६ रहस्य-प्रायश्चित्तम्

महापातकादिपञ्चविधे ऽपि दोषगणे प्रातिस्विकव्रतसंदोहम् अभिधायाधुना सकलव्रतसाधारणं धर्मम् आह ।

विख्यातदोषः कुर्वीत पर्षदो ऽनुमतं व्रतम् । ३.३००अब्

यो दोषो यावत् कर्तृसंपाद्यस् ततो ऽन्यैर् विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुपदिष्टं व्रतं कुर्यात् । यद्य् अपि स्वयं सकलशास्त्रार्थविचारचतुरस् तथापि पर्षत्समीपम् उपगम्य तया सह विचार्य तदनुमतम् एव कुर्यात् । तदुपगमने च अङ्गिरसा विशेष उक्तः ।

कृते निःसंशये पापे न भुञ्जीतानुपस्थितः ।
भुञ्जानो वर्धयेत् पापं यावन् नाख्याति पर्षदि ॥
सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः ।
पर्षदानुमतस् तत्त्वं सर्वं विख्यापयेन् नरः ।
व्रतम् आदाय भूयो ऽपि तथा स्नात्वा व्रतं चरेत् ॥ इति ॥

विख्यापनं च पर्षद्दक्षिणादानानन्तरं कार्यम् । यथाह पराशरः ।

पापं विख्यापयेत् पापी दत्त्वा धेनुं तथा वृषम् । इति ।

एतच् चोपपातकविषयम् । महापातकादिष्व् अधिकं कल्प्यम् । यत् तूक्तम्,

तस्माद् द्विजः प्राप्तपापः सकृद् आप्लुत्य वारिणि ।
विख्याप्य पापं पर्षद्भ्यः किंचिद् दत्त्वा व्रतं चरेत् ॥

इति, तत् प्रकीर्णकविषयम् । पर्षत्स्वरूपं च मनुना दर्शितम् ।

त्रैविद्यो हैतुकस् तर्की नैरुक्तो धर्मपाठकः ।
त्रयश् चाश्रमिणः पूर्वे पर्षद् एषा दशावरा ॥ (म्ध् १२.१११)

हैतुको मीमांसार्थादितत्त्वज्ञः । तर्की न्यायशास्त्रकुशलः । तथान्यद् अपि पर्षद्द्वयं तेनैव दर्शितम् ।

ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।
अपरा पर्षद् विज्ञेया धर्मसंशयनिर्णये ॥ इति । (म्ध् १२.११२)

तथा,

एको ऽपि वेदविद् धर्मं यं व्यवस्येत् समाहितः ।
स ज्ञेयः परमो धर्मो नाज्ञानाम् उदितो ऽयुतैः ॥ इति । (म्ध् १२.११३)

आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया वा । यत् तु स्मृत्यन्तरे ऽभिहितम्,

पातकेषु शतं पर्षत् सहस्रं महदादिषु ।
उपपापेषु पञ्चाशत् स्वल्पं स्वल्पे तथा भवेत् ॥

इति, तद् अपि महापातकादिदोषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं, न पुनः संख्यानियमार्थम्, मन्वादिमहास्मृतिविरोधप्रसङ्गात् । तथा देवलेन चात्र विशेषो दर्शितः ।

स्वयं तु ब्राह्मणा ब्रूयुर् अल्पदोषेषु निष्कृतिम् ।
राजा च ब्राह्मणाश् चैव महत्सु च परीक्षितम् ॥ इति ।

तया च पर्षदा अवश्यं व्रतम् उपदेष्टव्यम्,

आर्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥

इत्य् अङ्गिरःस्मरणात् । तया पर्षदा ज्ञात्वैव व्रतम् उपदेष्टव्यम्,

अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ।
प्रायश्चित्ती भवेत् पूतः किल्बिषं पर्षदं व्रजेत् ॥

इति वसिष्ठस्मरणात् । क्षत्रियादीनां तु कृतैनसां धर्मोपदेशे विशेषो ऽङ्गिरसा दर्शितः ।

न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतैनसः ।
अन्तरा ब्राह्मणं कृत्वा व्रतं सर्वं समादिशेत् ॥
तया शूद्रं समासाद्य सदा धर्मपुरःसरम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥ इति ।

तत्र च यागाद्यनुष्ठानशीलानां जपादिकं वाच्यम्, इतरेषां तु तपः ।

कर्मनिष्टास् तपोनिष्ठाः कदाचित् पापम् आगताः ।
जपहोमादिकं तेभ्यो विशेषेण प्रदीयते ॥
ये नामधारका विप्रा मूर्खा धनविवर्जिताः ।
कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्याद् विशेषतः ॥

**इति प्रकाशप्रायश्चित्तप्रकरणम् **

**अथ रहस्यप्रायश्चित्तम् **

व्याख्याय ख्यातदुरितशातनीं व्रतसंततिम् ।
रहःकृताघसंदोहहारिणीं व्याहरन् मुनिः ॥

तत्र प्रथमं सकलरहस्यव्रतसाधारणं धर्मम् आह ।

अनभिख्यातदोषस् तु रहस्यं व्रतम् आचरेत् ॥ ३.३००च्द्

कर्तृव्यतिरिक्तैर् अनभिख्यातो दोषो यस्यासौ रहस्यम् अप्रकाशं प्राय्श्चित्तम् अनुतिष्ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात्, तदितरैर् अविज्ञातदोषस्य रहस्यव्रतम् इति मन्तव्यम् । अत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस् तदा परस्मिन्न् अविभाव्य स्वनिमित्तोचितं प्रायश्चित्तम् अनुतिष्ठेत् । यस् तु स्वयम् अनभिज्ञो ऽसौ “केनचिद् रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तम्” इत्य् अन्यव्याजेनावगम्य, रहोव्रतम् अनुतिष्ठेत् । अत एव स्त्रीशूद्रयोर् अप्य् अमुनैव मार्गेण रहस्यव्रतज्ञानसिद्धेर् अधिकारसिद्धिः । न च वाच्यं रहस्यव्रतानां जपादिप्रधानत्वाद् अविद्ययोश् च स्त्रीशूद्रयोस् तदनुपपत्तेर् अनधिकार इति । यतो ऽनैकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम्, दानादेर् अप्य् उपदेशात्, गौतमोक्तप्राणायामादेर् अपि संभवाच् च (ग्ध् २४–२५) । इतरेषाम् अपि मन्त्रदैवतर्षिच्छन्दःपरिज्ञानमात्रम् एवाधिकारोपयोगि न त्व् अन्यविषयम् । न हि तडागनिर्माणादौ ज्योतिष्टोमादिविषयिणी प्रतिपत्तिर् उपयुज्यते । देवतादिपरिज्ञानं त्व् अवश्यम् अपेक्षणीयम्,

अविदित्वा ऋषिं छन्दो दैवतं योगम् एव च ।
यो ऽध्यापयेज् जपेद् वापि पापीयाञ् जायते तु सः ॥

इति व्यासस्मरणात् । अत्राप्य् आहारविशेषानुक्तौ पयःप्रभृतयः कालविशेषानुक्तौ संवत्सरादयः देशविशेषानुक्तौ शिलोच्चयादयो गौतमाद्यभिहिता प्रकाशप्रायश्चित्तवद् अन्वेषणीयाः ॥ ३.३०० ॥

एवं सकलरहस्यसाधारणधर्मम् अभिधाय प्रकाशप्रायश्चित्तवद् ब्रह्महत्यादिक्रमेणैव रहस्यप्रायश्चित्तान्य् आह ।

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम् । ३.३०१अब्
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥ ३.३०१च्द्

त्रिरात्रम् उपोषितो ऽन्तर्जले ऽघमर्षणेन महार्षिणा दृष्टं सूक्तं अघमर्षणम् “ऋतं च सत्यं च” इति तृचम् आनुष्टुभं भाववृत्तदेवताकं जप्त्वा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रमहा विशुध्यति । जपश् चान्तर्जले निमग्नेन त्रिर् आवर्तनीयः । यथाह सुमन्तुः- “देवद्विजगुरुहन्ताप्सु निमग्नो ऽघमर्षणं सूक्तं त्रिर् आवर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्नुषां सखीं वान्यद् वागम्यागमनं कृत्वाघमर्षणम् एवान्तर्जले त्रिर् आवर्त्य तद् एतस्मात् पूतो भवति” इति । एतच् चाकामकारविषयम् । यत् तु मनुनोक्तम्,

सव्याहृतिप्रणवकाः प्राणायामास् तु षोडश ।
अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ॥ (म्ध् ११.२४९)

इति, तद् अप्य् अस्मिन्न् एव विषये गोदानाशक्तस्य वेदितव्यम् । यत् तु गौतमेन षट्त्रिंशद्रात्रव्रतम् उक्त्वोक्तं “तद्व्रत एव ब्रह्महत्यासुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातो ऽघमर्षणं जपेत्” (ग्ध् २४.१०) इति, तद् अकामतः सकृद्वधविषयम् । यत् तु बौधायनेनोक्तम् । “ग्रामात् प्राचीं वोदीचीं दिशम् उपनिष्क्रम्य स्नातः शुचिः शुचिवासा उदकान्ते स्थण्डिलम् उपलिप्य सकृत्क्लिन्नवासाः गोशकृत्पूतेन पाणिनादित्याभिमुखो ऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतम् अपराह्णे शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्यो ऽज्ञानकृतेभ्यश् चोपपातकेभ्यः सप्तरात्रात् प्रमुच्यते द्वादशरात्रान् महापातकेभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्य् अपि तरति” (ब्ध् ३.९.४; ३.५.३–६) इति, तत् कामकारविषयम् अकामतः श्रोत्रियाचार्यसवनस्थवधविषयं वा । यत् तु मनुनोक्तम्,

अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् ।
मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ॥ (म्ध् ११.२५९)

इति, तत् कामतः श्रोत्रियादिवधविषयम् इतरत्र कामतो ऽभ्यासविषयं वा । यत् तु बृहद्विष्णुनोक्तम्- “ब्रह्महत्यां कृत्वा ग्रामात् प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य प्रभूतेन्धनेनाग्निं प्रज्वाल्याघमर्षणेनाष्टसहस्रम् आज्याहुतीर् जुहुयात्, तत एतस्मात् पूतो भवति” इति, तन् निर्गुणवधविषयम् अनुग्राहकविषयं वा । यत् तु यमेनोक्तम्,

त्र्यहं तूपवसेद् युक्तस् त्रिरह्नो ऽभ्युपयन्न् अपः ।
मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ॥

इति, तद् गुणवतो हन्तुर् निर्गुणवधविषयं प्रयोजकानुमन्तृविषयं वा । यत् तु हारीतेनोक्तम्, “महापातकातिपातकानुपपातकोपपातकानाम् एकतमम् एव संनिपाते चाघमर्षणम् एव त्रिर् जपेत्” इति, तन् निमित्तकर्तृविषयम् । एवम् अन्यान्य् अपि स्मृतिवाक्यान्य् अन्विष्यैवम् एव विषयेषु विभजनीयानि, ग्रन्थगौरवभयान् न लिख्यन्ते । एतद् एव व्रतजातं यागस्थयोषित्क्षत्रविट्स्व् आत्रेय्याम् आहिताग्निपत्न्यां गर्भिण्याम् अविज्ञाते च गर्भे व्यापादिते तुरीयांशन्य् ऊनम् अनुष्ठेयम् ॥ ३.३०१ ॥

प्रायश्चित्तान्तरम् आह ।

लोमभ्यः स्वाहेत्य् अथ वा दिवसं मारुताशनः । ३.३०२अब्
जले स्थित्वाभिजुहुयाच् चत्वारिंशद् घृताहुतीः ॥ ३.३०२च्द्

अथ वाहोरात्रम् उपोषितो रात्राव् उदके वासं कृत्वा प्रातर् जलाद् उत्तीर्य लोमभ्यः स्वाहेत्याद्यैर् अष्टभिर् मन्त्रैर् एकेन पञ्चपञ्चाहुतय इत्य् एवं चत्वारिंशद्घृताहुतीर् जुहुयात् । इदं च पूर्वोक्तसमानविषयम्, उदवासस्य क्लेशबाहुल्यात् ॥ ३.३०२ ॥

क्रमप्राप्तं सुरापानप्रायश्चित्तम् आह ।

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर् घृतं शुचिः । ३.३०३अब्

सुरापश् चत्वारिंशद् घृताहुतीर् इत्य् अनुवर्तते । त्रिरात्रम् उपोषितः कूष्माण्डीभिः “यद् देवादेवहेऌअनम्” इत्याद्याभिः कूष्माण्डदृष्टाभिर् अनुष्टुब्भिर् मन्त्रलिङ्गदेवताभिर् ऋग्भिश् चत्वारिंशद्घृताहुतीर् हुत्वा शुचिर् भवेत् । तथा बौधायनेनाप्युक्तम्- “अथ कूष्माण्डीभिर् जुहुयाद् यो ऽपूत एवात्मानं मन्येत यावद् अर्वाचीनम् एनो भ्रूणहत्यायास् तस्मान् मुच्यते । अयोनौ वा रेतः सिक्त्वान्यत्र स्वप्नात्” इति (ब्ध् ३.१–४) । यत् तु मनुना,

कौत्सं जप्त्वाप इत्य् एतद् वसिष्ठं च प्रतीत्य् ऋचम् ।
माहित्रं शुद्धवत्यश् च सुरापो ऽपि विशुध्यति ॥ (म्ध् ११.२५०)

इति, मासं प्रत्यहं षोडशकृत्वो ऽपनःशोशुचद् अघं प्रतिस्तोमेभि रुषसं वासिष्ठम् । महित्रीणाम् अवोस्त्वेतोन्विन्द्रंस्तवामेत्य् एतेषाम् अन्यतमस्य जप उक्तः, स त्रिरात्रोपवासकूष्माण्डहोमाशक्तस्य वेदितव्यः । एताच् चाकामतः पैष्ट्याः सकृत्पाने, गौडीमाध्व्योस् तु पानावृत्तौ च वेदितव्यम् । यच् च मनुना,

मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः ।
स गुर्व् अप्य् अपहन्त्य् एनो जप्त्वा नम इत्य् ऋचम् ॥ (म्ध् ११.२५७)

इति, संवत्सरं प्रत्यहं “देवकृतस्यैनसः” इत्यादिभिर् अष्टभिर् मन्त्रैर् होमो “नम इद् उग्रं नम आविवासे” इत्य् एतस्या ऋचो वा जप उक्तः, स कामकारविषयः । यत् तु,

महापातकसंयुक्तो ऽनुगच्छेद् गाः समाहितः ।
अभ्यस्याब्दं पावमानीर् भैक्षाहारो विशुध्यति ॥

इति, तद् अभ्यासविषयम् समुच्चितमहापातकविषयं वा ॥

सुवर्णस्तेयप्रायश्चित्तम् आह ।

ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥ ३.३०३च्द्

ब्राह्मणस्वर्णहारी पुनस् त्रिरात्रोपोषितः जलमध्यस्थो “नमस् ते रुद्र मन्यव” इति शतरुद्रियजपयुक्तः शुध्यतीति । शातातपेनात्र विशेष उक्तः ।

मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्माच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥ इति

जपश् चैकादशकृत्वः कार्यः,

एकादशगुणान् वापि रुद्रान् आवर्त्य धर्मवित् ।
महापापैर् अपि स्पृष्टो मुच्यते नात्र संशयः ॥

इत्य् अत्रिस्मरणात् । यत् तु मनुना,

सकृज् जप्त्वास्यवामीयं शिवसंकल्पम् एव च ।
सुवर्णं अपहृत्यापि क्षणाद् भवति निर्मलः ॥ (म्ध् ११.२५१)

इति द्विपञ्चाशदृक्संख्याकस्य “अस्य वामस्य् अपलितस्य होतुः” (र्व् १.१६४.१) इति सूक्तस्य तथा “यज् जाग्रतो दूरम् उदैतु दैवम्” (व्स् ३४.१) इति शिवससंकल्पदृष्टस्य षडृचस्य वा सकृज्जप उक्तः, सो ऽत्यन्तनिर्गुणस्वामिकस्वर्णहरणे गुणवतो ऽपहर्तुर् द्रष्टव्यः । सुवर्णन्यूनपरिमाणविषयो ऽनुग्राहकप्रयोजकविषयो वा । आवृत्तौ तु “महापातकसंयुक्तो ऽनुगच्छेत्” इत्यादिनोक्तं द्रष्टव्यम् ॥ ३.३०३ ॥

क्रमप्राप्तं गुरुतल्पगप्रायश्चित्तम् आह ।

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः । ३.३०४अब्
गौर् देया कर्मणो ऽस्यान्ते पृथग् एभिः पयस्विनी ॥ ३.३०४च्द्

गुरुतल्पगस् तु सहस्रशीर्षेति षोडशर्चसूक्तं नारायणदृष्टं पुरुषदैवत्यम् आनुष्टुभं त्रिष्टुबन्तं जपंस् तस्मात् पापान् मुच्यते । सहस्रशीर्षाजापीति ताच्छील्यप्रत्ययाद् आवृत्तिर् गम्यते । अत एव यमेनोक्तम् ।

पौरुषं सूक्तम् आवर्त्य मुच्यते सर्वकिल्बिषात् । इति ।

आवृत्तौ च संख्यापेक्षायाम् अधस्तनश्लोकगता चत्वारिंशत्संख्यानुमीयते । अत्रापि प्राक्तनश्लोकगतं त्रिरात्रोपोषित इति संबन्ध्यते । अत एव बृहद्विष्णुः- “त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः शुध्येत्” इति । एभिश् च सुरापसुवर्णस्तेनगुरुतल्पगैस् त्रिभिः पृथक् पृथग् अस्य त्रिरात्रव्रतस्यान्ते बहुक्षीरा गौर् देया । इदम् अकामविषयम् । यत् तु मनुना,

हविष्यान्तीयम् अभ्यस्य न तमं ह इतीति च ।
जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ (म्ध् ११.२५२)

इति । “हविष् पान्तम् अजरं स्वर्विदं,” (र्व् १०.८८.१) “न तम् अंहो न दुरितं,” (र्व् २.२३.५) “इति वा इति मे मनः,” (र्व् १०.११९.१) “सहस्रशीर्षा” (र्व् १०.९०.१) इत्य् एषाम् अन्यतमस्य मासं प्रत्यहं षोडशषोडशकृत्वो जप उक्तः, सो ऽप्य् अकामविषय एव । कामतस् तु “मन्त्रैः शाकलहोमीयैः” (म्ध् ११.२५७) इति मनूक्तं द्रष्टव्यम् । यत् तु षट्त्रिंशन्मते ऽभिहितम्,

महाव्याहृतिभिर् होमस् तिलैः कार्यो द्विजन्मना ।
उपपातकशुद्ध्यर्थं सहस्रपरिसंख्यया ॥
महापातकसंयुक्तो लक्षहोमेन शुध्यति ॥

इति, तद् आवृत्तिविषयम् । यत् तु यमेनोक्तम्,

जपेद् वाप्य् अस्यवामीयं पावमानीर् अथापि वा ।
कुन्तापं वालखिल्यांश् च निवित्प्रैषान् वृषाकपिम् ॥
होतॄन् रुद्रान् सकृज् जप्त्वा मुच्यते सर्वपातकैः ॥

इति, तद् व्यभिचारिणीगमनविषयम् । यानि पुनः गुरुतल्पातिदेशविषयाणि तत्समानि वातिपातकोपपातकपदाभिधेयानि तेषु तुरीयांशन्यूनम् अर्धोनं च क्रमेण वेदितव्यम् । “पातकातिपातकोपपातकमहापातकानाम् एकतमे संनिपाते वा अघमर्षणम् एव त्रिर् जपेद्” इति हारीतोक्तं वा द्रष्टव्यम् । महापातकसंसर्गिणश् च “स तस्यैव व्रतं कुर्याद्” (म्ध् ११.१८२) इति वचनाद्, येन सह संसर्गस् तदीयम् एव प्रायश्चित्तम् । न च वाच्यं अत्राध्यापनादिसंसर्गस्यानेककर्तृकसंपाद्यत्वाद् रहस्यत्वानुपपत्तिर् इति । यतः सत्य् अप्य् अनेककर्तृत्वे परदारगमनवत् कर्तृव्यतिरिक्ततृतीयाद्यपरिज्ञानमात्रेणैव रहस्यत्वम् । अतो भवत्य् एव रहस्यप्रायश्चित्तम् । एवम् अतिपातक्यादिसंसार्गिणो ऽपि तदीयम् एव प्रायश्चित्तं वेदितव्यम् ॥ ३.३०४ ॥

इति महापातकरहस्यप्रायश्चित्तप्रकरणम् ।

क्रमप्राप्तं गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तम् आह ।

प्राणायामशतं कार्यं सर्वपापापनुत्तये । ३.३०५अब्
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ ३.३०५च्द्

गोवधादिषट्पञ्चाशदुपपातकजातानाम् अनादिष्टरहस्यव्रतानां च जातिभ्रंशकरादीनां सर्वेषाम् अपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषां महापातकादीनां प्रकीर्णकान्तानाम् अप्य् अपनुत्तये प्राणायामाः कार्याः । तत्र च महापातकेषु चतुःशतम्, अतिपातकेषु त्रिशतम्, अनुपातकेषु द्विशतम् इति संक्याविवृद्धिः कल्पनीया । प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधानदर्शनात्, प्रकीर्णकेषु च ह्रासः कल्प्यः । अत एवोक्तं यमेन ।

दशप्रणवसंयुक्तैः प्राणायामैश् चतुःशतैः ।
मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥ इति ।

बौधायनेनाप्यत्र विशेष उक्तः- “अपि वाक्चक्षुःश्रोत्रत्वक्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैह् शुध्यति । शूद्रस्त्रीगमनान्नभोजनेषु पृथक् पृथक् सप्ताहं सप्त प्रानायामान् धारयेत् । अभक्ष्याभोज्यामेध्यप्राशनेषु तथा वापण्यविक्रयेषु मधुमांसघृततैललाक्षालवणरसान्नवर्जितेषु यच् चान्यद् अप्य् एवंयुक्तं स्याद् अर्धमासं द्वादशद्वादश प्राणायामान् धारयेत् । उपपातकपतनीयवर्जं यच् चाप्य् अन्यद् एवंयुक्तं स्यान् मासं द्वादशार्धमासान् द्वादशद्वादश प्राणायामान् धारयेत् । अन्यपातकवर्ज्यं यच् चान्यद् अप्य् एवंयुक्तं द्वादश अर्धमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान् धारयेत्” इति (ब्ध् ४.१.४–१०) । तत्र “वाक्चक्षुर्” इत्यादिप्राणायामत्रयं प्रकीर्णकाभिप्रायम् । शूद्रस्त्रीगमनान्नभोजनेत्यादिनोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा अभक्ष्याभोज्येत्यादिनोक्ताश् चतुश्चत्वारिंशदधिकशतप्राणायामा अप्य् उपपातकविशेषाभिप्राया एव । “अथ पातकोपपातकवर्ज्यम्” इत्यादिनोक्ताः साशीतिशतप्राणायामा जातिभ्रंशकराद्यभिप्रायाः । “अथ पातकपतनीयवर्ज्यम्” इत्यादिनोक्ताः षष्ट्यधिकशतत्रयप्राणायामाः गोवधाद्युपपातकाभिप्रायाः । “अथ पातकवर्ज्यम्” इत्यादिनोक्ताः षष्ट्यधिकद्विशतसहितद्विसहस्रसंख्याकाः प्राणायामा अतिपातकानुपपातकाभिप्रायाः । “अथ पातकेषु” इत्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश् चतुःसहस्रप्राणायामा महापातकविषयाः । इदं चाभक्ष्यभोज्येत्यादिनोक्तं प्रायश्चित्तपञ्चकम् अत्यन्ताभ्यासविषयं समुच्चितविषयं वा । यत् तु मनुना,

एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम् ।
अवेत्यृचं जपेद् अब्दं यत् किंचेदमितीति वा ॥ (म्ध् ११.२५३)

इत्य् अब्दं यावत् प्रत्यहम् अर्थान्तराविरुद्धेषु कालेषु “अवतेहेडोवरुण” इत्य् अस्या ऋचो “यत् किंचेदम्” इत्य् अस्याः “इति वा इतिमेमनः” इत्य् अस्याश् च जप उक्तः, सो ऽप्य् अभ्यासविषयः ॥ ३.३०५ ॥

उपपातकसामान्यप्राप्तस्य प्राणायामशतस्यापवादम् आह ।

ॐकाराभिष्टुतं सोमसलिलं पावनं पिबेत् । ३.३०६अब्
कृत्वा हि रेतोविण्मूत्रप्राशनं तु द्विजोत्तमः ॥ ३.३०६च्द्

द्विजो रेतोविण्मूत्रप्राशनं कृत्वा सोमलतारसम् ओङ्कारेणाभिमन्त्रितं शुद्धिसाधनं पिबेत् । एतच् चाकामकारविषयम् । कामतस् तु सुमन्तूक्तम्- “रेतोविण्मूत्रप्राशनं कृत्वा, लशुनपलाण्डुगृञ्जनकुम्भिकादीनाम् अन्येषां चाभक्ष्याणां भक्षणं कृत्वा, हंसग्रामकुक्कुटश्वसृगालादिमांसभक्षणं च कृत्वा, ततः कण्ठमात्रम् उदकम् अवतीर्य शुद्धवतीभिः प्राणायामं कृत्वा महाव्याहृतिभिर् उरोगम् उदकं पीत्वा तद् एतस्मात् पूतो भवति” इति । मनुनापि सप्तविधाभक्ष्यभक्षणे प्रायश्चित्तान्तरम् उक्तम् ।

प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ॥ इति । (म्ध् ११.२५४)

अप्रतिग्राह्यं विषशस्त्रसुरादि पतितादिद्रव्यं च । यदा त्व् अप्सु रेतोविण्मूत्रादिशारीरं मलं विसृजति तदापि तेनैवोक्तम् ।

अप्रशस्तं तु कृत्वाप्सु मासम् आसीत भैक्ष्यभुक् । इति ॥ (म्ध् ११.२५६) ३.३०६ ॥

अज्ञानकृते प्रकीर्णके मानसे चोपपातके प्रायश्चित्तम् आह ।

निशायां वा दिवा वापि यद् अज्ञानकृतं भवेत् । ३.३०७अब्
त्रैकाल्यसंध्याकरणात् तत् सर्वं विप्रणश्यति ॥ ३.३०७च्द्

रजन्यां वासरे वा यत् प्रमादकृतं प्रकीर्णकं मानसं वाचिकं चोपपातकं तत् सर्वं प्रातर्मध्याह्नादिकालत्रयविहितनित्यसंध्योपासनया प्रणश्यति । तथा च यमः ।

यद् अह्नात् कुरुते पापं कर्मणा मनसा गिरा ।
आसीनः पश्चिमां संध्यां प्राणायामैर् निहन्ति तत् ॥ इति ।

शातातपेनाप्य् उक्तम् ।

अनृतं मद्यगन्धं च दिवा मैथुनम् एव च ।
पुनाति वृषलान्नं च संध्या बहिर् उपासिता ॥ इति ॥ ३.३०७ ॥

अथ सकलमहापातकादिसाधारणान् पवित्रमन्त्रान् आह ।

शुक्रियारण्यकजपो गायत्र्याश् च विशेषतः । ३.३०८अब्
सर्वपापहरा ह्य् एते रुद्रैकादशिनी तथा ॥ ३.३०८च्द्

“शुक्रियं” नाम आरण्यकविशेषः “विश्वानि देव सवितः” (व्स् ३०.३) इत्यादि वाजसनेयके पठ्यते, आरण्यकं च यजुः “ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये” इत्यादि तत्रैव पठ्यते, तयोर् जपः सकलमहापातकादिहरः । तथा गायत्र्याश् च महापातकेषु लक्षम् अतिपातकोपपातकयोर् दशसहस्रम् उपपातकेषु सहस्रं प्रकीर्णकेषु शतम् इत्य् एवं विशेषतो जपः सर्वपापहरः । तथा च गायत्रीम् अधिकृत्य श्लोकः शङ्खेनोक्तः ।

शतं जप्ता तु सावित्री महापातकनाशिनी ।
सहस्रजप्ता तु तथा पातकेभ्यः प्रमोचिनी ॥
दशसाहस्रजाप्येन सर्वकिल्बिषनाशिनी ।
लक्षं जप्ता तु सा देवी महापातकनाशिनी ॥
सुवर्णस्तेयकृद् विप्रो ब्रह्महा गुरुतल्पगः ।
सुरापश् च विशुध्यन्ति लक्षं जप्त्वा न संशयः ॥ इति ।

यत् तु चतुर्विंशतिमते उक्तम्,

गायत्र्यास् तु जपन् कोटिं ब्रह्महत्यां व्यपोहति ।
लक्षाशीतिं जपेद् यस् तु सुरापानाद् विमुच्यते ॥
पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः ।
गायत्र्या लक्षषष्ट्या तु मुच्यते गुरुतल्पगः ॥

इति, तद् गुरुत्वात् प्रकाशविषयम् । तथा रुद्रैकादशिनी एकादशानां रुद्रानुवाकानां समाहारो रुद्रैकादशिनी । सा च विशेषतो जप्ता सर्वपापहरा ।

एकादशगुणान् वापि रुद्रान् आवर्त्य धर्मवित् ।
महद्भ्यः स तु पापेभ्यो मुच्यते नात्र संशयः ॥

इति महापातकेष्व् एकादशगुणावृत्तिदर्शनात्, अतिपातकादिषु चतुर्थचतुर्थांशह्रासो योजनीयः । चशब्दो ऽघमर्षणादिसमुच्चयार्थः । यथाह वसिष्ठः ।

सर्ववेदपवित्राणि वक्ष्याम्य् अहम् अतः परम् ।
येषां जपैश् च होमैश् च पूयन्ते नात्र संशयः ॥
अघमर्षणं देवकृतं शुद्धवत्यस् तरत्समाः ।
कूष्माण्ड्यः पावमान्यश् च दुर्गासावित्र्य् अथैव च ॥
अभीषङ्गाः पदस्तोमाः सामानि व्याहृतीस् तथा ।
भारदण्डानि सामानि गायत्रं रैवतं तथा ॥
पुरुषव्रतं च भासं च तथा देवव्रतानि च ।
आर्त्विगं बार्हस्पत्यं च वाक्सूक्तं मध्वृचस् तथा ॥
शतरुद्रियाथर्वशिरास् त्रिसुपर्णं महाव्रतम् ।
गोसूक्तं चाश्वसूक्तं च इन्द्रशुद्धे च सामनी ॥
त्रीण्य् आज्यदोहानि रथन्तरं च
अग्नेर् व्रतं वामदेव्यं बृहच् च ।
एतानि गीतानि पुनन्ति जन्तूञ्
जातिस्मरत्वं लभते यदीच्छेत् ॥ इति ॥ (वध् २८.१०–१५) ३.३०८ ॥

किं च ।

यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः । ३.३०९अब्
तत्र तत्र तिलैर् होमो गायत्र्या वाचनं तथा ॥ ३.३०९च्द्

यत्र यत्र च ब्रह्मवधादौ तज्जनितकल्मषजातेनात्मानं संकीर्णम् अभिभूतं द्विजो मन्यते, तत्र तत्र गायत्र्या तिलैर् होमः कार्यः । तत्र महापातकेषु लक्षसंख्यया होमः कार्यः,

गायत्र्या लक्षहोमेन मुच्यते सर्वपातकैः ।

इति यमस्मरणात् । अतिपातकादिषु पादपादह्रासः कल्पनीयः । तथा तिलैर् वाचनं दानं कार्यम् । तथा च रहस्याधिकारे वसिष्ठः ।

वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
क्षौद्रयुक्तैस् तिलैः कृष्णैर् वाचयेद् अथ वेतरैः ॥
प्रीयतां धर्मराजेति यद् वा मनसि वर्तते ।
यावज्जीवकृतं पापं तत् क्षणाद् एव नश्यति ॥ इति । (वध् २८.१८–१९)

तथा अनियतकाले ऽपि दानं तेनैवोक्तम् ।

कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस् तु विप्राय सर्वं तरति दुष्कृतम् ॥ इति । (वध् २८.२२)

तथा व्यासेनाप्युक्तम् ।

तिलधेनुं च यो दद्यात् संयतात्मा द्विजन्मने ।
ब्रह्महत्यादिभिः पापैर् मुच्यते नात्र संशयः ॥ इति ।

एवमादि दानजातं रहस्यकाण्डोक्तम् अविदुषां द्विजानां स्त्रीशूद्रयोश् च वेदितव्यम् । यत् तु यमेनोक्तम्,

तिलान् ददाति यः प्रातस् तिलान्स् पृशति खादति ।
तिलस्नायी तिलाञ् जुह्वन् सर्वं तरति दुष्कृतम् ॥

तथा,

द्वे चाष्टम्यौ तु मासस्य चतुर्दश्यौ तथैव च ।
अमावास्या पौर्णमासी सप्तमी द्वादशीद्वयम् ॥
संवत्सरम् अभुञ्जानः सततं विजितेन्द्रियः ।
मुच्यते पातकैः सर्वैः स्वर्गलोकं च गच्छति ॥

इति । यच् च अत्रिणोक्तम्,

क्षीराब्धौ शेषपर्यङ्के त्व् आषाढ्यां संविशेद् धरिः ।
निद्रां त्यजति कार्तिक्यां तयोः संपूजयेद् धरिम् ॥
ब्रह्महत्यादिकं पापं क्षिप्रम् एव व्यपोहति ॥

इत्य् एवमादि, तत् सर्वं विद्याविरहिणां कामाकामसकृदसकृदभ्यासविषयतया व्यवस्थापनीयम् ॥ ३.३०९ ॥

किं च ।

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् । ३.३१०अब्
न स्पृशन्तीह पापानि महापातकजान्य् अपि ॥ ३.३१०च्द्
वेदस्वीकरणं पूर्वं विचारो ऽभ्यसनं जपः ।
तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥

इत्युक्तक्रमेण वेदाभ्यासनिरतं तितिक्षायुक्तं पञ्चमहायज्ञानुष्ठाननिरतं महापातकजान्य् अपि पापानि न स्पृशन्ति । किम् उत प्रकीर्णकजानि वाङ्मनसजन्योपपातकानि चेत्य् अत्र तात्पर्यम् अपिशब्दाल् लक्ष्यते । एतच् चाकामकारविषयम् । अत एव वसिष्ठेन,

यद्य् अकार्यशतं साग्रं कृतं वेदश् च धार्यते ।
सर्वं तत् तस्य वेदाग्निर् दहत्य् अग्निर् इवेन्धनम् ॥ (वध् २७.१)

इति प्रकीर्णकाद्यभिप्रायेणाभिधाय, अभिहितम्,

न वेदबलम् आश्रित्य पापकर्मरतिर् भवेत् ।
अज्ञानाच् च प्रमादाच् च दह्यते कर्म नेतरत् ॥ इति ॥ (वध् २७.४) ३.३१० ॥

किं च ।

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् । ३.३११अब्
जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाद् ऋते ॥ ३.३११च्द्

सोपवसो वासरम् उपविशन् उषित्वा सलिले वसन् निशां नीत्वादित्योदयानन्तरं सावित्र्याः सहस्रं जप्त्वा ब्रह्मवधव्यतिरिक्तसकलमहापातकादिपापजातान् मुच्यते । अतश् चोपपातकादिष्व् अभ्यासे ऽनेकदोषसमुच्चये वा वेदितव्यम्, विषमविषयसमीकरणस्यान्याय्यत्वात् । अत एव वृद्धवसिष्ठेन महापातकोपपाकतयोः कालविशेषेण व्रतविशेष उक्तः । यथाह, “यवानां प्रसृतिम् अञ्जलिं वा श्रप्यमाणं शृतं वाभिमन्त्रयेत् ऽयवो ऽसि धान्यराजस् त्वं वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रम् ऋषिभिः स्मृतम्ऽ इत्य् अनेन । ऽघृतं यवा मधुयवाः पवित्रम् अमृतं यवाः । सर्वं पुनन्तु मे पापं वाङ्मनःकायसंभवम्ऽ इत्य् अनेन वा ।”

अग्निकार्यं तु कुर्वीत तेन भूतमलिं तथा ।
नाग्रं न भिक्षां नातिथ्यं न चोच्छिष्टं परित्यजेत् ॥

ऽये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहाऽ इत्य् आत्मनि जुहुयात् त्रिरात्रं मेधाभिवृद्धये पापक्षयाय त्रिरात्रं ब्रह्महत्यादिषु द्वादशरात्रं पतितोत्पन्नश् च" । इत्य् एतद्दिगवलम्बनेनान्यान्य् अपि स्मृतिवचनानि विवेचनीयानि ॥ ३.३११ ॥

इति रहस्यप्रायश्चित्तप्रकरणम् ।

विनियुक्तव्रतव्रातरूपभेदे बुभुत्सिते ।
कीदृक्षम् इति संक्षेपाल् लक्षणं वक्ष्यते ऽधुना ॥

_तत्र तावत् सकलप्रकाशरहस्यव्रताङ्गभूतान् धर्मान् आह _।

ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता । ३.३१२अब्
अहिंसास्तेयमाधुर्ये दमश् चेति यमाः स्मृताः ॥ ३.३१२च्द्
स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । ३.३१३अब्
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ ३.३१३च्द्

ब्रह्मचर्यं सकलेन्द्रियसंयमः । उपस्थनिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन निर्दिष्टः । अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत् पुनर् मनुनोक्तम्,

अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् । (म्ध् ११.२२३)

इति, तद् अप्य् एतेषाम् उपलक्षणं न परिगणनाय । अत्र च दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानाम् अपि पुनर्विधानं प्रायश्चित्ताङ्गत्वार्थम् । क्वचिद् विशेषो ऽप्य् अस्ति । यथा विवाहादिष्व् अभ्यनुज्ञातस्याप्य् अनृतवचनस्य निवृत्त्यर्थं सत्यत्वविधानम् । पुत्रशिष्यादिकम् अपि न ताडनीयम् इत्येवमर्थम् अहिंसाविधानम् इत्येवमादि ॥ ३.३१२ ॥ ३.३१३ ॥

तत्र सान्तपनाख्यं व्रतं तावद् आह ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । ३.३१४अब्
जग्ध्वा परे ऽह्न्य् उपवसेत् कृच्छ्रं सांतपनं चरन् ॥ ३.३१४च्द्

पूर्वेद्युर् आहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युर् उपवसेद् इति द्वैरात्रिकः सान्तपनः कृच्छ्रः । संयोजनं चोत्तरश्लोके पृथग्विधानाद् अवगम्यते । कृच्छ्र इति चान्वर्थसंज्ञेयम्, तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वेद्युर् उपोष्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकम् एव पञ्चगव्यं पीयते तदा ब्रह्मकूर्च इत्य् आख्यायते । यथाह पाराशरः ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥
गोमूत्रं ताम्रवर्णायाः श्वेतायाश् चापि गोमयम् ।
पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥
घृतं च कृष्णवर्णायाः सर्वं कापिलम् एव च ।
अलाभे सर्ववर्णानां पञ्चगव्येष्व् अयं विधिः ॥
गोमूत्रं माषकास् त्व् अष्टौ गोमयस्य तु षोडश ।
क्षीरस्य द्वादश प्रोक्ता दध्नस् तु दश कीर्तिताः ॥
गोमूत्रवद् घृतस्येष्टस् तदर्धं तु कुशोदकम् ।
गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
तेजो ऽसि शुक्रम् इत्य् आज्यं देवस्यत्वा कुशोदकम् ।
पञ्चगव्यम् ऋचा पूतं होमयेद् अग्निसंनिधौ ॥
सप्तपत्राश् च ये दर्भा अच्छिन्नाग्राः शुचित्विषः ।
एतैर् उद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥
इरावती इदं विष्णुर् मानस्तोके च शंवतीः ।
एताभिश् चैव होतव्यं हुतशेषं पिबेद् द्विजः ॥
प्रणवेन समालोड्य प्रणवेनाभिमन्त्र्य च ।
प्रणवेन समुद्धृत्य पिबेत् तत् प्रणवेन तु ॥
मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् ।
स्वर्णपात्रेण रौप्येण ब्राह्मतीर्थेन वा पुनः ॥
यत् त्वगस्थिगतं पापं देहे तिष्ठति मानवे ।
ब्रह्मकूर्चोपवासस् तु दहत्य् अग्निर् इवेन्धनम् ॥ इति ।

यदा त्व् एतद् एव मिश्रितं पञ्चगव्यं त्रिरात्रम् अभ्यस्यते तदा यतिसान्तपनसंज्ञा लभते,

एतद् एव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम् ।

इति शङ्खस्मरणात् । जाबालेन तु सप्ताहसाध्यं सान्तपनम् उक्तम् ।

गोमूत्रं गोम्यं क्षीरं दधि सर्पिः कुशोदकम् ।
एकैकं प्रत्यहं पीत्वा त्व् अहोरात्रम् अभोजनम् ।
कृच्छ्रं सान्तपनं नाम सर्वपापप्रणाशनम् ॥ इति ।

एषां च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवम् उत्तरत्रापि व्यवस्था बोद्धव्या ॥ ३.३१४ ॥

महासान्तपनाख्यं कृच्छ्रम् आह ।

पृथक्सांतपनद्रव्यैः षडहः सोपवासकः । ३.३१५अब्
सप्ताहेन तु कृच्छ्रो ऽयं महासांतपनः स्मृतः ॥ ३.३१५च्द्

सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः । कथम् इत्य् अपेक्षायाम् उक्तं पृथग्भूतैः षड्भिर् गोमूत्रादिभिर् एकैकेनैकैकम् अहर् अतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाहसंपाद्यो महासान्तपनो ऽभिहितः ।

त्र्यहं पिबेत् तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् ।
त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं ँँसर्पितस्तःँँ शुचिः ॥
महासान्तपनं ह्य् एतत् सर्वपापप्रणाशनम् ॥ इति ।

जाबालेन त्व् एकविंशतिरात्रिनिर्वर्त्यो महासान्तपन उक्तः ।

षण्णाम् एकैकम् एतेषां त्रिरात्रम् उपयोजयेत् ।
त्र्यहं चोपवसेद् अन्त्यं महासान्तपनं विदुः ॥ इति ।

यदा तु षण्णां सान्तपनद्रव्याणाम् एकैकस्य द्व्यहम् उपयोगस् तदा अतिसान्तपनम् । यथाह यमः ।

एतान्य् एव तथा पेयान्य् एकैकं तु द्व्यहं द्व्यहम् ।
अतिसान्तपनं नाम श्वपाकम् अपि शोधयेत् ॥ इति ।

श्वपाकम् अपि शोधयेद् इत्य् अर्थवादः ॥ ३.३१५ ॥

इति महासांतपनातिसांतपने

पर्णकृच्छ्राख्यं व्रतम् आह ।

पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः । ३.३१६अब्
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ ३.३१६च्द्

पलाशोदुम्बरारविन्दश्रीवृक्षपर्णानाम् एकैकेन क्वथितम् उदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्न् अहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनाम् एकीकृतानां क्वाथस् त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः ।

एतान्य् एव समस्तानि त्रिरात्रोपोषितः शुचिः ।
क्वाथयित्वा पिबेद् अद्भिः पर्णकूर्चो ऽभिधीयते ॥ इति ।

यदा तु बिल्वादिफलानि प्रत्येकं क्वथितानि मासं पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः ।

फलैर् मासेन क्वथितः फलकृच्छ्रो मनीषिभिः ।
श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैर् अपरस् तथा ॥
मसेनामलकैर् एवं श्रीकृच्छ्रम् अपरं स्मृतम् ।
पत्रैर् मतः पत्रकृच्छ्रः पुष्पैस् तत्कृच्छ्र उच्यते ॥
मूलकृच्छ्रः स्मृतो मूलैस् तोयकृच्छ्रो जलेन तु ॥ इति ॥ ३.३१६ ॥

इति पर्णकृच्छ्र एकादशविधः

तप्तकृच्छ्रम् आह ।

तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत् । ३.३१७अब्
एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः ॥ ३.३१७च्द्

दुग्धसर्पिरुदकानां तप्तानाम् एकैकं प्रतिदिवसं प्राश्यापरेद्युर् उपवसेत् । एष दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिर् एव समस्तैः सोपवासैर् द्विरात्रसंपाद्यः सान्तपनवत् तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वर्त्यो ऽभिहितः ।

तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।
प्रतित्र्यहं पिबेद् उष्णान् सकृत् स्नायी समाहितः ॥ इति । (म्ध् ११.२१५)

क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् ।

अपां पिबेत्तु त्रिपलं द्विपलं तु पयः पिबेत् ।
पलम् एकं पिबेत् सर्पिस् त्रिरात्रं चोष्णमारुतम् ॥ इति ।

त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेद् इत्य् अर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः,

त्र्यहं शीतं पिबेत् तोयं त्र्यहं शीतं पयः पिबेत् ।
त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥

इति यमस्मरणात् ॥ ३.३१७ ॥

इति तप्तकृच्छ्रश् चतुर्विधः

पादकृच्छ्रम् आह ।

एकभक्तेन नक्तेन तथैवायाचितेन च । ३.३१८अब्
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ ३.३१८च्द्

एकभक्तेन सकृद्भोजनेन दिवैव, नक्तेनेति पृथगुपादानात् । अतश् च दिवैवैकवारम् एव भोजनेनैवैकम होरात्रम् अतिवाहयेद् इति । तत्र दिवेति रात्रिव्युदासः । एकवारम् इति द्विवारादिव्युदासः । भोजनेनेत्य् अभोजनव्युदासः । एतच् च कृच्छ्रादीनां व्रतरूपत्वात् पुरुषार्थभोजनपर्युदासेन कृच्छ्राङ्गभूतं भोजनं विधीयते । तथा च आपस्तम्बः ।

त्र्यहम् अनक्ताश्य् अदिवाशी च ततस् त्र्यहं ।
त्र्यहम् अयाचितव्रतस् त्र्यहं नाश्नाति किंचन । इति ।

अत्र चानक्ताशीत्य् अनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्युदासेन दिवाभोजननियमं दर्शयति । गौतमेनापीदम् एव स्पष्टीकृतम्- “हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर् नाश्नीयात्” (ग्ध् २६.२) इति । एवं नक्तभोजनविधाव् अपि । न विद्यते याचितं यस्मिन् भोजने तद् अयाचितम् । तेन कालविशेषानुपादानाद् दिवा रात्रौ वा सकृद् इत्य् एव, तपोरूपत्वात् कृच्छ्राणां द्वितीयभोजने तद् अनुपपत्तेः । अयाचितम् इति न केवलं परकीयान्नयाचनप्रतिषेधो ऽपि तु स्वकीयम् अपि परिचारकभार्यादिभ्यो न याचितव्यम्, प्रेषणाध्येषणयोः साधारणत्वाद् याच्ञायाः । अतः स्वगृहे ऽपि भृत्यभार्यादयो ऽनाज्ञप्ता एव यदि भोजनम् उपहरन्ति तर्हि भोक्तव्यं नान्यथा । अमुनैवाभिप्रायेणोक्तं गौतमेन- “अथापरं त्र्यहं न कंचन याचेत्” (ग्ध् २६.४) इति । अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः ।

सायं तु द्वादशग्रासाः प्रातः पञ्चदश स्मृताः ।
चतुर्विंशतिर् आयाच्याः परं निरशनं स्मृतम् ॥ इति ।

आपस्तम्बेन त्व् अन्यथोक्तम् –

सायं द्वाविंशतिग्रासाः प्रातः षड्विंशतिः स्मृताः ।
चतुर्विंशतिर् आयाच्याः परं निरशनास्त्रयः ।
कुक्कुटाण्डप्रमाणास् तु यथा वास्यं विशेत् सुखम् ॥ इति ॥

अनयोश्च कल्पयोः शक्त्यपेक्षया विकल्पः । आपस्तम्बेन तु प्राजापत्यप्रायश्चित्तं चतुर्धा विभज्य चतुरः पादकृच्छ्रान् कृत्वा वर्णानुरूपेण व्यवस्था दर्शिता ।

त्र्यहं निरशनं पादः पादश् चायाचितं त्र्यहम् ।
सायं त्र्यहं तथा पादः पादः प्रातस् तथा त्र्यहम् ॥
प्रातः पादं चरेच् छूद्रः सायं वैश्ये तु दापयेत् ।
अयाचितं तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ॥ इति ।

यदा त्व् अयाचितोपवासात्मकत्र्यहद्वयानुष्ठानं तदार्धकृच्छ्रः । सायंव्यतिरिक्तापरत्र्यहत्रयानुष्ठानं तु पादोनम् इति विज्ञेयम्,

सायंप्रातर्विनार्धं स्यात् पादोनं नक्तवर्जितम् ।

इति तेनैवोक्तत्वात् । अर्धकृच्छ्रस्य प्रकारान्तरम् अपि तेनैव दर्शितम् ।

सायं प्रातस् तथैकैकं दिनद्वयम् अयाचितम् ।
दिनद्वयं च नाश्नीयात् कृच्छ्रार्धं तद् विधीयता ॥ इति ॥ ३.३१८ ॥

प्राजापत्यं कृच्छ्रम् आह ।

यथाकथंचित् त्रिगुणः प्राजापत्यो ऽयम् उच्यते । ३.३१९अब्

अयम् एव पादकृच्छ्रः यथाकथंचिद् दण्डकलितवद् आवृत्त्या स्वस्थानविवृद्ध्या वा, तत्राप्य् आनुलोम्येन प्रातिलोम्येन वा तथा वक्ष्यमाणजपाद् इत्य् उक्तं तद्रहितं वा त्रिर् अभ्यस्तः प्राजापत्यो ऽभिधीयते । तत्र दण्डकलितवद् आवृत्तिपक्षो वसिष्ठेन प्रदर्शितः ।

अहः प्रातर् अहर् नक्तम् अहर् एकम् अयाचितम् ।
अहः पराकं तत्रैकम् एवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर् धर्मभृतां वरः ।
बालवृद्धातुर्ष्व् एवं शिशुकृच्छ्रम् उवाच ह ॥ इति । (वध् २३.४३)

आनुलोम्येन स्वस्थानविवृद्धिपक्षस् तु मनुना दर्शितः ।

त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् ।
परं त्र्यहं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥ इति । (म्ध् ११.२१२)

प्रातिलोम्यावृत्तिस् तु वसिष्ठेन दर्शिता ।

प्रातिलोम्यं चरेद् विप्रः कृच्छ्रं चान्द्रायणोत्तरम् । इति । (वध् २१.१३)

जपादिरहितपक्षस् तु स्त्रीशूद्रादिविषये ऽङ्गिरसा दर्शितः ।

तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमादिवर्जितम् ॥ इति ।

जपादियुक्तपक्षस् तु पारिशेष्याद् योग्यतया च त्रैवर्णिकविषयः । स च गौतमादिभिर् दर्शितः- “अथातः कृच्छ्रान् व्याख्यास्यामः । हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर् नाश्नीयात् । अथापरं त्र्यहं नक्तं भुञ्जीत । अथापरं त्र्यहं न कंचन याचेत । अथापरं त्र्यहम् उपवसंस् तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकामः । सत्यं वदेत् । अनार्यैः सह न भाषेत । रौरवयोधां जपे नित्यं प्रयुञ्जीत । अनुसवनम् उदकोस्पर्शनम् आपोहिष्ठेति तिसृभिः पवित्रवतीभिर् मार्जयीत हिरण्यवर्णाः शुचयः पावका इत्य् अष्टाभिः । अथोदकतर्पणम् । नमोऽहमाय मोहमाय महमाय धन्वने तापसाय पुनर्वसवे नमः मौञ्ज्याय और्म्याय वसुविन्दाय सर्वविदाय नमः । पाराय सुपाराय महापाराय पारदाय परपाराय पारयिष्णवे नमः । रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वाय्ँँआघनाशनाय्ँँओग्राय वज्रिणे घृणिने कपर्दिने नमः । सूर्यायादित्याय नमः । नीलग्रीवाय शितिकण्ठाय नमः । कृष्णाय पिङ्गलाय नमः । ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । सत्याय पावकाय पावकवर्णायैकवर्णाय कामाय कामरूपिणे नमः । दीप्ताय दीप्तरूपिणे नमः । तीक्ष्णाय तीक्ष्णरूपिणे नमः । सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे नमः । चन्द्रललाटाय कृत्तिवासने नम इति । एतद् एवादित्योपस्थानम् । एता एवाज्याहुतयः । द्वादशरात्रस्यान्ते चरुं श्रपयित्वा एताभ्यो देवताभ्यो जुहुयात् । अग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्याम् इन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये ऽग्नये स्विष्टक्र्ते इति । अन्ते ब्राह्मणभोजनम्” (ग्ध् २६.१–१७) इति । तत्र तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकाम इत्य् अस्यार्थः । यस् तु महतो ऽप्य् एनसः क्षिप्रम् एकेनैव कृच्छ्रेण क्षिप्रं मुच्येयम् इत्य् एवं कामयते असाव् अहनि कर्माविरुद्धेषु कालेषु तिष्ठेद् रात्राव् आसीत । एवं रौरवयोधाख्यसामजपो नमो हमायेत्यादिभिस् तर्पणम् आदित्योपस्थानादिकं चरुश्रपणादिकं च योगीश्वराद्यनुक्तं क्षिप्रकामः कुर्वीत । अतश् च योगीश्वराद्युक्तप्राजापत्यद्वयस्थाने गौतमीयम् अनेकेतिकर्तव्यतासहितं द्रष्टव्यम् । एवाम् अन्यान्य् अपि स्मृत्यन्तरोक्तानि विशेषेणान्वेषणीयानि ॥

अतिकृच्छ्रम् आह ।

अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः ॥ ३.३१९च्द्

एतद्धर्मक एव एकभक्तादिप्राजापत्यधर्मयुक्तो ऽतिकृच्छ्रः स्यात् । इयांस् तु विशेषः । आद्ये त्र्यहत्रये पाणिपूरणमात्रम् अन्नं भुञ्जीत, न पुनर् द्वाविंशत्यादिग्रासान् । अत्र च प्राप्तभोजनानुवादेन पाणिपूरान्नविधानाद् अन्त्यत्र्यहे ऽतिदेशप्राप्त उपवासो ऽप्रतिपक्ष एव । अत्रापि पादशो व्यवस्था पूर्ववद् एव द्रष्टव्या । यत् तु मनुनोक्तम्,

एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ॥ (म्ध् ११.२१४)

इति, तत् पाणिपूरान्नपरिमिताद् अल्पत्वाच् छक्तविषयम् ॥ ३.३१९ ॥

कृच्छ्रातिकृच्छ्रम् आह ।

कृच्छ्रातिकृच्छ्रः पयसा दिवसान् एकविंशतिम् । ३.३२०अब्

एकविंशतिरात्रं पयसा वर्तनं कृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादशरात्रम् उदकेन वर्तनं कृच्छ्रातिकृच्छ्र उक्तः “अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः” (ग्ध् २६.२०) इति । अतश् च शक्त्यपेक्षयानयोर् व्यवस्था ॥

पराकम् आह ।

द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ३.३२०च्द्

ऋज्वर्थो ऽयम् अर्धश्लोकः ॥ ३.३२० ॥

सौम्यकृच्छ्रम् आह ।

पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । ३.३२१अब्
एकरात्रोपवासश् च कृच्छ्रः सौम्यो ऽयम् उच्यते ॥ ३.३२१च्द्

पिण्याको निःसृततैलस् तिलओदननिस्त्रावोदश्विदुदकसक्तूनां पञ्चानाम् एकैकं प्रतिदिवसम् उपभुज्य षष्ठे ऽह्नि उपवसेद् एष सौम्याख्यः कृच्छ्रो ऽभिधीयते । द्रव्यपरिमाणं तु प्राणायात्रामात्रनिबन्धनम् अधिगन्तव्यम् । जाबालेन तु चतुरहर्व्यापी सौम्यकृच्छ्र उक्तः ।

पिण्याकं सक्तवस् तक्रं चतुर्थे ऽहन्य् अभोजनम् ।
वासो वै दक्षिणां दद्यात् सौम्यो ऽयं कृच्छ्र उच्यते ॥ इति ॥ ३.३२१ ॥

तुलापुरुषाख्यं कृच्छ्रम् आह ।

एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम् । ३.३२२अब्
तुलापुरुष इत्य् एष ज्ञेयः पञ्चदशाहिकः ॥ ३.३२२च्द्

एषां पिण्याकादीनां पञ्चानां क्रमेणैककस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानाद् उपवासस्य निवृत्तिः । यमेन त्व् एकविंशतिरात्रिकस् तुलापुरुष उक्तः ।

आचामाम् अथ पिण्याकं तक्रं चोदकसक्तुकान् ।
त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षी त्र्यहद्वयम् ॥
एकविंशतिरात्रस् तु तुलापुरुष उच्यते ॥ इति ।

अत्र हारीताद्युक्तेतिकर्तव्यता ग्रन्थगौरवभयान् न लिख्यते ॥ ३.३२२ ॥

चान्द्रायणम् आह ।

तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसंमितान् । ३.३२३अब्
एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरन् ॥ ३.३२३च्द्

चान्द्रायणाख्यं व्रतं कुर्वन् मयूराण्डपरिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथिवृद्ध्या चरेत् भक्षयेत् । यथा प्रतिपत्प्रभृतिषु चन्द्रकलानाम् एकैकशो वृद्धिर् अर्धमासे तद्वत् पिण्डान् अपि प्रतिपद्य् एको द्वितीयायां द्वाव् इत्य् एवम् एकैकशो वर्धयन् भक्षयेद् यावत् पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान् भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्य् एवम् एकैकशो ग्रासान् ह्रासयन्न् अश्नीयाद् यावच् चतुर्दशी । ततश् चतुर्दश्याम् एकं ग्रासं ग्रसित्वा इन्दुक्षये ऽर्थाद् उपवसेत् । तथा च वसिष्ठः ।

एकैकं वर्धयेत् पिण्डं शुक्ले कृष्णे च ह्रासयेत् ।
इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥ इति । (वध् २७.२१)

चन्द्रस्यायनम् इवायनं चरणं यस्मिन् कर्मणि ह्रासवृद्धिभ्यां तच् चान्द्रायणं । संज्ञायां दीर्घः । इदं च यववत्प्रान्तयोर् अणीयो मध्ये स्थवीय इति यवमध्यम् इति कथ्यते । एतद् एव व्रतं यदा कृष्णपक्षप्रतिपदि प्रक्रम्य पूर्वोक्तक्रमेणानुष्ठीयते तदा पिपीलिकावन् मध्ये ह्रसिष्ठं भवतीति पिपीलिकमध्यम् इति कथ्यते । तथा हि पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतुर्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेत् चतुर्दशीं यावद् भुञ्जीत । ततश् चतुर्दश्याम् एकं ग्रासं ग्रसित्वामावास्यायाम् उपोष्य शुक्लप्रतिपद्य् एकम् एव ग्रासं प्राश्नीयात् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वर्त्यमाने पौर्णमास्यां पञ्चदश ग्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथा च वसिष्ठः ।

मासस्य कृष्णपक्षादौ ग्रासान् अद्याच् चतुर्दश ।
ग्रासापचयभोजी सन् पक्षशेषं समापयेत् ॥
तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् ।
ग्रासोपचयभोजी सन् पक्षशेषं समापयेत् ॥ इति । (वध् २३.४५)

यदा त्व् एकस्मिन् पक्षे तिथिवृद्धिह्रासवशात् षोडशदिनानि भवन्ति चतुर्दश वा, तदा ग्रासानाम् अपि वृद्धिह्रासौ वेदितव्यौ, “तिथिवृद्ध्या पिण्डांश् चरेद्” इति नियमात् । गौतमेनात्र विशेषो दर्शितः- “अथातश् चान्द्रायणम् । तस्योक्तो विधिः कृच्छ्रे वपनं च व्रतं चरेत् । श्वोभूतां पौर्णमासीम् उपवसेत् । ऽआप्यायस्व सं ते पयांसि नवो नवऽ इति चैताभिस् तर्पणम् आज्यहोमो हविषश् चाशुमन्त्रणम् उपस्थानं च चन्द्रमसः ऽयद् देवा देवहेडनम्ऽ इति चतसृभिर् आज्यं जुहुयाद् ऽदेवकृतस्यऽ इति चान्ते समिद्भिस् त्रिभिः ऽॐ भूः भुवः स्वः महः जनः तपः सत्यं यशः श्रीर् ऊर्ग् इट् ओजः तेजः पुरुषः धर्मः शिवःऽ इत्य् एतैर् ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वान् एतैर् एव ग्रासान् भुञ्जीत । तद्ग्रासप्रमाणम् आस्याविकारेण चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानि हवींष्य् उत्तरोत्तरं प्रशस्यानि । पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वा एकैकापचयेनापरपक्षम् अश्नीयात् । अमावास्यायाम् उपोप्षैकैकोपचयेन पूर्वपक्षं, विपरीतम् एकेषाम् एव चान्द्रायणो मासः” इति (ग्ध् २७.१–१५) । अत्र ग्रासप्रमाणम् आस्याविकारेणेति यद् उक्तं तद् बालाभिप्रायम्, तेषां शीख्यण्डपरिमितपञ्चदशग्रासभोजनाशक्तेः । क्षीरादिहविष्षु शिख्यण्डपरिमितत्वं तु पर्णपुटकादिना संपादनीयम् । तथा कुक्कुटाण्डार्द्रामलकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरोक्तानि शक्तिविषयाणि शिख्यण्डपरिमाणाल् लघुत्वात् तेषाम् । यत् पुनर् अत्र “श्वोभूतां पौर्णमासीम् उपवसेद्” इत्य् अत्र चतुर्दश्याम् उपवासमभिधाय “पौर्णमास्यां पञ्चदशग्रासान् भुक्त्वा” इत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तं तत् पक्षान्तरप्रदर्शनार्थं न सार्वत्रिकम्, योगीश्वरवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् । यद्य् एतत् सार्वत्रिकं स्यात् तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात्, चन्द्रगत्यनुवर्तनानुपपत्तिश् च ॥ ३.३२३ ॥

चान्द्रायणान्तरम् आह ।

यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् । ३.३२४अब्
मासेनैवोपभुञ्जीत चान्द्रायणम् अथापरम् ॥ ३.३२४च्द्

पिण्डानां चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत । यथाकथंचित् प्रतिदिनं मध्याह्ने ऽष्टौ ग्रासान्, अथ वा नक्तंदिनयोश् चतुरश् चतुरो वा, अथवैकस्मिंश् चतुरो ऽपरस्मिन् द्वादश वा तथैकरात्रम् उपोष्यापरस्मिन् षोडश वेत्यादिप्रकाराणाम् अन्यतमेन शक्त्याद्यपेक्षया भुञ्जीतेत्य् एतत् पूर्वोक्तचान्द्रायणद्वयाद् अपरं चन्द्रायणम् । अतस् तयोर् नायं ग्राससंख्यानियमः, किं तु पञ्चविंशत्यधिकशतद्वयसंख्यैव । मनुना चैते प्रकारा दर्शिताः ।

अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यन्दिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥
चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः ।
चतुरो ऽस्तम् इते सूर्ये शिशुचान्द्रायणं चरेत् ॥
यथा कथंचित् पिण्डानां तिस्रो ऽशीतीः समाहितः ।
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ इति । (म्ध् ११.२१९–२१)

तथा चत्वारिंशच्छतद्वयन्यूनसंख्याग्राससंपाद्यस्यापि संग्रहार्थपरग्रहणम् । यथाह यमः ।

त्रींस् त्रीन् पिण्डान् समश्नीयान् नियतात्मा दृढव्रतः ।
हविष्यान्नस्य वै मासम् ऋषिचान्द्रायणं स्मृतम् ॥ इति ।

एषु च यतिचान्द्रायणप्रभृतिषु न चन्द्रगत्यनुसरणम् अपेक्षितम् । अतस् त्रिंशद्दिनात्मकसाधारणेन मासेन नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथंचित् तिथिवृद्धिह्रासवशात् पञ्चम्यादिष्व् आरम्भो भवति तथापि न दोषः । यद् अपि सौमायनाख्यं मासव्रतं मार्कण्डेयेनोक्तम्,

गोक्षीरं सप्तरात्रं तु पिबेत् स्तनचतुष्टयात् ।
स्तनत्रयात् सप्तरात्रं सप्तरात्रं स्तनद्वयात् ॥
स्तनेनैकेन षड्रात्रं त्रिरात्रं वायुभुग् भवेत् ।
एतत् सोमायानं नाम व्रतं कल्मषनाशनम् ॥

इति, स्मृत्यन्तरे “सप्ताहं चेत्य् एतद् गोस्तनम् अखिलम् अथ त्रीन् स्तनान् द्वौ तथैकं कुर्यात् स्त्रींश् चोपवासान् यदि भवति, तदा मासि सोमायनं तत्” इति, तद् अपि चान्द्रायणकर्मकम् एव, हारीतेनापि “अथातश् चान्द्रायणम् अनुक्रमिष्यामः” इत्यादिना सेतिकर्तव्यताकं चान्द्रायणम् अभिधायैवम् एव सोमायनम् इत्य् अतिदेशाभिधानात् । यत् पुनस् तेन कृष्णचतुर्थीम् आरभ्य शुक्लद्वादशीपर्यन्तं सोमायनम् उक्तम् । चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं द्विस्तनेन त्रिरात्रं एकस्तनेन त्रिरात्रम् एवम् एकस्तनप्रभृति पुनश् चतुःस्तनान्तं “या ते सोम चतुर्थी तनूस् तया नः पाहि तस्यै नमः स्वाज्ञा, या ते सोम पञ्चमी षष्ठी” इत्य् एवं यागार्थास् तिथिहोमा एवं स्तुत्वा एनोभ्यः पूतश् चन्द्रमसः समानतां सलोकतां सायुज्यं च गच्छति इति चतुर्विंशतिदिनात्मकं सोमायनम् उक्तं, तदशक्तविषयम् ॥ ३.३२४ ॥

अथ कृच्छ्रचान्द्रायणसाधारणीम् इतिकर्तव्यताम् आह ।

कुर्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा । ३.३२५अब्
पवित्राणि जपेत् पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥ ३.३२५च्द्

कृच्छ्रं प्राजापत्यादिकं चान्द्रायणं वा त्रिषवणस्नानयुक्तः कुर्यात् । एतच् च तप्तकृच्छ्रव्यतिरेकेण, तत्र “सकृत्स्नायी समाहितः” (म्ध् ११.२१५) इति मनुना विशेषाभिधानात् । यत् पुनः शङ्खेन कृच्छ्रेषु,

त्रिर् अह्नि त्रिर् निशायां तु सवासा जलम् आविशेत् ।

इति, तद् अशक्तविषयम् । यत् पुनर् वैशम्पायनेन द्वैकालिकं स्नानम् उक्तम्,

स्नानं द्विकालम् एव स्यात् त्रिकालं वा द्विजन्मनः ।

इति, तत् त्रिषवणस्नानाशक्तस्य वेदितव्यम् । यत् पुनर् गार्ग्येणोक्तम्,

एकवासाश् चरेद् भैक्षं स्नात्वा वासो न पीडयेत् ।

इति, तद् अपि शक्तस्यैव,

एकवासा आर्द्रवासा वा लग्वाशी स्थण्डिलेशयः ।

इत्य् एकवस्त्रताया अपि शङ्खेन पाक्षिकत्वेनाभिधानात् । स्नाने च हारीतेन विशेष उक्तः- “त्र्यवरं शुद्धवतीभिः स्नात्वाघमर्षणम् अन्तर्जले जपित्वा धौतम् अहतं वासः परिधाय साम्ना सौम्येनादित्यम् उपतिष्ठेत” इति । स्नानानन्तरं च पवित्राणि जपेत् । पवित्राणि च “अघमर्षणं देवकृतः शुद्धवत्यस् तरत्समाः” (वध् २८.११) इत्यादीनि वसिष्ठादिप्रतिपादितानाम् अन्यतमान्य् अर्थाविरुद्धेषु कालेषु अन्तर्जले जपेत् सावित्रीं वा,

सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः । (म्ध् ११.२२६)

इति मनुस्मरणात् । यत् तु गौतमेनोक्तम्, “रौरवयोधां जपे नित्यं प्रयुञ्जीत” (ग्ध् २६.९) इति, तद् अपि पवित्रत्वाद् एवोक्तं न पुनर् नियमाय, तथा सति श्रुत्यन्तरमूलत्वकल्पनाप्रसङ्गात् । अतो ऽनधीतसामवेदेन गायत्र्यादिकम् एव जप्तव्यम् । यद् अपि “नमो हमाय मोहमाय” (ग्ध् २६.१२) इत्यादि पठित्वा, “एता एवाज्याहुतयः” (ग्ध् २६.१४) इत्य् उक्तं, तद् अपि न नैयमिकं, किं तु,

महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् । (म्ध् ११.२२३)

इति मनुना महाव्याहृतिभिर् होमविधानात् । तथा षट्त्रिंशन्मते ऽप्य् उक्तम् ।

जपहोमादि यत्किंचित् कृच्छ्रोक्तं संभवेन् न चेत् ।
सर्वं व्याहृतिभिः कुर्याद् गायत्र्या प्रणवेन च ॥ इति ।

आदिग्रहणाद् उदकतर्पणादित्योपस्थानादेर् ग्रहणम् । अत एव वैशम्पायनः ।

स्नात्वोपतिष्ठेद् आदित्यं सौरीभिस् तु कृताञ्जलिः । इति ।

एवम् अन्येष्व् अपि विरोधिपदार्थेषु विकल्प आश्रयणीयः, अविरोधिषु समुच्चयः, शाखान्तराधिकरणन्यायेन सर्वस्मृतिप्रत्ययत्वात् कर्मणः । जपसंख्यायां विशेषस् तेनैव दर्शितः ।

ऋषभं विरजं चैव तथा चैवाघमर्षणम् ।
गायत्रीं वा जपेद् देवीं पवित्रां वेदमातरम् ॥
शतम् अष्टशतं वापि सहस्रम् अथ वा परम् ।
उपांशु मनसा वापि तर्पयेत् पितृदेवताः ॥
मनुष्यांश् चैव भूतानि प्रणम्य शिरसा ततः ॥ इति ।

तथा पिण्डाश् च प्रत्येकं गायत्र्या चाभिमन्त्रयेत् । यथा यमेनापि विशष उक्तः ।

अङ्गुल्यग्रस्थितं पिण्डं गायत्र्या चाभिमन्त्रितम् ।
प्राश्याचम्य पुनः कुर्याद् अन्यस्याप्य् अभिमन्त्रणम् ॥ इति ।

अतश् च “ॐ भूर् भुवः स्वर्” (ग्ध् २७.८) इत्य् आदिभिर् गौतमोक्तैर् अभिमन्त्रणमन्त्रैः सहास्य विकल्प उक्तः । यत् पुनर् “आप्यायस्व सं ते पयांसि” (ग्ध् २७.५; र्व् १.९१.१७) इत्यादिभिः पिण्डकरणात् पूर्वं हविषो ऽभिमन्त्रणम् उक्तं, तद् भिन्नकायत्वात् समुच्चीयते । एतानि च कृच्छ्रादिव्रतानि यदा प्रायश्चित्तार्थम् अनुष्टीयन्ते तदा केशादिवपनपूर्वकं परिगृहीतव्यानि, “वपनं व्रतं चरेत्” (ग्ध् २७.३) इति गौतमस्मरणात् । अभ्युदयार्थे तु नैव वपनम् । वसिष्ठेनाप्य् अत्र विशेष उक्तः- “कृच्छ्राणां व्रतरूपाणां श्मश्रुकेशादि वापयेत् । कुक्षिरोमशिखावर्जम्” (वध् २४.४–५) इति । कृच्छ्राणां व्रतरूपाणां । व्रतरूपाणि वपनादीन्य् अङ्गानि वक्ष्यन्त इति शेषः । पर्षदुपदिष्टव्रतग्रहणं च व्रतानुष्ठानदिवसात् पूर्वेद्युः सायाह्ने कार्यम् । यथाह वसिष्ठः ।

सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकं ।
ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥
दिनान्ते नखरोमादीन् प्रवाप्य स्नानम् आचरेत् ।
भस्मगोमयमृद्वारिपञ्चगव्यादिकल्पितैः ॥
मलापकर्षणं कार्यं बाह्यशौचोपसिद्धये ।
दन्तधावनपूर्वेण पञ्चगव्येन संयुत्तम् ॥
व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने ।
आचम्य् अतः परं मौनी ध्यायन् दुष्कृतम् आत्मनः ॥
मनःसंतापनं तीव्रम् उद्वहेच् छोकम् अन्ततः ॥ इति ।

बहिर् इति ग्रामाद् बहिर् निष्क्रम्य स्त्रियाप्य् एवम् एव व्रतपरिग्रहः कार्यः । केशश्मश्रुलोमनखवपनं तु नास्ति । चान्द्रायणादिष्व् “एतद् एव स्त्रियाः केशवपनवर्जम्” (ब्ध् २.२.४५) इति बौधायनस्मरणात् ॥

वपनानिच्छोस् तु हारीतेन विशेष उक्तः ।
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।
केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥
केशानां रक्षणार्थं तु द्विगुणं व्रतम् आचरेत् ।
द्विगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥ इति ।

एतच् च महापातकादिदोषविशेषाभिप्रायेण द्रष्टव्यम्,

विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् ।
व्रते महापातकिनो गोहन्तुश् चावकीर्णिनः ॥

इति मनुस्मरणात् । जाबालेनाप्य् अत्र विशेष उक्तः ।

ऽ आरम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः ।

अन्नेनैव च शालाग्नौ जुहुयाद् व्याहृतीः पृथक् ॥
श्राद्धं कुर्याद् व्रतान्ते तु गोहिरण्यादि दक्षिणा ॥ इति ।

यमेनाप्य् अत्र विशेषो ऽभिहितः ।

पश्चात्तापो निवृत्तिश् च स्नानं चाङ्गतयोदितम् ।
नैमित्तिकानां सर्वेषां तथा चैवानुकीर्तनम् ॥

तथा,

गात्राभ्यङ्गशिरोभ्यङ्गौ ताम्बूलम् अनुलेपनम् ।
व्रतस्थो वर्जयेत् सर्वं यच् चान्यद् बलरागकृत् ॥ इति ।

एवमादिकर्तव्यताजातं स्मृत्यन्तराद् अन्वेष्टव्यम् । एवम् अनेन विधिना व्रतं गृहीत्वावश्यं परिसमापनीयम् । अन्यथा तु प्रत्यवायः,

पूर्वं व्रतं गृहीत्वा तु नाचरेत् काममोहितः ।
जीवन् भवति चाण्डालो मृतः श्वा चैव जायते ॥

इति छागलेयस्मरणात् । इत्य् अलं प्रपञ्चेन ॥ ३.३२५ ॥

इत्थम् उक्तविनियोगस्य चान्द्रायणादेः स्वरूपम् अभिधाय लब्धप्रसङ्गकार्यान्तरे ऽपि विनियोगम् आह ।

अनादिष्टेषु पापेषु शुद्धिश् चान्द्रायणेन तु । ३.३२६अब्
**धर्मार्थं यश् चरेद् एतच् चन्द्रस्यैति सलोकताम् ॥ ३.३२६च्द् **

आदिश्यत इत्य् आदिष्टं प्रायश्चित्तं न विद्यते आदिष्टं येषु पापेषु तेषु चान्द्रायणेन शुद्धिः । चशब्दात् प्राजाप्त्यादिभिः कृच्छ्रैर् ऐन्दवसहितैस् तन्निरपेक्षैर् वा शुद्धिः । तथा च षट्त्रिंशन्मते ऽभिहितम् ।

यानि कानि च पापानि गुरोर् गुरुतराणि च ।
कृच्छ्रातिकृच्छ्रचान्द्रेयैः शोध्यन्ते मनुर् अब्रवीत् ।

इति त्रयाणां समुच्चयः प्रतिपादितः । उशनसा तु द्वयोः समुच्चय उक्तः ।

दुरितानां दुरिष्टानां पापानां महताम् अपि ।
कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥ इति ।

दुरितम् उपपातकम् । दुरिष्टं पातकम् । गौतमेन तु “कृच्छ्रातिकृच्छ्रौ चान्द्रायणम्” (ग्ध् १९.२०) इति सर्वप्रायश्चित्तम् इति विसमासकरणेनैन्दवनिरपेक्षता कृच्छ्रातिकृच्छ्रयोः सूचिता । चान्द्रायणस्य निरपेक्षता इतिशब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निरपेक्षं चतुर्विंशतिमते ऽभिहितम् ।

लघुदोषे त्व् अनादिष्टे प्राजापत्यं समाचरेत् । इति ।

गौतमेनापि प्राजापत्यादेर् नैरपेक्षत्वम् उक्तम्- “प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति । द्वितीयं चरित्वा यद् अन्यन् महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते । तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते” (ग्ध् २६.२१–२२) इति महापातकाद् अपीत्य् अभिप्रेतम् । मनुनाप्य् उक्तम् ।

पराको नाम कृच्छ्रो ऽयं सर्वपापापनोदनः । इति । (म्ध् ११.२१६)

हारीतेनाप्य् उक्तम् ।

चान्द्रायणं यावकश् च तुलापुरुष एव च ।
गवां चैवानुगमनं सर्वपापप्रणाशनम् ॥

तथा,

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च श्वपाकम् अपि शोधयेत् ॥

तथा तप्तकृच्छ्रम् अधिकृत्यापि तेनैवोक्तम् ।

एष कृच्छ्रो द्विर् अभ्यस्तः पातकेभ्यः प्रमोचयेत् ।
त्रिरभ्यस्तो यथान्यायं शूद्रहत्यां व्यपोहति ॥ इति ।

उशनसा चोक्तम् ।

यत्रोक्तं यत्र वा नोक्तं महापातकनाशनम् ।
प्राजापत्येन कृच्छ्रेण शोधयेन् नात्र संशयः ॥ इति ।

एतानि प्राजापत्यादीन्य् अनादिष्टेषूपपातकादिषु सकृदभ्यासापेक्षया व्यस्तानि समस्तानि वा योजनीयानि । तथा आदिष्टव्रतेष्व् अपि महापातकादिषु अभ्यासापेक्षया योजनीयानि । अत एव यमेनोक्तम् “यत्रोक्तम्” इत्य् आदि । गौतमेनाप्य् उक्तनिष्कृतीनां संग्रहार्थं सर्वप्रायश्चित्तग्रहणं कृतम् । तथा यद्य् अपि तेनैवोक्तम्, “द्वितीयं चरित्वा यद् अन्यन् महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते” इत्य् उक्त्वा “तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते” (ग्ध् २६.२१–२२) इति, तद् अपि महापातकाभिप्रायं, न तु क्षुद्रपातकाभिप्रायम् । न च महापातकम् अनुक्तनिष्कृतिकं सम्भवति । तस्माद् उक्तनिष्कृतिकेष्व् अपि प्राजापत्यादयो योजनीयाः । तत्र द्वादशवार्षिकव्रते द्वादशद्वादशदिनान्य् एकैकं प्राजापत्यं परिकल्प्य गण्यमाने प्राजापत्यानां षष्ट्यधिकशतत्रयं द्वादशवार्षिके वैकल्पिकम् अनुष्ठेयं भवति । तदशक्तौ तावत्यो वा धेनवो दातव्याः । तदसंभवे निष्काणां षष्ट्यधिकशतत्रयं दातव्यम् । तथा स्मृत्यन्तरम् ।

प्राजापत्यक्रियाशक्तौ धेनुं दद्याद् विचक्षणः ।
धेनोर् अभावे दातव्यं मूल्यं तुल्यम् असंशयम् ॥
मूल्यार्धम् अपि निष्कं वा तदर्धं शक्त्यपेक्षया ।
गवाम् अभावे निष्कः स्यात् तदर्धं पाद एव वा ।

इति स्मरणात् । मूल्यदानस्याप्य् अशक्तौ तावन्तो वोदवासाः कार्याः । तत्राप्य् अशक्तौ गायत्रीजपः षट्त्रिंशल्लक्षसंख्याकः कार्यः,

कृच्छ्रो ऽयुतं तु गायत्र्या उदवासस् तथैव च ।
धेनुप्रदानं विप्राय समम् एतच् चतुष्टयम् ॥

इति पराशरस्मरणात् । यत् तु चतुर्विंशतिमते ऽभिहितम्,

गायत्र्यास् तु जपन् कोटिं ब्रह्महत्यां व्यपोहति ।
लक्षाशीतिं जपेद् यस् तु सुरापानाद् विमुच्यते ॥
पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः ।
गायत्र्याः षष्टिभिर् लक्षैर् मुच्यते गुरुतल्पगः ॥

इति, तत् द्वादशवार्षिकतुल्यविधानतयोक्तं, न पुनर् अशक्तविषयम् इति न विरोधः । एवम् अन्ये ऽपि,

कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
तिलहोमसहस्रं तु वेदपारायणं तथा ॥

इत्यादयः प्रत्याम्नायाश् चतुर्विंशतिमतादिशास्त्राभिहिताः षष्ट्यधिकत्रिशतगुणिता महापातकेषु बोद्धव्याः । अतिपातकेषु सप्तत्यधिकशतद्वयं प्राजापत्यानां कर्तव्यम् । तावन्तो वा धेन्वादयः प्रत्याम्नायाः । पातकेषु तु साशीतिशतं प्राजापत्याः प्रत्याम्नायाश् च धेन्वादयस् तावन्त एव वा । तथा चतुर्विंशतिमते ऽभिहितम् ।

जन्मप्रभृति पापानि बहूनि विविधानि च ।
कृत्वार्वाग् ब्रह्महत्यायाः षडब्दं व्रतम् आचरेत् ॥
प्रत्याम्नाये गवां देयं साशीति धनिना शतम् ।
तथाष्टादशलक्षाणि गायत्र्या वा जपेद् बुधः ॥ इति ।

इदम् एव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैर् एकैकप्राजापत्यकल्पनायां लिङ्गम् । एवम् उपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवतिप्राजापत्यास् तावन्तः प्रत्याम्नायाः । त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्याः प्रत्याम्नायाश् च धेनूदवासादयस् तावन्त एव । मासिकव्रतविषयेषु तु सार्धं प्राजापत्यद्वयं तावान् एव वा प्रत्याम्नायः । चान्द्रायणविषयभूतेषु पुनर् उपपातकेषु प्राजापत्यत्रयम् । तदशक्तस्य प्रत्याम्नायस् तावान् एव । यत् पुनश् चतुर्विंशतिमते ऽभिहितम्,

अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा ।

इति, तद् अपि धनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम् । मासतिकृच्छ्रविषयभूतेषु पुनर् उपपातकेषु सार्धसप्तप्राजापत्याः प्रत्याम्नायाश् च धेन्वादयस् तावन्त एव,

प्राजापत्ये तु गाम् एकां दद्यात् सान्तपने द्वयम् ।
पराकतप्तातिकृच्छ्रे तिस्रस् तिस्रस् तु गास् तथा ॥

इति चतुर्विंशतिमते ऽभिधानात् । एतच् च “एकैकं ग्रासम् अश्नीयाद्” इत्य् आमलकपरिमितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरान्नभोजनपक्षे पुनर् धेनुद्वयम् एव, प्राजापत्यस्य षडुपवासतुल्यत्वात् तद्द्विगुणत्वाच् चातिकृच्छ्रस्य । यद्य् अपि नवसु दिनेषु पाणिपूरान्नस्य भोजनं तथापि नैरन्तर्येण द्वादशदिवसानुष्ठाने क्लेशातिशयात् षडहोपवाससमानप्राजापत्यद्वयतुल्यत्वम् एव । प्राजापत्यस्य च षडुपवासतुल्यत्वं युक्तम् एव । तथा हि प्रथमे त्र्यहे सायंतनभोजनत्रयनिवृत्ताव् एकोपवाससंपत्तिः । द्वितीये त्र्यहे पातःकालभोजनत्रयनिवृत्तिपरस्य । तथा च अयाचितत्र्यहे ऽपि सायंतनभोजनत्रयवर्जने ऽपरस्येत्य् एवं नवभिर् दिनैर् उपवासत्रयम् । पुनश् चान्त्यत्र्यहे चोपवासत्रयम् इति युक्तं षडुपवासतुल्यत्वम् । ऋषभैकादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु सार्धैकादशप्राजापत्यास् तावत्संख्याकाश् चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु सार्धं प्राजापत्यद्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतप्तातिकृच्छ्रस्थाने कृच्छ्रत्रयं चरेत्,

सान्तपनस्य वाध्यर्धम् अशक्तौ व्रतम् आचरेत् ।

इति षट्त्रिंशन्मते ऽभिधानात् । चान्द्रायणपराककृच्छ्रातिकृच्छ्रास् तु प्राजापत्यत्रयात्मका द्वादशवार्षिकव्रतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः । तत्प्रत्याम्नायास् तु धेन्वादयस् त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश् चान्द्रायणादयः । तत्समेषु पुनः पातकपदाभिधेयेषु षष्टिसंख्याः । उपपातकेषु त्रैवार्षिकविषयेषु त्रिंशत्संख्याः । त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच् चान्द्रायणादित्रयम् । मासिकव्रते तु योगीष्वरोक्ते एकम् एव चान्द्रायणं धेनूदवासादिप्रत्याम्नायस् तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं पादादिकॢप्त्या योजनीयम् । आवृत्तौ पुनश् चान्द्रायणादिकम् इति एतद्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत् पुनर् बृहस्पतिनोक्तम्,

जन्मप्रभृति यत् किंचित् पातकं चोपपातकम् ।
तावद् आवर्तयेत् कृच्छ्रं यावत् षष्टिगुणं भवेत् ॥

इति, तत् “द्वे परदारे” (ग्ध् २२.२९) इति गौतमोक्तद्विवार्षिकसमानविषयम्, तथा त्रैमासिकादिविषयभूतोपपातकावृत्तिविषयं वा, पातकपदाभिधेयचाण्डालादिस्त्रीगमने द्विरभ्यासविषयं वा । तत्र,

ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवद्वयम् ।
(अस्च्रिबेद् तो उशनस् अत् ३.२६५ उन्देर् पारदार्यप्रकरणम्)

इति सकृद्बुद्धिपूर्वगमने कृच्छ्राब्दविधानात्, तदभ्यासे द्विवर्षतुल्यषष्टिकृच्छ्रविधानं युक्तम् एव । यत् तु सुमन्तुनोक्तम्,

यद् अप्य् असकृदभ्यस्तं बुद्धिपूर्वम् अघं महत् ।
तच् छुध्यत्य् अब्दकृच्छ्रेण महतः पातकाद् ऋते ॥

इति, तद् अप्य् उपपातकाद्यावृत्तिविषयं, तथा “अज्ञानाद् ऐन्दवद्वयम्” इति यमोक्तैन्दवद्वयविषयभूतपातकावृत्तिविषयं वा । यस् तु तपस्य् असमर्थो धान्यसमृद्धश् च स कृच्छ्रादिव्रतानि द्विजाग्र्यभोजनदानेन संपादयेत् । तथा हि स्मृत्यन्तरम्- “कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुणम् अहरहस् त्रिंशद् एवं तृतीये चत्वारिंशच् च तप्ते त्रिगुणितगुणिता विंशतिः स्यात् पराके । कृच्छ्रे सान्तापनाख्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यां चान्द्रायणे स्यात् तपसि कृशबलो भोजयेद् विप्रमुख्यान्” इति । अहरहर् इति सर्वत्र संबन्धनीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजापत्यदिवसकल्पनया विद्वद्विप्राणां षष्टिभोजनं भवति । यत् तु चतुर्विंशतिमते ऽभिहितम्,

विप्रा द्वादश वा भोज्याः पावकेष्टिस् तथैव च ।
अन्या वा पावनी काचित् समान्याहुर् मनीषिणः ॥

इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनम् उक्तं, तन् निर्धनविषयम् । यच् चान्द्रायणस्यापि तत्रैव प्रत्याम्नायाद्य् उक्तम्,

चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस् तथैव च ।
मित्रविन्दापशुश् चैव कृच्छ्रं मासत्रयं तथा ॥
नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् ।
इष्टीनां पशुबन्धानाम् अभावे चरवः स्मृताः ॥

इति, तद् अपि चान्द्रायणाशक्तस्य । यत् तु “कृच्छ्रं मासत्रयं तथा” इति कृच्छ्राष्टकं प्रत्याम्नातं, तद् अपि जरठमूर्खविषयम्, “चान्द्रायणं त्रिभिः कृच्छ्रैः” इति दर्शितत्वाद्, इत्य् अलं प्रपञ्चने । प्रकृतम् अनुसरामः । यस् त्व् अभ्युदयकामो धर्मार्थं काम्यनियोगनिष्पत्त्यर्थम् एतच् चान्द्रायणम् अनुतिष्ठति न पुनः प्रायश्चित्तार्थम्, असौ चन्द्रसालोक्यं स्वर्गविशेषं प्राप्नोति । एतच् च संवत्सरावृत्त्यभिप्रायेण, “एकम् आप्त्वा विपापो विपाप्मा सर्वम् एनो हन्ति, द्वितीयम् आप्त्वा दश पूर्वान् दशापरान् आत्मानं चैकविंशं पङ्क्तिं च पुनाति, संवत्सरं चाप्त्वा चन्द्रमसः सलोकताम् आप्नोति” (ग्ध् २७.१६–१८) इति गौतमस्मरणात् ।

किं च ।

कृच्छ्रकृद् धर्मकामस् तु महतीं श्रियम् आप्नुयात् । ३.३२७अब्
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ ३.३२७च्द्

यस् त्व् अभ्युदयकामः प्राजापत्यादिकृच्छ्रान् अनुतिष्ठति स महतीं राज्यादिलक्षणां श्रियं विभूतिम् अनुभवति । यथा गुरुक्रतूनां राजसूयादीनां कर्ता तत्फलं स्वाराज्यादिलक्षणं महत् फलं लभते, तथायम् अपि सुसुमाहितः सकलाङ्गकलापम् अविकलम् अनुतिष्ठन्न् इति फलमहिमप्रकाशनार्थं क्रतुदृष्टान्तकीर्तनम् । सुसुमाहित इत्य् अनेनाविकलशास्त्रानुष्ठानं वदन् काम्यकर्मतयाङ्गवैकल्ये फलासिद्धिं द्योतयति । अतो नात्र प्रायश्चित्तेष्व् इव यावत्संभवाङ्गानुष्ठानम् अङ्गीकरणीयम् इति दूरोत्सारितं प्रत्याम्नायोपादानम् । कृच्छ्राद्यनुष्ठानावृत्तौ तु “अधिकारिणः फलावृत्तिः कर्मण्य् आरम्भभाव्यत्वाद्” इति न्यायलभ्या स्थितैवेति नेदम् अविवक्षितम् ॥ ३.३२७ ॥

प्रागुदिताखिलार्थोपसंहारव्याजेन धर्मशास्त्रधारणादिविधीन् सार्थवादान् प्रार्थनावरदानरूपेण प्रतिपादयितुम् आह ।

श्रुत्वैतान् ऋषयो धर्मान् याज्ञवल्क्येन भाषितान् । ३.३२८अब्
इदम् ऊचुर् महात्मानं योगीन्द्रम् अमितौजसम् ॥ ३.३२८च्द्

अत्र हि वर्णाश्रमादिव्यावृत्ता धर्माः षट्प्रकाराः प्रतिपादिताः तान् अखिलान् योगीश्वरभाषितान् ऋषयः श्रुत्वा प्रहर्षोत्फुल्ललोचनास् तं महिमगुणशालिनम् अचिन्तनीयशक्तिविभवम् इदम् अभिधास्यमानम् ऊचिवांसः ॥ ३.३२८ ॥

य इदं धारयिष्यन्ति धर्मशास्त्रम् अतन्द्रिताः । ३.३२९अब्
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३.३२९च्द्
विद्यार्थी प्राप्नुयाद् विद्यां धनकामो धनं तथा । ३.३३०अब्
आयुष्कामस् तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३.३३०च्द्
श्लोकत्रयम् अपि ह्य् अस्माद् यः श्राद्धे श्रावयिष्यति । ३.३३१अब्
पितॄणां तस्य तृप्तिः स्याद् अक्षय्या नात्र संशयः ॥ ३.३३१च्द्
ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । ३.३३२अब्
वैश्यश् च धान्यधनवान् अस्य शास्त्रस्य धारणात् ॥ ३.३३२च्द्

इत्थम् ऋज्वर्थैः श्लोकैः सामश्रवःप्रभृतयो ऽनेकधा प्रार्थयन्ते स्म ॥ ३.३२९ – ३.३३२ ॥

अपराम् अपि प्रार्थनाम् आह ।

य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु । ३.३३३अब्
अश्वमेधफलं तस्य तद् भवान् अनुमन्यताम् ॥ ३.३३३च्द्

यस् त्व् इदं धर्मशास्त्रं प्रतिपर्व द्विजान् श्रावयेत् तस्याश्वमेधफलं भवेद् इति श्रावणविध्यर्थवादः । तद् एतद् अस्मत्प्रार्थितम् अर्थं सर्वत्र भवान् अनुमन्यताम् ॥ ३.३३३ ॥

वरदानम् आह ।

श्रुत्वैतद् याज्ञवल्क्यो ऽपि प्रीतात्मा मुनिभाषितम् । ३.३३४अब्
एवम् अस्त्व् इति होवाच नमस्कृत्य स्वयंभुवे ॥ ३.३३४च्द्

एतद् ऋषिभिर् भाषितं श्रुत्वा योगीन्द्रो ’पि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थनोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य “भवत्प्रार्थितं सकलम् इत्थं भवतु” इत्य् एवं किल भगवान् बभाषे ॥ ३.३३४ ॥

इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृत्तौ प्रायश्चित्ताध्यायस् तृतीयः समाप्तः ॥

अथात्राध्यायानुक्रमणिका लिख्यते । तत्राद्यं सूतकप्रक्ररणम् १ । आपद्धर्मप्रकरणम् २ । वानप्रस्थप्रकरणम् ३ । अध्यात्मप्रकरणम् ४ । ततः प्रायश्चित्तप्रकरणम् ५ । तत्रादौ कर्मविपाकः ६ । महापातकादिनिमित्तपरिगणनम् ७ । महापातकप्रायश्चित्तान्य् आतिदेशिकसहितानि ८ । उपपातकप्रायश्चित्तानि ९ । प्रकीर्णकप्रायश्चित्तप्रकरणम् १० । पतितत्यागविधिः ११ । व्रतग्रहणविधिः १२ । रहस्यप्रायश्चित्ताधिकारः १३ । कृच्छ्रादिलक्षणम् १४ । इति प्रकरणानि ॥

उत्तमोपपदस्येयं शिष्यस्य कृतिर् आत्मनः ।
धर्मशास्त्रस्य विवृति र्विज्ञानेश्वरयोगिनः ॥ १ ॥
इति याज्ञवल्क्यमुनिशास्त्रगता विवृतिर् न कस्य विहिता विदुषः ।
प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोर् अमृतम् ॥ २ ॥
गम्भीराभिः प्रसन्नाभिर् वाग्भिर् न्यस्ता मिताक्षरा ।
अनल्पार्थाभिर् अल्पाभिर् विवृतिर् विहिता मया ॥ ३ ॥
नासीद् अस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः ।
विज्ञानेश्वरपण्डितो न भजते किञ्चान्यदन्योपमश्
चाल्पं स्थिरम् अस्तु कल्पलतिकाकल्पं तद् एतत् त्रयम् ॥ ४ ॥
स्रष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीम्नां
दातार्थानाम् अतिशयजुषाम् अर्थिसार्थार्थनायाः ।
ध्याता मुर्तेर् मुरविजयिनो जीवतादार्कचन्द्रं
जेतारीणां तनुसहभुवां तत्त्वविज्ञाननाथः ॥ ५ ॥
आ सेतोः कीर्तिराशे रघुकुलतिलकस्या च शैलाधिराजा-
दा च प्रत्यक्पयोधेश्चटुलतिमिकुलोत्तुङ्गरिङ्गत्तरङ्गात् ।
आ च प्राचः समुद्रान् नतनृपतिशिरोरत्नभाभासुराङ्घ्रिः
पायादाचन्द्रतारं जगद् इदम् अखिलं विक्रमादित्यदेवः ॥ ६ ॥
अन्तर्मुखानि यदि खानि तपस् ततः किं
नान्तर्मुखानि यदि खानि तपस् ततः किम् ।
अन्तर्बहिर् यदि हरिश् च तपस् ततः किं
नान्तर्बहिर् यदि हरिश् च तपस् ततः किम् ॥ ७ ॥

समाप्तेयं समिताक्षरा याज्ञवल्क्यस्मृतिः ॥