रप्रयुक्तं ब्रह्महत्याव्रतं कुर्याद् इत्य् अर्थवद् अतिदेशवचनम् । उपजाते स्त्रीपुंसादिविशेषव्यञ्जने यथायथम् एव प्रायश्चित्तम् । यश् चात्रेय्या निषूदको व्यापादकः सो ऽपि तथा व्रतं चरेत् । हन्यमानात्रेयीवर्णानुरूपं व्रतं चरेद् इत्य् अर्थः । आत्रेयीशब्देनर्तुमत्य् उच्यते, “रजस्वलाम् ऋतुस्नाताम् आत्रेयीम् आहुर् यत्र ह्य् एतद् अपत्यं भवति” (वध् २०.३५–३६) इति वसिष्ठस्मरणात् । अत्रिगोत्रजा च, “अत्रिगोत्रां वा नारीम्” (विध् ५०.९) इति विष्णुस्मरणात् । एतद् उक्तं भवति । ब्राह्मणगर्भवधे ब्राह्मण्यात्रेयीवधे च ब्रह्महत्याव्रतम् । क्षत्रियगर्भवधे क्षत्रियात्रेयीवधे च क्षत्रहत्याव्रतम् एवम् अन्यत्रापीति । चशब्दात् साक्ष्ये अनृतवचनादिष्व् अपि । तथाह मनुः ।

उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा ।
अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ इति । (म्ध् ११.८८)

यत्र व्यवहारे असत्यवचनेन प्राणिनां वधप्राप्तिस् तद्विषयम् एतत्, प्रायश्चित्तस्यातिगुरुत्वात् । प्रतिरोधः क्रोधावेशः । निक्षेपश् च ब्राह्मणसंबन्धी । स्त्री चाहिताग्निभार्या पतिव्रतात्वादिगुणयुक्तोच्यते सवनस्था च । यथाहाङ्गिराः ।

आहिताग्नेर् द्विजाग्र्यस्य हत्वा पत्नीम् अनिन्दिताम् ।
ब्रह्महत्याव्रतं कुर्याद् आत्रेयीघ्नस् तथैव च ॥ इति ।
सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥

इति पराशरस्मरणात् ॥ एवं च सवनस्थाग्निहोत्रिण्यात्रेयीवधे ब्रह्महत्याप्रायश्चित्तातिदेशात् तद्व्यतिरिक्तस्त्रीवधस्य स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्यपाठाद् उपपातकत्वम् एव ।

ननु “ब्राह्मणो न हन्तव्यः” इत्य् अत्र निषेधे ऽनुपादेयगतत्वेन लिङ्गवचनयोर् अविवक्षितत्वाद् ब्रह्मणजातेश् च स्त्रीपुंसयोर् अविशेषात् तदतिक्रमनिमित्तप्रायश्चित्तविधेर् “ब्रह्महा द्वादशाब्दानि” इत्यस्योभयत्र प्राप्तत्वात् किम् अर्थं “तथात्रेयीनिषूदकः” इत्यतिदेशवचनम् ।
उच्यते । सत्य् अपि ब्राह्मणत्वे ऽनात्रेय्या वधस्य च महापातकप्रायश्चित्तनिराकरणार्थम् अतस् तस्योपपातकमध्यपाठाद् उपपातकप्रायश्चित्तम् एव । आतिदेशिकेषु च प्रायश्चित्तस्यैवातिदेशो न पातित्यस्य । अतः पतितत्यागादिकार्यम् अत्र न भवति ॥ ३.२५१ ॥

किं च ।

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः । ३.२५२अब्
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ॥ ३.२५२च्द्

“यथावर्णम्” इत्य् अनुवर्तते, ब्राह्मणादिहनने कृतनिश्चयस् तद्व्यापादनार्थं सम्यग् आगत्य शस्त्रादिप्रहारे कृते कथंचित् प्रतिघातादिप्रबन्धवशाद् असौ न मृतस् तदा अहत्वापि यथावर्णं ब्रह्महत्यादि व्रतं चरेत् । तथा च गौतमः “सृष्टश् चेद् ब्राह्मणवधे अहत्वापि” (ग्ध् २२.११) इति ।

ननु हनने तदभावे चैकप्रायश्चित्तता न युक्ता ।
सत्यम् । अत एवौपदेशिकेभ्यो न्यूनत्वाद् आतिदेशिकानां पादोनान्य् एव ब्रह्महत्यादिव्रतानि द्वादशवार्षिकादीनि भवन्ति । एतच् च प्रपञ्चितं प्राक् । किं च, यस् तु सवनसंपाद्यं सोमयागम् अनुतिष्टन्तं ब्राह्मणं व्यापादयति तस्मिन् द्वादशवार्षिकादिव्रतं द्विगुणं समादिशेत् । तेषां च व्रतानां गुरुलघुभूतानां जातिशक्तिगुणाद्यपेक्षयासत्य् अपि सवनस्थत्वस्याविशेषे पूर्ववद् एव व्यवस्थावगन्तव्या । ब्रह्महत्यासमानां तु गुर्वधिक्षेपादीनाम् आतिदेशिकेभ्यो ऽपि न्यूनत्वाद् अर्धोनं द्वादशवार्षिकादिप्रायश्चित्तम् इत्य् उक्तम् ॥ ३.२५२ ॥

इति ब्रह्महत्याप्रायश्चित्तप्रकरणम्

अथ क्रमप्राप्तं सुरापानप्रायश्चित्तं प्रक्रमते ।

सुराम्बुघृतगोमूत्रपयसाम् अग्निसंनिभम् । ३.२५३अब्
सुरापो ऽन्यतमं पीत्वा मरणाच् छुद्धिम् ऋच्छति ॥ ३.२५३च्द्

सुरादिनां मध्ये ऽन्यतमम् अग्निसंनिभं क्वाथापादिताग्निस्पर्शदाहशक्तिं कृत्वा पीत्वा सुरापो मरणाच् छुद्धिं प्राप्न्प्ति । गोमूत्रसाहचर्याद् गव्ये एव घृतपयसी ग्राह्ये । घृतपयःसाहचर्याच् च स्त्रैणम् एव गोमूत्रम् । एतच् चार्द्रवाससा कार्यम्,

सुराप आर्द्रवासाश् च अग्निवर्णां सुरां पिबेत् ।

इति पैठीनसिस्मरणात्, तथा “लौहेन पात्रेण सुरापो ऽग्निवर्णां सुराम् आयसेन पात्रेण ताम्रेण वा पिबेत्” इति प्रचेतःस्मरणात् । एतच् च सकृत्पानमात्रे,

सुरापानं सकृत् कृत्वाप्य् अग्निवर्णां सुरां पिबेत् ।

इत्य् अङ्गिरःस्मरणात् । यत् तु वसिष्ठवचनम्,

अभ्यासे तु सुरायाश् च अग्निवर्णां पिबेद् द्विजः । (वध् २०.२२)
इति, तत् सुराव्यतिरिक्तमद्यपानविषयम् । एतच् च कामकारविषयम्,
सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् ।
मुखे तया विनिर्दिग्धो मृतः शुद्धिम् अवाप्नुयात् ॥

इति बृहस्पतिस्मरणात् । यत् तु,

सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत् । (म्ध् ११.९१)

इति मनुना मोहग्रहणं कृतं, तच् छास्त्रार्थापरिज्ञानाभिप्रायेण । अत्रेदं चिन्तनीयम्- किं सुराशब्दो मद्यमात्रे रूढ उत तिसृष्व् एव गौडीमाध्वीपैष्टीष्व् आहोस्वित् पैष्ट्याम् एवेति । तत्र केचिन् मद्यमात्रे रूढ इति वर्णयन्ति, “अभ्यासे तु सुरायाः” (वध् २०.२२) इति वासिष्ठे पैष्ट्यादित्रयव्यतिरिक्ते ऽपि मद्यमात्रे सुराशब्दप्रयोगदर्शनात् । न चासौ गौणः प्रयोग इति शङ्कनीयम्, मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वाद् इति । तद् अयुक्तम्,

पानसं दाक्षं माधूकं खार्जूरं तालम् ऐक्षवम् ।
मधूत्थं सैरम् आरिष्टं मैरेयं नालिकेरजम् ॥
समानानि विजानीयान् मद्यान्य् एकादशैव तु ।
द्वादशं तु सुरामद्यं सर्वेषाम् अधमं स्मृतं ॥

इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश् च मद्यमात्रे सुराशब्दप्रयोगो गौणः । अन्ये पुनः पैष्ट्यादिषु तिसृषु सुराशब्दस्य रूढिं मन्यन्ते । तथा हि, यद्य् अप्य् अनेकत्र सुराशब्दप्रयोगो दृश्यते तथापि कुत्रानादित्वम् इति संदेहे,

गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । (म्ध् ११.९५)

इति मनुवचनाद् गुडमधुपिष्टविकारेष्व् अनादित्वनिर्धारणात् तत्रैव मुख्यत्वं युक्तम् । न चानेकत्र शक्तिकल्पना दोषः, मदशक्तेर् उपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् । न च तालादिरसेष्व् अप्य् उपाधेर् विद्यमानत्वाद् अतिप्रसङ्गः, पङ्कजादिशब्दवद् योगरूढत्वाश्रयणात् । अतश् च,

यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः । (म्ध् ११.९५)

इति तिसृणां सुराणां समानदोषत्वप्रतिपादनपरं न पुनर् अनयोर् गौडीमाध्व्योः पैष्टीसुरासमत्वप्रतिपादनपरम् । द्विजोत्तमग्रहणं द्विजात्युपलक्षणम् । एतद् अप्य् अयुक्तम्,

द्वादशं तु सुरामद्यं सर्वेषाम् अधमं स्मृतम् ।

इति पुलस्त्यवचने गौडीमाध्वीभ्याम् अपि सुरामद्यस्यातिरेकदर्शनात् । तथा,

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते । (म्ध् ११.९३)

इत्य् अन्नविकारस्यैव सुरात्वनिर्देशाद्, अन्नशब्दस्य च अन्नेन व्यञ्जनम् इत्यादिषु व्रीह्यादिविकार एव प्रयोगदर्शनाद्, गुडमधुनोश् च रसरूपत्वात्, तथा सौत्रामणिग्रहेषु चान्नविकारे एव सुराशब्दस्य श्रुतत्वात्, पैष्ट्य् एव सुरा मुख्योच्यते । इतरयोस् तु सुराशब्दो गौणः । यत् तूक्तम्, “गौडी माध्वी” (म्ध् ११.९४) इति मनुवचनात् तिसृष्व् अप्य् औत्पत्तिकत्वनिर्धारणेति, तद् अप्य् अयुक्तम् । यतो नेदं शब्दानुशासनवच् छब्दार्थसंबन्धानादित्वप्रतिपादनपरं, किं तु कार्यप्रतिपादनपरम् । अतो गुरुप्रायश्चित्तनिमित्ततया गौडीमाध्व्योर् गौणः सुराशब्दयोगः । एवं च नानेकशक्तिकल्पनादोषो नाप्य् उपाध्याश्रयणं कृतम् । न चात्र द्विजोत्तमग्रहणस्योपलक्षणत्वम् । अतश् च,

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥ (म्ध् ११.९४)

इति पैष्ट्या एव वर्णत्रयसंबन्धित्वेन निषेधः । गौड्यादीनां तु मद्यानां ब्राह्मणसंबन्धित्वेनैव निषेधो न क्षत्रियवैश्ययोः,

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥ (म्ध् ११.९६)

इति मानवे ब्राह्मणेनेति विशेषोपादानात् । बृहद्विष्णुनापि ब्राह्मणस्यैव मद्यप्रतिषेधो दर्शितः ।

माधूकम् ऐक्षवं सैरं तालं खार्जूरपानसम् ।
मधूत्थं चैव माध्वीकं मैरेयं नालिकेरजम् ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥ इति ॥

बृहद्याज्ञवल्क्येनापि क्षत्रियवैश्ययोर् दोषाभावो दर्शितः ।

कामाद् अपि हि राजन्यो वैश्यो वापि कथंचन ।
मद्यम् एव सुरां पीत्वा न दोषं प्रतिपद्यते ॥ इति ।

व्यासेनापि तयोर् माध्वीपानम् अनुज्ञातम् ।

उभौ मध्वासवक्षीबाव् उभौ चन्दनचर्चितौ ।
एकपर्यङ्करथिनौ दृष्टौ मे केशवार्जुनौ ॥ इति ।

एवं ब्राह्मणसंबन्धित्वेन मद्यमात्रनिषेधे सत्य् अपि,

गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ (म्ध् ११.९५)

इति गौडीमाध्व्योः पृथङ्निषेधवचनं दोषगुरुत्वेन सुरासमत्वप्रतिपादनपरम् । अयं च सुरानिषेधो ऽनुपनीतस्यानूढायाश् च कन्याया भवत्य् एव,

तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् । (म्ध् ११.९४)

इति जातिमात्रावच्छेदेन निषेधात् । अतश् च “सुरां पीत्वा द्विजो मोहात्” (म्ध् ११.९१) इति प्रायश्चित्तविधिवाक्ये मनुना यद् द्विजग्रहणं कृतं तद् वर्णमात्रयोपलक्षणार्थम्, निमित्तभूतनिषेधसापेक्षत्वान् नैमित्तिकविधेर् निषेधे च वर्णमात्रस्यावच्छेदकत्वात् । यथा “यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति” इति निमित्तवाक्ये हविर्मात्राभ्युदयस्य निमित्तत्वावगतौ तत्सापेक्षनैमित्तिकवाक्ये श्रूयमाणम् अपि “त्रेधा तन्दुलान् विभजेत्” इति तन्दुलग्रहणं तन्दुलादिरूपहविर्मात्रोपलक्षणम् । इयांस् तु विशेषः “पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः” इति वचनात्, कामकारे ऽपि न मरणान्तिकं किं तु पादम् एव द्विगुणीकृत्य षड्वार्षिकं देयम्,

विहितं यद् अकामानां कामात् तद्द्विगुणं चरेत् ।

इत्य् अङ्गिरःस्मरणात् । एवं वृद्धातुरादिष्व् अपि योज्यम् । तथा,

तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः । (म्ध् ११.९६)

इति मद्यस्यापि जातिमात्रावच्छेदेन निषिद्धत्वाद्, अनुपनीतेनापि न पेयम् ।

ननु कथम् अनुपनीतस्य दोषः, “प्राग् उपनयनात् कामचारकामवादकामभक्षाः” (ग्ध् २.१) इति गौतमवचनात्, तथा,
मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन ।
दोषस् त्व् आ पञ्चमाद् वर्षाद् ऊर्ध्वं पित्रोः सुहृद्गुरोः ॥

इति कुमारवचनाच् च दोषाभावावगतेः ।

उच्यते । सुरामद्ययोर् निषेधवाक्ये जातिमात्रत्वाच् छेदकत्वश्रवणाद् अप्रतिहतैव निषेधप्रवृत्तिः । अत एव स्मृत्यन्तरे निषेधवचनम्,
सुरापाननिषेधस् तु जात्याश्रय इति स्थितिः । इति ।

अतः,

पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः । इति ।
सर्वपापेषु सुरापानादिष्व् अपि ।

इति वचनात्, पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकर्ण्येन मद्यपाने ऽपि प्रायश्चित्तम् उक्तम् ।

अनुपेतस् तु यो बालो मद्यं मोहात् पिबेद् यदि ।
तस्य कृच्छ्रत्रयं कुर्यान् माता भ्राता तथा पिता ॥ इति ।

अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्पदोषख्यापनपरम् । अत एव प्राग् उपनयनात् कृतदोषस्योपनयनम् एव प्रायश्चित्तम् इत्य् उक्तं मनुना ।

गार्भैर् होमैर् जातकर्मचौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥ इति । (म्ध् २.२७)

अयम् अत्रार्थः । त्रैवर्णिकानाम् उत्पत्तिप्रभृति पैष्टीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्रनिषेधो ऽप्य् उत्पत्तिप्रभृत्य् एव । राजन्यवैश्ययोस् तु न कदाचिद् अपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ ३.२५३ ॥

प्रायश्चित्तान्तरम् आह ।

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् । ३.२५४अब्
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि ॥ ३.२५४च्द्

गोछागादिलोमनिर्मितवस्त्रप्रावृतो वालवासाः । वालवासोग्रहणं चीरवल्कलयोर् उपलक्षणार्थम्, “सुरापगुरुतल्पगौ चीरवल्कवाससौ ब्रह्महत्याव्रतं चरेयाताम्” इति प्रचेतःस्मरणात् । जटिग्रहणं मुण्डित्वनिराकरणार्थम् । “ब्रह्महत्याव्रतं चरेद्” इत्य् अनेनैव सिद्धे यद् वालवसनादिग्रहणं तद् अन्यत्र संभवि स्वयं मारितशिरःकपालादिनिवृत्त्यर्थम् । इदम् अकामतो जलबुद्ध्या यः सुरां पिबति तद्विषयम्,

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् । (म्ध् ११.९०)

इत्य् अकामित्वोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरापानस्य महापातकत्वात् सत्य् अप्य् आतिदेशिकत्वे संपूर्णम् एव द्वादशवार्षिकं कुर्यान् न पादोनम् । अत एव वृद्धहारीतः “द्वादशभिर् वर्षैर् महापातकिनः पूयन्ते” इति । अथ वा पिण्याकं पिण्डितं त्रिसमाः वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणास् तन्दुललवास् तान् वा पूर्ववद् भक्षयेत् । एतच् च सकृद् एव कार्यम्,

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि । (म्ध् ११.९३)

इति मनुस्मरणात् । अस्य च पिण्याकादिभक्षणस्य भोजनकार्ये विहितत्वाद् अशनान्तरपरित्यागः । एतच् चोदकबुद्ध्या सुरापाने छर्दनोत्तरकाले वेदितव्यम्,

एतद् एव व्रतं कुर्यान् मद्यपश् छर्दने कृते ।
पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥

इति व्यासवचनात् । न च सुरासंसृष्टेषदुपलभ्यमानतद्गन्धरसोदकपानविषयम् इदम् इति सुन्दरम्, संसर्गे ऽपि सुरात्वस्यानपायात्, यथाज्यत्वस्य पृषदाज्ये । अत एव “आज्यपा इति निगमाः कार्याः न पृष्दाज्यपाः” इत्येवम् उक्तं न्यायविद्भिः । यत् पुनर् आपस्तम्बवचनम्, “स्तेयं कृत्वा सुरां पीत्वा गुरुदारान् गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मितभोजनो यो ऽभ्युपेयात् सवनानुकल्पं स्थानासनाभ्यां विहरंस् त्रिभिर् वर्षैः पापं व्यपनुदति” (आप्ध् १.२९.९–१०) इति । यत् त्व् अङ्गिरोवचनम्,

महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः ।

इति, तद् उभयम् अपि, “पिण्याकं वा कणान् वा” इत्य् अनेनैकविषयम् । यद् अपि यमेन प्रायश्चित्तद्वयम् उक्तम्,

बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः ।
समत्वं ब्राह्मणैर् गच्छेद् इत्य् एषा वैदिकी श्रुतिः ॥
भूमिप्रदानं यः कुर्यात् सुरां पीत्वा द्विजोत्तमः ।
पुनर् न च पिबेत् तां तु संस्कृतः स विशुध्यति ॥

इति तद् उभयम् अपि पूर्वेण सहैकविषयम् । यद् वा अतिरिक्तदक्षिणाकल्पाश्रयणाद् द्वादशवार्षिकेण सह विकल्प्यते । अत्रापि बालवृद्धादीनां सार्धैकवर्षीयम् अनुपनीतानां तु नवमासिकम् इत्य् एवं कल्पना कार्या । यत् तु मनुवचनम्,

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ (म्ध् ११.९३)

इति तत् तालुमात्रसंयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् ।

ननु च द्रवद्रव्यस्याभ्यवहरणं पानम् इत्य् उच्यते । अभ्यवहरणं च कण्ठाद् अधोनयनं न ताल्वादिसंयोगमात्रम् । अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् ।
उच्यते । येन ताल्वादिसंयोगेन विना पानक्रिया न निर्वर्तते सो ऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्य् अपि मुख्यपानाभावान् न महापातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूताव्यभिचारिताल्वादिसंयोगस्यापि प्रतिषिद्धत्वेन दोषस्य विद्यमानत्वाद् भवत्य् एव प्रायश्चित्तम् ।
चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः । (य्ध् ३.२५२)

इति, यथा हननप्रतिषेधेन तदङ्गभूताध्यवसायादेर् अपि प्रतिषिद्धत्वात् प्रायश्चित्तविधानम् । यत् तु बौधायनीयम् “त्रैमासिकम् अमत्या सुरापाने कृच्छ्राब्दपादं चरित्वा पुनर् उपनयनम्” (ब्ध् २.१.१९) इति, यच् च याम्यम्,

सुरां पीत्वा द्विजं हत्वा रुक्मं हृत्वा द्विजन्मनः ।
संयोगं पतितैर् गत्वा द्विजश् चान्द्रायणं चरेत् ॥ इति ।

यद् अपि बार्हस्पत्यम्,

गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् ।
तप्तकृच्छ्रं पराकं च चान्द्रायणम् अनुक्रमात् ॥ इति ।

तत् त्रितयम् अप्य् अनन्यौषधसाध्यव्याध्युपशमार्थे पाने वेदितव्यम्, प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसम् एवान्नं भक्षयति तदा पुनर् उपनयनम् । यथाह मनुः ।

अज्ञानात् प्राश्य विण्मूत्रं सुरासंसृष्टम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ इति । (म्ध् ११.१५१)

यदा च शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात् “सुराभाण्डोदकपाने छर्दनं घृतप्राशनम् अहोरात्रोपवासश् च” इति । यत् तु बौधायनीयम्,

सुरापानस्य यो भाण्डेष्व् अपः पर्युषिताः पिबेत् ।
शङ्खपुष्पीविपक्वं तु क्षीरं सर्पिः पिबेत् त्र्यहम् ॥ (ब्ध् २.१.२२)

इति तत् पर्युषितत्वाद् अधिकम् । अकामतो ऽभ्यासे पुनर् मनुनोक्तम् (११.१४९) ।

अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा ।
पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥ इति । (म्ध् ११.१४८)

यत् तु विष्णूक्तम्, “अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्” इति, तन् मतिपूर्वकपाने । ज्ञानतो ऽभ्यासे तु बृहद्यम आह ।

सुराभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
स द्वादशाहं क्षीरेण पिबेद् ब्राह्मीं सुवर्चलाम् ॥ इति ।

सुरापस्य मुखगन्धाघ्राणे तु मानवम्,

ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः ।
प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ॥ (म्ध् ११.१५०)

इति, तत् सोमयाजिन एवामतिपूर्वे । मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम् । साक्षात् सुरागन्धाघ्राणस्य तु “घ्रातिर् अघ्रेयमद्ययोः” इति जातिभ्रंशकरत्वात्,

जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥ (म्ध् ११.१२५)

इति मनूक्तं द्रष्टव्यम् ॥ ३.२५४ ॥

एवं मुख्यसुरापाने प्रायश्चित्तम् उक्त्वा, मद्यपाने प्रायश्चित्तम् आह ।

अज्ञानात् तु सुरां पीत्वा रेतो विण्मूत्रम् एव च । ३.२५५अब्
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ ३.२५५च्द्

यः पुनर् अज्ञानाद् उदकबुद्ध्या सुरां मद्यं ब्राह्मणः पिबति, ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति, ते त्रयो ऽपि द्विजातयो वर्णास् तप्तकृच्छ्रपूर्वकं पुनरुपनयनं प्रायश्चित्तम् अर्हन्ति । अत्र मद्यपाने यो ऽयं पुनःसंस्कारः स ब्राह्मणस्यैव, क्षत्रियविशोस् तदभ्यनुज्ञानस्य दर्शितत्वात् । सुराशब्दश् चात्र मद्यपरः, प्रायश्चित्तस्यातिलघुत्वात्, अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच् च । अत एव गौतमेनत्र मद्यशब्दः प्रयुक्तः- “अमत्या मद्यपाने पयो घृटम् उदकं वा त्र्यहं तप्तानि पिबेत् स तप्तकृच्छ्रस् ततो ऽस्य संस्कारो मूत्रपुरीषकुणपरेतसाण् प्राशने च” इति (ग्ध् १३.२) । यद् अप्य् अस्मिन्न् एव विषये मनुनोक्तम्,

अज्ञानाद् वारुणीं पीत्वा संस्कारेण विशुध्यति । (म्ध् ११.१४७)

इति, तद् अपि तप्तकृच्छ्रपूर्वकम् एव, गौतमवाक्यानुरोधात् । पुनःसंस्कारश् च पुनरुपनयनम् । तच् च आश्वलायनाद्युक्तक्रमेण कर्तव्यम् । यथोक्तम्- “अथोपेतपूर्वस्य कृताकृतं केश्वपनं मेघाजननं चानिरुक्तं परिदानं कालश् च तत् सवितुर् वृणीमह इति सावित्रीम्” (आश्गृ १.२२.२४–२९) इति । मतिपूर्वमद्यपाने वसिष्ठोक्तं द्रष्टव्यम्- “मत्या मद्यपाने त्व् असुरायाः सुरायाश् चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतप्राशनं पुनःसंस्कारश् च” (वध् २०.१९) इति । चान्द्रायणं वा शङ्खोक्तम्- “असुरामद्यपायी चान्द्रायणं चरेत्” इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षड्रात्रम्-

अभक्ष्याणाम् अपेयानाम् अलेह्यानां च भक्षाणे ।
रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ।
पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ।
एतेषाम् उदकं पीत्वा षड्रात्रेण विशुध्यति ॥ इति ।

एतच् च तालादिमद्यविषयम् । गौडीमाध्व्योः पुनर् अज्ञानतः पाने “असुरायाः सुरायाश् चाज्ञानतः” (वध् २०.१९) इति वसिष्ठोक्तः कृच्छ्रातिकृच्छ्रसहितः पुनःसंस्कारो घृतप्राशश् च द्रष्टव्यः । तयोर् मतिपूर्वपाने तु “पिण्याकं वा कणान् वा” इति त्रैवार्षिकम् । कामतस् तु तत्पानाभ्यासे “अभ्यासे तु सुराया अग्निवर्णां सुरां पिबेन् मरणात्पूतो भवति” (वध् २०.२२) इति वासिष्ठम् मरणान्तिकं द्रष्टव्यम् । नात्र सुराशब्दः पैष्ट्यभिप्रायः, तस्याः सकृत्पाने ऽपि मरणान्तिकस्य दर्शितत्वात् । मद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमोक्तम् ।

मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
कुशमूलविपक्वेन त्र्यहं क्षीरेण वर्तयेत् ॥ इति ।

अज्ञानतो ऽभ्यासे तु वसिष्ठेनोक्तम्-

मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ॥
एतेषाम् उदकं पीत्वा त्रिरात्रेण विशुध्यति ॥ इति । (च्फ़्। वध् २०.२१)

ज्ञानतः पाने तु विष्णूक्तं “मद्यभाण्डस्थितं तोयं पीत्वा पञ्चरात्रं शङ्खपुष्पीशृतं पयः पिबेत्” (विध् ५१.२३–२४) इति । ज्ञानतो ऽभ्यासे तु शङ्खेनोक्तम्- “मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्” इति ॥ अत्यन्ताभासे तु हारीतोक्तम् ।

मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
द्वादशाहं तु पयसा पिबेद् ब्राह्मीं सुवर्चलाम् ॥ इति ।

एषु च वाक्येषु द्विजग्रहणं ब्राह्मणाभिप्रायम् क्षत्रियवैश्ययोर् अप्रतिषेधाद् इति दर्शितं प्राक् । इदं च गौडीमाध्वीभाण्डस्थजलपानविषयं, गुरुत्वात् प्रायश्चित्तस्य । तालादिमद्यभाण्डोदकपाने तु कल्प्यम् ॥ ३.२५५ ॥

द्विजातिभार्यां प्रत्य् आह ।

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । ३.२५६अब्
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ ३.२५६च्द्

या द्विजातिभार्या सुरां पिबति सा कृतपुण्यापि सती पतिलोकं न याति किं त्व् इहैव लोके श्वगृध्रसूकरलक्षितां तिर्यग्योनिं क्रमेण प्राप्नोति । ब्राह्मणीग्रहणं चात्र “तिस्रो वर्णानुपूर्व्येण” (य्ध् १.५७) इति न्यायेन यस्य द्विजातेर् यावत्यो भार्यास् तासाम् उपलक्षणम् । अत एव मनुः ।

पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥ इति । (च्फ़्। प्स्म् १०.२६)

धर्मार्थकामेषु सहाधिकाराद् दम्पत्योर् एकशरीरत्वम् एव अतो यस्य द्विजातेर् भार्या सुरां पिबति तस्य भार्यारूपम् अर्धं शरीरं पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर् न विधीयते । तस्माद् द्विजातिभार्यया ब्राह्मण्याद्यया न सुरा पेया ।

तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् । (म्ध् ११.९४)

इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणाम् अपि प्रतिषेधे सिद्धे, पुनर्वचनं द्विजातिभार्यायाः शूद्राया अपि सुराप्रतिषेधप्राप्त्यर्थम् । अतो द्विजातिभार्याभिः सुरापाने प्रायश्चित्तस्यार्धं कार्यम् । शूद्रभार्यायास् तु शूद्रायाः शूद्रवद् एव न प्रतिषेधः । सुरापानसमेषु तु निषिद्धभक्षणादिषु सुरापानप्रायश्चित्तार्धम् इत्य् उक्तं प्राक् ॥ ३.२५६ ॥

इति सुरापानप्रायश्चित्तप्रकरणम्

क्रमप्राप्तं सुवर्णस्तेयप्रायश्चित्तम् आह ।

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत् । ३.२५७अब्
स्वकर्म ख्यापायंस् तेन हतो मुक्तो ऽपि वा शुचिः ॥ ३.२५७च्द्

ब्राह्मणस्वामिकं सुवर्णं यो ऽपहरत्य् असौ “सुवर्णस्तेयं मया कृतम्” इत्य् एवं स्वकर्म ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वात् तेन मुसलेन राजा तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । अपहरणशब्देन च समक्षं परोक्षं वा बलाच् चौर्येण वा क्रयादिस्वत्वहेतुं विना ग्रहणम् उच्यते । “मुसलं समर्पतेत्” इति यद्य् अपि सामान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्यायोमयादेर् ग्रहणम् । अत एव मनुनोक्तम् ।

स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् ।
अस्ंसि चोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥ इति ॥ (म्ध् ८.३१५)

शङ्खेनाप्य् अत्र विशेष उक्तः- “सुवर्णस्तेनः प्रकीर्णकेश आर्द्रवासा आयसं मुसलम् आदाय राजानम् उपतिष्टेद् इदं मया पापं कृतम् अनेन मुसलेन मां घातयस्वेति । स राज्ञा शिष्टः सन् पूतो भवति” इति । हननं चावृत्तिविधानाभावात् सकृद् एव कार्यम् । अत एव मनुनोक्तम् ।

ततो मुसलम् आदाय सकृद् धन्यात् तु तं स्वयम् । इति । (म्ध् ११.१०१)

एवं सकृत् ताडनेन राज्ञा हतो मृतः शुध्येत्, मुक्तो वा मरणाज् जीवन्न् अपि विशुध्येद् इति यावत् । तथा च संवर्तेनोक्तम् ।

ततो मुसलम् आदाय सकृद् धन्यात् तु तं स्वयम् ।
यदि जीवति स स्तेनस् ततः स्तेयाद् विशुध्यति । इति ।

यथोक्तम् ब्राह्मणवधे “मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति” इति ।

ननु अताडित एव राज्ञा मुक्तः स्तेनः शुध्येद् इत्य् अयम् अर्थः कस्मान् नेष्यते ।
उच्यते, “अनघ्नन्न् एनस्वी राजा” (ग्ध् १२.४५) इति गौतमीये ताडनम् अकुर्वतो राज्ञो दोषाभिधानात् ।
भवतु राज्ञो दोषस् तथाप्य् अतिक्रान्तनिषेधेन राज्ञा स्नेहादिना मुक्तः स्तेनः कथं न शुध्येद् इति चेत् ।
उच्यते । एवं च सत्य् अकारणिका शुद्धिर् आपतेत् ।
अथोच्यते । मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्ठानेन शुद्ध्यङ्गीकरणान् नाकारणिकेति ।
तद् अप्य् असुन्दरम्, मुक्तः शुचिर् इति मोक्षस्यैव शुद्धिहेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाज् जीवन्न् अपि विशुध्येद् इति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर् न तु ब्राह्मणस्यैव, ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषानुपादानात्, क्षत्रियादीनां च महापातकित्वाविशेषात्, प्रायश्चित्तान्तरस्यानाम्नानाच् च । यत् पुनर् मानवे “सुवर्णस्तेयकृद् विप्रः” (म्ध् ११.१००) इति विप्रग्रहणं तन् नरमात्रोपलक्षणम्, “प्रायश्चित्तीयते नरः” (म्ध् ११.४४) इति तस्यैव प्रकृतत्वात्, “ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः” (म्ध् ११.५५) इति निमित्तवाक्ये विशेषानुपादानाच् च । तत्सापेक्षनैमित्तिकवाक्ये “सुवर्णस्तेयकृद् विप्रः” (म्ध् ११.१००)त्य् अत्र श्रूयमाणम् अप्य् उपलक्षणम् एव युक्तम्, यथा “अभ्युदितेष्ट्यां यस्य हविर्” इति वाक्ये तन्दुलग्रहणं हविर्मात्रस्य । इदं च राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य,
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् । (म्ध् ८.३८०)

इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिद् अतिक्रान्तनिषेधे राज्ञा हन्यते तथापि शुद्धो भवति,

वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव वा । म्ध् ११.१०१)

इति ब्राह्मणस्पापि वधेन शुद्ध्यभिधानात् । न च “तपसैव वा” (य्ध् १.२००) इत्य् एवकारेण वधनिषेधः, तस्य केवलतपसापि शुद्ध्यभिधानपरत्वात् । यदि वधो निषिद्धस् तार्हि “तपसैव वा” इति विकल्पाभिधानम् अनुपपन्नम् । न च दण्डाभिप्रायं विकल्पाभिधानम्, तस्यानिर्दिष्टत्वात् । किं च एकार्थास् तु विकल्पेरन् इति न्यायेनैकार्थानाम् एव विकल्पो व्रीहियवयोर् इव । न च दण्डतपसोर् एकार्थत्वम्, दण्डस्य दमनार्थत्वात् तपसश् च पापक्षयहेतुत्वात् । न च “वधेन शुध्यति स्तेनः” (म्ध् ११.१०१) इति सामान्यविषयेण वधेन ब्राह्मणस् तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः । न हि भवति ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय वेति विकल्पस् तस्माद् द्वयोर् अपि सामान्यविषयत्वम् एव । यद् वा क्षत्रियस्यापि न निषेधः, मनुना “सुवर्णस्तेयकृद् विप्रः” (म्ध् ११.१००) इत्य् अभिधाय,

गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम् । (म्ध् ११.१०१)

इति सर्वनाम्ना प्रकृतब्राह्मणपरामर्शेनैव हननविधानात्, “न जातु ब्राह्मणं हन्यात्” (म्ध् ८.३८०) इत्य् अस्य प्रायश्चित्तव्यतिरिक्तदण्डरूपहननविषयत्वेनाप्य् उपपत्तेः । एतच् च मरणान्तिकं मतिपूर्वसुवर्णस्तेयविषयम्,

मरणान्तिकं हि यत् प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
तत् तु कामकृते पापे विज्ञेयं नात्र संशयः ॥

इति मध्यमाङ्गिरःस्मरणात् । अत्र च सुवर्णशब्दः परिमाणविशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः,

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥
गौरस् तु ते त्रयः षड्भिर् यवो माषस् तु ते त्रयः ।
कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥ (य्ध् १.३६२–६३)

इति षोडशमाषपरिमिते हेमनि सुवर्णशब्दस्य परिभाषितत्वात् । अतो ब्राह्मणसुवर्णापहरणं महापातकम् इत्यादिप्रयोगेषु कृतपरिमाणस्यैव सुवर्णस्य ग्रहणं युक्तम्, परिमाणकरणस्य दृष्टार्थत्वात् । न ह्य् अदृष्टार्थपरिमाणस्मरणम् । नापि लोकव्यवहारार्थम्, अतत्परत्वात् स्मृतिकारप्रवृत्तेः । अत एवोक्तं न्यायविद्भिः “कार्यकाले संज्ञापरिभाषयोर्” उपस्थानम् इति । तथा नामानि गुणफलोपबन्धेनार्थवद् इत्य् उक्तं पञ्चदशान्य् आज्यानीत्य् अत्र । न च दण्डमात्रोपयोगिपरिमाणस्मरणम् इत्य् उक्तम् इति युक्तम्, तावन्मात्रार्थत्वे प्रमाणाभावात् । अतो ऽविशेषात् सर्वशेषत्वम् एव युक्तम् । किं च, दण्डस्य दमनार्थत्वाद् दमनस्य च परिमाणविशेषम् अन्तरेणापि सिद्धेर् नातीव परिमाणस्मरणम् उपयुज्यते । शब्दैकसमधिगम्ये तु महापातिकत्वादाव् एकान्ततः स्मरणम् उपयुज्यते । अतः षोडशमाषात्मकसुवर्णपरिमितहेमहरण एव महापातकित्वं तन्निमित्तं मरणान्तिकादिप्रायश्चित्तविधानं च । द्वित्रादिमाषात्मकहेमहरणं तु क्षत्रियादिहेमहरणवद् उपपातकम् एवेति युक्तम् । किं च । सुवर्णान् न्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदेशात् तत्परिमाणस्यैव हेम्नो हरणे मरणान्तिकादिप्रायश्चित्तम् इति युक्तम् । तथाचोक्तं षट्त्रिंशन्मते ।

वालाग्रमात्रे ऽपहृते प्राणायामं समाचरेत् ।
लिक्षामात्रे ऽपि च तथा प्राणायामत्रयं बुधः ॥
राजसर्षपमात्रे तु प्राणायामचतुष्टयम् ।
गायत्र्यष्टसहस्रं च जपेत् पापविशुद्धये ॥
गौरसर्षपमात्रे तु सावित्रीं वै दिनं जपेत् ।
यवमात्रे सुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥
सुवर्णकृष्णलं ह्य् एकम् अपहृत्य द्विजोत्तमः ।
कुर्यात् सान्तपनं कुर्यात् तत्पापस्यापनुत्तये ॥
अपहृत्य सुवर्णस्य माषामात्रं द्विजोत्तमः ।
गोमूत्रयावकाहारस् त्रिभिर् मासैर् विशुध्यति ॥
सुवर्णस्यापहरणे वत्सरं यावकी भवेत् ।
ऊर्ध्वं प्राणान्तिकं ज्ञेयम् अथवा ब्रह्महव्रतम् ॥

इदं च वत्सरं यावकाशनं किंचिन्न्यूनसुवर्णापहारविषयम्, सुवर्णापहारे मन्वादिमहास्मृतिषु द्वादशवार्षिकविधानात् ।

बलाद् ये कामकारेण गृह्णन्ति स्वं नराधमाः ।
तेषां तु बलहर्तॄणां प्राणान्तिकम् इहोच्यते ॥

सुवर्णपरिमाणाद् अर्वाग् अपीत्य् अभिप्रेतम् । इदं च स्तेयप्रायश्चित्तम् अपहृतधनं तत्स्वामिने दत्त्वैव कार्यम्,

स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः ।
स्वामिने ऽपहृतं देयं हर्त्रा त्व् एकादशाधिकम् ॥

इति स्मरणात्, तथा,

चरेत् सान्तपनं कृच्छ्रं तन्निर्यात्य् आत्मशुद्धये । (म्ध् ११.१६५)

इति मनुस्मरणाच् च । दण्डप्रकरणे ऽप्य् उक्तम्-

शेषेष्व् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥ (म्ध् ८.३२०) इति ।

यद् वात्यशक्त्या राजा हन्तुम् असमर्थस् तदा वसिष्ठोक्तम् द्रष्टव्यम्- “स्तेनः प्रकीर्णकेशो राजनम् अभियाचेत् । ततस् तस्मै राजौदुम्बरं शस्त्रं दद्यात् तेनात्मानं प्रमापयेत् । मरणात् पूतो भवीति विज्ञायते” (वध् २०.४१) इति । औदुम्बरं ताम्रमयम् । यद् अपि द्वितीयं प्रायश्चित्तं तेनोक्तम् “निष्कालको गोघृताक्तो गोमयाग्निना पादप्रभृत्यात्मानं प्रमापयेन् मरणात् पूतो भवतीति विज्ञायते” (वध् २०.४२) इति, तद् अपि गुरुश्रोत्रिययागस्थादिविप्रद्रव्यापहारविषयं क्षत्रियाद्यपहर्तृविषयं वा । तत्र निष्कालक इति निर्गतकेशश्मश्रुलोमाभिधीयते । तथाश्वमेधाद्यनुष्ठानेन वा । तथा प्रचेतसा मरणान्तिकम् अभिधायोक्तम्-

इष्ट्वा वाश्वमेधेन गोसवेन वा विशुध्येत् । इति ।

एतच् च विट्क्षत्रियाद्यपहर्तृविषयम् ॥ ३.२५७ ॥

प्रायश्चित्तान्तरम् आह ।

अनिवेद्य नृपे शुध्येत् सुरापव्रतम् आचरन् । ३.२५८अब्
आत्मतुल्यं सुवर्णं वा दद्याद् वा विप्रतुष्टिकृत् ॥ ३.२५८च्द्

स्वीयं स्तेयं राजन्य् अनिवेद्य सुरापव्रतं द्वादशवार्षिकम् आचरन् शुध्येत् । शवशिरोध्वाजे तत्कपालधारणनिराकरणार्थं सुरापव्रतम् इत्य् उक्तम् । एतच् चाकामकारविषयम्,

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् । (म्ध् ११.९०)

इत्य् अकामतो विहितस्यैव द्वादशवार्षिकस्यातिदेशात् ।

ननु अकामतो ऽपहार एव न संभवतीति कथं तद्विषयत्वम् ।
उच्यते । यदा वस्त्रप्रान्तग्रथितं सुवर्णादिकम् अज्ञानाद् अपहरति रजतादिद्रव्यान्तरबुद्ध्या वा हृत्वा चानन्तरम् एवान्यस्मै दत्तं नाशितं वा न पुनः स्वामिने प्रत्यर्पितं तदा संभवत्य् एवाकामतो ऽपहारः । यस् तु ताम्रादिकस्य रसवेधाद्यापादितसुवर्णरूपस्यापहारो न तत्रेदं प्रायश्चित्तम्, मुख्यजातिसमवायाभावात् । न च मुख्यसादृश्यमात्रेण गौणे मुख्यधर्मा भवन्ति । यद्य् अपीदृशम् एवासुवर्णं सुवर्णभ्रान्त्यापहरति तथापि नेदं प्रायश्चित्तम्, असुवर्णापहारित्वाद् एव । न च “सृष्टश् चेद् ब्राह्मणवधे अहत्वापि” (ग्ध् २२.११) इतिवद् अत्रापि दोष इति वाच्यम्, असुवर्णे प्रवृत्तत्वाद् एव । न ह्य् अब्राह्मणः सृष्टश् चेद् इत्य् अस्य विषयः । यच् चेदं “मनसा पापं ध्यात्वा प्रणवपूर्वकं व्याहृतीर् मनसा जपेत् । व्याहृत्या प्राणायामं त्रिर् आचरेत् । प्रवृत्तौ कृच्छ्रं द्वादशरात्रं चरेत्” (च्फ़्। वध् २३.२३) इति तद् अपि सम्यगर्थप्रवृत्तिविषयम् । अतो नेदृशम् अज्ञानतः सुवर्णापहारः प्रायश्चित्तस्य निमित्तं किं तु रजतादिबुद्ध्या पूर्वोक्त एव स्वर्णापहारः । अस्मिन्न् एव विषये यदापहर्तात्यन्तमहाधनः तदात्मतुलितं सुवर्णं दद्यात् । अथ तावद् धनं नास्ति तपश्चर्यायां चाशक्तस् तदा विप्रतुष्टिकृद् विप्रस्य यावज्जीवं कुटुम्बभरणपर्याप्ततया तुष्टिकरं धनं दद्यात् । यदा तु निर्गुणस्वामिकं द्रव्यम् अपहरति तदा “एतद् एव व्रतं स्तेनः पादन्यूनं समाचरेत्” इति व्यासेनोक्तम् नववार्षिकं द्रष्टव्यम् । यदा पुनर् ईदृशम् एव क्षुत्क्षामकुटुम्बपरिरक्षणार्थम् अपहरति तदा अत्रिप्रतिपादितं षड्वार्षिकं स्वर्जिदादिं वा क्रतुं कुर्यात् तीर्थयात्रां वा,
षडब्दं वाचरेत् कृच्छ्रं यजेद् वा क्रतुना द्विजः ।
तीर्थानि वा भ्रमन्विद्वांस् ततः स्तेयाद् विमुच्यते ॥ इति ।

यदा त्व् अपहारसमनन्तरम् एव “हा कष्टं मया कृतम्” इति जातानुतापः प्रत्यर्पयति त्यजति वा तद् आपस्तम्बीयं चतुर्थकालमिताशनेन त्रिवर्षम् अवस्थानम्, आङ्गिरसं वा वज्राख्यं त्रैवार्षिकं द्रष्टव्यम् ।

ननु प्रत्यर्पणे त्यागे वापहारधात्वर्थस्य निष्पन्नत्वात् कथं प्रायश्चित्ताल्पत्वम् । अथानिष्पन्नस् तदा प्रायश्चित्ताभाव एव स्यान्, न तु प्रायश्चित्ताल्पत्वम् ।
मैवम् । अपहारस्योपभोगादिफलपर्यन्तत्वाद् उपभोगात् प्राङ् निवृत्तौ च पुष्कलस्यापहारार्थस्याभावाद् युक्तम् एव प्रायश्चित्ताल्पत्वं, पीतवान्त इवापेयद्रव्ये ।
ननु एवं सति चौरहस्ताद् बलाद् आकृष्य ग्रहणे ऽपि तस्योपभोगलक्षणफलाभावात् प्रायश्चित्ताल्पत्वप्रसङ्गः ।
मैवम्, तस्य त्यागे स्वतःप्रवृत्त्यभावात् फलपर्यन्ते ऽपहारे स्वतःप्रवृत्तत्वाच् च । यस् तु रजतताम्रादिसंसृष्टसुवर्णापहारी न तत्रेदं लघुप्रायश्चित्तम्, यतः संसर्गे ऽपि सुवर्णत्वं नापैति, आज्यत्वम् इव पृषदाज्ये । अतस् तत्र द्वादशवार्षिकम् एवेति युक्तम् । अथ लघुप्रायश्चित्तादि द्रव्यान्तरम् एवेति लघुप्रायश्चित्तम् उच्यते । न तर्हि तत्र त्रैवार्षिकादिविषयता असुवर्णत्वाद् एव, किं तूपपातकप्रायश्चित्तम् एव । यद् अप्य् अपरम् आपस्तम्बोक्तम्,
स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रं सांवत्सरं चरेत् ।

।इति, तत् सुवर्णपरिमाणाद् अर्वाङ् माषाच् चाधिकपरिमाणद्रव्यविषयम् । यत् तूक्तं सुमन्तुना “सुवर्णस्तेयी मासं सावित्र्याष्टसहस्रम् आज्याहुतीर् जुहुयात् । प्रत्यहं त्रिरात्रम् उपवासस् तप्तकृच्छ्रेण च पूतो भवति” इति, तत् पूर्वोक्तमाषपरिमाणसुवर्णापहारप्रायश्चित्तेन सह विकल्प्यते । यद् अप्य् अपरं तेनैवोक्तम् “सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति” इति, तन् मनसापहारे प्रवृत्तस्य स्वत एवोपरतजिहीर्षस्य वेदितव्यम् । अत्रापि स्त्रीबालवृद्धादिष्व् अप्य् अर्धम् एव प्रायश्चित्तं वेदितव्यम् । यानि च अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं “तथा” इत्यादिना सुवर्णस्तेयसमत्वेन प्रतिपादितानि तेष्व् अप्य् अर्धम् एव कार्यम् । यत् पुनश् चतुर्विंशतिमतवचनम्,

रूप्यं हृत्वा द्विजो मोहाच् चरेच् चान्द्रायणव्रतम् ।
गद्याणदशकाद् ऊर्ध्वम् आ शताद् द्विगुणं चरेत् ॥
आ सहस्रात् तु त्रिगुणम् ऊर्ध्वं हेमविधिः स्मृतः ।
सर्वेषां धातुलोहानां पराकं तु समाचरेत् ॥
धान्यानां हरणे कृच्छ्रं तिलानाम् ऐन्दवं स्मृतम् ॥
रत्नानां हरणे विप्रश् चरेच् चान्द्रायणव्रतम् ॥ इति ।

तद् अपि गद्याणसहस्राधिकरजतहरणे सुवर्णस्तेयसमप्रायश्चित्तप्रतिपादनार्थं न पुनस् तन्निवृत्त्यर्थम् । यद् अपि रत्नापहारे चान्द्रायणम् उक्तं तद् अपि गद्याणसहस्राद् धीनमूल्यरत्नापहारे द्रष्टव्यम् । ऊर्ध्वं पुनः सुवर्णस्तेयसमम् ॥ ३.२५८ ॥

इति सुवर्णस्तेयप्रायश्चित्तप्रकरणम्

उद्देशक्रमप्राप्तं गुरुतल्पिप्रायश्चित्तम् आह ।

तप्ते ऽयःशयने सार्धम् आयस्या योषिता स्वपेत् । ३.२५९अब्
गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत् तनुम् ॥ ३.२५९च्द्

“समा वा गुरुतल्पगः” (य्ध् ३.२६०) इति वक्ष्यमाणश्लोकगतं गुरुतल्पगपदम् अत्र संबध्यते । तप्ते ऽयःशयने यथा मरणक्षमं भवति तथा तप्ते अग्निवर्णे कृते कार्ष्णायसे शयने अयोमय्या स्त्रीप्रतिकृत्या तप्तया सह गुरुतल्पगः स्वप्यात् । एवं सुप्त्वा तनुं देहं उत्सृजेत् । म्रियेतेति यावत् । शयनं च गुर्वङ्गनागमनं मया कृतम् इत्य् एवं स्वकर्म विख्याप्य कुर्यात्, “गुरुतल्प्य् अभिभाष्यैनः” (म्ध् ११.१०४) इति मनुस्मरणात् । तथा स्त्रियम् आलिङ्ग्य कार्यम्, “गुरुतल्पगो मृन्मयीम् आयसीं वा स्त्रियः प्रतिकृतिम् अग्निवर्णां कृत्वा कार्ष्णायसशयने (अयोमय्या स्त्रीप्रतिकृत्या कृत्वा) ताम् आलिङ्ग्य पूतो भवति” इति वृद्धहारीतस्मरणात् । तथा मुण्डितलोमकेशेन घृताभ्यक्तेन च कर्तव्यम्, “निष्कालको घृताभ्यक्तस् तप्तां तां सूर्मीं मृन्मयीं वा परिष्वज्य मरणात् पूतो भवतीति विज्ञायते” (वध् २०.१४) इति वसिष्ठस्मरणात् । न च,

गुरुतल्प्य् अभिभाष्यैनस् तप्ते स्वप्याद् अयोमये ।
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ॥ (म्ध् ११.१०४)

इति मनुवाक्यानुरोधेन तप्तलोहशयनं तप्तलोहयोषिदालिङ्गनं च निरपेक्षं प्रायश्चित्तद्वयम् इत्य् आशङ्कनीयम् । आयस्या योषिता स्वपेत् । कुत्रेत्य् आकाङ्क्षायां तप्ते ऽयःशयन इति परस्परसापेक्षतयैकत्वावगमाद् एककल्पत्वम् एव युक्तम् । अथ वा वृषणौ सलिङ्गौ स्वयम् उत्कृत्य छित्त्वाञ्जलिना गृहीत्वा नैरृत्यां दक्षिणस्यां प्रतीच्यां दिशि देहपातान्तम् अकुटिलगतिर् गत्वा तनुम् उत्सृजेत् । यथाह मनुः ।

स्वयं वा शिश्नवृषणाव् उत्कृत्याधाय चाञ्जलौ ।
नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥ इति । (म्ध् ११.१०५)

गमनं पृष्टतो ऽनीक्षमाणेन कर्तव्यम्, “क्षुरेण शिश्नवृषणाव् उत्कृत्यानवेक्षमाणो व्रजेत्” इति शङ्खलिखितस्मरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिबध्यते तत्रैव मरणान्तं तिष्ठेत्, “सवृषणं शिश्नम् उत्कृत्याञ्जलाव् आधाय दक्षिणाभिमुखो गच्छेद् यत्रैव प्रतिहतस् तत्रैव तिष्ठेद् आ प्रलयात्” (वध् २०.१३) इति वसिष्ठस्मरणात् । दण्डो ऽप्य् अत्रायम् एव । यथाह नारदः ।

आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥

एवं दण्डार्थम् अपि लिङ्गाद्युत्कर्तनं पापक्षयार्थम् अपि भवति । इदम् एव मरणान्तिकं दण्डम् अभिप्रेत्योक्तं मनुना ।

राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ इति । (म्ध् ८.३१८)

धनदण्डेन पुनः प्रायश्चित्तं भवत्य् एव,

प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटे स्युर् दाप्यास् तूत्तमसाहसम् ॥ (म्ध् ९.२४०)

इति तेनैवोक्तत्वात् । अनयोश् च मरणान्तिकयोर् अन्यतरानुष्ठानेन गुरुतल्पगः शुध्येत् । गुरुशब्दश् चात्र मुख्यया वृत्त्या पितरि वर्तते,

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥ (म्ध् २.१४२)

इति मनुना गुरुत्वप्रतिपादनपरे वाक्ये निषेकादिकर्तुर् जनकस्यैव गुरुत्वाभिधानात् । योगीश्वरेण च निषेकादिकर्माभिप्रायेणोक्तम्- “स गुरुर्यः क्रियां कृत्वा वेदम् अस्मै प्रयच्छति” (य्ध् १.३४) इति ।

ननु गुरुशब्दस्यान्यत्रापि प्रयोगो दृश्यते- “उपनीय गुरुः शिष्यम्” (म्ध् २.६९)इत्यादिनाचार्ये “स्वल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तम् अपीह गुरुं विद्यात्” (म्ध् २.१४९) इत्य् उपाध्याये । व्यासेनाप्य् अत्र प्रयोगो दर्शितः- “गुरवो मातृपितृपत्यार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातान्नदाता च” इति । न चानेकार्थकल्पनादोषः, गुरुशब्दस्य प्रवृत्तिनिमित्तभूतायाः पूजार्हतायाः सर्वत्रानुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण “एते मान्या यथापूर्वम् एभ्यो माता गरीयसी” इति (य्ध् १.३५) “मान्याः” इत्य् उपक्रम्य गरीयसीत्य् उपसंहारं कुर्वता । न च,
उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता । (म्ध् २.१४५)

इत्य् उपाध्यायाद् अधिकाचार्यात् पितुर् अतिशयितत्ववचनात् स एव मुख्य इति वाच्यम्, आचार्ये ऽप्य् अतिशयितत्वस्याविशिष्टत्वात्,

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता । इति । (म्ध् २.१४६)

गौतमेनाप्य् उक्तम् “आचार्यः श्रेष्ठो गुरूणाम्” इति (ग्ध् २.५०) । किं च यद्य् अतिशयितत्वमात्रेण मुख्यत्वम् उच्यते, तर्हि सहस्रम् इति वचनान् मातुर् एव गुरुत्वं स्यात् । तस्मात् सर्वे गुरवस्, तत्पत्नीगमनं गुर्वङ्गनागमनम् इति युक्तम् ।

उच्यते । “निषेकादीनि” इति मनुवचनं निषेकादिकर्तुर् जनकस्य गुरुत्वप्रतिपादनपरम् अनन्यपरत्वात् । यत् पुनर् व्यासगौतमवचनं, तत् परिचर्यापूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् । अतो गुरुत्वप्रतिपादनपरान् निषेकादीति मनुवचनात् पितुर् एव मुख्यं गुरुत्वम् इति स्थितम् । अत एव वसिष्ठेन “आचार्यपुत्रशिष्यभार्यासु चैवम्” (वध् २०.१५) इत्य् आचार्यदारेष्व् आतिदेशिकं गुरुतल्पप्रायश्चित्तम् उक्तम् । तथा जातूकर्ण्यादिभिर् अप्य् उक्तम्-
आचार्यादेस् तु भार्यासु गुरुतल्पव्रतं चरेत् ।

इत्यादि । आचार्यादेर् मुह्क्यगुरुत्वे तूपदेशत एव व्रतप्राप्तेर् अतिदेशो ऽनर्थक एव स्यात् । किं च संवर्तेन स्पष्टम् एव पितृदारग्रहणं कृतम् ।

पितृदारान् समारुह्य मातृवर्ज्यं नराधमः । इति ।

षट्रिंशन्मते ऽपि ।

पितृभार्यां तु विज्ञाय सवर्णां यो ऽधिगच्छति । इति ।

अतो ऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः । तच् च गुरुत्वं वर्णचतुष्टये ऽप्य् अविशिष्टम्, निषेकादिकर्तृत्वस्याविशेषात् । अतः “स विप्रो गुरुर् उच्यते” इति विप्रग्रहणम् उपलक्षणम् । अतः पितृपत्नीगमनम् एव महापातकम् । गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस् ततो ऽर्वाङ् निवृत्तौ न महापातकित्वम् । तत्र चेदं “तप्ते ऽयःशयने सार्धम् आयस्या” इत्याद्युक्तं मरणान्तिकं प्रायश्चित्तद्वयम् । तच् च जनन्याम् अकामकृते, तत्सपत्न्यां तु सवर्णायाम् उत्तमवर्णायां च कामकृते द्रष्टव्यम्,

पितृभार्यां तु विज्ञाय सवर्णां यो ऽधिगच्छति ।
जननीं चाप्य् अविज्ञाय नामृतः शुद्धिम् आप्नुयात् ॥
इति षट्त्रिंशन्मते ऽभिधानात् । जनन्यां तु कामकृते वासिष्ठं “निष्कालको घृताभ्यक्तो गोमयाग्निना पादप्रभृत्यात्मानम् अवदाहयेत्” (वध् २०.१४) इति द्रष्टव्यम् । अकामतो ऽभ्यासे ऽप्य् एतद् एव ।
ननु च,
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ।
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥ (य्ध् ३.२३२–३३)

इत्य् अतिदेशाभिधानान् मातृसपत्नीगमने त्व् औपदेशिकं प्रायश्चित्तम् अयुक्तम् ।

उच्यते । “पितृभार्यां सवर्णाम्” इत्य् अस्माद् एव वचनात् सवर्णग्रहणाद् धीनवर्णसपत्नीविषयम् इदम् आतिदेशिकम् इति न विरोधः । इदं च मुख्यस्यैव पुत्रस्य । इतरेषां पुनः पुत्रकार्यकरत्वम् एव न पुत्रत्वम् । यथाह मनुः ।
क्षेत्रजादीन् सुतान् एतान् एकादश यथोचितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥ इति । (म्ध् ९.१८०)

तत्रोभयेच्छातः प्रवृत्तौ “तप्ते ऽयःशयने” इति प्रथमं प्रायश्चित्तम् । स्वेन प्रोत्साहने तु “गृहीत्वोत्कृत्य वृषणौ” इति द्वितीयम्, अनुबन्धातिशयने प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवं तप्तलोहशयनज्वलत्सूर्म्यालिङ्गनयोर् अन्यतरं द्रष्टव्यम् । यत् तु शङ्खेन द्वादशवार्षिकम् उक्तम्,

अधःशायी जटाधारी पर्णमूलफलाशनः ।
एककालं समश्नीत वर्षे तु द्वादशे गते ॥
रुक्मस्तेयी सुरापश् च ब्रह्महा गुरुतल्पगः ।
व्रतेनैतेन शुध्यन्ति महापातकिनस् त्व् इमे ॥ इति

तत् समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ षड्वार्षिकम् । अकामतस् तु त्रैवार्षिकम्, जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात् प्राङ् निवृत्तौ द्वादशवार्षिकम्, अकामतस् तु षड्वार्षिकम्, इति कल्प्यम् । यत् तु संवर्तेन,

पितृदारान् समारुह्य मातृवर्ज्यं नराधमः ।

इत्यादिना समारोहणमात्रे तप्तकृच्छ्र उक्तः, स हीनवर्णगुरुदारेषु रेतःसेकाद् अर्वाग् द्रष्टव्यः ॥ ३.२५९ ॥

प्रायश्चित्तान्तरम् आह ।

प्राजापत्यं चरेत् कृच्छ्रं समा वा गुरुतल्पगः । ३.२६०अब्
चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम् ॥ ३.२६०च्द्

अथ वा प्राजापत्यं कृच्छ्रं वक्ष्यमाणलक्षणं समाः वर्षत्रयं चरेत् । एतच् च ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरुपत्नीं सवर्णां व्यभिचारिणीम् अबुद्धिपूर्वं गच्छति, तदा वेदजपसहितं चान्द्रायणत्रयं कुर्यात् । तत्रैव कामतः प्रवृत्ताव् औशनसं- “गुरुतल्पाभिगामी संवत्सरं ब्रह्महव्रतं षण्मासान् वा तप्तकृच्छ्रं चरेत्” इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्क्यीयं,

मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा । (य्ध् ३.२३२)

इति गुरुतल्पव्रतातिदेशान् नववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमनविषयं न भवति, तत्र कामतो मरणान्तिकस्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयम् एवेति युक्तम् । तत्रैव कामतो ऽभ्यासे मरणान्तिकम्,

मत्या गत्वा पुनर् भार्यां गुरोः क्षत्रसुतां द्विजः ।
अण्डाभ्यां रहितं लिङ्गम् उत्कृत्य स ंऋतः शुचिः ॥

इति कण्वस्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति, तदा

छित्त्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियास् तथा । (य्ध् ३.२३३)

इति याज्ञवल्क्यीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः । वैश्यायां तु गुरुभार्यायां कामतो गमने षड्वार्षिकम् । अत एव स्मृत्यन्तरम् “ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गमने पादहान्या द्वादशवार्षिकम् । एवम् अन्यवर्णास्व् अपि” । अयम् अर्थः । ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपत्न्यां गमने पादन्यूनं द्वादशवार्षिकं यावत्, तस्यैव तथाभूतायां वैश्यायां षड्वार्षिकम्, शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तम् इति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षिकम्, शूद्रायां तु षड्वार्षिकम् । एवम् एव वैश्यापुत्रस्यापीति । वैश्यायां तु कामतो ऽभ्यासे मरणान्तिकम् एव,

गुरोर् भार्यां तु यो वैश्यां मत्या गच्छेत् पुनः पुनः ।
लिङ्गाग्रं छेदयित्वा तु ततः शुध्येत् स किल्बिषात् ॥

इति लौगाक्षिस्मरणात् । शूद्रायां तु कामतो ऽभ्यासे द्वादशवार्षिकम्,

पुनः शूद्रां गुरोर् गत्वा बुद्ध्या विप्रः समाहितः ।
ब्रह्मचर्यम् अदुष्टात्मा संचरेद् द्वादशाब्दिकम् ॥

इत्य् उपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायाम् अबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकम् अष्टमकालाशनं द्रष्टव्यम्-

काले ऽष्टमे वा भुञ्जानो ब्रह्मचारी सदा व्रती ।
स्थानासनाभ्यां विहरंस् त्रिर् अह्नो ऽभ्युपयन्न् अपः ।
अधःशायी त्रिभिर् वर्षैस् तद् अपोहेत पातकम् ॥ इति ।

अत्रैवाभ्यासे जातूकर्ण्योक्तम्-

गुरोः क्षत्रसुतां भार्यां पुनर् गत्वा त्व् अकामतः ।
अण्डमात्रं समुत्कृत्य शुध्येज् जीवन् मृतो ऽपि वा ॥ इति ।

वैश्यायां त्व् अकामतो गमने “प्राजापत्यं चरेत् कृच्छ्रम्” (य्ध् ३.२६०) इत्य् एतद् एव याज्ञवल्क्यीयम् । तथा च वृद्धमनुः ।

गमने गुरुभार्यायाः पितृभार्यागमे तथा ।
अब्दत्रयम् अकामात् तु कृच्छ्रं नित्यं समाचरेत् ॥ इति ।

तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम् ।

अभ्यस्य विप्रो वैश्यायां गुरोर् अज्ञानमोहितः ।
षडङ्गं ब्रह्मचर्यं च स चरेद् यावद् आयुषम् ॥ इति ।

गुरुभार्यायां शूद्रायां त्व् अमतिपूर्वे मानवम् ।

खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥ इति । (म्ध् ११.१०६)

अथ वा “गुरुदाराभिगामी संवत्सरं कण्टकिनीं शाखां परिष्वज्याधःशायी त्रिषवणी भैक्षाहार्ः पूतो भवति” इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ।

चान्द्रायणं वा त्रीन् मासान् अभ्यस्येन् नियतेन्द्रियः । इति । (म्ध् ११.१०७)

क्षत्रियायां कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ व्याघ्रोक्तम् ।

कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्रातिकृच्छ्रकम् ।
चरेन् मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥ इति ।

अत्रेयं व्यवस्था । तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकृच्छ्रचरणं तावद् एव । स्वेन प्रोत्साहितायां पुनः कृच्छ्रातिकृच्छ्रानुष्ठानं च तावद् एवेति । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं कण्वोक्तं द्रष्टव्यम् ।

चान्द्रायणं तप्तकृच्छ्रम् अतिकृच्छ्रं तथैव च ।
सकृद् गत्वा गुरोर्भार्याम् अज्ञानात् क्षत्रियां द्विजः ॥ इति ।

तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां तु चान्द्रायाणम् । वैश्यायां कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं निवृत्तौ कण्वोक्तम् ।

तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः ।
भार्यां वैश्यां सकृद् गत्वा बुद्ध्या मासं चरेद् द्विजः ॥ इति

अत्रोभयोर् इच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तया प्रोत्साहितस्य सान्तपनम् । तत्रैवाकामतः प्रवृत्तस्य प्रजापतिर् आह ।

पञ्चरात्रं तु नाश्नीयात् सप्ताष्टौ वा तथैव च ।
वैश्यां भार्यां गुरोर् गत्वा सकृद् अज्ञानतो द्विजः ॥ इति ।

तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायाम् अष्टरात्रम् । शूद्रायां तु कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं निवृत्तौ जाबालिर् आह ।

अतिकृच्छ्रं तप्तकृच्छ्रं पराकं वा तथैव च ।
गुरोः शूद्रां सकृद् गत्वा बुद्द्या विप्रः समाचरेत् ॥ इति ।

तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तत्रैवाकामतः प्रवृत्तस्य दैर्घतमसम् ।

प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् ।
गुरोः शूद्रां सकृद् गत्वा चरेद् विप्रः समाहितः ॥ इति ।

तया प्रोत्साहितस्य प्राजापत्यम् । उभयेच्छातः प्रवृत्तौ सान्तपनम् । स्वेन प्रोत्साहितायां सप्तरात्रोपवास इति । अनयैव दिशान्येषाम् अपि स्मृतिवचसां विषयव्यवस्थोहनीया । पुरुषवच् च स्त्रीणाम् अप्य् अत्र महापातकित्वम् अविशिष्टम् । तथाहि कात्यायनः ।

एवं दोषश् च शुद्धिश् च पतितानाम् उदाहृता ।
स्त्रीणाम् अपि प्रसक्तानाम् एष एव विधिः स्मृतः ॥ इति ।

सतस् तस्या अपि कामतः प्रवृत्तौ मरणान्तिकम् अविशिष्टम् । अत एव पुरुषस्य मरणान्तिकम् उक्त्वा स्त्रिया अपि योगीश्वरेण मरणान्तिकं दर्शितम् ।

छित्त्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियास् तथा । इति । (य्ध् ३.२३३)

अकामतस् तु मनुनोक्तम् ।

एतद् एव व्रतं कार्यं योषित्सु पतितास्व् अपि । इति । (म्ध् ११.१८९)

द्वादशवार्षिकम् एवार्धकल्पनया कार्यम् । यानि पुनर् गुरुतल्पसमानि,

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ (य्ध् ३.२३१)

इति प्रतिपादितानि, यानि चातिदेशविषयभूतानि

पितुः स्वसारं मातुश् च मातुलानीं स्नुषाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥ (य्ध् २३२–३३)

इति प्रतिपादितानि, तेष्व् एकरात्राद् ऊर्ध्वम् अकामतो ऽभ्यस्तेषु यथाक्रमेण षड्वार्षिकं नववार्षिकं च प्रायश्चित्तं विज्ञेयम् । अस्मिन्न् एव विषये कामतो ऽत्यन्ताभ्यासे मरणान्तिकम् । तथा च बृहद्यमः ।

रेतः सिक्त्वा कुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥ इति ।

अन्त्यजाश् चात्र,

चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस् तथा ।
मागधायोगवौ चैव सप्तैते ऽन्त्यावसायिनः ॥

इति मध्यमाङ्गिरोदर्शिता ज्ञातव्याः । न तु “रजकश् चर्मकारश् च” इत्यादिप्रतिपादिताः, तेषु लघुप्रायश्चित्तस्योक्तत्वात् ॥ तथा,

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ (म्ध् ११.१७६)

इति चाण्डालादिसाम्यं प्रतिपादयता मनुनापि कामतो ऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । तथा ह्य् अज्ञानतश् चण्डालीगमनाभ्यासे पतत्य् अतः पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतो ऽत्यन्ताभ्यासे चण्डालैः साम्यं गच्छति । अतो द्वादशवार्षिकाधिकं मरणान्तिकं कुर्यात् । एतच् च बहुकालाभ्यासविषयम् । एकरात्राभ्यासे तु वर्षत्रयम् । यथाह मनुः ।

यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः ।
तद् भैक्षभुज् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥ इति । (म्ध् ११.१७९)

अत्र वृषलीशब्देन चण्डाल्यभिधीयते,

चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका ।
ऊढा या च सगोत्रा स्याद् वृषल्यः पञ्च कीर्तिताः ॥

इति स्मृत्यन्तरे चण्डाल्यां वृषलीशब्दप्रयोगदर्शनात् । बन्धकी स्वैरिणी ।

कथं पुनर् अत्राभ्यासावगमः ।
उच्यते । “यत् करोत्य् एकरात्रेण” (म्ध् ११.१७९) इत्य् अत्यन्तसंयोगापवर्गवाचिन्या स्मृतीयाया दर्शनात् । एकरात्रेण चात्यन्तसंयोगो गमनस्याभ्यासं विनानुपपन्न इति गमनाभ्यासो ऽवगम्यते । अत एवैकरात्राद् बहुकालाभ्यासविषयं प्रागुक्तं द्वादशवर्षादिगुरुतल्पव्रतातिदेशिकं मरणान्तिकं च । यदा पुनर् ज्ञानतो ऽज्ञानतो वा चण्डाल्याद्याः सकृद् गच्छति तदा,
चण्डालपुल्कसानां तु भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद् अज्ञानाद् ऐन्दवद्वयम् ॥

इति यमाद्युक्तं संवत्सरं कृच्छ्रानुष्ठानं चान्द्रायणद्वयं यथाक्रमेण द्रष्टव्यम् । “स्वयोनिष्व् अन्त्यजासु च” इत्य् एकवाक्यसमभिव्याहाराद् भगिन्यादिष्व् अपीयम् एव व्यवस्था वेदितव्या । मरणान्तिकं चात्राग्निप्रवेशनम्,

जनन्यां च भगिन्यां च स्वसुतायां तथैव च ।
स्नुषायां गमनं चैव विज्ञेयम् अतिपातकम् ॥
अतिपातकिनस् त्व् एते प्रविशेयुर् हुताशनम् ॥ इति कात्यायनस्मरणात् । जनन्यां सकृद् गमने भगिन्यादिषु चासकृद् गमने अग्निप्रवेश इति द्रष्टव्यम्, महापातकस्य जननीगमनस्य तदतिदेशविषयभूतातिपातकस्य भगिन्यादिगमनस्य च तुल्यत्वायोगात् । यत् तु बृहद्यमेनोक्तम्,
चाण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् ।
मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥
मातुलानीं प्रव्रजितां स्वगोत्रां नृपयोषितम् ।
शिष्यभार्यां गुरोर् भार्यां गत्वा चान्द्रायणं चरेत् ॥

इति, यच् चाङ्गिरोवचनम्,

पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
मासोपवासं कुर्वीत चान्द्रायणम् अथापि वा ॥

इति, तद् उभयम् अपि गुरुतल्पातिदेशविषयेषु कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ द्रष्टव्यम् । यद् अपि संवर्तवचनम्,

भगिनीं मातुर् आप्तां च स्वसारं चान्यमातृजाम् ।
एता गत्वा स्त्रियो मोहात् तप्तकृच्छ्रं समाचरेत् ॥

इति तद् अनन्तरोक्त एव विषये अकामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ द्रष्टव्यम् । यदा पुनर् एता एवात्यन्तव्यभिचारिणीर् गच्छति तदापीदम् एव प्रायश्चित्तयुगलं चान्द्रायणतप्तकृच्छ्रात्मकं क्रमेण कामतो ऽकामतश् च प्रवृत्तौ द्रष्टव्यम् । साधारणस्त्रीषु तु गुरुणोपभुक्तास्व् अपि गमने गुरुतल्पत्वदोषो नास्ति,

जात्युक्तं पारदार्यं च कन्यादूषणम् एव च ।
साधारणस्त्रियां नास्ति गुरुतल्पत्वम् एव च ॥

इति व्याघ्रस्मरणात् । एवम् अन्यान्य् अपि स्मृतिवचनान्य् उच्चावचप्रायश्चित्तप्रतिपत्तिपराण्य् अन्विष्य विषयव्यवस्थोहनीया, ग्रन्थगौरवभयान् न लिख्यन्ते ॥ ३.२६० ॥

इति गुरुतल्पप्रायश्चित्तप्रकरणम्

एवं ब्रह्महादिमहापातकिप्रायश्चित्तान्य् अभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तम् आह ।

एभिस् तु संवसेद् यो वै वत्सरं सो ऽपि तत्समः । ३.२६१अब्

एभिः पूर्वोक्तैर् ब्रह्महादिभिर् एकं संवत्सरं यो ऽत्यन्तं संवसति सहाचरति सो ऽपि तत्समः । यो येन सहाचरति स तदीयम् एव प्रायश्चित्तं कुर्याद् इति तदीयप्रायश्चित्तातिदेशार्थं तत्समग्रहणम्, न पुनः पातकित्वातिदेशार्थम्, तस्य “यश् च तैः सह संवसेत्” (य्ध् ३.२२३) इत्य् उपदेशत एव सिद्धत्वात् । अत्र च सत्य् अप्य् अतिदेशत्वे कृत्नम् एव द्वादशवार्षिकं कार्यं, साक्षान् महापातकित्वात् संसर्गिणः । अपिशब्दान् न केवलं महापातकिसंयोगी तत्समः किं त्व् अतिपातकीपातक्युपपातक्यादीनां मध्ये यो येन सह संसर्गं करोति सो ऽपि तत्सम इति तदीयम् एव प्रायश्चित्तं कुर्याद् इति दर्शयति । अत एव मनुना सकलं प्रायश्चित्तजातम् अभिधायाभिहितम् ।

यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ इति । (म्ध् ११.१८२)

विष्णुनापि सामान्येनोपपातक्याद् एनस्विमात्रसंषर्गे तत्प्रायश्चित्तभाक्त्वं दर्शितम्- “पापात्मना येन सह यः संसृज्यते स तस्यैव व्रतं कुर्यात्” (विध् ५४.१) इति । अत एव मनुना सामान्येनैनस्विमात्रप्रतिषेधः कृतः ।

एनस्विभिर् अनिर्णिक्तैर् नार्थं कंचित् समाचरेत् । इति । (म्ध् ११.१९०)

तथा,

न संसर्गं भजेत् सद्भिः प्रायश्चित्ते कृते सति । (म्ध् ११.४७)

इति च । एतच् च द्वादशवार्षिकादिपतितप्रायश्चित्तं बुद्धिपूर्वसंसर्गविषयम्,

पतितेन सहोषित्वा जानन् संवत्सरं नरः ।
मिश्रितस् तेन सो ऽब्दान्ते स्वयं च पतितो भवेत् ॥

इति देवलस्मरणात् । अज्ञानतः संसर्गे पुनर् वसिष्ठोक्तम्- “पतितसंप्रयोगे तु ब्राह्मेन वा यौनेन वा स्रौवेण वा यास् तेभ्यः सकाशान् मात्रा उपलब्धास् तासां परित्यागतस् तैश् च न संवसेद् उदीचीं दिशं गत्वानश्नन् संहिताध्ययनम् अधीयानः पूतो भवतीति विज्ञायते” (वध् १.४५–४६) इति । तथा,

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः ।
एते महापातकिनो यश् च तैः सह संवसेत् ॥ इति ।

तैर् इति तृतीयया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्टयसंसर्गिण एव महापातकित्ववचनात् तत्संसर्गिणो न महापातकित्वम् ।

ननु महापातकिसंसर्ग एव महापातकित्वे हेतुर् न ब्रह्महादिविशेषसंसर्गः, तस्य व्यभिचारात् । अतो ऽत्र ब्रह्महादिसंसर्गिसंसर्गिणो ऽपि महापातकिसंषर्गो विद्यत इति तस्यापि महापातकित्वं स्यान् न च प्रतिषेधः ।
उच्यते । स्याद् एवं यदि प्रमाणान्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तस्मिन्न् एव भवितुम् अर्हतीति, तैर् इति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापातकित्वहेतुत्वस्यावगमितत्वात् । एवं च सति प्रतिषेधाभावो ऽप्य् अहेतुः प्राप्त्यभावाद् एव । अतः संषर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर् न भवति, प्रायश्चित्तं तु भवत्य् एव । न च संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तम् इति वाच्यम्,
एनस्विभिर् अनिर्णिक्तैर् नार्थं कंचित् समाचरेत् । (म्ध् ११.१९०)

इति सामान्येनैनस्विमात्रसंसर्गप्रतिषेधेन महापातकिसंसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्, पातित्याभावे ऽपि युक्तम् एव प्रायश्चित्तम् । तच् च पादहीनम् ।

यो येन संवसेद् वर्षं सो ऽपि तत्समताम् इयात् ।
पादहीनं चरेत्सो ऽपि तस्य तस्य व्रतं द्विजः ॥
इति व्यासोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्चमयोर् अपि कामतः संसर्गिणोर् अर्धहीनं त्रिपादोनं च द्रष्टव्यम् । अतः साक्षाद् ब्रह्महादिसंसर्गिण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गिण इति सिद्धम् । अत्र च ब्रह्महादिषु यद्य् अपि कामतो मरणान्तिकम् उपदिष्टं तथापि संषर्गिणस् तन् नातिदिश्यते, “स तस्यैव व्रतं कुर्यात्” इति व्रतस्यैवातिदेशात्, मरणस्य च व्रतशब्दवाच्यत्वाभावात् । अतो ऽत्र कामकृते ऽपि संसर्गे द्वादशवार्षिकम् अकामतस् तु तद् अर्धम् । संसर्गश् च स्वनिबन्धनकर्मभेदाद् अनेकधाभिद्यते । यथाह वृद्धबृहस्पतिः ।
एकशय्यासनं पङ्क्तिर् भाण्डपङ्क्त्यन्नमिश्रणम् ।
याजनाध्यापने योनिस् तथा च सहभोजनम् ॥
नवधा संकरः प्रोक्तो न कर्तव्यो ऽधमैः सह ॥ इति ।

देवलो ऽपि ।

संलापस्पर्शनिःश्वाससहयानासनाशनात् ।
याजनाध्यापनाद् यौनात् पापं संक्रमते नृणाम् ॥ इति ।

एकशय्यासनम् एकखट्वाशयनम् एकपङ्क्तिभोजनम् एकभाण्डपचनम् अन्नेन मिश्रणं संसर्गस् तदीयान्नभोजनम् इति यावत् । याजनं पतितस्य स्वस्य वा तेन । अध्यापनं तस्य स्वस्य वा तेन । यौनं तस्मै कन्यादानं तत्सकाशाद् वा कन्यायाः प्रतिग्रहः । सहभोजनम् एकामत्रभोजनम् । संलापः संभाषणम् । स्पर्शो गात्रसंमर्दः । निःश्वासः पतितमुखवायुसंपर्कः । सहयानम् एकतुरगाद्यारोहणम् । एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यम् इत्य् अपेक्षायां बृहद्विष्णुनोक्तम्- “संवत्सरेण पतति पतितेन सहाचरन्न् एकयानभोजनासनशयनैः यौनस्रौवमुख्यैस् तु संबन्धैः सद्य एव” इति । अत्रैकभोजनम् एकपङ्क्तिभोजनम् । एकामत्रभोजने तु सद्यःपातित्यम् । याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम्,

याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्य् एव पतितेन न संशयः ।

इति देवलस्मरणात् । स्रौवशब्देन याजनम् अभिधीयते । मुख्यशब्देन मुखभवत्वेनाध्यापनम् । यौनस्रौवमुख्यैर् इति सत्य् अपि द्वन्द्वनिर्देशे प्रत्येकम् एव तेषां सद्यः पतनहेतुत्वम्, “यः पतितैः सह यौनमुख्यस्रौवानां संबन्धानाम् अन्यतमं संबन्धं कुर्यात् तस्याप्य् एतद् एव प्रायश्चित्तम्” इति सुमन्तुस्मरणात् । एकयानादिचतुष्टयस्य तु समुदितस्यैव पतनहेतुत्वम्, “एकयानभोजनासनशयनैः” इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्ठानस्य तु पतनहेतुत्वाभावे ऽपि दोषहेतुत्वम् अस्त्य् एव,

आसनाच् छयनाद् यानात् संभाषात् सहभोजनात् ।
संक्रामन्ति हि पापानि तैलबिन्दुर् इवाम्भसि ॥

इति पराशारवचनेन निरपेक्षाणाम् अपि पापहेतुत्वावगमात् । संलापस्पर्शनिःश्वासानां तु यानादिचतुष्टयेनानुषङ्गिकतया समुच्चितानाम् एव पतनहेतुत्वं न पृथग्भूतानाम्, अल्पत्वात् । पापहेतुत्वं पुनर् अस्त्य् एव, “संलापस्पर्शनिःश्वास” इति देवलवचनस्य दर्शितत्वात् । अतः संलापादिरहिते सहयानादिचतुष्टये कृते पञ्चमभागोनं द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् । तत्सहिते तु पूर्णम् । एवं च सति “एभिस् तु संवसेद् यो वै वत्सरं सो ऽपि तत्समः” इति योगीश्वरवचनम् अपि सहयानादिचतुष्टयपरम् एव युक्तम् । यतः संलापादीनां पृथक्पातित्यहेतुत्वं नास्ति । अत एव मनुना,

संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनान् न तु यानासनाशनात् ॥ (म्ध् ११.१८१)

इति यानादिचतुष्टयस्यैव संवत्सरेण पातित्यहेतुत्वम् उक्तम् । अत्रासनग्रहणं शयनस्याप्य् उपलक्षणम्, अत्र च “संवत्सरेण पतति पतितेन सहाचरन्” (वध् १.२२) “यानाशनासनात्” (वध् १.२२) इति व्यवहितेन संबन्धः, प्राग्दर्शितविष्णुवचनानुरोधात्, तथा,

संवत्सरेण पतति पतितेन सहाचरन् ।
भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥

इति देवलवचनाच् च । न चानन्वयदोषः, यानासनाशनादिहेतोर् आचरन्न् आचारं कुर्वन्न् इति भेदविवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमितयेष्ट्येष्ट्वेति । यद् वा आचरन्न् इति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनासनाद् इति द्वितीयार्थे पञ्चमी । याजनाध्यापनाद् यौना(त् सहभोजना)न् न तु संवस्तरेण पतति, किं तु सद्य एव प्राचीनवचननिचयानुरोधाद् एव । अतो यौनादिचतुष्टयेन सद्यः पतति, यानादिचतुष्टयेन तु संवत्सरं निरन्तराभ्यासेनेति युक्तं “वत्सरं सो ऽपि तत्समः” इत्य् अत्यन्तसंयोगवाचिन्या द्वितीयया दर्शनाद् अन्तरितदिवसगणना कार्या । यथा षष्ट्यधिकशतत्रयदिवसव्यापित्वं संसर्गस्य भवति ततो न्यूने तु न पतितप्रायश्चित्तं किं त्व् अन्यद् एव । यथाह पराशरः ।

संसर्गम् आचरन् विप्रः पतितादिष्व् अकामतः ।
पञ्चाहं वा दशाहं वा द्वादशाहम् अथापि वा ।
मासार्धं मासम् एकं वा मासत्रयम् अथापि वा ।
अब्दार्धम् एकम् अब्दं वा भवेद् ऊर्ध्वं तु तत्समः ॥
त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रम् आचरन् ।
चरेत् सान्तपनं कृच्छ्रं तृतीये पक्ष एव तु ।
चतुर्थे दशरात्रं स्यात् पराकः पञ्चमे ततः ।
षष्ठे चान्द्रायणं कुर्यात् सप्तमे त्व् ऐन्दवद्वयम् ॥
अष्टमे च तथा पक्षे षण्मासान् कृच्छ्रम् आचरेत् ॥ इति ।

कामतः संसर्गे पुनर् विशेषः स्मृत्यन्तरे ऽभिहितः । सुमन्तुः-

पञ्चाहे तु चरेत् कृच्छ्रं दशाहे तप्तकृच्छ्रकम् ।
पराकस् त्व् अर्धमासे स्यान् मासे चान्द्रायणं चरेत् ॥ इति ।
मासत्रये प्रकुर्वीत कृच्छ्रं चान्द्रायणोत्तरम् ।
षाण्मासिके तु संसर्गे कृच्छ्रं त्व् अब्दार्धम् आचरेत् ॥
संसर्गे त्व् आब्दिके कुर्याद् अब्दं चान्द्रायणं नरः ॥ इति ।

अत्र चाब्दिके संसर्गे इति किंचिन् न्यून इति द्रष्टव्यम्, पूर्णे तु वत्सरे मन्वादिभिर् द्वादशवार्षिकस्मरणात् । यत् तु बार्हस्पत्यं वचनम्,

षाण्मासिके तु संसर्गे याजनाध्यापनादिना ।
एकत्रासनशय्याभिः प्रायश्चित्तार्धम् आचरेत् ॥ इति ।

याजनाध्यापनयानैकपात्रभोजनानां षण्मासात् पातित्यवचनम् एतद् अकामतो ऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजने ऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे द्रष्टव्यम्, प्रकृष्टयाजनादिभिः सद्यः पातित्यस्योक्तत्वात् । एतद् दिगवलम्बनेनैव दुहितृभगिनीस्नुषागाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकम् अकामतः सार्धचतुर्वार्षिकं कल्पनीयम् । सखिपितृव्यदारादिगामिपातकिसंसर्गिणां कामतः षड्वार्षिकम् अकामतस् त्रैवार्षिकम् । अथोपपातक्यादिसंसर्गिणाम् अपि कामतस् तदीयम् एव त्रैमासिकम् अकामतो ऽर्धम् इत्य् ऊहनीयम् । पुरुषवत् स्त्रिणाम् अपि महापातक्यादिसंसर्गात् पातित्यम् अविशिष्टम् । यथाह शौनकः- “पुरुषस्य यानि पतननिमित्तानि स्त्रीणाम् अपि तान्य् एव । ब्राह्मणी हीनवर्णसेवायाम् अधिकं पतति” इति । अतस् तासाम् अपि महापातकिप्रभृतीनां मध्ये येन सह संसर्गस् तदीयम् एव प्रायश्चित्तम् अर्धकृत्या योजनीयम् । एवं बालवृद्धातुराणाम् अपि कामतो ऽर्धम् अकामतः पादः । तथानुपनीतस्यापि बालस्य कामतः पादो ऽकामतस् तदर्धम् इत्य् एषा दिक् ॥

पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य क्वचित् प्रतिप्रसवम् आह ।

कन्यां समुद्वहेद् एषां सोपवासाम् अकिंचनाम् ॥ ३.२६१च्द्

एषां पतितानां कन्यां पतितावस्थायाम् उत्पन्नां सोपवासां कृतसंसर्गकालोचितप्रायश्चित्ताम् अकिंचनाम् अगृहीतवस्त्रालंकारादिपितृधनाम् उद्वहेत् । “कन्यां समुद्वहेद्” इति वदन् स्वयम् एव कन्यां त्यक्तपतितसंसर्गां समुद्वहेन् न पुनः पतितहस्तात् प्रतिगृह्णीयाद् इति दर्शयति । एवं च सति पतितयौनसंसर्गप्रतिषेधविरोधो ऽपि परिहृतो भवति । अयं चार्थो बृहद्धारीतेन स्पष्टीकृतः- “पतितस्य तु कुमारीं विवस्त्राम् अहोरात्रोपोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितां ऽनाहम् एतेषां न ममैतेऽ इति त्रिर् उच्चैर् अभिदधानां तीर्थे स्वगृहे वोद्वहेत्” इति । तथा “एषां कन्यां समुद्वहेद्” इति वचनात्, स्त्रीव्यतिरिक्ततदीयापत्यस्य संसार्गानर्हतां दर्शयति । अत एव वसिष्ठ । “पतितेनोत्पन्नः पतितो भवत्य् अन्यत्र स्त्रियाः, सा हि परगामिनी ताम् अरिक्थाम् उद्वहेत्” (वध् १३.५१–५३) इति ॥ ३.२६१ ॥

इति संसर्गप्रायश्चित्तप्रकरणम्

निषिद्धसंसर्गप्रसङ्गान् निषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्रायश्चित्तम् आह ।

चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु । ३.२६२अब्

अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास् तेषां प्रत्येकं हनने चान्द्रायणम् । तथा च शङ्खः- “सर्वेषाम् अवकृष्टानां वधे प्रत्येकं चान्द्रायणम्” इति । यद् वाङ्गिरसोक्तम्,

सर्वान्त्यजानां गमने भोजने संप्रमापणे ।
पराकेण विशुद्धिः स्याद् इत्य् आङ्गिरसभाषितम् ॥

इति पराकं कुर्यात् । तत्र कामतः सूतादिवधे चान्द्रायणम् । अकामतस् तु सूतवधे पराकः । वैदेहकवधे पादोनम् । चण्डालवधे द्विपादः । मागधवधे पादोनः पराकः । क्षत्तरि द्विपादः । आयोगवे च पादद्वयम् । अनयैव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत् तु ब्रह्मगर्भवचनम्,

प्रतिलोमप्रसूतानां स्त्रीणां मासावधि स्मृतः ।
अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥

इति, तद् आवृत्तिविषयम् । तत्र सूतवधे षण्मासाः वैदेहकवधे चत्वारः चण्डालवधे द्वाव् इति योग्यतयान्वयः । तथा मागधवधे चत्वारः क्षत्तरि द्वैमासिकं अयोगवे च द्वैमासिकम् इति व्यवस्था ॥

नैमित्तिकव्रतानां जपादिसाध्यत्वाद् विद्याविरहिणां च शूद्रादीनां तदनुपपत्तेर् आज्यावेक्षणादिसाध्येष्व् इवान्धानाम् अनधिकारम् आशङ्क्याह ।

शूद्रो ऽधिकारहीनो ऽपि कालेनानेन शुध्यति ॥ ३.२६२च्द्

यद्य् अपि शूद्रो जपाद्यधिकारहीनस् तथाप्य् अनेन द्वादशवार्षिकादिकालसंपाद्येन व्रतेन शुध्यति । शूद्रग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्य् अपि तस्य गायत्र्यादिजपासंभवस् तथापि नमस्कारमन्त्रजपो भवति । अत एव स्मृत्यन्तरे ऽभिहितम्- “उच्छिष्टं चास्य भोजनम् अनुज्ञातो ऽस्य नमस्कारो मन्त्रः” इति । यद् वा वचनबलाज् जपादिरहितम् एव व्रतं कुर्यात्,

तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥

इत्य् अङ्गिरःस्मरणात् । तथापरम् अपि तेनैवोक्तम् ।

शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः ।
दानैर् वाप्य् उपवासैर् वा द्विजशुश्रूषया तथा ॥ इति ।

यत् तु मानवम्,

न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् । (म्ध् ४.८०)

इति शूद्रस्य व्रतोपदेशनिषेधपरं वचनं, तद् अनुपसन्नशूद्राभिप्रायम् । यद् अपि स्मृत्यन्तरवचनं,

कृच्छ्राण्य् एतानि कार्याणि सदा वर्णत्रयेण तु ।
कृच्छ्रेष्व् एतेषु शूद्रस्य नाधिकारो विधीयते ॥

इति, तत् काम्यकृच्छ्राभिप्रायम् । अतः स्त्रीशूद्रयोः प्रतिलोमजानां च त्रैवर्णिकवद् व्रताधिकार इति सिद्धम् । यत् तु गौतमवचनम् “प्रतिलोमा धर्महीनाः” (ग्ध् ४.२५) इति, तद् उपनयनादिविशिष्टधर्माभिप्रायम् ॥ ३.२६२ ॥

**इति पञ्चमहापातकप्रायश्चित्तप्रकरणम् **

महापातकादिपञ्चकमध्ये महापातकातिपातकानुपातकप्रायश्चित्तान्य् उक्त्वा, अधुनोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्राप्तं गोवधप्रायश्चित्तं तावद् आह ।

पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः । ३.२६३अब्
गोष्ठेशयो गो ऽनुगामी गोप्रदानेन शुध्यति ॥ ३.२६३च्द्
कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः । ३.२६४अब्
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास् तु गाः ॥ ३.२६४च्द्

गां हन्तीति गोघ्नः । मूलविभुजादित्वात् कप्रत्ययः । असौ मासं समाहित आसीत । किं कुर्वन् । पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथाविधि मिश्रितानि पिबन् आहारान्तरपरित्यागेन, भोजनकार्ये तस्य विधानात् । तथा गोष्ठेशयः । प्राप्तशयनानुवादेन गोष्ठविधानाद् दिवा च स्वापप्रतिषेधाद् रात्रौ गोशालायां शयानः । गा अनुगच्छति तद् अस्य व्रतम् इति गो ऽनुगामी । व्रते णिनिः । अतश् च यासां गोष्ठे शेते सन्निधानात् ता एव गाः प्रातर् वनं विचरन्तीर् अनुगच्छेत् । अनुगच्छेद् इति वचनाद् यदा ता गच्छन्ति तदैव स्वयम् अनुगच्छेत् । यदा तु तिष्ठन्त्य् आसते वा तदा पश्चाद्गमनस्याशक्यकरणत्वात् स्वयम् अपि तिष्ठेद् आसीत वेति गम्यते । अनुगमनविधानाद् एव ताभिः सायं गोष्ठं व्रजन्तीभिः सह गोष्ठप्रवेशो ऽप्य् अर्थसिद्धः । एवं कुर्वन् मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य संपत्तेर् गोहत्यायाः शुध्यतीत्य् एकं व्रतम् । मासं गोश्ठेशयो गो ऽनुगामीत्य् अनुवर्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छ्रविधानाद् एव । अतश् च मासं निरन्तरं कृच्छ्रं समाहितश् चरेद् इत्य् अपरम् । अत एव जाबालेन मासप्राजापत्यस्य पृथक् प्रायश्चित्तत्वम् उक्तम् ।

प्राजापत्यं चरेन् मासं गोहन्ता चेद् अकामतः ।
गोहितो गो ऽनुगामी स्याद् गोप्रदानेन शुध्यति ॥ इति ।

अतिकृच्छ्रं वा तथैव समाचरेद् इत्य् अन्यत् । कृच्छ्रातिकृच्छ्रयोर् लक्षणम् उत्तरत्र वक्ष्यते । अथ वा त्रिरात्रम् उपवासं कृत्वा वृषभ एकादशो यासां गवां ता दद्याद् इति व्रतचतुष्टयम् । तत्राकामकृते जातिमात्रब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा व्र्षभैकादशगोदानसहितस् त्रिरात्रोपवासो द्रष्टव्यः, विशिष्टस्वामिकाया विषिष्टगुणवत्याश् च वधे गुरुप्रायश्चित्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास् तु तादृग्विधे व्यापादने मासं पञ्चगव्याशित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वान् मासोपवासतुल्यत्वम् । ततश् च षड्भिः षड्भिर् उपवासैर् एकैकप्राजापत्यकल्पनया पञ्चकृच्छ्राणां प्रत्याम्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौर् एकेति षट् धेनवो भवन्तीति वृषभैकादशगोदानसहितत्रिरात्रव्रताल् लघीयस्त्वम् । कथं पुनर् ब्राह्मणगवीनां गुरुत्वम् ।

वेदब्राह्मणराज्ञां तु विज्ञेयं द्रव्यम् उत्तमम् ।

इति नारदेन (न्स्म् १४.१३) तद्द्रव्यस्योत्तमत्वाभिधानात्, “गोषु ब्राह्मणसंस्थासु” (न्स्म् १९.४०) इति दण्डभूयस्त्वदर्शनाच् च । वैश्यसंबन्धिन्यास् तु तादृग्विधे व्यापादने मासम् अतिकृच्छ्रं कुर्यात् । अतिकृच्छ्रे त्व् आद्ये त्रिरात्रत्रये पाणिपूरान्नभोजनम् उक्तम् । अन्त्ये त्रिरात्रे ऽनशनम् । अतो ऽतिकृच्छ्रधर्मेण मासव्रते क्रियमाणे षड्रात्रम् उपवासो भवति । चतुर्विंशत्यहे च पाणिपूरान्नभोजनम् । ततश् च कृच्छ्रप्रत्याम्नायकल्पनया किंचिन्न्यूनं धेनुपञ्चकं भवतीति पूर्वस्माद् व्रतद्वयाल् लघिष्ठत्वेन वैश्यस्वामिकगोवधविषयता युक्ता । तादृश एव विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिदधिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच् छूद्रविषयतोचिता । अथ चैतत् प्रायश्चित्तचतुष्टयं साक्षात्कर्त्रनुग्राहकप्रयोजकानुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत् तु वैष्णवं व्रतत्रयम्,

गोघ्नस्य पञ्चगव्येन मासम् एकं पलत्रयम् ।
प्रत्यहं स्यात् पराको वा चान्द्रायणम् अथापि वा ॥

इति, यच् च काश्यपीयम् “गां हत्वा तच्चर्मणा प्रावृतो मासं गोष्ठेशयस् त्रिषवणस्नायी नित्यं पञ्चगव्याहारः” इति, यच् च शातातपीयम् “मासं पङ्चगव्याहारः” इति, तत् पञ्चकम् अपि याज्ञवल्क्यीयपञ्चगव्याहारसमानविषयम् । यच् च शङ्खप्रचेतोभ्याम् उक्तम् “गोघ्नः पञ्चगव्याहारः पञ्चविंशतिरात्रम् उपवसेत् सशिखं वपनं कृट्वा गोचर्मणा प्रावृतो गाश् चानुगच्छन् गोष्ठेशयो गां च दद्यात्” इति, एतच् च याज्ञवल्क्यीयमासातिकृच्छ्रव्रतसमानविषयम् । “दद्यात् त्रिरात्रं चोपोष्य” इत्य् एतद्विषयं वात्यन्तगुणिनो हन्तुर् वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं काश्यपीयं “मासं पञ्चगव्येन” इति प्रतिपाद्य, “षष्ठे काले पयोभक्षो वा गच्छन्तीष्व् अनुगच्छेत् तासु सुखोपविष्टासु चोपविशेन् नातिप्लवं गच्छेन् नातिविषमेणावतारयेन् नाल्पोदके पाययेद् अन्ते ब्राह्मणान् भोजयित्वा तिलधेनुं दद्यात्” इति द्रष्टव्यम् । अत्राप्य् अशक्तस्य “गोघ्नो मासं यवागूं प्रसृतितन्दुलशृतं भुञ्जानो गोभ्यः प्रियं कुर्वन् शुध्यति” इति पैठीनसिनोक्तं वेदितव्यम् । यत् तु सौमन्तम् “गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च” इति, य च्च संवर्तेनोक्तम्,

सक्तुयावकभैक्षाशी पयो दधि घृतं सकृत् ।
एतानि क्रमशो ऽश्नीयान् मासार्धं सुसमाहितः ॥
ब्राह्मणान् भोजयित्वा तु गां दद्याद् आत्मशुद्धये ॥

इति, यच् च बार्हस्पत्यम् “द्वादशरात्रं पञ्चगव्याहारः” इति, तत् त्रितयम् अपि याज्ञवल्क्यीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्रदेशत्रासेन जनितव्याधितो मरणविषयम् वा वेदितव्यम् । तद् इदं सर्वं प्राग् उक्तम् अकामविषयम् । यदा पुनर् ईदृग्विधाम् अविशिष्टविप्रस्वामिकाम् अविशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हविष्येण चतुर्थकालभोजनं, मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तनम् इति व्रतत्रितयम् आम्नातम् । यथाह ।

उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
कृतवापो वसेद् गोष्ठे चर्मणार्द्रेण संवृतः ॥
चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥
दिवानुगच्छेत् ता गास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥
तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् ।
आसीनासु तथासीनो नियतो वीतमत्सरः ॥
आतुराम् अभिशस्तां वा चौरव्याघ्रादिभिर् भयैः ।
पतितां पङ्कलग्नां वा सर्वोपायैर् विमोचयेत् ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥
आत्मनो यदि वान्येषां गृहे क्षेत्रे ऽथ वा खले ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥
अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥
वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ इति । (म्ध् ११.१०९–१७)

एतत् त्रितयं याज्ञवल्क्यीयमासप्राजापत्यमासपञ्चगव्याशनवृषभैकदशगोदान-युक्तत्रिरात्रोपवासरूपव्रतत्रितयविषयं यथाक्रमेण द्रष्टव्यम् । यत् त्व् अङ्गिरसा मानवेतिकर्तव्यतायुक्तं त्रैमासिकम् अभिधायाधिकम् अभिहितम्,

अक्षारलवणं रुक्षं षष्ठे काले ऽस्य भोजनम् ।
गोमतीं वा जपेद् विद्याम् ओङ्कारं वेदम् एव च ॥
व्रतवद् धारयेद् दण्डं समन्त्रां चैव मेखलाम् ॥

इति, तन् मानवविषयम् । एवं पुष्टितारुण्यादिकिंचिदुणातिशययोगिन्यां द्रष्टव्यम्,

अतिबालाम् अतिकृशाम् अतिवृद्धां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेद् अर्धं व्रतं द्विजः ॥

इति पुष्टितारुण्यादिरहितायां गव्य् अर्धप्रायश्चित्तदर्शनात् । यदा तु याज्ञवल्क्यीयमासातिकृच्छ्रव्रतनिमित्तभूतां गाम् अविशिष्टस्वामिकां जातिमात्रयोगिनीं कामतो व्यापादयति, तदा,

विहितं यद् अकामानां कामात् तद्द्विगुणं चरेत् ।

इति न्यायेन पूर्वोक्तम् एवाकामविहितं मासातिकृच्छ्रव्रतं द्विगुणं कुर्यात् । यत् तु हारीतेन “गोघ्नस् तच्चर्मौर्ध्ववालं परिधाय” इत्यादिना मानवीम् इतिकर्तव्यताम् अभिधायोक्तम्, “वृषभैकादशाश् च गा दत्त्वा त्रयोदशे मासे पूतो भवति” इति, तत् सवनस्थश्रोत्रियगोवधे अकामकृते द्रष्टव्यम् । यत् तु वसिष्ठेन – “गां चेद् धन्यात् तस्याश् चर्मणार्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रतप्तकृच्छ्राव् आतिष्ठेत्, ऋषभवेहतौ दद्यात्” (वध् २१.१८, २२) इति षाण्मासिकं कृच्छ्रतप्तकृच्छ्रानुष्ठानम् उक्तम्, यद् अपि देवलेव “गोघ्नः षण्मासांस् तच्चर्मपरिवृतो गोव्रजनिवासी गोभिर् एव सह चरन् प्रमुच्यते” इति, तत् द्वयम् अपि हारीतीयेन समानविषयम् । तत्रैव कामकारकृते कात्यायनीयं त्रैवार्षिकम्-

गोघ्नस् तच्चर्मसंवीतो वसेद् गोष्ठे ऽथ वा पुनः ।
गाश् चानुगच्छेत् सततं माउनी वीरासनादिभिः ॥
वर्षशीतातपक्लेशवह्निपङ्कभयार्दितः ।
मोक्षयेत् सर्वयत्नेन पूयते वत्सरैस् त्रिभिः ॥

इति द्रष्टव्यम् । यच् च शाङ्खं त्रैवार्षिकम्-

पादं तु शूद्रहत्यायाम् उदक्यागमने तथा ।
गोवधे च तथा कुर्यात् परस्त्रीगमने तथा ॥

इति, तद् अपि कात्यायनीयव्रतसमानविषयम् । यत् तु यमेन आङ्गिरसीम् इतिकर्तव्यताम् अभिधाय,

गोसहस्रं शतं वापि दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥

इति गोसहस्रयुक्तं गोशतयुक्तं च द्वैमासिकं व्रतद्वयम् अभिहितम्, तत्र यदा सवनस्थश्रोत्रियादिदुर्गतबहुकुटुम्बिब्राह्मणसंबन्धिनीं कपिलां कर्माङ्गभूतां गर्भिणीं बहुक्षीरतर्ँँउणिमाँँदिगुणशालिनीं निर्गुणो धनवान् सप्रतिज्ञं खड्गादिना व्यापादयति तदा गोसहस्रयुक्तं द्वैमासिकं कुर्यात्,

गर्भिणीं कपिलां दोघ्रीं होमधेनुं च सुव्रताम् ।
खड्गादिना घातयित्वा द्विगुणं व्रतम् आचरेत् ॥

इति विशिष्टायां गवि बार्हस्पत्ये प्रायश्चित्तविशेषदर्शनात् । अत एव प्रचेतसा, “स्त्रीगर्भिणीबालवृद्धवधेषु भ्रूंअहा भवति” इति ईदृग्विधम् एव गोवधम् अभिसंधाय ब्रह्महत्याव्रतम् अतिदिष्टम् । द्वितीयं तु याम्यं गोशतदानयुक्तं व्रतं कात्यायनीयव्रतविषये धनवतो द्रष्टव्यम् । यत् तु गौतमेन वृषभैकशतगोदानसमुच्चितं ब्रह्मचर्यं वैश्यवधे ऽभिधाय गोवधे ऽतिदिष्टम्- “गां च हत्वा वैश्यवत्” (ग्ध् २२.१८) इति, एतच् च त्रैवार्षिकव्रतप्रत्याम्नायभूतनवतिधेनुभिः सार्धं वृषभैकशता गावो नवन्यूनं द्विशतं भवतीति गोसहस्रयुक्तत्रैमासिकव्रतान् न्यूनत्वात् पूर्वोक्तविषये एव कामतो वधे । यद् वा तत्रैव विषये गर्भरहितायाः कामतो वधे द्रष्टव्यम् । तादृग्विधाया एव गर्भरहितायास् त्व् अकामतो हनने ऽपि कात्यायनीयम् एव त्रैवार्षिकं कल्प्यम् । यत् तु यमेनोक्तं,

काष्ठलोष्टाश्मभिर् गावः शस्त्रैर् वा निहता यदि ।
प्रायश्चित्तं कथं तत्र शस्त्रे ऽशस्त्रे विधीयते ॥
काष्ठे सान्तपनं कुर्यात् प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्य् अतिकृच्छ्रकम् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
त्रिशद् गा वृषभं चैकं दद्यात् तेभ्यश् च दक्षिणाम् ॥

इति, तत् पूर्वोक्तगोसहस्रशतादिदानत्रैवार्षिकादिव्रतविषयेष्व् एव काष्ठादिसाधनविशेषजनितवधनिमित्तसान्तपनादिपूर्वकत्वप्रतिपादनपरं, न तु निरपेक्षं, लघुत्वाद् व्रतस्य । तथा वयोविशेषाद् अपि प्रायश्चित्तविशये उक्तः-

अतिवृद्धाम् अतिकृशाम् अतिबालां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेद् अर्धव्रतं द्विजः ॥
ब्राह्मणान् भोजयेच् छक्त्या दद्याद् धेमतिलांस् तथा ॥

इति नीरोगादिवधे यद् विहितं तस्यार्धम् । बृहत्प्रचेतसाप्य् अत्र विशेष उक्तः ।

एकवर्षे हते वत्से कृच्छ्रपादो विधीयते ।
अबुद्धिपूर्वो पुंसः स्याद् द्विपादस् तु द्विहायने ।
त्रिहायने त्रिपादः स्यात् प्राजापत्यम् अतः परम् ॥ इति ॥

तथा गर्भिण्या वधे यदा गर्भो ऽपि निहतो भवति तदा “प्रतिनिमित्तं नैमित्तिकम् आवर्तते” इति न्यायेनाविशेषेण द्विगुणव्रतप्राप्तौ षट्त्रिंशन्मते विशय उक्तः-

पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते ।
पादोनं व्रतम् उद्दिष्टं हत्वा गर्भम् अचेतनम् ॥
अङ्गप्रत्यङ्गसंपूर्णे गर्भे चेतःसमन्विते ।
द्विगुणं गोव्रतं कुर्याद् एषा गोघ्नस्य निष्कृतिः ॥ इति ।

बहुकर्तृके तु हनने संवर्तापस्तम्बौ विशेषम् आहतुः-

एका चेद् बहुभिः काचिद् दैवाद् व्यापादिता क्वचित् ।
पादं पादं तु हत्यायाश् चरेयुस् ते पृथक् पृथक् ॥ इति ।

यादृग्विधगोहत्यायां यद्व्रतम् उपदिष्टं तत्पादं प्रत्येकं कुर्युः, वचनात् । “एका चेत्” इत्य् उपलक्षणम् । अतो बहुभिर् द्वयोर् बहूनां च व्यापादने प्रतिपुरुषं पादद्वयं पादोनं वा कल्पनीयम् । एतच् चाकामतो वधे द्रष्टव्यं, “दैवाद्” इति विशेषणोपादानात् । कामकारे तु बहूनाम् अपि प्रत्येकं कृत्स्नदोषसंबन्धात्, कृत्स्नव्रतसंबन्धो युक्तः, सत्रिणाम् इव प्रतिपुरुषं कृत्स्नव्यापारसमवायात्,

एकं घ्नतां बहूनां तु यथोक्ताद् द्विगुणो दमः ।

इति प्रत्येकं दण्डद्वैगुण्यदर्शनाच् च । यदा त्व् एकेनैव रोधनादिव्यापारेण बहवो गावो व्यापादितास् तत्र संवर्तापस्तम्बौ विशेषम् आहतुः-

व्यापन्नानां बहूनां तु रोधने बन्धने ऽपि वा ।
भिषङ् मिथ्योपचारे च द्विगुणं ग्रोव्रतं चरेत् ॥ इति ।

बहुष्व् अपि व्यापन्नेषु न प्रतिनिमित्तं नैमित्तिकानुष्ठानं, नापि तन्त्रेण किं तु वचनबलाद् द्विगुणम् एव । तथा भिषग् अपि विरुद्धौषधदानेनैकस्या अप्य् अकामतो व्यापादने द्विगुणं गोव्रतं कुर्यात् । भिषग्व्यतिरिक्तस्य केवलम् उपकारार्थं प्रवृत्तस्य त्व् अकामतः प्रतिकूलौषधदाने व्यास आह ।

औषधं लवणं चैव पुण्यार्थम् अपि भोजनम् ।
अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥
अतिरिक्ते विपत्तिश् चेत् कृच्छ्रपादो विधीयते ॥ इति ।

यत् त्व् आपस्तम्बेनोक्तम्,

पादम् एकं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्याच् चरेत् सर्वं निपातने ।

इति, तद् व्यवहितव्यापारिणो निमित्तकर्तुर् विज्ञय न साक्षात् कर्तुः । साक्षात् कर्तृनिमित्तनोश् च भेदस् तेनैव दर्शितः-

पाषाणैर् लकुटैर् वापि शस्त्रेणान्येन वा बलात् ।
निपातयन्ति ये गास् तु कृत्स्नं कुर्युर् व्रतं हि ते ॥
तथैव बाहुजङ्घोरुपार्श्वग्रीवाङ्ग्रिमोटनैः ॥ इति ।

एतद् उक्तं भवति- पाषाणखड्गादिभिर् ग्रीवामोटनादिना वा ये गां निपातयन्ति, ते साक्षाद् घन्तारस् तेष्व् एव कृत्स्नं प्रायश्चित्तम् । ये तु व्यवहितरोधबन्धादिव्यापारयोगिनस् ते निमित्तिनस् तेषां न कृत्स्नव्रतसंबन्धः । किं तु तदवयवैर् एव पादद्विपादादिभिर् इति । तत्र च रोधादीनां व्यवहितव्यापारत्वाविशेषे ऽपि वचनात् क्वचित् पादः क्वचिद् द्विपादः पादोनं क्वचिद् इति युक्तम् । अत्राह पराशरः ।

गवा बन्धनयोक्त्रैस् तु भवेन् मृत्युर् अकामतः ।
अकामकृतपापस्य प्राजापत्यं विनिर्दिशेत् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मण भोजनम् ।
अनडुत्सहितां गां च दद्याद् विप्राय दक्षिणाम् ॥ इति ॥

अयं च प्राजापत्यो यदि रोधादिकं कृत्वा तज्जन्यप्रमादपरिजिहीर्षया प्रत्यवेक्षमाण आस्ते तदा द्रष्टव्यः, “अकामकृतपापस्य” इति विशेषणोपादानात् । यदा तु न प्रमादसंरक्षणं करोति तदा,

पादम् एकं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्याच् चरेत् सर्वं निपातने ॥

इत्य् अङ्गिरोदृष्टं त्रैमासिकपादं किंचिदधिकं वा विंशत्यहर्गोवधव्रतं कुर्यात् । आपस्तम्बेनापि विशेष उक्तः ।

अतिदाहातिवाहाभ्यां नासिकाच्छेदने तथा ।
नदीपर्वतसंरोधे सृते पादोनम् आचरेत् ॥ इति ।

लक्षणमात्रोपयोगिनि तु दाहे न दोषः,

अन्यत्राङ्कनलक्षाभ्यां वाहने मोचने ऽपि वा ।
सायं सङ्गोपनार्थं च न दुष्येद् रोधबन्धने ॥

इति पराशरस्मरणात् । अङ्कनं स्थिरचिह्नकरणम्, लक्षणं सांप्रतोपलक्षणम् । वाहने शास्त्रोक्तमार्गेण रक्षणाथम् अपि नालिकेरादिभिर् बन्धने भवत्य् एव दोषः,

न नालिकेलेण न शाणवालैर् न चापि मौञ्जेन न बन्धशृङ्खलैः ।
एतैस् तु गावो न निबन्धनीया बध्वा तु तिष्ठेत् परशुं गृहीत्वा ॥
कुशैः काशैश् च बध्नीयात् स्थाने दोषविवर्जिते ॥

इति व्यासस्मरणात् ॥ तथान्यो ऽपि विशेषस् तेनैवोक्तः-

घण्टाभरणदोषेण विपत्तिर् यत्र गोर् भवेत् ।
कृच्छ्रार्धं तु भवेत् तत्र भूषणार्थं हि तत् स्मृतम् ॥
अतिदोहे ऽतिदमने संघाते चैव योजने ।
बद्ध्वा शृङ्खलपाशैश् च मृते पादोनम् आचरेत् ॥

इति पालनाकरणादिनोपेक्षयां क्वचित् प्रायश्चित्तविशेषस् तेनैवोक्तः-

जलौघपल्वले मग्ना मेघविद्युद्धतापि वा ।
श्वभ्रे वा पतिताकस्माच् छ्वापदेनापि भक्षिता ॥
प्राजापत्यं चरेत् कृच्छ्रं गोस्वामी व्रतम् उत्तमम् ।
शीतवाताहता वा स्याद् उद्बन्धनहतापि वा ॥
शून्यागार उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥ इति ।

इदं तु कार्यान्तरविरहे ऽप्य् उपेक्षायां वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्व् अर्धम्,

पल्वलौघमृगव्याघ्रश्वापदादिनिपातने ।
श्वभ्रप्रपातसर्पाद्यैर् मृते कृच्छ्रार्धम् आचरेत् ॥
उपालत्वात् तु कृच्छ्रं स्याच् छून्यागार उपप्लवे ॥

इति विष्णुस्मरणात् । तथा सत्य् अपि व्यापादने क्वचिद् उपकारार्थप्रवृत्तौ वचनाद् दोषाभावः । यथाह संवर्तः ।

यन्त्रणे गोचिकित्सार्थे मूढगर्भविमोचने ।
यत्ने कृते विपत्तिः स्यान् न स पापेन लिप्यते ॥ इति ।

यन्त्रणं व्याध्यादिनिर्यातनार्थं संदंशाङ्कुशादिप्रवेशनम् । तथा,

औषधं स्नेहम् आहारं ददद् गोब्राह्मणे द्विजः ।
दीयमाने विपत्तिश् चेन् न स पापेन लिप्यते ॥
ग्रामघाते शरौघेण वेश्मभङ्गान् निपातने ।
दाहच्छेदशिराभेदप्रयोगैर् उपकुर्वताम् ।
द्विज्æन्æं गोहितार्थं च प्रायश्चित्तं न विद्यते ॥

अत्र पराशरो ऽप्य् आह ।

ग्रामघाते शरौघेण वेश्मभङ्गान् निपातने ।
अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥ इति ॥

तथा,

कूपखाते च धर्मार्थे गृहदाहे च या मृता ।
ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥ इति ॥

इदं तु बन्धनरहितस्यैव पशोः कथञ्चिद् गृहादिदाहेन मृतविषयम् । इतरथा त्व् आपस्तम्बेनोक्तम् ।

कान्तारेष्व् अथ दुर्गेषु गृहदाहे खलेषु च ।
यदि तत्र विपत्तिः स्यात् पाद एको विधीयते ॥ इति ।

तथा ऽस्थ्यादिभङ्गे मरनाभावे ऽपि क्वचित् प्रायश्चित्तम् उक्तम् ।

अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा ।
पाटनं दन्तशृङ्गाणां मासार्धं तु यवान् पिबेद् ॥ इति ।

यत् त्व् आङ्गिरसं,

शृङ्गभङ्गे ऽस्थिभङ्गे वा चर्मनिर्मोचने ऽपि वा ।
दशरात्रं पिबेद् वज्रं स्वस्थापि यदि गौर् भवेत् ॥

इति वज्रशब्दवाच्यं क्षीरादिवर्तनम् उक्तं, तद् अशक्तविषयम् । इदं च प्रायश्चित्तं गोस्वामिने व्यापन्नगोसदृशीं गां दत्त्वैव कार्यम् । यदाह पराशरः ।

प्रमापणे प्राणभृतां दद्यात् तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीद् यमः ॥ इति ।

मनुर् अपि ।

यो यस्य हिंस्याद्द्रव्याणि ज्ञानतोऽज्ञानतोऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥ इति । (म्ध् ८.२८८)

एतत् तु पूर्वोक्तं प्रायश्चित्तजातं ब्राह्मणस्यैव हन्तुर् वेदितव्यम् । क्षत्रियादेस् तु हन्तुर् बृहद्विष्णुना विशेषो ऽभिहितः-

विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।
वैश्ये ऽर्धं पाद एकस् तु शूद्रजातिषु शस्यते ॥ इति ।

यत् त्व् अङ्गिरोवचनम्,

पर्षद् या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥

इति, तत् प्रातिलोम्येन वाग्दण्डपारुष्यादिविषयम् । तथा स्त्रीबालवृद्धादीनां त्व् अर्धं, अनुपनीतस्य बालस्य पाद इति च प्रागुक्तम् अनुसंधेयम् ॥ स्त्रीणां पराशरेण विशेषो ऽभिहितः ।

वपनं नैव नारीणां नानुव्रज्या जपादिकम् ।
न गोष्ठे शयनं तासां न वसीरन् गवाजिनम् ॥
सर्वान् केशान् समुद्धृत्य छेदयेद् अङ्गुलद्वयम् ।
सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥ इति ।

पुरुषेषु च विशेषः संवर्तेन दर्शितः ।

पादे ऽङ्गरोमवपनं द्विपादे श्मश्रुणो ऽपि च ।
त्रिपादे तु शिखावर्जं सशिखं तु निपातने ॥ इति ।

पादप्रायश्चित्तार्हस्य कण्ठाद् अधस्तनाङ्गरोम्णाम् एव वपनम् । अर्धप्रायश्चित्तार्हस्य तु श्मश्रूणाम् अपि । पादोनप्रायश्चित्तार्हस्य पुनः शिरोगतानाम् अपि शिखावर्जितानाम् । पादचतुष्टयार्हस्य तु सशिखस्य सकलकेशजातस्येति । एवम् एतद् दिगवलम्बनेनान्येषाम् अपि स्मृतिवचसा विषयो निरूपणीयः ॥ ३.२६३ ॥ ३.२६४ ॥

**इति गोवधप्रायश्चित्तप्रकरणम् **

अधुनान्येषाम् उपपातकानां प्रायश्चित्तम् आह ।

**उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा । ३.२६५अब् **
पयसा वापि मासेन पराकेणाथवा पुनः ॥ ३.२६५च्द्

एवम् उक्तेन गोवधव्रतेन मासं पञ्चगव्याशनादिनान्येषां व्रात्यतादीनाम् उपपातकानां शुद्धिर् भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसाम् अर्थ्याद् गोचर्मवसनगोपरिचर्यादिभिर् गोवधासाधारणैः कतिपयैर् न्यूनत्वम् अवगम्यते । एतच् च व्रतचतुष्टयम् अकामकारे शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु,

एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ (म्ध् ११.११८)

इति मनूक्तं त्रैमासिकं द्रष्टव्यम् । अत एव वचनाद् अयं प्रायश्चित्तातिदेशः सर्वेषाम् उपपातकगणपठितानाम् उक्तप्रायश्चित्तानाम् अनुक्तप्रायश्चित्तानां चावकीर्णिवर्जितानाम् अविशेषेन वेदितव्यः । अवकीर्णिनस् तु प्रतिपदोक्तम् एव ।

ननु अनुक्तप्रायश्चित्तविषयतयैवातिदेशस्य युक्ता, इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् ।
मैवम् । तथा सत्य् उक्तनिष्कृतीनाम् उपपातकगणपाठो ऽनर्थकः स्यात् । यदि परम् उपपातकमध्ये सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरम् उच्यते । यथा, “अयाज्यानां च याजनं । त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजको ऽविचरन्न् अपि” इति स एव विषयः केवलं परिह्रियते न पुनर् विशेषतः पठितस्यैवान्यत्रापि विशेषत एव यत्र प्रायश्चित्तम् उच्यते सो ऽपि यथा “इन्धनार्थं द्रुमच्छेदः” “वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम्” इति । अतो व्रात्यतादिषु अस्मिन् शास्त्रे शास्त्रान्तरे वा दृष्टैः प्रायश्चित्तैः सह “उपपातकशुद्धिः स्याद् एवम्” इत्यादिना प्रतिपादितव्रतचतुष्टयस्य समविषयताकल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि च स्मृत्यन्तरदृष्टप्रायश्चित्तानि पाठक्रमेण व्रात्यादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदम् उक्तम्,
येषां द्विजानां सावित्री नानूच्येत यथावधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥ (म्ध् ११.१९२)

इति, यच् च यमेनोक्तम्,

सावित्री पतिता यस्य दशवर्षाणि पञ्च च ।
सशिखं वपनं कृत्वा व्रतं कुर्यात् समाहितः ॥
एकविंशतिरात्रं च पिबेत् प्रसृतियावकम् ।
हविषा भोजयेच् चैव ब्राह्मणान् सप्त पञ्च वा ॥
ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥

इति, तद् उभयम् अपि याज्णवल्क्यीयमासपयोव्रतविषयम् । यत् तु वसिष्ठेनोक्तम्- “पतितसावित्रीक उद्दालकव्रतं चरेत् । द्वौ मासौ यावकेन वर्तयेन् मासं पयसा पक्षम् आमिक्षयाष्टरात्रण् घृतेन षड्रात्रम् अयाचितेन त्रिरात्रम् अबभक्षो ऽहोरात्रम् उपवसेत् । अश्वमेधावभृथं गच्छेद् व्रात्यस्तोमेन वा यजेत” (वध् ११.७६–७८) इति । अत्रेयं व्यवस्था । यस्योपनेत्राद्यभावेन तत्कालातिक्रमस् तस्य याज्ञवल्क्यीयव्रतानाम् अन्यतमं शक्त्यपेक्षया भवति । अनापद्य् अतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदशवर्षाद् ऊर्ध्वम् अपि कियत्कालातिक्रमे तूद्दालकव्रतं व्रात्यस्तोमो वेति । येषां तु पित्रादयो ऽप्य् अनुपनीतास् तेषाम् आपस्तम्बोक्तम्- “यस्य पितापितामहाव् अनुपेतौ स्यातां तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपितामहादेर् नानुस्मर्यत उपनयनं तस्य द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यम्” (च्फ़्। आप्ध् १.१.३२, १.२.५) ।

(इति व्रात्यता)[^४८]

तथा स्तेये ऽप्य् उपपातकसाधारणप्राप्तव्रतचतुष्टयापवादकं प्रायश्चित्तं मनुनोक्तम् ।

धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः ।
सजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ॥ इति । (म्ध् ११.१६३)

द्विजोत्तमस्य सजातीयो ब्राह्मण एवातो विप्रपरिग्रहे ब्राह्मणस्य हर्तुर् इदम् । क्षत्रियादेस् त्व् अल्पं कल्प्यम् । अथ “अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य, द्विगुणोत्तराणीतरेषां प्रतिवर्णं, विदुषो ऽतिक्रमे दण्डभूयस्त्वम्” (ग्ध् १२.१५–१७) इति क्षत्रियादेर् अपहर्तुर् दण्डाल्पत्वस्य दर्शनात्, तथा,

विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।

इति पादपादहान्या प्रायश्चित्तदर्शनात् । तथा क्षत्रियादिपरिग्रहेणापि दण्डानुसारेण प्रायश्चित्ताल्पत्वं कल्प्यम् । अतः क्षत्रियपरिग्रहे चौर्ये षाण्मासिकम्, वैश्यपरिग्रहे त्रैमासिकं गोवधव्रतम्, शूद्रापरिग्रहे चान्द्रायणं कल्प्यम् । एवम् उत्तरत्राप्य् ऊहनीयम् । इदं च दशकुम्भधान्यापहारविषयम्, अधिके तु,

धान्यं दशभ्यः कुम्भेभ्यो हरतो दम उत्तमः । (म्ध् ८.३२०)
पलसहस्राद् अधिके वधः । (च्फ़्। म्ध् ८.३२१)

इति वधदर्शनात् । कुम्भश् च पञ्चसहस्रपलपरिमाणः । धान्यसाहचर्याद् अन्नधने चैतावद्धान्यपरिमिते वेदितव्ये । अन्नशब्देन तन्दुलादिकम् अभिधीयते, धनशब्देन ताम्ररजतादिकम् । इदं तु प्रायश्चित्तं कामकारविषयम् । अकामतस् तु त्रैमासिकं गोवधव्रतम् । तथा,

मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापीजलानां च शुद्धिश् चान्द्रायणेन तु ॥ (म्ध् ११.१६४)

इति सार्धशतद्वयपणलभ्यजलापहार इदं चान्द्रायणं प्राप्तम् अपीतरगोवधव्रतनिवृत्त्यर्थं विधीयते,

तावन्मूल्यजलापहारे पानीयस्य तृणस्य च ।
तन्मूल्याद् द्विगुणो दण्डः ।

इति पञ्चशतदण्डविधानात्, तावत्पणयोर् दण्डचान्द्रायणयोर् गोवधादौ सहचरितत्वात्, तथा,

कृच्छ्रातिकृच्छ्रैन्दवयोः पणपञ्चशतं तथा ।

इति चान्द्रायणविषये पञ्चशतपणदण्डविधानाच् च । एतच् च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् । (ब्राह्मसंबन्धिद्रव्यापहारे तु,

निक्षेपस्यापहरणं नराश्वरजतस्य च ।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ (म्ध् ११.५८)

इति द्रष्टव्यम् ) । तथा,

द्रव्याणाम् अल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।
चरेत् सांतपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ॥ (म्ध् ११.१६५)

इत्य् अनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहारविशेषेण स्तेयसामान्योपपातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमूल्यस्य पञ्चदशांशार्धत्रपुसीसाद्यपहारे प्रायश्चित्तम्, चान्द्रायणपञ्चदशांशत्वात् तस्य । तथा द्रव्यविशेषेणाप्य् उपपातकसामान्यप्राप्तव्रतापवादः-

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् । इति । (म्ध् ११.१६६)

एकवारभोजनपर्याप्तभक्षभोज्यापहार इदम् । द्वित्रिवारभोजनपर्याप्ताहारे त्रिरात्रम् । यथाह पैठीनसिः- “भक्ष्यभोज्यान्नस्योदरपूरणमात्रहरणे त्रिरात्रम् एकरात्रं वा पञ्चगव्याहारश् च” इति । यानादीनाम् अप्य् एतत्साहचर्याद् एतावन्मूल्यानाम् एवापहरणे एतत् प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्तस्यापि लघुगुरुभावः कल्पनीयः । तथा,

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
तैलचर्मामिषाणां च त्रिरात्रं स्याद् अभोजनम् ॥ इति । (म्ध् ११.१६७)

एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात्, तत्त्रिगुणमूल्यार्धाणाम् एतत् प्रायश्चित्तम् । तथा,

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयस्कांस्योपलानां च द्वादशाहं ँँकणान्नताँँ ॥ इति । (म्ध् ११.१६८)

अत्रापि भक्ष्यादिवत् द्वादशगुणप्रायश्चित्तदर्शनात्, तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्यपहार एतत् प्रायश्चित्तं द्रष्टव्यम् । तथा,

कार्पासकीटजौर्णानां द्विखुरैकखुरस्य च ।
पक्षिगन्धौषधीनां च रज्ज्वाश् चैव त्र्यहं पयः ॥ इति । (म्ध् ११.१६९)

अत्रापि भक्ष्यादित्रिगुणप्रायश्चित्तदर्शनात्, तत्त्रिगुणमूल्यानाम् अपहार एवैतत् प्रायश्चित्तं ज्ञेयम् । ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्ताल्पत्वमहत्त्वं कल्प्यम् एव । इदं च स्तेयप्रायश्चित्तम् अपहृतद्रव्यदानोत्तरकालम् एव द्रष्टव्यम् । यथाह विष्णुः-

दत्त्वैवापहृतं द्रव्यं स्वामिने व्रतम् आचरेत् । इति ।

(इति स्तेयम्)

ऋणापाकरणे च “पुत्रपौत्रैर् ऋणं देयम्” (य्ध् २.५०) इति विहितं तस्यानपाकरणे तथा वैदिकस्य च “जायमानो वै ब्राह्मणः” इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च “उपपातकशुद्धिः स्याद् एवम्” इत्यादिनोपपातकसामान्यविहितं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् । प्रायश्चित्तान्तरम् अप्य् अत्र मनुनोक्तम्-

इष्टिं वैश्वानरीं चैव निर्वपेद् अब्दपर्यये ।
लूप्तानां पशुसोमानां निष्कृत्यर्थम् असंभवे ॥ इति । (म्ध् ११.२७)

अब्दपर्यये संवत्सरान्ते ।

(इति ऋणानपाकरणम्)

तथाधिकृतस्यानाहिताग्नित्वे ऽप्य् एतद् एव व्रतचतुष्टयं वत्सराद् ऊर्ध्वम् आपदि शक्त्यपेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक् पुनर् वत्सरात् कार्ष्णाजिनिर् विशेषम् आह ।

काले त्व् आधाय कर्माणि कुर्याद् विप्रो विधानतः ।
तद् अकुर्वंस् त्रिरात्रेण मासि मासि विशुध्यति ॥
अनाहिताग्नौ पित्रादौ यक्ष्यमाणः सुतो यदि ।
स हि व्रात्येन पशुना यजेत् तन्निष्क्रयाय तु ॥ इति ।

एकाग्नेर् अपि विशेषस् तेनैवोक्तः ।

कृतदारो गृहे ज्येष्ठो यो नादध्याद् उपासनम् ।
चान्द्रायणं चरेद् वर्षं प्रतिमासम् अहो ऽपि वा ॥

(इत्य् अनाहिताग्निता)

[^४९]तथा अपण्यानां विक्रये च स्मृत्यन्तरे प्रायश्चित्तविशेष उक्तः । यथाह हारीतः- “गुडतिलपुष्पमूलफलपक्वान्नविक्रये सोमपानं सौम्यः कृच्छ्रः । लाक्षालवणमधुमांसतैलक्षीरदधितक्रघृतगन्धचर्मवाससाम् अन्यतमविक्रये चान्द्रायणम् । तथा । ऊर्णाकेशकेसरिभूधेनुवेश्माश्मशस्त्रविक्रये च भक्ष्यमांसस्नाय्वस्थिशृङ्गनखशुक्तिविक्रये तप्तकृच्छ्रः । हिङ्गुगुग्गुलुहरितालमनःशिलाञ्जनगैरिकक्षारलवणमणिमुक्ताप्रवालवैणवमृन्मयेषु च तप्तकृच्छ्रः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिषवणस्नाय्य् अधःशायी चतुर्थकालाहारो दशसहस्रं जपन् संवत्सरेण पूतो भवति । हीनमानोन्मानसंकरसंकीर्णविक्रये च” इति । एवम् अन्यैर् अपि शङ्खविष्ण्वाद्युक्तवचनैर् यत्र प्रायश्चित्तविशेषो नोक्तस् तत्रानापादि मानवम् उपपातकसाधारणतः प्राप्तं त्रैमासिकम् । आपदि तु याज्ञवल्क्यीयं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् ॥

(इत्य् अपण्यविक्रयः)

तथा परिवेत्तरि च वसिष्ठेन प्रायश्चित्तविशये उक्तः- “परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर् निविशेत तां चैवापयच्छेत” (वध् २०.८) इति । परिविविदानः परिवेत्तोच्यते । तत्स्वरूपं च प्राग् व्याख्यातम् । असौ कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै ज्येष्ठाय तां स्वोढां दत्त्वा ब्रह्मचर्याहृतभैक्षवद् गुरुपरिभवपरिहारार्थं निवेद्य पुनर् उद्वहेत् । काम् इत्य् अपेक्षायाम् उक्तं “ताम् एवोपयच्छेत” इति । ताम् एव स्वोढां ज्येष्ठाय निवेदितां तेन चानुज्ञाताम् उद्वहेत् । यत् तु हारीतेनोक्तम्, “ज्येष्ठे ऽनिविष्टे कनीयान् निविशमानः परिवेत्ता भवति परिवित्तिर् ज्येष्ठः परिवेदनी कन्या परिदायी दाता परियष्टा याजकस् ते सर्वे पतिताः संवत्सरं प्राजापत्येन कृच्छेण पावयेयुः” इति, यद् अपि शङ्खेनोक्तम्, “परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम्” इति, तद् उभयम् अपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम्, प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्ताम् एव परिणयति तदा मानवं त्रैमासिकम् । पूर्वोक्तौ कृच्छ्रातिकृच्छ्रौ याज्ञवल्क्यीयं च व्रतचतुष्टयम् अज्ञातविषयम् । यमेनाप्य् अत्र विशेष उक्तः-

कृच्छ्रौ द्वयोः पारिवेद्ये कन्यायाः कृच्छ्र एव च ।
अतिकृच्छ्रं चरेद् दाता होता चान्द्रायणं चरेत् ॥ इति ।

एतच् च पर्याहिताग्न्यादीनाम् अपि समानम्, एकयोगनिर्देशात् । यथाह गौतमः- “परिवित्तिपरिवेत्तृपर्याहितपर्याधात्रग्रेदिधिषूदिधिषूपतीनां संवस्तरं प्राकृतं ब्रह्मचर्यम्” (नोत् इन् ग्ध्) इति । अत एव वसिष्ठेनाग्रेदिधिषूपत्यादाव् इदम् एव प्रायश्चित्तम् उक्तम्- “अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत । दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्तां पुनर् निविशेत” (वध् २०.९–१०) इति । अग्रेदिधिष्वादेर् लक्षणं स्मृत्यन्तरे ऽभिहितम्-

ज्येष्ठायां यद्य् अनूढायां कन्यायाम् ऊह्यते ऽनुजा ।
या साग्रेदिधिषूर् ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥ इति ।

तत्राग्रेदिधिषूपतिः प्राजापत्यं कृत्वा ताम् एव ज्येष्ठां पश्चाद् अन्येनोढाम् उद्वहेत् । दिधिषूपतिस् तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढ्रे दत्त्वान्याम् उद्वहेद् ।

(इति परिवेदनम्)

तथा भृतकाध्यापकभृतकाध्यापितयोश् च पयसा ब्रह्मसुवर्चलां पिबेद् इत्य् अधिकृत्य विष्णुनोक्तम्-

भृतकाध्यापनं कृत्वा भृतकाध्यापितस् तथा ।
अनुयोगप्रदानेन त्रीन् पक्षान् नियतः पिबेत् ॥ इति ।

उत्कर्षहेतोर् अधीयानस्य किं पठसि नाशितं त्वयेत्य् एवं पर्यनुयोगो ऽनुयोगप्रदानम् । अत एव स्मृत्यन्तरे,

दत्तानुयोगान् अध्येयुः पतितान् मनुर् अब्रवीत् ।

इत्य् उक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्त्यपेक्षया विकल्पः ।

इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् ।

तथा पारदार्ये ऽप्य् उपपातकसामान्यप्राप्तमानवत्रैमासिकस्य याज्ञवल्क्यव्रतचतुष्टयस्यापि गुरुदारादाव् अपवाद उक्तः । तथान्यत्रापि गौतमादिभिः पारदार्यविशेषेणापवाद उक्तः । यथाह गौतमः- “द्वे परदारे त्रीणि श्रोत्रियस्य” (ग्ध् २२.२९–३०) इति । तथा वार्षिकं प्राकृतं ब्रह्मचर्यं प्रस्तुत्य तेनैवेदम् अभिहितम्- “उपपातकेषु चैवम्” (ग्ध् २२.३४) इति । तत्रेयं व्यवस्था- ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यं, तस्मिन्न् एव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम्, तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यम्, यद् वा श्रोत्रियपत्न्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम्, तादृग्विधायाम् एव क्षत्रियायां द्वैवार्षिकम्, तादृश्याम् एव वैश्यायां वार्षिकम् इति व्यवस्था । एतत्समानदृष्ट्या शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्यं कल्पनीयम् । अत एव शङ्खेन “वैश्याम् अवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्, क्षत्रियायां द्वे वर्षे, त्रीणि ब्राह्मण्यां वैश्यावच् च शूद्रायां ब्राह्मणपरिणीतायाम्” इति वर्णक्रमेण ह्रासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिस्त्रीषु क्रमेण द्विवार्षिकैकवार्षिकैकषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूद्र्योर् वार्षिकषाण्मासिके । शूद्रस्य शुद्र्यां परभार्यायां षाण्मासिकम् एव । यत् त्व् आपस्तम्बीयम् “सवर्णायाम् अनन्यपूर्वायां सकृत् संनिपाते पादः, पतत्य् एवम् अभ्यासे पादः पादश्, चतुर्थे सर्वम्” (आप्ध् २.२७.११–१३) इति, तद् गौतमीयत्रिवार्षिकेण समानविषयम् । अनन्यपूर्विकायां तु चतुरभ्यासे द्वादशवार्षिकप्रायश्चित्तविधानाद् एकस्याम् एव गमनाभ्यासे नेदं प्रायश्चित्तं किं तु प्रतिगमनं पादन्यूनं कल्प्यम् । एतत् सर्वं कामकारविषयम् । अकामतः पुनर् एतद् एवार्धकॢप्त्या पूर्वोक्तविषये योजनीयम् । अनृतुकाले तु जातिमात्रब्राह्मण्यां कामतो गमने मानवं त्रैमासिकम् । जातिमात्रक्षत्रियादिस्त्रीषु पुनर् अस्मिन्न् एव विषये तदीयान्य् एव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि, क्षत्रियादीनां च क्षत्रियादिस्त्रीषु द्वैमासिकादीन्य् एव । अकामतः पुनर् एतासु त्रैवर्णिकानां याज्ञवल्कीयम् ऋषभैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासव्रतम् एवार्धकॢप्त्या योजनीयम् । अत एव संवर्तः ।

शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धम् एव वा ।
गोमूत्रयावकाहारस् तिष्ठेत् तत्पापमुक्तये ॥ इति ।

अकामतो ऽर्धमासिकम् इत्य् अभिप्रेतम् । “ब्राह्मणश् चेदं प्रेक्षापूर्वकं ब्राह्मणदारान् अभिगच्छेत् तन्निवृत्तधर्मकर्मणः कृच्छ्रो ऽनिवृत्तधर्मकर्मणो ऽतिकृच्छ्रः” इति तद् ब्राह्मणभार्यायां शूद्रायां द्रष्टव्यम्, द्विजातिस्त्रीषु वा विप्रोढासु द्विस्त्रिर्व्यभिचरितासु अबुद्धिपूर्वगमने वा । तथा च संवर्तः ।

विप्राम् अस्वजनां गत्वा प्राजापत्यं समाचरेत् । इति ।

कामतस् तु,

राज्ञीं प्रव्रजितां धात्रीं साध्वीं वर्णोत्तमाम् अपि ।
क्र्च्छ्रद्वयं प्रकुर्वीत सगोत्राम् अभिगम्य च ॥

इति यमोक्तं कृच्छ्रद्वयं द्रष्टव्यम् । चतुराद्यभ्यासे तु व्यभिचारस्य स्वैरिण्यां वृषल्याम् अवकीर्णः सचैलस् नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां च चतुर्थकालाहारो ब्राह्मणान् भोजयेद् यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रोपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रोपोषितो गां दद्याद् गोष्व् अवकीर्णः प्राजापत्यं चरेत् । “अनूढायाम् अवकीर्णः पलालभरं सीसमाषकं च दद्यात्” इति शङ्खोक्तं वेदितव्यम् । चतुराद्यभ्यासविषयत्वं चास्य,

चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी मता ।

इति स्मृत्यन्तरादव् अगम्यते । अत्रैव विषये षट्त्रिंशन्मते ऽप्य् उक्तम्-

ब्राह्मणीं बन्धकीं गत्वा किंचिद् दद्याद् द्विजातये ।
राजन्यां चेद् धनुर् दद्याद् वैश्यां गत्वा तु चैलकम् ॥
शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये ।
दिवसोपोषितो वा स्याद् दद्याद् विप्राय भोजनम् ॥ इति

[^५०]इदं प्रायश्चित्तजातं गर्भानुत्पत्तिविषयम् । तदुत्पत्तौ तु यद्विशेषेण यत्प्रायश्चित्तम् उक्तं तद् एव तत्र द्विगुणं कुर्यात्,

गमने तु व्रतं यत् स्याद् गर्भे तद्द्विगुणं चरेत् ।

इत्य् उशनःस्मरणात् । शूद्र्यां गर्भम् आदधतश् चतुर्विंशतिमते विशेष उक्तः- “वृषल्याम् अभिजातस् तु त्रीणि वर्षाणि चतुर्थकालसमये नक्तं भुञ्जीत” इति । यत् तु मनुवचनम्,

शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ (म्ध् ३.१७)

इति तत् पापगौरवख्यापनपरम् । प्रातिलोम्यव्यवाये तु सर्वत्र पुरुषस्य वध एव,

प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ।

इति वचनात् । यत् तु वृद्धप्रचेतोवचनम्,

शूद्रस्य ब्राह्मणीं मोहाद् गच्छतः शुद्धिम् इच्छतः ।
पूर्णम् एतद् व्रतं देयं माता यस्माद् धि तस्य सा ॥
पादहान्यान्यवर्णासु गच्छतः सार्ववर्णिकम् ॥

इति द्वादशवार्षिकातिदेशकं, तत् स्वभार्याभ्रान्त्या गच्छतो वेदितव्यम्, मोहाद् इति विशेषणोपादानात् । यत् तु संवर्तवचनम्,

कथंचिद् ब्राह्मणीं गच्छेत् क्षत्रियो वैश्य एव वा ।
कृच्छ्रं सान्तपनं वा स्यात् प्रायश्चित्तं विशुद्धये ॥
शूद्रस् तु ब्राह्मणीं गच्छेत् कथंचित् काममोहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥

तद् अत्यन्तव्यभिचरितब्राह्मणीविषयम् । अन्त्यजागमने ऽपि प्रायश्चित्तं बृहत्संवर्तेनोक्तम्-

रजकव्याधशैलूषवेणुचर्मोपजीविनाम् ।
एतास् तु ब्राह्मणो गत्वा चरेच् चान्द्रायणद्वयम् ॥ इति ।

इदं ब्राह्मणस्य कामतः सकृद् गमनविषयम् । क्षत्रियादीनां तु पादपादहीनं कल्प्यम् । अत्रैवापस्तम्बेनोक्तम्-

म्लेच्छी नटी चर्मकारी रजकी बुरुडी तथा ।
एतासु गमनं कृत्वा चरेच् चान्द्रायणद्वयम् ॥ इति ।

अन्त्यजाश् च तेनैव दर्शिताः ।

रजकश् चर्मकारश् च नटो बुरुड एव च ।
कैवर्तमेदमिल्लाश् च सप्तैते ह्य् अन्त्यजाः स्मृताः ॥ इति ।

ये तु चाण्डालादयो ऽन्त्यावसायिनस् तत्स्त्रीगमने गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शितम् । एतासां चान्त्यजस्त्रीणां मध्ये यद् एकस्यां व्यवाये प्रायश्चित्तम् अभिहितं तत् सर्वासु भवति, सर्वासां सदृशत्वात् । यथाह उशना ।

बहूनाम् एकधर्माणाम् एकस्यापि यद् उच्यते ।
सर्वेषां तद् भवेत् कार्यम् एकरूपा हि ते स्मृताः ॥ इति ।

अकामतस् तु गमने,

चण्डालमेदश्वपचकपालव्रतचारिणाम् ।
अकामतः स्त्रियो गत्वा पराकव्रतम् आचरेत् ॥

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । यच् च संवर्तवचनम्,

रजकव्याधशैलूषवेणुचर्मोपजीविनाम् ।
स्त्रियो विप्रो यदा गच्छेत् कृच्छ्रं चान्द्रायणं चरेत् ॥

इति तद् अप्य् अकामविषयम् । यत् तु शातातपेनोक्तम्,

कैवर्तां रजकीं चैव वेणुचर्मोपजीविनीम् ।
प्राजापत्यविधानेन कृच्छ्रेणैकेन शुध्यति ॥

इति तद् रेतःसेकात् प्राङ् निवृत्तिविषयम् । यत् तु उशनसोक्तम्,

कपालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।
ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवद्वयम् ॥

इति तद् अभ्यासविषम् । यदा तु चाण्डाल्यादिषु गच्छतो गर्भो भवति तदा,

चाण्डाल्यां गर्भम् आरोप्य गुरुतल्पव्रतं चरेत् ।

इत्य् उशनसोक्तं द्वादशवार्षिकं द्रष्टव्यम् । यत् तु,

अन्त्यजायां प्रसूतस्य निष्कृतिर् न विधीयते ।
निर्वासनं कृताङ्कस्य तस्य कार्यम संशयम् ॥

इत्य् आपस्तम्बवचनं, तत् कामकारविषयम् । स्त्रीणाम् अपि सवर्णानुलोमव्यवाये यत् पुरुषस्योक्तं त्रैवार्षिकादि तद् एव भवति,

यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् । (म्ध् ११.१७७)

इति मनुस्मरणात् । प्रातिलोम्येन व्यवाये एव परस्त्रीपुंसयोः प्रायश्चित्तभेदः । यथाह वसिष्ठः- “शूद्रश् चेद् ब्राह्मणीम् अभिगच्छेद् वीरणैर् वेष्टयित्वा शूद्रम् अग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरम् आरोप्य महापथम् अनुव्राजयेत् पूता भवतीति विज्ञायते” (वध् २१.१) इति । तथा “वैश्यश् चेद् ब्राह्मणीम् अभिगच्छेल् लोहितदर्भैर् वेष्टयित्वा वैश्यम् अग्नौ प्रास्येद् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरम् आरोप्य महापथम् अनुव्राजयेत् पूता भवतीति विज्ञायते” (वध् २१.२) इति । तथा “राजन्यश् चेद् ब्राह्मणीम् अभिगच्छेच् छरपत्रैर् वेष्टयित्वा राजन्यम् अग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां गौरखरम् आरोप्य महापथम् अनुसंव्राजयेत् पूता भवतीति विज्ञायत” (वध् २१.३) इति । एवं वैश्यो राजन्यां शूद्रश् च राजन्यावैश्ययोर् इति । “पूता भवति” इति वचनाद्, राजवीथिपरिव्राजनम् एव दण्डरूपं प्रायश्चित्तान्तरनिरपेक्षं शुद्धिसाधनम् इति दर्शयति ॥

ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये प्रायश्चित्तान्तरम् अप्य् उक्तं संवर्तेन-

ब्राह्मण्य् अकामा गच्छेच् चेत् क्षत्रियं वैश्यम् एव वा ।
गोमूत्रयावकैर् मासात् तदर्धाच् च विशुध्यति ॥ इति ।

कामतस् तु तद्द्विगुणं कर्तव्यम्, “कामात् तद्द्विगुणं भवेत्” इति वचनात् । षट्त्रिंशन्मते ऽपि “ब्राह्मणी क्षत्रियवैश्यसेवायाम् अतिकृच्छ्रं कृच्छ्रातिकृच्छ्रौ चरेत् । क्षत्रिययोषित् ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रार्धं प्राजापत्यम् अतिकृच्छ्रम् । वैश्ययोषिद् ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादं कृच्छ्रार्धं प्राजाप्त्यम् । शूद्रायाः शूद्रसेवने प्राजापत्यम् । ब्राह्मणराजन्यवैश्यसेवायां त्व् अहोरात्रं त्रिरात्रं कृच्छ्रार्धम्” इति । शूद्रसेवायां तु विशेषो बृहत्प्रचेतसोक्तः ।

विप्रा शूद्रेण संपृक्ता न चेत् तस्मात् प्रसूयते ।
प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥

एतद् अनिच्छन्त्यां स्वपतिभ्रान्त्या वा वेदितव्यम् ।

चान्द्रायणे द्वे कृच्छ्रश् च विप्राया वैश्यसेवने ।
कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥
क्षत्रिया शूद्रसंपर्के कृच्छ्रं चान्द्रायणद्वयम् ।
चान्द्रायणं सकृच्छ्रं तु चरेद् वैश्येन संगता ॥
शूद्रं गत्वा चरेद् वैश्या कृच्छ्रं चान्द्रायणोत्तरम् ।
आनुलोम्ये प्रकुर्वीत कृच्छ्रं पादावरोपितम् ॥ इति ।

प्रजातायास् तु चतुर्विंशतिमते विशये उक्तः ।

विप्रगर्भे पराकः स्यात् क्षत्रियस्य तथैन्दवम् ।
ऐन्दवश् च पराकश् च वैश्यस्याकामकारतः ॥
शूद्रगर्भे भवेत् त्यागश् चाण्डालो जायते यतः ।
गर्भस्रावे धातुदोषैश् चरेच् चान्द्रायणत्रयम् ॥ इति ।

अकामकारत इति विशेषणोपादानात् कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । यदा त्व् अनिःसृतगर्भैव दशमासं स्थित्वा प्रजायते तदा प्रायश्चित्ताभावः,

ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ (वध् २१.१२)

इति वसिष्ठस्मरणात् । यदा त्व् आहितगर्भैव पश्चाच् छूद्रादिभिर् व्यभिचरति तदा गर्भपातशङ्कया प्रसवोत्तरकाल एव प्रायश्चित्तं कुर्यात्,

अन्तर्वत्नी तु या नारी समेताक्रम्य कामिना ।
प्रायश्चित्तं न कुर्यात् सा यावद् गर्भो न निःसृतः ॥
जाते गर्भे व्रतं पश्चात् कुर्यान् मासं तु यावकम् ।
न गर्भदोषस् तस्यास्ति संस्कार्यः स यथाविधि ॥

इति स्मृत्यन्तरदर्शनात् । यदा त्व् औद्धत्यात् प्रायश्चित्तं न कुर्वन्ति तदा नार्याः कर्णादिकर्तनम् इति द्रष्टव्यम् । अन्त्यजादिगमने ऽपि स्त्रीणां स्मृत्यन्तरे प्रायश्चित्तं दर्शितम् ।

रजकव्याधशैलूषवेणुचर्मोपजीविनः ।
ब्राह्मण्य् एतान् यदा गच्छेद् अकामाद् ऐन्दवत्रयम् ॥ इति ।

तथा चाण्डाल्याद्यन्त्यजागमने ऽपि,

चाण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा ।
ब्राह्मण्य् अकामतो गत्वा चान्द्रायणचतुष्टयम् ॥ इति ।

अकामत इति वचनात् कामतो द्विगुणं कल्प्यम् । तथा,

चाण्डालेन तु संपर्कं यदि गच्छेत् कथंचन ।
सशिखं वपनं कुर्याद् भुञ्जीयाद् यावकौदनम् ॥
त्रिरात्रम् उपवासः स्याद् एकरात्रं जले वसेत् ।
आत्मना संमिते कूपे गोमयोदककर्दमे ॥
तत्र स्थित्वा निराहारा सा त्रिरात्रं ततः क्षिपेत् ।
शङ्खपुष्पीलतामूलं पत्रं वा कुसुमं फलम् ।
क्षीरं सुवर्णसंमिश्रं क्वाथयित्वा ततः पिबेत् ॥
एकभक्तं चरेत् पश्चाद् यावत् पुष्पवती भवेत् ।
बहिस् तावच् च निवसेद् यावच् चरति तद् व्रतम् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
गोद्वयं दक्षिणां दद्याच् छुद्ध्यै स्वायंभुवो ऽब्रवीत् ॥ इति ।

एतद् अप्य् अकामविषयम् एव,“यदि गच्छेत् कथंचन” इति वचनात् । ऋष्यशृण्गेणाप्य् अन्त्यजव्यवाये प्रायश्चित्तान्तरम् उक्तम् ।

संपृक्ता स्याद् अथान्त्यैर् या सा कृच्छ्राब्दं समाचरेत् । इति ।

कामतः सकृद् गमने इदम् । यदा त्व् आहितगर्भाया एव पश्चाच् चाण्डालादिव्यवायस् तदा तेनैव विशेष उक्तः ।

अन्तर्वत्नी तु युवतिः संपृक्ता चान्त्ययोनिना ।
प्रायश्चित्तं न सा कुर्याद् यावद् गर्भो न निःसृतः ॥
न प्रचारं गृहे कुर्यान् न चाङ्गेषु प्रसाधनम् ।
न शयीत समं भर्त्रा न वा भुञ्जीत बान्धवैः ॥
प्रायश्चित्तं गते गर्भे विधिं कृच्छ्राब्दिकं चरेत् ।
हिरण्यम् अथ वा धेनुं दद्याद् विप्राय दक्षिणाम् ॥ इति ।

यदा तु कामतो ऽत्यन्तसंपर्कं करोति तदा,

अन्त्यजेन तु संपर्के भोजने मैथुने कृते ।
प्रविशेत् संप्रदीप्ते ऽग्नौ मृत्युना सा विशुध्यति ॥

इत्य् उशनसोक्तं द्रष्टव्यम् । यदा तूक्तं प्रायश्चित्तं न करोति तदा पुंलिङ्गेनाङ्कनीया वध्या वा भवेत्,

हीनवर्णोपभुक्ता या साङ्क्या वध्याथवा भवेत् ।

इति पराशरस्मरणात् ।

(इति पारदार्यप्रकरणम्)

तथा परिवित्तिप्रायश्चित्तानाम् अपि परिवेत्तृप्रायश्चित्तवद् व्यवस्था विज्ञेया । इयांस् तु विशेषः । परिवेत्तुर् यस्मिन् विषये कृच्छ्रातिकृच्छ्रौ तत्र परिवित्तेः प्राजापत्यम् इति, “परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् निविशेत तां चैवोपयच्छेत्” इति वसिष्ठस्मरणात् ।

(इति परिवित्तिप्रकरणम्)

वार्धुष्यलवणक्रययोस् तु मनुयोगीश्वरोक्तसामान्योपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ ३.२६५ ॥

लवणक्रयानन्तरं स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्ये पठितं तत्र प्रायश्चित्तान्तरम् अप्य् आह ।

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् । ३.२६६अब्
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ ३.२६६च्द्
वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम् । ३.२६७अब्
षण्मासाच् छूद्रहाप्य् एतद् धेनुर् दद्याद् दशाथ वा ॥ ३.२६७च्द्

एकम् अधिकं यस्मिन् सहस्रे तद् एकसहस्रं, तस्य पूरण एकसहस्रः, ऋषभ एकसहस्रो यासां गवां ताः ऋषभैकसहस्रास् ताः क्षत्रवधे दद्यात् । अथ वा बृहत्प्रायश्चित्तं ब्रह्महत्याव्रतं वर्षत्रयं कुर्यात् । वैश्यघाती पुनर् एतत् ब्रह्महत्याव्रतम् एकवर्षं चरेत् । गवाम् ऋषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् । यद् वा दशधेनूर् अचिरप्रसूताः सवत्सा दद्यात् । इदम् अकामतो जातिमात्रक्षत्रियादिवधविषयम्, “अकामतस् तु राजन्यं विनिपात्य” (म्ध् ११.१२८) इति प्रक्रम्यैतेषाम् एव प्रायश्चित्तानां मानवे ऽभिधानात् । दानतपसोश्च शक्त्यपेक्षया व्यवस्था । ईषद्वृत्तस्थयोस् तु विट्शूद्रयोः,

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥ (म्ध् ११.१२७)

इति मनूक्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । वृत्तशब्देन चात्र गुणादिकम् उच्यते,

गुरुपूजा घृणा शौचं सत्यम् इन्द्रियनिग्रहः ।
प्रवर्तनं हितानां च तत्सर्वं वृत्तम् उच्यते ॥

इति मनुस्मरणात् । यत् तु वृद्धहारीतवचनम्,

ब्राह्मणः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् ।
वैश्यं हत्वा चरेद् एवं व्रतं त्रैवार्षिकं द्विजः ॥
शूद्रं हत्वा चरेद् वर्षं वृषभैकादशाश् च गाः ॥

इति, तत् कामकारविषयम् । श्रोत्रियक्षत्रियादिवधे तु,

तुरीयोनं क्षत्रियस्य वधे ब्रह्महणि व्रतम् ।
अर्धं वैश्यवधे कुर्यात् तुरीयं वृषलस्य तु ॥

इति वृद्धहारीतोक्तं द्रष्टव्यम् । यत् तु वसिष्ठवचनम्, “ब्राह्मणो राजन्यं हत्वाष्टौ वर्षाणि व्रतं चरेत्, षड् वैश्यं, त्रीणि शूद्रम्” (वध् २०.३१–३३) इति, तद् अपि हारीतीयेन समानविषयम् । क्षत्रिये त्व् ईषद्गुणन्यून इत्य् एतावान् विशेषः । यदा तु श्रोत्रियो वृत्तस्थश् च भवति तदा पूर्वयोर् वर्णयोर् “यो वेदाध्यायिनं हत्वा” इत्य् आपस्तम्बोक्तं द्वादशवार्षिकं द्रष्टव्यम् । प्रारब्धयोगे त्व् अश्रोत्रिये क्षत्रियादौ व्यापादिते “यागस्थक्षत्रविड्घाती चरेद् ब्रह्मणि व्रतम्” (य्ध् ३.२५१) इति द्रष्टव्यम् । श्रोत्रिये पुनर् यागस्थे क्षत्रियादौ “ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम् ऋषभैकसहस्राश् च गा दद्यात्, वैश्यवधे त्रिवार्षिकम् ऋषभैकशताश् च गा दद्यात्, शूद्रवधे सांवत्सरिकम् ऋअभैकादशाश् च गा दद्याद्” (ग्ध् २२.१४–१६) इति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतच् चामतिपूर्वविषयम् । पूर्ववद् “अमतिपूर्वं चतुर्षु वर्णेषु प्रमाप्य द्वादश षट् त्रीन् संवस्तरं च व्रतान्य् आदिशेत् तेषाम् अन्ते गोसहस्रं च ततो ऽर्धं तस्यार्धम् अर्धं च दद्यात् सर्वेषाम् आनुपूर्व्येण” इति शङ्खस्मरणात् । इदं च द्वादशवार्षिकं गौतमीयविषयम् एव किंचिन्न्यूनगुणे क्षत्रिये गुणाधिकयोर् वैश्यशूद्रयोश् च द्रष्टव्यम् । स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वाभावाद् उपपातकसामान्यप्राप्तान्य् अपि प्रायश्चित्तान्य् अत्र योजनीयानि । तत्र दुर्वृत्तक्षत्रियादौ कामतो व्यापादिते मानवं त्रैमासिकं त्रैवार्षिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस् तु योगीश्वरोक्तं त्रिरात्रोपवाससहितम् ऋषभैकादशगोदानं मासं पञ्चगव्याशनं मासिकं च पयोव्रतं यथाक्रमेण योज्यम् । एतच् च प्राग् उक्तं व्रतजातं ब्राह्मणकर्तृके क्षत्रियादिवधे द्रष्टव्यम् ।

अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः । (म्ध् ११.१२८)

तथा,

ब्राह्मण (ओ?) राजन्यवधे षड्वार्षिकं । (ग्ध् २२.१४_

तथा,

ब्राह्मणः क्षत्रियं हत्वा । (वध् २०.३१)

इत्यादिषु मनुगौतमहारीतवसिष्ठवाक्येषु ब्राह्मणग्रहणात् क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पादन्यूनं द्रष्टव्यम्,

विप्रे तु सकलं देयं पादोनं क्षत्र्यिये स्मृतम् ।
वैश्ये ऽर्धम् एकपादस् तु शूद्रजातिषु शस्यते ॥

इति वृद्धविष्णुस्मरणात् । यत् तु,

पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥

इत्य् अङ्गिरोवचनं, तत् प्रातिलोम्येन वाग्दण्डपारुष्यविषयम् इत्य् उक्तं गोवधप्रकरणे । मूर्धावसिक्तादीनां वधे एतत् प्रायश्चित्तजातं न भवति, तेषां क्षत्रियादित्वाभावात् । अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रतकदम्बस्य वृद्धिह्रासौ कल्पनीयौ । दण्डस्य च वृद्धिह्रासौ दर्शितौ, “दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरे” इत्य् अत्र ॥ ३.२६६ ॥ ३.२६७ ॥

(इति क्षत्रियादिवधप्रायश्चित्तप्रकरणम्)

स्त्रीवधे प्रायश्चित्तम् आह ।

दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु । ३.२६८अब्
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥ ३.२६८च्द्

ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधारचर्मकोशं धनुः कार्मुकं बस्तं छागं अविं मेषं च विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्त्यजातिप्रसूतानां ब्राह्मण्यादीनाम् अकामतो वधविषयम् । कामतस् तु ब्रह्मगर्भ आह ।

प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः ।
अन्तरप्रभवानां च सूतादीनाम् चतुर्द्विषट् ॥ इति ।

ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश् चत्वारो वैश्याया द्वाव् इत्य् एवं यथार्थतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं व्यापादयति तदा किंचिद् देयम्, “वैशिके न किंचित्” (ग्ध् २२.२७) इति गौतमस्मरणात् । वैशिकेन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिद् एव देयं तच् च जलम्,

कोशं कूपे च विप्रे वा ब्राह्मण्याः प्रतिपादयेत् ।
वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥
शूद्रायाम् आविकं वैश्यां हत्वा दद्याज् जलं नरः ॥

इत्य् अङ्गिरःस्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गोवधप्रायश्चित्तानि यथार्हं योज्यानि ॥ ३.२६८ ॥

ईषद्व्यभिचरितब्राह्मण्यादिवधे विशेषम् आह ।

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । ३.२६९अब्

यदा त्व् अप्रकर्षेण दुष्टाम् ईषद्व्यभिचारिणीं ब्राह्मण्यादिकां व्यापादयति, तदा शूद्रहत्याव्रतं षाण्मासिकं कुर्यात् । यद् वा दशधेनूर् दद्यात् । इदं च षाण्मासिकम् अकामतो ब्राह्मण्या व्यापादने क्षत्रियावधे तु कामकृते द्रष्टव्यम् । कामतो वैश्यावधे दशधेनूर् दद्यात् । कामतः शूद्रावधे तु उपपातकसाधारणप्राप्तं मासं पञ्चगव्याशनम् । यदा तु कामतो ब्राह्मणीं व्यापादयति तदा द्वादशमासिकम् । क्षत्रियादीनां त्व् अकामतो व्यापादने त्रैमासिकसार्धमासिकसार्धद्वाविंशत्यहानि । यथाह प्रचेताः- “अनृतुमतीं ब्राह्मणीं हत्वा कृच्छ्राब्दं षण्मासान् वेति । क्षत्रियां हत्वा षण्मासान् मासत्रयं वेति । वैश्यां हत्वा मासत्रयं सार्धमासं वेति । शूद्रां हत्वा सार्धमासं सार्धद्वाविंशत्यहानि वा” । इति ।

यत् तु हारीतेन षड्वर्षाणि राजन्ये प्राक्र्टं ब्रह्मचर्यं त्रीणि वैश्ये सार्धं शूद्र इति प्रतिपाद्योक्तं “क्षत्रियवद् ब्राह्मणीषु वैश्यवत् क्षत्रियायां शूद्रवद् वैश्यायां शूद्रां हत्वा नवमासान्” इत् युक्तं, तद् अपि कर्मसाधनत्वादिगुणयोगिनीनां कामतो व्यापादने द्रष्टव्यम् । अकामतस् तु सर्वत्रार्धं कल्प्यम् । आत्रेय्यां तु प्राग् उक्तम् ॥

(इति स्त्रीवधप्रायश्चित्तप्रकरणम्)

_हिंसाप्रायश्चित्तप्रसङ्गात्, प्रकीर्णकपदाभिधेयानुपपातकप्राणिवधे ऽपि प्रायश्चित्तम् आह । _

अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः ॥ ३.२६९च्द्

अस्थिमतां प्राणिनां कृकलासप्रभृतीनाम् अनुक्तनिष्कृतीनां सहस्रं हत्वा अनस्थिमतां च यूकामत्कुणदंशमशकप्रभृतीनाम् अनः शकटं तत्परिपूर्णमात्रं हत्वा शूद्रहत्याव्रतं षाण्मासिकं प्राकृतं ब्रह्मचर्यं चरेद् दशधेनूर् वा दद्यात् । सहस्रम् इति परिमाणनियमात् ततो ऽधिकवधे त्व् अतिरिक्तं कल्प्यम् । अर्वाक् पुनः प्रत्येकं वधे तु किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके इति वक्ष्यति । तथानस्थिमताम् अन इत्य् एतच् च क्षोदिष्ठजन्तुविषयम् । स्थविष्ठानस्थिघुणादिजन्तुवधे तु “कृमिकीटवयो हत्वा” (म्ध् ११.७१) इत्य् आदिना मलिनीकरणीयान्य् अभिधाय “मलिनीकरणीयेषु तप्तः स्याद् यवकस् त्र्यहम्” (म्ध् ११.१२६) इति मनूक्तं द्रष्टव्यम् ॥ ३.२६९ ॥

किं च ।

मार्जारगोधानकुलमण्डूकांश् च पतत्रिणः । ३.२७०अब्
हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ ३.२७०च्द्

मार्जारादयः प्रसिद्धाः पतत्रिणश् चाषकाकोलूकास् तान् हत्वा त्रिरात्रं पयः पिबेत् पादकृच्छ्रं वाचरेत् । वाशब्दाद् योजनगमनादिकं वा कुर्यात् । यथाह मनुः ।

पयः बिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
अपः स्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ इति । (म्ध् ११.१३३)

इदं च प्रत्येकवधविषयम् । समुदितवधे तु,

मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥ (म्ध् ११.१३२)

इति मनूक्तं षाण्मासिकं द्रष्टव्यम् । यत् पुनर् वसिष्ठेनोक्तम्, “श्वमार्जारनकुलमण्डूकसर्पदहरमूषिकान् हत्वा कृच्छ्रं द्वादशरात्रं चरेत् किंचिद् दद्यात्” (वध् २१.२४) इति, तत् कामतो ऽभ्यासविषयम् वेदितव्यम् । दहरो ऽल्पमूषक छुछुन्दरी वा ॥ ३.२७० ॥

किं च ।

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः । ३.२७१अब्
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ ३.२७१च्द्

दन्तिनि व्यापादिते पञ्च नीलवृषा देयाः । शुके पक्षिणि द्विवर्षो वत्सः । रासभच्छागैडकेषु व्यापादितेषु प्रत्येकम् एको वृषः । क्रौञ्चे पक्षिणि त्रिहायनो वत्सः । देय इति सर्वत्रानुषङ्गः । मनुनाप्यत्र विशेष उक्तः ।

वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥ इति ॥ (म्ध् ११.१३७) ३.२७१ ॥

किं च ।

हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः । ३.२७२अब्
भासं च हत्वा दद्याद् गाम् अक्रव्यादस् तु वत्सिकाम् ॥ ३.२७२च्द्

क्रव्यम् अपक्वं मांसम् अत्तीति क्रव्याव्याद् व्याघ्रसृगालादिर् मृगविशेषः, वानरसाहचर्यात् । तथा हंसश्येनसमभिव्याहारात् कङ्कगृध्रादिः पक्षिविशेषश् च गृह्यते । जलशब्देन जलचरा बकादयो गृह्यन्ते । स्थलशब्देन स्थलचरा बलाकादयः । शिखण्डी मयूरः । भासः पक्षिविशेषः । शेषाः प्रसिद्धाः । एषां प्रत्येकं वधे गाम् एकां दद्यात् । अक्रव्यादस् तु हरिणादिमृगान् खञ्जरीटादिपक्षिविशेषान् हत्वा वत्सतरीं दद्यात् । तथा च मनुः ।

हत्वा हंसं बलाकां च बकं बर्हिणम् एव च ।
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥
वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥
क्रव्यादस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादो वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥ इति ॥ (म्ध् ११.१३६–३८) ३.२७२ ॥

किं च ।

उरगेष्व् आयसो दण्डः पण्डके त्रपु सीसकम् । ३.२७३अब्
कोले घृतघटो देय उष्ट्रे गुञ्जा हये ऽंशुकम् ॥ ३.२७३च्द्

सरीसृपेषु व्यापादितेषु अयोमयो दण्डस् तीक्ष्णप्रान्तो देयः । पण्डके नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात् पलालभारं वा, “पण्डकं हत्वा पलालभारं त्रपु सीसकं वा दद्यात्” इति स्मृत्यन्तरदर्शनात् । यद्य् अपि,

पण्डको लिङ्गहीनः स्यात् संस्कारार्हश् च नैव सः ।

इति देवलवचनेन सामान्येनैव स्त्रीपुंलिङ्गरहितो निर्दिष्टस् तथापि न गोब्राह्मणरूपस्येह विवक्षा । गोब्राह्मणवधनिषेधस्य जात्यवच्छेदेन प्रवृत्तेः लिङ्गविरहिणि च पण्डे जातिसमवायाविशेषात् तन्निमित्तम् एव लघुप्रायश्चित्त मुक्तम् । तस्मान् मृगपक्षिण एव विवक्षिताः, मृगपक्षिसमभिव्याहाराच् च । कोले सूकरे व्यापादिते घृतकुम्भो देयः । उष्ट्रे गुञ्जा देया । वाजिनि विनिपातिते ऽंशुकं वस्त्रं देयम् । तथा च मनुः ।

अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।
पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ इति ॥ (म्ध् ११.१३४) ३.२७३ ॥

किं च ।

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन् । ३.२७४अब्
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ ३.२७४च्द्

तित्तिरौ पतत्त्रिणि व्यापादिते तिलद्रोणं दद्यात् । द्रोणशब्दश् च परिमाणविशेषवचनः ।

अष्टमुष्टि भवेत् किंचित् किंचिद् अष्टौ तु पुष्कलम् ।
पुष्कलानि तु चत्वार्य् आढकः परिकीर्तितः ॥
चतुराढको भवेद् द्रोण इत्य् एतन् मानलक्षणम् ॥

इति स्मरणात् । पूर्वोक्तानां गजादीनां व्यापादने निर्धनत्वेन नीलवृषपञ्चकादिदानं कर्तुम् अशक्नुवन् प्रत्येकं कृच्छ्रं चरेद् विशुद्ध्यर्थम् । कृच्छ्रशब्दश् चात्र लक्षणया क्लेशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दर्शितानि- “संवत्सरः षण्मासाश् चत्वारस् त्रयो द्वाव् एकश् चतुर्विंशत्यहो द्वादशाहः षडहस् त्र्यहो ऽहोरात्र इति कालः । एतान्य् एवानादेशे विकल्पेन क्रियेरन्न् एनसि गुरुणि गुरूणि लघुनि लघूनि” (ग्ध् १९.१७–१९) इति । यदि कृच्छ्रशब्देन मुख्यो ऽर्थो गृह्यते तर्हि गजे शुके वा विशेषेण प्रजापत्य एव स्यात् । न च तद् युक्तम् । तपोमात्रपरत्वे तु दानगुरुलघुभावाकलनया तपसो ऽपि गुरुलघुभावो युज्यते । ततश् च गजे द्विमासिकं यावकाशनं शुके तूपवास इति । एवम् अन्यत्रापि दानानुसारेण प्रायश्चित्तं कल्प्यम् ॥ ३.२७४ ॥

किं चाह ।

फलपुष्पान्नरसजसत्त्वघाते घृताशनम् । ३.२७५अब्

उदुम्बरादौ फले मधूकादौ च कुसुमे चिरस्थितभक्तसक्त्वाद्यन्ने च रसे गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धिसाधनम् । इदं च घृतप्राशनं भोजनकार्ये एव विधीयते, प्रायश्चित्तानां तपोरूपत्वात् । दर्शितं च तपोरूपत्वम् आङ्गिरसे प्रायश्चित्तपदनिर्वचनव्याजेन ।

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयुक्तं प्रायश्चित्तं तद् उच्यते ॥ इति ॥

प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुम् अशक्यत्वात् सामान्येन प्रायश्चित्तम् आह ।

किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके ॥ ३.२७५च्द्

अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित् स्वल्पं धान्यहिरण्यादि देयम् । अनस्थिके त्व् एकः प्राणायामः । तत्र किंचिद् इति यदा हिरण्यं दीयते तदा पणमात्रम्, “अस्थिमतां वधे पणो देयः” इति सुमन्तुस्मरणात् । यदा तु धान्यं देयं तदाष्टमुष्टि देयम् “अष्टमुष्टि भवेत् किंचित्” इति स्मरणात् । एतच् चानुक्तनिष्कृतिप्राणिवधविषयम् । यत्र तु प्रायश्चित्तविशेषः श्रूयते तत्र स एव भवति । यथाह पराशरः ।

हंषसारसचक्राह्वक्रौञ्चकुक्कुटघातकः ।
मयूरमेषौ हत्वा च एकभक्तेन शुध्यति ॥
मद्गुं च टिट्टिभं चैव शुकं पारावतं तथा ।
आडिकां च बकं हत्वा शुध्येद् वै नक्तभोजनात् ॥
चाषकाककपोतानां सारीतित्तिरघातकः ।
अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ॥
गृध्रश्येनविहङ्गानाम् उलूकस्य च घातकः ।
अपक्वाशी दिनं तिष्टेद् द्वौ कालौ मारुताशनः ॥
हत्वा मूषिकमार्जारसर्पाजगरडुण्डुभान् ।
प्रत्येकं भोजयेद् विप्रांल् लोहदण्डश् च दक्षिणा ॥
सेधाकच्छपगोधानां शशशल्यकघातकः ।
वृन्ताकफलगुञ्जाश्य् अहोरात्रेण शुध्यति ॥
मृगरोहिवराहाणाम् अविकाबस्तघातने ।
वृकजम्बूकऋक्षाणां तरक्षूणां च घातकः ॥
तिलप्रस्थं त्व् असौ दद्याद् वायुभक्षो दिनत्रयम् ।
गजमेषतुरङ्गोष्ट्रगवयानां निपातने ॥
प्रायश्चित्तम् अहोरात्रं त्रिसंध्यं चावगाहनम् ।
खरवानरसिंहानां चित्रकव्याघ्रघातकः ॥
शुद्धिम् एति त्रिरात्रेण ब्राह्मणानां च भोजनैः ॥ इति ॥

एवम् अन्येषाम् अपि स्मृतिवचसां देशकालाद्यपेक्षया विषयव्यवस्था कल्पनीया ॥ ३.२७५ ॥

(इति हिंसाप्रायश्चित्तप्रकरणम्)

“इन्धनार्थं द्रुमच्छेदः” (य्ध् ३.२४०) इत्य् उपपातकोद्देशे पठितं हिंसाप्रसङ्गलोभेन तद्व्युत्क्रमपठितम् अपपकृष्य तत्र प्रायश्चित्तम् आह ।

वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम् । ३.२७६अब्
स्याद् ओषधिवृथाछेदे क्षीराशी गो ऽनुगो दिनम् ॥ ३.२७६च्द्

फलदानां आम्रपनसादिवृक्षणां गुल्मादीनां च यज्ञाद्यदृष्टार्थं विना छेदने ऋचां गायत्र्यादीनां शतं जप्तव्यम् । ओषधीनां तु ग्राम्यारण्यानां वृथैव छेदने दिनं कृत्स्नम् अहर् गवां परिचर्यार्थम् अनुगम्यान्ते क्षीरं पिबेद् आहारान्तरपरित्यागेन । पञ्चयज्ञार्थे तु न दोषः । एतच् च फलादिद्वारेणोपयोगिषु द्रष्टव्यम्,

फलदानां तु वृक्षाणां छेदने जप्यम् ऋच्छतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ (म्ध् ११.१४३)

इति मनुस्मरणात् । दृष्टार्थत्वे ऽपि कर्षणाङ्गभूतहलाद्यर्थत्वे न दोषः, “फलपुष्पोपगान् पादपान् न हिंस्यात् कर्षणकरणार्थं चोपहन्यात्” (वध् १९.११–१२) इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद् दण्डाधिक्यं तत्र प्रायश्चित्ताधिक्यम् अपि कल्पनीयम् । तद् उक्तम् ।

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे ऽथ विश्रुते ॥ इति । (य्ध् २.२२८)

अयं च ऋक्शतजपो द्विजातिविषयो न पुनः शूद्रादिविषयः, तेषां जपे ऽनधिकारात् । अतस् तेषां दण्डानुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्यानर्थक्यपरिहारार्थम् उपपातकसाधारणप्राप्तं प्रायश्चित्तम् अप्य् अत्र भवति । तच् च गुरुत्वाद् अभ्यासविषयं कल्प्यम् ॥ ३.२७६ ॥

पुंश्चलीवानरादिवधप्रायश्चित्तप्रसङ्गात् तद्दंशनिमित्तं प्रायश्चित्तम् आह ।

पुंश्चलीवानरखरैर् ँँदष्टःँँ श्वोष्ट्रादिवायसैः । ३.२७७अब्
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ ३.२७७च्द्

पुंश्चल्यादयः प्रसिद्धाः एतैर् दष्टः पुमान् अन्तर्जले प्राणायामः कृत्वा घृतं प्राश्य विशुध्यति । आदिग्रहणाच् छृगालादीनां ग्रहणम् । यथाह मनुः ।

श्वसृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च ।
नराश्वोष्ट्रवराहैश् च प्राणायामेन शुध्यति ॥ इति । (म्ध् ११.२००)

अयं च घृतप्राशो भोजनप्रत्याम्नायो द्रष्टव्यः, प्रायश्चित्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । एतद् अशक्तविषयम् । “श्वसृगालमृगमहिषाजाविकखरकरभनकुलमार्जारमूषकप्लवबककाकपुरुषदष्टानाम् आपोहिष्टेत्यादिभिः स्नानं प्राणायामत्रयं च” इति यत् सुमन्तुवचनं, तन् नाभेर् अधःप्रदेश ईषद्दष्टविषयम् । यत् त्व् अङ्गिरोवचनम्,

ब्रह्मचारी शुना दष्टस् त्र्यहं सायं पिबेत् पयः ।
गृहस्थश् चेद् द्विरात्रं तु एकाहं यो ऽग्निहोत्रवान् ॥
नाभेर् ऊर्ध्वं तु दष्टस्य तद् एव द्विगुणं भवेत् ।
स्याद् एतत्त्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥

इति, तत् सम्यग्दष्टविषयम् । क्षत्रियवैश्ययोस् तु पादपादन्यूनं कल्पनीयम् । शूद्रस्य तु,

शूद्राणां चोपवासेन शुद्धिर् दानेन वा पुनः ।
गां वा दद्याद् वृषं चैकं ब्राह्मणाय विशुद्धये ॥

इति बृहदङ्गिरसोक्तं द्रष्टव्यम् । यत् तु वसिष्ठवचनम्,

ब्राह्मणस् तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ (वध् २३.३१)

इति, तद् उत्तमाङ्गदंशविषयम् ॥ स्त्रीणां तु,

ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा ।
उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर् भवेत् ॥

इति पराशरोक्तं द्रष्टव्यम् । कृच्छ्रादिव्रतस्थायाः पुनस् तेनैव विशेषो दर्शितः ।

त्रिरात्रम् एवोपवसेच् छुना दष्टा तु सुव्रता ।
सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् ॥ इति ।

रजस्वलायाम् अपि विशेषः पुलस्त्येन दर्शितः ।

रजस्वला यदा दष्टा शुना जम्बुकरासभैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
ऊर्ध्वं तु द्विगुणं नाभेर् वक्त्रे तु त्रिगुणं तथा ।
चतुर्गुणं स्मृतं मूर्ध्नि दष्टे ऽन्यत्राप्लुतिर् भवेत् ॥ इति ।

अन्यत्रारजस्वलावस्थायाम् । यस् तु श्वादिभिर् घ्राणादिनोपहन्यते तस्य शातातपेन विशेष उक्तः ।

शुना घ्राणावलीढस्य नखैर् विलिखितस्य च ।
अद्भिः प्रक्षालनं शौचम् अग्निना चोपचूलनम् ॥ इति ।

उपचूलनं तापनम् । यदा तु श्वादिदंशशस्त्रघातादिजनितव्रणे कृमय उत्पद्यन्ते, तदा मनुना विशेष उक्तः ।

ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
कृमिर् उत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥
गवां मूत्रपुरीषेण त्रिसंध्यं स्नानम् आचरेत् ।
त्रिरात्रं पञ्चगव्याशी त्व् अधोनाभ्या विशुध्यति ॥
नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः ।
षड्रात्रं तु त्र्यहं पञ्चगव्याशनम् इति स्मृतम् ॥ (नोत् इन् म्ध्)

तत्र श्वादिदंशव्रणे तद्दंशप्रायश्चित्तानन्तरम् इदं कर्तव्यम् । शस्त्रादिजनितव्रणे त्व् एतद् एव त्र्यहं पञ्चगव्याशनादिकम् इति शेषः । क्षत्रियादिषु तु प्रतिवर्णं पादपादह्रासः कल्पनीयः ॥ ३.२७७ ॥

शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच् छारीरचरमधातुविच्छेदकस्कन्दने प्रायश्चित्तम् आह ।

यन् मे ऽद्य रेत इत्य् आभ्यां स्कन्नं रेतो ऽभिमन्त्रयेत् । ३.२७८अब्
स्तनान्तरं भ्रुवोर् मध्यं तेनानामिकया स्पृशेत् ॥ ३.२७८च्द्

यदि कथंचित् स्त्रीसंभोगम् अन्तरेणापि हत्ःआच् चरमधातुर् विसृष्टस् तदा तत् स्कन्नं रेतो “यन् मे ऽद्य रेतः पृथिवीम् अस्कन्,” “पुनर् माम् ऐत्व् इन्द्रियम्” (तैता १.३०.१) इत्य् आभ्यां मन्त्राभ्याम् अभिमन्त्रयेत् । तेन चाभिमन्त्रितेन रेतसा स्तनयोर् भ्रुवोश् च मध्यम् उपकनिष्टिकया स्पृशेत् । अन्ये तु स्कन्नस्य रेतसो ऽशुचित्वेन स्पर्शकर्मण्य् अयोग्यत्वात् तेनेत्य् अनामिकासाहचर्यात् स्वबुद्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेत्य् अङ्गुष्ठपदग्रहणे वृत्तभङ्गप्रसङ्गात् तेनेति निर्दिष्टम् इति । तद् असत्, अङ्गुष्ठस्याबुद्धिस्थत्वात् । न च शब्दसंनिहितपरित्यागेनार्थाद् बुद्धिस्थस्यान्वयो युक्तः । तद् उक्तम् ।

गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
शब्दान्तरैर् विभक्त्या वा धूमो ऽयं ज्वलतीति वत् ॥ इति ।

न च रेतसो ऽशुचित्वेन स्पर्शायोग्यत्वम् । विधानाद् एव प्रायश्चित्तार्थरूपस्पर्शे योग्यत्वम् अवगम्यते प्रायश्चित्तरूपपान इव सुरायाः । इदं च प्रायश्चित्तं गृहस्थस्यैवाकामतः स्कन्नविषयम्, ब्रह्मचारिणः स्वप्ने जागरणावस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् । यत् तु यमवचनम्,[^५१]

गृहस्थः कामतः कुर्याद् रेतसः स्कन्दनं भुवि ।
सहस्रं तु जपेद् देव्यः प्राणायामैस् त्रिभिः सह ॥

इति, तत् कामकारविषयम् ॥ ३.२७८ ॥

किं च ।

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् । ३.२७९अब्
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृते ऽपि च ॥ ३.२७९च्द्

स्वीयं प्रतिबिम्बम् अम्बुगतं दृष्टं चेत् तदा “मयि तेज इन्द्रियम्” इतीमं मन्त्रं जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्रीं सवितृदैवत्यां “तत् सवितुर्” इत्यादिकाम् ऋचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे ताम् एव जपेत्, अनृतवचने च । एतत् कामकारे द्रष्टव्यम् । अकामकृते तु,

सुप्त्वा भुक्त्वा च क्षुत्वा च निष्टीव्योक्त्वानृतानि च ।
पीत्वापो ऽध्येष्यमाणश् च आचामेत्प्रयतो ऽपि सन् ॥ (म्ध् ५.१४५)

इति मनूक्तमाचमनं द्रष्टव्यम् । यत्तु संवर्तवचनम्,

क्षुते निष्टीवने चैव दन्तश्लिष्टे तथानृते ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥

इति, तद् अल्पप्रयोजने जलाभावे वा द्रष्टव्यम् । स्त्रीशूद्रविट्क्षत्रवधानन्तरं निन्दितार्थोपजीवनं पठितं तत्र च मनुयोगीश्वरप्रोक्तान्य् उपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्ये ऽपि तानि प्रायश्चित्तानि तथैव प्रयोज्यानि, नास्तिक्यशब्देन च वेदनिन्दनं, तेन जीवनम् उच्यते तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्तान्तरम् अप्य् उक्तम्- “नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन् नास्तिक्यान् नास्तिकवृत्तिस् त्व् अतिकृच्छ्रम्” (वध् २१.२९–३०) इति । एतच् च सकृत्करणविषयम् । उपपातकप्रायश्चित्तान्य् अभ्यासविषयाणि । यच् च शङ्खेनोक्तम् “नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसी इत्य् एते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः” इति, यच् च हारीतेन “नास्तिको नास्तिकवृत्तिः” इति प्रक्रम्य, “पञ्चतपो ऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु” इति, तद् उभयम् अप्य् अन्ताभिनिवेशेन बहुकालाभ्यासविषयम् ॥ ३.२७९ ॥

“नास्तिक्यानन्तरं व्रतलोपश् च” (य्ध् ३.२३६)इत्य् उक्तम् । तत्रावकीर्णस्याप्रसिद्धत्वात् तल्लक्षणकथनपूर्वकं प्रायश्चित्तम् आह ।

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् । ३.२८०अब्
गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति ॥ ३.२८०च्द्

ब्रह्मचार्य् उपकुर्वाणको नैष्टिकश् चासौ योषितं गत्वावकीर्णी भवति । चरमधातोर् विसर्गो ऽवकीर्णं, तद् यस्यास्ति सो ऽवकीर्णी, स निरृतिदैवत्येन गर्दभपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धे ऽपि पुनः पशुग्रहणं “अथ पशुकल्पः” (आश्गृ १.११.१) इत्य् आश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच् चारण्ये चतुष्पथे लौकिके ऽग्नौ कार्यम्, “ब्रह्मचारी चेत् स्त्रियम् उपेयाद् अरण्ये चतुष्पथे लौकिके ऽग्नौ रक्षोदैवतं गर्दभं पशुम् आलभेत” (वध् २३.१) इति वसिष्ठस्मरणात् ॥ तथा रात्राव् एकाक्षिविकलेन यष्टव्यम् । तथा च मनुः ।

अवकीर्णी तु काणेन रसभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥ इति । (म्ध् ११.११९)

पशोर् अभावे चरुणा यष्टव्यम्, “निरृतिं वा चरुं निर्वपेत् । तस्य जुहुयात् कामाय स्वाहा कामकामाय स्वाहा निरृत्यै स्वाहा रक्षोदेवताभ्य स्वाहा” (वध् २३.२–३) इति वसिष्ठस्मरणात् । एतच् चाशक्तविषयम् । शक्तस्य पुनर् गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् । “तस्याजिनम् ऊर्ध्ववालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं चरेत् कर्माचक्षाणः, संवत्सरेण शुध्यति” (ग्ध् २३.१८–१९) इति गौतमोक्तो वार्षिकतपःसमुचितः पशुयागश् चरुर् वा द्रष्टव्यः । तथा त्रिषवणस्नानम् एककालभोजनं च द्रष्टव्यम्,

एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारां चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥
तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् ।
उपस्पृशंस् त्रिषवणं त्व् अब्देन स विशुध्यति ॥ (म्ध् ११.१२३–२४)

इति मनुस्मरणात् । इदं च वार्षिकम् अश्रोत्रियब्राह्मणपत्न्यां वैश्यायां श्रोत्रियपत्न्यां च द्रष्टव्यम् । यदा तु गुणवत्योर् ब्राह्मणीक्षत्रिययोः श्रोत्रियभार्ययोर् अवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च क्रमेण द्रष्टव्यम् । यथाहतुः शङ्खलिखितौ “गुप्तायां वैश्यायाम् अवकीर्णः संवत्सरं त्रिषवणम् अनुतिष्ठेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि” इति । यत् त्व् अङ्गिरोवचनम्,

अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
चीरवासास् तु षण्मासांस् तथा मुच्येत किल्बिषात् ॥

इति, तद् अकामतो मानवाब्दिकविषयम् ईषद्व्यभिचारिणीविषयं वा । अत्यन्तव्यभिचरितासु पुनः “स्वैरिण्यां वृषल्याम् अवकीर्णः सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां त्रिरात्रम् उपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रम् उपोषितो गां च दद्यात् । गोष्व् अवकीर्णः प्राजपत्यं चरेत् । षण्ढायाम् वकीर्णः पलालभारं सीसमाषकं च दद्यात्” इति शङ्खलिखितोदितं वेदितव्यम् । एतच् चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम्,

अवकीर्णी द्विजो राजा वैश्यश् चापि खरेण तु ।
इष्ट्वा भैक्षाशनो नित्यं शुध्यन्त्य् अब्दात् समाहिताः ॥

इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगम् अन्तरेण कामतश् चरमधातुं विसृजति दिवा च स्वप्ने वा विसृजति, तदा नैरृटयागमात्रं द्रष्टव्यम्, “एतद् एव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने च” (वध् २३.४) इति वसिष्ठेन यागमात्रस्यातिदिष्टत्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्व् अतिदिष्टब्रह्मचर्येषु स्कन्दने सत्य् एतद् एव यागमात्रम्, “व्रतान्तरेषु चैवम्” (वध् २३.४) इति तेनैवातिदिष्टत्वात् । स्वप्नस्कन्दने तु मनूक्तं द्रष्टव्यम् ।

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥ इति । (म्ध् २.१८१)

वानप्रस्थादीनां चेदम् एव ब्रह्मचर्यखण्डने अवकीर्णिव्रतं कृच्छ्रत्रयाधिकं भवति,

वानप्रस्थो यतिश् चैव स्कन्दने सति कामतः ।
पराकत्रयसंयुक्तम् अवकीर्णिव्रतं चरेत् ॥

इति शाण्डिल्यस्मरणात् । यदा गार्हस्थ्यपरिग्रहेण संन्यासात् प्रच्युतो भवति तदा संवर्तोक्तं द्रष्टव्यम् ।

संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद् यदि ।
स कुर्यात् कृच्छ्रम् अश्रान्तः षण्मासात् प्रत्यनन्तरम् ॥ इति ।

प्रत्यापत्तिर् गार्हस्थ्यपरिग्रहः । अत एव वसिष्ठः ।

यस् तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् ।
षष्टिवर्षसहस्राणि विष्टायां जायते कृमिः ॥ इति ।

तथा च पराशरः ।

यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः ।
अनाशकनिवृत्तश् च गार्हस्थ्यं चेच् चिकीर्षति ॥
स चरेत् रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ।
जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिम् आप्नुयात् ॥ इति ।

तत्र ब्राह्मणस्य षाण्मासिकः कृच्छ्रः पुनः संन्याससंस्कारश् च, क्षत्रियस्य चान्द्रायणत्रयम्, वैश्यस्य कृच्छ्रत्रयम् इति व्यवस्था । अथ वा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ।[^५२] तथा मरणसंन्यासिनाम् अपि यमेन प्रायश्चित्तम् उक्तम् ।

जलाग्न्युद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपतनप्रायशस्त्रघातच्युताश् च ये ॥
नवैते प्रत्यवसिताः सर्वलोकबहिष्कृताः ।
चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥ इति ।

इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्याद्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु “शस्त्रघातहताश् च” इति पाठः तदात्मत्यागाद्यशास्त्रीयमरणनिमित्तस् तत्पुत्रादेर् उपदेशो द्रष्टव्यः । यत् पुनर् वसिष्ठेनोक्तम् “जीवन्न् आत्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् त्रिरात्रं चोपवसेत्” (वध् २३.१९) इति, तद् अप्य् अध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथ वाध्यवसायमात्रे त्रिरात्रं शस्त्रादिक्षतस्य द्वादशरात्रम् इति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम्, तत्र गुरुतरप्रायश्चित्तस्य दर्शितत्वात् । न च लगुनावकीर्णिव्रतेन द्वादशवार्षिकाद्यपनोद्यमहापातकदोषनिबर्हणम् उचितम् । न च ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानम् इति युक्तम्, आश्रमान्तराणां द्वैगुण्यादिवृद्धेर् ब्रह्महत्याप्रकरणे दर्शितत्वात् । न चात्रागम्यागमनप्रायश्चित्तं पृथक् कर्तव्यम्, ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनेनान्तरीयकत्वात्, अतो ऽन्यत्रापि यस्मिन् निमित्ते यन्निमित्तान्तरं समं न्यूनं वावश्यंभाविनः । तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा,

अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रो ऽसृक्पाते कृच्छ्रो ’भ्यन्तरशोणिते ॥ (म्ध् ११.२०९)

इत्य् अत्र शोणितोत्पादननिमित्ते ऽवगूरणनिपातलक्षणं निमित्तद्वयम् अवश्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रम् अतिकृच्छ्रं च न प्रयुङ्क्ते, एवम् अन्यत्राप्य् ऊहनीयम् । यत्र पुनर् निमित्तानाम् अन्तर्भावनियमो नास्ति तत्र पुनर् नैमित्तिकानि पृथक् प्रयुज्यन्ते । निमित्तानि यथा- “यदा पर्वणि परभार्यां रजस्वलां तैलाभ्यक्तो दिवा जले गच्छति” इति ।

ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनान्तरीयकत्वं नास्त्य् एव, पुत्रिकागमने ऽगम्यागमनदोषाभावात् । तथा हि न तावत् पुत्रिका कन्या अक्षतयोनित्वात्, नापि परभार्या प्रदानाभावात्, नापि वेश्या अतद्वृत्तित्वात्, नापि विधवा भर्तृमरणाभावात् । अतः पुत्रिकायाः क्वाप्य् अनन्तर्भावाद् अप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलम् अवकीर्णिव्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपाताद् अवकीर्णिव्रतं नैमित्तिकान्तरम् अपि प्रयोक्तव्यम् इति ।
तद् असत्, पुत्रिकाया परभार्यास्व् अन्तर्भावात् । प्रदानाभावे ऽपि विवाहसंस्कारेण संस्कृतत्वात्, गान्धर्वादिविवाहपरिणीतावत् । न च,
यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत् तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ (म्ध् ३.११)

इति प्रतिषेधात्, सगोत्रास्व् इव भार्यात्वं नोत्पद्यत इति वाच्यम्, दृष्टार्थत्वात् प्रतिपेधस्य व्यङ्गांग्यादिप्रतिषेधवत् । दृष्टार्थत्वं च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । न च पुत्रार्थम् एव परिणयनं, अपि तु धर्मार्थम् अपि । अतश् चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थं पुत्रिकापरिणयने को विरोधः । प्रपञ्चितं चैतत् पुरस्ताद् इत्य् अलम् अतिप्रसङ्गेन । तस्माद् ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनानन्तरीयकत्वान् न पृथङ् नैमित्तिकं प्रयोक्तव्यम् इति सुष्टूक्तम् ॥ ३.२८० ॥

ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् अन्यद् अप्य् अनुपातकप्रायश्चित्तम् आह ।

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः । ३.२८१अब्
कामावकीर्ण इत्य् आभ्यां जुहुयाद् आहुतिद्वयम् ॥ ३.२८१च्द्
उपस्थानं ततः कुर्यात् सं मा सिञ्चन्त्व् अनेन तु । ३.२८२अब्

यस् त्व् अनातुर एव ब्रह्मचारी निरन्तरं सप्तरात्रं भैक्षम् आग्निकार्यं वा त्यजत्य् असौ “कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि कामकामाय स्वाहा । कामावपन्नो ऽस्म्य् अवपन्नो ऽस्मि कामकामाय स्वाहा” (ग्ध् २५.४) इत्य् एताभ्यां मन्त्राभ्याम् आहुती हुत्वा, “सं मा सिंचन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । सं मायम् अग्निः सिंचन्तां यशसा ब्रह्मवर्चसेन” इत्य् अनेन मन्त्रेणाग्निम् उपतिष्ठेत् ॥ एतच् च गुरुपरिचर्यादिगुरुतरकार्यव्यग्रतया अकरणे द्रष्टव्यम् । यदा त्व् अव्यग्र एवोभे भैक्षाग्निकार्ये त्यजति तदा,

अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ (म्ध् २.१८७)

इति मानवं द्रष्टव्यम् । यज्ञोपवीतविनाशे तु हारीतेन प्रायश्चित्तम् उक्तम्- “मनोव्रतपतीभिश् चतस्र आज्याहूतीर् हुत्वा पुनर् यथार्थं प्रतीयाद् असद्भैक्षभोजने ऽभ्युदिते ऽभिनिर्मुक्ते वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नग्नस्वापे श्मशानम् आक्रम्य हयादींश् चारुह्य पूज्यातिक्रमे चैताभिर् एव जुहुयाद् अग्निसमिन्धने स्थावरसरीसृपादीनां वधे यद् देवादेव हेऌअनम् इति कूष्माण्डीभिर् आज्यं जुहुयात्, मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्” इति । मनोव्रतपतीभिर् इति मनोज्योतिर् इत्यादिमनोलिङ्गाभिस् “त्वम् अग्ने व्रतपा असि” इत्यादिव्रतलिङ्गाभिर् इत्य् अर्थः । यथार्थं प्रतीयाद् इति उपनयनोक्तमार्गेण समन्त्रकं गृह्णीयाद् इत्य् अर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु,

ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुते ऽथवा ।
गायत्र्यष्टस्हस्रेण प्राणायामेन शुध्यति ॥

इति मरीच्युक्तं द्रष्टव्यम् ॥ ३.२८१ ॥

किं च ।

मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥ ३.२८२च्द्
प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । ३.२८३अब्

ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरम् अवशिष्टानि व्रतानि समापयेत् । एतच् च शिष्टभोजनार्हशशादिमांसभक्षणविषयम्, “ब्रह्मचारी चेन् मांसम् अश्नीयाच् छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्” (वध् २३.११) इति वसिष्ठस्मरणात् । द्वादशरात्रग्रहणं तु मतिपूर्वाभ्यासापेक्षयातिकृच्छ्रपराकादेर् अपि प्राप्त्यर्थम् । यदा तु मांसैकापनोद्यव्याध्यभिभूतस् तदा मांसं गुरोर् उच्छिष्टं कृत्वा भक्षणीयम्, “स चेद् व्याधितः कामं गुरोर् उच्छिष्टं भैषज्यार्थं सर्वं प्राश्नीयात्” (वध् २३.९) इति तेनैवोक्तत्वात् । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्रसंग्रहार्थम् । तद्भक्षणेन चापगतव्याधिर् आदित्यम् उपतिष्ठेत । तथा च बौधायनः- “येनेच्छेत् तु चिकित्सितुं स यदागदो भवति तदोत्थायादित्यम् उपतिष्ठेत हंसः शुचिषत्” (ब्ध् २.१.२८) इति । मधुनो ऽप्य् अज्ञानतः प्राशनोपपत्तौ न दोषः, “अकामोपनतं मधु वाजसनेयके न दुष्यति” (वध् २३.१३) इति वसिष्ठस्मरणात् । अन्तसूतकान्नादिभक्षणप्रायश्चित्तं त्व् अभक्ष्यप्रायश्चित्तप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलम् आचरन् पादप्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ ३.२८२ ॥

ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् गुरोर् अपि प्रायश्चित्तम् आह ।

कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि ॥ ३.२८३च्द्

यस् तु गुरुश् चौरोरगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितनिशीथावसरे कार्यार्थं शिष्यं प्रेरयति, स च गुरुणा प्रेरितो दैवान् मृतस्, तदा स गुरुः क्र्च्छ्राणां प्राजाप्त्यादीनां त्रयं कुर्यात् । न पुन स्त्रयः प्राजापत्याः, तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । न च “एकादश प्रयाजान् यजति” इतिवद् आवृत्त्यपेक्षा संख्येति चतुरस्रम् । स्वरूपपृथक्त्वे संभवत्य् आवृत्त्यपेक्षाया अन्याय्यत्वात् । यद् इयम् उत्पन्नगता संख्या स्यात् तदा स्याद् अपि कथंचिद् आवृत्त्यपेक्षा । किं तूत्पत्तिगतेयं, अतस् तिस्र आज्याहुतीर् जुहोतीतिवत् स्वरूपपृथक्त्वापेक्षयैव त्रित्वसंख्याघटना युक्ता ॥ ३.२८३ ॥

सकलहिंसाप्रायश्चित्तापवादम् आह ।

क्रियमाणोपकारे तु मृते विप्रे न पातकम् । ३.२८४अब्
**[विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥] **

आयुर्वेदोपदेशानुसरेणौषधपथ्यान्नप्रदानादिभिश् चिकित्सादिना क्रियमाण उपकारे यस्य ब्राह्मणादेस् तस्मिन् दैवात् कथंचिन् मृते ऽपि पातकं नैव भवति । विप्रग्रहणं प्राणिमात्रोपलक्षणार्थम् । अत एव,

यन्त्रणे गोचिकित्सार्थे गूढगर्भविमोचने ।
यत्ने कृते विपत्तिः स्यान् न स पापेन लिप्यते ॥

इत्यादि संवर्ताद्यैर् उक्तम् । एतच् च प्रपञ्चितं प्राक् ॥

मिथ्याभिशंसिनः प्रायश्चित्तविवक्षया तदुपयोग्यर्थवादं तावद् आह ।

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः । ३.२८४च्द्
**मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥ **

यस् तु परोत्कर्षेर्ष्याजनितरोषकलुषितान्तःकरणो जनसमक्षं मिथ्यैवाभिशापं “ब्रह्महत्यादिकम् अनेन कृतम्” इत्य् आरोपयति, तस्य तद् एव द्विगुणं भवति । यस् तु विद्यमानम् एव दोषम् अलोकविदितं जनसमक्षं प्रकाशयति, तस्यापि तत्पातकिसमदोषभाक्त्वम् । तथा चापस्तम्बः- “दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याता स्यात् परिहरेच् चैनं धर्मेषु” इति (आप्ध् १.२१.२०) । न केवलं मिथ्याभिशंसी द्विगुणदोषभाक्, अपि तु मिथ्याभिशस्तस्य यद् अन्यद् दुरितजातं तद् अपि समादत्त इति वक्ष्यमाणप्रायश्चित्ते ऽर्थवादः, न पुनः पापद्वैगुण्यादिप्रतिपादनम् अत्र विवक्षितम्, निमित्तस्य लघुत्वाल् लघुप्रायश्चित्तस्योपदेक्ष्यमाणत्वात् कृतनाशाकृताभ्यागमप्रसङ्गाच् च ॥ ३.२८४ ॥

तत्र प्रायश्चित्तम् आह ।

महापापोपपापाभ्यां यो ऽभिशंसेन् मृषा परम् । ३.२८५अब्
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः ॥ ३.२८५च्द्

यस् तु महापापेन ब्रह्महत्यादिना गोवधाद्युपपापेन वा मृषैव परम् अभिशंसति, स मासं यावज् जलाशनो जपशीलो जितेन्द्रियश् च भवेत् । जपश् च शुद्धवतीनां कार्यः, “ब्राह्मणम् अनृतेनाभिशस्य पतनीयेनोपपातकेन वा मासम् अब्भक्षः शुद्धवतीर् आवर्तयेद् अश्वमेधावभृथं वा गच्छेत्” इति (वध् २३.३९–४०) वसिष्ठस्मरणात् । महापापोपपापग्रहणम् अन्येषाम् अप्य् अतिपातकादीनाम् उपलक्षणम् । एतच् च ब्राह्मणस्यैव ब्राह्मणेनाभिशंसने कृते द्रष्टव्यम् । यदा तु ब्राह्मणः क्षत्रियादेर् अभिशंसनं करोति, क्षत्रियादिर् वा ब्राह्मणस्य, तदा,

प्रतिलोमापवादेषु द्विगुणस् त्रिगुणो दमः ।
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ (य्ध् २.२०७)

इति दण्डानुसारेण प्रायश्चित्तस्य वृद्धिह्रासौ कल्पनीयौ । भूताभिशंसिनस् तु पूर्वोक्तार्थवादानुसारेण दण्डानुसारेण च तदर्थं कल्पनीयम् । तथातिपातकाभिशंसिन एतद् एव व्रतं पादोनम्, पातकाभिशंसिनस् त्व् अर्धम्, उपपातकाभिशंसिनस् तु पादः,

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । (म्ध् ११.१२६)

इत्य् उपपातकभूतक्षत्रियादिवधे महापातकप्रायश्चित्ततुरीयांशस्य दर्शनात् । एवं प्रकीर्णाभिशंसिनो ऽपि उपपातकान् न्यूनं कल्पनीयम्,

शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् । (म्ध् ११.२१०))

इति स्मरणात् । यत् तु शङ्खलिखिताभ्यां “नास्तिकः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी चेत्य् एते षड्वर्षाणि ब्राह्मणगृहेषु भैक्षं चरेयुः संवत्सरं धौतभैक्षम् अश्नीयुः षण्मासान् वा गा अनुगच्छेयुः” इति गुरुप्रायश्चित्तम् उक्तम्, तद् अभ्यासतारतम्यापेक्षया योजनीयम् ॥ ३.२८५ ॥

अभिशंसिप्रायश्चित्तप्रसङ्गाद् अभिशस्तप्रायश्चित्तम् आह ।

अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा । ३.२८६अब्
निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा ॥ ३.२८६च्द्

यः पुनर् मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायु दैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत् तु वसिष्ठेन “मासम् अब्भक्षणम् उक्तम् एतेनैवाभिशस्तो व्याख्यातः” (वध् २४.३७) इति तद् अभिशस्तस्यैव किंचित् कालम् अकृतप्रायश्चित्तस्य सतो द्रष्टव्यम्,

संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । (म्ध् ८.३७३)

इति दण्डातिरेकदर्शनात् । यत् तु पैठीनसिनोक्तम् “अनृतेनाभिशस्यमानः कृच्छ्रं चरेन् मासं पातकेषु महापातकेषु द्विमासम्” इति, तद् अपि वासिष्ठेन समानविषयम् । यत् तु बौधायनेनोक्तम् “पातकाभिशंसिने कृच्छ्रस् तदर्धम् अभिशस्तस्य” इति, तद् उपपातकादिविषयं अशक्तविषयं वा । एवम् अन्येषाम् अप्य् उच्चावचप्रायश्चित्तानाम् अभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः ।

षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश् च शाकला नित्यम् अपाङ्क्तानां विशोधनम् ॥ इति । (म्ध् ११.२०१)

अपाङ्क्तानां मध्ये अभिशस्तादयः पठिताः । यद्य् अप्य् अत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्वलिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनम् इदं प्रायश्चित्तं कृमिदष्टानाम् इवेति न विरोधः ॥ ३.२८६ ॥

किं च ।

अनियुक्तो भ्रातृजायां गच्छंश् चान्द्रायणं चरेत् । ३.२८७अब्

यस् तु नियोगं विना भ्रातुर् ज्येष्ठस्य कनिष्टस्य वा भार्यां गच्छति स चान्द्रायणं चरेत् । एतच् च सकृद् अमतिपूर्वविषयम् द्रष्टव्यम् । यत् तु शङ्खवचनम् “परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्याम् अनियुक्तो गच्छंस् तद् एव कनिष्ठभार्यां च” इति तत् कामकारविषयम् ॥

किं चाह ।

त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ ३.२८७च्द्

यः पुनर् उदक्यां रजस्वलां स्वभार्याम् अपि गच्छति स त्रिरात्रम् उपोष्यान्ते घृतं प्राश्य विशुध्यति । इदम् अकामतः सकृद् गमनविषयम् । तत्रैवाभ्यासे “रजस्वलागमने सप्तरात्रम्” इति शातातपेनोक्तं द्रष्टव्यम् । कामतः सकृद् गमने ऽप्य् एतद् एव । यत् तु बृहत्संवर्तेनोक्तं,

रजस्वलां तु यो गच्छेद् गर्भिणीं पतितां तथा ।
तस्य पापविशुद्ध्यर्थम् अतिकृच्छ्रं विशोधनम् ॥

इति, तत् कामतो ऽभ्यासविषयम् । यत् पुनः शङ्खेन त्रिवार्षिकम् उक्तम्,

पादस् तु शूद्रहत्यायाम् उदक्यागमने तथा ।

इति तत् कामतो ऽत्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास् तु रजस्वलादिस्पर्शे प्रायश्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथा च बृहद्वसिष्ठः ।

स्पृष्टे रजस्वले ऽन्योन्यं सवर्णे त्व् एकभर्तृके ।
कामाद् अकामतो वापि सद्यः स्नानेन शुध्यतः ॥ इति ।

असपत्न्योस् तु सवर्णयोर् अकामतः स्नानमात्रम् ।

उदक्या तु सवर्णा या स्पृष्टा चेत् स्याद् उदक्यया ।
तस्मिन्न् एवाहनि स्नात्वा शुद्धिम् आप्नोत्य् असंशयम् ॥

इति मार्कण्डेयस्मरणात् । यत् तु कश्यपवचनम्,

रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥

इति, तत् कामकारविषयम् । असवर्णास्पर्शे तु बृहद्वसिष्ठेन विशेषो दर्शितः ।

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजापि च ।
कृच्छ्रेण शुध्यते पूर्वा शूद्री दानेन शुध्यति ॥

दानेनेति पादकृच्छ्रप्रत्याम्नायभूतनिष्कचतुर्थांशदानेन शुध्यतीति ।

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजापि च ।
पादहीनं चरेत् पूर्वा पादकृच्छ्रं तथोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ।
कृच्छ्रार्धाच् छुध्यते पूर्वा तूत्तरा च तदर्धतः ॥
स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया शूद्रजापि च ।
उपवासैस् त्रिभिः पूर्वा त्व् अहोरात्रेण चोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया वैश्यजापि च ।
त्रिरात्राच् छुध्यते पूर्वा त्व् अहोरात्रेण चोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं वैश्या शूद्रा तथैव च ।
त्रिरात्राच् छुध्यते पूर्वा तूत्तरा च दिनद्वयात् ॥
वर्णानां कामतः स्पर्शे शुद्धिर् एषा पुरातनी ॥ इति ।

अकामतस् तु बृहद्विष्णुनोक्तं स्नानमात्रम् “रजस्वलां हीनवर्णां रजस्वला स्पृष्ट्वा न तावद् अश्नीयाद् यावन् न शुद्धा स्यात् । सवर्णाम् अधिकवर्णा वा स्पृष्ट्वा सद्यः स्नात्वा विशुध्यति” इति । चण्डालादिस्पर्शे तु बृहद्वसिष्ठेन विशेष उक्तः ।

पतितान्त्य् अश्वपाकेन संस्पृष्टा चेद् रजस्वला ।
तान्य् अहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमे ऽह्नि त्रिरात्रं स्याद् द्वितीये द्व्यहम् एव तु ।
अहोरात्रं तृतीये ऽह्नि परतो नक्तम् आचरेत् ॥
शूद्रयोच्छिष्टया स्पृष्ट्वा शुना चेद् द्व्यहम् आचरेत् ॥ इति ।

तान्य् अहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । एतत् कामतः स्पर्शविषयम् । अकामतस् तु,

रजस्वला तु संस्पृष्टा चाण्डालान्त्यश्ववायसैः ।
तावत् तिष्ठेन् निराहारा यावत्कालेन शुध्यति ॥

इति बौधायनेनोक्तं द्रष्टव्यम् । यत् पुनस् तेनैवोक्तम्,

रजस्वला तु संस्पृष्टा ग्रामकुक्कुटसूकरैः ।
श्वभिः स्नात्वा क्षिपेत् तावद् यावच् चन्द्रस्य दर्शनम् ॥

इति, तद् अशक्तविषयम् । यदा तु भुञ्जानायाः श्वादिस्पर्शो भवति तदा स्मृत्यन्तरे विशेष उक्तः ।

रजस्वला तु भुञ्जाना श्वान्त्यजादीन् स्पृशेद् यदि ।
गोमूत्रयावकाहारा षड्रात्रेण विशुध्यति ॥
अशक्तौ काञ्चनं दद्याद् विप्रेभ्यो वापि भोजनम् ॥ इति ॥

यदा तूच्छिष्टयोः परस्परस्पर्शनं भवति तदा,

उच्छिष्टोच्छिष्टया स्पृष्टा कदाचित् स्त्री रजस्वला ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानैर् उपोषिता ॥

इत्य् अत्रिणोक्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टान् द्विजान् रजस्वला स्पृशति तदा,

द्विजान् कथंचिद् उच्छिष्टान् रजःस्था यदि संस्पृशेत् ।
अधोच्छिष्टे त्व् अहोरात्रम् ऊर्ध्वोच्छिष्टे त्र्यहं क्षिपेत् ॥

इति मार्कण्डेयोक्तं द्रष्टव्यम् ॥ एवम् अवकीर्णिप्रायश्चित्तप्रसङ्गात् कानिचिद् अनुपातकभूतप्रायश्चित्तान्य् अपि व्याख्याय, प्रकृतम् अनुसरामः । तत्रावकीर्णानन्तरं “सुतानां चैव विक्रयः” (य्ध् ३.२६६) इत्य् उक्तं, तत्र मनुयोगीश्वरोक्तानि त्रैमासिकादीनि कामाकामजातिशक्त्याद्यपेक्षया पूर्ववद् व्यवस्थापनीयानि । यत् तु शङ्खवचनम्, “देवगृहप्रतिश्रयोद्यानारामसभाप्रपातडागपुण्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छ्रं चरेत्” इति, यच् च पराशरेणोक्तम्,

विक्रीय कन्यकां गां च कृच्छ्रं सान्तपनं चरेत् ।

इति, तद् उभयम् अप्य् आपद्य् अकामतो द्रष्टव्यम् । कामतस् तु,

नारीणां विक्रयं कृत्वा चरेच् चान्द्रायणव्रतम् ।
द्विगुणं पुरुषस्यैव व्रतम् आहुर् मनीषिणः ॥

इति चतुर्विंशतिमतोक्तं द्रष्टव्यम् । यत् तु पैठीनसिनोक्तम्, “आरामतडागोदपानपुष्करिणीसुकृतसुतविक्रये त्रिषवणस्नाय्य् अधःशायी चतुर्थकालाहारः संवत्सरेण पूतो भवति” इति तद् एकपुत्रविषयम्, तदनन्तरं “धान्यकुप्यपशुस्तेयम्” इत्य् उक्तं, तत्प्रायश्चित्तानि च स्तेयप्रकरणे प्रपञ्चितानि ॥ ३.२८७ ॥

अनन्तरम् “अयाज्यानां च याजनम्” (य्ध् ३.२३७) इत्युक्तं, तत्र प्रायश्चित्तम् आह ।

त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजको ऽभिचरन्न् अपि । ३.२८८अब्
वेदप्लावी यवाश्य् अब्दं त्यक्त्वा च शरणागतम् ॥ ३.२८८च्द्

यस् तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतींस् त्रीन् कृच्छ्रान् आचरेत् । एतेषां च गुरुलघुभूतानां कृच्छ्राणां निमित्तं गुरुलघुभावेन कल्पनीयम् । तथा अभिचरन्न् अपीदम् एव प्रायश्चित्तं कुर्यात् । एतच् चाग्निदाद्याततायिव्यतिरेकेण, “षट्स्व् अभिचरन्न पतति” इति वसिष्ठस्मरणात् । अपिशब्दो हीनयाजकान्त्येष्टियाजकयोः संग्रहार्थः । अत एवोक्तं मनुना ।

व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च ।
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥ इति । (म्ध् ११.१९८)

परेषाम् अन्त्यकर्मेत्य् अत्यन्ताभ्यासविषयं शूद्रान्त्यकर्मविषयं वा, प्रायश्चित्तस्य गुरुत्वात् । अहीनो द्विरात्रादिर् द्वादशाहपर्यन्तो ऽहर्गणयागः । यत् तु शातातपेनोक्तम्, “पतितसावित्रीकान् नोपनयेन् नाध्यापयेन् न याजयेत्, य एतान् उपनयेद् अध्यापयेद् याजयेद् वा स उद्दालकव्रतं चरेत्” इति, तत् कामकारविषयम् । उद्दालकव्रतं च प्राग् दर्शितम् । एतच् च कृच्छ्रत्रयं साधारणोपपातकप्रायश्चित्तस्यापवादकं, अत उपपातकसाधारणप्रायश्चित्तं शूद्राद्ययाज्ययाजने व्यवतिष्ठते । तत्र कामतस् त्रैमासिकम् । अकामतस् तु योगीश्वरोक्तं मासव्रतादि । यत् तु प्रचेतसा शूद्रयाजकादीन् पठित्वोक्तम् “पञ्चतपोऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुः । क्रमेण ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकम् अश्नीयुः” इति, तत् कामतो ऽभ्यासविषयम् । यत् तु यमेनोक्तम्,

पुरोधाः शूरवर्णस्य ब्राह्मणो यः प्रवर्तते ।
स्नेहाद् अर्थप्रसङ्गाद् वा तस्य कृच्छ्रो विशोधनम् ॥

इति, तद् अशक्तविषयम् । यच् च पैठीनसिनोक्तम् “शूद्रयाजकः सर्वद्रव्यपरित्यागात् पूतो भवति प्राणायामसहस्रेषु दशकृत्वोऽभ्यस्तेषु” इति, तद् अप्य् अकामतो ऽभ्यासविषयम् । यत् तु गौतमेनोक्तम् “निषिद्धमन्त्रप्रयोगे सहस्रवाग् उपतिष्ठेत्” (ग्ध् २२.२३) इति निषिद्धानां पतितादीनां याजनाध्यापनात्मके मन्त्रप्रयोगे बहुशो ऽभ्यस्ते प्राकृतं ब्रह्मचर्यम् उपदिष्टं, तत् कामतो ऽभ्यासविषयम् । तथा यः स्ववेदं विप्लावयति यश् च रक्षणक्षणो ऽपि तस्करव्यतिरिक्तं शरणागतम् उपेक्षते, सो ऽपि संवत्सरं यवोदनं भुञ्जानः शुध्यति । तत्र विप्लवो नाम पर्वचाण्डालश्रोत्रावकाशाद्यनध्यायेष्व् अध्ययनम् । उत्कर्षहेतोर् अधीयानस्य किं पठसि नाशितं त्वयेत्य् एवं पर्यनुयोगदानं वा विप्लावनम् उच्यते । अत एवोक्तं स्मृत्यन्तरे ।

दत्तानुयोगानध्येतुः पतितान् मनुर् अब्रवीत् । इति ।

यत् तु वसिष्ठेनोक्तम् “पतितचाण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्रपरमं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते” (वध् २३.३४–३५) इति, “एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच् च पूता भवन्तीति विज्ञायते” (वध् २३.३६) इति, तद् बुद्धिपूर्वविषयम् । यत् तु षट्त्रिंशन्मते ऽभिहितम् “चाण्दालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रम् अभोजनम्” इति तद् अबुद्धिपूर्वविषयम् । यदा सर्पाद्यन्तरागमनमात्रं भवति न पुनस् तत्राधीते तत्रापि प्रायश्चित्तं यमेनोक्तम् ।

सर्पस्य नकुलस्याथ अजमार्जारयोस् तथा ।
मूषकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥
पुरुषस्यैडकस्यापि शुनो ऽश्वस्य खरस्य च ।
अन्तरागमने सद्यः प्रायश्चित्तम् इदं शृणु ॥
त्रिरात्रम् उपवासश् च त्रिर् अह्नश् चाभिषेचनम् ।
ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥ इति ॥

पितृमातृसुतत्यागतडागारामविक्रयेषु मनुयोगीश्वरोक्तोपपातकसाधारणप्रायश्चित्तानि पूर्ववज् जातिशक्तिगुणाद्यपेक्षया योज्यानि । तत्र पितृमात्रादित्यागस्य,

अकारणपरित्यक्ता मातापित्रोर् गुरोस् तथा ।

इत्य् अपाङ्क्तेयमध्ये पाठात् तन्निमित्तम् अपि प्रायश्चित्तं भवति । यथाह मनुः ।

षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश् च शाकला नित्यम् अपाङ्क्तानां विशोधनम् ॥ इति । (म्ध् ११.२०१)

अपाङ्क्ताश् च श्राद्धकाण्डे “ये स्तेनपतितक्लीबाः” (म्ध् ३.१५०) इत्यादिवाक्यैर् दर्शिताः । तडागारामविक्रयेषु च कतिचिद्विशेषद्वैमासिकप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि । अनन्तरं “कन्याया दूषणम्” (म्ध् ११.६२) इत्य् उक्तं, तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णाविषये योज्यानि । आनुलोम्ये पुनर् मासिकपयोऽशनं प्राजापत्यं वा,

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः । (य्ध् २.२८८)

इति दण्डाल्पत्वदर्शनात् । यत् तु शङ्खेनोक्तम् “कन्यादूषी सोमविक्रयी च कृच्छ्रम् अब्भक्षं चरेयाताम्” इति, य च्च हारीतवचनम् “कन्यादूषी सोमविक्रयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिर् इत्य् एते पञ्चतपोऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकम् अश्नीयुः” इति, तद् उभयम् अपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूद्रस्य तु वध एव,

दूषणे तु करच्छेद उत्तमायां वधस् तथा । (य्ध् २.२८८)

इति वधदर्शनात् । परिविन्दकयाजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे चात्मार्थपाकक्रियारम्भे मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद् व्यस्थापनीयम् । आद्ययोस् तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शितानि । अनन्तरं “स्वाध्यायाग्निसुतत्यागः” (य्ध् ३.२३९) इत्य् उक्तं, तत्र व्यसनाशक्त्या त्यागे “अधीतस्य च नाशनम्” (य्ध् ३.२२८) इति ब्रह्महत्यासमप्रायश्चित्तम् उक्तम् । शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासिकाद्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि । यत् तु वसिष्ठेनोक्तम् “ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् उपयुञ्जीत वेदम् आचार्यात्” (वध् २०.१२) इति, तद् अत्यन्तापद्विषयम् । अग्नित्यागे ऽपि तेनैव विशेषो दर्शितः- “यो ऽग्नीन् अपविध्येत् स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्” (वध् २१.२७) इति । द्वादशरात्रग्रहणम् उत्सन्नकालापेक्षया प्राजाप्त्यादिगुरुलघुकृच्छ्राणां प्राप्त्यर्थम् । तत्र मासद्वये प्राजापत्यं मासचतुष्टये ऽतिकृच्छ्रः, षण्मासोच्छिन्ने पराकः, षण्मासाद् ऊर्ध्वं योगीश्वरोक्तान्य् उपपातकसामान्यप्रायश्चित्तानि कालाद्यपेक्षया योज्यानि, संवत्सराद् ऊर्ध्वं तु मानवं त्रैमासिकं द्वैमासिकम् इति व्यवस्था । एतच् च नास्तिक्येन त्यागविषयम् । तथा च व्याघ्रः ।

यो ऽग्निं त्यजति नास्तिक्यात् प्राजापत्यं चरेद् द्विजः । इति ।

यदा तु प्रमादात् त्यजति तदा भारद्वाजगृह्ये विशेष उक्तः- “प्राणायामशतम् आ त्रिरात्राद् उपवासः स्याद् आ विंशतिरात्राद् अत ऊर्ध्वम् आ षष्टिरात्रात् तिस्रो रात्रीर् उपवसेद् अत ऊर्ध्वम् आ संवत्सरात् प्राजापत्यं चरेत्, अत ऊर्ध्वं कालबहुत्वे दोषगुरुत्वम्” इति । यदा त्व् आलस्यादिना त्यजति तद् अपि तेनैव विशेष उक्तः- “द्वादशाहातिक्रमे त्रहम् उपवासो मासातिक्रमे द्वादशाहम् उपवासः संवत्सरातिक्रमे मासोपवासः पयोभक्षणं वा” इति । संवत्सराद् ऊर्ध्वं तु वृद्धहारीतेन विशेष उक्तः- “संवत्सरोत्सन्ने ऽग्निहोत्रे चान्द्रायणं कृत्वा पुनर् आदध्यात् । द्विवर्षोत्सन्ने चान्द्रायणं सोमायनं च कुर्यात् । त्रिवर्षोत्सन्ने संवत्सरं कृच्छ्रम् अभ्यस्य पुनर् आदध्यात्” इति । सोमायनं कृच्छ्रकाण्डे वक्ष्यते । शङ्खेनापि विशेष उक्तः- “अग्न्युत्सादी संवत्सरं प्राजाप्त्यं चरेद् गां च दद्यात्” इति ॥ सुतत्यागे बन्धुत्यागे च त्रैमासिकं गोवधव्रतं कामतः । अकामतस् तु योगीश्वरोक्तं व्रतचतुष्टयं शक्त्याद्यपेक्षया योज्यम् । द्रुमच्छेदे प्रायश्चित्तं प्रागुक्तं । स्त्रीप्राणिवधवशीकरणादिभिर् जीवने तिलेक्षुयन्त्रप्रवर्तने च तान्य् एव प्रायश्चित्तानि तथैव योज्यानि । व्यसनेषु च द्यूतमृगयादिषु तान्य् एव व्रतानि तथैव योज्यानि । यत् तु बौधयनेन “अथाशुचिकराणि । द्यूतम् अभिचारो ऽनाहिताग्नेर् उञ्छवृत्तिः समावृत्तस्य च भैक्षचर्या तस्य च गुरुकुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यो यश् च तम् अध्यापयति नक्षत्रनिर्देशनं चेति । द्वादशमासान् द्वादशार्धमासान् द्वादशाहान् द्वादशषडहान् द्वादशत्र्यहांश् च त्र्यहम् एकाहम् इत्य् अशुचिकरनिर्देशः” (ब्ध् २.२.१५–१७) इति द्यूते वार्षिकव्रतम् उक्तं, तद् अभ्यासविषयम् । यत् तु प्रचेतसोक्तम् “अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर् गरदो ऽग्निदो ऽश्वरथगजारोहणवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर् भाण्डिको नक्षत्रोपजीवी श्ववृत्तिर् ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारको ऽपत्यविक्रयी मनुष्यपशुविक्रेता चेति तान् उद्धरेत् समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिषवणम् उपपृशेयुस् तस्यान्ते देवपितृतर्पणं गवाह्निकं चेत्य् एवं व्यवहार्या” इति ,तद् अपि बौधायनेन समानविषयम् । श्वागणिको यः श्वगणेन जीवति । भाण्डिको बन्दिव्यतिरिक्तो राज्ञां तूर्यादिस्वनैः प्रबोधयिता, बन्दिनः पृथगुपादानात् । श्ववृत्तिः सेवकः । ब्रह्मजीवी ब्राह्मणकार्येषु मूल्येन परिचारकः । मनूक्तान्य् अप्य् अपाङ्क्तेयप्रायश्चित्तानि षष्ठान्नकालता मासम् इत्यादीन्य् अपि जात्याद्यपेक्षया योज्यानि, तदुक्तापाङ्क्त्यमध्ये ऽपि कितवादिव्यसनिनां पठितत्वात् । आत्मविक्रये शूद्रसेवायां च सामान्यप्रायश्चित्तानि प्राग्वद् एव योज्यानि । यत् तु बौधायनेनोक्तम् “समुद्रयानं ब्राह्मणस्य न्यासापहरणं सर्वपण्यैर् व्यवहरणं भूम्यनृतं शूद्रसेवा यश् च शूद्रायाम् अभिजायते तेन यद् अपत्यं च भवति तेषां तु निर्देशः ।

चतुर्थकालं मितभोजिनः स्युर्
अपो ऽभ्युपेयुः सवनानुकल्पम् ।
स्थानासनाभ्यां विहरन्त एतैस्
त्रिभिर् वर्षैस् तद् अपहरन्ति पापम् ॥ (ब्ध् २.२.२–१०)

इति, तद् बहुकालसेवाविषयम् । हीनजातिभिः सख्ये तूपपातकसामान्यप्रायश्चित्तान्य् एव । यत् तु प्रचेतसोक्तम् “मित्रभेदनकरणाद् अहोरात्रम् अनश्नन् हुत्वा पयः पिबेत्” इति, तद् अहीनसख्यभेदनविषयम् । हीनयोनिनिषेवणे ऽप्य् उपपातकसामान्यप्रायश्चित्तानि योज्यानि । यत् तु शातातपेनोक्तम् “ब्राह्मणो राजकन्यापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत् तां चैवोपयच्छेद् वैश्यापूर्वीं तु तप्तकृच्छ्रं शूद्रापूर्वीं तु कृच्छ्रातिकृच्छ्रं राजन्यश् चेद् वैश्यापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत् तां चैवोपयच्छेच् छूद्रापूर्वी त्व् अतिकृच्छ्रं वैश्यश् चेच् छूद्रापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा तां चोपयच्छेत्” इति, तत्र निविशेत् तां चोपयच्छेद् इति कृच्छ्रानुष्ठानोत्तरकालं सवर्णापरिणयनाद् ऊर्ध्वं तां च राजन्यादिकाम् उपयच्छेद् इत्य् अर्थः । इदं चाज्ञानविषयम् । ज्ञानतस् तूपपातकसामान्यप्रायश्चित्तं व्यवस्थितम् एव द्रष्टव्यम् । साधारणस्त्रीसंभोगे च हीनयोनिनिषेवणम् इत्य् उक्तं तत्रापि,

पशुवेश्याभिगमने प्राजापत्यं विधीयते ।

इति संव्रतोक्तम् अकामतो द्रष्टव्यम् । कामतस् तु यमेनोक्तं द्रष्टव्यम्-

वेश्यागमनजं पापं व्यपोहन्ति द्विजातयः ।
पीत्वा सकृत् सकृत् तप्तं सप्तरात्रं कुशोदकम् ॥ इति ।

उपपातकसामान्यप्रायश्चित्तानि च कामाकामतो ऽभ्यासापेक्षया योज्यानि । तत्र मत्याभ्यासे तु “प्रतिनिमित्तं नैमित्तिकम् आवर्तते” इति न्यायात्, प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्ताया लौगाक्षिणा विशेष उक्तः-

अभ्यासे ऽहर्गुणा वृद्धिर् मासाद् अर्वाग् विधीयते ।
ततो मासगुणा वृद्धिर् यावत् संवत्सरं भवेत् ॥
ततः संवत्सरगुणा यावत् पापं समाचरेत् ॥ इति ।

इदं मतिपूर्वविषयम् । अमतिपूर्वावृत्तौ चतुर्विंशतिमते विशेष उक्तः-

सकृत्कृते तु यत् प्रोक्तं त्रिगुणं तन्त्रिभिर् दिनैः ।
मासात् पञ्चगुणं प्रोक्तं षण्मासाद् दशधा भवेत् ॥
संवत्सरात् पञ्चदशं त्र्यब्दाद् विंशगुणं भवेत् ।
ततो ऽप्य् एवं प्रकल्प्यं स्याच् छातातपवचो यथा ॥ इति ॥

यत् पुनः “विधेः प्राथमिकाद् अस्मात् द्वितीये द्विगुणं चरेत्” इति प्रतिनिमित्तम् आवृत्तिविधायकं तन् महापातकविषयम् इत्य् उक्तं प्राक् । यत् तु यमेन साधारणस्त्रीगमनम् अधिकृत्य गुरुतल्पव्रतम् अतिदिष्टम्-

गुरुतल्पव्रतं केचित् केचिच् चान्द्रायणव्रतम् ।
गोघ्नस्येच्छन्ति केचित् तु केचिद् एवावकीर्णिनः ॥

इति, एतच् च जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं “तथैवानाश्रमे वास” (य्ध् ३.२४१) इत्य् उक्तं, तत्र हारीतेन विशेष उक्तः- “अनाश्रमी संवत्सरं प्राजापत्यं कृच्छ्रं चरित्वाश्रमम् उपेयात् । द्वितीये ऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रम् अत ऊर्ध्वं चान्द्रायणम्” इति । एतद् असंभवविषयम् । संभवे तु सामान्येनोपपातकप्रायश्चित्तानि कामाकामतो व्यवस्थापनीयानि । परपाकरुचित्वासच्छास्त्राधिगमनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ ३.२८९ ॥

“भार्याया विक्रयश् चैषाम्” (य्ध् ३.२४२) इत्य् अत्र चशब्दो मन्वाद्युक्तासत्प्रतिग्रहनिन्दितान्नादनादीनाम् उपलक्षणार्थम् इत्य् उक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चित्तविशेषम् आह ।

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम् । ३.२८९अब्
गायत्रीजप्यनिरतः शुध्यते ऽसत्प्रतिग्रहात् ॥ ३.२८९च्द्

यस् त्व् असत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायत्रीजप्यनिरतो गायत्रीजपशीलो मासं पयोव्रतेन शुध्यतीति । प्रतिग्रहस्य चासत्त्वं दातुर् जातिकर्मनिबन्धनं यथा चण्डालादेः पतितादेश् च । तथा देशकालनिबन्धनं च यथा कुरुक्षेत्रोपरागादौ तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृतशय्योभयतोमुख्यादेः । यदा तु पतितादेर् मेष्यादिकं प्रतिगृह्णाति तदैतद् गुरुप्रायश्चित्तं द्रष्टव्यम्, व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः,

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥ (म्ध् ११.१९५)

इति प्रत्यहं त्रिसहस्रजपो द्रष्टव्यः । मासम् इति द्वितीयया त्रिसहस्रसंख्याकस्य जपस्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशान् निषिद्धं मेषादिकं गृह्णाति पतितादेर् वा भूम्यादिकम् अनिषिद्धं, तदा षट्त्रिंशन्मतोक्तं द्रष्टव्यम्-

पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः ।
ऐन्दवेन मृगारेष्ट्या कदाचिन् मित्रविन्दया ।
देव्या लक्षजपेनैव शुध्यन्ते दुष्प्रतिग्रहात् ॥ इति ।

यत् तु बृहद्धारीतवचनम्,

राज्ञः प्रतिग्रहं कृत्वा मासम् अप्सु सदा वसेत् ।
षष्ठे काले पयोभक्षः पूर्णे मासे विशुध्यति ॥
तर्पयित्वा द्विजान् कामैः सततं नियतव्रतः ॥

इति, तत् पूर्वोक्तविषये ऽभ्यासे द्रष्टव्यम् । अथ वा पतितादेः कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पतया प्रायश्चित्ताल्पत्वम् । यथाह हारीतः- “मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्” इति । तथा षट्त्रिंशन्मते ऽपि-

भिक्षामात्रे गृहीते तु पुण्यं मन्त्रम् उदिरयेत् ।
प्रतिग्रहेषु सर्वेषु षष्ठम् अंशं प्रकल्पयेत् ॥

इतीदं च प्रायश्चित्तजातं द्रव्यत्यागोचरकालं द्रष्टव्यम्,

यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ (म्ध् ११.१९४)

इति मनुस्मरणात् । एवम् अन्यान्य् अपि स्मृतिवाक्यानि द्रव्यसाराल्पत्वमहत्त्वाभ्यां विषयेषु व्यवस्थापनीयानि ॥

इत्य् उपपातकप्रायश्चित्तप्रकरणम् ।

जात्याश्रयादिदोषेण निन्द्यान्नादेश् च शब्दतः ।
योगीन्द्रोक्तव्रतव्रातः सांप्रतं तु प्रतन्यते ॥

तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृत्कृते “पलाण्डुं विड्वराहं च” (य्ध् १.१७६) इत्यादिना चान्द्रायणम् उक्तम् । कामतो ऽभ्यासे तु “निषिद्धभक्षणं जैह्म्यं” (य्ध् ३.२२९) इत्यादिनोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे सान्तपनम्, तत्रैवाभ्यासे यतिचान्द्रायणं,

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ (म्ध् ५.२०)

इति मनुस्मरणात् । यत् तु वृद्धयमेनोक्तम्,

खट्वार्ताककुम्भीकव्रश्चनप्रभवाणि च ।
भूतृणं शिग्रुकं चैव खुखण्डं कवकानि च ॥
एतेषां भक्षणं कृत्वा प्राजापत्यं चरेद् द्विजः ॥

इति, तत् कामतो ऽभ्यासविषयम्,

मत्स्यांश् च कामतो जग्ध्वा सोपवासस्त्र्यहं क्षिपेत् । (य्ध् १.१७५)

इति योगीश्वरेण कामतः सकृद्भक्षणे त्र्यहस्योक्तत्वात् । खट्वाख्यः पक्षी, कुसुम्भम् इत्य् अन्ये । कवकं राजसर्षपाख्यं शाकम् । खुखण्डं तद्विशेषो गोबलीवर्दन्यायेन निर्दिष्टः । यत् तु यमेनोक्तम्,

तन्दुलीयककुम्भीकव्रश्चनप्रभवांस् तथा ।
नालिकां नारिकेलीं च श्लेष्मातकफलानि च ॥
भूतृणं शिग्रुकं चैव खट्वाख्यं कवकं तथा ।
एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥

इति तद् अपि मतिपूर्वाभ्यासविषयम् । नालिका नारिकेली च शाकविशेषौ, खट्वाख्यश् च । अकामतः सकृद्भक्षणे तु “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे त्व् आवृत्तिः कल्प्या । अत्यन्ताभ्यासे तु,

संसर्गदुष्टं यच् चान्नं क्रियादुष्टम् अकामतः ।
भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥

इति प्रचेतोऽभिहितं द्रष्टव्यम् । नील्यास् त्व् अकामतः सकृद्भक्षणे चान्द्रायणम्,

भक्षयेद् यदि नीलीं तु प्रमादाद् ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्याद् आपस्तम्बो ऽब्रवीन् मुनिः ॥

इत्य् आपस्तम्बस्मरणात् । कामतो ऽभ्यासे चावृत्तिः कल्प्या । यद् अपि षट्त्रिंशन्मते ऽभिहितम्,

शणपुष्पं शाल्मलं च करनिर्मथितं दधि ।
बहिर्वेदिपुरोडाशं जग्ध्वा नाद्याद् अहर्निशम् ॥

इति, तद् अप्य् अकामविषयम् । यत् तु सुमन्तुनोक्तम् “लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि संपातान् नयेत्” इति, तद् बलात्कारेणानिच्छतो भक्षणविषयम्, तद् एकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अत एवानन्तरं तेनैवोक्तम्- “एतान्य् एव व्याधितस्य भिषक्क्त्रियायाम् अप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि तेष्व् अपि न दोषः” इति । संपातान् नयेद् उदकबिन्दून् प्रक्षिपेत् ॥

अथ जातिदुष्टसंधिन्यादिक्षीरपाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने,
अनिर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा ।
आविकं संधिनीक्षीरं विवत्सायाश् च गोः पयः ॥
आरण्यानां च सर्वेषां मृगाणां माहिषीं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसम्भवम् ॥ (म्ध् ५.८–१०)

इत्युक्त्वा “शेषेषूपवसेद् अहः” इति (म्ध् ५.२०) मनूक्त उपवासो द्रष्टव्यः । कामतस् तु योगीश्वरोक्तस् त्रिरात्रोपवासो द्रष्टव्यः । यत् तु पैठनसिनोक्तम्- “अविखरोष्ट्रमानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनर् उपनयनं च । अनिर्दशाहगोमहिषीक्षीरप्राशने षड्रात्रम् अभोजनम् । सर्वासां द्विस्तनीनां क्षीरपाने ऽप्य् अजावर्जम् एतद् एव” इति । यच् च शङ्खेन,

क्षीराणि यान्य् अभक्ष्याणि तद्विकाराशने बुधः ।
सप्तरात्रं व्रतं कुर्यात् प्रयत्नेन समाहितः ॥

इति यावकव्रतम् उक्तं, तद् उभयम् अपि कामतो ऽभ्यासविषयम् । यत् तु शङ्खेन संधिन्यमेध्यभक्षयोः क्षीरप्राशने पक्षव्रतम् उक्तम्,

संधिन्यमेध्यभक्षयोर् भुक्त्वा पक्षव्रतं चरेत् ।

इति, तद् अप्य् अभ्यासविषयम्, “सकृत्पाने गोऽजामहिषीवर्ज्यं सर्वाणि पयांसि प्राश्योपवसेत् । अनिर्दशाहं तान्य् अपि संधिनीयम् असूस्यन्दिनीविवत्साक्षीरं चामेध्यभुजश् च” इति विष्णुनोपवासस्योक्तत्वात् । तथा वर्णनिबन्धनश् च प्रतिषेधः,

क्षत्रियश् चापि वृत्तस्थो वैश्यः शूद्रो ऽथवा पुनः ।
यः पिबेत् कपिलाक्षीरं न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् ॥

इत्य् एवमादौ च यत्र प्रतिपदोक्तं प्रायश्चित्तं न दृश्यते तत्र “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इति साधारणप्रायश्चित्तं मनूक्तं द्रष्टव्यम् ॥

अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्त मुक्तम् । तत्र कामतः सकृद्भक्षणे “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस् तु,
चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥

इति योगीश्वरोक्तं द्रष्टव्यम् । कामतो ऽभ्यासे तु,

जग्ध्वा मांसमभक्ष्यं तु सप्तरात्रं यवान्पिबेत् । (म्ध् ११.१५३)

इति मनूक्तं द्रष्टव्यम् । इदं च विट्सूकरादिमांसव्यतिरिक्तविषयम्,

क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥ (म्ध् ११.१५७)

इति मनुना जातिविशेषेण प्रायश्चित्तविशेषस्योक्तत्वात् । एतन् मूत्रपुरीषप्राशने ऽप्य् एतद् एव,

वराहैकशफानां च काककुक्कुटयोस् तथा ।
क्रव्यादानां च सर्वेषाम् अभक्ष्या ये च कीर्तिताः ॥
मांसमूत्रपुरीषाणि प्राश्य गोमांसम् एव च ।
श्वगोमायुकपीनां च तप्तकृच्छ्रं विधीयते ॥
उपोष्य वा द्वादशाहं कूष्माण्डैर् जुहुयाद् घृतम् ॥

इति बृहद्यमस्मरणात् । तत्र कामतस् तप्तकृच्छ्रः, अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था । तथा प्रचेतसाप्य् उक्तम् “श्वसृगालकाककुक्कुटपार्षतवानरचित्रकचाषक्रव्याद-खरोष्ट्रगजवाजिविड्वराहगोमानुषमांसभक्षणे तप्तकृच्छ्रम् आदिशेद् एषां मूत्रपुरीषभक्षणे त्व् अतिकृच्छ्रम्” इति । इदं च कामकारविषयम् । यत् तु उशनसो वचनम्,

नरमांसं श्वमांसं वा गोमांसं वाश्वम् एव वा ।
भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥

इति, तद् अकामविषयम् । यत् त्व् अङ्गिरोवचनम्,

बलाकाभासगृघ्राखुखरवानरसूकरान् ।
दृष्ट्वा चैषाम् अमेध्यानि स्पृष्ट्वाचम्य विशुध्यति ॥
इच्छयैषाम् अमेध्यानि भक्षयित्वा द्विजातयः ।
कुर्युः सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥

इति, तद् भक्षितोद्गारितविषयम् । सान्तपनशब्देन चात्र महासान्तपनम् उच्यते, अकामतः प्राजापत्यविधानात् । यत् पुनर् अङ्गिरोवचनम्,

नरकाकखराश्वानां जग्ध्वा मांसं गजस्य च ।
एषां मूत्रपुरिषाणि द्विजश् चान्द्रायणं चरेत् ॥

इति, यच् च बृहद्यमेनोक्तम्,

शुष्कमांसाशने विप्रो व्रतं चान्द्रायणं चरेत् ।

इति, तद् उभयम् अपि कामतो ऽभ्यासविषयम् । यत् पुनः शङ्खेनोक्तम्,

भुक्त्वा चोभयतोदन्तांस् तथा चैकशफान् अपि ।
औष्ट्रं गव्यं तथा जग्ध्वा षण्मासान् व्रतम् आचरेत् ॥

इति, तत् कामतो ऽत्यन्ताभ्यासविषयम् । यत् तु स्मृत्यन्तरोक्तम्,

जग्ध्वा मांसं नराणां च विड्वराहं खरं तथा ।
गवाश्वकुञ्जरोष्ट्राणां सर्वं पाञ्चनखं तथा ।
क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम् ॥

इति, तद् अत्यन्तानवच्छिन्नाभ्यासविषयम् । अत्र प्रकरणे मूत्रपुरीषग्रहणं वसाशुक्रासृङ्मज्जानाम् उपलक्षणम् । कर्णविट्प्रभृतिमलषट्के त्व् अर्धं कल्पनीयम् ।

केशादिषु पुनः षट्त्रिंशन्मते विशेष उक्तः- “अजाविमहिषमृगाणाम् आममांसभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रम् अज्ञानाद् उपवासः” इति । यत् तु प्रचेतसोक्तम्- “नखकेशमृल्लोष्टभक्षणे ऽहोरात्रम् अभोजनाच् छुद्धिः” इति, तद् अप्य् अकामतः सकृत्प्राशनविषयम् । यत् तु स्मृत्यन्तरवचनम्,
केशकीटनखं प्राश्य मत्स्यकण्टकम् एव च ।
हेमतप्तं घृतं पीत्वा तत्क्षणाद् एव शुध्यति ॥

इति, तन् मुखमात्रप्रवेशविषयम् । यदा तु भाजनस्थम् अन्नं केशादिदूषितं भवति, तदा,

अन्ने भोजनकाले तु मक्षिकाकेषदूषिते ।
अनन्तरं स्पृशेद् आपस् तच् चान्नं भस्मना स्पृशेत् ॥

इति प्रचेतसाभिहितं वेदितव्यम् । प्रासङ्गिको ऽयं श्लोकः । सूक्ष्मतरकृमिकीटास्थिभक्षणे पुनर् हारीतेन विशेष उक्तः- “कृमिकीटपिपीलिकाजलौकःपतङ्गास्थिप्राशने गोमूत्रगोमयाहारस् त्रिरात्रेण विशुध्यति” इति । जलौको मत्स्यादिः । एवं च पशुपतत्त्रिजलचरनरमांसादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि ग्रन्थगौरवभयात् प्रतिव्यक्ति न लिख्यते ॥

अथाशुचिसंस्पृष्टभक्षणे प्रायश्चित्तं तत्र तावद् उच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र मनुः-
बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकीटावपन्नं च पिबेद् ब्रह्मीं सुवर्चलाम् ॥ (म्ध् ११.१६०)

इति कालविशेषानुपादानाद् एकरात्रम् । इदं च कामतो द्रष्टव्यम् । यत् तु विष्णुनोक्तम्,

पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः ।
संस्काररहितस्यापि भोजने कृच्छ्रपादकम् ॥

इति, तत् कामकारविषयम् । संस्कारश् च मानवे “देवद्रोण्याम्” इत्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः । यत् तु शातातपेनोक्तम् “श्वकाकाद्यवलीढशूद्रोच्छिष्टभोजने त्व् अतिकृच्छ्रः"इति, तद् अकामतो ऽभ्यासविषयम् । यत् तु शङ्खेन,

शुनाम् उच्छिष्टकं भुक्त्वा मासम् एकं व्रती भवेत् ।
काकोच्छिष्टं गवा घ्रातं भुक्त्वा पक्षं व्रती भवेत् ॥

इति यावकव्रतम् उक्तं, तत् कामतो ऽभ्यासविषयम् । ब्राह्मणाद्युच्छिष्टभोजने तु बृहद्विष्णुनोक्तं- “ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं पञ्चगव्यं पिबेत्, वैश्योच्छिष्टाशने पञ्चरात्रं, राजन्योच्छिष्टाशने त्रिरात्रं, ब्राह्मणोच्छिष्टाशने त्व् एकाहम्” इति, तत् कामकारविषयम् । यत् तु यमवचनम्,

भुक्त्वा सह ब्राह्मणेन प्राजापत्येन शुध्यति ।
भूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण शुध्यति ॥
वैश्येन सह भुक्त्वान्नम् अतिकृच्छ्रेण शुध्यति ।
शूद्रेण सह भुक्त्वान्नं चान्द्रायणम् अथाचरेत् ॥

इति, तत् कामतो ऽभ्यासविषयम् । यत् पुनः शङ्खवचनम् “ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिर् अभिमन्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टाशने ब्राह्मीरसविपक्वेन त्र्यहं क्षीरेण वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने षड्रात्रम् अभोजनम्” इति, तद् अकामविषयम् । तत्राभ्यासे द्वैगुण्यादिकं कल्प्यम् । एतच् च पित्रादिव्यतिरेकेण, “पितुर् ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोज्यम्” (आप्ध् १.४.११) इत्य् आपस्तम्बस्मरणात् । यत् तु बृहद्व्यासवचनम्-

माता वा भगिनी वापि भार्या वान्याश् च योषितः ।
न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥

इति, तत् सहभोजनविषयम् । उच्छिष्टमात्रभोजने तु “शूद्रोच्छिष्टभोजने सप्तरात्रम् अभोजनं स्त्रीणां च” (आप्ध् १.२६.४–५) इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । यत् त्व् अङ्गिरोवचनम्-

ब्राह्मण्या सह यो ऽश्नीयाद् उच्छिष्टं वा कदाचन ।
तत्र दोषं न मन्यन्ते सर्व एव मनीषिणः ॥

इति, तद् विवाहविषयम् आपद्विषयं वा । अन्त्योच्छिष्टभोजने तु,

अन्त्यानां बुक्तशेषं तु भक्षयित्वा द्विजातयः ।
चान्द्रं कृच्छ्रं तदर्धं च ब्रह्मक्षत्रविशां विधिः ॥

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्त्यावसाय्युच्छिष्टभोजने तु,

चण्डालपतितादीनाम् उच्छिष्टान्नस्य भक्षणे ।
चान्द्रायणं चरेद् विप्रः क्षत्रः सान्तपनं चरेत् ॥
षड्रात्रं च त्रिरात्रं च वर्णयोर् अनुपूर्वशः ॥

इत्य् अङ्गिरोभिहितं सान्तपनम् अत्र महासन्तपनं द्रष्टव्यम् । आपदि तु,

आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत् तु द्रुपदानां शतं जपेत् ॥

इति पराशरोक्तं वेदितव्यम् । यत् तु बृहच्छातातपेनोक्तम्,

पीतशेषं तु यत् किंचिद् भाजने मुखनिःसृतम् ।
अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् ॥

इति, तद् अभ्यासविषयम्, निमित्तस्यातिलघुत्वात् ।

पीतोच्छिष्टं च पानीयं पीत्व तु ब्राह्मणः क्वचित् ।
त्रिरात्रं तु व्रतं कुर्याद् वामहस्तेन वा पुनः ॥

इति एतद् बुद्धिपूर्वविषयम् । अकामतस् त्व् अर्धं कल्प्यम् । दीपोच्छिष्टे तु,

दीपोच्छिष्टं तु यत् तैलं रात्रौ रथ्याहृतं च यत् ।
अभ्यङ्गाच् चैव यच् छिष्टं भुक्त्वा नक्तेन शुध्यति ॥

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥

अथाशुचिद्रव्यसंस्पृश्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः-
केशकीटावपन्नं च नीलीलाक्षोपघातितम् ।
स्नाय्वस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेद् अहः ॥ इति ।

तथाह शातातपः- “केशकीटावपन्नं च रुधिरमांसास्पृश्यस्पृष्टभ्रूणघ्नावेक्षित-पतत्त्र्यवलीढश्वसूकरगवाघ्रातशुक्तपर्युषितवृथापक्वदेवान्नहविषां भोजने उपवासः पञ्चगव्याशनं च” इति एतच् चोभयम् अप्य् अकामविषयम् । कामतस् तु,

मृद्वारिकुसुमादींश् च फलकन्देक्षुमूलकान् ।
विण्मूत्रदूषितान् प्राश्य कृच्छ्रपादं समाचरेत् ॥
संनिकृष्टे ऽर्धम् एव स्यात् कृच्छ्रः स्याच् छुचिशोधनम् ॥

इति विष्णूक्तं वेदितव्यम् । अल्पसंसर्गे पादो महासंसर्गे ऽर्धक्र्च्छ्र इति व्यवस्था । यत् तु व्यासेनोक्तम्,

संसर्गदुष्टं यच् चान्नं क्रियादुष्टं च कामतः ।
भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥

इति, एतच् च संसृष्टामेध्यादिरसोपलब्धौ वदितव्यम् । रजस्वलादिस्पृशे तु शङ्खोक्तम्- “अमेध्यपतितचण्डालपुल्कसरजस्वलावधूतकुणिकुष्टिकुनखिसंस्पृष्टानि भुक्त्वा कृच्छ्रं चरेत्” । इति । कुणिर् हस्तविकलः । एतत् कामकारविषयम् । अकामतो ऽर्धम् ।

भुक्त्वास्पृश्यैस् तथाशौचिकेशकीटैश् च दूषितम् ।
कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः ।
शङ्खपुष्पीसुवर्चादिक्वाथं पीत्वा विशुध्यति ॥

इति यद् विष्णुनोक्तं, तद् अशक्तविषयं रजकादिस्पृष्टविषयं वा । शूद्राद्युपहते तु हारीतोक्तं विज्ञेयम्- “शूद्रेणोपहतं भोज्यं कीटैर् वामेध्यसेविभिः । भुञ्जानेषु वा यत्र शूद्र उपस्पृशेद् अनर्हत्वात् स पङ्क्तौ तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेद् आचामेद् वा कुत्सित्वा वा यत्रान्नं दद्युस् तत्र प्रायश्चित्तम् अहोरात्रम्” इति । उच्छिष्टपङ्क्तिभोजने ऽप्य् एतद् एव,

यस् तु भुङ्क्ते द्विजः पण्क्त्याम् उच्छिष्टायां कदाचन ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥

इति क्रतुस्मरणात् । वामकरनिर्मुक्तान्नभोजने तु,

समुत्थितस् तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभाजने ।
एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥

इति षट्त्रिंशन्मतोक्तं वेदितव्यम् । तथा पराशरेणाप्य् अत्रोक्तम् ।

एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने ।
यद्य् एको ऽपि त्यजेत् पात्रं शेषम् अन्नं न भोजयेत् ॥
मोहाद् भुञ्जीत यस् तत्र पङ्क्त्याम् उच्छिष्टभोजनः ।
प्रायश्चित्तं चरेद् विप्रः कृच्छ्रं सान्तपनं तथा ॥ इति ॥

शवादिसंपृक्तकूपाद्युदकपाने तु विष्णुर् आह- “मृतपञ्चनखात् कूपाद् अत्यन्तोपहताद् वोदकं पीत्वा ब्राह्मणस् त्र्यहम् उपवसेत्, द्व्यहं राजन्यः, एकाहं वैश्यः, शूद्रो नक्तम् । सर्वे चान्ते पञ्चगव्यं पिबेयुः” (विध् ५४.२–६) इति । अत्यन्तोपहताद् वेति मूत्रपुरीषादिभिर् वेत्य् अभिप्रेतम् । यदा तु तत्रैव शवम् उच्छूनतयोद्भिन्नं भवति, तदा हारीतो विशेषम् आह ।

क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत् पिबेत् ।
शुद्ध्यै चान्द्रायणं कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥
यदि कश्चित् ततः स्नायात् प्रमादेन द्विजोत्तमः ।
जपंस् त्रिषवणस्नाय्य् अहोरात्रेण शुध्यति ॥ इति ।

इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस् तु षड्रात्रम्,

क्लिन्नं भिन्नं शवं चैव कूपस्थं यदि दृश्यते ।
पयः पिबेत् त्रिरात्रेण मानुषे द्विगुणे स्मृतम् ॥

इति देवलस्मरणात् । यदा चाण्डालकूपादिगतं जलं पिबति तदा आपस्तम्बोक्तं द्रष्टव्यम् ।

चाण्डालकूपभाण्डस्थं नरः कामाज् जलं पिबेत् ।
प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥
चरेत् सान्तपनं विप्रः प्राजापत्यं च भूमिपः ।
तदर्धं तु चरेद् वैश्यः शूद्रे पादं विनिर्दिशेत् ॥ इति ।

इदं च कामकारविषयम् । अकामतस् तु,

चाण्डालकूपभाण्डस्थम् अज्ञानाद् उदकं पिबेत् ।
स तु त्र्यहेण शुध्येत शूद्रस् त्व् एकेन शुध्यति ॥

इति देवलोक्तं द्रष्टव्यम् । चाण्डालादिसंबद्धाल्पजलाशयेष्व् अपि कूपवच् छुद्धिः,

जलाशयेष्व् अथाल्पेषु स्थावरेषु महीतले ।
कूपवत् कथिता शुद्धिर् महत्सु तु न दूषणम् ॥ (विध् २३.४६)

इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः,

म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां हृदे ऽपि वा ।
जानुदध्नं शुचि ज्ञेयम् अधस्ताद् अशुचि स्मृतम् ॥
तत् तोयं यः पिबेद् विप्रः कामतो ऽकामतो ऽपि वा ।
अकामान् नक्तभोजी स्याद् अहोरात्रं तु कामतः ॥

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । रजकादिभाण्डगततोये तु,

भाण्डस्थम् अन्त्यजानां तु जलं दधि पयः पिबेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव प्रमादतः ॥
ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ॥
शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥

इति पराशरोक्तं वेदितव्यम् । कामतस् तु द्विगुणम्,

अन्त्यजैः खानिताः कूपास् तडागा वाप्य एव वा ।
एषु स्नात्व च पीत्वा च प्राजापत्येन शुध्यति ॥

इत्य् आपस्तम्बोक्तम् अभ्यासविषयं वेदितव्यम् । यत् त्व् आपस्तम्बेन चण्डालादितडागकूपादिजलपाने पञ्चगव्यमात्रं भक्ष्यम् उक्तम्,

प्रपास्व् अरण्ये घटके च सौरे द्रोण्यां जलं कोशविनिर्गतं च ।
श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुध्येत् ॥

इति, तद् अशक्तविषयम् ।

प्रपां गतो विना तोयं शरीरं यो निषिञ्चति ।
एकाहक्षपणं कृत्वा सचैलं स्नानम् आचरेत् ॥
सुराघटप्रपातोये पीत्वा नाव्यं जलं तथा ।
अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥ इति ॥
अथ भावदुष्टभक्षणे प्रायश्चित्तम् । भावदुष्टं च यद् वर्णत आकारतो वा विसदृशतया जुगुप्सितशारीरमलादिवासनां जनयति तद् उच्यते, अरिप्रयुक्तगरलादिशङ्कायां वा । तत्र च पराशरः ।
वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते ।
भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रेण वुसिध्यति ॥ इति ।

एतत् कामकारविषयम् । यत् तु गौतमेन “भावदुष्टं” “केवलम्” (ग्ध् १७.१३, १४) इत्यादि प्राक् पञ्चनखेभ्यः पठित्वा प्रायश्चित्तम् उक्तम् “प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च” (ग्ध् २३.२६) इति, तद् अकामविषयम् । शङ्कायां तु,

शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञितम् ।
आहारशुद्धिं वक्ष्यामि तन् मे निगदतः शृणु ॥
अक्षारलवणां रूक्षां पिबेद् ब्राह्मीं सुवर्चलाम् ।
त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः पयसा सह ॥
पलाशबिल्वपत्राणि कुशान् पद्मम् उदुम्बरम् ।
अपः पिबेत् क्वाथयित्वा त्रिरात्रेण विशुध्यति ॥ (वध् १०–१२)

इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्य् अभोज्यभोजनशङ्कायाम् उक्तम् ।

संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ इति ॥ (म्ध् ५.२१)
अथ कालदुष्टभक्षणे प्रायश्चित्तम् । कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि । तत्र चाकामतः “शेषेषूपवसेद् अहः” इति (म्ध् ५.२०) मनूक्तं वेदितव्यम् । कामतस् तु,
केवलानि च शुक्तानि तथा पर्युषितं च यत् ।
ऋजीषपक्वं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥

इति शङ्खोक्तं वेदितव्यम् । केवलान्य् अस्नेहोक्तानि । अनिर्दशगोक्षीरादिषु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकस्य पाने तु पञ्चगव्यप्राशनम्,

शृङ्गास्थिदन्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः ।
पीत्वा नवोदकं चैव पञ्चगव्येन शुध्यति ॥

इति बृहद्याज्ञवल्क्यस्मरणात् । कामतस् तूपवासः कर्तव्यः,

काले नवोदकं शुद्धं न पिबेच् च त्र्यहं हि तत् ।
अकाले तु दशाहं स्यात् पीत्वा नाद्याद् अहर्निशम् ॥

इति स्मृत्यन्तरदर्शनात् । ग्रहणकालभोजने तु चान्द्रायणम्,

नवश्राद्धग्रामयाजकान्नसग्रहभोजने ।
नारीणां प्रथमे गर्भे भुक्त्वा चान्द्रायणं चरेत् ॥

इति शातातपस्मरणात् । यदा तु सग्रहाद् अन्यत्र निषिद्धकाले भुङ्क्ते तदाह मार्कण्डेयः ।

चन्द्रस्य यदि वा भानोर् यस्मिन्न् अहनि भार्गव ।
ग्रहणं तु भवेत् तस्मिन् न पूर्वं भोजनक्रियाम् ॥
नाचरेत् सग्रहे चैव तथैवास्तमुपागते ।
यावत् स्यान् नोदयस् तस्य नाश्नीयात् तावद् एव तु ॥

तथा,

ग्रहणं तु भवेद् इन्दोः प्रथमाद् अधियामतः ।
भुञ्जीतावर्तनात् पूर्वं प्रथमे प्रथमाद् अधः ॥
तथा,
अपराह्णे न मध्याह्ने सायाह्ने न तु सङ्गवे ।
भुञ्जीत सङ्गवे चेत् स्यान् न पूर्वं भोजनक्रिया ॥ इति ।

यच् च मनुनोक्तम्,

नाश्नीयात् संधिवेलायां नातिप्रगे नातिसायम् । (म्ध् ४.५५)

इत्य् एवमादि, यच् च बृहच्छातातपेनोक्तम्,

धाना दधि च सक्तूंश् च श्रीकामो वर्जयेन् निशि ।
भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥

इत्य् एवमादिष्व् अनादिष्टप्रायश्चित्तेषु,

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ (य्ध् ३.३०५)

इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् । अकामतस् तु “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इति मनूक्तोपवासो द्रष्टव्यः ॥

अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः ।
शुक्तानि च कषायांश् च पीत्वामेध्यान्य् अपि द्विजः ।
तावद् भवत्य् अप्रयतो यावत् तन् न व्रजत्य् अधः ॥ इति । (म्ध् ११.१५४)

अत्राकामतः “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इत्य् उपवासो द्रष्टव्यः । कामतस् तु,

केवलानि च शुक्तानि तथा पर्युषितं च यत् ।
ऋजीषपक्वं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥

इति शङ्खोक्तं द्रष्टव्यम् । एतच् चामलकादिफलयुक्तकाञ्जिकादिव्यतिरेकेण द्रष्टव्यम् ।

कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् ।
तस्यास् तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥

इति स्मरणात् । उद्धृतस्नेहादिषु तु “उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात्” (ग्ध् ९.५८) इत्य् उक्त्वा, “प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च” (ग्ध् २३.२६) इति गौतमोक्तं द्रष्टव्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह ।

यस्य चाग्नौ न क्रियते यस्य चाग्रं न दीयते ।
न तद् भोज्यं द्विजातीनां भुक्त्वा चोपवसेद् अहः ॥
वृथा कृसरसंयावपायसापूपशष्कुलीः ।
आहिताग्निर् द्विजो भुक्त्वा प्राजापत्यं समाचरेत् ॥ इति ॥

अनाहिताग्नेस् तु “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इत्य् उपवासो द्रष्टव्यः । भिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम् ।

शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने ।
अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुध्यति ॥ इति ।

तथा स्मृत्यन्तरे ऽप्य् उक्तम् ।

वटार्काश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः ।
कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥ इति ।

तथा,

पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् ।
वानप्रस्थो यतिश् चैव लभते चान्द्रिकं फलम् ॥ इति ॥
अथ हस्तदानादिक्रियादुष्टाभोज्यभक्षणे प्रायश्चित्तम् । तत्र पराशरः।
माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् ।
हस्तदत्तानि भुक्त्वा तु दिनम् एकम् अभोजनम् ॥ इति ।

कामतस् तु, “हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्टपङ्क्तिभोजने पङ्क्त्यग्रतो भोजने ऽभ्यक्तमूत्रपुरीषकरणे मृतसूतकशूद्रान्नभोजने शूद्रैः सह स्वप्ने त्रिरात्रम् अभोजनम्” इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे तु,

ब्राह्मणान्नं ददच् छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।
द्वयम् एतद् अभोज्यं स्याद् भुक्त्वा तूपवसेद् अहः ॥

इति वृद्धयाज्ञवल्क्योक्तम् अवगन्तव्यम् । शूद्रहस्तेन भोजने तु,

शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिबेत् क्वचित् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥

इति क्रतूक्तं विज्ञेयम् । धमनदुष्टे ऽपि,

आसनारूढपादो वा वस्त्रार्धप्रावृतो ऽपि वा ।
मुखेन धमितं भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥
इति तेनैवोक्तम् । पित्राद्युद्देशेन त्यक्तान्नभोजने तु,
भुङ्क्ते चेत् पार्वणश्राद्धे प्राणायामान् षड् आचरेत् ।
उपवासस् त्रिमासादि वत्सरान्तं प्रकीर्तितः ॥
प्राणायामत्रयं वृद्धाव् अहोरात्रं सपिण्डने ।
असरूपे स्मृतं नक्तं व्रतपारणके तथा ॥
द्विगुणं क्षत्रियस्यैतत् त्रिगुणं वैश्यभोजने ।
साक्षाच् चतुर्गुणं ह्य् एतत् स्मृतं शूद्रस्य भोजने ॥
अतिथौ तिष्ठति द्वारि ह्य् अपः प्राश्नन्ति ये द्विजाः ।
रुधिरं तद् भवेद् वारि भुक्त्वा चान्द्रायणं चरेत् ॥

इति भारद्वाजोक्तम् अवगन्तव्यम् । हारीतेनाप्य् उक्तम् ।

एकादशाहे भुक्त्वान्नं भुक्त्वा संचयने तथा ।
उपोष्य विधिवत् स्नात्वा कूष्माण्डैर् जुहुयाद् घृतम् ॥ इति ।

विष्णुनाप्य् उक्तम् ।

प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥ इति ।

इदं चापद्विषयम् । अनापदि तु,

चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके ।
एकाहस् तु पुराणेषु प्राजापत्यं विधीयते ॥

इति हारीतोक्तं द्रष्टव्यम् । “प्राजापत्यं तु मिश्रके” इत्य् एतद् आद्यमासिकविष्यं द्रष्टव्यम् । द्वितीयादिषु तु,

प्राजापत्यं नवश्राद्धे पदोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं स्यात् पादो द्वैमासिके तथा ।
पादोनकृच्छ्रम् उद्दिष्टं षण्मासे च तथाब्दिके ।
त्रिरात्रं चान्यमासेषु प्रत्यहं चेद् अहः स्मृतम् ॥

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । क्षत्रियादिश्राद्धभोजने त्व् अनापदि तत्रैव उक्तः ।

चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः ।
त्रैपक्षिके सान्तपनं कृच्छ्रो मासद्वये स्मृतः ॥
क्षत्रियस्य नवश्राद्धे व्रतम् एतद् उदाहृतम् ।
वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात् तु मनीषिभिः ॥
शूद्रस्य तु नवश्राद्धे चरेच् चान्द्रायणद्वयम् ।
सार्धं चान्द्रायणं मासे त्रिपक्षे त्व् ऐन्दवं स्मृतम् ॥
मासद्वये पराकः स्याद् ऊर्ध्वं सान्तपनं स्मृतम् ॥ इति ।

यत् तु शङ्खवचनम्,

चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः ।
पक्षत्रये ऽतिकृच्छ्रः स्यात् षण्मासे कृच्छ्र एव तु ॥
आब्दिके पादकृच्छ्रः स्याद् एकाहः पुनर् आब्दिके ।
अत ऊर्ध्वं न दोषः स्याच् छङ्खस्य वचनं यथा ॥

इति, तत् सर्पादिहतविषयम्, “ये स्तेनाः पतिताः क्लीबाः” (म्ध् ३.१५०) इत्याद्यपाङ्क्तेयविषयं वा ।

चण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मणाम् ॥
पतनानाशकैश् चैव विषोद्बन्धनकैस् तथा ।
भुक्त्वैषां षोडशश्राद्धे कुर्याद् इन्दुव्रतं द्विजः ॥ इति ।

तथा,

अपाङ्क्तेयान् यदुद्दश्य श्राद्धम् एकादशे ऽहनि ।
ब्राह्मणस् तत्र भुक्त्वान्नं शिशुचान्द्रायणं चरेत् ॥ इति ।
आमश्राद्धे तथा भुक्त्वा तप्तकृच्छेण शुध्यति ।
संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥

इति भरद्वाजेन गुरुप्रायश्चित्ताभिधानात् ।

ब्रह्मचारिणस् तु बृहद्यमो विशेषम् आह ।
मासिकादिषु यो ऽश्नीयाद् असमाप्तव्रतो द्विजः ।
त्रिरात्रम् उपवासो ऽस्य प्रायश्चित्तं विधीयते ॥
प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति ।

इदम् अज्ञानविषयम् । कामतो ऽपि स एवाह ।

मधु मांसं तु यो ऽश्नीयाच् छ्राद्धे सूतक एव वा ।
प्राजापत्यं चरेत् कृच्छ्रं व्रतशेषं समापयेत् ॥ इति ।

आमश्राद्धे तु सर्वत्रार्धम्,

आमश्राद्धे तदर्धं तु प्राजापत्यं तु सर्वदा ।

इति षट्त्रिंशन्मते ऽभिधानात् । यत् तु उशनसोक्तम्,

दशकृत्वः पिबेच् चापो गायत्र्या श्राद्धभुग् द्विजः ।
ततः संध्याम् उपासीत शुध्येत् तु तदनन्तरम् ॥

इति, तद् अनुक्तप्रायश्चित्तश्राद्धविषयम् । संस्काराङ्गभूतश्राद्धभोजने तु व्यासेन विशेष उक्तः ।

निर्वृत्तचूडाहोमे तु प्राङ्नामकरणात् तथा ।
चरेत् सान्तपनं भुक्त्वा जातकर्मणि चैव हि ॥
अतो ऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः ।
नियोगाद् उपवासेन शुध्यते निन्द्यभोजने ॥ इति ॥

सीमन्तोन्नयनादिषु पुनर् धौम्यो विशेषम् आह ।

ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा ।
जातश्राद्धे नवश्राद्धे द्विजश् चान्द्रायणं चरेत् ॥ इति ।

अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतम्, सोमसाहचर्यात् ॥

अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम् । “यत् स्वरूपतो ऽनिषिद्धम् अपि विशिष्टपुरुषस्वामिकतयाभोज्यं भण्यते तत्परिग्रहाशुचि” । तत्र योगीश्वरेण,
अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि । (य्ध् १.१६०)

इत्य् आरभ्य सार्धपञ्चभिः श्लोकैर् अभोज्यान्नाः प्रतिपादिताः (य्ध् १.१६१–६५) । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः ।

नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥
स्तेनगायनयोश् चान्नं तक्ष्णो वार्द्धुषिकस्य च ।
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥
उग्रान्नं सूतिकान्नं च पर्याचान्तम् अनिर्दशम् ।
अनर्चितं वृथामांसम् अवीरायाश् च योषितः ॥
द्विषदन्नं नगर्यन्नं पतितान्नम् अवक्षुतम् ।
पिशुनानृतिनोश् चैव क्रतुविक्रयिणस् तथा ॥
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ।
कर्मारस्य निषादस्य रङ्गावतारणस्य च ॥
सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ।
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ॥
रजकस्य नृशंसस्य यस्य चोपपतिर् गृहे ।
मृष्यन्ति ये चोपपतिं स्त्रीजितानाम् च सर्वशः ॥
अनिर्दशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥ इति ॥ (म्ध् ४.२०५–१७)

अत्र च पदार्था अभक्ष्यकाण्डे श्राद्धकाण्डे च व्याख्याताः । अत्र प्रायश्चित्तम् आह ।

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वाचरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ इति । (म्ध् ४.२२२)

पैठीनसिनाप्य् अकामतस् त्रिरात्रम् एवोक्तम्- “कुनाखी श्यावदन्तः पित्रा विवदमानः स्त्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको ग्रामयाजको ऽभिशस्तो वृषल्याम् अभिजितः परिवित्तिः परिविन्दानो दिधिषूपतिः पुनर्भूपुत्रश् चौरः काण्डपृष्ठः सेवकश् चेत्य् अभोज्यान्ना अपाङ्क्तेया अश्राद्धार्हाः एषां भुक्त्वा दत्त्वा वाविज्ञानात् त्रिरात्रम्” इति ॥ शङ्खेन त्व् एतान् एव किंचिदधिकान् पठित्वा चान्द्रायणम् उक्तं, तद् अभ्यासविषयम् ॥ गौतमेन पुनर् “उच्छिष्टपुंश्चल्यभिशस्ताः” (ग्ध् १७.१७) इत्यादिना अभोज्यान् पठित्वा, “प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च” (ग्ध् २३.२६) इति प्रायश्चित्तम् उक्तं, तद् आपद्विषयम् । यस् तु बलात्कारेण भोज्यते तस्यापस्तम्बेन विशेष उक्तः ।

बलाद् दासीकृता ये तु म्लेच्छचण्डालदस्युभिः ।
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥
उच्छिष्टमार्जनं चैव तथोच्छिष्टस्य भोजनम् ।
खरोष्ट्रविड्वराहाणाम् आमिषस्य च मक्षणम् ॥
तत्स्त्रीणां च तथा सङ्गस् ताभिश् च सह भोजनम् ।
मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥
चान्द्रायणं त्व् आहिताग्नेः पराकस् त्व् अथवा भवेत् ।
चान्द्रायणं पराकं च चरेत् संवत्सरोषितः ॥
संवत्सरोषितः शूद्रो मासार्धं यावकं पिबेत् ।
मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ॥
ऊर्ध्वं संवत्सरात् कल्प्यं प्रायश्चित्तं द्विजोत्तमैः ।
संवत्सरैस् त्रिभिश् चैव तद्भावं स निगच्छति ॥ इति ।
आशौचिपरिगृहीतान्नभोजने तु छागलेय आह ।
अज्ञानाद् भुञ्जते विप्राः सूतके मृतके तथा ।
प्राणायामशतं कृत्वा शुध्यन्ते शूद्रसूतके ॥
वैश्ये षष्टिर् भवेद् राज्ञि विंशति ब्राह्मणे दश ।
एकाहं च त्र्यहं पञ्च सप्तरात्रम् अभोजनम् ॥
ततः शुद्धिर् भवत्य् एषां पञ्चगव्यं पिबेत् ततः ॥ इति ।

ब्राह्मणादिक्रमेणैकाहत्र्यहादयो योज्याः । इदम् अकामविषयम् । कामतस् तु मार्कण्डेय आह ।

भुक्त्वा तु ब्राह्मणाशौचे चरेत् सान्तपनं द्विजः ।
भुक्त्वा तु क्षत्रियाशौचे सप्तकृच्छ्रो विधीयते ॥
वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् ।
शूद्रस्यैव तथा भुक्त्वा त्रिमासान् व्रतम् आचरेत् ॥

यत् तु शङ्खेनोक्तम्,

शूद्रस्य सूतके भुक्त्वा षण्मासान् व्रतम् आचरेत् ।
वैश्यस्य तु तथा भुक्त्वा त्रीन् मासान् व्रतम् आचरेत् ॥
क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतम् आचरेत् ।
ब्राह्मणस्य तथाशौचे भुक्त्वा मासव्रती भवेत् ॥

इति, इदम् अभ्यासविषयम् । एतच् च प्रायश्चित्तम् आशौचानन्तरं वेदितव्यम्, “ब्राह्मणादीनाम् आशौचे यः सकृद् एवान्नम् अश्नाति तस्य तावद् आशौचं यावत् तेषाम्, आशौचव्यपगमे तु प्रायश्चित्तं कुर्यात्” इति (विध् २२.८–९) विष्णुस्मरणात् ॥

अपुत्राद्यन्नभोजने तु लिखित आह ।
भुक्त्वा वार्धुषिकस्यान्नम् अव्रतस्यासुतस्य च ।
शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्याद् अभोजनम् ॥

तथा ।

परपाकनिवृत्तस्य परपाकरतस्य च ।
अपचस्य तु भुक्त्वान्नं द्विजश् चान्द्रायणं चरेत् ॥ इति ।

एतच् चाभ्यासविषयम् । परपाकेन निवृत्तादेर् लक्षणं च तेनैवोक्तम् ।

गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ।
परपाकनिवृत्तो ऽसौ मुनिभिः परिकीर्तितः ॥
पञ्चयज्ञांस् तु यः कृत्वा परान्नाद् उपजीवति ।
सततं प्रातर् उत्थाय परपाकरतस् तु सः ॥
गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः ।
ऋषिभिर् धर्मतत्त्वज्ञैर् अपचः संप्रकीर्तितः ॥ इति ।

यत् तु ब्रह्मचार्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह,

यतिश् च ब्रह्मचारी च पक्वान्नस्वामिनाव् उभौ ।
तयोर् अन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥ इति ॥

यच् च पार्वणश्राद्धाद्यकर्तुर् अन्नभोजने भरद्वाज आह,

पक्षे वा यदि वा मासे यस्य नाश्नन्ति देवताः ।
भुक्त्वा दुरात्मनस् तस्य द्विजश् चान्द्रायणं चरेत् ॥

इति, तद् उभयम् अप्य् अभ्यासविषयम् । पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास् तदन्नभोजने तु,

निराचारस्य विप्रस्य निशिद्धाचरणस्य च ।
अन्नं भुक्त्वा द्विजः कुर्याद् दिनम् एकम् अभोजनम् ॥

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्यासे षट्त्रिंशन्मत एवोक्तम् ।

उपपातकयुक्तस्य अब्दम् एकं निरन्तरम् ।
अन्नं भुक्त्वा द्विजः कुर्यात् पराकं तु विशोधनम् ॥ इति ।

इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्डगतम् अविशेषोदितव्रतकदम्बकं हि द्विजाग्र्यस्यैव । क्षत्रियादीनां तु पादपादहान्या भवति,

विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।
वैश्ये ऽर्धं पाद एकस् तु शूद्रजातिषु शस्यते ॥

इति विष्णुस्मरणात् ॥

इत्य् अभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ।

निमित्तपरिगणनवेलायाम् उपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि । तत्र प्रायश्चित्तान्य् उच्यन्ते । तत्र मनुः ।
जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥
संकरापात्रकृत्यासु मासं शोधनम् ऐन्दवम् ।
मलिनीकरणीयेषु तप्तः स्याद् यावकस् त्र्यहम् ॥ इति । (म्ध् ११.१२५–२६)

अन्यतमम् इति सर्वत्र संबध्यते । यमेनाप्य् अत्र विशेष उक्तः ।

संकरीकरणं कृत्वा मासम् अश्नाति यावकम् ।
कृच्छ्रातिकृच्छ्रम् अथ वा प्रायश्चित्तं समाचरेत् ॥
अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ॥
शीतकृच्छ्रेण वा शुद्धिर् महासान्तपनेन वा ।
मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥ इति ॥

बृहस्पतिनापि जातिभ्रंशकरे विशेष उक्तः ।

ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् ।
निन्दितेभ्यो धनादानं कृच्छ्रार्धं व्रतम् आचरेत् ॥ इति ।

एतेषां च जातिभ्रंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गतम् अभक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ ३.२८९ ॥

अधुना प्रकृतम् अनुसरामः । महापातकम् अतिपातकम् अनुपातकम् उपपातकं प्रकीर्णकम् इति पञ्चविधं पापजातम् उक्तम् । तत्र चतुर्विधप्रायश्चित्तम् अभिधाय क्रमप्राप्ते प्रकीर्णके प्रायश्चित्तम् आह ।

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः । ३.२९०अब्
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ ३.२९०च्द्

खरयुक्तं यानं खरयानम् । उष्ट्रयुक्तं यानम् उष्ट्रयानं रथगन्त्र्यादि तेनाध्वगमनं कृत्वा दिगम्बरः स्नात्वाभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागतरङ्गिण्यादाव् अवगाह्य कृतप्राणायामः शुध्यति । इदं च कामकारविषयम्,

उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
सवासा जलम् आप्लुत्य प्राणायामेन शुध्यति ॥ (म्ध् ११.२०२)

इति मनुस्मरणात् । अकामतः स्नानमात्रं कल्प्यम् । साक्षात् खरारोहणे तु द्विगुणावृत्तिः कल्पनीया, तस्य गुरुत्वात् ॥ ३.२९० ॥

किं च ।

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः । ३.२९१अब्
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम् ॥ ३.२९१च्द्

गुरुं जनकादिकं त्वंकृत्य “त्वम् एवम् आत्थ,” “त्वयैवं कृतम्” इत्य् एकवचनान्तयुष्मच्छब्दोच्चारणेन निर्भर्त्स्य, विप्रं वा ज्यायांसं समं कनीयांसं वा सक्रोधं “हुं तूष्णीम् आस्व,” “हुं मा बहुवादीः” इत्य् एवम् आक्षिप्य, जल्पवितण्डाभ्यां जयफलाभ्यां विप्रं निर्जित्य, कण्ठे वाससा मृदुस्पर्शेनापि बध्वा, क्षिप्रं पादप्रणिपातादिना प्रसाद्य क्रोधं त्याजयित्वा दिनम् उपवसेत् । अनश्नन् कृत्स्रं वासरं नयेत् । यत् तु यमेनोक्तम्,

वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया ।
त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥

इति, तद् अभ्यासविषयम् ॥ ३.२९१ ॥

किं च ।[^५३]

विप्रदण्डोद्यमे कृच्छ्रस् त्व् अतिकृच्छ्रो निपातने । ३.२९२अब्
कृच्छ्रातिकृच्छ्रो ऽसृक्पाते कृच्छ्रो ऽभ्यन्तरशोणिते ॥ ३.२९२च्द्

विप्रजिघांसया दण्डाद्युद्यमे कृच्छ्रः शुद्धिहेतुः । निपातने ताडने अतिकृच्छ्रः । असृक्पाते रुधिरस्रावणे पुनः कृच्छ्रातिकृच्छ्रः । अभ्यन्तरशोणिते ऽपि कृच्छ्रः शुद्धिहेतुः । बृहस्पतिनाप्य् अत्र विशेष उक्तः ।

काष्ठादिना ताडयित्वा त्व् अभेदे कृच्छ्रम् आचरेत् ।
अस्थिभेदे ऽतिकृच्छ्रः स्यात् पराकस् त्व् अङ्गकर्तने ॥ इति ।

पादप्रहारे तु यम आह ।

पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया ।
दिवसोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥ इति ॥
मनुना त्व् अन्यानि प्रकीर्णकप्रायश्चित्तानि दर्शितानि ।
विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं संनिषेव्य तु ।
सचैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ॥ इति । (म्ध् ११.२०३)

विनाद्भिर् इत्य् असंनिहितास्व् अपीत्य् अर्थः । शारीरं मूत्रपुरीषादि । इदम् अकामविषयम् । कामतस् तु,

आपद्गतो विना तोयं शारीरं यो निषेवते ।
एकाहं क्षपणं कृत्वा सचैलो जलम् आविशेत् ॥

इति यमोक्तं वेदितव्यम् । यत् तु सुमन्तुवचनम् “अप्स्व् अग्नौ वा मेहतस् तप्तकृच्छ्रम्” इति, तद् अनार्तविषयम् अभ्यासविषयं वा । नित्यश्रौतादिकर्मलोपे तु मनुर् आह ।

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥ इति । (म्ध् ११.२०४)

श्रौतेषु दर्शपौर्णमासादिकर्मसु स्मार्तेषु चानित्यहोमादिषु प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तैर् उपवासस्य समुच्चयः । स्नातकव्रतानि च,

न जीर्णमलवद्वासा भवेच् च विभवे सति । (म्ध् ४.३४)

इत्येवमादीनि प्रागुक्तानि । स्नातकव्रतम् अधिकृत्य क्रतुनाप्य् उक्तम्- “एतेषाम् आचाराणाम् एकैकस्य व्यतिरिक्तमे गायत्र्यष्टशतं जप्यं कृत्वा पूतो भवति” इति ॥ पञ्चमहायज्ञाकरणे तु बृहस्पतिर् आह ।

अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते प्रत्यहं गृही ।
अनातुरः सति धने कृच्छ्रार्धेन विशुध्यति ॥
आहिताग्निर् उपस्थानं न कुर्याद् यस् तु पर्वणि ।
ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धम् आचरेत् ॥ इति ।

द्वितीयादिभार्योपरमे तु देवल आह ।

मृतां द्वितीयां यो भार्यां दहेद् वैतानिकाग्निभिः ।
जीवन्त्यां प्रथमायां तु सुरापानसमं हि तत् ॥ इति ।

स्वभार्याभिशंसने तु यम आह ।

स्वभार्यां तु यदा क्रोधाद् अगम्येति नरो वदेत् ।
प्राजापत्यं चरेद् विप्रह् क्षत्रियो दिवसान् नव ॥
षड्रात्रं तु चरेद् वैश्यस् त्रिरात्रं शूद्र आचरेत् ॥ इति ॥
अस्नानभोजनादौ हारीत आह ।
वहन्कमण्डलुं रिक्तम् अस्नातो ऽश्नंश् च भोजनम् ।
अहोरात्रेण शुद्धिः स्याद् दिनजप्येन चैव हि ॥ इति ।

एकपङ्क्त्युपविष्टानां स्नेहादिना वैषम्येण दानादौ यम आह ।

न पङ्क्त्यां विषमं दद्यान् न याचेत न जापयेत् ।
याचको दापको दाता न वै स्वर्गस्य गामिनः ॥
प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस् ततः ।
नदीसंक्रमहन्तुश् च कन्याविघ्नकरस्य च ॥
समे विषमकर्तुश् च निष्कृतिर् नोपपद्यते ।
त्रयाणाम् अपि चैतेषां प्रत्यापत्तिं च मार्गताम् ।
भैक्षलब्धेन चान्नेन द्विजश् चान्द्रायणं चरेत् ॥ इति ।

संक्रम उदकावतरणमार्गः । समे विषमकर्ता पूजादौ । इन्द्रधनुर्दर्शनादाव् ऋष्यशृङ्ग आह ।

इन्द्रचापं पलाशाग्निं यद् अन्यस्य प्रदर्शयेत् ।
प्रायश्चित्तम् अहोरात्रं धनुर्दण्डश् च दक्षिणा ॥

पतितादिसंभाषणे तु गौतम आह- “न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत । तल्पान्नधनलाभवधे पृथग्वर्षाणि” इति (ग्ध् ९.१६–१८; २२.२८)) । भार्यान्नधनानां लाभस्य वधे विघ्नकरणे प्रत्येकं संवत्सरं प्राकृतं ब्रह्मचर्यम् । तथा ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ स्मृत्यन्तरे प्रायश्चित्तम् उक्तम् ।

विना यज्ञोपवीतेन यद् युच्छिष्टो भवेद् द्विजः ।
प्रायश्चित्तम् अहोरात्रं गायत्र्यष्टशतं तु वा ॥

तत्र ऊर्ध्वोच्छिष्टे उपवासो ऽधरोच्छिष्टस्योदकपानादिषु गायत्रीजप इति व्यवस्था । अकामतस् तु,

पिबतो मेहतश् चैव भुञ्जतो ऽनुपवीतिनः ।
प्राणायामत्रिकं षट्कं नक्तं च त्रितयं क्रमात् ॥

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । भुक्त्वा शौचाचमनम् अकृत्वोत्थाने तु,

यद्य् उत्तिष्ठत्य् अनाचान्तो भुक्त्वा वानशनात् ततः ॥
सद्यःस्नानं प्रकुर्वीत सो ऽन्यथा पतितो भवेत् ॥

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । चौराद्युत्सर्गादौ वसिष्ठ आह- “दण्ड्योत्सर्गे राजैकरात्रम् उपवसेत्, त्रिरात्रं पुरोहितः । कृच्छ्रम् अदण्ड्यदण्डने पुरोहितस् त्रिरात्रं राजा । कुनखी श्यावदन्तश्च कृच्छ्रं द्वादशदरात्रं चरित्वोद्धरेयाताम्”(वध् १९.४०–४३; २०.६) इति । उद्धरेयातां कुत्सितानां दन्तानां नखानां चोद्धरणं कुर्याताम् इत्य् अर्थः । स्तेनपतितादिपङ्क्तिभोजने तु मार्कण्डेय आह ।

अपाङ्क्तेयस्य यः कश्चित् पङ्क्तौ भुङ्क्ते द्विजोत्तमः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ इति ॥
नीलीविषये त्व् आपस्तम्ब आह ।
नीलीरक्तं यदा वस्त्रं ब्राह्मणो ऽङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
रोमकूपैर् यदा गच्छेद् रसो नील्यास् तु कस्यचित् ।
त्रिषु वर्णेषु सामान्यं तप्तकृच्छ्रं विशोधनम् ॥
पालनं विक्रयश् चैव तद्वृत्त्या चोपजीवनम् ।
पातनं च भवेद् विप्रस् त्रिभिः कृच्छ्रैर् व्यपोहति ॥
नीलीदारु यदा भिन्द्याद् ब्राह्मणस्य शरीरत ।
शोणितं दृश्यते यत्र द्विजश् चान्द्रायणं चरेत् ॥
स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥ इति ।

भृगुणाप्य् उक्तम् ।

स्त्रीधृता शयने नीली ब्राह्मणस्य न दुष्यति ।
नृपस्य वृद्धौ वैश्यस्य पर्ववर्ज्यं विधारणम् ॥ इति ।

तथा वस्त्रविशेषकृतश् च प्रतिप्रसवः,

कम्बले पट्टसूत्रे च नीलीरागो न दुष्यति ।

इति स्मरणात् । ब्रह्मतरुनिर्मितखट्वाद्यारोहणे शङ्ख आह ।

अध्यस्य शयनं यानम् आसनं पादके तथा ।
द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥
क्षत्रियस् तु रणे पृष्ठं दत्त्वा प्राणपरायणः ।
संवत्सरं व्रतं कुर्याच् छित्त्वा वृक्षं फलप्रदम् ॥
द्वौ विप्रो ब्राह्मणाग्नी वा दम्पती गोद्विजोत्तमौ ।
अन्तरेण यदा गच्छेत् कृच्छ्रं सान्तपनं चरेत् ॥
होमकाले तथा दोहे स्वाध्याये दारसंग्रहे ।
अन्तरेण यदा गच्छेद् द्विजश् चान्द्रायणं चरेत् ॥ इति ।

दोहे सान्नाय्याद्यङ्गभूते । एतच् चाभ्यासविषयम् । सच्छिद्रादित्याद्यरिष्टदर्शनादौ शङ्ख आह- “दुःस्वप्नारिष्टदर्शनादौ घृतं सुवर्णं च दद्यात्” ॥

क्वचिद् देशविशेषगमने ऽपि देवल आह ।
सिन्धुसौवीरसौराष्ट्रांस् तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारम् अर्हति ॥

एतच् च तीर्थयात्राव्यतिरिकेण द्रष्टव्यम् । स्वपुरीषदर्शनादौ यम आह ।

प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः शकृत् ।
दृष्ट्वा सूर्यं निरीक्षेत गाम् अग्निं ब्राह्मणं तथा ॥ इति ।

शङ्खो ऽप्याह ।

पादप्रतनं कृत्वा कृत्वा वह्निम् अधस् तथा ।
कुशैः प्रमृज्य पादौ तु दिनम् एकं व्रती भवेत् ॥ इति ॥

क्षत्रियाद्युपसंग्रहणे हारीत आह- “क्षत्रियाभिवादने ऽहोरात्रम् उपवसेत् वैश्याभिवादने द्विरात्रम् शूद्रस्याभिवादने त्रिरात्रम् उपवासः” इति । तथा, “शय्यारूढे पादुकोपानहारोपितपादोच्छिष्टान्धकारस्थश्राद्धकृज् जपदेवपूजानिरताभिवादने त्रिरात्रम् उपवासः स्याद् अन्यत्र निमन्त्रितेनान्यत्र भोजने ऽपि त्रिरात्रम्” इति ॥

समित्पुष्पादिहस्तस्याभिवादने प्य् एतद् एव,
समित्पुष्पकुशाज्याम्बुमृदन्नाक्षतपाणिकम् ।
जपं होमं च कुर्वाणं नाभिवादेत वै द्विजम् ॥

इत्य् आपस्तम्बीये जपादिभिः समभिव्याहारात् । अभिवादकस्यापीदम् एव प्रायश्चित्तम्, “नोदकुम्भहस्तो ऽभिवादयेत् न भैक्षं चरन् न पुष्पाज्यादिहस्तो नाशुचिर् न जपन् न देवपितृकार्यं कुर्वन् न शयानः” इति तस्यापि शङ्खेन प्रतिषेधात् । एवम् अन्यान्य् अपि वचांसि स्मृत्यन्तरतो ऽन्वेष्याणि ग्रन्थगौरवभयाद् अत्र न लिख्यन्ते ॥ ३.२९२ ॥

इति प्रकीर्णकप्रायश्चित्तप्रकरणम् ।

निमित्तानाम् आनन्त्यात् प्रतिव्यक्तिप्रायश्चित्तस्य वक्तुम् अशक्यत्वात् सामान्येनोपदिष्टानुपदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थम् इदम् आह ।

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः । ३.२९३अब्
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥ ३.२९३च्द्

यद् उक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद् देशादिकम् अवेक्ष्य यथा कर्तुः प्राणविपत्तिर् न भवति तथा विषयविशेषे कल्पनीयम्, इतरथा प्रधाननिवृत्तिप्रसङ्गात् । तथा च वक्ष्यति ।

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् । इति ।(य्ध् ३.३११)

तत्र यदि हिमवद्गिरिनिकटवर्तिनाम् उदकवास उपदिश्यते अतिशीताकुलिते वा शिशिरादिकाले, तदा प्राणवियोगो भवेद् इति तद्देशकालपरिहारेणोदकवासः कल्पनीयः । तथा वयोविशेषाद् अपि यदि नवतिवार्षिकादेर् अपूर्णद्वादशवार्षिकस्य वा द्वादशाब्दिकं प्रायश्चित्तम् उपदिश्यते तदा प्राणा विपद्येरन्न् इति ततो ऽन्यवयस्के तत् प्रायश्चित्तं कल्प्यम् । अत एव स्मृत्यन्तरे “क्वचिद् अर्धं क्वचित् पादः” इति वृद्धादिषु प्रायश्चित्तस्य ह्रासो ऽभिहितः । तच् च प्राक् प्रपञ्चितम् । तथा धनदानतपश्चरणादिशक्त्यपेक्षया च, न हि निर्धनस्य पात्रे धनं वा पर्याप्तम् इत्याद्य् उपपद्यते । तथोद्रिक्तपित्तादेर् वा पराकादिकं नापि स्त्रीशूद्रादेर् जपादिकम् । अत एव,

गजादीनाम् अशक्नुवन् ।
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ (य्ध् ३.२७४)

इत्य् उक्तम् । तथा,

प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ।

इति तपस्य् अशक्तस्य स्मृत्यन्तरे प्रायश्चित्तस्य ह्रासो ऽभिहितः । तथा पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यत्नतः सकलधर्मशास्त्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यद् विहितं तद् एव कामकृते द्विगुणं, कामतो ऽभ्यासे चतुर्गुणम् इत्य् एवं स्मृत्यन्तरानुसारेण कल्पनीयम् । तथा,

महापापोपपापाभ्यां यो ऽभिशंसेन् मृषा परम् ।
अब्भक्षो मासम् आसीत ।

इत्य् उक्तं, तत्र महापापोपपापयोस् तुल्यप्रायश्चित्तस्यायुक्तत्वान् महापापापेक्षयोपपातके मासिकव्रतस्य ह्रासः कल्पनीयः । यत्र च हसितजृम्भिताक्रन्दितास्फालनादिनाकस्मात् कुर्यात् तथा,

नोदन्वतो ऽम्भसि स्नायान् न च श्मश्रवादि कर्तयेत् ।
अन्तर्वत्न्याः पतिः कुर्वन्न् अप्रजा भवति ध्रुवम् ॥

इत्यादौ प्रायश्चित्तं नोपदिष्टं, तत्रापि देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् ।

ननु किंचिद् अपि निमित्तजातम् अनुक्तनिष्कृतिकम् उपलभ्यते,
प्रानायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥

इत्य् अनुक्तनिष्कृतिष्व् अपि प्रायश्चित्तस्य वक्ष्यमाणत्वात् । गौतमेनाप्य् “एतान्य् एवानादेशे विकल्पेन क्रियेरन्” (ग्ध् १९.१८) इत्य् एकाहादयः प्रतिपादिताः ।

उच्यते । सत्यम् अस्त्य् एव सामान्यतः प्रायश्चित्तोपदेशस्, तथापि सर्वत्र देशकालादीनाम् अपेक्षितत्वाद् अस्त्य् एव कल्पनावसरः । न च हसितादिषु सर्वत्र प्राणायामशतं युक्तम्, निमित्तस्य लघुत्वात् । अतः पापापेक्षया ह्रासः कल्पनीयः प्रायश्चित्तान्तरं वा ।
ननु कथं पापस्य लघुत्वं येन प्रायश्चित्तस्य ह्रासकल्पना स्यात् । न च प्रायश्चित्ताल्पत्वाद् इति वाच्यम्, अनुक्तनिष्कृतित्वाद् एव ।
सत्यम् । किं तु अर्थवादसंकीर्तनाद् बुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलघुभावः । तथा दण्डह्रासवृद्ध्यपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ सजातीयविषये प्राजापत्यादिकम् उक्तम्, तत्र यदा चानुलोम्येन प्रातिलोम्येन वावगोरणादि क्रियते, यदा वा मूर्धवसिक्तादिभिस् तदा दण्डस्य तारतम्यदर्शनाद् एव दोषाल्पत्वमहत्त्वावगमात् प्रायश्चित्तस्यापि गुरुलघुभावः कल्पनीयः । दर्शितश् च दण्डस्य गुरुलघुभावः,
प्रातिलोम्यापवादेषु द्विगुणस् त्रिगुणो दमः । (य्ध् २.२०७)

इत्यादिना ॥ ३.२९३ ॥

एवं महापातकादिभिः पतितस्य प्रायश्चित्तम् उक्तं, यस् त्व् औद्धत्याद् एतन् न चिकीर्षति तस्य किं कार्याम् इत्य् अत आह ।

दाषीकुम्भं बहिर्ग्रामान् निनयेरन् स्वबान्धवाः । ३.२९४अब्
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ ३.२९४च्द्

जीवत एव पतितस्य ये स्वा जातयो बान्धवाः पितृमातृपक्षास् ते सर्वे संनिपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतम् अपां पूर्णं कुम्भं घटं ग्रामाद् बहिर् निर्णयेयुः । एतच् चतुर्थ्यादिरिक्तातिथिष्व् अह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम्,

पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः ।
निन्दिते ऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसंनिधौ ॥ (म्ध् ११.१८३)

इति मनुस्मरणात् । अथवा दास्य् एव सपिण्डादिप्रयुक्ता निनयेत् । यथाह मनुः ।

दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा ।
अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ॥ इति । (म्ध् ११.१८४)

प्रेतवद् इति दक्षिणामुखापसव्ययोः प्राप्त्यर्थम् । तच् च निनयनम् उदकपिण्डदानादिप्रेतक्रियोत्तरकालं द्रष्टव्यम्, “तस्य विद्यागुरुयोनिसंबन्धाश् च संनिपत्य सर्वाण्य् उदकादीनि प्रेतकर्माणि कुर्युः । पात्रं चास्य विपर्यस्येयुः । दासः कर्मकरो वावकरात् पात्रम् आनीय दासीघटात् पूरयित्वा दक्षिणाभिमुखः पदा विपर्यस्येत् “अमुम् अनुदकं करोमि” इति नामग्राहम् । तं सर्वे ऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखाः । विद्यागुरवो योनिसंबन्धाश् च वीक्षेरन्। अप उपस्पृश्य ग्रामं प्रविशेयुः” इति (ग्ध् २०.२–७) गौतमस्मरणात् । अयं च त्यागो, यदि बन्धुभिः प्रेर्यमाणो ऽपि प्रायश्चित्तं न करोति, तदा द्रष्टव्यः, “तस्य गुरोर् बान्धवानां राज्ञश् च समक्षं दोषान् अभिख्याप्यानुभाष्य पुनः पुनर् आचारं लभस्वेति, स यद्य् एवम् अप्य् अनवस्थितमतिः स्यात् ततो ऽस्य पात्रं विपर्यस्येद्” इति शङ्खस्मरणात् । ततस् तं लब्धोदकं पतितं सर्वकार्येषु संभाषणसहासनादिषु बहिः कुर्युर् वर्जयेयुः । तथा च मनुः ।

निवर्तेरंस् च तस्मात् तु सम्भाषणसहासने ।
दायाद् यस्य प्रदानं च यात्राम् एव च लौकिकीम् ॥ इति । (म्ध् ११.१८५)

यदि स्नेहादिना संभाषणं करोति तदा प्रायश्चित्तं कार्यम् । “अत ऊर्ध्वं तेन संभाष्य तिष्ठेद् एकरात्रं जपन् सावित्रीम् अज्ञानपूर्वं, ज्ञानपूर्वं चेत् त्रिरात्रं” (ग्ध् २०.८–९) इति ॥ ३.२९४ ॥

यदा तु बन्धुत्यागाद् अन्यथा वा जातवैराग्यः प्रायश्चित्तं च कृतं, तदा किं कार्यम् इत्य् अत आह ।

चरितव्रत आयाते निनयेरन् नवं घटम् । ३.२९५अब्
जुगुप्सेरन् न चाप्य् एनं संवसेयुश् च सर्वशः ॥ ३.२९५च्द्

कर्तप्रायश्चित्ते बन्धुसमीपं पुनर् आयाते तत्सपिण्डाद्यास् तेन सहिता नवं अनुपहतं घटं उदकपूर्णं निनयेयुः । एतच् च निनयनं पुण्यह्रदादिस्नानोत्तरकालं द्रष्टव्यम्,

प्रायश्चित्ते तु चरिते पूर्णं कुम्भम् अपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ (म्ध् ११.१८७)

इति मनुस्मरणात् । गौतमेन तु विशेष उक्तः- “यस् तु प्रायश्चित्तेन शुध्येत् तस्मिन् शुद्धे शातकुम्भमयं पात्रं पुण्यतमात् ह्रदात् पूरयित्वा स्रवन्तीभ्यो वा तत एनम् अप उपस्पर्शयेयुः । अथास्मै तत् पात्रं दद्युः । तत् संप्रतिगृह्य जपेत् ऽशान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं यो रोचनस् तम् इह गृह्णामिऽ इत्य् एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिः कूष्माण्डैश् चाज्यं जुहुयाद्, धिरण्यं दद्याद्, गां चाचार्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येद्, एतद् एव शान्त्युदकं सर्वेषूपपातकेषु” इति (ग्ध् २०.१०–१७) ॥ तत एनं कृतप्रायश्चित्तं ते नैव कुत्सयेयुः । तथा सर्वकार्येषु क्रयविक्रयादिषु तेन सह संव्यवहरेयुः ॥ ३.२९५ ॥

पूर्वोक्तस्य पतितपरित्यागादिविधेर् अतिदेशम् आह ।

पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः । ३.२९६अब्
वासो गृहान्तके देयम् अन्नं वासः सरक्षणम् ॥ ३.२९६च्द्

य एव पुरुषाणां परित्यागे पिण्डोदकदानविधिः कृतप्रायश्चित्तानां परिग्रहविधिश् च स एव स्त्रीणाम् अपि पतितानां वेदितव्यः । इयांस् तु विशेषः । पतिताभ्यो ऽपि ताभ्यः स्त्रीभ्यः कृतोदकादिकर्मभ्यो वासस् तृणपर्णमयं कुटीगृहकं प्रधानगृहसमीपे देयम् । तथा प्राणधारणमात्रम् अन्नं मलिनं च वस्त्रं पुनः पुरुषान्तरोपभोगनिवारणसहितं देयम् ॥ ३.२९६ ॥

ननु काः पतितास् ता यासाम् अयं परित्यागविधिर् इत्य्, अत आह ।

नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । ३.२९७अब्
विशेषपतनीयानि स्त्रीमाम् एतान्य् अपि ध्रुवम् ॥ ३.२९७च्द्

हीनवर्णगमनं गर्भपातनम् अब्राह्मण्या अपि भर्तुर् अब्राह्मणस्यापि हिंसनम् इत्य् एतानि स्त्रीणाम् असाधारणानि पतननिमित्तानि । अपिशब्दात् पुरुषस्य यानि पतननिमित्तानि महापातकातिपातकानुपपातकान्य् अभ्यस्तानि चोपपातकादीनि तान्य् अपि स्त्रीणां ध्रुवं निश्चितं पतनकारणानि भवन्ति । अत एव शौनकः- “पुरुषस्य यानि पतननिमित्तानि स्त्रीणाम् अपि तान्य् एव ब्राह्मणी हीनवर्णसेवायाम् अधिकं पतति” इति । यत् तु वसिष्ठेनोक्तम्,

त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः ।
भर्तुर् वधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥ (वध् २८.७)

इति भ्रूणहत्याग्रहणं कृतं, तत् दृष्टान्तार्थं न पुनर् इतरेषां महापातकादीनां पतनहेतुत्वनिरासार्थम् । यद् अपि तेनैव,

चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥ (वध् २१.१०)

इति चतसृणाम् एव परित्याग इत्य् उक्तं, तस्यापि तासां प्रायश्चित्तम् अचिकीर्षन्तीनां मध्ये चतसृणाम् एव शिष्यगादीनां चैलान्नगृहवासादिजीवनहेतुत्वाद्युच्छेदेन त्यागं कुर्यान् नान्यासाम् इत्य् अभिप्रायः । अतश् चान्यासां पतितानां प्रायश्चित्तम् अकुर्वतीनाम् अपि “वासो गृहान्तिके देयम्” इत्यादिकं कर्तव्यम् इत्य् अवगम्यते ॥ ३.२९७ ॥

“जुगुप्सेरन् न चाप्य् एनं संविशेयुश् च सर्वशः” इत्यस्यापवादम् आह ।

शरणागतबालस्त्रीहिंसकान् संवसेन् न तु । ३.२९८अब्
चीर्णव्रतान् अपि सतः कृतघ्नसहितान् इमान् ॥ ३.२९८च्द्

शरणागतादिव्यापादनकारिणः कृतघ्नसहितान् प्रायश्चित्तेन क्षीणदोषान् अपि न संव्यवहरेद् इति वाचनिको ऽयं प्रतिषेधः, किम् इति वचनं न कुर्यात्, न हि वचनस्यातिभारो ऽस्ति, अतश् च यद्य् अपि व्यभिचारिणीनां वधे ऽल्पीय एव प्रायश्चित्तं तथापि वाचनिको ऽयं संव्यवहारप्रतिषेधः ॥ ३.२९८ ॥

एवं प्रसङ्गेन स्त्रीषु विशेषम् अभिधाय प्रकृत एव चरितव्रतविधौ विशेषम् आह ।

घटे ऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । ३.२९९अब्
स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥ ३.२९९च्द्

घटे ऽपवर्जिते ह्रदाद् उद्धृत्य पूर्णे कुम्भे ऽवनीते ऽसौ चरितव्रतः सपिण्डादिमध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज् ज्ञातिभिः सत्क्रिया कार्या । गोभिश् च तस्य सत्कारस् तद्दत्तयवसभक्षणम् एव । यदि गावस् तद्दत्तं यवसं न गृह्णीयुस् तर्हि पुनः प्रायश्चित्तम् अनुतिष्ठेत् । यद् आह हारीतः- “स्वशिरसा यवसम् आदाय गोभ्यो दद्याद्, यदि ताः प्रतिगृह्णीयुर् अथैनं प्रवर्तयेयुः,” इतरथा नेत्य् अभिप्रेतम् ॥ ३.२९९ ॥

महापातकादिपञ्चविधे ऽपि दोषगणे प्रातिस्विकव्रतसंदोहम् अभिधायाधुना सकलव्रतसाधारणं धर्मम् आह ।

विख्यातदोषः कुर्वीत पर्षदो ऽनुमतं व्रतम् । ३.३००अब्

यो दोषो यावत् कर्तृसंपाद्यस् ततो ऽन्यैर् विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुपदिष्टं व्रतं कुर्यात् । यद्य् अपि स्वयं सकलशास्त्रार्थविचारचतुरस् तथापि पर्षत्समीपम् उपगम्य तया सह विचार्य तदनुमतम् एव कुर्यात् । तदुपगमने च अङ्गिरसा विशेष उक्तः ।

कृते निःसंशये पापे न भुञ्जीतानुपस्थितः ।
भुञ्जानो वर्धयेत् पापं यावन् नाख्याति पर्षदि ॥
सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः ।
पर्षदानुमतस् तत्त्वं सर्वं विख्यापयेन् नरः ।
व्रतम् आदाय भूयो ऽपि तथा स्नात्वा व्रतं चरेत् ॥ इति ॥

विख्यापनं च पर्षद्दक्षिणादानानन्तरं कार्यम् । यथाह पराशरः ।

पापं विख्यापयेत् पापी दत्त्वा धेनुं तथा वृषम् । इति ।

एतच् चोपपातकविषयम् । महापातकादिष्व् अधिकं कल्प्यम् । यत् तूक्तम्,

तस्माद् द्विजः प्राप्तपापः सकृद् आप्लुत्य वारिणि ।
विख्याप्य पापं पर्षद्भ्यः किंचिद् दत्त्वा व्रतं चरेत् ॥

इति, तत् प्रकीर्णकविषयम् । पर्षत्स्वरूपं च मनुना दर्शितम् ।

त्रैविद्यो हैतुकस् तर्की नैरुक्तो धर्मपाठकः ।
त्रयश् चाश्रमिणः पूर्वे पर्षद् एषा दशावरा ॥ (म्ध् १२.१११)

हैतुको मीमांसार्थादितत्त्वज्ञः । तर्की न्यायशास्त्रकुशलः । तथान्यद् अपि पर्षद्द्वयं तेनैव दर्शितम् ।

ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।
अपरा पर्षद् विज्ञेया धर्मसंशयनिर्णये ॥ इति । (म्ध् १२.११२)

तथा,

एको ऽपि वेदविद् धर्मं यं व्यवस्येत् समाहितः ।
स ज्ञेयः परमो धर्मो नाज्ञानाम् उदितो ऽयुतैः ॥ इति । (म्ध् १२.११३)

आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया वा । यत् तु स्मृत्यन्तरे ऽभिहितम्,

पातकेषु शतं पर्षत् सहस्रं महदादिषु ।
उपपापेषु पञ्चाशत् स्वल्पं स्वल्पे तथा भवेत् ॥

इति, तद् अपि महापातकादिदोषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं, न पुनः संख्यानियमार्थम्, मन्वादिमहास्मृतिविरोधप्रसङ्गात् । तथा देवलेन चात्र विशेषो दर्शितः ।

स्वयं तु ब्राह्मणा ब्रूयुर् अल्पदोषेषु निष्कृतिम् ।
राजा च ब्राह्मणाश् चैव महत्सु च परीक्षितम् ॥ इति ।

तया च पर्षदा अवश्यं व्रतम् उपदेष्टव्यम्,

आर्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥

इत्य् अङ्गिरःस्मरणात् । तया पर्षदा ज्ञात्वैव व्रतम् उपदेष्टव्यम्,

अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ।
प्रायश्चित्ती भवेत् पूतः किल्बिषं पर्षदं व्रजेत् ॥

इति वसिष्ठस्मरणात् । क्षत्रियादीनां तु कृतैनसां धर्मोपदेशे विशेषो ऽङ्गिरसा दर्शितः ।

न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतैनसः ।
अन्तरा ब्राह्मणं कृत्वा व्रतं सर्वं समादिशेत् ॥
तया शूद्रं समासाद्य सदा धर्मपुरःसरम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥ इति ।

तत्र च यागाद्यनुष्ठानशीलानां जपादिकं वाच्यम्, इतरेषां तु तपः ।

कर्मनिष्टास् तपोनिष्ठाः कदाचित् पापम् आगताः ।
जपहोमादिकं तेभ्यो विशेषेण प्रदीयते ॥
ये नामधारका विप्रा मूर्खा धनविवर्जिताः ।
कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्याद् विशेषतः ॥

**इति प्रकाशप्रायश्चित्तप्रकरणम् **

**अथ रहस्यप्रायश्चित्तम् **

व्याख्याय ख्यातदुरितशातनीं व्रतसंततिम् ।
रहःकृताघसंदोहहारिणीं व्याहरन् मुनिः ॥

तत्र प्रथमं सकलरहस्यव्रतसाधारणं धर्मम् आह ।

अनभिख्यातदोषस् तु रहस्यं व्रतम् आचरेत् ॥ ३.३००च्द्

कर्तृव्यतिरिक्तैर् अनभिख्यातो दोषो यस्यासौ रहस्यम् अप्रकाशं प्राय्श्चित्तम् अनुतिष्ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात्, तदितरैर् अविज्ञातदोषस्य रहस्यव्रतम् इति मन्तव्यम् । अत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस् तदा परस्मिन्न् अविभाव्य स्वनिमित्तोचितं प्रायश्चित्तम् अनुतिष्ठेत् । यस् तु स्वयम् अनभिज्ञो ऽसौ “केनचिद् रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तम्” इत्य् अन्यव्याजेनावगम्य, रहोव्रतम् अनुतिष्ठेत् । अत एव स्त्रीशूद्रयोर् अप्य् अमुनैव मार्गेण रहस्यव्रतज्ञानसिद्धेर् अधिकारसिद्धिः । न च वाच्यं रहस्यव्रतानां जपादिप्रधानत्वाद् अविद्ययोश् च स्त्रीशूद्रयोस् तदनुपपत्तेर् अनधिकार इति । यतो ऽनैकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम्, दानादेर् अप्य् उपदेशात्, गौतमोक्तप्राणायामादेर् अपि संभवाच् च (ग्ध् २४–२५) । इतरेषाम् अपि मन्त्रदैवतर्षिच्छन्दःपरिज्ञानमात्रम् एवाधिकारोपयोगि न त्व् अन्यविषयम् । न हि तडागनिर्माणादौ ज्योतिष्टोमादिविषयिणी प्रतिपत्तिर् उपयुज्यते । देवतादिपरिज्ञानं त्व् अवश्यम् अपेक्षणीयम्,

अविदित्वा ऋषिं छन्दो दैवतं योगम् एव च ।
यो ऽध्यापयेज् जपेद् वापि पापीयाञ् जायते तु सः ॥

इति व्यासस्मरणात् । अत्राप्य् आहारविशेषानुक्तौ पयःप्रभृतयः कालविशेषानुक्तौ संवत्सरादयः देशविशेषानुक्तौ शिलोच्चयादयो गौतमाद्यभिहिता प्रकाशप्रायश्चित्तवद् अन्वेषणीयाः ॥ ३.३०० ॥

एवं सकलरहस्यसाधारणधर्मम् अभिधाय प्रकाशप्रायश्चित्तवद् ब्रह्महत्यादिक्रमेणैव रहस्यप्रायश्चित्तान्य् आह ।

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम् । ३.३०१अब्
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥ ३.३०१च्द्

त्रिरात्रम् उपोषितो ऽन्तर्जले ऽघमर्षणेन महार्षिणा दृष्टं सूक्तं अघमर्षणम् “ऋतं च सत्यं च” इति तृचम् आनुष्टुभं भाववृत्तदेवताकं जप्त्वा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रमहा विशुध्यति । जपश् चान्तर्जले निमग्नेन त्रिर् आवर्तनीयः । यथाह सुमन्तुः- “देवद्विजगुरुहन्ताप्सु निमग्नो ऽघमर्षणं सूक्तं त्रिर् आवर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्नुषां सखीं वान्यद् वागम्यागमनं कृत्वाघमर्षणम् एवान्तर्जले त्रिर् आवर्त्य तद् एतस्मात् पूतो भवति” इति । एतच् चाकामकारविषयम् । यत् तु मनुनोक्तम्,

सव्याहृतिप्रणवकाः प्राणायामास् तु षोडश ।
अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ॥ (म्ध् ११.२४९)

इति, तद् अप्य् अस्मिन्न् एव विषये गोदानाशक्तस्य वेदितव्यम् । यत् तु गौतमेन षट्त्रिंशद्रात्रव्रतम् उक्त्वोक्तं “तद्व्रत एव ब्रह्महत्यासुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातो ऽघमर्षणं जपेत्” (ग्ध् २४.१०) इति, तद् अकामतः सकृद्वधविषयम् । यत् तु बौधायनेनोक्तम् । “ग्रामात् प्राचीं वोदीचीं दिशम् उपनिष्क्रम्य स्नातः शुचिः शुचिवासा उदकान्ते स्थण्डिलम् उपलिप्य सकृत्क्लिन्नवासाः गोशकृत्पूतेन पाणिनादित्याभिमुखो ऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतम् अपराह्णे शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्यो ऽज्ञानकृतेभ्यश् चोपपातकेभ्यः सप्तरात्रात् प्रमुच्यते द्वादशरात्रान् महापातकेभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्य् अपि तरति” (ब्ध् ३.९.४; ३.५.३–६) इति, तत् कामकारविषयम् अकामतः श्रोत्रियाचार्यसवनस्थवधविषयं वा । यत् तु मनुनोक्तम्,

अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् ।
मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ॥ (म्ध् ११.२५९)

इति, तत् कामतः श्रोत्रियादिवधविषयम् इतरत्र कामतो ऽभ्यासविषयं वा । यत् तु बृहद्विष्णुनोक्तम्- “ब्रह्महत्यां कृत्वा ग्रामात् प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य प्रभूतेन्धनेनाग्निं प्रज्वाल्याघमर्षणेनाष्टसहस्रम् आज्याहुतीर् जुहुयात्, तत एतस्मात् पूतो भवति” इति, तन् निर्गुणवधविषयम् अनुग्राहकविषयं वा । यत् तु यमेनोक्तम्,

त्र्यहं तूपवसेद् युक्तस् त्रिरह्नो ऽभ्युपयन्न् अपः ।
मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ॥

इति, तद् गुणवतो हन्तुर् निर्गुणवधविषयं प्रयोजकानुमन्तृविषयं वा । यत् तु हारीतेनोक्तम्, “महापातकातिपातकानुपपातकोपपातकानाम् एकतमम् एव संनिपाते चाघमर्षणम् एव त्रिर् जपेत्” इति, तन् निमित्तकर्तृविषयम् । एवम् अन्यान्य् अपि स्मृतिवाक्यान्य् अन्विष्यैवम् एव विषयेषु विभजनीयानि, ग्रन्थगौरवभयान् न लिख्यन्ते । एतद् एव व्रतजातं यागस्थयोषित्क्षत्रविट्स्व् आत्रेय्याम् आहिताग्निपत्न्यां गर्भिण्याम् अविज्ञाते च गर्भे व्यापादिते तुरीयांशन्य् ऊनम् अनुष्ठेयम् ॥ ३.३०१ ॥

प्रायश्चित्तान्तरम् आह ।

लोमभ्यः स्वाहेत्य् अथ वा दिवसं मारुताशनः । ३.३०२अब्
जले स्थित्वाभिजुहुयाच् चत्वारिंशद् घृताहुतीः ॥ ३.३०२च्द्

अथ वाहोरात्रम् उपोषितो रात्राव् उदके वासं कृत्वा प्रातर् जलाद् उत्तीर्य लोमभ्यः स्वाहेत्याद्यैर् अष्टभिर् मन्त्रैर् एकेन पञ्चपञ्चाहुतय इत्य् एवं चत्वारिंशद्घृताहुतीर् जुहुयात् । इदं च पूर्वोक्तसमानविषयम्, उदवासस्य क्लेशबाहुल्यात् ॥ ३.३०२ ॥

क्रमप्राप्तं सुरापानप्रायश्चित्तम् आह ।

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर् घृतं शुचिः । ३.३०३अब्

सुरापश् चत्वारिंशद् घृताहुतीर् इत्य् अनुवर्तते । त्रिरात्रम् उपोषितः कूष्माण्डीभिः “यद् देवादेवहेऌअनम्” इत्याद्याभिः कूष्माण्डदृष्टाभिर् अनुष्टुब्भिर् मन्त्रलिङ्गदेवताभिर् ऋग्भिश् चत्वारिंशद्घृताहुतीर् हुत्वा शुचिर् भवेत् । तथा बौधायनेनाप्युक्तम्- “अथ कूष्माण्डीभिर् जुहुयाद् यो ऽपूत एवात्मानं मन्येत यावद् अर्वाचीनम् एनो भ्रूणहत्यायास् तस्मान् मुच्यते । अयोनौ वा रेतः सिक्त्वान्यत्र स्वप्नात्” इति (ब्ध् ३.१–४) । यत् तु मनुना,

कौत्सं जप्त्वाप इत्य् एतद् वसिष्ठं च प्रतीत्य् ऋचम् ।
माहित्रं शुद्धवत्यश् च सुरापो ऽपि विशुध्यति ॥ (म्ध् ११.२५०)

इति, मासं प्रत्यहं षोडशकृत्वो ऽपनःशोशुचद् अघं प्रतिस्तोमेभि रुषसं वासिष्ठम् । महित्रीणाम् अवोस्त्वेतोन्विन्द्रंस्तवामेत्य् एतेषाम् अन्यतमस्य जप उक्तः, स त्रिरात्रोपवासकूष्माण्डहोमाशक्तस्य वेदितव्यः । एताच् चाकामतः पैष्ट्याः सकृत्पाने, गौडीमाध्व्योस् तु पानावृत्तौ च वेदितव्यम् । यच् च मनुना,

मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः ।
स गुर्व् अप्य् अपहन्त्य् एनो जप्त्वा नम इत्य् ऋचम् ॥ (म्ध् ११.२५७)

इति, संवत्सरं प्रत्यहं “देवकृतस्यैनसः” इत्यादिभिर् अष्टभिर् मन्त्रैर् होमो “नम इद् उग्रं नम आविवासे” इत्य् एतस्या ऋचो वा जप उक्तः, स कामकारविषयः । यत् तु,

महापातकसंयुक्तो ऽनुगच्छेद् गाः समाहितः ।
अभ्यस्याब्दं पावमानीर् भैक्षाहारो विशुध्यति ॥

इति, तद् अभ्यासविषयम् समुच्चितमहापातकविषयं वा ॥

सुवर्णस्तेयप्रायश्चित्तम् आह ।

ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥ ३.३०३च्द्

ब्राह्मणस्वर्णहारी पुनस् त्रिरात्रोपोषितः जलमध्यस्थो “नमस् ते रुद्र मन्यव” इति शतरुद्रियजपयुक्तः शुध्यतीति । शातातपेनात्र विशेष उक्तः ।

मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्माच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥ इति

जपश् चैकादशकृत्वः कार्यः,

एकादशगुणान् वापि रुद्रान् आवर्त्य धर्मवित् ।
महापापैर् अपि स्पृष्टो मुच्यते नात्र संशयः ॥

इत्य् अत्रिस्मरणात् । यत् तु मनुना,

सकृज् जप्त्वास्यवामीयं शिवसंकल्पम् एव च ।
सुवर्णं अपहृत्यापि क्षणाद् भवति निर्मलः ॥ (म्ध् ११.२५१)

इति द्विपञ्चाशदृक्संख्याकस्य “अस्य वामस्य् अपलितस्य होतुः” (र्व् १.१६४.१) इति सूक्तस्य तथा “यज् जाग्रतो दूरम् उदैतु दैवम्” (व्स् ३४.१) इति शिवससंकल्पदृष्टस्य षडृचस्य वा सकृज्जप उक्तः, सो ऽत्यन्तनिर्गुणस्वामिकस्वर्णहरणे गुणवतो ऽपहर्तुर् द्रष्टव्यः । सुवर्णन्यूनपरिमाणविषयो ऽनुग्राहकप्रयोजकविषयो वा । आवृत्तौ तु “महापातकसंयुक्तो ऽनुगच्छेत्” इत्यादिनोक्तं द्रष्टव्यम् ॥ ३.३०३ ॥

क्रमप्राप्तं गुरुतल्पगप्रायश्चित्तम् आह ।

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः । ३.३०४अब्
गौर् देया कर्मणो ऽस्यान्ते पृथग् एभिः पयस्विनी ॥ ३.३०४च्द्

गुरुतल्पगस् तु सहस्रशीर्षेति षोडशर्चसूक्तं नारायणदृष्टं पुरुषदैवत्यम् आनुष्टुभं त्रिष्टुबन्तं जपंस् तस्मात् पापान् मुच्यते । सहस्रशीर्षाजापीति ताच्छील्यप्रत्ययाद् आवृत्तिर् गम्यते । अत एव यमेनोक्तम् ।

पौरुषं सूक्तम् आवर्त्य मुच्यते सर्वकिल्बिषात् । इति ।

आवृत्तौ च संख्यापेक्षायाम् अधस्तनश्लोकगता चत्वारिंशत्संख्यानुमीयते । अत्रापि प्राक्तनश्लोकगतं त्रिरात्रोपोषित इति संबन्ध्यते । अत एव बृहद्विष्णुः- “त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः शुध्येत्” इति । एभिश् च सुरापसुवर्णस्तेनगुरुतल्पगैस् त्रिभिः पृथक् पृथग् अस्य त्रिरात्रव्रतस्यान्ते बहुक्षीरा गौर् देया । इदम् अकामविषयम् । यत् तु मनुना,

हविष्यान्तीयम् अभ्यस्य न तमं ह इतीति च ।
जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ (म्ध् ११.२५२)

इति । “हविष् पान्तम् अजरं स्वर्विदं,” (र्व् १०.८८.१) “न तम् अंहो न दुरितं,” (र्व् २.२३.५) “इति वा इति मे मनः,” (र्व् १०.११९.१) “सहस्रशीर्षा” (र्व् १०.९०.१) इत्य् एषाम् अन्यतमस्य मासं प्रत्यहं षोडशषोडशकृत्वो जप उक्तः, सो ऽप्य् अकामविषय एव । कामतस् तु “मन्त्रैः शाकलहोमीयैः” (म्ध् ११.२५७) इति मनूक्तं द्रष्टव्यम् । यत् तु षट्त्रिंशन्मते ऽभिहितम्,

महाव्याहृतिभिर् होमस् तिलैः कार्यो द्विजन्मना ।
उपपातकशुद्ध्यर्थं सहस्रपरिसंख्यया ॥
महापातकसंयुक्तो लक्षहोमेन शुध्यति ॥

इति, तद् आवृत्तिविषयम् । यत् तु यमेनोक्तम्,

जपेद् वाप्य् अस्यवामीयं पावमानीर् अथापि वा ।
कुन्तापं वालखिल्यांश् च निवित्प्रैषान् वृषाकपिम् ॥
होतॄन् रुद्रान् सकृज् जप्त्वा मुच्यते सर्वपातकैः ॥

इति, तद् व्यभिचारिणीगमनविषयम् । यानि पुनः गुरुतल्पातिदेशविषयाणि तत्समानि वातिपातकोपपातकपदाभिधेयानि तेषु तुरीयांशन्यूनम् अर्धोनं च क्रमेण वेदितव्यम् । “पातकातिपातकोपपातकमहापातकानाम् एकतमे संनिपाते वा अघमर्षणम् एव त्रिर् जपेद्” इति हारीतोक्तं वा द्रष्टव्यम् । महापातकसंसर्गिणश् च “स तस्यैव व्रतं कुर्याद्” (म्ध् ११.१८२) इति वचनाद्, येन सह संसर्गस् तदीयम् एव प्रायश्चित्तम् । न च वाच्यं अत्राध्यापनादिसंसर्गस्यानेककर्तृकसंपाद्यत्वाद् रहस्यत्वानुपपत्तिर् इति । यतः सत्य् अप्य् अनेककर्तृत्वे परदारगमनवत् कर्तृव्यतिरिक्ततृतीयाद्यपरिज्ञानमात्रेणैव रहस्यत्वम् । अतो भवत्य् एव रहस्यप्रायश्चित्तम् । एवम् अतिपातक्यादिसंसार्गिणो ऽपि तदीयम् एव प्रायश्चित्तं वेदितव्यम् ॥ ३.३०४ ॥

इति महापातकरहस्यप्रायश्चित्तप्रकरणम् ।

क्रमप्राप्तं गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तम् आह ।

प्राणायामशतं कार्यं सर्वपापापनुत्तये । ३.३०५अब्
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ ३.३०५च्द्

गोवधादिषट्पञ्चाशदुपपातकजातानाम् अनादिष्टरहस्यव्रतानां च जातिभ्रंशकरादीनां सर्वेषाम् अपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषां महापातकादीनां प्रकीर्णकान्तानाम् अप्य् अपनुत्तये प्राणायामाः कार्याः । तत्र च महापातकेषु चतुःशतम्, अतिपातकेषु त्रिशतम्, अनुपातकेषु द्विशतम् इति संक्याविवृद्धिः कल्पनीया । प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधानदर्शनात्, प्रकीर्णकेषु च ह्रासः कल्प्यः । अत एवोक्तं यमेन ।

दशप्रणवसंयुक्तैः प्राणायामैश् चतुःशतैः ।
मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥ इति ।

बौधायनेनाप्यत्र विशेष उक्तः- “अपि वाक्चक्षुःश्रोत्रत्वक्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैह् शुध्यति । शूद्रस्त्रीगमनान्नभोजनेषु पृथक् पृथक् सप्ताहं सप्त प्रानायामान् धारयेत् । अभक्ष्याभोज्यामेध्यप्राशनेषु तथा वापण्यविक्रयेषु मधुमांसघृततैललाक्षालवणरसान्नवर्जितेषु यच् चान्यद् अप्य् एवंयुक्तं स्याद् अर्धमासं द्वादशद्वादश प्राणायामान् धारयेत् । उपपातकपतनीयवर्जं यच् चाप्य् अन्यद् एवंयुक्तं स्यान् मासं द्वादशार्धमासान् द्वादशद्वादश प्राणायामान् धारयेत् । अन्यपातकवर्ज्यं यच् चान्यद् अप्य् एवंयुक्तं द्वादश अर्धमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान् धारयेत्” इति (ब्ध् ४.१.४–१०) । तत्र “वाक्चक्षुर्” इत्यादिप्राणायामत्रयं प्रकीर्णकाभिप्रायम् । शूद्रस्त्रीगमनान्नभोजनेत्यादिनोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा अभक्ष्याभोज्येत्यादिनोक्ताश् चतुश्चत्वारिंशदधिकशतप्राणायामा अप्य् उपपातकविशेषाभिप्राया एव । “अथ पातकोपपातकवर्ज्यम्” इत्यादिनोक्ताः साशीतिशतप्राणायामा जातिभ्रंशकराद्यभिप्रायाः । “अथ पातकपतनीयवर्ज्यम्” इत्यादिनोक्ताः षष्ट्यधिकशतत्रयप्राणायामाः गोवधाद्युपपातकाभिप्रायाः । “अथ पातकवर्ज्यम्” इत्यादिनोक्ताः षष्ट्यधिकद्विशतसहितद्विसहस्रसंख्याकाः प्राणायामा अतिपातकानुपपातकाभिप्रायाः । “अथ पातकेषु” इत्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश् चतुःसहस्रप्राणायामा महापातकविषयाः । इदं चाभक्ष्यभोज्येत्यादिनोक्तं प्रायश्चित्तपञ्चकम् अत्यन्ताभ्यासविषयं समुच्चितविषयं वा । यत् तु मनुना,

एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम् ।
अवेत्यृचं जपेद् अब्दं यत् किंचेदमितीति वा ॥ (म्ध् ११.२५३)

इत्य् अब्दं यावत् प्रत्यहम् अर्थान्तराविरुद्धेषु कालेषु “अवतेहेडोवरुण” इत्य् अस्या ऋचो “यत् किंचेदम्” इत्य् अस्याः “इति वा इतिमेमनः” इत्य् अस्याश् च जप उक्तः, सो ऽप्य् अभ्यासविषयः ॥ ३.३०५ ॥

उपपातकसामान्यप्राप्तस्य प्राणायामशतस्यापवादम् आह ।

ॐकाराभिष्टुतं सोमसलिलं पावनं पिबेत् । ३.३०६अब्
कृत्वा हि रेतोविण्मूत्रप्राशनं तु द्विजोत्तमः ॥ ३.३०६च्द्

द्विजो रेतोविण्मूत्रप्राशनं कृत्वा सोमलतारसम् ओङ्कारेणाभिमन्त्रितं शुद्धिसाधनं पिबेत् । एतच् चाकामकारविषयम् । कामतस् तु सुमन्तूक्तम्- “रेतोविण्मूत्रप्राशनं कृत्वा, लशुनपलाण्डुगृञ्जनकुम्भिकादीनाम् अन्येषां चाभक्ष्याणां भक्षणं कृत्वा, हंसग्रामकुक्कुटश्वसृगालादिमांसभक्षणं च कृत्वा, ततः कण्ठमात्रम् उदकम् अवतीर्य शुद्धवतीभिः प्राणायामं कृत्वा महाव्याहृतिभिर् उरोगम् उदकं पीत्वा तद् एतस्मात् पूतो भवति” इति । मनुनापि सप्तविधाभक्ष्यभक्षणे प्रायश्चित्तान्तरम् उक्तम् ।

प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ॥ इति । (म्ध् ११.२५४)

अप्रतिग्राह्यं विषशस्त्रसुरादि पतितादिद्रव्यं च । यदा त्व् अप्सु रेतोविण्मूत्रादिशारीरं मलं विसृजति तदापि तेनैवोक्तम् ।

अप्रशस्तं तु कृत्वाप्सु मासम् आसीत भैक्ष्यभुक् । इति ॥ (म्ध् ११.२५६) ३.३०६ ॥

अज्ञानकृते प्रकीर्णके मानसे चोपपातके प्रायश्चित्तम् आह ।

निशायां वा दिवा वापि यद् अज्ञानकृतं भवेत् । ३.३०७अब्
त्रैकाल्यसंध्याकरणात् तत् सर्वं विप्रणश्यति ॥ ३.३०७च्द्

रजन्यां वासरे वा यत् प्रमादकृतं प्रकीर्णकं मानसं वाचिकं चोपपातकं तत् सर्वं प्रातर्मध्याह्नादिकालत्रयविहितनित्यसंध्योपासनया प्रणश्यति । तथा च यमः ।

यद् अह्नात् कुरुते पापं कर्मणा मनसा गिरा ।
आसीनः पश्चिमां संध्यां प्राणायामैर् निहन्ति तत् ॥ इति ।

शातातपेनाप्य् उक्तम् ।

अनृतं मद्यगन्धं च दिवा मैथुनम् एव च ।
पुनाति वृषलान्नं च संध्या बहिर् उपासिता ॥ इति ॥ ३.३०७ ॥

अथ सकलमहापातकादिसाधारणान् पवित्रमन्त्रान् आह ।

शुक्रियारण्यकजपो गायत्र्याश् च विशेषतः । ३.३०८अब्
सर्वपापहरा ह्य् एते रुद्रैकादशिनी तथा ॥ ३.३०८च्द्

“शुक्रियं” नाम आरण्यकविशेषः “विश्वानि देव सवितः” (व्स् ३०.३) इत्यादि वाजसनेयके पठ्यते, आरण्यकं च यजुः “ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये” इत्यादि तत्रैव पठ्यते, तयोर् जपः सकलमहापातकादिहरः । तथा गायत्र्याश् च महापातकेषु लक्षम् अतिपातकोपपातकयोर् दशसहस्रम् उपपातकेषु सहस्रं प्रकीर्णकेषु शतम् इत्य् एवं विशेषतो जपः सर्वपापहरः । तथा च गायत्रीम् अधिकृत्य श्लोकः शङ्खेनोक्तः ।

शतं जप्ता तु सावित्री महापातकनाशिनी ।
सहस्रजप्ता तु तथा पातकेभ्यः प्रमोचिनी ॥
दशसाहस्रजाप्येन सर्वकिल्बिषनाशिनी ।
लक्षं जप्ता तु सा देवी महापातकनाशिनी ॥
सुवर्णस्तेयकृद् विप्रो ब्रह्महा गुरुतल्पगः ।
सुरापश् च विशुध्यन्ति लक्षं जप्त्वा न संशयः ॥ इति ।

यत् तु चतुर्विंशतिमते उक्तम्,

गायत्र्यास् तु जपन् कोटिं ब्रह्महत्यां व्यपोहति ।
लक्षाशीतिं जपेद् यस् तु सुरापानाद् विमुच्यते ॥
पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः ।
गायत्र्या लक्षषष्ट्या तु मुच्यते गुरुतल्पगः ॥

इति, तद् गुरुत्वात् प्रकाशविषयम् । तथा रुद्रैकादशिनी एकादशानां रुद्रानुवाकानां समाहारो रुद्रैकादशिनी । सा च विशेषतो जप्ता सर्वपापहरा ।

एकादशगुणान् वापि रुद्रान् आवर्त्य धर्मवित् ।
महद्भ्यः स तु पापेभ्यो मुच्यते नात्र संशयः ॥

इति महापातकेष्व् एकादशगुणावृत्तिदर्शनात्, अतिपातकादिषु चतुर्थचतुर्थांशह्रासो योजनीयः । चशब्दो ऽघमर्षणादिसमुच्चयार्थः । यथाह वसिष्ठः ।

सर्ववेदपवित्राणि वक्ष्याम्य् अहम् अतः परम् ।
येषां जपैश् च होमैश् च पूयन्ते नात्र संशयः ॥
अघमर्षणं देवकृतं शुद्धवत्यस् तरत्समाः ।
कूष्माण्ड्यः पावमान्यश् च दुर्गासावित्र्य् अथैव च ॥
अभीषङ्गाः पदस्तोमाः सामानि व्याहृतीस् तथा ।
भारदण्डानि सामानि गायत्रं रैवतं तथा ॥
पुरुषव्रतं च भासं च तथा देवव्रतानि च ।
आर्त्विगं बार्हस्पत्यं च वाक्सूक्तं मध्वृचस् तथा ॥
शतरुद्रियाथर्वशिरास् त्रिसुपर्णं महाव्रतम् ।
गोसूक्तं चाश्वसूक्तं च इन्द्रशुद्धे च सामनी ॥
त्रीण्य् आज्यदोहानि रथन्तरं च
अग्नेर् व्रतं वामदेव्यं बृहच् च ।
एतानि गीतानि पुनन्ति जन्तूञ्
जातिस्मरत्वं लभते यदीच्छेत् ॥ इति ॥ (वध् २८.१०–१५) ३.३०८ ॥

किं च ।

यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः । ३.३०९अब्
तत्र तत्र तिलैर् होमो गायत्र्या वाचनं तथा ॥ ३.३०९च्द्

यत्र यत्र च ब्रह्मवधादौ तज्जनितकल्मषजातेनात्मानं संकीर्णम् अभिभूतं द्विजो मन्यते, तत्र तत्र गायत्र्या तिलैर् होमः कार्यः । तत्र महापातकेषु लक्षसंख्यया होमः कार्यः,

गायत्र्या लक्षहोमेन मुच्यते सर्वपातकैः ।

इति यमस्मरणात् । अतिपातकादिषु पादपादह्रासः कल्पनीयः । तथा तिलैर् वाचनं दानं कार्यम् । तथा च रहस्याधिकारे वसिष्ठः ।

वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
क्षौद्रयुक्तैस् तिलैः कृष्णैर् वाचयेद् अथ वेतरैः ॥
प्रीयतां धर्मराजेति यद् वा मनसि वर्तते ।
यावज्जीवकृतं पापं तत् क्षणाद् एव नश्यति ॥ इति । (वध् २८.१८–१९)

तथा अनियतकाले ऽपि दानं तेनैवोक्तम् ।

कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस् तु विप्राय सर्वं तरति दुष्कृतम् ॥ इति । (वध् २८.२२)

तथा व्यासेनाप्युक्तम् ।

तिलधेनुं च यो दद्यात् संयतात्मा द्विजन्मने ।
ब्रह्महत्यादिभिः पापैर् मुच्यते नात्र संशयः ॥ इति ।

एवमादि दानजातं रहस्यकाण्डोक्तम् अविदुषां द्विजानां स्त्रीशूद्रयोश् च वेदितव्यम् । यत् तु यमेनोक्तम्,

तिलान् ददाति यः प्रातस् तिलान्स् पृशति खादति ।
तिलस्नायी तिलाञ् जुह्वन् सर्वं तरति दुष्कृतम् ॥

तथा,

द्वे चाष्टम्यौ तु मासस्य चतुर्दश्यौ तथैव च ।
अमावास्या पौर्णमासी सप्तमी द्वादशीद्वयम् ॥
संवत्सरम् अभुञ्जानः सततं विजितेन्द्रियः ।
मुच्यते पातकैः सर्वैः स्वर्गलोकं च गच्छति ॥

इति । यच् च अत्रिणोक्तम्,

क्षीराब्धौ शेषपर्यङ्के त्व् आषाढ्यां संविशेद् धरिः ।
निद्रां त्यजति कार्तिक्यां तयोः संपूजयेद् धरिम् ॥
ब्रह्महत्यादिकं पापं क्षिप्रम् एव व्यपोहति ॥

इत्य् एवमादि, तत् सर्वं विद्याविरहिणां कामाकामसकृदसकृदभ्यासविषयतया व्यवस्थापनीयम् ॥ ३.३०९ ॥

किं च ।

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् । ३.३१०अब्
न स्पृशन्तीह पापानि महापातकजान्य् अपि ॥ ३.३१०च्द्
वेदस्वीकरणं पूर्वं विचारो ऽभ्यसनं जपः ।
तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥

इत्युक्तक्रमेण वेदाभ्यासनिरतं तितिक्षायुक्तं पञ्चमहायज्ञानुष्ठाननिरतं महापातकजान्य् अपि पापानि न स्पृशन्ति । किम् उत प्रकीर्णकजानि वाङ्मनसजन्योपपातकानि चेत्य् अत्र तात्पर्यम् अपिशब्दाल् लक्ष्यते । एतच् चाकामकारविषयम् । अत एव वसिष्ठेन,

यद्य् अकार्यशतं साग्रं कृतं वेदश् च धार्यते ।
सर्वं तत् तस्य वेदाग्निर् दहत्य् अग्निर् इवेन्धनम् ॥ (वध् २७.१)

इति प्रकीर्णकाद्यभिप्रायेणाभिधाय, अभिहितम्,

न वेदबलम् आश्रित्य पापकर्मरतिर् भवेत् ।
अज्ञानाच् च प्रमादाच् च दह्यते कर्म नेतरत् ॥ इति ॥ (वध् २७.४) ३.३१० ॥

किं च ।

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् । ३.३११अब्
जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाद् ऋते ॥ ३.३११च्द्

सोपवसो वासरम् उपविशन् उषित्वा सलिले वसन् निशां नीत्वादित्योदयानन्तरं सावित्र्याः सहस्रं जप्त्वा ब्रह्मवधव्यतिरिक्तसकलमहापातकादिपापजातान् मुच्यते । अतश् चोपपातकादिष्व् अभ्यासे ऽनेकदोषसमुच्चये वा वेदितव्यम्, विषमविषयसमीकरणस्यान्याय्यत्वात् । अत एव वृद्धवसिष्ठेन महापातकोपपाकतयोः कालविशेषेण व्रतविशेष उक्तः । यथाह, “यवानां प्रसृतिम् अञ्जलिं वा श्रप्यमाणं शृतं वाभिमन्त्रयेत् ऽयवो ऽसि धान्यराजस् त्वं वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रम् ऋषिभिः स्मृतम्ऽ इत्य् अनेन । ऽघृतं यवा मधुयवाः पवित्रम् अमृतं यवाः । सर्वं पुनन्तु मे पापं वाङ्मनःकायसंभवम्ऽ इत्य् अनेन वा ।”

अग्निकार्यं तु कुर्वीत तेन भूतमलिं तथा ।
नाग्रं न भिक्षां नातिथ्यं न चोच्छिष्टं परित्यजेत् ॥

ऽये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहाऽ इत्य् आत्मनि जुहुयात् त्रिरात्रं मेधाभिवृद्धये पापक्षयाय त्रिरात्रं ब्रह्महत्यादिषु द्वादशरात्रं पतितोत्पन्नश् च” । इत्य् एतद्दिगवलम्बनेनान्यान्य् अपि स्मृतिवचनानि विवेचनीयानि ॥ ३.३११ ॥

इति रहस्यप्रायश्चित्तप्रकरणम् ।

विनियुक्तव्रतव्रातरूपभेदे बुभुत्सिते ।
कीदृक्षम् इति संक्षेपाल् लक्षणं वक्ष्यते ऽधुना ॥

_तत्र तावत् सकलप्रकाशरहस्यव्रताङ्गभूतान् धर्मान् आह _।

ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता । ३.३१२अब्
अहिंसास्तेयमाधुर्ये दमश् चेति यमाः स्मृताः ॥ ३.३१२च्द्
स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । ३.३१३अब्
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ ३.३१३च्द्

ब्रह्मचर्यं सकलेन्द्रियसंयमः । उपस्थनिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन निर्दिष्टः । अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत् पुनर् मनुनोक्तम्,

अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् । (म्ध् ११.२२३)

इति, तद् अप्य् एतेषाम् उपलक्षणं न परिगणनाय । अत्र च दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानाम् अपि पुनर्विधानं प्रायश्चित्ताङ्गत्वार्थम् । क्वचिद् विशेषो ऽप्य् अस्ति । यथा विवाहादिष्व् अभ्यनुज्ञातस्याप्य् अनृतवचनस्य निवृत्त्यर्थं सत्यत्वविधानम् । पुत्रशिष्यादिकम् अपि न ताडनीयम् इत्येवमर्थम् अहिंसाविधानम् इत्येवमादि ॥ ३.३१२ ॥ ३.३१३ ॥

तत्र सान्तपनाख्यं व्रतं तावद् आह ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । ३.३१४अब्
जग्ध्वा परे ऽह्न्य् उपवसेत् कृच्छ्रं सांतपनं चरन् ॥ ३.३१४च्द्

पूर्वेद्युर् आहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युर् उपवसेद् इति द्वैरात्रिकः सान्तपनः कृच्छ्रः । संयोजनं चोत्तरश्लोके पृथग्विधानाद् अवगम्यते । कृच्छ्र इति चान्वर्थसंज्ञेयम्, तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वेद्युर् उपोष्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकम् एव पञ्चगव्यं पीयते तदा ब्रह्मकूर्च इत्य् आख्यायते । यथाह पाराशरः ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥
गोमूत्रं ताम्रवर्णायाः श्वेतायाश् चापि गोमयम् ।
पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥
घृतं च कृष्णवर्णायाः सर्वं कापिलम् एव च ।
अलाभे सर्ववर्णानां पञ्चगव्येष्व् अयं विधिः ॥
गोमूत्रं माषकास् त्व् अष्टौ गोमयस्य तु षोडश ।
क्षीरस्य द्वादश प्रोक्ता दध्नस् तु दश कीर्तिताः ॥
गोमूत्रवद् घृतस्येष्टस् तदर्धं तु कुशोदकम् ।
गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
तेजो ऽसि शुक्रम् इत्य् आज्यं देवस्यत्वा कुशोदकम् ।
पञ्चगव्यम् ऋचा पूतं होमयेद् अग्निसंनिधौ ॥
सप्तपत्राश् च ये दर्भा अच्छिन्नाग्राः शुचित्विषः ।
एतैर् उद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥
इरावती इदं विष्णुर् मानस्तोके च शंवतीः ।
एताभिश् चैव होतव्यं हुतशेषं पिबेद् द्विजः ॥
प्रणवेन समालोड्य प्रणवेनाभिमन्त्र्य च ।
प्रणवेन समुद्धृत्य पिबेत् तत् प्रणवेन तु ॥
मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् ।
स्वर्णपात्रेण रौप्येण ब्राह्मतीर्थेन वा पुनः ॥
यत् त्वगस्थिगतं पापं देहे तिष्ठति मानवे ।
ब्रह्मकूर्चोपवासस् तु दहत्य् अग्निर् इवेन्धनम् ॥ इति ।

यदा त्व् एतद् एव मिश्रितं पञ्चगव्यं त्रिरात्रम् अभ्यस्यते तदा यतिसान्तपनसंज्ञा लभते,

एतद् एव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम् ।

इति शङ्खस्मरणात् । जाबालेन तु सप्ताहसाध्यं सान्तपनम् उक्तम् ।

गोमूत्रं गोम्यं क्षीरं दधि सर्पिः कुशोदकम् ।
एकैकं प्रत्यहं पीत्वा त्व् अहोरात्रम् अभोजनम् ।
कृच्छ्रं सान्तपनं नाम सर्वपापप्रणाशनम् ॥ इति ।

एषां च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवम् उत्तरत्रापि व्यवस्था बोद्धव्या ॥ ३.३१४ ॥

महासान्तपनाख्यं कृच्छ्रम् आह ।

पृथक्सांतपनद्रव्यैः षडहः सोपवासकः । ३.३१५अब्
सप्ताहेन तु कृच्छ्रो ऽयं महासांतपनः स्मृतः ॥ ३.३१५च्द्

सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः । कथम् इत्य् अपेक्षायाम् उक्तं पृथग्भूतैः षड्भिर् गोमूत्रादिभिर् एकैकेनैकैकम् अहर् अतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाहसंपाद्यो महासान्तपनो ऽभिहितः ।

त्र्यहं पिबेत् तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् ।
त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं ँँसर्पितस्तःँँ शुचिः ॥
महासान्तपनं ह्य् एतत् सर्वपापप्रणाशनम् ॥ इति ।

जाबालेन त्व् एकविंशतिरात्रिनिर्वर्त्यो महासान्तपन उक्तः ।

षण्णाम् एकैकम् एतेषां त्रिरात्रम् उपयोजयेत् ।
त्र्यहं चोपवसेद् अन्त्यं महासान्तपनं विदुः ॥ इति ।

यदा तु षण्णां सान्तपनद्रव्याणाम् एकैकस्य द्व्यहम् उपयोगस् तदा अतिसान्तपनम् । यथाह यमः ।

एतान्य् एव तथा पेयान्य् एकैकं तु द्व्यहं द्व्यहम् ।
अतिसान्तपनं नाम श्वपाकम् अपि शोधयेत् ॥ इति ।

श्वपाकम् अपि शोधयेद् इत्य् अर्थवादः ॥ ३.३१५ ॥

इति महासांतपनातिसांतपने

पर्णकृच्छ्राख्यं व्रतम् आह ।

पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः । ३.३१६अब्
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ ३.३१६च्द्

पलाशोदुम्बरारविन्दश्रीवृक्षपर्णानाम् एकैकेन क्वथितम् उदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्न् अहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनाम् एकीकृतानां क्वाथस् त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः ।

एतान्य् एव समस्तानि त्रिरात्रोपोषितः शुचिः ।
क्वाथयित्वा पिबेद् अद्भिः पर्णकूर्चो ऽभिधीयते ॥ इति ।

यदा तु बिल्वादिफलानि प्रत्येकं क्वथितानि मासं पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः ।

फलैर् मासेन क्वथितः फलकृच्छ्रो मनीषिभिः ।
श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैर् अपरस् तथा ॥
मसेनामलकैर् एवं श्रीकृच्छ्रम् अपरं स्मृतम् ।
पत्रैर् मतः पत्रकृच्छ्रः पुष्पैस् तत्कृच्छ्र उच्यते ॥
मूलकृच्छ्रः स्मृतो मूलैस् तोयकृच्छ्रो जलेन तु ॥ इति ॥ ३.३१६ ॥

इति पर्णकृच्छ्र एकादशविधः

तप्तकृच्छ्रम् आह ।

तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत् । ३.३१७अब्
एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः ॥ ३.३१७च्द्

दुग्धसर्पिरुदकानां तप्तानाम् एकैकं प्रतिदिवसं प्राश्यापरेद्युर् उपवसेत् । एष दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिर् एव समस्तैः सोपवासैर् द्विरात्रसंपाद्यः सान्तपनवत् तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वर्त्यो ऽभिहितः ।

तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।
प्रतित्र्यहं पिबेद् उष्णान् सकृत् स्नायी समाहितः ॥ इति । (म्ध् ११.२१५)

क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् ।

अपां पिबेत्तु त्रिपलं द्विपलं तु पयः पिबेत् ।
पलम् एकं पिबेत् सर्पिस् त्रिरात्रं चोष्णमारुतम् ॥ इति ।

त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेद् इत्य् अर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः,

त्र्यहं शीतं पिबेत् तोयं त्र्यहं शीतं पयः पिबेत् ।
त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥

इति यमस्मरणात् ॥ ३.३१७ ॥

इति तप्तकृच्छ्रश् चतुर्विधः

पादकृच्छ्रम् आह ।

एकभक्तेन नक्तेन तथैवायाचितेन च । ३.३१८अब्
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ ३.३१८च्द्

एकभक्तेन सकृद्भोजनेन दिवैव, नक्तेनेति पृथगुपादानात् । अतश् च दिवैवैकवारम् एव भोजनेनैवैकम होरात्रम् अतिवाहयेद् इति । तत्र दिवेति रात्रिव्युदासः । एकवारम् इति द्विवारादिव्युदासः । भोजनेनेत्य् अभोजनव्युदासः । एतच् च कृच्छ्रादीनां व्रतरूपत्वात् पुरुषार्थभोजनपर्युदासेन कृच्छ्राङ्गभूतं भोजनं विधीयते । तथा च आपस्तम्बः ।

त्र्यहम् अनक्ताश्य् अदिवाशी च ततस् त्र्यहं ।
त्र्यहम् अयाचितव्रतस् त्र्यहं नाश्नाति किंचन । इति ।

अत्र चानक्ताशीत्य् अनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्युदासेन दिवाभोजननियमं दर्शयति । गौतमेनापीदम् एव स्पष्टीकृतम्- “हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर् नाश्नीयात्” (ग्ध् २६.२) इति । एवं नक्तभोजनविधाव् अपि । न विद्यते याचितं यस्मिन् भोजने तद् अयाचितम् । तेन कालविशेषानुपादानाद् दिवा रात्रौ वा सकृद् इत्य् एव, तपोरूपत्वात् कृच्छ्राणां द्वितीयभोजने तद् अनुपपत्तेः । अयाचितम् इति न केवलं परकीयान्नयाचनप्रतिषेधो ऽपि तु स्वकीयम् अपि परिचारकभार्यादिभ्यो न याचितव्यम्, प्रेषणाध्येषणयोः साधारणत्वाद् याच्ञायाः । अतः स्वगृहे ऽपि भृत्यभार्यादयो ऽनाज्ञप्ता एव यदि भोजनम् उपहरन्ति तर्हि भोक्तव्यं नान्यथा । अमुनैवाभिप्रायेणोक्तं गौतमेन- “अथापरं त्र्यहं न कंचन याचेत्” (ग्ध् २६.४) इति । अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः ।

सायं तु द्वादशग्रासाः प्रातः पञ्चदश स्मृताः ।
चतुर्विंशतिर् आयाच्याः परं निरशनं स्मृतम् ॥ इति ।

आपस्तम्बेन त्व् अन्यथोक्तम् –

सायं द्वाविंशतिग्रासाः प्रातः षड्विंशतिः स्मृताः ।
चतुर्विंशतिर् आयाच्याः परं निरशनास्त्रयः ।
कुक्कुटाण्डप्रमाणास् तु यथा वास्यं विशेत् सुखम् ॥ इति ॥

अनयोश्च कल्पयोः शक्त्यपेक्षया विकल्पः । आपस्तम्बेन तु प्राजापत्यप्रायश्चित्तं चतुर्धा विभज्य चतुरः पादकृच्छ्रान् कृत्वा वर्णानुरूपेण व्यवस्था दर्शिता ।

त्र्यहं निरशनं पादः पादश् चायाचितं त्र्यहम् ।
सायं त्र्यहं तथा पादः पादः प्रातस् तथा त्र्यहम् ॥
प्रातः पादं चरेच् छूद्रः सायं वैश्ये तु दापयेत् ।
अयाचितं तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ॥ इति ।

यदा त्व् अयाचितोपवासात्मकत्र्यहद्वयानुष्ठानं तदार्धकृच्छ्रः । सायंव्यतिरिक्तापरत्र्यहत्रयानुष्ठानं तु पादोनम् इति विज्ञेयम्,

सायंप्रातर्विनार्धं स्यात् पादोनं नक्तवर्जितम् ।

इति तेनैवोक्तत्वात् । अर्धकृच्छ्रस्य प्रकारान्तरम् अपि तेनैव दर्शितम् ।

सायं प्रातस् तथैकैकं दिनद्वयम् अयाचितम् ।
दिनद्वयं च नाश्नीयात् कृच्छ्रार्धं तद् विधीयता ॥ इति ॥ ३.३१८ ॥

प्राजापत्यं कृच्छ्रम् आह ।

यथाकथंचित् त्रिगुणः प्राजापत्यो ऽयम् उच्यते । ३.३१९अब्

अयम् एव पादकृच्छ्रः यथाकथंचिद् दण्डकलितवद् आवृत्त्या स्वस्थानविवृद्ध्या वा, तत्राप्य् आनुलोम्येन प्रातिलोम्येन वा तथा वक्ष्यमाणजपाद् इत्य् उक्तं तद्रहितं वा त्रिर् अभ्यस्तः प्राजापत्यो ऽभिधीयते । तत्र दण्डकलितवद् आवृत्तिपक्षो वसिष्ठेन प्रदर्शितः ।

अहः प्रातर् अहर् नक्तम् अहर् एकम् अयाचितम् ।
अहः पराकं तत्रैकम् एवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर् धर्मभृतां वरः ।
बालवृद्धातुर्ष्व् एवं शिशुकृच्छ्रम् उवाच ह ॥ इति । (वध् २३.४३)

आनुलोम्येन स्वस्थानविवृद्धिपक्षस् तु मनुना दर्शितः ।

त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् ।
परं त्र्यहं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥ इति । (म्ध् ११.२१२)

प्रातिलोम्यावृत्तिस् तु वसिष्ठेन दर्शिता ।

प्रातिलोम्यं चरेद् विप्रः कृच्छ्रं चान्द्रायणोत्तरम् । इति । (वध् २१.१३)

जपादिरहितपक्षस् तु स्त्रीशूद्रादिविषये ऽङ्गिरसा दर्शितः ।

तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमादिवर्जितम् ॥ इति ।

जपादियुक्तपक्षस् तु पारिशेष्याद् योग्यतया च त्रैवर्णिकविषयः । स च गौतमादिभिर् दर्शितः- “अथातः कृच्छ्रान् व्याख्यास्यामः । हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर् नाश्नीयात् । अथापरं त्र्यहं नक्तं भुञ्जीत । अथापरं त्र्यहं न कंचन याचेत । अथापरं त्र्यहम् उपवसंस् तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकामः । सत्यं वदेत् । अनार्यैः सह न भाषेत । रौरवयोधां जपे नित्यं प्रयुञ्जीत । अनुसवनम् उदकोस्पर्शनम् आपोहिष्ठेति तिसृभिः पवित्रवतीभिर् मार्जयीत हिरण्यवर्णाः शुचयः पावका इत्य् अष्टाभिः । अथोदकतर्पणम् । नमोऽहमाय मोहमाय महमाय धन्वने तापसाय पुनर्वसवे नमः मौञ्ज्याय और्म्याय वसुविन्दाय सर्वविदाय नमः । पाराय सुपाराय महापाराय पारदाय परपाराय पारयिष्णवे नमः । रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वाय्ँँआघनाशनाय्ँँओग्राय वज्रिणे घृणिने कपर्दिने नमः । सूर्यायादित्याय नमः । नीलग्रीवाय शितिकण्ठाय नमः । कृष्णाय पिङ्गलाय नमः । ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । सत्याय पावकाय पावकवर्णायैकवर्णाय कामाय कामरूपिणे नमः । दीप्ताय दीप्तरूपिणे नमः । तीक्ष्णाय तीक्ष्णरूपिणे नमः । सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे नमः । चन्द्रललाटाय कृत्तिवासने नम इति । एतद् एवादित्योपस्थानम् । एता एवाज्याहुतयः । द्वादशरात्रस्यान्ते चरुं श्रपयित्वा एताभ्यो देवताभ्यो जुहुयात् । अग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्याम् इन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये ऽग्नये स्विष्टक्र्ते इति । अन्ते ब्राह्मणभोजनम्” (ग्ध् २६.१–१७) इति । तत्र तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकाम इत्य् अस्यार्थः । यस् तु महतो ऽप्य् एनसः क्षिप्रम् एकेनैव कृच्छ्रेण क्षिप्रं मुच्येयम् इत्य् एवं कामयते असाव् अहनि कर्माविरुद्धेषु कालेषु तिष्ठेद् रात्राव् आसीत । एवं रौरवयोधाख्यसामजपो नमो हमायेत्यादिभिस् तर्पणम् आदित्योपस्थानादिकं चरुश्रपणादिकं च योगीश्वराद्यनुक्तं क्षिप्रकामः कुर्वीत । अतश् च योगीश्वराद्युक्तप्राजापत्यद्वयस्थाने गौतमीयम् अनेकेतिकर्तव्यतासहितं द्रष्टव्यम् । एवाम् अन्यान्य् अपि स्मृत्यन्तरोक्तानि विशेषेणान्वेषणीयानि ॥

अतिकृच्छ्रम् आह ।

अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः ॥ ३.३१९च्द्

एतद्धर्मक एव एकभक्तादिप्राजापत्यधर्मयुक्तो ऽतिकृच्छ्रः स्यात् । इयांस् तु विशेषः । आद्ये त्र्यहत्रये पाणिपूरणमात्रम् अन्नं भुञ्जीत, न पुनर् द्वाविंशत्यादिग्रासान् । अत्र च प्राप्तभोजनानुवादेन पाणिपूरान्नविधानाद् अन्त्यत्र्यहे ऽतिदेशप्राप्त उपवासो ऽप्रतिपक्ष एव । अत्रापि पादशो व्यवस्था पूर्ववद् एव द्रष्टव्या । यत् तु मनुनोक्तम्,

एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ॥ (म्ध् ११.२१४)

इति, तत् पाणिपूरान्नपरिमिताद् अल्पत्वाच् छक्तविषयम् ॥ ३.३१९ ॥

कृच्छ्रातिकृच्छ्रम् आह ।

कृच्छ्रातिकृच्छ्रः पयसा दिवसान् एकविंशतिम् । ३.३२०अब्

एकविंशतिरात्रं पयसा वर्तनं कृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादशरात्रम् उदकेन वर्तनं कृच्छ्रातिकृच्छ्र उक्तः “अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः” (ग्ध् २६.२०) इति । अतश् च शक्त्यपेक्षयानयोर् व्यवस्था ॥

पराकम् आह ।

द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ३.३२०च्द्

ऋज्वर्थो ऽयम् अर्धश्लोकः ॥ ३.३२० ॥

सौम्यकृच्छ्रम् आह ।

पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । ३.३२१अब्
एकरात्रोपवासश् च कृच्छ्रः सौम्यो ऽयम् उच्यते ॥ ३.३२१च्द्

पिण्याको निःसृततैलस् तिलओदननिस्त्रावोदश्विदुदकसक्तूनां पञ्चानाम् एकैकं प्रतिदिवसम् उपभुज्य षष्ठे ऽह्नि उपवसेद् एष सौम्याख्यः कृच्छ्रो ऽभिधीयते । द्रव्यपरिमाणं तु प्राणायात्रामात्रनिबन्धनम् अधिगन्तव्यम् । जाबालेन तु चतुरहर्व्यापी सौम्यकृच्छ्र उक्तः ।

पिण्याकं सक्तवस् तक्रं चतुर्थे ऽहन्य् अभोजनम् ।
वासो वै दक्षिणां दद्यात् सौम्यो ऽयं कृच्छ्र उच्यते ॥ इति ॥ ३.३२१ ॥

तुलापुरुषाख्यं कृच्छ्रम् आह ।

एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम् । ३.३२२अब्
तुलापुरुष इत्य् एष ज्ञेयः पञ्चदशाहिकः ॥ ३.३२२च्द्

एषां पिण्याकादीनां पञ्चानां क्रमेणैककस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानाद् उपवासस्य निवृत्तिः । यमेन त्व् एकविंशतिरात्रिकस् तुलापुरुष उक्तः ।

आचामाम् अथ पिण्याकं तक्रं चोदकसक्तुकान् ।
त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षी त्र्यहद्वयम् ॥
एकविंशतिरात्रस् तु तुलापुरुष उच्यते ॥ इति ।

अत्र हारीताद्युक्तेतिकर्तव्यता ग्रन्थगौरवभयान् न लिख्यते ॥ ३.३२२ ॥

चान्द्रायणम् आह ।

तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसंमितान् । ३.३२३अब्
एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरन् ॥ ३.३२३च्द्

चान्द्रायणाख्यं व्रतं कुर्वन् मयूराण्डपरिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथिवृद्ध्या चरेत् भक्षयेत् । यथा प्रतिपत्प्रभृतिषु चन्द्रकलानाम् एकैकशो वृद्धिर् अर्धमासे तद्वत् पिण्डान् अपि प्रतिपद्य् एको द्वितीयायां द्वाव् इत्य् एवम् एकैकशो वर्धयन् भक्षयेद् यावत् पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान् भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्य् एवम् एकैकशो ग्रासान् ह्रासयन्न् अश्नीयाद् यावच् चतुर्दशी । ततश् चतुर्दश्याम् एकं ग्रासं ग्रसित्वा इन्दुक्षये ऽर्थाद् उपवसेत् । तथा च वसिष्ठः ।

एकैकं वर्धयेत् पिण्डं शुक्ले कृष्णे च ह्रासयेत् ।
इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥ इति । (वध् २७.२१)

चन्द्रस्यायनम् इवायनं चरणं यस्मिन् कर्मणि ह्रासवृद्धिभ्यां तच् चान्द्रायणं । संज्ञायां दीर्घः । इदं च यववत्प्रान्तयोर् अणीयो मध्ये स्थवीय इति यवमध्यम् इति कथ्यते । एतद् एव व्रतं यदा कृष्णपक्षप्रतिपदि प्रक्रम्य पूर्वोक्तक्रमेणानुष्ठीयते तदा पिपीलिकावन् मध्ये ह्रसिष्ठं भवतीति पिपीलिकमध्यम् इति कथ्यते । तथा हि पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतुर्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेत् चतुर्दशीं यावद् भुञ्जीत । ततश् चतुर्दश्याम् एकं ग्रासं ग्रसित्वामावास्यायाम् उपोष्य शुक्लप्रतिपद्य् एकम् एव ग्रासं प्राश्नीयात् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वर्त्यमाने पौर्णमास्यां पञ्चदश ग्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथा च वसिष्ठः ।

मासस्य कृष्णपक्षादौ ग्रासान् अद्याच् चतुर्दश ।
ग्रासापचयभोजी सन् पक्षशेषं समापयेत् ॥
तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् ।
ग्रासोपचयभोजी सन् पक्षशेषं समापयेत् ॥ इति । (वध् २३.४५)

यदा त्व् एकस्मिन् पक्षे तिथिवृद्धिह्रासवशात् षोडशदिनानि भवन्ति चतुर्दश वा, तदा ग्रासानाम् अपि वृद्धिह्रासौ वेदितव्यौ, “तिथिवृद्ध्या पिण्डांश् चरेद्” इति नियमात् । गौतमेनात्र विशेषो दर्शितः- “अथातश् चान्द्रायणम् । तस्योक्तो विधिः कृच्छ्रे वपनं च व्रतं चरेत् । श्वोभूतां पौर्णमासीम् उपवसेत् । ऽआप्यायस्व सं ते पयांसि नवो नवऽ इति चैताभिस् तर्पणम् आज्यहोमो हविषश् चाशुमन्त्रणम् उपस्थानं च चन्द्रमसः ऽयद् देवा देवहेडनम्ऽ इति चतसृभिर् आज्यं जुहुयाद् ऽदेवकृतस्यऽ इति चान्ते समिद्भिस् त्रिभिः ऽॐ भूः भुवः स्वः महः जनः तपः सत्यं यशः श्रीर् ऊर्ग् इट् ओजः तेजः पुरुषः धर्मः शिवःऽ इत्य् एतैर् ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वान् एतैर् एव ग्रासान् भुञ्जीत । तद्ग्रासप्रमाणम् आस्याविकारेण चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानि हवींष्य् उत्तरोत्तरं प्रशस्यानि । पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वा एकैकापचयेनापरपक्षम् अश्नीयात् । अमावास्यायाम् उपोप्षैकैकोपचयेन पूर्वपक्षं, विपरीतम् एकेषाम् एव चान्द्रायणो मासः” इति (ग्ध् २७.१–१५) । अत्र ग्रासप्रमाणम् आस्याविकारेणेति यद् उक्तं तद् बालाभिप्रायम्, तेषां शीख्यण्डपरिमितपञ्चदशग्रासभोजनाशक्तेः । क्षीरादिहविष्षु शिख्यण्डपरिमितत्वं तु पर्णपुटकादिना संपादनीयम् । तथा कुक्कुटाण्डार्द्रामलकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरोक्तानि शक्तिविषयाणि शिख्यण्डपरिमाणाल् लघुत्वात् तेषाम् । यत् पुनर् अत्र “श्वोभूतां पौर्णमासीम् उपवसेद्” इत्य् अत्र चतुर्दश्याम् उपवासमभिधाय “पौर्णमास्यां पञ्चदशग्रासान् भुक्त्वा” इत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तं तत् पक्षान्तरप्रदर्शनार्थं न सार्वत्रिकम्, योगीश्वरवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् । यद्य् एतत् सार्वत्रिकं स्यात् तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात्, चन्द्रगत्यनुवर्तनानुपपत्तिश् च ॥ ३.३२३ ॥

चान्द्रायणान्तरम् आह ।

यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् । ३.३२४अब्
मासेनैवोपभुञ्जीत चान्द्रायणम् अथापरम् ॥ ३.३२४च्द्

पिण्डानां चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत । यथाकथंचित् प्रतिदिनं मध्याह्ने ऽष्टौ ग्रासान्, अथ वा नक्तंदिनयोश् चतुरश् चतुरो वा, अथवैकस्मिंश् चतुरो ऽपरस्मिन् द्वादश वा तथैकरात्रम् उपोष्यापरस्मिन् षोडश वेत्यादिप्रकाराणाम् अन्यतमेन शक्त्याद्यपेक्षया भुञ्जीतेत्य् एतत् पूर्वोक्तचान्द्रायणद्वयाद् अपरं चन्द्रायणम् । अतस् तयोर् नायं ग्राससंख्यानियमः, किं तु पञ्चविंशत्यधिकशतद्वयसंख्यैव । मनुना चैते प्रकारा दर्शिताः ।

अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यन्दिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥
चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः ।
चतुरो ऽस्तम् इते सूर्ये शिशुचान्द्रायणं चरेत् ॥
यथा कथंचित् पिण्डानां तिस्रो ऽशीतीः समाहितः ।
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ इति । (म्ध् ११.२१९–२१)

तथा चत्वारिंशच्छतद्वयन्यूनसंख्याग्राससंपाद्यस्यापि संग्रहार्थपरग्रहणम् । यथाह यमः ।

त्रींस् त्रीन् पिण्डान् समश्नीयान् नियतात्मा दृढव्रतः ।
हविष्यान्नस्य वै मासम् ऋषिचान्द्रायणं स्मृतम् ॥ इति ।

एषु च यतिचान्द्रायणप्रभृतिषु न चन्द्रगत्यनुसरणम् अपेक्षितम् । अतस् त्रिंशद्दिनात्मकसाधारणेन मासेन नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथंचित् तिथिवृद्धिह्रासवशात् पञ्चम्यादिष्व् आरम्भो भवति तथापि न दोषः । यद् अपि सौमायनाख्यं मासव्रतं मार्कण्डेयेनोक्तम्,

गोक्षीरं सप्तरात्रं तु पिबेत् स्तनचतुष्टयात् ।
स्तनत्रयात् सप्तरात्रं सप्तरात्रं स्तनद्वयात् ॥
स्तनेनैकेन षड्रात्रं त्रिरात्रं वायुभुग् भवेत् ।
एतत् सोमायानं नाम व्रतं कल्मषनाशनम् ॥

इति, स्मृत्यन्तरे “सप्ताहं चेत्य् एतद् गोस्तनम् अखिलम् अथ त्रीन् स्तनान् द्वौ तथैकं कुर्यात् स्त्रींश् चोपवासान् यदि भवति, तदा मासि सोमायनं तत्” इति, तद् अपि चान्द्रायणकर्मकम् एव, हारीतेनापि “अथातश् चान्द्रायणम् अनुक्रमिष्यामः” इत्यादिना सेतिकर्तव्यताकं चान्द्रायणम् अभिधायैवम् एव सोमायनम् इत्य् अतिदेशाभिधानात् । यत् पुनस् तेन कृष्णचतुर्थीम् आरभ्य शुक्लद्वादशीपर्यन्तं सोमायनम् उक्तम् । चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं द्विस्तनेन त्रिरात्रं एकस्तनेन त्रिरात्रम् एवम् एकस्तनप्रभृति पुनश् चतुःस्तनान्तं “या ते सोम चतुर्थी तनूस् तया नः पाहि तस्यै नमः स्वाज्ञा, या ते सोम पञ्चमी षष्ठी” इत्य् एवं यागार्थास् तिथिहोमा एवं स्तुत्वा एनोभ्यः पूतश् चन्द्रमसः समानतां सलोकतां सायुज्यं च गच्छति इति चतुर्विंशतिदिनात्मकं सोमायनम् उक्तं, तदशक्तविषयम् ॥ ३.३२४ ॥

अथ कृच्छ्रचान्द्रायणसाधारणीम् इतिकर्तव्यताम् आह ।

कुर्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा । ३.३२५अब्
पवित्राणि जपेत् पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥ ३.३२५च्द्

कृच्छ्रं प्राजापत्यादिकं चान्द्रायणं वा त्रिषवणस्नानयुक्तः कुर्यात् । एतच् च तप्तकृच्छ्रव्यतिरेकेण, तत्र “सकृत्स्नायी समाहितः” (म्ध् ११.२१५) इति मनुना विशेषाभिधानात् । यत् पुनः शङ्खेन कृच्छ्रेषु,

त्रिर् अह्नि त्रिर् निशायां तु सवासा जलम् आविशेत् ।

इति, तद् अशक्तविषयम् । यत् पुनर् वैशम्पायनेन द्वैकालिकं स्नानम् उक्तम्,

स्नानं द्विकालम् एव स्यात् त्रिकालं वा द्विजन्मनः ।

इति, तत् त्रिषवणस्नानाशक्तस्य वेदितव्यम् । यत् पुनर् गार्ग्येणोक्तम्,

एकवासाश् चरेद् भैक्षं स्नात्वा वासो न पीडयेत् ।

इति, तद् अपि शक्तस्यैव,

एकवासा आर्द्रवासा वा लग्वाशी स्थण्डिलेशयः ।

इत्य् एकवस्त्रताया अपि शङ्खेन पाक्षिकत्वेनाभिधानात् । स्नाने च हारीतेन विशेष उक्तः- “त्र्यवरं शुद्धवतीभिः स्नात्वाघमर्षणम् अन्तर्जले जपित्वा धौतम् अहतं वासः परिधाय साम्ना सौम्येनादित्यम् उपतिष्ठेत” इति । स्नानानन्तरं च पवित्राणि जपेत् । पवित्राणि च “अघमर्षणं देवकृतः शुद्धवत्यस् तरत्समाः” (वध् २८.११) इत्यादीनि वसिष्ठादिप्रतिपादितानाम् अन्यतमान्य् अर्थाविरुद्धेषु कालेषु अन्तर्जले जपेत् सावित्रीं वा,

सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः । (म्ध् ११.२२६)

इति मनुस्मरणात् । यत् तु गौतमेनोक्तम्, “रौरवयोधां जपे नित्यं प्रयुञ्जीत” (ग्ध् २६.९) इति, तद् अपि पवित्रत्वाद् एवोक्तं न पुनर् नियमाय, तथा सति श्रुत्यन्तरमूलत्वकल्पनाप्रसङ्गात् । अतो ऽनधीतसामवेदेन गायत्र्यादिकम् एव जप्तव्यम् । यद् अपि “नमो हमाय मोहमाय” (ग्ध् २६.१२) इत्यादि पठित्वा, “एता एवाज्याहुतयः” (ग्ध् २६.१४) इत्य् उक्तं, तद् अपि न नैयमिकं, किं तु,

महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् । (म्ध् ११.२२३)

इति मनुना महाव्याहृतिभिर् होमविधानात् । तथा षट्त्रिंशन्मते ऽप्य् उक्तम् ।

जपहोमादि यत्किंचित् कृच्छ्रोक्तं संभवेन् न चेत् ।
सर्वं व्याहृतिभिः कुर्याद् गायत्र्या प्रणवेन च ॥ इति ।

आदिग्रहणाद् उदकतर्पणादित्योपस्थानादेर् ग्रहणम् । अत एव वैशम्पायनः ।

स्नात्वोपतिष्ठेद् आदित्यं सौरीभिस् तु कृताञ्जलिः । इति ।

एवम् अन्येष्व् अपि विरोधिपदार्थेषु विकल्प आश्रयणीयः, अविरोधिषु समुच्चयः, शाखान्तराधिकरणन्यायेन सर्वस्मृतिप्रत्ययत्वात् कर्मणः । जपसंख्यायां विशेषस् तेनैव दर्शितः ।

ऋषभं विरजं चैव तथा चैवाघमर्षणम् ।
गायत्रीं वा जपेद् देवीं पवित्रां वेदमातरम् ॥
शतम् अष्टशतं वापि सहस्रम् अथ वा परम् ।
उपांशु मनसा वापि तर्पयेत् पितृदेवताः ॥
मनुष्यांश् चैव भूतानि प्रणम्य शिरसा ततः ॥ इति ।

तथा पिण्डाश् च प्रत्येकं गायत्र्या चाभिमन्त्रयेत् । यथा यमेनापि विशष उक्तः ।

अङ्गुल्यग्रस्थितं पिण्डं गायत्र्या चाभिमन्त्रितम् ।
प्राश्याचम्य पुनः कुर्याद् अन्यस्याप्य् अभिमन्त्रणम् ॥ इति ।

अतश् च “ॐ भूर् भुवः स्वर्” (ग्ध् २७.८) इत्य् आदिभिर् गौतमोक्तैर् अभिमन्त्रणमन्त्रैः सहास्य विकल्प उक्तः । यत् पुनर् “आप्यायस्व सं ते पयांसि” (ग्ध् २७.५; र्व् १.९१.१७) इत्यादिभिः पिण्डकरणात् पूर्वं हविषो ऽभिमन्त्रणम् उक्तं, तद् भिन्नकायत्वात् समुच्चीयते । एतानि च कृच्छ्रादिव्रतानि यदा प्रायश्चित्तार्थम् अनुष्टीयन्ते तदा केशादिवपनपूर्वकं परिगृहीतव्यानि, “वपनं व्रतं चरेत्” (ग्ध् २७.३) इति गौतमस्मरणात् । अभ्युदयार्थे तु नैव वपनम् । वसिष्ठेनाप्य् अत्र विशेष उक्तः- “कृच्छ्राणां व्रतरूपाणां श्मश्रुकेशादि वापयेत् । कुक्षिरोमशिखावर्जम्” (वध् २४.४–५) इति । कृच्छ्राणां व्रतरूपाणां । व्रतरूपाणि वपनादीन्य् अङ्गानि वक्ष्यन्त इति शेषः । पर्षदुपदिष्टव्रतग्रहणं च व्रतानुष्ठानदिवसात् पूर्वेद्युः सायाह्ने कार्यम् । यथाह वसिष्ठः ।

सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकं ।
ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥
दिनान्ते नखरोमादीन् प्रवाप्य स्नानम् आचरेत् ।
भस्मगोमयमृद्वारिपञ्चगव्यादिकल्पितैः ॥
मलापकर्षणं कार्यं बाह्यशौचोपसिद्धये ।
दन्तधावनपूर्वेण पञ्चगव्येन संयुत्तम् ॥
व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने ।
आचम्य् अतः परं मौनी ध्यायन् दुष्कृतम् आत्मनः ॥
मनःसंतापनं तीव्रम् उद्वहेच् छोकम् अन्ततः ॥ इति ।

बहिर् इति ग्रामाद् बहिर् निष्क्रम्य स्त्रियाप्य् एवम् एव व्रतपरिग्रहः कार्यः । केशश्मश्रुलोमनखवपनं तु नास्ति । चान्द्रायणादिष्व् “एतद् एव स्त्रियाः केशवपनवर्जम्” (ब्ध् २.२.४५) इति बौधायनस्मरणात् ॥

वपनानिच्छोस् तु हारीतेन विशेष उक्तः ।
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।
केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥
केशानां रक्षणार्थं तु द्विगुणं व्रतम् आचरेत् ।
द्विगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥ इति ।

एतच् च महापातकादिदोषविशेषाभिप्रायेण द्रष्टव्यम्,

विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् ।
व्रते महापातकिनो गोहन्तुश् चावकीर्णिनः ॥

इति मनुस्मरणात् । जाबालेनाप्य् अत्र विशेष उक्तः ।

ऽ आरम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः ।

अन्नेनैव च शालाग्नौ जुहुयाद् व्याहृतीः पृथक् ॥
श्राद्धं कुर्याद् व्रतान्ते तु गोहिरण्यादि दक्षिणा ॥ इति ।

यमेनाप्य् अत्र विशेषो ऽभिहितः ।

पश्चात्तापो निवृत्तिश् च स्नानं चाङ्गतयोदितम् ।
नैमित्तिकानां सर्वेषां तथा चैवानुकीर्तनम् ॥

तथा,

गात्राभ्यङ्गशिरोभ्यङ्गौ ताम्बूलम् अनुलेपनम् ।
व्रतस्थो वर्जयेत् सर्वं यच् चान्यद् बलरागकृत् ॥ इति ।

एवमादिकर्तव्यताजातं स्मृत्यन्तराद् अन्वेष्टव्यम् । एवम् अनेन विधिना व्रतं गृहीत्वावश्यं परिसमापनीयम् । अन्यथा तु प्रत्यवायः,

पूर्वं व्रतं गृहीत्वा तु नाचरेत् काममोहितः ।
जीवन् भवति चाण्डालो मृतः श्वा चैव जायते ॥

इति छागलेयस्मरणात् । इत्य् अलं प्रपञ्चेन ॥ ३.३२५ ॥

इत्थम् उक्तविनियोगस्य चान्द्रायणादेः स्वरूपम् अभिधाय लब्धप्रसङ्गकार्यान्तरे ऽपि विनियोगम् आह ।

अनादिष्टेषु पापेषु शुद्धिश् चान्द्रायणेन तु । ३.३२६अब्
**धर्मार्थं यश् चरेद् एतच् चन्द्रस्यैति सलोकताम् ॥ ३.३२६च्द् **

आदिश्यत इत्य् आदिष्टं प्रायश्चित्तं न विद्यते आदिष्टं येषु पापेषु तेषु चान्द्रायणेन शुद्धिः । चशब्दात् प्राजाप्त्यादिभिः कृच्छ्रैर् ऐन्दवसहितैस् तन्निरपेक्षैर् वा शुद्धिः । तथा च षट्त्रिंशन्मते ऽभिहितम् ।

यानि कानि च पापानि गुरोर् गुरुतराणि च ।
कृच्छ्रातिकृच्छ्रचान्द्रेयैः शोध्यन्ते मनुर् अब्रवीत् ।

इति त्रयाणां समुच्चयः प्रतिपादितः । उशनसा तु द्वयोः समुच्चय उक्तः ।

दुरितानां दुरिष्टानां पापानां महताम् अपि ।
कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥ इति ।

दुरितम् उपपातकम् । दुरिष्टं पातकम् । गौतमेन तु “कृच्छ्रातिकृच्छ्रौ चान्द्रायणम्” (ग्ध् १९.२०) इति सर्वप्रायश्चित्तम् इति विसमासकरणेनैन्दवनिरपेक्षता कृच्छ्रातिकृच्छ्रयोः सूचिता । चान्द्रायणस्य निरपेक्षता इतिशब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निरपेक्षं चतुर्विंशतिमते ऽभिहितम् ।

लघुदोषे त्व् अनादिष्टे प्राजापत्यं समाचरेत् । इति ।

गौतमेनापि प्राजापत्यादेर् नैरपेक्षत्वम् उक्तम्- “प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति । द्वितीयं चरित्वा यद् अन्यन् महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते । तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते” (ग्ध् २६.२१–२२) इति महापातकाद् अपीत्य् अभिप्रेतम् । मनुनाप्य् उक्तम् ।

पराको नाम कृच्छ्रो ऽयं सर्वपापापनोदनः । इति । (म्ध् ११.२१६)

हारीतेनाप्य् उक्तम् ।

चान्द्रायणं यावकश् च तुलापुरुष एव च ।
गवां चैवानुगमनं सर्वपापप्रणाशनम् ॥

तथा,

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च श्वपाकम् अपि शोधयेत् ॥

तथा तप्तकृच्छ्रम् अधिकृत्यापि तेनैवोक्तम् ।

एष कृच्छ्रो द्विर् अभ्यस्तः पातकेभ्यः प्रमोचयेत् ।
त्रिरभ्यस्तो यथान्यायं शूद्रहत्यां व्यपोहति ॥ इति ।

उशनसा चोक्तम् ।

यत्रोक्तं यत्र वा नोक्तं महापातकनाशनम् ।
प्राजापत्येन कृच्छ्रेण शोधयेन् नात्र संशयः ॥ इति ।

एतानि प्राजापत्यादीन्य् अनादिष्टेषूपपातकादिषु सकृदभ्यासापेक्षया व्यस्तानि समस्तानि वा योजनीयानि । तथा आदिष्टव्रतेष्व् अपि महापातकादिषु अभ्यासापेक्षया योजनीयानि । अत एव यमेनोक्तम् “यत्रोक्तम्” इत्य् आदि । गौतमेनाप्य् उक्तनिष्कृतीनां संग्रहार्थं सर्वप्रायश्चित्तग्रहणं कृतम् । तथा यद्य् अपि तेनैवोक्तम्, “द्वितीयं चरित्वा यद् अन्यन् महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते” इत्य् उक्त्वा “तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते” (ग्ध् २६.२१–२२) इति, तद् अपि महापातकाभिप्रायं, न तु क्षुद्रपातकाभिप्रायम् । न च महापातकम् अनुक्तनिष्कृतिकं सम्भवति । तस्माद् उक्तनिष्कृतिकेष्व् अपि प्राजापत्यादयो योजनीयाः । तत्र द्वादशवार्षिकव्रते द्वादशद्वादशदिनान्य् एकैकं प्राजापत्यं परिकल्प्य गण्यमाने प्राजापत्यानां षष्ट्यधिकशतत्रयं द्वादशवार्षिके वैकल्पिकम् अनुष्ठेयं भवति । तदशक्तौ तावत्यो वा धेनवो दातव्याः । तदसंभवे निष्काणां षष्ट्यधिकशतत्रयं दातव्यम् । तथा स्मृत्यन्तरम् ।

प्राजापत्यक्रियाशक्तौ धेनुं दद्याद् विचक्षणः ।
धेनोर् अभावे दातव्यं मूल्यं तुल्यम् असंशयम् ॥
मूल्यार्धम् अपि निष्कं वा तदर्धं शक्त्यपेक्षया ।
गवाम् अभावे निष्कः स्यात् तदर्धं पाद एव वा ।

इति स्मरणात् । मूल्यदानस्याप्य् अशक्तौ तावन्तो वोदवासाः कार्याः । तत्राप्य् अशक्तौ गायत्रीजपः षट्त्रिंशल्लक्षसंख्याकः कार्यः,

कृच्छ्रो ऽयुतं तु गायत्र्या उदवासस् तथैव च ।
धेनुप्रदानं विप्राय समम् एतच् चतुष्टयम् ॥

इति पराशरस्मरणात् । यत् तु चतुर्विंशतिमते ऽभिहितम्,

गायत्र्यास् तु जपन् कोटिं ब्रह्महत्यां व्यपोहति ।
लक्षाशीतिं जपेद् यस् तु सुरापानाद् विमुच्यते ॥
पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः ।
गायत्र्याः षष्टिभिर् लक्षैर् मुच्यते गुरुतल्पगः ॥

इति, तत् द्वादशवार्षिकतुल्यविधानतयोक्तं, न पुनर् अशक्तविषयम् इति न विरोधः । एवम् अन्ये ऽपि,

कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
तिलहोमसहस्रं तु वेदपारायणं तथा ॥

इत्यादयः प्रत्याम्नायाश् चतुर्विंशतिमतादिशास्त्राभिहिताः षष्ट्यधिकत्रिशतगुणिता महापातकेषु बोद्धव्याः । अतिपातकेषु सप्तत्यधिकशतद्वयं प्राजापत्यानां कर्तव्यम् । तावन्तो वा धेन्वादयः प्रत्याम्नायाः । पातकेषु तु साशीतिशतं प्राजापत्याः प्रत्याम्नायाश् च धेन्वादयस् तावन्त एव वा । तथा चतुर्विंशतिमते ऽभिहितम् ।

जन्मप्रभृति पापानि बहूनि विविधानि च ।
कृत्वार्वाग् ब्रह्महत्यायाः षडब्दं व्रतम् आचरेत् ॥
प्रत्याम्नाये गवां देयं साशीति धनिना शतम् ।
तथाष्टादशलक्षाणि गायत्र्या वा जपेद् बुधः ॥ इति ।

इदम् एव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैर् एकैकप्राजापत्यकल्पनायां लिङ्गम् । एवम् उपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवतिप्राजापत्यास् तावन्तः प्रत्याम्नायाः । त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्याः प्रत्याम्नायाश् च धेनूदवासादयस् तावन्त एव । मासिकव्रतविषयेषु तु सार्धं प्राजापत्यद्वयं तावान् एव वा प्रत्याम्नायः । चान्द्रायणविषयभूतेषु पुनर् उपपातकेषु प्राजापत्यत्रयम् । तदशक्तस्य प्रत्याम्नायस् तावान् एव । यत् पुनश् चतुर्विंशतिमते ऽभिहितम्,

अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा ।

इति, तद् अपि धनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम् । मासतिकृच्छ्रविषयभूतेषु पुनर् उपपातकेषु सार्धसप्तप्राजापत्याः प्रत्याम्नायाश् च धेन्वादयस् तावन्त एव,

प्राजापत्ये तु गाम् एकां दद्यात् सान्तपने द्वयम् ।
पराकतप्तातिकृच्छ्रे तिस्रस् तिस्रस् तु गास् तथा ॥

इति चतुर्विंशतिमते ऽभिधानात् । एतच् च “एकैकं ग्रासम् अश्नीयाद्” इत्य् आमलकपरिमितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरान्नभोजनपक्षे पुनर् धेनुद्वयम् एव, प्राजापत्यस्य षडुपवासतुल्यत्वात् तद्द्विगुणत्वाच् चातिकृच्छ्रस्य । यद्य् अपि नवसु दिनेषु पाणिपूरान्नस्य भोजनं तथापि नैरन्तर्येण द्वादशदिवसानुष्ठाने क्लेशातिशयात् षडहोपवाससमानप्राजापत्यद्वयतुल्यत्वम् एव । प्राजापत्यस्य च षडुपवासतुल्यत्वं युक्तम् एव । तथा हि प्रथमे त्र्यहे सायंतनभोजनत्रयनिवृत्ताव् एकोपवाससंपत्तिः । द्वितीये त्र्यहे पातःकालभोजनत्रयनिवृत्तिपरस्य । तथा च अयाचितत्र्यहे ऽपि सायंतनभोजनत्रयवर्जने ऽपरस्येत्य् एवं नवभिर् दिनैर् उपवासत्रयम् । पुनश् चान्त्यत्र्यहे चोपवासत्रयम् इति युक्तं षडुपवासतुल्यत्वम् । ऋषभैकादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु सार्धैकादशप्राजापत्यास् तावत्संख्याकाश् चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु सार्धं प्राजापत्यद्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतप्तातिकृच्छ्रस्थाने कृच्छ्रत्रयं चरेत्,

सान्तपनस्य वाध्यर्धम् अशक्तौ व्रतम् आचरेत् ।

इति षट्त्रिंशन्मते ऽभिधानात् । चान्द्रायणपराककृच्छ्रातिकृच्छ्रास् तु प्राजापत्यत्रयात्मका द्वादशवार्षिकव्रतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः । तत्प्रत्याम्नायास् तु धेन्वादयस् त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश् चान्द्रायणादयः । तत्समेषु पुनः पातकपदाभिधेयेषु षष्टिसंख्याः । उपपातकेषु त्रैवार्षिकविषयेषु त्रिंशत्संख्याः । त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच् चान्द्रायणादित्रयम् । मासिकव्रते तु योगीष्वरोक्ते एकम् एव चान्द्रायणं धेनूदवासादिप्रत्याम्नायस् तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं पादादिकॢप्त्या योजनीयम् । आवृत्तौ पुनश् चान्द्रायणादिकम् इति एतद्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत् पुनर् बृहस्पतिनोक्तम्,

जन्मप्रभृति यत् किंचित् पातकं चोपपातकम् ।
तावद् आवर्तयेत् कृच्छ्रं यावत् षष्टिगुणं भवेत् ॥

इति, तत् “द्वे परदारे” (ग्ध् २२.२९) इति गौतमोक्तद्विवार्षिकसमानविषयम्, तथा त्रैमासिकादिविषयभूतोपपातकावृत्तिविषयं वा, पातकपदाभिधेयचाण्डालादिस्त्रीगमने द्विरभ्यासविषयं वा । तत्र,

ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवद्वयम् ।
(अस्च्रिबेद् तो उशनस् अत् ३.२६५ उन्देर् पारदार्यप्रकरणम्)

इति सकृद्बुद्धिपूर्वगमने कृच्छ्राब्दविधानात्, तदभ्यासे द्विवर्षतुल्यषष्टिकृच्छ्रविधानं युक्तम् एव । यत् तु सुमन्तुनोक्तम्,

यद् अप्य् असकृदभ्यस्तं बुद्धिपूर्वम् अघं महत् ।
तच् छुध्यत्य् अब्दकृच्छ्रेण महतः पातकाद् ऋते ॥

इति, तद् अप्य् उपपातकाद्यावृत्तिविषयं, तथा “अज्ञानाद् ऐन्दवद्वयम्” इति यमोक्तैन्दवद्वयविषयभूतपातकावृत्तिविषयं वा । यस् तु तपस्य् असमर्थो धान्यसमृद्धश् च स कृच्छ्रादिव्रतानि द्विजाग्र्यभोजनदानेन संपादयेत् । तथा हि स्मृत्यन्तरम्- “कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुणम् अहरहस् त्रिंशद् एवं तृतीये चत्वारिंशच् च तप्ते त्रिगुणितगुणिता विंशतिः स्यात् पराके । कृच्छ्रे सान्तापनाख्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यां चान्द्रायणे स्यात् तपसि कृशबलो भोजयेद् विप्रमुख्यान्” इति । अहरहर् इति सर्वत्र संबन्धनीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजापत्यदिवसकल्पनया विद्वद्विप्राणां षष्टिभोजनं भवति । यत् तु चतुर्विंशतिमते ऽभिहितम्,

विप्रा द्वादश वा भोज्याः पावकेष्टिस् तथैव च ।
अन्या वा पावनी काचित् समान्याहुर् मनीषिणः ॥

इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनम् उक्तं, तन् निर्धनविषयम् । यच् चान्द्रायणस्यापि तत्रैव प्रत्याम्नायाद्य् उक्तम्,

चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस् तथैव च ।
मित्रविन्दापशुश् चैव कृच्छ्रं मासत्रयं तथा ॥
नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् ।
इष्टीनां पशुबन्धानाम् अभावे चरवः स्मृताः ॥

इति, तद् अपि चान्द्रायणाशक्तस्य । यत् तु “कृच्छ्रं मासत्रयं तथा” इति कृच्छ्राष्टकं प्रत्याम्नातं, तद् अपि जरठमूर्खविषयम्, “चान्द्रायणं त्रिभिः कृच्छ्रैः” इति दर्शितत्वाद्, इत्य् अलं प्रपञ्चने । प्रकृतम् अनुसरामः । यस् त्व् अभ्युदयकामो धर्मार्थं काम्यनियोगनिष्पत्त्यर्थम् एतच् चान्द्रायणम् अनुतिष्ठति न पुनः प्रायश्चित्तार्थम्, असौ चन्द्रसालोक्यं स्वर्गविशेषं प्राप्नोति । एतच् च संवत्सरावृत्त्यभिप्रायेण, “एकम् आप्त्वा विपापो विपाप्मा सर्वम् एनो हन्ति, द्वितीयम् आप्त्वा दश पूर्वान् दशापरान् आत्मानं चैकविंशं पङ्क्तिं च पुनाति, संवत्सरं चाप्त्वा चन्द्रमसः सलोकताम् आप्नोति” (ग्ध् २७.१६–१८) इति गौतमस्मरणात् ।

किं च ।

कृच्छ्रकृद् धर्मकामस् तु महतीं श्रियम् आप्नुयात् । ३.३२७अब्
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ ३.३२७च्द्

यस् त्व् अभ्युदयकामः प्राजापत्यादिकृच्छ्रान् अनुतिष्ठति स महतीं राज्यादिलक्षणां श्रियं विभूतिम् अनुभवति । यथा गुरुक्रतूनां राजसूयादीनां कर्ता तत्फलं स्वाराज्यादिलक्षणं महत् फलं लभते, तथायम् अपि सुसुमाहितः सकलाङ्गकलापम् अविकलम् अनुतिष्ठन्न् इति फलमहिमप्रकाशनार्थं क्रतुदृष्टान्तकीर्तनम् । सुसुमाहित इत्य् अनेनाविकलशास्त्रानुष्ठानं वदन् काम्यकर्मतयाङ्गवैकल्ये फलासिद्धिं द्योतयति । अतो नात्र प्रायश्चित्तेष्व् इव यावत्संभवाङ्गानुष्ठानम् अङ्गीकरणीयम् इति दूरोत्सारितं प्रत्याम्नायोपादानम् । कृच्छ्राद्यनुष्ठानावृत्तौ तु “अधिकारिणः फलावृत्तिः कर्मण्य् आरम्भभाव्यत्वाद्” इति न्यायलभ्या स्थितैवेति नेदम् अविवक्षितम् ॥ ३.३२७ ॥

प्रागुदिताखिलार्थोपसंहारव्याजेन धर्मशास्त्रधारणादिविधीन् सार्थवादान् प्रार्थनावरदानरूपेण प्रतिपादयितुम् आह ।

श्रुत्वैतान् ऋषयो धर्मान् याज्ञवल्क्येन भाषितान् । ३.३२८अब्
इदम् ऊचुर् महात्मानं योगीन्द्रम् अमितौजसम् ॥ ३.३२८च्द्

अत्र हि वर्णाश्रमादिव्यावृत्ता धर्माः षट्प्रकाराः प्रतिपादिताः तान् अखिलान् योगीश्वरभाषितान् ऋषयः श्रुत्वा प्रहर्षोत्फुल्ललोचनास् तं महिमगुणशालिनम् अचिन्तनीयशक्तिविभवम् इदम् अभिधास्यमानम् ऊचिवांसः ॥ ३.३२८ ॥

य इदं धारयिष्यन्ति धर्मशास्त्रम् अतन्द्रिताः । ३.३२९अब्
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३.३२९च्द्
विद्यार्थी प्राप्नुयाद् विद्यां धनकामो धनं तथा । ३.३३०अब्
आयुष्कामस् तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३.३३०च्द्
श्लोकत्रयम् अपि ह्य् अस्माद् यः श्राद्धे श्रावयिष्यति । ३.३३१अब्
पितॄणां तस्य तृप्तिः स्याद् अक्षय्या नात्र संशयः ॥ ३.३३१च्द्
ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । ३.३३२अब्
वैश्यश् च धान्यधनवान् अस्य शास्त्रस्य धारणात् ॥ ३.३३२च्द्

इत्थम् ऋज्वर्थैः श्लोकैः सामश्रवःप्रभृतयो ऽनेकधा प्रार्थयन्ते स्म ॥ ३.३२९ – ३.३३२ ॥

अपराम् अपि प्रार्थनाम् आह ।

य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु । ३.३३३अब्
अश्वमेधफलं तस्य तद् भवान् अनुमन्यताम् ॥ ३.३३३च्द्

यस् त्व् इदं धर्मशास्त्रं प्रतिपर्व द्विजान् श्रावयेत् तस्याश्वमेधफलं भवेद् इति श्रावणविध्यर्थवादः । तद् एतद् अस्मत्प्रार्थितम् अर्थं सर्वत्र भवान् अनुमन्यताम् ॥ ३.३३३ ॥

वरदानम् आह ।

श्रुत्वैतद् याज्ञवल्क्यो ऽपि प्रीतात्मा मुनिभाषितम् । ३.३३४अब्
एवम् अस्त्व् इति होवाच नमस्कृत्य स्वयंभुवे ॥ ३.३३४च्द्

एतद् ऋषिभिर् भाषितं श्रुत्वा योगीन्द्रो ’पि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थनोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य “भवत्प्रार्थितं सकलम् इत्थं भवतु” इत्य् एवं किल भगवान् बभाषे ॥ ३.३३४ ॥

इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृत्तौ प्रायश्चित्ताध्यायस् तृतीयः समाप्तः ॥

अथात्राध्यायानुक्रमणिका लिख्यते । तत्राद्यं सूतकप्रक्ररणम् १ । आपद्धर्मप्रकरणम् २ । वानप्रस्थप्रकरणम् ३ । अध्यात्मप्रकरणम् ४ । ततः प्रायश्चित्तप्रकरणम् ५ । तत्रादौ कर्मविपाकः ६ । महापातकादिनिमित्तपरिगणनम् ७ । महापातकप्रायश्चित्तान्य् आतिदेशिकसहितानि ८ । उपपातकप्रायश्चित्तानि ९ । प्रकीर्णकप्रायश्चित्तप्रकरणम् १० । पतितत्यागविधिः ११ । व्रतग्रहणविधिः १२ । रहस्यप्रायश्चित्ताधिकारः १३ । कृच्छ्रादिलक्षणम् १४ । इति प्रकरणानि ॥

उत्तमोपपदस्येयं शिष्यस्य कृतिर् आत्मनः ।
धर्मशास्त्रस्य विवृति र्विज्ञानेश्वरयोगिनः ॥ १ ॥
इति याज्ञवल्क्यमुनिशास्त्रगता विवृतिर् न कस्य विहिता विदुषः ।
प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोर् अमृतम् ॥ २ ॥
गम्भीराभिः प्रसन्नाभिर् वाग्भिर् न्यस्ता मिताक्षरा ।
अनल्पार्थाभिर् अल्पाभिर् विवृतिर् विहिता मया ॥ ३ ॥
नासीद् अस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः ।
विज्ञानेश्वरपण्डितो न भजते किञ्चान्यदन्योपमश्
चाल्पं स्थिरम् अस्तु कल्पलतिकाकल्पं तद् एतत् त्रयम् ॥ ४ ॥
स्रष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीम्नां
दातार्थानाम् अतिशयजुषाम् अर्थिसार्थार्थनायाः ।
ध्याता मुर्तेर् मुरविजयिनो जीवतादार्कचन्द्रं
जेतारीणां तनुसहभुवां तत्त्वविज्ञाननाथः ॥ ५ ॥
आ सेतोः कीर्तिराशे रघुकुलतिलकस्या च शैलाधिराजा-
दा च प्रत्यक्पयोधेश्चटुलतिमिकुलोत्तुङ्गरिङ्गत्तरङ्गात् ।
आ च प्राचः समुद्रान् नतनृपतिशिरोरत्नभाभासुराङ्घ्रिः
पायादाचन्द्रतारं जगद् इदम् अखिलं विक्रमादित्यदेवः ॥ ६ ॥
अन्तर्मुखानि यदि खानि तपस् ततः किं
नान्तर्मुखानि यदि खानि तपस् ततः किम् ।
अन्तर्बहिर् यदि हरिश् च तपस् ततः किं
नान्तर्बहिर् यदि हरिश् च तपस् ततः किम् ॥ ७ ॥

समाप्तेयं समिताक्षरा याज्ञवल्क्यस्मृतिः ॥