५ प्रायश्चित्त-प्रकरणम्

**अथ प्रायश्चित्तप्रकरणम् **

“वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः” (य्ध् १.१) इत्य् अत्र प्रतिपाद्यतया प्रतिज्ञातषड्विधधर्ममध्ये पञ्चप्रकारं धर्मम् अभिधायाधुनावशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्तपदाभिलप्यं प्रारिप्सुः प्रथमतस् तत्प्ररोचनार्थम् अधिकारिविशेषप्रदर्शनार्थं चार्थवादरूपं कर्मविपाकं तावद् आह ।

महापातकजान् घोरान् नरकान् प्राप्य दारुणान् । ३.२०६अब्
कर्मक्षयात् प्रजायन्ते महापातकिनस् त्व् इह ॥ ३.२०६च्द्

ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा “ब्रह्महा मद्यपः” (य्ध् ३.२२७) इत्य् अत्र वक्ष्यते तद्योगिनो महापातकिनस् ते महापातकजनितांस् तामिस्रादिनरकान् स्वजनितदुष्कृतानुरूपान् घोरान् अतितीव्रवेदनापादकत्वेनातिभयंकरान् दारुणान् दुःखैकभोगनिलयान् प्राप्य कर्मक्षयात् कर्मजन्यनरकदुःखोपभोगक्षयाद् अनन्तरं कर्मशेषात् पुनर् इह संसारे दुःखबहुलश्वसृगालादितिर्यग्योनिषु प्रकर्षेण भूयो भूयो जायन्ते । महापातकिग्रहणम् इतरेषाम् अप्य् उपपातक्यादीनाम् उपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्तेर् वक्ष्यमाणत्वात् ॥ ३.२०६ ॥

महापातकिनां संसारप्राप्तिम् उक्त्वा तद्विशेषकथनायाह ।

मृगश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति । ३.२०७अब्
खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ ३.२०७च्द्
कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । ३.२०८अब्
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ ३.२०८च्द्

मृगा हरिणादयः, श्वसूकरोष्ट्राः प्रसिद्धाः, तेषां योनिं ब्रह्महा स्वकर्मशेषेण प्राप्नोति । खरो रासभः, पुल्कसः प्रतिलोमनिषादेन शूद्र्यां जातः, वैदेहकेनाम्बष्ट्यां जातो वेणस्, तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीयसंभोगनिरपेक्षां मांसविष्टागोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः पिपीलिकादयः कीटाः, पतङ्गाः शलभाः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मलते प्रागुक्ते, तज्जातीयतां क्रमेण गुरुतल्पगः प्राप्नोति । एतच् चाकामकृतविषयम् । कामकारकृते त्व् अन्यास्व् अपि दुःखबहुलयोनिषु संसरन्ति । यथाह मनुः ।

श्वसूकरखरोष्ट्राणां गोऽवाजिमृगपक्षिणां ।
चण्डालपुक्कसानां च ब्रह्महा योनिम् ऋच्छति ॥
कृमिकीटपतंगानां विड्भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥

लूतोर्णनाभः । सरठः कृकलासः ।

तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणाम् अपि ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ इति ॥ (म्ध् १२.५५–५८) ३.२०७–८ ॥

_किं च _।[^४४]

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः । ३.२०९अब्
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ ३.२०९च्द्
यो येन संवसत्य् एषां स तल्लिङ्गो ऽभिजायते । ३.२१०अब्

एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखम् अनुभूयानन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः प्रचुरेषु मानवशरीरेषु संसरन्ति । ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापः स्वभावतः कृष्णदशनः । ब्राह्मणहेम्नो हर्ता कुत्सितनखत्वम् । गुरुदारगामी दुश्चर्मत्वं कुष्ठिताम् । एतेषां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति स तल्लिङ्गो’भिजायते । ॥ ३.२०९ ॥

किं च ।

अन्नहर्तामयावी स्यान् मूको वागपहारकः ॥ ३.२१०च्द्
धान्यमिश्रो ऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । ३.२११अब्
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस् तु सूचकः ॥ ३.२११च्द्

अन्नस्यापहर्ता आमयाव्य् अजीऋणान्नः । वागपहारको ऽननुज्ञाताध्यायी पुस्तकापहारी च मूको वागिन्द्रियविकलो भवेत् । धान्यमिश्रो ऽतिरिक्ताङ्गः षडङ्गुल्यादिः पिशुनो विद्यमानपरदोषप्रख्यापनशीलः । पूतिनासिकः दुर्गन्धनासिकः तैलस्य हर्ता तैलपायी कीटविशेषो भवति । सूचको ऽसद्दोषसंकीर्तनो दुर्गन्धिवदनो जायते । एतच् च तिर्यक्त्वप्राप्त्युत्तरकालं मनुषरीरप्राप्तौ द्रष्टव्यम्,

यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ (म्ध् १२.६८)

इति मनुस्मरणात् ॥ ३.२१० ॥ ३.२११ ॥

किं च ।

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च । ३.२१२अब्
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ ३.२१२च्द्

[^४५]यः परदारान् अपहरति, ब्रह्मस्वं च सुवर्णव्यतिरिक्तम् अपहरति, असाव् अरण्ये निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ॥ ३.२१२ ॥

किं च ।

हीनजातौ प्रजायेत पररत्नापहारकः । ३.२१३अब्
पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान् ॥ ३.२१३च्द्

हीनजातौ हेमकाराख्यायां पक्षिजातौ पररत्नाद्यपहारको जायते । तथा च मनुः ।

मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधाणि च रत्नानि जायते हेमकर्तृषु ॥ इति । (म्ध् १२.६९)

पत्रात्मकं शाकं हृत्वा मयूरः । शुभान् गन्धान् अपहृत्य छुच्छुन्दरी राजदुहिताख्या मूषिका जायते ॥ ३.२१३ ॥

किं च ।

मूषको धान्यहारी स्याद् यानम् उष्ट्रः कपिः फलम् । ३.२१४अब्
जलं प्लवः पयः काको गृहकारी ह्य् उपस्करम् ॥ ३.२१४च्द्
मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा । ३.२१५अब्
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ ३.२१५च्द्

धान्यहार्य् आखुः, यानं हृत्वोष्ट्रः, फलं वानरः, जलं प्लवः शकटविलाख्यः पक्षी, पयः क्षीरं काको ध्वाङ्क्षः, गृहोपस्करं मुसलादि हृट्वा गृहकारी चटकाख्यः कीटविशेषः, मधु हृत्वा दांशाख्यः कीटः, पलं मांसं तद् धृत्वा गृध्राख्यः पक्षी, गां हृत्वा गोधाख्यः प्राणिविशेषः, अग्निं हृत्वा बकाख्यः पक्षी, वस्त्रं हृत्वा श्वित्री, इक्ष्वादिरसं हृत्वा सारमेयः, लवणहारी चीर्याख्य उच्चैःस्वरः कीटः ॥ ३.२१४ ॥ ३.२१५ ॥

एवं प्रदर्शनार्थं किंचिद् उक्त्वा प्रतिद्रव्यं पृष्टाकोटिन्यायेन वक्तुम् अशक्तेर् एकोपाधिना कर्मविपाकं दर्शयितुम् आह ।

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि । ३.२१६अब्
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ ३.२१६च्द्

द्रव्यस्यापह्रियमाणस्य याद्दृशाः प्रकारास् तादृशा एव प्राणिजातयः स्तेयकर्मण्य् अपहर्तारो भवन्ति । यथा कांस्यहारी हंस इति । अथ वा यत्फलसाधनं द्रव्यम् अपहरति तत्साधनविकलो यथा पङ्गुताम् अश्वहारक इति । शङ्खेन क्वचिद् विशेषो दर्शितः ।

ब्रह्महा कुष्ठी, तैजसापहारी मण्डली, देवब्राह्मणाक्रोशकः खलतिः, गरदाग्निदाव् उन्मत्तौ, गुरुं प्रतिहन्तापस्मारी, गोघ्नश् चान्धः, धर्मपत्नीं त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः, कुण्डाशी भगभक्षो, देवब्रह्मस्वहारी पाण्डुरोगी, न्यासापहारी च काणः, स्त्रीपण्योपजीवी षण्ढः, कौमारदारत्यागी दुर्भगः, मिष्टैकाशी वातगुल्मी, अभक्ष्यभक्षको गण्डमाली, ब्राह्मणीगामी निर्बीजी, क्रूरकर्मा वामन्ः, वस्त्रापहारी पतंगः, शय्यापहारी क्षपणकः, शन्खशुक्त्यपहारी कपाली, दीपापहारी कौशिकः, मित्रध्रुक् क्षयी, मातापित्रोर् आक्रोशः खञ्जकः । इति ।

गौतमो ऽपि क्वचिद् विशेषम् आह ।

अनृतवाग् उल्बलः मुहुर् मुहुः संलग्नवाक्, दारत्यागी जलोदरी, कूटसाक्षी श्लीपदी उच्छिन्नजङ्घाचरणः, विवाहविघ्नकर्ता छिन्नोष्ठः, अवगूरणः छिन्नहस्तः, मातृघ्नो ऽन्धः, स्नुषागामी वातवृषणः, चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री, कन्यादूषकः षण्ढः, ईर्ष्यालुर् मशकः, पित्रा विवदमानो ऽपस्मारी, न्यासापहार्य् अनपत्यः, रत्नापहार्य् अत्यन्तदरिद्रः, विद्याविक्रयी पुरुषमृगः, वेदविक्रयी द्वीपी, बहुयाजको जलप्लवः, अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायसः, मृष्टैकभोजी वानरः, यतस्ततो ऽश्नन् मार्जारः, कक्षवनदहनात् खद्योतः, दारकाचार्यो मुखविगन्धिः, पर्युषितभोजी कृमिः, अदत्तादायी बलीवर्दः, मत्सरी भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्यः श्वपाकः, गोहर्ता सर्पः, स्नेहापहारी क्षयी, आन्नापहार्य् अजीर्णी, ज्ञानापहारी मूकः, चण्डालीपुल्कसीगमने अजगरः, प्रव्रजितागमने मरुपिशाचः, शूद्रीगमने दीर्घकीटः, सवर्णाभिगामी दरिद्रः, जलहारी मत्स्यः, क्षीरहारी बलाकः, वार्धुषिको ऽङ्गहीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशको गर्दभः, गोगामी मण्डूकः, अनध्यायाध्यने सृगालः, परद्रव्यापहारी परप्रेष्यः, मस्त्यवधे गर्भवासि, इत्य् एते ऽनूर्ध्वगमनाः । इति ॥ (नोत् इन् ग्ध्)

स्त्रियो ऽप्येतेषु निमित्तेषु पूर्वोक्तास्व् एव जातिषु स्त्रीत्वम् अनुभवन्ति । यथाह मनुः ।

स्त्रियो ऽप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः ।
एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥ इति । (म्ध् १२.६९)

एतच् च क्षयित्वादिलक्षणकथनं प्रायश्चित्तोन्मुखीभूतब्रह्महाद्युद्वेगजननार्थं न पुनः क्षयित्वादिलक्षणयुक्तानां द्वादशवार्षिकादिव्रतप्राप्त्यर्थं संसर्गनिवृत्त्यर्थं वा । तथा हि पापक्षयार्थं प्रायश्चित्तम् । न च प्रायश्चित्तेन प्रारब्धफलपापापूर्वविनाशे किंचन प्रयोजनम् अस्ति । न हि कार्मुकनिर्मुक्तो बाणो लक्ष्यवेधे वेद्धुस् तद्व्यापारस्य वा सत्तान्तरं पुनर् अपेक्षते । न च तदारब्धफलनाशार्थो ऽपूर्वनाशो ऽन्वेषणीयः । न हि निमित्तकारणीभूतचक्रचीवरादिविनाशेन तदारब्धकरकादिविनाशः । न च नैसर्गिकं कौनख्यादिकं प्रत्यानेतुं शक्यते । किं च नरकतिर्यग्योन्यादिजन्यदुःखपरम्पराम् अनुभूतस्य हि कौनख्यादिको विकारश् चरमं फलम् । तेन चोत्पन्नमात्रेण स्वकारणापूर्वनाशो जन्यते मन्थनजनिताशुशुक्षणिनेवारणिक्षयः । तस्मान् न पापविनाशार्थं व्रतपरिचर्या नापि संव्यवहारार्थम् । न हि शिष्टाः कुनख्यादिभिः सह संबन्धं परिहरन्ति । प्राचीनक्षयात् पापनाशेन संव्यवहार्यत्वस्यापि सिद्धेर् नार्थो व्रतचर्यया । यत्तु वसिष्ठेनोक्तम् “कुनखी श्यावदन्तश् च कृच्छ्रं द्वादशरात्रं चरेत्” (वध् २०.६) इति तत्क्षामवत्यादिवन् नैमित्तिकमात्रं न पुनः पापक्षयार्थं संव्यवहार्यत्वसिद्ध्यर्थं वेति मन्तव्यम् ॥ ३.२१६ ॥

किं च ।

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् । ३.२१७अब्
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ ३.२१७च्द्

यथाकर्म स्वकृततदुष्कृतानतिक्रमेण तदनुरूपं नरकादि फलं तिर्यक्त्वं च प्राप्य कालक्रमेण क्षीणे कर्मणि दुष्टलक्षणा दरिद्राश् च पुरुषेषु निकृष्टा जायन्ते ॥ ३.२१७ ॥

किं च ।

ततो निष्कल्मषीभूताः कुले महति भोगिनः । ३.२१८अब्
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ ३.२१८च्द्

ततो दुर्लक्षणमनुष्यजन्मानन्तरं निष्कल्मषीभूता नरकाद्युपभोगद्वारेण क्षीणपापाः प्राग्भवीयसुकृतशेषेण महाकुले भोगसम्पन्नाः विद्याधनधान्यसंपन्ना जायन्ते ॥ ३.२१८ ॥

एवं प्राय्श्चित्तेषु प्ररोचनार्थं कर्मविपाकम् अभिधायाधुना तेष्व् एवाधिकारिणं निरूपयितुम् आह ।

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् । ३.२१९अब्
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ ३.२१९च्द्
तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । ३.२२०अब्
एवम् अस्यान्तरात्मा च लोकश् चैव प्रसीदति ॥ ३.२२०च्द्

विहितम् इति यद् आवश्यकं संध्योपासनाग्निहोत्रादिकं नित्यम् अशुचिस्पर्शादौ नैमित्तिकत्वेन चोदितं स्नानादिकं च तद् उभयम् उच्यते, तस्याकरणात् निन्दितस्य निषिद्धस्य सुरापानादेः करणाद् इन्द्रियाणाम् अनिग्रहाच् च नरः पतनम् ऋच्छति प्राप्नोति । प्रत्यवायी भवतीति यावत् ।

ननु निद्रियार्थेषु सर्वेषु न प्रसज्येत कामत इति इन्द्रियप्रसक्तेर् अपि निषिद्धत्वान् निन्दितग्रहणेनैव गतार्थत्वात् किमर्थम् “अनिग्रहाच् चेन्द्रियाणाम्” इति पृथग् उपादानम् ।
अत्रोच्यते- इन्द्रियप्रसक्तिनिषेधस्य नैकान्ततः प्रतिषेधरूपता स्नातकव्रतमध्ये ऽस्य पाठात् तत्र च “व्रतानीमानि धारयेत्” इति व्रतशब्दाधिकारान् नञ्श्रवणाच् चेन्द्रियप्रसक्तिप्रतिषेधकः संकल्पो विधीयते । स च भावरूप इति पृथग् उपादानम् । ननु विहिताकरणात् प्रत्यवैतीति कुतो ऽवसितम् । न तावद् अग्निहोत्रादिचोदना पुरुषप्रवर्तनात्मिकाननुष्ठानस्य प्रत्यवायहेतुताम् आक्षिपति । विषयानुष्ठानस्य पुरुषार्थत्वावगतिमात्रपर्यवसायिनी हि सा तावन्मात्रेण प्रवृत्त्युपपत्तेर् न पुनर् अकरणस्य प्रत्यवायहेतुत्वम् अपि वक्ति, क्षीणशक्तित्वाद् अनुपपत्तेः । किं च, यद्य् अनुपपत्त्युपशमेति प्रवृत्तिसिद्ध्यर्थम् अर्थान्तरं कल्प्यते तर्हि निषिद्ध्यमानक्रियाजन्यप्रत्यवायपरिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धाव् अपि फलान्तरं कल्पयेत । न चैतत् कस्यचिद् अपि संमतम् ।
ननु यथा निषिद्धेष्व् अर्थवादावगतप्रत्यवायपरिहार्थतयैव पुरुषार्थत्वं तथा विहितेष्व् अप्य् अर्थवादावगताकरणजन्यप्रत्यवायपरिहारार्थता कस्मान् न स्यात् ।
मैवम् । न हि सर्वत्राग्निहोत्रादिषु तादृग्विधार्थवादाः सन्ति । न च “विहितस्याननुष्ठानान् नरः पतनम् ऋच्छति” इतीयं स्मृतिर् एव वाक्यशेषस्थानीयेति चतुरस्रम् । न हि वाक्यान्तरप्रमिते कार्ये वाक्यान्तरेणार्थवादः संभवति । भवतु वा कथंचिद् एकवाक्यतयार्थवादस् तथापि नाभावरूपं विहिताकरणे कार्यान्तरं जनयितुं क्षमते ।
ननु “ज्वरे चैवातिसारे च लङ्घनं परमौषधम्” इत्य् आयुर्वेदवचनाद् भोजनाभावरूपं लङ्घनं ज्वरशान्तिं जनयतीति यथावगम्यते तथात्रापि भवतु ।
मैवम्, यतो नात्रापि लङ्घनाज् ज्वरशान्तिः ।
किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलपरिपाकजनिताद् धातुसाम्याद् इति मन्तव्यम् । तस्मात् विहितस्याननुष्ठानान् नरः पतनम् ऋच्छति इति कथम् अस्याः स्मृतेर् गतिर् इति वाच्यम् ।
उच्यते । अग्निहोत्रादिविषयाधिकारासिद्धिरूपप्रत्यवायाभिप्रायेणेति न दोषः ।
ननु,
वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ॥
मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ॥ इति । (म्ध् १२.७१–७२)

एतानि विहिताकरणप्रत्यवायपराणि मनुवचनानि कथं घटन्ते ।

उच्यते । यथा वान्तम् अश्नत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितम् अकुर्वतः पुरुषस्य पुरुषार्थासिद्धेर् इत्य् अकरणनिन्दनम् अनुष्ठानप्ररोचनार्थम् इत्य् अविरोधः । यद् वा प्राग्भवीयनिषिद्धाचरणाक्षिप्तविहितानुष्ठानविरोधिरागालस्यादिजन्यवान्ताश्युल्कामुख-प्रेतत्वादिरूपम् इति न क्वचिद् अभावस्य कारणतेति मन्तव्यम् ।
ननु पुंश्चलीवानरखरदृष्ट(श्वदष्ट)मिथ्याभिशस्तादौ विहिताकरणादिनिमित्तानाम् अन्यतमस्याप्य् अभावात् कथं प्रत्यवायिता, कथं च तदभावे प्रायश्चित्तविधानम् ।
उच्यते । अस्माद् एव पापक्षयार्थप्रायश्चित्तविधानाज् जन्मान्तराचरितनिषिद्धसेवादिजन्यपापापूर्वं समाक्षिप्तम् इत्य् अभिशापादिकं तन्निमित्तप्रायश्चित्तापनोद्यम् अनेनानुष्ठितम् इति कल्प्यते । पुरुषप्रयत्ननैर् अपेक्ष्येण कार्यरूपपापोत्पत्त्यनुपपत्तेः । न च पुंश्चल्यादिगतप्रयत्नेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायित्वनियमाद् धर्माधर्मयोः, तस्माद् युक्तैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथा च मनुः ।
अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसक्तश् चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ इति । (म्ध् ११.४४)

नरगरहणं प्रतिलोमजातानाम् अपि प्रायश्चित्ताधिकारप्राप्त्यर्थम्, तेषाम् अप्य् अहिंसादिसाधारणधर्मव्यतिक्रमसंभवात् । यस्माद् एवं निषिद्धाचरणादिना प्रत्यवैति तस्मात् तेन कृतनिषिद्धसेवादिना पुरुषेण प्रायश्चित्तं कर्तव्यम् इह लोके परत्र च विशुद्ध्यर्थम् । प्रायश्चित्तशब्दश् चायं पापक्षयार्थे निमित्तिके कर्मविशेषे रूढः । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्धतया प्रसीदति, लोकश् च संव्यवहर्तुं प्रसीदति । एवं वदतैतद् दर्शितम् । नैमित्तिको ऽयं प्रायश्चित्ताधिकारः, तत्र चार्थवादगतदुरितक्षयो ऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते । न च दुरितपरिजिहासुनानुष्टीयत इत्य् एतावता कामाधिकाराशङ्का कार्या । यस्मात्,

चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ऽनिष्कृतैनसः ॥ इति । (म्ध् ११.५४)

इत्य् अकरणे दोषश्रवणेनावश्यकत्वावगमात् ॥ ३.२१९ ॥ ३.२२० ॥

प्रायश्चित्ताकरणे दोषम् आह ।

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । ३.२२१अब्
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान् ॥ ३.२२१च्द्

पापेषु शास्त्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषा अपश्चात्तापिनो “मया दुष्कृतं कृतम्” इत्य् एवम् उद्वेगरहिताः प्रायश्चित्तम् अकुर्वाणाः दुःसहान् नरकान् प्राप्नुवन्ति ॥ ३.२२१ ॥

नरकस्वरूपं विवृण्वन्न् आह ।

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली । ३.२२२अब्
रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ ३.२२२च्द्
संघातं लोहितोदं च सविषं संप्रपातनम् । ३.२२३अब्
महानरककाकोलं संजीवनमहापथम् ॥ ३.२२३च्द्
अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च । ३.२२४अब्
असिपत्रवनं चैव तापनं चैकविंशकम् ॥ ३.२२४च्द्
महापातकजैर् घोरैर् उपपातकजैस् तथा । ३.२२५अब्
अन्विता यान्त्य् अचरितप्रायश्चित्ता नराधमाः ॥ ३.२२५च्द्

तामिस्रप्रभृतींस् तपनपर्यन्तान् एकविंशतिनरकान् अन्वर्थसंज्ञाद्योतितावान्तरभेदान् महापातकोपपातकजनितभयंकरदुरितैर् अन्विता अनाचरितप्रायश्चित्ताः पुरुषाधमाः प्राप्नुवन्ति ॥ ३.२२२-२२५ ॥

उपात्तदुरितनाशार्थं प्रायश्चित्तम् इत्य् उक्तम् । तत्र विशेषम् आह ।

प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत् । ३.२२६अब्
कामतो व्यवहार्यस् तु वचनाद् इह जायते ॥ ३.२२६च्द्

प्रायश्चित्तैर् वक्ष्यमाणलक्षणैर् अज्ञाद् यद् एनः पापं कृतं तद् अपैति गच्छति न कामतः कृतं । किं तु तत्र प्रायश्चित्तविधायकवचनबलाद् इह लोके व्यवहार्यो जायते । अत्र च “प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतम्” इत्य् उपक्रमात् तत्प्रतियोगितया “ज्ञानतः” इति वक्तव्ये यत् “कामतः” इत्य् उक्तं, तत् ज्ञानकामयोस् तुल्यत्वप्रदर्शनार्थम् । तथा हि,

विहितं यद् अकामानां कामात् तद्द्विगुणं भवेत् ।

तथाबुद्धिपूर्वक्रियायाम् अर्धं प्रायश्चित्तम्, तथा,

म्लेच्छेनाधिगतः शूद्रस् त्व् अज्ञानात् तु कथंचन ।
कृच्छ्रत्रयं प्रकुर्वीत ज्ञानात् तु द्विगुणं भवेत् ॥

इत्यादिभिर् वचनैर् ज्ञानकामनयोस् तुल्यप्रायश्चित्तदर्शनात् तुल्यफलतैव । किं च, स्वतन्त्रप्रवृत्तिर् विषयज्ञानकामनाभ्यां नियताः, तयोर् अन्यतरापाये ऽपि तस्या असंभवाद् अतः “कामतः” इत्य् उक्तम् । “ज्ञानाज्ञानतः” इत्य् उक्ते ऽपि कामः प्राप्नोत्य् अविनाभावात् । न च चौरादिभिर् बलात् प्रवर्त्यमानस्य सत्य् अपि विषयज्ञाने कामनाभावान् नाविनाभाव इति वाच्यम् । यतो ऽत्र विद्यमानस्यापि ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्समत्वम् । यत् तु शुष्के ऽपि पिपतिषोर् भ्रान्त्या कर्दमपतनं, तत्रापि वास्तवज्ञानाभावात् तद्विषयकामनायाश् चाभाव एव । एवम् अज्ञानाकामनयोर् अप्य् अव्यभिचार एव ।

ननु “प्रायश्चित्तैर् अपैत्येनः” इति न युक्तम्, फलविनाश्यत्वात् कर्मणः ।
मैवम्, यथा पापोत्पत्तिः शास्त्रगम्या तथा तत्परिक्षयो ऽपीति नात्र प्रमाणान्तरं क्रमते । अत एव गौतमेन पूर्वोत्तरपक्षभङ्ग्या अयमर्थो दर्शितः । “तत्र प्रायश्चित्तं कुर्यान् न कुर्याद् इति मीमांसन्ते । न कुर्याद् इत्य् आहुः । न हि कर्म क्षीयते इति । कुर्याद् इत्य् अपरे । पुनःस्तोमेनेष्ट्वा पुनःसवनम् आयान्तीति विज्ञायते । व्रात्यस्तोमेनेष्ट्वा तरति सर्वं पाप्मानं तरति भ्रूणहत्यां यो ऽश्वमेधेन यजते” (ग्ध् १९.३–९) इति । पुनःसवनम् आयान्ति इति सवनसंपाद्यज्योतिष्टोमादिद्विजातिकर्मणि योग्यो भवतीत्य् अर्थः । न चेदम् अर्थवादमात्रम् । अधिकारिविशेषणाकाङ्क्षायां रात्रिसत्रन्यायेनार्थवादिकफलस्यैव कल्पनाया न्याय्यत्वात्, अतो युक्तं “प्रायश्चित्तैर् अपैत्येनः” इति ।
ननु कामकृते प्रायश्चित्ताभावात् कथं व्यवहार्यत्वं तदभावश् च “अनभिसंधिकृते ऽपराधे प्रायश्चित्तम्” इति (वध् २०.१) वसिष्ठवचनात्,
इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ (म्ध् ११.९०)

इति मनुवचनाच् चावगम्यते ।

नैतत्
यः कामतो महापापं नरः कुर्यात् कथंचन ।
न तस्य निष्कृतिर् दृष्टा भृग्वग्निपतनाद् ऋते ॥

इति, तथा

विहितं यद् अकामानां कामात् तद्द्विगुणं भवेत् ।

इति च, कामकृते ऽपि प्रायश्चित्तदर्शनात् । यत् तु वसिष्ठवचनं तस्याप्य्।

अकामकृते ऽपराधे प्रायश्चित्तं शुद्धिकरम् ।

इत्य् अभिप्रायो न पुनः कामकृते प्रायश्चित्ताभाव इति । यत् तु मनुवचनं “इयं विशुद्धिर् उदिता” इत्यादि, तद् अपीयम् इति सर्वनामपरामृष्टद्वादशवार्षिकादिव्रतचर्याया एव । “कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते” इत्य् अनेन प्रतिषेधो न पुनः प्रायश्चित्तमात्रस्य, मरणान्तिकादेः प्रायश्चित्तस्य दर्शितत्वात् ।

ननु यदि कामकृते ऽपि प्रायश्चित्तम् अस्ति तर्हि पापक्षयो ऽपि कस्मान् न स्याद् अविशेषाद्, यदि पापक्षयो ऽपि नास्ति तर्हि व्यवहार्यतापि कथं भवति ।
उच्यते । उभयत्र प्रायश्चित्ताविशेषे ऽपि फलविशेषः शास्त्रतो ऽवगम्यते । अज्ञातकृते तु सर्वत्र पापक्षयः । यत्र तु “ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबद्धागस्तेननास्तिकनिन्दितकर्माभ्यासि-पतितताग्यपतितत्यागिनः पतिताः पातकसंयोजकाश् च” इति (ग्ध् २१.१–२) गौतमोक्तमहापातकादौ व्यवहार्यत्वं निषिद्धं, तस्मिन् पतनीये कर्मणि कामतः कृते व्यवहार्यत्वमात्रं न पापक्षय इति । न च पापक्षयाभावे व्यवहार्यत्वम् अनुपपन्नम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका चेति । तत्रेतरशक्त्यविनाशे ऽपि व्यवहारनिरोधिकायाः शक्तेर् विनाशो नानुपपन्नस् तस्मात् पापानपगमे ऽपि व्यवहार्यत्वं नानुपपन्नम् । यत् तु मनुवचनम्,
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।
कामकारकृते’प्याहुरेके श्रुतिनिदर्शनात् ॥ (म्ध् ११.४५)

इति, तद् अपि कामकृते प्रायश्चित्तप्राप्त्यर्थं न पुनः पापक्षयप्रतिपादनपरम् । अपतनीये पुनः कामकृते ऽपि प्रायश्चित्तेन पापक्षयो भवत्य् एव,

अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ (म्ध् ११.४६)

इति मनुस्मरणात् । पतनीये ऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्तेषु कल्मषक्षयो भवत्य् एव, फलान्तराभावात् । “नास्यास्मिंल् लोके प्रत्यापत्तिर् विद्यते कल्मषं तु निहन्यते” इत्य् (आप्ध् १.२४.२५) आपस्तम्बस्मरणात् ॥ ३.२२६ ॥

निषिद्धाचरणादिकं प्रायश्चित्ते निमित्तम् इत्य् उक्तं तत्पञ्चयितुम् आह ।

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः । ३.२२७अब्
एते महापातकिनो यश् च तैः सह संवसेत् ॥ ३.२२७च्द्

हन्तिर् अयं प्राणवियोगकरे व्यापारे रूढः । यद् व्यापारसमनन्तरं कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति, सः । ब्राह्मणं हतवान् इति ब्रह्महा । मद्यपो निषिद्धसुरायाः पाता । स्तेनः ब्राह्मणसुवर्णस्य हर्ता, “ब्राह्मणसुवर्णापहरणं महापातकं” इत्य् आपस्तम्बस्मरणात् । गुरुतल्पगो गुरुभार्यागामी । तल्पशब्देन शयनवाचिना साहचर्याद् भार्या लक्ष्यते । एते ब्रह्महादयो महापातकिनः । पातयन्तीति पातकानि ब्रह्महत्यादीनि । महच्छब्देन तेषां गुरुत्वं ख्याप्यते तद्योगिनो ँँमहापातकिनँँ इति । लाघवार्थं संज्ञाकरणम् । यश् च तैर् ब्रह्महादिभिः प्रत्येकं सह संवसति “एभिस् तु संवसेद् यो वै वत्सरं सो ऽपि तत्समः” य्ध् ३.२६६) इति वक्ष्यमाणन्यायेन सो ऽपि महापातकी । तथाशब्दः प्रकारवचनो ऽनुग्राहकप्रयोजकादिकर्तृसंग्रहार्थः । अनुग्राहकश् च यः पलायमानम् अमित्रं उपरुन्धन् परेभ्यश् च हन्तारं परिरक्षन् हन्तुर् द्रढिमानम् उपजनयन्न् उपकरोति स उच्यते । अत एव मनुनानुग्राहकस्य हिंसाफलसंबन्धो दर्शितः ।

बहूनाम् एककार्याणां सर्वेषां शस्त्रधारिणाम् ।
यद्य् एको घातयेत् तत्र सर्वे ते घातकाः स्मृताः ॥ इति ।

तथा प्रयोजकादीनाम् अप्य् आपस्तम्बेन फलसंबन्ध उक्तः “प्रयोजितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु यो भूय आरभते तस्मिन् फलविशेषः” (नोत् इन् आप्ध्) इति तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः । स च त्रिप्रकारः- आज्ञापयिताभ्यर्थयमान उपदेष्टेति । तत्राज्ञापयिता नाम स्वयम् उच्चः सन् नीचं भृत्यादिकं यः प्रेरयति मदीयम् अमित्रं जहीति स उच्यते । अभ्यर्थयमानस् तु यः स्वयम् असमर्थः सन् प्रार्थनादिना मच्छत्रुं व्यापादयेत्य् उच्चं प्रवर्तयति सो ऽभिधियते । अनयोश् च स्वार्थसिद्ध्यर्थम् एव प्रयोक्तृत्वम् । उपदेष्टा पुनस् त्वं शत्रुम् इत्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरं प्रेरयन् कथ्यते । तत्र च प्रयोज्यगतम् एव फलम् इति तेषां भेदः । अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः । स द्विप्रकारः- कश्चित् स्वार्थसिद्ध्यर्थम् अनुजानाति कश्चित् परार्थम् इति ॥

ननु अनुमननस्य कथं हिंसाहेतुत्वं, न तावत् प्राणवियोगोत्पादनेन, तस्य साक्षात्कर्तृव्यापारजन्यत्वात् । नापि प्रयोजकस्येव, साक्षात्कर्तृप्रवृत्त्युत्पादनद्वारेण प्रवृत्तस्य प्रवर्तकत्वात् । न च साधु त्वयाध्यवसितम् इति प्रवृत्तम् एवानुमन्यत इति शङ्कनीयम् । तादृशस्यानुमननस्य हिंसां प्रत्यहेतुत्वाद् व्यर्थत्वाच् च ।
उच्यते । यत्र हि राजादिपारतन्त्र्यात् स्वयं मनसा प्रवृत्तो ऽपि प्रवृत्तिविच्छेदभयाद् आगामिदण्डभयाद् वा शिथिलप्रयत्नो राजाद्यनुमतिम् अपेक्षते तत्रानुमतिर् हन्तुः प्रवृत्तिम् उपोद्बलयन्ती हिंसाफलं प्रति हेतुतां प्रतिपद्यते । तथा यो ऽपि भर्त्सनताडनधनापहारादिना परान् कोपयति सो ऽपि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसाहेतुर् भवत्य् एव । अत एव विष्णुनोक्तम् ।
आक्रुष्टस् ताडितो वापि धनैर् वा विप्रयोजितः ।
यम् उद्दिश्य त्यजेत् प्राणांस् तम् आहुर् ब्रह्मघातकम् ॥ इति ।

तथा,

ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थम् एव च ।
यम् उद्दिश्य त्यजेत् प्राणांस् तम् आहुर् ब्रह्मघातकम् ॥ इति ।

न च कृतेष्व् अप्य् आक्रोशनादिषु कस्यचिन् मन्यूत्पत्त्यदर्शनाद् अकारणतेति शङ्कनीयम्, पुरुषस्वभाववैचित्र्यात् । ये अल्पतरेणापि निमित्तेन जातमन्यवो भवन्ति तेष्व् अव्यभिचार इति नाकारणता । एतेषां चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलगुरुलाघवात् प्रायश्चित्तगुरुलाघवं बोद्धव्यम्, “यो भूय आरभते तस्मिन् फलविशेषः” इति वचनात् । तथा ह्य् अनुग्राहकस्य तावत् स्वयम् एव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्य् अपि साक्षात् प्राणवियोगफलकखङ्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्तृवद् भूयो हिंसारम्भकत्वाभावाद् अल्पफलत्वम् अल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यवहितत्वात् ततो ऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्त्वेनोपदेष्टुर् अल्पफलत्वम् । ननु प्रयोजकहस्तस्थानीयत्वात् प्रयोज्यस्य न फलसंबन्धो युक्तः । यदि परप्रयुक्त्या प्रवर्तमानस्यापि संबन्धस् तर्हि स्थपतितडागखनितृप्रभृतीनाम् अपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते । शास्त्रोक्तं फलं प्रयोक्तरीति न्यायेनाधिकारिकर्तृगतफलजनका देवकूपतडागनिर्माणादयः । न च स्थपतितडागखनित्रादयो देवकूपतडागकरणादिष्व् अधिकारिणः, अस्वर्गकामित्वात् । अत्र पुनः परप्रयुक्त्या प्रवर्तमानानाम् अप्य् अहिंसायाम् अधिकारित्वाद् भवत्य् एव तद्व्यतिक्रमनिबन्धनो दोषः । अनुमन्तुस् तु प्रयोजकाद् अप्य् अल्पफलत्वं प्रयोजकव्यापाराद् बहिरङ्गत्वाल् लघुत्वाच् चानुमननस्य । निमित्तकर्तुः पुनर् आक्रोशकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन व्यवहितत्वान् मरणानुसंधानं विना प्रवृत्तत्वाच् चानुमन्तुः सकाशाद् अप्य् अल्पफलत्वम् ।

ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोर् अपि हन्तृपुरुषोत्पादनद्वारेण हननकर्तृत्वप्रसङ्गः ।
उच्यते । न हि पूर्वभावित्वमात्रेण कारणत्वम् कारणतयापि तथाभावित्वोपपत्तेः । यत् खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद् धि कारणम् । यदि रथन्तरसामा सोमः स्याद् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति रथन्तरसामतेव क्रतोर् ऐन्द्रवायवाग्रतायां कारणं । न हि तत्र सोमयागः स्वरूपेण कारणं व्यभिचारात् । न च पित्रोस् तादृग्विधकारणलक्षणयोगित्वम् इति नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतितब्राह्मणादिमरणे खानयितुर् दोषाभावः । न हि कूपो ऽनेन खातितो ऽतो ऽहम् आत्मानं व्यापादयामीत्य् एवं कूपखनननिमित्तं व्यापादनं यथाक्रोशादौ । अतः कूपकर्तुर् अपि कारणकारणत्वम् एव न पुनर् हिंसाहेतुत्वम् इति मातापितृतुल्यतैव । तथा क्वचित् सत्य् अपि हिंसानिमित्तयोगित्वे परोपकारार्थप्रवृत्तौ वचनाद् दोषाभावः । यथाह संवर्तः ।
बन्धने गोश् चिकित्सार्थे मूड्ःअगर्भविमोचने ।
यत्ने कृते विपत्तिश् चेत् प्रायश्चित्तं न विद्यते ॥
औषधं स्नेहम् आहारं ददद् गोब्राह्मणादिषु ।
दीयमाने विपत्तिः स्यान् न स पापेन लिप्यते ॥
दाहच्छेदशिराभेदप्रयत्नैर् उपकुर्वताम् ।
प्राणसंत्राणसिद्ध्यर्थं प्रायश्चित्तं न विद्यते ॥ इति ।

एतच् चादाननिदाननिपुणभिषग्विषयम् । इतरस्य तु “भिषङ् मिथ्याचरन् दाप्यः” (य्ध् २.१४२) इत्य् अत्र दोषो दर्शितः । यत्र तु मन्युनिमित्ताकोशनादिकम् अकुर्वतो ऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति तत्रापि न दोषः,

अकारणं तु यः कश्चिद् द्विजः प्राणान् परित्यजेत् ।
तस्यैव तत्र दोषः स्यान् न तु यं परिकीर्तयेत् ॥

इति स्मरणात् ॥ तथा यत्राप्य् आक्रोशकादिजनितमन्युर् आत्मानं खड्गादिना प्रहृत्य मरणाद् अर्वाग् आक्रोशनादिकर्त्रा धनदानादिना संतोषितो यदि जनसमक्षम् उच्चैः श्रावयति नात्राक्रोशकस्यापराध इति तत्रापि वचनान् न दोषः । यथाह विष्णुः ।

उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत् पुनः ।
तस्मिन् मृते न दोषो ऽस्ति द्वयोर् उच्छ्रावणे कृते ॥ इति ।

एतेषां च प्रयोजकादिना दोषगुरुलघुभावपर्यालोचनया प्रायश्चित्तविशेषं वक्ष्यामः ॥ ३.२२७ ॥

ब्रह्महत्यासमान्य् आह ।

गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः । ३.२२८अब्
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम् ॥ ३.२२८च्द्

गुरुणाम् आधिक्येनाधिक्षेपो ऽनृताभिशंसनम् । “गुरोर् अनृताभिशंसनम् इति महापातकसमानि” (ग्ध् २१.१०) इति गौतमस्मरणात् । एतच् च लोकाविदितदोषाभिशंसनविषयम्, “दोषं बुद्ध्वा न पूर्वः परेषां समाख्याता स्यात् संव्यवहारे चैनं परिहरेत्” (आप्ध् १.२१.२०) इत्य् आपस्तम्बस्मरणात् । नास्तिक्याभिनिवेशेन वेदकुत्सनस् । सुहृन् मित्रं तस्याब्राह्मणस्यापि वधः । अधीतस्य वेदस्यासच्छास्त्रविनोदेनालस्यादिना वा नशनं विस्मरणम् । एतानि प्रत्येकं ब्रह्महत्यासमानि । यत् पुनः “स्वाध्यायाग्निसुतत्यागः” (य्ध् ३.२३९) इत्य् अधीतत्यागस्योपपातकमध्ये परिगणनं, तत् कथंचित् कुटुम्बभरणाकुलतयासच्छास्त्रश्रवणव्यग्रतया वा विस्मरणे द्रष्टव्यम् ॥ ३.२२८ ॥

सुरापानसमान्य् आह ।

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचो ऽनृतम् । ३.२२९अब्
रजस्वलामुखास्वादः सुरापानसमानि तु ॥ ३.२२९च्द्

निषिद्धं लशुनादिकं तस्य मतिपूर्वं भक्षणम् । अत एव मनुः ।

छत्त्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेन् नरः ॥ इति । (म्ध् ५.१९)

अमतिपूर्वे तु प्रायश्चित्तान्तरम्,

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ (म्ध् ५.२०)

इति तेनैवोक्तत्वात् । जैह्मयं कौटिल्यं अन्याभिसंधानेनान्यवादित्वम् अन्यकर्तृत्वं च । अत्र च जैह्मयम् इति यद्य् अपि सामान्येनोक्तं तथापि प्रायश्चित्तस्य गुरुत्वान् निमित्तस्यापि गुरुविषयं जैह्मयम् इति गौरवं गम्यते । अस्ति च नैमित्तिकपर्यालोचनया निमित्तस्य विशेषावगतिः । यथा यस्योभावग्न्य् अनुमतौ स्यातां दुष्टौ भवेताम् अभिनिम्लोचेतां वा पुनर् आधेयं तत्र प्रायश्चित्तिर् इत्य् अत्रोभाव् इत्य् अस्य निमित्तविशेषणत्वेन हविर् उभयत्वाद् अविवक्षितत्वे ऽप्य् अग्निद्वयनिष्पादकपुनराधेयरूपनैमित्तिकविधिबलाद् अग्निद्वयानुगतिर् एव निमित्तम् इति कल्प्यते तथात्रापीति युक्तं निमित्तगौरवकल्पनम् । तथा समुत्कर्षनिमित्तं राजकुलादाव चतुर्वेद एव चतुर्वेदो ऽहम् इत्य् अनृतभाषणम् । रजस्वलाया (कामवशेन) वक्त्रासवसेवनम् । एतानि सुरापानसमानि ॥ ३.२२९ ॥

सुवर्णस्तेयसमान्य् आह ।

अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा । ३.२३०अब्
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसंमितम् ॥ ३.२३०च्द्

अश्वादीनां ब्राह्मणसंबन्धिना निक्षेपस्य च सुवर्णव्यतिरिक्तस्यापहरणम् एतत् सर्वं सुवर्णस्तेयसमं वेदितव्यम् ॥ ३.२३० ॥

गुरुतल्पसमान्य् आह ।

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च । ३.२३१अब्
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ ३.२३१च्द्

सखा मित्रं तस्य भार्या कुमार्य् उत्तमजातीया कन्यका तासु ।

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः ।
दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ (य्ध् २.२८८)

इति तत्रैव दण्डविशेषप्रतिपादनात् प्रायश्चित्तगुरुत्वं युक्तम् । स्वयोनिर् भगिनी, अन्त्यजा चाण्डाली, सगोत्रा समानगोत्रा, सुतस्त्री स्नुषा, एतासां गमनं प्रत्येकं गुरुतल्पसमम् । एतच् च रेतःसेकाद् ऊर्ध्वं वेदितव्यम् । अर्वाङ् निवृत्तौ तु न गुरुतल्पसमत्वं किंत्व् अल्पम् एव प्रयाश्चित्तम्,

रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ (म्ध् ११.५९)

इति मानवे रेतःसेक इति विशेषणोपादानात् । सगोत्राग्रहणेनैव सिद्धे पुनः सुतस्त्रीग्रहणं प्रायश्चित्तगौरवप्रतिपादनार्थम् । अत्र च ब्रह्महत्यादिसमत्ववचनं गुर्वधिक्षेपादेस् तत्तन्निमित्तप्रायश्चित्तोपदेशार्थम् ।

ननु वेदनिन्दादौ दोषस्य लघुत्वाद् गुरुतरं ब्रह्महत्यादिप्रायश्चित्तं न युज्यते ।
मैवम्, गुरुप्रायश्चित्तोपदेशबलाद् एव दोषगुरुत्वावगतेः । न च ब्रह्महत्यादिप्रायश्चित्तातिदेशार्थम् एवेदं वचनं न भवति, किं तु दोषगौरवमात्रप्रतिपादनपरम् इत्य् आशङ्कनीयम् । यतस् तावन्मात्रप्रतिपादनपरत्वे ब्रह्महत्यासमम् इदं गुरुतल्पसमम् इत्यादिभेदेन समत्वाभिधानं नोपपद्यते । तच् च प्रायश्चित्तं समशब्देनोपदिश्यमानं ब्रह्महत्यादिप्रायश्चित्तेभ्यः किंचिन् न्यूनम् एवोपदिश्यते । लोके राजसमो मन्त्री इत्यादिवाक्येषु समशब्दस्य किंचिद्धीने प्रयोगदर्शनात् महतः पातकस्येतरस्य च तुल्यत्वस्यायुक्तत्वाच् च । एवं च सति याज्ञवल्क्येन ब्रह्महत्यासमत्वेनोक्तानाम् अपि ब्रह्मोज्झत्ववेदनिन्दासुहृद्वधानां मनुना यत् सुरापानसाम्यम्,
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितान्नाज्ययोर् जग्धिः सुरापानसमानि षट् ॥ (म्ध् ११.५७)

इत्य् उक्तं तत् प्रायश्चित्तविकल्पार्थम् । एवम् अन्येष्व् अपि वचनेषु विरोधः परिहर्तव्यः । यत् तु वसिष्ठेन “गुरोर् अलीकनिर्बन्धे कृच्छ्रं द्वादशरात्रकं चरित्वा सचैलः स्नातो गुरुप्रसादात् पूतो भवति” (वध् २१.२८) इति लघुप्रायश्चित्तम् उक्तं, तद् अमतिपूर्वं सकृदनुष्ठाने च वेदितव्यम् ॥ ३.२३१ ॥

गुरुतल्पानिदेशम् आह ।

पितुः स्वसारं मातुश् च मतुलानीं स्नुषाम् अपि । ३.२३२अब्
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥ ३.२३२च्द्
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः । ३.२३३अब्
लिङ्गं छित्त्वा वधस् तस्य सकामायाः स्त्रिया अपि ॥ ३.२३३च्द्

पितृष्वस्रादयः प्रसिद्धास् ताः गच्छन् गुरुतल्पगस् तस्य लिङ्गं छित्त्वा राज्ञा वधः कर्तव्यो दण्डार्थं प्रायश्चित्तं च तद् एव । चशब्दाद् राज्ञीप्रव्रजितादीनां ग्रहणम् । यथाह नारदः ।

माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥ (न्स्म् १२.७२–७४) इति ।

राज्ञी राज्यस्य कर्तुर् भार्या न क्षत्रियस्यैव, तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यतिरिक्ता स्तन्यदानादिना पोषयित्री । साध्वी व्रतचारिणी । वर्णोत्तमा ब्राह्मणी, अत्र मातृग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य्,

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् । (म्ध् ८.३८०)

इति तस्य वधनिषेधात्, वधस्यैव प्रायश्चित्तरूपत्वात् । अस्य च विषयं गुरुतलप्रायश्चित्तप्रकरणे प्रपञ्चयिष्यामः । अत्र स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनर्ग्रहणं प्रायश्चित्तविकल्पार्थम् । यदा पुनर् एताः स्त्रियः सकामाः सत्य एतान् एव पुरुषान् वशीकृत्योपभुञ्जन्ते तदा तासाम् अपि पुरुषवद् वध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वधिक्षेपादितनयागमपर्यन्तानि महापातकातिदेशविषयाणि सद्यःपतनहेतुत्वात् पातकान्य् उच्यन्ते । यथाह यमः ।

मातृष्वसा मातृसखी दुहिता च पितृष्वसा ।
मातुलानी स्वसा श्वश्रूर् गत्वा सद्यः पतेन् नरः ॥ इति ।

गौतमेन पुनर् अन्येषां अपि पातकत्वम् उक्तम् । “मातृपितृयोनिसंबद्धाङ्गस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश् च” (ग्ध् २१.१२) इति । तेषां च महापातकोपपातकमध्यपाठान् महापातकान् न्यूनत्वम् उपपातकाच् च गुरुत्वम् अवगम्यते । तद् उक्तम् ।

महापातकतुल्यानि पापान्य् उक्तानि यानि तु ।
तानि पातकसम्ज्ञानि तन्न्यूनम् उपपातकम् ॥ इति ।

तथा चाङ्गिराः ।

पातकेषु सहस्रं स्यान् महत्सु द्विगुणं तथा ।
उपपापे तुरियं स्यान् नरकं वर्षसंख्यया ॥ इति ॥ ३.२३२ ॥ ३.२३३ ॥

एवं महापातकानि तत्समानि च पातकानि परिगणय्योपपातकानि परिगणयितुम् आह ।

गोवधो व्रात्यता स्तेयम् ऋणानां चानपक्रिया । ३.२३४अब्
अनाहिताग्नितापण्यविक्रयः परिदेवनम् ॥ ३.२३४च्द्
भृताद् अध्ययनादानं भृतकाध्यापनं तथा । ३.२३५अब्
पारदार्यं पारिवित्त्यं वार्द्धुष्यं लवणक्रिया ॥ ३.२३५च्द्
स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् । ३.२३६अब्
नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः ॥ ३.२३६च्द्
धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम् । ३.२३७अब्
पितृमातृसुतत्यागस् तडागारामविक्रयः ॥ ३.२३७च्द्
कन्यासंदूषणं चैव परिविन्दकयाजनम् । ३.२३८अब्
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ ३.२३८च्द्
आत्मनो ऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । ३.२३९अब्
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ ३.२३९च्द्
इन्धनार्थं द्रुमछेदः स्त्रीहिंसौषधजीवनम् । ३.२४०अब्
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥ ३.२४०च्द्
शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् । ३.२४१अब्
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥ ३.२४१च्द्
असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता । ३.२४२अब्
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥ ३.२४२च्द्

गोवधो गोपिण्डव्यापादनम्, काले ऽनुपनीतत्वं व्रात्यता, ब्राह्मणसुवर्णतत्समव्यतिरिक्तपरद्रव्यापहरणं स्तेयम्, गृहीतस्य सुवर्णादेर् अप्रदानम्, ऋणानाम् अनपाकरणम्, तथा देवर्षिपितॄणां संबन्ध्यृणस्यानपाकरणं च, सत्य् अधिकारे ऽनाहिताग्नित्वम् ।

ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्गभूताग्निनिष्पत्त्यर्थम् आधानं प्रयुञ्जत इति मीमांसकप्रसिद्धिर् अतश् च यस्याग्निभिः प्रयोजनं तस्य तदुपायभूताधाने प्रवृत्तिर् वीह्याद्यर्थिन इव धनार्जने । यस्य पुनर् अग्निभिः प्रयोजनं नास्ति तस्याप्रवृत्तिर् इति कथम् अनाहिताग्नितादोषः ।
उच्यते । अस्माद् एवाधानस्यावश्यकत्ववचनान् नित्यश्रुतयो ऽपि साधिकारित्वाविशेषाद् आधानस्य प्रयोजिका इति स्मृतिकाराणाम् अभिप्रायो लक्ष्यत इत्य् अदोषः । तथा अपण्यस्य लवणादेर् विक्रयः, सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर् दाराग्निसंयोगः परिवेदनम्, पणपूर्वाध्यापकाद् अध्ययनग्रहणम्, पणपूर्वाध्यापनम्, परदारसेवनं गुरुदारतत्समव्यतिरेकेण, पारिवित्त्यं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम्, वार्धुष्यं प्रतिषिद्धवृद्ध्युपजीवनम्, लवणक्रिया लवणस्योत्पादानम्, स्त्रिया वधो ऽब्राह्मण्या अप्य् आत्रेयीव्यतिरेकेण, शूद्रवधः, अदीक्षितविट्क्षत्रियवधः, निन्दितार्थोपजीवनम् अराजस्थापितार्थोपजीवनम्, नास्तिक्यं नास्ति परलोक इत्याद्यभिनिवेशः, व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः, सुतानाम् अपात्यानां विक्रयः, धान्यं व्रीह्यादि, कुप्यम् असारद्रव्यं त्रपुसीसादि, पशवो गवादयस् तेषाम् अपहरणम् । “गोवधो व्रात्यता स्तेयम्” इत्य् अनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं नित्यार्थम् । अतो धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यम् एतद् एव प्रायश्चित्तम् अपि तु ततो न्यूनम् अपि भवत्य् एव । एतेन बान्धवत्यागग्रहणेनैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम् । अयाज्यानां जातिकर्मदुष्टानां शूद्रव्रात्यादीनां याजनम्, पितृमातृसुतानाम् अपतितानां त्यागो गृहान् निष्कासनम्, तडागस्यारामस्य चोद्यानोपवनादेर् विक्रयः । कन्याया संदूषणम् अङ्गुल्यादिना योनिविदारणं न तु भोगः, तस्य सखिभार्याकुमारीष्व् इति गुरुतल्पगसमत्वस्योक्तत्वात् । परिविन्दकयाजनं तस्य च कन्याप्रदानम् । कौटिल्यं गुरोर् अन्यत्र, गुरुविषयस्य तु कौटिल्यस्य सुरापानसमत्वम् उक्तम् । पुनर् व्रतलोपग्रहणम् अशिष्टाप्रतिषिद्धेष्व् अपि श्रीहरिचरणकमलप्रेक्षणात् प्राक् ताम्बूलादिकं न भक्षयामीत्य् एवंरूपेषु प्राप्त्यर्थं न तु स्नातकव्रतप्राप्त्यर्थम् । तत्र,
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् । (म्ध् ११.२०४)

इति मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात् । तथात्मार्थं च पाकलक्षणक्रियारम्भः,

अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् । (म्ध् ३.११८)

इति तस्यैव प्रतिषिद्धत्वात् । क्रियामात्रविषयत्वे तु प्रतिषेधकल्पनाया गौरवं स्यात् । मद्यपायाः स्त्रियाः जायाया अपि निषेवणम् उपभोगः । स्वाध्यायत्यागो व्याख्यातः । अग्नीनां च श्रौतस्मार्तानां त्यागः, सुतत्यागः संस्काराद्यकरणम्, बान्धध्वानां पितृव्यमातुलादीनां त्यागः सति विभवे अपरिरक्षणम्, पाकादिदृष्टप्रयोजनसिद्ध्यर्थम् आर्द्रद्रुमच्छेदो न त्व् आहवनीयपरिरक्षणार्थम् अपि, स्त्रिया हिंसया औषधेन च वर्तनं जीवनं स्त्रीहिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भार्यां पण्यभावेन प्रयोज्य तल्लब्धोपजीवनम्, स्त्रीधनेनोपजीवनं वा । हिंसस्या जीवनं प्राणिवधेन जीवनम् । औषधजीवनं वशीकरणादिना । हिंसयन्त्रस्य तिलेक्षुपीडाकारस्य प्रवर्तनम् । व्यसनानि मृगयादीन्य् अष्टादश । आत्मविक्रयो द्रव्यग्रहणेन परदास्यकरणम् । शूद्रसेवनं हीनेषु मैत्रीकरणम् । अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनं साधारणस्त्रीसंभोगश् च । अनाश्रमवासो ऽगृहीताश्रमित्वं सत्य् अधिकारे । परान्नपरिपुष्टता परपाकरतित्वम् । असच्छास्त्रस्य चार्वाकादिग्रन्थस्याधिगमः । सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम् । भार्याया विक्रयः । चशब्दान् मन्वाद्युक्ताभिचारामतिपूर्वलशुनादिभक्षणादेर् ग्रहणम् । एषां गोवधादीनां प्रत्येकम् उपपातकसंज्ञा वेदितव्या । मनुना पुनर् अन्यान्य् अपि निमित्तानि जातिभ्रंशकरसंकरीकरणापात्रीकरणमलिनीकरणसंज्ञानि परिगणितानि ।

ब्राह्मणस्य रुजः कृत्या घ्रातिर् अघ्रेयमद्ययोः ।
जैह्म्यं पुंसि च मैथुनं जातिभ्रंशकरं स्मृतम् ॥
खराश्वोष्ट्रमृगेभानाम् अजाविकवधस् तथा ।
संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ॥
कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
फलैधःकुसुमस्तेयम् अधैर्यं च मलावहम् ॥ इति ॥ (म्ध् ११.६८–७१)

अतो ऽन्यन् निमित्तजातं प्रकीर्णकं कथ्यते । बृहद्विष्णुना च समस्तानि प्रायश्चित्तनिमित्तान्य् उत्तरोत्तरं लघीयांसि पृथक्संज्ञाभेदभिन्नानि दर्शितानि- “ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णापहरणं गुरुदारगमनम् इति महापातकानि, तत्संयोगश् च । मातृगमनं दुहितृगमनं स्नुषागमनम् इत्य् अतिपातकानि । यागस्थक्षत्रियवधो वैश्यस्य च रजस्वलायाश् चान्तर्वत्न्याश् चासगोत्रायाश् चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि । कौटसाक्ष्यं सुहृद्वध इत्य् एतौ सुरापानसमौ । ब्राह्मणस्य भूमिहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलनृपपत्न्यभिगमनं गुरुदारगमनसमम्, पितृष्वसृमातृष्वसृगमनं श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च । स्वसुः सख्याः सगोत्राया उत्तमवर्णाया रजस्वलायाः शरणागतायाः प्रव्रजितायाः निक्षिप्तायाश् च गमनम् इत्य् एतान्य् अनुपातकानि । अनृतवचनं समुत्कर्षे राजगामि च पैशुनम्, गुरोश् चालीकनिर्बन्धो वेदनिन्दा अधीतस्य त्यागो ऽग्निपितृमातृसुतदाराणां च । अभोज्यान्नभक्षणं परस्वापहरणं परदारानुगमनम् अयाज्यानां च याजनं व्रात्यता भृतकाध्यापनं भृतकाध्ययनादानं सर्वाकरेष्व् अधिकारो महायन्त्रप्रवर्तनं द्रुमगुल्मलतौषधीनां हिंसया जीवनम् अभिचारमूलकर्मसु च प्रवृत्तिर् आत्मार्थक्रियारम्भो ऽनाहिताग्निता देवर्षिपितॄणाम् ऋणस्यानपक्रिया असच्छास्त्राधिगमनं नास्तिकता कुशीलता मद्यपस्त्रीनिषेवणम् इत्य् उपपातकानि । ब्राह्मणस्य रुजःकरणम् अघ्रेयमद्ययोर् घ्रातिर् जैह्मयं पशुषु पुंसि च मैथुनाचरणम् इत्य् एतानि जातिभ्रंशकराणि । ग्राम्यारण्यपशूनां हिंसनं संस्करीकरणम् । निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनं असत्यभाषणम् शूद्रसेवनम् इत्य् अपात्रीकरणानि । पक्षिणां जलचराणां जलजानां च घातनं कृमिकीटघातनं मद्यानुगतभोजनम् इति मलावहानि । यद् अनुक्तं तत् प्रकीर्णकम्” । इति । कात्यायनेन तु महापातकसमानां विष्नुनाप्य् उपपातकत्वेनोक्तानां पातकसंज्ञा दर्शिता ।

महापापं चातिपापं तथा पातकम् एव च ।
प्रासङ्गिकं चोपपापम् इत्य् एवं पञ्चको गणः ॥ इति ।

ननु उपपातकादीनां कथं पातकत्वं पतनहेतुत्वाभावात् । यदि तेषाम् अपि पतनहेतुत्वं तर्हि “मातृपितृयोनिसंबन्ध्ँँआङ्ग्ँँअः” इत्यादिपरिगणनम् अनर्थकम् ।

अथैवम् उच्यते । यद्य् अपि महापातकतत्समेष्व् इव सद्यःपातित्यहेतुत्वं नास्ति तथाप्य् अभ्यासापेक्षया पातित्यहेतुत्वम् अविरुद्धम् । “निन्दितकर्माभ्यासी[^४६]” (ग्ध् २१.१) इति गौतमवचनाद् इति ।
मैवम्, अभ्यासस्यानिरूप्यमाणत्वात् । द्विः शतकृत्वो वेति तत्राविशेषे ऽङ्गीक्रियमाणे यो ऽपि द्विर् दिवा स्वपिति यः शतकृत्वो वा गोवधं करोति तयोर् अविशेषेण पातित्यं स्यात् । अत्रोच्यते । यत्रार्थवादे प्रत्यवायविशेषः श्रूयते प्रायश्चित्तबहुत्वं वा तस्मिन् निन्दितकर्मणि यावत्य् अभ्यस्यमाने महापातकतुल्यत्वं भवति तावान् अभ्यासः पातित्यहेतुः । दिवास्वप्नादौ तु सहस्रकृत्वो ऽप्य् अभ्यस्यमाने न महापातकतुल्यत्वं भवतीति न तत्र पातित्यम् । अतो युक्तम् उपपातकादेर् अभ्यासापेक्षया पतनहेतुत्वम् ॥ ३.२३४-२४२ ॥

एवं व्यवहारार्थं संज्ञाभेदसहितं प्रायश्चित्तनिमित्तपरिगणनं कृत्वा नैमित्तिकानि प्रदर्शयितुम् आह ।

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ३.२४३अब्
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिम् आप्नुयात् ॥ ३.२४३च्द्

शिरसः कपालम् अस्यास्तीति शिरःकपाली । तथा ध्वजवान् “कृत्वा शवशिरोध्वजम्” (म्ध् ११.७३) इति मनुस्मरणात् । अन्यच्छिरःकपालं दण्डाग्रसमारोपितं ध्वजशब्दवाच्यं गृह्णीयात् । तच् च कपालं स्वव्यापादितब्राह्मणशिरःसंबन्धि ग्राह्यम्, “ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालम् आदाय तीर्थान्य् अनुसंचरेत्” इति शातातपस्मरणात् । तदलाभे ऽन्यस्यैव ब्राह्मणस्य ग्राह्यम् । एतद् उभयं पाणिनैव ग्राह्यम्, “खट्वाङ्गकपालपाणिः” (ग्ध् २२.४) इति गौतमस्मरणात् । खट्वाङ्गशब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते, न पुनः खट्वैकदेशः, “महोक्षः खट्वाङ्गं परशुः” इत्यादिव्यवहारेषु तस्यैव प्रसिद्धेः । एतच् च कपालधारणं चिह्नार्थं न पुनर् भोजनार्थं भिक्षार्थं वा, “मृन्मयकपालपाणिर् भिक्षायै ग्रामं प्रविशेत्” (ग्ध् २२.४) इति गौतमस्मरणात् । तथा वनवासिना च तेन भवितव्यम्,

ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् । (म्ध् ११.७३)

इति मनुस्मरणात् । ग्रामसमीपादौ वा,

कृतवापनो निवसेद् ग्रामान्ते गोव्रजे ऽपि वा ।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ (म्ध् ११.७९)

इति तेनैवोक्तत्वात् । “कृतवापनो वा” इति विकल्पाभिधानाज् जटी वेति लक्ष्यते । अत एव संवर्तः ।

ब्रह्म्हा द्वादशाब्दानि बालवासा जटी ध्वजी । इति ।

तथा भिक्षाशनशिलश् च भवेत् । भिक्षा च लोहितकेन मृन्मयखण्डशरावेण ग्राह्या, “लोहितकेन खण्डशरावेण ग्रामं भिक्षायै प्रविशेत्” (आप्ध् १.२४.१४) इत्य् आपस्तम्बस्मरणात् । सप्तागाराण्य् एवान्नम् इष्टं लभ्येत वा न वेत्य् एवम् असंकल्पितानि भिक्षार्थं प्रविशेत् “सप्तागाराण्य् असंकल्पितानि चरेद् भैक्षम्” (वध् १०.७) इति वसिष्ठस्मरणात् । तथैकाल एव सा ग्राह्या, “एककालाहारः” इति (नोत् इन् वध्) तेनैवोक्तत्वात् । एतच् च भैक्षं ब्राह्मणादिवर्णेष्व् एव कार्यम् “चातुर्वर्ण्ये चरेद् भैक्षं खट्वाङ्गी संयतात्मवान्” इति संवर्तस्मरणात् । तथा ब्रह्महास्मीति स्वकर्म ख्यापयन् द्वारि स्थितो भिक्षां याचेत्,

वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः ।

इति पराशरस्मरणात् । अयं च भैक्षाशित्वनियमो वन्यैर् जीवनाशक्तौ द्रष्टव्यः,

भिक्षायै प्रविशेद् ग्रामं वन्यैर् यदि न जीवति ।

इति संवर्तस्मरणात् । तथा ब्रह्मचर्यादियुकेन च तेन भवितव्यम्, “खट्वाङ्गकपालपाणिर् द्वादशवत्सरान् ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत् कर्माचक्षाणः । यथोपक्रामेत् स संदर्शनाद् आर्यस्य । (उत्थितस् तु दिवा तिष्ठेद् उपविष्टस् तथा निशि । एतद् वीरासनं नाम सर्वपापप्रणाशनम् ॥)[^४७] स्थानासनाभ्यां विहरेत् सवनेषूदकोपस्पर्शी शुध्येत्” (ग्ध् २२.४–६) इति गौतमस्मरणात् । ब्रह्मचारिग्रहणं च “वर्जयेन् मधुमांसगन्धमाल्यदिवा-स्वप्नाञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहहर्षण्र्त्यगीतपरिवादनभयानि” (ग्ध् २.१३) इति ब्रह्मचारिप्रकरणोक्ताविरुद्धधर्मप्राप्त्यर्थम् । अत एव शङ्खः ।

स्थानवीरासनी मौनी मौञ्जी दण्डकमण्डलुः ।
भिक्षाचर्याग्निकार्यं च कूष्माण्डीभिः सदा जपः ॥ इति ।

तस्य भवेद् इति शेषः । अत्र “सवनेषूदकस्पर्शी” (च्फ़्। ग्ध् १९.१५) इति स्नानविधानात्, तदङ्गभूतमन्त्रादिप्राप्तिर् अप्य् अवगम्यते । तथा “शुचिना कर्म कर्तव्यम्” इत्य् अस्य सर्वकर्मसाधारणात्वाद् व्रतचर्याङ्गभूतशौचसंपत्त्यर्थं स्नानवत् संध्योपासनम् अपि कार्यम्, तस्यापि शौचापादनद्वारेण सर्वकर्मशेषत्वात् । तथा च दक्षः ।

संध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यत् किंचित् कुरुते कर्म न तस्य फलभाग् भवेत् ॥ इति ।

न च “द्विजातिकर्मभ्यो हानिः पतनम्” इति वचनात्, संध्योपासनायाश् च द्विजातिकर्मत्वाद् अप्राप्तिर् इति शङ्कनीयम्, यस्मात् पतितस्यैव व्रतचर्योपदेशात् तदङ्गतयैव संध्योपासनादिप्राप्तिः । अतो “द्विजातीनाम् अध्ययनम् इज्या दानं, ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः” (ग्ध् १०.१–२) इत्यादीनाम् एव द्विजातिकर्मणां व्रतचर्यानङ्गभूतानां हानिर् न सर्वेषाम्, तावन्मात्रबाधेन हानिवचनस्य चरितार्थत्वात् । इयं च मनुयाज्ञवल्क्यगौतमादिप्रतिपादिता द्वादशवार्षिकव्रतचर्यैकैव न पुनर् भिन्ना, परस्परसापेक्षत्वाद् अविरोधाच् च । तथा हि, भिक्षाशी कर्म वेदयन् नियुक्ते किं भिक्षापात्रं केषां वा गृहेषु कतिषु वेत्याकाङ्क्षा जायेतैव । तत्र “लोहितकेन खण्डशरावेण” (आप्ध् १.२४.१४) इत्य् आपस्तम्बवचनैः परिपूरणम् अविरुद्धम् । अतः सर्वैर् एककल्पोपदेशात् कैश्चिद् उक्तं मनुगौतमाद्युक्तेतिकर्तव्यतायाः परस्परसापेक्षत्वे ऽपि विकल्प इति, तद् अनिरूप्यैवोक्तम् इति मन्तव्यम् । एवं द्वादशवर्षाणि व्रतचर्याम् आवर्त्य ब्रह्महा शुद्धिम् आप्नुयात्, इयं चाकामकृतब्रह्मवधविषया,

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ (म्ध् ११.९०)

इति मनुस्मरणात् ।

अत्रेदं चिन्तनीयम् । किं द्वित्रब्राह्मणवधे प्रायश्चित्तस्य तन्त्रत्वम् उतावृत्तिर् इति । तत्र केचिन् मन्यन्ते “ब्रह्महा द्वादशाब्दानि” (य्ध् ३.२४३) इत्य् अत्र ब्रह्मशब्दस्यैकस्मिन् द्वयोर् बहुषु साधारणत्वाद् एकस्मिन् ब्राह्मणवधे यत् प्रायश्चित्तं तद् एव द्वितीये तृतीये ऽपि । तत्रैकब्राह्मणवधनिमित्तैकप्रायश्चित्तानुष्ठाने सतीदं कृतम् इदं नेति न शक्यते वक्तुम् । देशकालकर्तॄणां प्रयोगानुबन्धभूतानाम् अभेदेनागृह्यमाणविशेषत्वात् तन्त्रानुष्ठानेनैव पापक्षयलक्षणकार्यनिष्पत्तिर् युक्ता । यथा तन्त्रानुष्ठितैः प्रयाजादिभिर् आग्नेयादिषु तन्त्रेणैवानेकोपकारलक्षणकार्याणां निष्पत्तिः । न चैवं वाच्यम् द्वित्रब्राह्मणवधे पापस्य गुरुत्वाद् “एनसि गुरुणि गुरूणि लघुनि लघूनि” (ग्ध् १९.१९) इति गौतमवचनाद् आवृत्तम् एव प्रायश्चित्तानुष्ठानं युक्तम् विलक्षणकार्ययोस् तन्त्रेण निष्पत्त्यनुपपत्तेर् इति । यतो नेदं वचनम् आवृत्तिविधायकं किं तूपदिष्टानां गुरुलगुकल्पानां व्यवस्थाप्रतिपादनपरम् । न च द्वितीयब्राह्मणवधे पापस्य गुरुत्वं, प्रमाणाभावात् । यच् च मनुदेवलाभ्याम् उक्तम्,
विधेः प्राथमिकाद् अस्माद् द्वितीये द्विगुणं भवेत् ।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥

इति, तद् अपि प्रतिनिमित्तं नैमित्तिकशास्त्रम् आवर्तते इति न्यायेन द्वित्रब्राह्मणवधगोचरनैमित्तिकशास्त्रावृत्त्यनुवादेन चतुर्थे तदभावविधिपरम् न पुनर् द्वितीयब्रह्मवधे प्रायश्चित्तानुष्ठानद्वैगुण्यविधिपरम् अपि, वाक्यभेदप्रसङ्गात् । तस्मात् द्वित्रब्राह्मणवधे ऽपि सकृद् एव द्वादशवार्षिकाद्यनुष्ठानं युक्तम्, यथा “अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर्वपेद्” इत्यादिगृहदाहादिनिमित्तेषु चोदितानां क्षामवत्यादीनां युगपद् अनेकेष्व् अपि गृहदाहादिनिमित्तेषु सकृद् एवानुष्ठानम् ।

अत्रोच्यते । न हि वचनविरोधे न्यायः प्रभवति । वचनं च “विधेः प्राथमिकाद्” इत्यादिकं द्वित्रब्राह्मणवधे प्रायश्चित्तानुष्ठानावृत्तिविधिपरम् । एवं सति न्यायलभ्यतन्त्रानुष्ठानबाधेनावृत्तिविधाव् इदं वचनं प्रवृत्तिविशेषकरं स्यात् । इतरथा शास्त्रतः प्राप्त्यनुवादकत्वेनानर्थकं स्यात् । न च वाक्यभेदः, चतुर्थादिब्रह्मवधपर्युदासेनेतरत्रावृत्तप्रायश्चित्तविधानेनैकार्थत्वात् । किं च, “चतुर्थे नास्ति निष्कृतिर्” इति लिङ्गदर्शनाद् घन्यमानब्राह्मणसंख्योत्कर्षे दोषगौरवं गम्यते, तथा देवलादिवचनाच् च ।
यत् स्याद् अनभिसंधाय पापं कर्म सकृत् कृतम् ।
तस्येयं निष्कृतिर् दृष्टा धर्मविद्भिर् मनीषिभिः ॥ इति ।

न च विलक्षणयोर् गुरुलघुदोषयोः क्षयस् तन्त्रेण निष्पद्यते । अत एवंविधेषु दोषगुरुत्वेन कार्यवैलक्षण्याद् अपि प्रतिनिमित्तं नैमित्तिकस्यावृत्तिर् युक्ता । क्षामवत्यादिषु पुनः कार्यस्यावैलक्षण्याद् युक्तस् तन्त्रभाव इत्य् अलं प्रपञ्चेन । यच् चेदं “चतुर्थे नास्ति निष्कृतिर्” इति तद् अपि महापातकविषयम्, पापस्यातिगुरुत्वेन प्रायश्चित्ताभावप्रतिपादनपरत्वात् । अतः शूद्रान्नसेवनादौ बहुशो ऽप्य् अभ्यस्ते तदनुगुणप्रायश्चित्तावृत्तिः कल्पनीया न पुनः प्रायश्चित्ताभावः । अत एवोक्तं मनुना ।

पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् । इति । (म्ध् ११.१४१)

इदं च द्वादशवार्षिकं व्रतं साक्षाद् घन्तुर् एव, “ब्रह्महा” इति तस्यैवाभिधानात् । अनुग्राहकप्रयोजकादेस् तु तत् तद् दोषानुसारेण प्रायश्चित्ततारतम्यं कल्पनीयम् । तत्रानुग्राहको यत् प्रायश्चित्तभाजं पुरुषम् अनुगृह्णाति स तत् प्रायश्चित्तं पादोनं कुर्यात् । अनुमन्ता पुनः सार्धपादं सार्धचतुर्वार्षिकं निमित्ती त्व् एकपादं त्रिवार्षिकम् । अत एव सुमन्तुः ।

तिरस्कृतो यदा विप्रो हत्वात्मानं मृतो यदि ।
निर्गुणः साहसात् क्रोधाद् गृहक्षेत्रादिकारणात् ॥
त्रैवार्षिकं व्रतं कुर्यात् प्रतिलोमां सरस्वतीम् ।
गच्छेद् वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥
अत्यर्थं निर्गुणो विप्रो ह्य् अत्यर्थं निर्गुणोपरि ।
क्रोधाद् वै म्रियते यस् तु निर्मित्तं तु भर्त्सितः ॥
वत्सरत्रितयं कुर्यान् नरः कृच्छ्रं विशुद्धये ॥ इति ।

यदा पुनर् निमित्त्य् अत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणस् तदैकवर्षम् एव ब्रह्महत्याव्रतं कुर्यात्,

केषश्मश्रुनखादीनां कृत्वा तु वपनं वने ।
ब्रह्मचर्यं चरन् विप्रो वर्षेणैकेन शुध्यति ॥

इति तेनैवोक्तत्वात् । अनयैव दिशानुग्राहकप्रयोजकादीनां ये ऽनुग्राहकप्रयोजकादयस् तेषाम् अपि प्रायश्चित्तं कल्प्यम् । अस्यां च कल्पनायां “प्रयोजयितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनो यो भूय आरभते तस्मिन् फलविशेषः” (आप्ध् २.२९.१–२) इत्य् आपस्तम्बीयं वचनं मूलम् । तथा प्रोत्साहकादीनाम् अपि दण्डप्रायश्चित्ते कल्प्ये । यथाह पैठीनसिः ।

हन्ता मन्तोपदेष्टा च तथा संप्रतिपादकः ।
प्रोत्साहकः सहायश् च तथा मार्गानुदेशकः ॥
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ।
उपेक्षकः शक्तिमांश् चेद् दोषवक्तानुमोदकः ॥
अकार्यकारिणस् त्व् एषां प्रायश्चित्तं प्रकल्पयेत् ।
यथाशक्त्य् अनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥ इति ।

तथा बालवृद्धादीनां साक्षात्कर्तृत्वे ऽप्य् अर्धम् एव,

अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ॥

इत्य् अङ्गिरःस्मरणात् । तथा सुमन्तुः ।

अर्वाक् तु द्वादशाद् वर्षाद् अशीतेर् ऊर्ध्वम् एव वा ।
अर्धम् एव भवेत् पुंसां तुरीयं तत्र योषिताम् ॥ इति ॥

तथानुपनीतस्यापि बालकस्य पादमात्रम् एव प्रायश्चित्तम्,

स्त्रीणाम् अर्धं प्रदातव्यं वृद्धानां रोगिणां तथा ।
पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः ॥

इति विष्णुस्मरणात् । अतश् च यत् शङ्खेन,

ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।
प्रायश्चित्तं चरेद् भ्राता पिता वान्यः सुहृज्जनः ॥

इति प्रतिपाद्योक्तम्,

अतो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥

इति, तद् अपि संपूर्णप्रायश्चित्ताभावप्रतिपादनपरं, न पुनः सर्वात्मना तदभावप्रतिपादनपरम्, आश्रमविशेषनिरपेक्षेण श्रूयमाणेषु “ब्राह्मणो न हन्तव्यः,” “तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत्” इत्येवमादिष्व् अनपेक्षितवयोविशेषस्यैवाधिकारात् । अतश् च तदीयम् अपि प्रायश्चित्तं पित्रादिभिर् एवाचरणीयम्, “पुत्रान् उत्पाद्य संस्कृत्य वेदम् अध्याप्य वृत्तिं विदध्यात्” इति तस्यैवपुत्रादिहिताचरणे ऽधिकृतत्वात् । यत्र पुनः कस्मिंश्चिद् ब्रह्मवधे प्रयोजकभावम् आपन्नस्यान्यस्मिन् साक्षात्कर्तृत्वे गुरुलघुप्रायश्चित्तसंपातस् तत्र द्वादशवार्षिकादिगुरुप्रायश्चित्तान्तःपातिनः प्रयोजकसंबन्धिलघुप्रायश्चित्तप्रसङ्गात् कार्यसिद्धिः । न चैवं सत्य् अविशेषाल् लघुकल्पेन महतो ऽपि सिद्धिः स्याद् इत्य् आशङ्कनीयम् । अत्र ह्य् अन्तःपातितयानुष्ठाने विशेषानवगमात् प्रसङ्गात् कार्यसिद्धिर् अवगम्यते । न च लघ्वन्तःपाती महाकल्प इति कुतः प्रसङ्गाशङ्का । न च चैत्रवधजनितकल्मषक्षयार्थम् अनुष्ठितेन कथं विष्णुमित्रवधोत्पाद्यपापनिवृत्तिर् इति वाच्यम्, चैत्राद्युद्देशस्यातन्त्रत्वात् । अतो यथा काम्यनियोगनिष्पत्त्यर्थं स्वर्गार्थं वानुष्ठितैर् आग्नेयादिभिर् नित्यनियोगनिष्पत्तिस् तद्वल् लघुप्रायश्चित्तस्यापि कार्यसिद्धिः । यत् पुनर् मध्यमाङ्गिरोवचनम्,

गवां सहस्रं विधिवत् पात्रेभ्यः प्रतिपादयेत् ।
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥

इति तत् सवनस्थगुणवद्ब्राह्मणविषयम् । एतच् च,

द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ।

इत्येतद्वाक्यविहितद्विगुणद्वादशवार्षिकव्रतचर्याशक्तस्य वेदितव्यम्, प्रायश्चित्तस्यातिगुरुत्वात् । न त्व् अनावृत्तद्वादशवार्षिकविषयम् । तत्र हि द्वादशदिनान्य् एकैकप्राजापत्यम् इति गणनायां प्राजापत्यानां षष्ट्यधिकशतत्रयं भवति । यद्य् अपि प्राजापत्यस्यान्ते त्र्यहम् उपवासो ऽधिकस् तथाप्य् अत्र वनवासजटाधारणवन्याहारत्वादिरूपतपोविशेषयुक्तत्वाद् उपवासाभावे ऽप्य् एकैकस्य द्वादशाहस्य प्राजापत्यतुल्यत्वम् । ततश् च,

प्राजापत्यक्रियाशक्तौ धेनुं दद्याद् विचक्षणः ।
गवाम् अभावे दातव्यं तन्मूल्यं वा न संशयः ॥

इत्य् अनेन न्यायेन प्रतिप्राजापत्यम् एकैकस्यां धेन्वां दीयमानायां धेनूनाम् अपि षष्ट्यधिकं शतत्रयं भवति न पुनः सहस्रम् । अतो यथोक्त एव विषयो युक्तः । यद् अपि शङ्खवचनम् “पूर्ववद् अमतिपूर्वं चतुर्षु वर्णेषु विप्रं प्रमाप्य द्वादशवत्सरान् षट् त्रीन् सार्धं संवत्सरं च व्रतान्य् आदिशेत् तेषाम् अन्ते गोसहस्रं तदर्धं तस्यार्धं तदर्धं च दद्यात् सर्वेषां वर्णानाम् आनुपूर्व्येण” इति द्वादशवार्षिकगोसहस्रयोः समुच्चयविधिपरं तदाचार्यादिहननविषयं द्रष्टव्यम्, तस्यातिगुरुत्वात् । तथा च दक्षः,

समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
आचार्ये शतसाहस्रं श्रोत्रिये दत्तम् अक्षयम् ॥

इति प्रतिपाद्योक्तवान्,

समद्विगुणसाहस्रम् आनन्त्यं च यथाक्रमम् ।
दाने फलविशेषः स्याद् धिंसायां तद्वद् एव हि ॥ इति ।

तथा आपस्तम्बेन द्वादशवार्षिकम् उक्त्वोक्तम् अस्मिन्न् एव विषये “गुरुं हत्वा श्रोत्रियं वा एतद् एव व्रतम् ओत्तमाद् उच्छ्वासाच् चरेत्” (आप्ध् २.२४.२४) इति तत्र यावज्जीवम् आवर्तमाने व्रते यदा त्रैगुण्यं चातुर्गुण्यं वा संभाव्यते तदा तत्र समर्थस्य बहुधनस्यायं दानतपसोः समुच्चयो द्रष्टव्यः । द्वादशवार्षिकव्यतिरिक्तानां तु सुमन्तुपराशराद्युक्तानां प्रायश्चित्तानाम् उत्तरत्र व्यवस्थां वक्ष्यामः ।

ननु द्वादशवार्षिकादिकल्पानां व्यवस्था कुतो ऽवसिता । न तावद् द्वादशवार्षिकादिविधायकवाक्यैर् इति युक्तम्, तत्राप्रतीतेः । न च वाच्यं प्रमाणावगतगुरुलघुकल्पानां बाधो मा प्रसाङ्क्षीद् इति व्यवस्था कल्प्यत इति, विकल्पसमुच्चयाङ्गाङ्गिभावानाम् अन्यतमाश्रयणेनापि बाधस्य सुपरिहरत्वात् ।
अत्रोच्यते । न तावद् द्वादशवार्षिकसेतुदर्शनादीनां विषमकल्पानां विकल्पो ऽवकल्प्यते, विकल्पाश्रयणे गुरुकल्पानाम् अनुष्ठानासंभवेनानर्थक्यप्रसङ्गात् । न च षोडशिग्रणाग्रहणवद् विषमयोर् अपि विकल्पोपपत्तिर् इति वाच्यम् । यतस् तत्रापि सति संभवे ग्रहणम् एवेति युक्तं कल्पयितुम् । यद् वा षोडशिग्रहणानुगृहीतेनातिरात्रेण क्षिप्रं स्वर्गादिसिद्धिर् अतिशयितस्य वा स्वर्गस्येति कल्पनीयम्, इतरथा ग्रहणविधेर् आनर्थक्यप्रसङ्गात् । नापि समुच्चयः । उपदेशातिदेशप्राप्तिम् अन्तरेण समुच्चयो न संभवति, उपदेशावगतनैरपेक्ष्यस्य बाधप्रसङ्गात् । न चाङ्गाङ्गिभावः, श्रुत्यादिविनियोजकानाम् अभावात् । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि विनियोजकानि । अतः परस्परोपमर्दपरिहारार्थं विषयव्यवस्थाकल्पनैवोचिता । सा च जातिशक्तिगुणाद्यपेक्षया कल्पनीया,
जातिशक्तिगुणापेक्षं सकृद्बुद्धिकृतं तथा ।
अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥

इति देवलस्मरणात् ॥ २.२४३ ॥

पूर्वोक्तस्य ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्तिकसमाप्त्यवधिम् आह ।

ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य च । ३.२४४अब्
तथाश्वमेधावभृथस्नानाद् वा शुद्धिम् आप्नुयात् ॥ ३.२४४च्द्

यश् चौरव्याघ्रादिभिर् व्यापाद्यमानस्य ब्राह्मणस्यैकस्याप्य् आत्मप्राणानन्तरे कृत्वा प्राणत्राणं करोति गवां द्वादशकस्यासाव् असंपूर्णे ऽपि द्वादशवार्षिके शुध्येत् । यद्य् अपि प्राणत्राणे प्रवृत्तस् तदकृत्वैव म्रियते तथापि शुध्यत्य् एव । अत एव मनुना ।

ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ (म्ध् ११.८०)

इति ब्राह्मणरक्षणं तदर्थं मरणं च पृथग् उपात्तम् । तथा परकीयाश्वमेधावभृथाख्यकर्माङ्गभूतस्नानसमये स्वयम् अपि स्नात्वा ब्रह्महत्यायाः शुद्धिं प्राप्नुयात् । स्नानं च स्वकल्मषं विख्याप्य कुर्यात् । तथा च मनुः ।

शिष्ट्वा वा भूमिदेवानां नरदेवसम् आगमे ।
स्वम् एनो ऽवभृथे स्नात्वा हयमेधे विमुच्यते ॥ इति । (म्ध् ११.८३)

भूमिदेवा ब्राह्मणा ऋत्विजस् तेषां नरदेवेन यजमानेन राज्ञा समवाये स्वीयम् एनः शिष्ट्वा विख्याप्याश्वमेधावभृथे स्नात्वा शुध्यति, यदि तैर् अनुज्ञातो भवति, “अश्वमेधावभृथं गत्वा तत्रानुज्ञातः स्नातः सद्यः पूतो भवति” इति शङ्खस्मरणात् । अश्वमेधावभृथग्रहणम् अग्निष्टुन्मध्यानां पञ्चदशरात्रादिक्रत्वन्तराणाम् अग्निष्टुत्समाप्तिकानां वा सर्वमेधादीनाम् उपलक्षणम्, “अश्वमेधावभृथे वान्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत्” इति (ग्ध् २२.९–१०) गौतमस्मरणात् । अयं च प्रक्रान्तद्वादशवार्षिकस्य कथंचिद् ब्राह्मणप्राणत्राणादिकं कुर्वतो व्रतसमाप्त्यवधिर् उच्यते । यथा सारस्वते सत्रे प्लाक्षं प्रस्रवणं प्राप्योत्थानम् ऋषभैकशतानां वा गवां सहस्रम् अभावे सर्वस्वदानं गृहपतिमरणे चेति । न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् । तथाच शङ्खः, “द्वादशे वर्षे शुद्धिं प्राप्नोत्य् अन्तरा वा ब्राह्मणं मोचयित्वा गवां द्वादशानां परित्राणात् सद्य एवाश्वमेधावभृथस्नानाद् वा पूतो भवति” इति । अत एव मनुना “कृतवापनो वा निवसेत्” इति (म्ध् ११.७८) द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य,

ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ (म्ध् ११.८०)

इत्यादिना मध्ये ब्राह्मणत्राणादिकम् अभिधाय,

एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति ॥ (म्ध् ११.८२)

इति द्वादशवार्षिकम् एवोपसंहृतम् ।

ननु “ब्रह्महत्यायाः शुद्धिम् आप्नुयाद्” इति ब्राह्मणत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमात् स्वातन्त्र्यम् एव युक्तं न पुनर् अङ्गत्वम् । किं च प्रधानविरोधित्वाद् अपि नाङ्गत्वम् । प्रधानानुग्राहकं ह्य् अङ्गं भवति । न च प्रारब्धद्वादशवार्षिकस्येदं विधानम्, येन तत्कार्ये विधानं गम्यते । यथा “सत्रायावगूर्य विश्वजिता यजेत” इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानम् अतो ऽपि स्वातन्त्र्यम् एव युक्तम्, यथाग्निप्रवेशलक्ष्यभावादीनाम् । न च तेषाम् अपि द्वादशवार्षिकोपक्रमोपसंहारमध्यपठितत्वेन तदङ्गत्वम् इति शङ्कनीयम् । यतः सत्य् अपि मध्यपाठे निर्ज्ञातप्रयोजनत्वेन प्रयोजनाकाङ्क्षाविरहान् न परस्परम् अङ्गाङ्गित्वं युक्तं । यथा सामिधेनीप्रकरणमध्यवर्तिनां निर्वित्पदानाम् अग्निसमिन्धनप्रकाशत्वेन सामिधेनीभिः सहैककार्याणां न सामिधेन्यङ्गत्वम् । न चैकान्ततो ऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठः वसिष्ठगौतमादिभिर् एषां द्वादशवार्षिकप्रक्रमात् प्राग् एव पठितत्वात् । इदम् एव स्वातन्त्र्यं प्रकटयितुं मनुना “लक्ष्यं शास्त्रभृतां वा स्यात्” “प्रास्येद् आत्मानाम् अग्नौ वा” (म्ध् ११.७४) इति प्रतिवाक्यं वाशब्दः पठितः । तथा प्रतिप्रायश्चित्तम् एवोपसंहृतम्,
अतो ऽन्यतमम् आस्थाय विधिं विप्रः समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मशुद्धये ॥ इति । (म्ध् ११.८७)

अतो ऽग्निप्रवेशादीनां स्वातन्त्र्यम् एव युक्तम् । अतश् च ब्राह्मणत्राणादेर् अप्य् एकफलत्वान् नाङ्गत्वम् इति ।

उच्यते । परिहृतम् एतत् “अन्तरा ब्राह्मणं मोचयित्वा” इत्यादिना शङ्खवचनेनाङ्गत्वावगमात्, अङ्गस्यैव सतः प्रधानद्वारेण फलसंबन्धः । न च प्रधानविरोधः यतो ब्राह्मणत्राणावधिकस्यैव व्रतानुष्ठानस्य फलसाधनत्वं विधीयत इति न विरोधः ॥ ३.२४४ ॥

किं च ।

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा । ३.२४५अब्
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ ३.२४५च्द्

दीर्घेण बहुकालव्यापिना तीव्रेण दुःसहेनामयेन कुष्ठादिव्याधिना ग्रस्तं पीडितं ब्राह्मणं गां वा तथाविधां पथि दृष्ट्वा निरातङ्कं नीरुजं कृत्वा ब्रह्महा शुचिर् भवति ।

ननु “ब्राह्मणस्य परित्राणाद्” इत्य् अत्र यद् उक्तं ब्राह्मणरक्षणं तद् एव किम् अर्थं पुनर् उच्यते “ब्राह्मणं गाम् अथापि वा” इति ।
सत्यम् एवम् । किं त्व् आत्मप्राणपरित्यागेनाधस्तनवाक्ये ब्राह्मणरक्षणम् उक्तम् अधुना पुनर् औषधदानादिनेति विशेषः । अमुनैवाभिप्रायेणोक्तं मनुना ।
विप्रस्य तन्निमित्ते वा प्राणलाभे विमुच्यते । इति ॥ (म्ध् ११.८१) ३.२४५ ॥

किं च ।

आनीय विप्रसर्वस्वं हृतं घातित एव वा । ३.२४६अब्
तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि विशुध्यति ॥ ३.२४६च्द्

विप्रस्यापहृतसर्वस्वतयावसीदतः संबन्धि द्रव्यं भूहिरण्यादिकं चौरैर् हृतं साकल्येनानीय रक्षणं यः स विशुध्यति । आनयने प्रवृत्तः स्वयं चौरैर् घातितो वा यदि वा तन्निमित्तं ब्राह्मणसर्वस्वानयनार्थं तत्र युध्यमानः शस्त्रैः क्षतो मृतकल्पो जीवन्न् अपि विशुध्यति । शस्त्रैर् इति बहुवचनं क्षतबहुत्वप्राप्त्यर्थम् । अत एव मनुना,

त्र्यवरं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा । (म्ध् ११.८१)

इति त्र्यवरग्रहणं कृतम् । एतस्य श्लोकद्वयोक्तकल्पपञ्चकस्य ब्राह्मणरक्षणरूपकत्वेन “अन्तरा वा ब्राह्मणं मोचयित्वा” इत्य् अनेन शङ्खवचनेन क्रोडीकृतत्वात् द्वादशवार्षिकसमाप्त्यवधित्वेनेतरग्रहणे विनियोगान् न स्वातन्त्र्यम् ॥ ३.२४६ ॥

प्रायश्चित्तान्तरम् आह ।

लोमभ्यः स्वाहेत्य् एवं हि लोमप्रभृति वै तनुम् । ३.२४७अब्
मज्जान्तां जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम् ॥ ३.२४७च्द्

लोमभ्यः स्वाहेत्य् एवमादिभिर् मन्त्रैर् लोमप्रभृतिमज्जान्तां तनुं जुहुयात् । इतिशब्दः करणत्वनिर्देशार्थः । एवंशब्दः प्रकारसूचनार्थः । हिशब्दः स्मृत्यन्तरप्रसिद्धत्वगादीनां प्रभृतिशब्देनाक्षिप्यमाणानां द्योतनार्थः । ततश् च लोमादीनि होमद्रव्याणि चतुर्थ्या निर्दिश्यन्ते स्वाहाकारं पठित्वा तैर् मन्त्रैर् जुहुयात् । ते च हूयमानद्रव्याणां लोमत्वग्लोहितमांसमेदःस्नाय्वस्थिमज्जानाम् अष्टसंख्यत्वाद् अष्टौ मन्त्रा भवन्ति । तथा च वसिष्ठः “ब्रह्महाग्निम् उपसमाधाय जुहुयाल् लोमानि मृत्योर् जुहोमि लोमभिर् मृत्युं वाशय इति प्रथमाम् । १ । त्वचं म्र्त्योर् जुहोमि त्वचा मृत्युं वाशय इति द्वितीयां । २ । लोहितं मृत्योर् जुहोमि लोहितेन मृत्युं वाशय इति तृतीयाम् । ३ । मांसानि मृत्योर् जुहोमि मांसैर् मृत्युं वाशय इति चतुर्थीम् । ४ । मेदो मृत्योर् जुहोमि मेदसा मृत्युं वाशय इति पञ्चमीम् । ५ । स्नायूनि मृत्योर् जुहोमि स्नायुभिर् मृत्युं वाशय इति षष्टीम् । ६ । अस्थीनि मृत्योर् जुहोम्य् अस्थिभिर् मृत्युं वाशय इति सप्तमीम् । ७ । मज्जां मृत्योर् जुहोमि मज्जाभिर् मृत्युं वाशय इत्य् अष्टमीम् । ८ ॥” (वध् २५.२५–२६) इति । अत्र च लोमप्रभृति तनुं जुहुयाद् इति लोमादीनां होमद्रव्यत्वावगमाल् लोमभ्यः स्वाहेति सत्य् अपि चतुर्थीनिर्देशे लोमादीनां न देवतात्वं कल्प्यते, द्रव्यप्रकाशनेनैव मन्त्राणां होमसाधनत्वोपपत्तेः । किं तु लोमभिर् मृत्युं वाशय इत्यादिवसिष्ठमन्त्रपर्याकोचनया मृत्योर् एव हविःसंबन्धावगमाद् देवतात्वं कल्प्यते । अतश् च लोमादीनि सामर्थ्यात् स्वधितिनावदाय मृत्यूद्देशे नाष्टौ होमान् कृत्वान्ते तनुं प्रक्षिपेत् । अतो यत् कैश्चिद् उक्तम् अनादिष्टद्रव्यत्वाद् आज्यहविष्का होमा इति तद् अनिरूप्यैवोक्तम् इत्य् उपेक्षणीयम् । जुहुयाद् इत्य् अनेनाग्नौ सिद्धे “भ्रूणहाग्निम् उपसमाधाय” ति पुनर् अग्निग्रहणं लौकिकाग्निप्राप्त्यर्थम् । युक्तं चैतत्, पतिताग्नीनां प्रतिपत्तिविधानात्,

आहिताग्निस् तु यो विप्रो महापातकभाग् भवेत् ।
प्रायश्चित्तैर् न शुध्येत तदग्नीनां तु का गतिः ॥
वैतानं प्रक्षिपेत् तोये शालाग्निं शमयेद् बुधः ॥

इत्य् उशनःस्मरणात्, तथा,

महापातकसंयुक्तो दैवात् स्याद् अग्निमान् यदि ।
पुत्रादिः पालयेद् अग्नीन् युक्तश् चादोषसंक्षयात् ॥
प्रायश्चित्तं न कुर्याद् यः कुर्वन् वा म्रियते यदि ।
गृह्यं निर्वापयेच् छ्रौतम् अप्स्व् अस्येत् सपरिच्छदम् ॥

इति कात्यायनस्मरणात् । तनुप्रक्षेपश् चोत्थायोत्थाय त्रिर् अधोमुखेन कर्तव्यः । यथाह मनुः ।

प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः । इति । (म्ध् ११.७४)

गौतमेनाप्य् अत्र विशेषो दर्शितः “प्रायश्चित्तम् अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य” (ग्ध् २२.१–२) इति । अवच्छातस्य अनशनकर्षितकलेवरस्येत्य् अर्थः । तथा च काठकश्रुतिः- “अनशनेन कर्शितो ऽग्निम् आरोहेत्” इति । इदं च मरणान्तिकं प्रायश्चित्तं कामकारविषयम् । यथाह मध्यमाङ्गिराः ।

प्राणान्तिकं च यत् प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
तत् कामकारविषयं विज्ञेयं नात्र संशयः ॥ इति ।

तथा,

यः कामतो महापापं नरः कुर्यात् कथंचन ।
न तस्य शुद्धिर् निर्दिष्टा भृग्वग्निपतनाद् ऋते ॥ इति ।

एतच् च प्रायश्चित्तम् एव न ब्राह्मणत्राणादिवत् द्वादशवार्षिकान्तर्भूतम् इत्य् उक्तं प्राक् ॥ ३.२४७ ॥

किं च ।

संग्रामे वा हतो लक्ष्यभूतः शुद्धिम् अवाप्नुयात् । ३.२४८अब्
मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति ॥ ३.२४८च्द्

अथ वा संग्रामे युद्धभूमाव् उभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिम् अवाप्नुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूर्छितो जीवन्न् अपि विशुध्यति । लक्ष्यभावश् च प्रायश्चित्त्य् अयम् इत्य् एवं विदुषां धनुर्विद्याविदां संग्रामे स्वेच्छया कर्तव्यो न तु राज्ञा बलात् कारयितव्यः । यथाह मनुः ।

लक्ष्यं शास्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः । इति । (म्ध् ११.१७)

इदं च मरणान्तिकत्वात् साक्षात् कर्तुः क्षत्रियस्य कामकारविषयम् । अपिशब्दाद् अश्वमेधादिनापि विशुध्यति । यथाह मनुः ।

यजेत वाश्वमेधेन स्वर्जिता गोसवेन च ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥ इति । (म्ध् ११.७५)

अश्वमेधानुष्ठानं सार्वभौमक्षत्रियस्यैव,

यजेत वाश्वमेधेन क्षत्रियस् तु महीपतिः ।

इति पराशरस्मरणात्, “नासार्वभौमो यजेत” इत्य् असार्वभौमस्य प्रतिषेधदर्शनाच् च । इदं चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम्,

महापातककर्तारश् चत्वारो मतिपूर्वकम् ।
अग्निं प्रविश्य शुध्यन्ति स्थित्वा वा महति क्रतौ ॥

इति यमेन मरणकालाग्निप्रवेशतुल्यतया महाक्रतोर् अश्वमेधस्य निर्दिष्टत्वात् । स्वर्जितादयश् च त्रैवर्णिकस्याहिताग्नेर् इष्टप्रथमयज्ञस्य द्वादशवार्षिकेण सह विकल्पन्ते । न च स्वर्जिताद्यर्थम् आधानं प्रथमयज्ञानुष्ठानं वा कार्यम्, पतितस्य द्विजातिकर्मस्व् अनधिकारात् । न च संध्योपासनवद् अविरोध इति युक्तम्, आधनादेर् उत्तरक्रतुशेषत्वाभावात् । ते च दक्षिणान्यूनाधिक्याश्रयणेन द्वाद्वशवार्षिकाद्यर्हेषु साक्षाद् धन्त्रादिषु व्यवस्थापनीयाः ॥ ३.२४८ ॥

किं च ।

**अरण्ये नियतो जप्त्वा त्रिर् वै वेदस्य संहिताम् । ३.२४९अब् **
शुध्येत वा मिताशित्वात् प्रतिस्रोतः सरस्वतीम् ॥ ३.२४९च्द्

अरण्ये निर्जनप्रदेशे, नियतो नियताहारः, “जपेद् वा नियताहारः” (म्ध् ११.७८) इति मनुस्मरणात् । त्रिवारं मन्त्रब्राह्मणात्मकं वेदं जपित्वा शुध्यति । संहिताग्रहणं पदक्रमव्युदासार्थम् । यद् वा मिताशनो भूत्वा प्लाक्षात् प्रस्रवणाद् आरभ्य पश्चिमोदधेः प्रतिस्रोतः स्रोतःस्रोतः प्रति सरस्वतीं इत्वा गत्वा विशुध्यति । अशनं च हविष्येण कार्यम्,

हविष्यभुग् वानुचरेत् प्रतिस्रोतः सरस्वतीम् । (म्ध् ११.७८)

इति मनुस्मरणात् । अयं च वेदजपो विदुषो हन्तुर् निर्धनस्यात्यन्तगुणवतो निर्गुणव्यापादने प्रमादकृते द्रष्टव्यः । सरस्वतीगमनं तु तादृश एव विषये विद्याविरहिणो द्रष्टव्यम् । निमित्तिनश् च,

तिरस्कृतो यदा विप्रो निर्गुणो म्रियते यदि ।

इति सुमन्तुवचनस्य दर्शितत्वात् । यत् पुनर् मनुवचनम्,

जपित्वान्यतमं वेदं योजनानां शतं व्रजेत् । (म्ध् ११.७६)

इति तद् अप्य् अरण्ये नियतो जप्त्वेत्य् एतस्यैव विषये ऽशक्तस्य द्रष्टव्यम् ॥ ३.२४९ ॥

किं च ।

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात् । ३.२५०अब्
आदातुश् च विशुद्ध्यर्थम् इष्टैर् वैश्वानरी स्मृता ॥ ३.२५०च्द्

“न विद्यया केवलया” (य्ध् १.२००) इत्याद्युक्तलक्षणे पात्रे गोभूहिरण्यादिकं जीवनपर्याप्तं समर्थं धनं दत्त्वा शुद्धिम् अवापुन्यात् । तद् धनं यः प्रतिगृह्णाति तस्य वैश्वानरदैवत्येष्टिः शुद्ध्यर्थं कर्तव्या । एतच् चाहिताग्निविषयम् । अनाहिताग्नेस् तु तद्दैवत्यश् चरुर् भवति, “य एवाहिताग्नेर् धर्मः स एवौपासनिकस्य” इति गृह्यकारवचनात् । वाशब्दात् सर्वस्वं सपरिच्छदं वा गृहं दद्यात् । यथाह मनुः ।

सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ इति । (म्ध् ११.७७)

इदं च पात्रे धनदानं निर्गुणस्य धनवतो हन्तुर् निर्गुणव्यापादने द्रष्टव्यम् । तत्रैव विषये अविद्यामानान्वयस्य सर्वस्वदानं सान्वयस्य तु सोपस्करगृहदानम् इति व्यवस्था । यद् अपि पराशरेणोक्तम्,

चातुर्विद्योपपन्नस् तु विधिवद् ब्रह्मघातके ।
समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाहरेत् ।
वर्जयित्वा विकर्मस्थाञ् छत्रोपानद्विवर्जितः ॥
अहं दुष्कृतकर्मा वै महापातककारकः ।
गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥
गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च ।
तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥
एतेषु ख्यापयेद् एनः पुण्यं गत्वा तु सागरम् । (प्स्म् १२.६५–६९)
ब्रह्महापि प्रमुच्येत स्नात्वा तस्मिन् महोदधौ ॥
ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् ।
दत्त्वा वस्त्रं पवित्राणि पूतात्मा प्रविशेद् गृहम् ॥
गवां वापि शतं दद्याच् चातुर्विद्याय दक्षिणाम् ।
एवं शुद्धिम् अवाप्नोति चातुर्विद्यानुमोदितः ॥

इति, तद् अपि “पात्रे धनं वा पर्याप्तम्” इत्य् अनेन समानविषयम् । यच् च सुमन्तुवचनम्, “ब्रह्महा संवत्सरं कृच्छ्रं चरेद् अधःशायी त्रिषवणी कर्मावेदको भैक्षाहारो दिव्यनदीपुलिनसंगमाश्रमगोष्टपर्वतस्रवणतपोवनविहारी स्यात् स्थानवीरासनी संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिसर्पींषि ब्राह्मणेभ्यो ददत् पूतो भवति” इति, तद् अपि हन्तुर् मूर्खस्य धनवतो जातिमात्रव्यापादने द्रष्टव्यम् । यत् पुनर् वसिष्ठवचनम् “द्वादशरात्रम् अब्भक्षो द्वादशरात्रम् उपवसेत्” (च्फ़्। वध् ११.७७) इति तन् मनसाध्यवसितब्रह्महत्यस्य स्वत एवोपरतजिघांषस्य वेदितव्यम् । यत् पुनः,

षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ।
चान्द्रायणं वा कुर्वीत पराकद्वयम् एव च ॥

इति षट्त्रिंशन्मतवचनं, तद् अप्रत्यानेयपुंस्त्वस्य सप्रत्ययवधे द्रष्टव्यम् । अत्रैव विषये अप्रत्ययवधे बृहस्पतिर् आह ।

अरुणायाः सरस्वत्याः संगमे लोकविश्रुते ।
शुध्येत् त्रिप्षवणस्नावी त्रिरात्रोपोषितो द्विजः ॥ इति ।

एवम् अन्यान्य् अपि स्मृतिवचनान्य् अन्विष्य विषमाणां व्यवस्था विज्ञेया । समानां तु विकल्पः । एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रियादेस् तु द्विगुणादिकम् । यथाहाङ्गिराः ।

पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥ इति ।

एवं च ब्राह्मणानां येन हन्तृहन्यमानगतगुणविशेषेण यः प्रायश्चित्तविशेषो व्यवस्थितः स एव तद्गुणविशिष्टे क्षत्रियादौ हन्तरि द्विगुणस् त्रिगुणो वेदितव्यः । अनयैव दिशा क्षत्रियवैश्यादाव् अपि हीनेनोत्कृष्टवधे दोषगौरवात् प्रायश्चित्तस्यापि द्वैगुण्यादि कल्पनीयम् । दोषगौरवं च दण्डगौरवाद् अवगम्यते । यथोक्तम् ।

प्रतिलोमापवादेषु द्विगुणस् त्रिगुणो दमः ।
वर्णानाम् आनुलोम्ये च तस्माद् अर्धार्धहानितः ॥ इति ।

यत् तु चतुर्विंशतिमतवचनम्,

प्रायश्चित्तं यद् आम्नातं ब्राह्मणस्य महर्षिभिः ।
पादोनं क्षत्रियः कुर्याद् अर्धं वैश्यः समाचरेत् ॥
शूद्रः समाचरेत् पादम् अशेषेष्व् अपि पाप्मषु ॥

इति, तत् प्रतिलोमानुष्टितचतुर्विधसाहसव्यतिरिक्तविषयम् । तथा मूर्धावसिक्तादीनाम् अप्य् अनुलोमोत्पन्नानां दण्डवत् प्रायश्चित्तम् ऊहनीयम् । दर्शितं दण्डतारतम्यम्,

दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः । इति ।

ततश् च मूर्धावसिक्तस्य ब्राह्मणवधे ब्राह्मणाद् अतिरिक्तं क्षत्रियान् न्यूनम् अध्यर्धं द्वादशवार्षिकं भवति । अनयैव दिशा प्रतिलोमोत्पन्नानाम् अपि प्रायश्चित्तगौरवम् ऊहनीयम् । तथा आश्रमिणामप्य् अङ्गिरसा विशेषो दर्शितः ।

गृहस्थोक्तानि पापानि कुर्वन्त्य् आश्रमिणो यदि ।
शौचवच् छोधनं कुर्युर् अर्वाग् ब्रह्मनिदर्शनात् ॥ इति ।

“शौचवद्” इति,

एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥ (म्ध् ५.१३७)

इति वचनाद्, यथा ब्रह्मचार्यादीनां शौचं द्वैगुण्यादिक्रमेण वर्धते तथा शोधनं प्रायश्चित्तम् अपि भवतीत्य् अर्थः । ब्रह्मचारिणस् तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षाद् ऊर्ध्वम् एव । अर्वाक् तु पुनः “बालो वाप्य् ऊनषोडशः प्रायश्चित्तार्धम् अर्हन्ति” इति षोडशवर्षाद् अर्वाचीनस्यार्धप्रायश्चित्ताभिधानात् । न च द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाप्त्यनुपपत्तेः प्रवृत्तिर् एव नोपपद्यत इति शङ्कनीयम् । यतः प्रक्रान्तप्रायश्चित्तस्य मध्ये विपत्ताव् अपि पापक्षयो भवत्य् एव । यथाह हारीतः ।

प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते ।
पूतस् तदहर् एवासाव् इह लोके परत्र च ॥ इति ।

व्यासो ऽप्य् आह ।

धर्मार्थं यतमानस् तु न चेच् छक्नोति मानवः ।
प्राप्तो भवति तत् पुण्यम् अत्र वै नास्ति संशयः ॥ इति ॥ ३.२५० ॥

अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशम् आह ।

यागस्थक्षत्रविड्घाती चरेद् ब्रह्महणि व्रतम् । ३.२५१अब्
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ ३.२५१च्द्

दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यौ यो व्यापादयत्य् असौ ब्रह्महणि पुरुषे यद् ब्रह्महत्याव्रतम् उपदिष्टं द्वादशवार्षिकादि तच् चरेत् । यद्य् अपि यागशब्दः सामान्यवचनस् तथाप्य् अत्र सोमयागम् अभिधत्ते, “सवनगतौ च राजन्यवैश्यौ” इति (वध् २०.३४) वसिष्ठेन सवनत्रयसंपाद्यस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्र च गुरुलघुभूतानां द्वादशवार्षिकादिब्रह्महत्याव्रतानां जातिशक्तिगुणाद्यपेक्षया प्रागुक्तवद् व्यवस्था वेदितव्या । एवं गर्भवधादिष्व् अपि । मरणानित्कं तु नातिदिश्यते, व्रतग्रहणात् । अतः कामतो यागस्थक्षत्रियादिवधे व्रतस्यैव द्वैगुण्यम् । एतच् च व्रतं संपूर्णम् एव कर्तव्यम् । “पूर्वयोर् वर्णयोर् वेदाध्यायिनं हत्वा” (आप्ध् १.२४.६) इति प्रक्रम्य, आपस्तम्बेन द्वादशवार्षिकाभिधानात् (आप्ध् १.२४.२०) । । गर्भं च विन्नासु संभूतं हत्वा यथावर्णं यद्वर्णपुरुषवधे यत्प्रायश्चित्तम् उक्तं तद्वर्णगर्भवधे तच् चरेत् । एतच् चानुपजातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषययम्,“हत्त्वा गर्भम् अविज्ञातम्” (म्ध् ११.८८) इति मानवे विशेषदर्षनात् । अत्र च यद्य् अपि ब्राह्मणगर्भस्य ब्राह्मणत्वाद् एव तद्वधनिमित्तव्रतप्राप्तिस् तथापि स्त्रीत्वस्यापि संभवात् स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकत्वेन तत्प्रायश्चित्तप्रप्तिर् अपि स्याद् अतः स्त्रीपुंनपुंसकत्वेनाविज्ञाते ऽपि ब्राह्मणगर्भत्वमात्रप्रयुक्तं ब्रह्महत्याव्रतं कुर्याद् इत्य् अर्थवद् अतिदेशवचनम् । उपजाते स्त्रीपुंसादिविशेषव्यञ्जने यथायथम् एव प्रायश्चित्तम् । यश् चात्रेय्या निषूदको व्यापादकः सो ऽपि तथा व्रतं चरेत् । हन्यमानात्रेयीवर्णानुरूपं व्रतं चरेद् इत्य् अर्थः । आत्रेयीशब्देनर्तुमत्य् उच्यते, “रजस्वलाम् ऋतुस्नाताम् आत्रेयीम् आहुर् यत्र ह्य् एतद् अपत्यं भवति” (वध् २०.३५–३६) इति वसिष्ठस्मरणात् । अत्रिगोत्रजा च, “अत्रिगोत्रां वा नारीम्” (विध् ५०.९) इति विष्णुस्मरणात् । एतद् उक्तं भवति । ब्राह्मणगर्भवधे ब्राह्मण्यात्रेयीवधे च ब्रह्महत्याव्रतम् । क्षत्रियगर्भवधे क्षत्रियात्रेयीवधे च क्षत्रहत्याव्रतम् एवम् अन्यत्रापीति । चशब्दात् साक्ष्ये अनृतवचनादिष्व् अपि । तथाह मनुः ।

उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा ।
अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ इति । (म्ध् ११.८८)

यत्र व्यवहारे असत्यवचनेन प्राणिनां वधप्राप्तिस् तद्विषयम् एतत्, प्रायश्चित्तस्यातिगुरुत्वात् । प्रतिरोधः क्रोधावेशः । निक्षेपश् च ब्राह्मणसंबन्धी । स्त्री चाहिताग्निभार्या पतिव्रतात्वादिगुणयुक्तोच्यते सवनस्था च । यथाहाङ्गिराः ।

आहिताग्नेर् द्विजाग्र्यस्य हत्वा पत्नीम् अनिन्दिताम् ।
ब्रह्महत्याव्रतं कुर्याद् आत्रेयीघ्नस् तथैव च ॥ इति ।
सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥

इति पराशरस्मरणात् ॥ एवं च सवनस्थाग्निहोत्रिण्यात्रेयीवधे ब्रह्महत्याप्रायश्चित्तातिदेशात् तद्व्यतिरिक्तस्त्रीवधस्य स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्यपाठाद् उपपातकत्वम् एव ।

ननु “ब्राह्मणो न हन्तव्यः” इत्य् अत्र निषेधे ऽनुपादेयगतत्वेन लिङ्गवचनयोर् अविवक्षितत्वाद् ब्रह्मणजातेश् च स्त्रीपुंसयोर् अविशेषात् तदतिक्रमनिमित्तप्रायश्चित्तविधेर् “ब्रह्महा द्वादशाब्दानि” इत्यस्योभयत्र प्राप्तत्वात् किम् अर्थं “तथात्रेयीनिषूदकः” इत्यतिदेशवचनम् ।
उच्यते । सत्य् अपि ब्राह्मणत्वे ऽनात्रेय्या वधस्य च महापातकप्रायश्चित्तनिराकरणार्थम् अतस् तस्योपपातकमध्यपाठाद् उपपातकप्रायश्चित्तम् एव । आतिदेशिकेषु च प्रायश्चित्तस्यैवातिदेशो न पातित्यस्य । अतः पतितत्यागादिकार्यम् अत्र न भवति ॥ ३.२५१ ॥

किं च ।

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः । ३.२५२अब्
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ॥ ३.२५२च्द्

“यथावर्णम्” इत्य् अनुवर्तते, ब्राह्मणादिहनने कृतनिश्चयस् तद्व्यापादनार्थं सम्यग् आगत्य शस्त्रादिप्रहारे कृते कथंचित् प्रतिघातादिप्रबन्धवशाद् असौ न मृतस् तदा अहत्वापि यथावर्णं ब्रह्महत्यादि व्रतं चरेत् । तथा च गौतमः “सृष्टश् चेद् ब्राह्मणवधे अहत्वापि” (ग्ध् २२.११) इति ।

ननु हनने तदभावे चैकप्रायश्चित्तता न युक्ता ।
सत्यम् । अत एवौपदेशिकेभ्यो न्यूनत्वाद् आतिदेशिकानां पादोनान्य् एव ब्रह्महत्यादिव्रतानि द्वादशवार्षिकादीनि भवन्ति । एतच् च प्रपञ्चितं प्राक् । किं च, यस् तु सवनसंपाद्यं सोमयागम् अनुतिष्टन्तं ब्राह्मणं व्यापादयति तस्मिन् द्वादशवार्षिकादिव्रतं द्विगुणं समादिशेत् । तेषां च व्रतानां गुरुलघुभूतानां जातिशक्तिगुणाद्यपेक्षयासत्य् अपि सवनस्थत्वस्याविशेषे पूर्ववद् एव व्यवस्थावगन्तव्या । ब्रह्महत्यासमानां तु गुर्वधिक्षेपादीनाम् आतिदेशिकेभ्यो ऽपि न्यूनत्वाद् अर्धोनं द्वादशवार्षिकादिप्रायश्चित्तम् इत्य् उक्तम् ॥ ३.२५२ ॥

इति ब्रह्महत्याप्रायश्चित्तप्रकरणम्

अथ क्रमप्राप्तं सुरापानप्रायश्चित्तं प्रक्रमते ।

सुराम्बुघृतगोमूत्रपयसाम् अग्निसंनिभम् । ३.२५३अब्
सुरापो ऽन्यतमं पीत्वा मरणाच् छुद्धिम् ऋच्छति ॥ ३.२५३च्द्

सुरादिनां मध्ये ऽन्यतमम् अग्निसंनिभं क्वाथापादिताग्निस्पर्शदाहशक्तिं कृत्वा पीत्वा सुरापो मरणाच् छुद्धिं प्राप्न्प्ति । गोमूत्रसाहचर्याद् गव्ये एव घृतपयसी ग्राह्ये । घृतपयःसाहचर्याच् च स्त्रैणम् एव गोमूत्रम् । एतच् चार्द्रवाससा कार्यम्,

सुराप आर्द्रवासाश् च अग्निवर्णां सुरां पिबेत् ।

इति पैठीनसिस्मरणात्, तथा “लौहेन पात्रेण सुरापो ऽग्निवर्णां सुराम् आयसेन पात्रेण ताम्रेण वा पिबेत्” इति प्रचेतःस्मरणात् । एतच् च सकृत्पानमात्रे,

सुरापानं सकृत् कृत्वाप्य् अग्निवर्णां सुरां पिबेत् ।

इत्य् अङ्गिरःस्मरणात् । यत् तु वसिष्ठवचनम्,

अभ्यासे तु सुरायाश् च अग्निवर्णां पिबेद् द्विजः । (वध् २०.२२)
इति, तत् सुराव्यतिरिक्तमद्यपानविषयम् । एतच् च कामकारविषयम्,
सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् ।
मुखे तया विनिर्दिग्धो मृतः शुद्धिम् अवाप्नुयात् ॥

इति बृहस्पतिस्मरणात् । यत् तु,

सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत् । (म्ध् ११.९१)

इति मनुना मोहग्रहणं कृतं, तच् छास्त्रार्थापरिज्ञानाभिप्रायेण । अत्रेदं चिन्तनीयम्- किं सुराशब्दो मद्यमात्रे रूढ उत तिसृष्व् एव गौडीमाध्वीपैष्टीष्व् आहोस्वित् पैष्ट्याम् एवेति । तत्र केचिन् मद्यमात्रे रूढ इति वर्णयन्ति, “अभ्यासे तु सुरायाः” (वध् २०.२२) इति वासिष्ठे पैष्ट्यादित्रयव्यतिरिक्ते ऽपि मद्यमात्रे सुराशब्दप्रयोगदर्शनात् । न चासौ गौणः प्रयोग इति शङ्कनीयम्, मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वाद् इति । तद् अयुक्तम्,

पानसं दाक्षं माधूकं खार्जूरं तालम् ऐक्षवम् ।
मधूत्थं सैरम् आरिष्टं मैरेयं नालिकेरजम् ॥
समानानि विजानीयान् मद्यान्य् एकादशैव तु ।
द्वादशं तु सुरामद्यं सर्वेषाम् अधमं स्मृतं ॥

इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश् च मद्यमात्रे सुराशब्दप्रयोगो गौणः । अन्ये पुनः पैष्ट्यादिषु तिसृषु सुराशब्दस्य रूढिं मन्यन्ते । तथा हि, यद्य् अप्य् अनेकत्र सुराशब्दप्रयोगो दृश्यते तथापि कुत्रानादित्वम् इति संदेहे,

गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । (म्ध् ११.९५)

इति मनुवचनाद् गुडमधुपिष्टविकारेष्व् अनादित्वनिर्धारणात् तत्रैव मुख्यत्वं युक्तम् । न चानेकत्र शक्तिकल्पना दोषः, मदशक्तेर् उपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् । न च तालादिरसेष्व् अप्य् उपाधेर् विद्यमानत्वाद् अतिप्रसङ्गः, पङ्कजादिशब्दवद् योगरूढत्वाश्रयणात् । अतश् च,

यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः । (म्ध् ११.९५)

इति तिसृणां सुराणां समानदोषत्वप्रतिपादनपरं न पुनर् अनयोर् गौडीमाध्व्योः पैष्टीसुरासमत्वप्रतिपादनपरम् । द्विजोत्तमग्रहणं द्विजात्युपलक्षणम् । एतद् अप्य् अयुक्तम्,

द्वादशं तु सुरामद्यं सर्वेषाम् अधमं स्मृतम् ।

इति पुलस्त्यवचने गौडीमाध्वीभ्याम् अपि सुरामद्यस्यातिरेकदर्शनात् । तथा,

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते । (म्ध् ११.९३)

इत्य् अन्नविकारस्यैव सुरात्वनिर्देशाद्, अन्नशब्दस्य च अन्नेन व्यञ्जनम् इत्यादिषु व्रीह्यादिविकार एव प्रयोगदर्शनाद्, गुडमधुनोश् च रसरूपत्वात्, तथा सौत्रामणिग्रहेषु चान्नविकारे एव सुराशब्दस्य श्रुतत्वात्, पैष्ट्य् एव सुरा मुख्योच्यते । इतरयोस् तु सुराशब्दो गौणः । यत् तूक्तम्, “गौडी माध्वी” (म्ध् ११.९४) इति मनुवचनात् तिसृष्व् अप्य् औत्पत्तिकत्वनिर्धारणेति, तद् अप्य् अयुक्तम् । यतो नेदं शब्दानुशासनवच् छब्दार्थसंबन्धानादित्वप्रतिपादनपरं, किं तु कार्यप्रतिपादनपरम् । अतो गुरुप्रायश्चित्तनिमित्ततया गौडीमाध्व्योर् गौणः सुराशब्दयोगः । एवं च नानेकशक्तिकल्पनादोषो नाप्य् उपाध्याश्रयणं कृतम् । न चात्र द्विजोत्तमग्रहणस्योपलक्षणत्वम् । अतश् च,

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥ (म्ध् ११.९४)

इति पैष्ट्या एव वर्णत्रयसंबन्धित्वेन निषेधः । गौड्यादीनां तु मद्यानां ब्राह्मणसंबन्धित्वेनैव निषेधो न क्षत्रियवैश्ययोः,

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥ (म्ध् ११.९६)

इति मानवे ब्राह्मणेनेति विशेषोपादानात् । बृहद्विष्णुनापि ब्राह्मणस्यैव मद्यप्रतिषेधो दर्शितः ।

माधूकम् ऐक्षवं सैरं तालं खार्जूरपानसम् ।
मधूत्थं चैव माध्वीकं मैरेयं नालिकेरजम् ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥ इति ॥

बृहद्याज्ञवल्क्येनापि क्षत्रियवैश्ययोर् दोषाभावो दर्शितः ।

कामाद् अपि हि राजन्यो वैश्यो वापि कथंचन ।
मद्यम् एव सुरां पीत्वा न दोषं प्रतिपद्यते ॥ इति ।

व्यासेनापि तयोर् माध्वीपानम् अनुज्ञातम् ।

उभौ मध्वासवक्षीबाव् उभौ चन्दनचर्चितौ ।
एकपर्यङ्करथिनौ दृष्टौ मे केशवार्जुनौ ॥ इति ।

एवं ब्राह्मणसंबन्धित्वेन मद्यमात्रनिषेधे सत्य् अपि,

गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ (म्ध् ११.९५)

इति गौडीमाध्व्योः पृथङ्निषेधवचनं दोषगुरुत्वेन सुरासमत्वप्रतिपादनपरम् । अयं च सुरानिषेधो ऽनुपनीतस्यानूढायाश् च कन्याया भवत्य् एव,

तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् । (म्ध् ११.९४)

इति जातिमात्रावच्छेदेन निषेधात् । अतश् च “सुरां पीत्वा द्विजो मोहात्” (म्ध् ११.९१) इति प्रायश्चित्तविधिवाक्ये मनुना यद् द्विजग्रहणं कृतं तद् वर्णमात्रयोपलक्षणार्थम्, निमित्तभूतनिषेधसापेक्षत्वान् नैमित्तिकविधेर् निषेधे च वर्णमात्रस्यावच्छेदकत्वात् । यथा “यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति” इति निमित्तवाक्ये हविर्मात्राभ्युदयस्य निमित्तत्वावगतौ तत्सापेक्षनैमित्तिकवाक्ये श्रूयमाणम् अपि “त्रेधा तन्दुलान् विभजेत्” इति तन्दुलग्रहणं तन्दुलादिरूपहविर्मात्रोपलक्षणम् । इयांस् तु विशेषः “पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः” इति वचनात्, कामकारे ऽपि न मरणान्तिकं किं तु पादम् एव द्विगुणीकृत्य षड्वार्षिकं देयम्,

विहितं यद् अकामानां कामात् तद्द्विगुणं चरेत् ।

इत्य् अङ्गिरःस्मरणात् । एवं वृद्धातुरादिष्व् अपि योज्यम् । तथा,

तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः । (म्ध् ११.९६)

इति मद्यस्यापि जातिमात्रावच्छेदेन निषिद्धत्वाद्, अनुपनीतेनापि न पेयम् ।

ननु कथम् अनुपनीतस्य दोषः, “प्राग् उपनयनात् कामचारकामवादकामभक्षाः” (ग्ध् २.१) इति गौतमवचनात्, तथा,
मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन ।
दोषस् त्व् आ पञ्चमाद् वर्षाद् ऊर्ध्वं पित्रोः सुहृद्गुरोः ॥

इति कुमारवचनाच् च दोषाभावावगतेः ।

उच्यते । सुरामद्ययोर् निषेधवाक्ये जातिमात्रत्वाच् छेदकत्वश्रवणाद् अप्रतिहतैव निषेधप्रवृत्तिः । अत एव स्मृत्यन्तरे निषेधवचनम्,
सुरापाननिषेधस् तु जात्याश्रय इति स्थितिः । इति ।

अतः,

पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः । इति ।
सर्वपापेषु सुरापानादिष्व् अपि ।

इति वचनात्, पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकर्ण्येन मद्यपाने ऽपि प्रायश्चित्तम् उक्तम् ।

अनुपेतस् तु यो बालो मद्यं मोहात् पिबेद् यदि ।
तस्य कृच्छ्रत्रयं कुर्यान् माता भ्राता तथा पिता ॥ इति ।

अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्पदोषख्यापनपरम् । अत एव प्राग् उपनयनात् कृतदोषस्योपनयनम् एव प्रायश्चित्तम् इत्य् उक्तं मनुना ।

गार्भैर् होमैर् जातकर्मचौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥ इति । (म्ध् २.२७)

अयम् अत्रार्थः । त्रैवर्णिकानाम् उत्पत्तिप्रभृति पैष्टीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्रनिषेधो ऽप्य् उत्पत्तिप्रभृत्य् एव । राजन्यवैश्ययोस् तु न कदाचिद् अपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ ३.२५३ ॥

प्रायश्चित्तान्तरम् आह ।

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् । ३.२५४अब्
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि ॥ ३.२५४च्द्

गोछागादिलोमनिर्मितवस्त्रप्रावृतो वालवासाः । वालवासोग्रहणं चीरवल्कलयोर् उपलक्षणार्थम्, “सुरापगुरुतल्पगौ चीरवल्कवाससौ ब्रह्महत्याव्रतं चरेयाताम्” इति प्रचेतःस्मरणात् । जटिग्रहणं मुण्डित्वनिराकरणार्थम् । “ब्रह्महत्याव्रतं चरेद्” इत्य् अनेनैव सिद्धे यद् वालवसनादिग्रहणं तद् अन्यत्र संभवि स्वयं मारितशिरःकपालादिनिवृत्त्यर्थम् । इदम् अकामतो जलबुद्ध्या यः सुरां पिबति तद्विषयम्,

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् । (म्ध् ११.९०)

इत्य् अकामित्वोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरापानस्य महापातकत्वात् सत्य् अप्य् आतिदेशिकत्वे संपूर्णम् एव द्वादशवार्षिकं कुर्यान् न पादोनम् । अत एव वृद्धहारीतः “द्वादशभिर् वर्षैर् महापातकिनः पूयन्ते” इति । अथ वा पिण्याकं पिण्डितं त्रिसमाः वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणास् तन्दुललवास् तान् वा पूर्ववद् भक्षयेत् । एतच् च सकृद् एव कार्यम्,

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि । (म्ध् ११.९३)

इति मनुस्मरणात् । अस्य च पिण्याकादिभक्षणस्य भोजनकार्ये विहितत्वाद् अशनान्तरपरित्यागः । एतच् चोदकबुद्ध्या सुरापाने छर्दनोत्तरकाले वेदितव्यम्,

एतद् एव व्रतं कुर्यान् मद्यपश् छर्दने कृते ।
पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥

इति व्यासवचनात् । न च सुरासंसृष्टेषदुपलभ्यमानतद्गन्धरसोदकपानविषयम् इदम् इति सुन्दरम्, संसर्गे ऽपि सुरात्वस्यानपायात्, यथाज्यत्वस्य पृषदाज्ये । अत एव “आज्यपा इति निगमाः कार्याः न पृष्दाज्यपाः” इत्येवम् उक्तं न्यायविद्भिः । यत् पुनर् आपस्तम्बवचनम्, “स्तेयं कृत्वा सुरां पीत्वा गुरुदारान् गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मितभोजनो यो ऽभ्युपेयात् सवनानुकल्पं स्थानासनाभ्यां विहरंस् त्रिभिर् वर्षैः पापं व्यपनुदति” (आप्ध् १.२९.९–१०) इति । यत् त्व् अङ्गिरोवचनम्,

महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः ।

इति, तद् उभयम् अपि, “पिण्याकं वा कणान् वा” इत्य् अनेनैकविषयम् । यद् अपि यमेन प्रायश्चित्तद्वयम् उक्तम्,

बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः ।
समत्वं ब्राह्मणैर् गच्छेद् इत्य् एषा वैदिकी श्रुतिः ॥
भूमिप्रदानं यः कुर्यात् सुरां पीत्वा द्विजोत्तमः ।
पुनर् न च पिबेत् तां तु संस्कृतः स विशुध्यति ॥

इति तद् उभयम् अपि पूर्वेण सहैकविषयम् । यद् वा अतिरिक्तदक्षिणाकल्पाश्रयणाद् द्वादशवार्षिकेण सह विकल्प्यते । अत्रापि बालवृद्धादीनां सार्धैकवर्षीयम् अनुपनीतानां तु नवमासिकम् इत्य् एवं कल्पना कार्या । यत् तु मनुवचनम्,

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ (म्ध् ११.९३)

इति तत् तालुमात्रसंयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् ।

ननु च द्रवद्रव्यस्याभ्यवहरणं पानम् इत्य् उच्यते । अभ्यवहरणं च कण्ठाद् अधोनयनं न ताल्वादिसंयोगमात्रम् । अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् ।
उच्यते । येन ताल्वादिसंयोगेन विना पानक्रिया न निर्वर्तते सो ऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्य् अपि मुख्यपानाभावान् न महापातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूताव्यभिचारिताल्वादिसंयोगस्यापि प्रतिषिद्धत्वेन दोषस्य विद्यमानत्वाद् भवत्य् एव प्रायश्चित्तम् ।
चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः । (य्ध् ३.२५२)

इति, यथा हननप्रतिषेधेन तदङ्गभूताध्यवसायादेर् अपि प्रतिषिद्धत्वात् प्रायश्चित्तविधानम् । यत् तु बौधायनीयम् “त्रैमासिकम् अमत्या सुरापाने कृच्छ्राब्दपादं चरित्वा पुनर् उपनयनम्” (ब्ध् २.१.१९) इति, यच् च याम्यम्,

सुरां पीत्वा द्विजं हत्वा रुक्मं हृत्वा द्विजन्मनः ।
संयोगं पतितैर् गत्वा द्विजश् चान्द्रायणं चरेत् ॥ इति ।

यद् अपि बार्हस्पत्यम्,

गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् ।
तप्तकृच्छ्रं पराकं च चान्द्रायणम् अनुक्रमात् ॥ इति ।

तत् त्रितयम् अप्य् अनन्यौषधसाध्यव्याध्युपशमार्थे पाने वेदितव्यम्, प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसम् एवान्नं भक्षयति तदा पुनर् उपनयनम् । यथाह मनुः ।

अज्ञानात् प्राश्य विण्मूत्रं सुरासंसृष्टम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ इति । (म्ध् ११.१५१)

यदा च शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात् “सुराभाण्डोदकपाने छर्दनं घृतप्राशनम् अहोरात्रोपवासश् च” इति । यत् तु बौधायनीयम्,

सुरापानस्य यो भाण्डेष्व् अपः पर्युषिताः पिबेत् ।
शङ्खपुष्पीविपक्वं तु क्षीरं सर्पिः पिबेत् त्र्यहम् ॥ (ब्ध् २.१.२२)

इति तत् पर्युषितत्वाद् अधिकम् । अकामतो ऽभ्यासे पुनर् मनुनोक्तम् (११.१४९) ।

अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा ।
पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥ इति । (म्ध् ११.१४८)

यत् तु विष्णूक्तम्, “अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्” इति, तन् मतिपूर्वकपाने । ज्ञानतो ऽभ्यासे तु बृहद्यम आह ।

सुराभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
स द्वादशाहं क्षीरेण पिबेद् ब्राह्मीं सुवर्चलाम् ॥ इति ।

सुरापस्य मुखगन्धाघ्राणे तु मानवम्,

ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः ।
प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ॥ (म्ध् ११.१५०)

इति, तत् सोमयाजिन एवामतिपूर्वे । मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम् । साक्षात् सुरागन्धाघ्राणस्य तु “घ्रातिर् अघ्रेयमद्ययोः” इति जातिभ्रंशकरत्वात्,

जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥ (म्ध् ११.१२५)

इति मनूक्तं द्रष्टव्यम् ॥ ३.२५४ ॥

एवं मुख्यसुरापाने प्रायश्चित्तम् उक्त्वा, मद्यपाने प्रायश्चित्तम् आह ।

अज्ञानात् तु सुरां पीत्वा रेतो विण्मूत्रम् एव च । ३.२५५अब्
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ ३.२५५च्द्

यः पुनर् अज्ञानाद् उदकबुद्ध्या सुरां मद्यं ब्राह्मणः पिबति, ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति, ते त्रयो ऽपि द्विजातयो वर्णास् तप्तकृच्छ्रपूर्वकं पुनरुपनयनं प्रायश्चित्तम् अर्हन्ति । अत्र मद्यपाने यो ऽयं पुनःसंस्कारः स ब्राह्मणस्यैव, क्षत्रियविशोस् तदभ्यनुज्ञानस्य दर्शितत्वात् । सुराशब्दश् चात्र मद्यपरः, प्रायश्चित्तस्यातिलघुत्वात्, अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच् च । अत एव गौतमेनत्र मद्यशब्दः प्रयुक्तः- “अमत्या मद्यपाने पयो घृटम् उदकं वा त्र्यहं तप्तानि पिबेत् स तप्तकृच्छ्रस् ततो ऽस्य संस्कारो मूत्रपुरीषकुणपरेतसाण् प्राशने च” इति (ग्ध् १३.२) । यद् अप्य् अस्मिन्न् एव विषये मनुनोक्तम्,

अज्ञानाद् वारुणीं पीत्वा संस्कारेण विशुध्यति । (म्ध् ११.१४७)

इति, तद् अपि तप्तकृच्छ्रपूर्वकम् एव, गौतमवाक्यानुरोधात् । पुनःसंस्कारश् च पुनरुपनयनम् । तच् च आश्वलायनाद्युक्तक्रमेण कर्तव्यम् । यथोक्तम्- “अथोपेतपूर्वस्य कृताकृतं केश्वपनं मेघाजननं चानिरुक्तं परिदानं कालश् च तत् सवितुर् वृणीमह इति सावित्रीम्” (आश्गृ १.२२.२४–२९) इति । मतिपूर्वमद्यपाने वसिष्ठोक्तं द्रष्टव्यम्- “मत्या मद्यपाने त्व् असुरायाः सुरायाश् चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतप्राशनं पुनःसंस्कारश् च” (वध् २०.१९) इति । चान्द्रायणं वा शङ्खोक्तम्- “असुरामद्यपायी चान्द्रायणं चरेत्” इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षड्रात्रम्-

अभक्ष्याणाम् अपेयानाम् अलेह्यानां च भक्षाणे ।
रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ।
पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ।
एतेषाम् उदकं पीत्वा षड्रात्रेण विशुध्यति ॥ इति ।

एतच् च तालादिमद्यविषयम् । गौडीमाध्व्योः पुनर् अज्ञानतः पाने “असुरायाः सुरायाश् चाज्ञानतः” (वध् २०.१९) इति वसिष्ठोक्तः कृच्छ्रातिकृच्छ्रसहितः पुनःसंस्कारो घृतप्राशश् च द्रष्टव्यः । तयोर् मतिपूर्वपाने तु “पिण्याकं वा कणान् वा” इति त्रैवार्षिकम् । कामतस् तु तत्पानाभ्यासे “अभ्यासे तु सुराया अग्निवर्णां सुरां पिबेन् मरणात्पूतो भवति” (वध् २०.२२) इति वासिष्ठम् मरणान्तिकं द्रष्टव्यम् । नात्र सुराशब्दः पैष्ट्यभिप्रायः, तस्याः सकृत्पाने ऽपि मरणान्तिकस्य दर्शितत्वात् । मद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमोक्तम् ।

मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
कुशमूलविपक्वेन त्र्यहं क्षीरेण वर्तयेत् ॥ इति ।

अज्ञानतो ऽभ्यासे तु वसिष्ठेनोक्तम्-

मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ॥
एतेषाम् उदकं पीत्वा त्रिरात्रेण विशुध्यति ॥ इति । (च्फ़्। वध् २०.२१)

ज्ञानतः पाने तु विष्णूक्तं “मद्यभाण्डस्थितं तोयं पीत्वा पञ्चरात्रं शङ्खपुष्पीशृतं पयः पिबेत्” (विध् ५१.२३–२४) इति । ज्ञानतो ऽभ्यासे तु शङ्खेनोक्तम्- “मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्” इति ॥ अत्यन्ताभासे तु हारीतोक्तम् ।

मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
द्वादशाहं तु पयसा पिबेद् ब्राह्मीं सुवर्चलाम् ॥ इति ।

एषु च वाक्येषु द्विजग्रहणं ब्राह्मणाभिप्रायम् क्षत्रियवैश्ययोर् अप्रतिषेधाद् इति दर्शितं प्राक् । इदं च गौडीमाध्वीभाण्डस्थजलपानविषयं, गुरुत्वात् प्रायश्चित्तस्य । तालादिमद्यभाण्डोदकपाने तु कल्प्यम् ॥ ३.२५५ ॥

द्विजातिभार्यां प्रत्य् आह ।

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । ३.२५६अब्
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ ३.२५६च्द्

या द्विजातिभार्या सुरां पिबति सा कृतपुण्यापि सती पतिलोकं न याति किं त्व् इहैव लोके श्वगृध्रसूकरलक्षितां तिर्यग्योनिं क्रमेण प्राप्नोति । ब्राह्मणीग्रहणं चात्र “तिस्रो वर्णानुपूर्व्येण” (य्ध् १.५७) इति न्यायेन यस्य द्विजातेर् यावत्यो भार्यास् तासाम् उपलक्षणम् । अत एव मनुः ।

पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥ इति । (च्फ़्। प्स्म् १०.२६)

धर्मार्थकामेषु सहाधिकाराद् दम्पत्योर् एकशरीरत्वम् एव अतो यस्य द्विजातेर् भार्या सुरां पिबति तस्य भार्यारूपम् अर्धं शरीरं पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर् न विधीयते । तस्माद् द्विजातिभार्यया ब्राह्मण्याद्यया न सुरा पेया ।

तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् । (म्ध् ११.९४)

इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणाम् अपि प्रतिषेधे सिद्धे, पुनर्वचनं द्विजातिभार्यायाः शूद्राया अपि सुराप्रतिषेधप्राप्त्यर्थम् । अतो द्विजातिभार्याभिः सुरापाने प्रायश्चित्तस्यार्धं कार्यम् । शूद्रभार्यायास् तु शूद्रायाः शूद्रवद् एव न प्रतिषेधः । सुरापानसमेषु तु निषिद्धभक्षणादिषु सुरापानप्रायश्चित्तार्धम् इत्य् उक्तं प्राक् ॥ ३.२५६ ॥

इति सुरापानप्रायश्चित्तप्रकरणम्

क्रमप्राप्तं सुवर्णस्तेयप्रायश्चित्तम् आह ।

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत् । ३.२५७अब्
स्वकर्म ख्यापायंस् तेन हतो मुक्तो ऽपि वा शुचिः ॥ ३.२५७च्द्

ब्राह्मणस्वामिकं सुवर्णं यो ऽपहरत्य् असौ “सुवर्णस्तेयं मया कृतम्” इत्य् एवं स्वकर्म ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वात् तेन मुसलेन राजा तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । अपहरणशब्देन च समक्षं परोक्षं वा बलाच् चौर्येण वा क्रयादिस्वत्वहेतुं विना ग्रहणम् उच्यते । “मुसलं समर्पतेत्” इति यद्य् अपि सामान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्यायोमयादेर् ग्रहणम् । अत एव मनुनोक्तम् ।

स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् ।
अस्ंसि चोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥ इति ॥ (म्ध् ८.३१५)

शङ्खेनाप्य् अत्र विशेष उक्तः- “सुवर्णस्तेनः प्रकीर्णकेश आर्द्रवासा आयसं मुसलम् आदाय राजानम् उपतिष्टेद् इदं मया पापं कृतम् अनेन मुसलेन मां घातयस्वेति । स राज्ञा शिष्टः सन् पूतो भवति” इति । हननं चावृत्तिविधानाभावात् सकृद् एव कार्यम् । अत एव मनुनोक्तम् ।

ततो मुसलम् आदाय सकृद् धन्यात् तु तं स्वयम् । इति । (म्ध् ११.१०१)

एवं सकृत् ताडनेन राज्ञा हतो मृतः शुध्येत्, मुक्तो वा मरणाज् जीवन्न् अपि विशुध्येद् इति यावत् । तथा च संवर्तेनोक्तम् ।

ततो मुसलम् आदाय सकृद् धन्यात् तु तं स्वयम् ।
यदि जीवति स स्तेनस् ततः स्तेयाद् विशुध्यति । इति ।

यथोक्तम् ब्राह्मणवधे “मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति” इति ।

ननु अताडित एव राज्ञा मुक्तः स्तेनः शुध्येद् इत्य् अयम् अर्थः कस्मान् नेष्यते ।
उच्यते, “अनघ्नन्न् एनस्वी राजा” (ग्ध् १२.४५) इति गौतमीये ताडनम् अकुर्वतो राज्ञो दोषाभिधानात् ।
भवतु राज्ञो दोषस् तथाप्य् अतिक्रान्तनिषेधेन राज्ञा स्नेहादिना मुक्तः स्तेनः कथं न शुध्येद् इति चेत् ।
उच्यते । एवं च सत्य् अकारणिका शुद्धिर् आपतेत् ।
अथोच्यते । मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्ठानेन शुद्ध्यङ्गीकरणान् नाकारणिकेति ।
तद् अप्य् असुन्दरम्, मुक्तः शुचिर् इति मोक्षस्यैव शुद्धिहेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाज् जीवन्न् अपि विशुध्येद् इति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर् न तु ब्राह्मणस्यैव, ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषानुपादानात्, क्षत्रियादीनां च महापातकित्वाविशेषात्, प्रायश्चित्तान्तरस्यानाम्नानाच् च । यत् पुनर् मानवे “सुवर्णस्तेयकृद् विप्रः” (म्ध् ११.१००) इति विप्रग्रहणं तन् नरमात्रोपलक्षणम्, “प्रायश्चित्तीयते नरः” (म्ध् ११.४४) इति तस्यैव प्रकृतत्वात्, “ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः” (म्ध् ११.५५) इति निमित्तवाक्ये विशेषानुपादानाच् च । तत्सापेक्षनैमित्तिकवाक्ये “सुवर्णस्तेयकृद् विप्रः” (म्ध् ११.१००)त्य् अत्र श्रूयमाणम् अप्य् उपलक्षणम् एव युक्तम्, यथा “अभ्युदितेष्ट्यां यस्य हविर्” इति वाक्ये तन्दुलग्रहणं हविर्मात्रस्य । इदं च राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य,
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् । (म्ध् ८.३८०)

इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिद् अतिक्रान्तनिषेधे राज्ञा हन्यते तथापि शुद्धो भवति,

वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव वा । म्ध् ११.१०१)

इति ब्राह्मणस्पापि वधेन शुद्ध्यभिधानात् । न च “तपसैव वा” (य्ध् १.२००) इत्य् एवकारेण वधनिषेधः, तस्य केवलतपसापि शुद्ध्यभिधानपरत्वात् । यदि वधो निषिद्धस् तार्हि “तपसैव वा” इति विकल्पाभिधानम् अनुपपन्नम् । न च दण्डाभिप्रायं विकल्पाभिधानम्, तस्यानिर्दिष्टत्वात् । किं च एकार्थास् तु विकल्पेरन् इति न्यायेनैकार्थानाम् एव विकल्पो व्रीहियवयोर् इव । न च दण्डतपसोर् एकार्थत्वम्, दण्डस्य दमनार्थत्वात् तपसश् च पापक्षयहेतुत्वात् । न च “वधेन शुध्यति स्तेनः” (म्ध् ११.१०१) इति सामान्यविषयेण वधेन ब्राह्मणस् तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः । न हि भवति ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय वेति विकल्पस् तस्माद् द्वयोर् अपि सामान्यविषयत्वम् एव । यद् वा क्षत्रियस्यापि न निषेधः, मनुना “सुवर्णस्तेयकृद् विप्रः” (म्ध् ११.१००) इत्य् अभिधाय,

गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम् । (म्ध् ११.१०१)

इति सर्वनाम्ना प्रकृतब्राह्मणपरामर्शेनैव हननविधानात्, “न जातु ब्राह्मणं हन्यात्” (म्ध् ८.३८०) इत्य् अस्य प्रायश्चित्तव्यतिरिक्तदण्डरूपहननविषयत्वेनाप्य् उपपत्तेः । एतच् च मरणान्तिकं मतिपूर्वसुवर्णस्तेयविषयम्,

मरणान्तिकं हि यत् प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
तत् तु कामकृते पापे विज्ञेयं नात्र संशयः ॥

इति मध्यमाङ्गिरःस्मरणात् । अत्र च सुवर्णशब्दः परिमाणविशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः,

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥
गौरस् तु ते त्रयः षड्भिर् यवो माषस् तु ते त्रयः ।
कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥ (य्ध् १.३६२–६३)

इति षोडशमाषपरिमिते हेमनि सुवर्णशब्दस्य परिभाषितत्वात् । अतो ब्राह्मणसुवर्णापहरणं महापातकम् इत्यादिप्रयोगेषु कृतपरिमाणस्यैव सुवर्णस्य ग्रहणं युक्तम्, परिमाणकरणस्य दृष्टार्थत्वात् । न ह्य् अदृष्टार्थपरिमाणस्मरणम् । नापि लोकव्यवहारार्थम्, अतत्परत्वात् स्मृतिकारप्रवृत्तेः । अत एवोक्तं न्यायविद्भिः “कार्यकाले संज्ञापरिभाषयोर्” उपस्थानम् इति । तथा नामानि गुणफलोपबन्धेनार्थवद् इत्य् उक्तं पञ्चदशान्य् आज्यानीत्य् अत्र । न च दण्डमात्रोपयोगिपरिमाणस्मरणम् इत्य् उक्तम् इति युक्तम्, तावन्मात्रार्थत्वे प्रमाणाभावात् । अतो ऽविशेषात् सर्वशेषत्वम् एव युक्तम् । किं च, दण्डस्य दमनार्थत्वाद् दमनस्य च परिमाणविशेषम् अन्तरेणापि सिद्धेर् नातीव परिमाणस्मरणम् उपयुज्यते । शब्दैकसमधिगम्ये तु महापातिकत्वादाव् एकान्ततः स्मरणम् उपयुज्यते । अतः षोडशमाषात्मकसुवर्णपरिमितहेमहरण एव महापातकित्वं तन्निमित्तं मरणान्तिकादिप्रायश्चित्तविधानं च । द्वित्रादिमाषात्मकहेमहरणं तु क्षत्रियादिहेमहरणवद् उपपातकम् एवेति युक्तम् । किं च । सुवर्णान् न्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदेशात् तत्परिमाणस्यैव हेम्नो हरणे मरणान्तिकादिप्रायश्चित्तम् इति युक्तम् । तथाचोक्तं षट्त्रिंशन्मते ।

वालाग्रमात्रे ऽपहृते प्राणायामं समाचरेत् ।
लिक्षामात्रे ऽपि च तथा प्राणायामत्रयं बुधः ॥
राजसर्षपमात्रे तु प्राणायामचतुष्टयम् ।
गायत्र्यष्टसहस्रं च जपेत् पापविशुद्धये ॥
गौरसर्षपमात्रे तु सावित्रीं वै दिनं जपेत् ।
यवमात्रे सुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥
सुवर्णकृष्णलं ह्य् एकम् अपहृत्य द्विजोत्तमः ।
कुर्यात् सान्तपनं कुर्यात् तत्पापस्यापनुत्तये ॥
अपहृत्य सुवर्णस्य माषामात्रं द्विजोत्तमः ।
गोमूत्रयावकाहारस् त्रिभिर् मासैर् विशुध्यति ॥
सुवर्णस्यापहरणे वत्सरं यावकी भवेत् ।
ऊर्ध्वं प्राणान्तिकं ज्ञेयम् अथवा ब्रह्महव्रतम् ॥

इदं च वत्सरं यावकाशनं किंचिन्न्यूनसुवर्णापहारविषयम्, सुवर्णापहारे मन्वादिमहास्मृतिषु द्वादशवार्षिकविधानात् ।

बलाद् ये कामकारेण गृह्णन्ति स्वं नराधमाः ।
तेषां तु बलहर्तॄणां प्राणान्तिकम् इहोच्यते ॥

सुवर्णपरिमाणाद् अर्वाग् अपीत्य् अभिप्रेतम् । इदं च स्तेयप्रायश्चित्तम् अपहृतधनं तत्स्वामिने दत्त्वैव कार्यम्,

स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः ।
स्वामिने ऽपहृतं देयं हर्त्रा त्व् एकादशाधिकम् ॥

इति स्मरणात्, तथा,

चरेत् सान्तपनं कृच्छ्रं तन्निर्यात्य् आत्मशुद्धये । (म्ध् ११.१६५)

इति मनुस्मरणाच् च । दण्डप्रकरणे ऽप्य् उक्तम्-

शेषेष्व् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥ (म्ध् ८.३२०) इति ।

यद् वात्यशक्त्या राजा हन्तुम् असमर्थस् तदा वसिष्ठोक्तम् द्रष्टव्यम्- “स्तेनः प्रकीर्णकेशो राजनम् अभियाचेत् । ततस् तस्मै राजौदुम्बरं शस्त्रं दद्यात् तेनात्मानं प्रमापयेत् । मरणात् पूतो भवीति विज्ञायते” (वध् २०.४१) इति । औदुम्बरं ताम्रमयम् । यद् अपि द्वितीयं प्रायश्चित्तं तेनोक्तम् “निष्कालको गोघृताक्तो गोमयाग्निना पादप्रभृत्यात्मानं प्रमापयेन् मरणात् पूतो भवतीति विज्ञायते” (वध् २०.४२) इति, तद् अपि गुरुश्रोत्रिययागस्थादिविप्रद्रव्यापहारविषयं क्षत्रियाद्यपहर्तृविषयं वा । तत्र निष्कालक इति निर्गतकेशश्मश्रुलोमाभिधीयते । तथाश्वमेधाद्यनुष्ठानेन वा । तथा प्रचेतसा मरणान्तिकम् अभिधायोक्तम्-

इष्ट्वा वाश्वमेधेन गोसवेन वा विशुध्येत् । इति ।

एतच् च विट्क्षत्रियाद्यपहर्तृविषयम् ॥ ३.२५७ ॥

प्रायश्चित्तान्तरम् आह ।

अनिवेद्य नृपे शुध्येत् सुरापव्रतम् आचरन् । ३.२५८अब्
आत्मतुल्यं सुवर्णं वा दद्याद् वा विप्रतुष्टिकृत् ॥ ३.२५८च्द्

स्वीयं स्तेयं राजन्य् अनिवेद्य सुरापव्रतं द्वादशवार्षिकम् आचरन् शुध्येत् । शवशिरोध्वाजे तत्कपालधारणनिराकरणार्थं सुरापव्रतम् इत्य् उक्तम् । एतच् चाकामकारविषयम्,

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् । (म्ध् ११.९०)

इत्य् अकामतो विहितस्यैव द्वादशवार्षिकस्यातिदेशात् ।

ननु अकामतो ऽपहार एव न संभवतीति कथं तद्विषयत्वम् ।
उच्यते । यदा वस्त्रप्रान्तग्रथितं सुवर्णादिकम् अज्ञानाद् अपहरति रजतादिद्रव्यान्तरबुद्ध्या वा हृत्वा चानन्तरम् एवान्यस्मै दत्तं नाशितं वा न पुनः स्वामिने प्रत्यर्पितं तदा संभवत्य् एवाकामतो ऽपहारः । यस् तु ताम्रादिकस्य रसवेधाद्यापादितसुवर्णरूपस्यापहारो न तत्रेदं प्रायश्चित्तम्, मुख्यजातिसमवायाभावात् । न च मुख्यसादृश्यमात्रेण गौणे मुख्यधर्मा भवन्ति । यद्य् अपीदृशम् एवासुवर्णं सुवर्णभ्रान्त्यापहरति तथापि नेदं प्रायश्चित्तम्, असुवर्णापहारित्वाद् एव । न च “सृष्टश् चेद् ब्राह्मणवधे अहत्वापि” (ग्ध् २२.११) इतिवद् अत्रापि दोष इति वाच्यम्, असुवर्णे प्रवृत्तत्वाद् एव । न ह्य् अब्राह्मणः सृष्टश् चेद् इत्य् अस्य विषयः । यच् चेदं “मनसा पापं ध्यात्वा प्रणवपूर्वकं व्याहृतीर् मनसा जपेत् । व्याहृत्या प्राणायामं त्रिर् आचरेत् । प्रवृत्तौ कृच्छ्रं द्वादशरात्रं चरेत्” (च्फ़्। वध् २३.२३) इति तद् अपि सम्यगर्थप्रवृत्तिविषयम् । अतो नेदृशम् अज्ञानतः सुवर्णापहारः प्रायश्चित्तस्य निमित्तं किं तु रजतादिबुद्ध्या पूर्वोक्त एव स्वर्णापहारः । अस्मिन्न् एव विषये यदापहर्तात्यन्तमहाधनः तदात्मतुलितं सुवर्णं दद्यात् । अथ तावद् धनं नास्ति तपश्चर्यायां चाशक्तस् तदा विप्रतुष्टिकृद् विप्रस्य यावज्जीवं कुटुम्बभरणपर्याप्ततया तुष्टिकरं धनं दद्यात् । यदा तु निर्गुणस्वामिकं द्रव्यम् अपहरति तदा “एतद् एव व्रतं स्तेनः पादन्यूनं समाचरेत्” इति व्यासेनोक्तम् नववार्षिकं द्रष्टव्यम् । यदा पुनर् ईदृशम् एव क्षुत्क्षामकुटुम्बपरिरक्षणार्थम् अपहरति तदा अत्रिप्रतिपादितं षड्वार्षिकं स्वर्जिदादिं वा क्रतुं कुर्यात् तीर्थयात्रां वा,
षडब्दं वाचरेत् कृच्छ्रं यजेद् वा क्रतुना द्विजः ।
तीर्थानि वा भ्रमन्विद्वांस् ततः स्तेयाद् विमुच्यते ॥ इति ।

यदा त्व् अपहारसमनन्तरम् एव “हा कष्टं मया कृतम्” इति जातानुतापः प्रत्यर्पयति त्यजति वा तद् आपस्तम्बीयं चतुर्थकालमिताशनेन त्रिवर्षम् अवस्थानम्, आङ्गिरसं वा वज्राख्यं त्रैवार्षिकं द्रष्टव्यम् ।

ननु प्रत्यर्पणे त्यागे वापहारधात्वर्थस्य निष्पन्नत्वात् कथं प्रायश्चित्ताल्पत्वम् । अथानिष्पन्नस् तदा प्रायश्चित्ताभाव एव स्यान्, न तु प्रायश्चित्ताल्पत्वम् ।
मैवम् । अपहारस्योपभोगादिफलपर्यन्तत्वाद् उपभोगात् प्राङ् निवृत्तौ च पुष्कलस्यापहारार्थस्याभावाद् युक्तम् एव प्रायश्चित्ताल्पत्वं, पीतवान्त इवापेयद्रव्ये ।
ननु एवं सति चौरहस्ताद् बलाद् आकृष्य ग्रहणे ऽपि तस्योपभोगलक्षणफलाभावात् प्रायश्चित्ताल्पत्वप्रसङ्गः ।
मैवम्, तस्य त्यागे स्वतःप्रवृत्त्यभावात् फलपर्यन्ते ऽपहारे स्वतःप्रवृत्तत्वाच् च । यस् तु रजतताम्रादिसंसृष्टसुवर्णापहारी न तत्रेदं लघुप्रायश्चित्तम्, यतः संसर्गे ऽपि सुवर्णत्वं नापैति, आज्यत्वम् इव पृषदाज्ये । अतस् तत्र द्वादशवार्षिकम् एवेति युक्तम् । अथ लघुप्रायश्चित्तादि द्रव्यान्तरम् एवेति लघुप्रायश्चित्तम् उच्यते । न तर्हि तत्र त्रैवार्षिकादिविषयता असुवर्णत्वाद् एव, किं तूपपातकप्रायश्चित्तम् एव । यद् अप्य् अपरम् आपस्तम्बोक्तम्,
स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रं सांवत्सरं चरेत् ।

।इति, तत् सुवर्णपरिमाणाद् अर्वाङ् माषाच् चाधिकपरिमाणद्रव्यविषयम् । यत् तूक्तं सुमन्तुना “सुवर्णस्तेयी मासं सावित्र्याष्टसहस्रम् आज्याहुतीर् जुहुयात् । प्रत्यहं त्रिरात्रम् उपवासस् तप्तकृच्छ्रेण च पूतो भवति” इति, तत् पूर्वोक्तमाषपरिमाणसुवर्णापहारप्रायश्चित्तेन सह विकल्प्यते । यद् अप्य् अपरं तेनैवोक्तम् “सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति” इति, तन् मनसापहारे प्रवृत्तस्य स्वत एवोपरतजिहीर्षस्य वेदितव्यम् । अत्रापि स्त्रीबालवृद्धादिष्व् अप्य् अर्धम् एव प्रायश्चित्तं वेदितव्यम् । यानि च अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं “तथा” इत्यादिना सुवर्णस्तेयसमत्वेन प्रतिपादितानि तेष्व् अप्य् अर्धम् एव कार्यम् । यत् पुनश् चतुर्विंशतिमतवचनम्,

रूप्यं हृत्वा द्विजो मोहाच् चरेच् चान्द्रायणव्रतम् ।
गद्याणदशकाद् ऊर्ध्वम् आ शताद् द्विगुणं चरेत् ॥
आ सहस्रात् तु त्रिगुणम् ऊर्ध्वं हेमविधिः स्मृतः ।
सर्वेषां धातुलोहानां पराकं तु समाचरेत् ॥
धान्यानां हरणे कृच्छ्रं तिलानाम् ऐन्दवं स्मृतम् ॥
रत्नानां हरणे विप्रश् चरेच् चान्द्रायणव्रतम् ॥ इति ।

तद् अपि गद्याणसहस्राधिकरजतहरणे सुवर्णस्तेयसमप्रायश्चित्तप्रतिपादनार्थं न पुनस् तन्निवृत्त्यर्थम् । यद् अपि रत्नापहारे चान्द्रायणम् उक्तं तद् अपि गद्याणसहस्राद् धीनमूल्यरत्नापहारे द्रष्टव्यम् । ऊर्ध्वं पुनः सुवर्णस्तेयसमम् ॥ ३.२५८ ॥

इति सुवर्णस्तेयप्रायश्चित्तप्रकरणम्

उद्देशक्रमप्राप्तं गुरुतल्पिप्रायश्चित्तम् आह ।

तप्ते ऽयःशयने सार्धम् आयस्या योषिता स्वपेत् । ३.२५९अब्
गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत् तनुम् ॥ ३.२५९च्द्

“समा वा गुरुतल्पगः” (य्ध् ३.२६०) इति वक्ष्यमाणश्लोकगतं गुरुतल्पगपदम् अत्र संबध्यते । तप्ते ऽयःशयने यथा मरणक्षमं भवति तथा तप्ते अग्निवर्णे कृते कार्ष्णायसे शयने अयोमय्या स्त्रीप्रतिकृत्या तप्तया सह गुरुतल्पगः स्वप्यात् । एवं सुप्त्वा तनुं देहं उत्सृजेत् । म्रियेतेति यावत् । शयनं च गुर्वङ्गनागमनं मया कृतम् इत्य् एवं स्वकर्म विख्याप्य कुर्यात्, “गुरुतल्प्य् अभिभाष्यैनः” (म्ध् ११.१०४) इति मनुस्मरणात् । तथा स्त्रियम् आलिङ्ग्य कार्यम्, “गुरुतल्पगो मृन्मयीम् आयसीं वा स्त्रियः प्रतिकृतिम् अग्निवर्णां कृत्वा कार्ष्णायसशयने (अयोमय्या स्त्रीप्रतिकृत्या कृत्वा) ताम् आलिङ्ग्य पूतो भवति” इति वृद्धहारीतस्मरणात् । तथा मुण्डितलोमकेशेन घृताभ्यक्तेन च कर्तव्यम्, “निष्कालको घृताभ्यक्तस् तप्तां तां सूर्मीं मृन्मयीं वा परिष्वज्य मरणात् पूतो भवतीति विज्ञायते” (वध् २०.१४) इति वसिष्ठस्मरणात् । न च,

गुरुतल्प्य् अभिभाष्यैनस् तप्ते स्वप्याद् अयोमये ।
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ॥ (म्ध् ११.१०४)

इति मनुवाक्यानुरोधेन तप्तलोहशयनं तप्तलोहयोषिदालिङ्गनं च निरपेक्षं प्रायश्चित्तद्वयम् इत्य् आशङ्कनीयम् । आयस्या योषिता स्वपेत् । कुत्रेत्य् आकाङ्क्षायां तप्ते ऽयःशयन इति परस्परसापेक्षतयैकत्वावगमाद् एककल्पत्वम् एव युक्तम् । अथ वा वृषणौ सलिङ्गौ स्वयम् उत्कृत्य छित्त्वाञ्जलिना गृहीत्वा नैरृत्यां दक्षिणस्यां प्रतीच्यां दिशि देहपातान्तम् अकुटिलगतिर् गत्वा तनुम् उत्सृजेत् । यथाह मनुः ।

स्वयं वा शिश्नवृषणाव् उत्कृत्याधाय चाञ्जलौ ।
नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥ इति । (म्ध् ११.१०५)

गमनं पृष्टतो ऽनीक्षमाणेन कर्तव्यम्, “क्षुरेण शिश्नवृषणाव् उत्कृत्यानवेक्षमाणो व्रजेत्” इति शङ्खलिखितस्मरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिबध्यते तत्रैव मरणान्तं तिष्ठेत्, “सवृषणं शिश्नम् उत्कृत्याञ्जलाव् आधाय दक्षिणाभिमुखो गच्छेद् यत्रैव प्रतिहतस् तत्रैव तिष्ठेद् आ प्रलयात्” (वध् २०.१३) इति वसिष्ठस्मरणात् । दण्डो ऽप्य् अत्रायम् एव । यथाह नारदः ।

आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥

एवं दण्डार्थम् अपि लिङ्गाद्युत्कर्तनं पापक्षयार्थम् अपि भवति । इदम् एव मरणान्तिकं दण्डम् अभिप्रेत्योक्तं मनुना ।

राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ इति । (म्ध् ८.३१८)

धनदण्डेन पुनः प्रायश्चित्तं भवत्य् एव,

प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटे स्युर् दाप्यास् तूत्तमसाहसम् ॥ (म्ध् ९.२४०)

इति तेनैवोक्तत्वात् । अनयोश् च मरणान्तिकयोर् अन्यतरानुष्ठानेन गुरुतल्पगः शुध्येत् । गुरुशब्दश् चात्र मुख्यया वृत्त्या पितरि वर्तते,

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥ (म्ध् २.१४२)

इति मनुना गुरुत्वप्रतिपादनपरे वाक्ये निषेकादिकर्तुर् जनकस्यैव गुरुत्वाभिधानात् । योगीश्वरेण च निषेकादिकर्माभिप्रायेणोक्तम्- “स गुरुर्यः क्रियां कृत्वा वेदम् अस्मै प्रयच्छति” (य्ध् १.३४) इति ।

ननु गुरुशब्दस्यान्यत्रापि प्रयोगो दृश्यते- “उपनीय गुरुः शिष्यम्” (म्ध् २.६९)इत्यादिनाचार्ये “स्वल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तम् अपीह गुरुं विद्यात्” (म्ध् २.१४९) इत्य् उपाध्याये । व्यासेनाप्य् अत्र प्रयोगो दर्शितः- “गुरवो मातृपितृपत्यार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातान्नदाता च” इति । न चानेकार्थकल्पनादोषः, गुरुशब्दस्य प्रवृत्तिनिमित्तभूतायाः पूजार्हतायाः सर्वत्रानुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण “एते मान्या यथापूर्वम् एभ्यो माता गरीयसी” इति (य्ध् १.३५) “मान्याः” इत्य् उपक्रम्य गरीयसीत्य् उपसंहारं कुर्वता । न च,
उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता । (म्ध् २.१४५)

इत्य् उपाध्यायाद् अधिकाचार्यात् पितुर् अतिशयितत्ववचनात् स एव मुख्य इति वाच्यम्, आचार्ये ऽप्य् अतिशयितत्वस्याविशिष्टत्वात्,

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता । इति । (म्ध् २.१४६)

गौतमेनाप्य् उक्तम् “आचार्यः श्रेष्ठो गुरूणाम्” इति (ग्ध् २.५०) । किं च यद्य् अतिशयितत्वमात्रेण मुख्यत्वम् उच्यते, तर्हि सहस्रम् इति वचनान् मातुर् एव गुरुत्वं स्यात् । तस्मात् सर्वे गुरवस्, तत्पत्नीगमनं गुर्वङ्गनागमनम् इति युक्तम् ।

उच्यते । “निषेकादीनि” इति मनुवचनं निषेकादिकर्तुर् जनकस्य गुरुत्वप्रतिपादनपरम् अनन्यपरत्वात् । यत् पुनर् व्यासगौतमवचनं, तत् परिचर्यापूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् । अतो गुरुत्वप्रतिपादनपरान् निषेकादीति मनुवचनात् पितुर् एव मुख्यं गुरुत्वम् इति स्थितम् । अत एव वसिष्ठेन “आचार्यपुत्रशिष्यभार्यासु चैवम्” (वध् २०.१५) इत्य् आचार्यदारेष्व् आतिदेशिकं गुरुतल्पप्रायश्चित्तम् उक्तम् । तथा जातूकर्ण्यादिभिर् अप्य् उक्तम्-
आचार्यादेस् तु भार्यासु गुरुतल्पव्रतं चरेत् ।

इत्यादि । आचार्यादेर् मुह्क्यगुरुत्वे तूपदेशत एव व्रतप्राप्तेर् अतिदेशो ऽनर्थक एव स्यात् । किं च संवर्तेन स्पष्टम् एव पितृदारग्रहणं कृतम् ।

पितृदारान् समारुह्य मातृवर्ज्यं नराधमः । इति ।

षट्रिंशन्मते ऽपि ।

पितृभार्यां तु विज्ञाय सवर्णां यो ऽधिगच्छति । इति ।

अतो ऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः । तच् च गुरुत्वं वर्णचतुष्टये ऽप्य् अविशिष्टम्, निषेकादिकर्तृत्वस्याविशेषात् । अतः “स विप्रो गुरुर् उच्यते” इति विप्रग्रहणम् उपलक्षणम् । अतः पितृपत्नीगमनम् एव महापातकम् । गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस् ततो ऽर्वाङ् निवृत्तौ न महापातकित्वम् । तत्र चेदं “तप्ते ऽयःशयने सार्धम् आयस्या” इत्याद्युक्तं मरणान्तिकं प्रायश्चित्तद्वयम् । तच् च जनन्याम् अकामकृते, तत्सपत्न्यां तु सवर्णायाम् उत्तमवर्णायां च कामकृते द्रष्टव्यम्,

पितृभार्यां तु विज्ञाय सवर्णां यो ऽधिगच्छति ।
जननीं चाप्य् अविज्ञाय नामृतः शुद्धिम् आप्नुयात् ॥
इति षट्त्रिंशन्मते ऽभिधानात् । जनन्यां तु कामकृते वासिष्ठं “निष्कालको घृताभ्यक्तो गोमयाग्निना पादप्रभृत्यात्मानम् अवदाहयेत्” (वध् २०.१४) इति द्रष्टव्यम् । अकामतो ऽभ्यासे ऽप्य् एतद् एव ।
ननु च,
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ।
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥ (य्ध् ३.२३२–३३)

इत्य् अतिदेशाभिधानान् मातृसपत्नीगमने त्व् औपदेशिकं प्रायश्चित्तम् अयुक्तम् ।

उच्यते । “पितृभार्यां सवर्णाम्” इत्य् अस्माद् एव वचनात् सवर्णग्रहणाद् धीनवर्णसपत्नीविषयम् इदम् आतिदेशिकम् इति न विरोधः । इदं च मुख्यस्यैव पुत्रस्य । इतरेषां पुनः पुत्रकार्यकरत्वम् एव न पुत्रत्वम् । यथाह मनुः ।
क्षेत्रजादीन् सुतान् एतान् एकादश यथोचितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥ इति । (म्ध् ९.१८०)

तत्रोभयेच्छातः प्रवृत्तौ “तप्ते ऽयःशयने” इति प्रथमं प्रायश्चित्तम् । स्वेन प्रोत्साहने तु “गृहीत्वोत्कृत्य वृषणौ” इति द्वितीयम्, अनुबन्धातिशयने प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवं तप्तलोहशयनज्वलत्सूर्म्यालिङ्गनयोर् अन्यतरं द्रष्टव्यम् । यत् तु शङ्खेन द्वादशवार्षिकम् उक्तम्,

अधःशायी जटाधारी पर्णमूलफलाशनः ।
एककालं समश्नीत वर्षे तु द्वादशे गते ॥
रुक्मस्तेयी सुरापश् च ब्रह्महा गुरुतल्पगः ।
व्रतेनैतेन शुध्यन्ति महापातकिनस् त्व् इमे ॥ इति

तत् समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ षड्वार्षिकम् । अकामतस् तु त्रैवार्षिकम्, जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात् प्राङ् निवृत्तौ द्वादशवार्षिकम्, अकामतस् तु षड्वार्षिकम्, इति कल्प्यम् । यत् तु संवर्तेन,

पितृदारान् समारुह्य मातृवर्ज्यं नराधमः ।

इत्यादिना समारोहणमात्रे तप्तकृच्छ्र उक्तः, स हीनवर्णगुरुदारेषु रेतःसेकाद् अर्वाग् द्रष्टव्यः ॥ ३.२५९ ॥

प्रायश्चित्तान्तरम् आह ।

प्राजापत्यं चरेत् कृच्छ्रं समा वा गुरुतल्पगः । ३.२६०अब्
चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम् ॥ ३.२६०च्द्

अथ वा प्राजापत्यं कृच्छ्रं वक्ष्यमाणलक्षणं समाः वर्षत्रयं चरेत् । एतच् च ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरुपत्नीं सवर्णां व्यभिचारिणीम् अबुद्धिपूर्वं गच्छति, तदा वेदजपसहितं चान्द्रायणत्रयं कुर्यात् । तत्रैव कामतः प्रवृत्ताव् औशनसं- “गुरुतल्पाभिगामी संवत्सरं ब्रह्महव्रतं षण्मासान् वा तप्तकृच्छ्रं चरेत्” इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्क्यीयं,

मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा । (य्ध् ३.२३२)

इति गुरुतल्पव्रतातिदेशान् नववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमनविषयं न भवति, तत्र कामतो मरणान्तिकस्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयम् एवेति युक्तम् । तत्रैव कामतो ऽभ्यासे मरणान्तिकम्,

मत्या गत्वा पुनर् भार्यां गुरोः क्षत्रसुतां द्विजः ।
अण्डाभ्यां रहितं लिङ्गम् उत्कृत्य स ंऋतः शुचिः ॥

इति कण्वस्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति, तदा

छित्त्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियास् तथा । (य्ध् ३.२३३)

इति याज्ञवल्क्यीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः । वैश्यायां तु गुरुभार्यायां कामतो गमने षड्वार्षिकम् । अत एव स्मृत्यन्तरम् “ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गमने पादहान्या द्वादशवार्षिकम् । एवम् अन्यवर्णास्व् अपि” । अयम् अर्थः । ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपत्न्यां गमने पादन्यूनं द्वादशवार्षिकं यावत्, तस्यैव तथाभूतायां वैश्यायां षड्वार्षिकम्, शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तम् इति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षिकम्, शूद्रायां तु षड्वार्षिकम् । एवम् एव वैश्यापुत्रस्यापीति । वैश्यायां तु कामतो ऽभ्यासे मरणान्तिकम् एव,

गुरोर् भार्यां तु यो वैश्यां मत्या गच्छेत् पुनः पुनः ।
लिङ्गाग्रं छेदयित्वा तु ततः शुध्येत् स किल्बिषात् ॥

इति लौगाक्षिस्मरणात् । शूद्रायां तु कामतो ऽभ्यासे द्वादशवार्षिकम्,

पुनः शूद्रां गुरोर् गत्वा बुद्ध्या विप्रः समाहितः ।
ब्रह्मचर्यम् अदुष्टात्मा संचरेद् द्वादशाब्दिकम् ॥

इत्य् उपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायाम् अबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकम् अष्टमकालाशनं द्रष्टव्यम्-

काले ऽष्टमे वा भुञ्जानो ब्रह्मचारी सदा व्रती ।
स्थानासनाभ्यां विहरंस् त्रिर् अह्नो ऽभ्युपयन्न् अपः ।
अधःशायी त्रिभिर् वर्षैस् तद् अपोहेत पातकम् ॥ इति ।

अत्रैवाभ्यासे जातूकर्ण्योक्तम्-

गुरोः क्षत्रसुतां भार्यां पुनर् गत्वा त्व् अकामतः ।
अण्डमात्रं समुत्कृत्य शुध्येज् जीवन् मृतो ऽपि वा ॥ इति ।

वैश्यायां त्व् अकामतो गमने “प्राजापत्यं चरेत् कृच्छ्रम्” (य्ध् ३.२६०) इत्य् एतद् एव याज्ञवल्क्यीयम् । तथा च वृद्धमनुः ।

गमने गुरुभार्यायाः पितृभार्यागमे तथा ।
अब्दत्रयम् अकामात् तु कृच्छ्रं नित्यं समाचरेत् ॥ इति ।

तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम् ।

अभ्यस्य विप्रो वैश्यायां गुरोर् अज्ञानमोहितः ।
षडङ्गं ब्रह्मचर्यं च स चरेद् यावद् आयुषम् ॥ इति ।

गुरुभार्यायां शूद्रायां त्व् अमतिपूर्वे मानवम् ।

खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥ इति । (म्ध् ११.१०६)

अथ वा “गुरुदाराभिगामी संवत्सरं कण्टकिनीं शाखां परिष्वज्याधःशायी त्रिषवणी भैक्षाहार्ः पूतो भवति” इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ।

चान्द्रायणं वा त्रीन् मासान् अभ्यस्येन् नियतेन्द्रियः । इति । (म्ध् ११.१०७)

क्षत्रियायां कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ व्याघ्रोक्तम् ।

कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्रातिकृच्छ्रकम् ।
चरेन् मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥ इति ।

अत्रेयं व्यवस्था । तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकृच्छ्रचरणं तावद् एव । स्वेन प्रोत्साहितायां पुनः कृच्छ्रातिकृच्छ्रानुष्ठानं च तावद् एवेति । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं कण्वोक्तं द्रष्टव्यम् ।

चान्द्रायणं तप्तकृच्छ्रम् अतिकृच्छ्रं तथैव च ।
सकृद् गत्वा गुरोर्भार्याम् अज्ञानात् क्षत्रियां द्विजः ॥ इति ।

तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां तु चान्द्रायाणम् । वैश्यायां कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं निवृत्तौ कण्वोक्तम् ।

तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः ।
भार्यां वैश्यां सकृद् गत्वा बुद्ध्या मासं चरेद् द्विजः ॥ इति

अत्रोभयोर् इच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तया प्रोत्साहितस्य सान्तपनम् । तत्रैवाकामतः प्रवृत्तस्य प्रजापतिर् आह ।

पञ्चरात्रं तु नाश्नीयात् सप्ताष्टौ वा तथैव च ।
वैश्यां भार्यां गुरोर् गत्वा सकृद् अज्ञानतो द्विजः ॥ इति ।

तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायाम् अष्टरात्रम् । शूद्रायां तु कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं निवृत्तौ जाबालिर् आह ।

अतिकृच्छ्रं तप्तकृच्छ्रं पराकं वा तथैव च ।
गुरोः शूद्रां सकृद् गत्वा बुद्द्या विप्रः समाचरेत् ॥ इति ।

तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तत्रैवाकामतः प्रवृत्तस्य दैर्घतमसम् ।

प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् ।
गुरोः शूद्रां सकृद् गत्वा चरेद् विप्रः समाहितः ॥ इति ।

तया प्रोत्साहितस्य प्राजापत्यम् । उभयेच्छातः प्रवृत्तौ सान्तपनम् । स्वेन प्रोत्साहितायां सप्तरात्रोपवास इति । अनयैव दिशान्येषाम् अपि स्मृतिवचसां विषयव्यवस्थोहनीया । पुरुषवच् च स्त्रीणाम् अप्य् अत्र महापातकित्वम् अविशिष्टम् । तथाहि कात्यायनः ।

एवं दोषश् च शुद्धिश् च पतितानाम् उदाहृता ।
स्त्रीणाम् अपि प्रसक्तानाम् एष एव विधिः स्मृतः ॥ इति ।

सतस् तस्या अपि कामतः प्रवृत्तौ मरणान्तिकम् अविशिष्टम् । अत एव पुरुषस्य मरणान्तिकम् उक्त्वा स्त्रिया अपि योगीश्वरेण मरणान्तिकं दर्शितम् ।

छित्त्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियास् तथा । इति । (य्ध् ३.२३३)

अकामतस् तु मनुनोक्तम् ।

एतद् एव व्रतं कार्यं योषित्सु पतितास्व् अपि । इति । (म्ध् ११.१८९)

द्वादशवार्षिकम् एवार्धकल्पनया कार्यम् । यानि पुनर् गुरुतल्पसमानि,

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ (य्ध् ३.२३१)

इति प्रतिपादितानि, यानि चातिदेशविषयभूतानि

पितुः स्वसारं मातुश् च मातुलानीं स्नुषाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥ (य्ध् २३२–३३)

इति प्रतिपादितानि, तेष्व् एकरात्राद् ऊर्ध्वम् अकामतो ऽभ्यस्तेषु यथाक्रमेण षड्वार्षिकं नववार्षिकं च प्रायश्चित्तं विज्ञेयम् । अस्मिन्न् एव विषये कामतो ऽत्यन्ताभ्यासे मरणान्तिकम् । तथा च बृहद्यमः ।

रेतः सिक्त्वा कुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥ इति ।

अन्त्यजाश् चात्र,

चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस् तथा ।
मागधायोगवौ चैव सप्तैते ऽन्त्यावसायिनः ॥

इति मध्यमाङ्गिरोदर्शिता ज्ञातव्याः । न तु “रजकश् चर्मकारश् च” इत्यादिप्रतिपादिताः, तेषु लघुप्रायश्चित्तस्योक्तत्वात् ॥ तथा,

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ (म्ध् ११.१७६)

इति चाण्डालादिसाम्यं प्रतिपादयता मनुनापि कामतो ऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । तथा ह्य् अज्ञानतश् चण्डालीगमनाभ्यासे पतत्य् अतः पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतो ऽत्यन्ताभ्यासे चण्डालैः साम्यं गच्छति । अतो द्वादशवार्षिकाधिकं मरणान्तिकं कुर्यात् । एतच् च बहुकालाभ्यासविषयम् । एकरात्राभ्यासे तु वर्षत्रयम् । यथाह मनुः ।

यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः ।
तद् भैक्षभुज् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥ इति । (म्ध् ११.१७९)

अत्र वृषलीशब्देन चण्डाल्यभिधीयते,

चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका ।
ऊढा या च सगोत्रा स्याद् वृषल्यः पञ्च कीर्तिताः ॥

इति स्मृत्यन्तरे चण्डाल्यां वृषलीशब्दप्रयोगदर्शनात् । बन्धकी स्वैरिणी ।

कथं पुनर् अत्राभ्यासावगमः ।
उच्यते । “यत् करोत्य् एकरात्रेण” (म्ध् ११.१७९) इत्य् अत्यन्तसंयोगापवर्गवाचिन्या स्मृतीयाया दर्शनात् । एकरात्रेण चात्यन्तसंयोगो गमनस्याभ्यासं विनानुपपन्न इति गमनाभ्यासो ऽवगम्यते । अत एवैकरात्राद् बहुकालाभ्यासविषयं प्रागुक्तं द्वादशवर्षादिगुरुतल्पव्रतातिदेशिकं मरणान्तिकं च । यदा पुनर् ज्ञानतो ऽज्ञानतो वा चण्डाल्याद्याः सकृद् गच्छति तदा,
चण्डालपुल्कसानां तु भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद् अज्ञानाद् ऐन्दवद्वयम् ॥

इति यमाद्युक्तं संवत्सरं कृच्छ्रानुष्ठानं चान्द्रायणद्वयं यथाक्रमेण द्रष्टव्यम् । “स्वयोनिष्व् अन्त्यजासु च” इत्य् एकवाक्यसमभिव्याहाराद् भगिन्यादिष्व् अपीयम् एव व्यवस्था वेदितव्या । मरणान्तिकं चात्राग्निप्रवेशनम्,

जनन्यां च भगिन्यां च स्वसुतायां तथैव च ।
स्नुषायां गमनं चैव विज्ञेयम् अतिपातकम् ॥
अतिपातकिनस् त्व् एते प्रविशेयुर् हुताशनम् ॥ इति कात्यायनस्मरणात् । जनन्यां सकृद् गमने भगिन्यादिषु चासकृद् गमने अग्निप्रवेश इति द्रष्टव्यम्, महापातकस्य जननीगमनस्य तदतिदेशविषयभूतातिपातकस्य भगिन्यादिगमनस्य च तुल्यत्वायोगात् । यत् तु बृहद्यमेनोक्तम्,
चाण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् ।
मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥
मातुलानीं प्रव्रजितां स्वगोत्रां नृपयोषितम् ।
शिष्यभार्यां गुरोर् भार्यां गत्वा चान्द्रायणं चरेत् ॥

इति, यच् चाङ्गिरोवचनम्,

पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
मासोपवासं कुर्वीत चान्द्रायणम् अथापि वा ॥

इति, तद् उभयम् अपि गुरुतल्पातिदेशविषयेषु कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ द्रष्टव्यम् । यद् अपि संवर्तवचनम्,

भगिनीं मातुर् आप्तां च स्वसारं चान्यमातृजाम् ।
एता गत्वा स्त्रियो मोहात् तप्तकृच्छ्रं समाचरेत् ॥

इति तद् अनन्तरोक्त एव विषये अकामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ द्रष्टव्यम् । यदा पुनर् एता एवात्यन्तव्यभिचारिणीर् गच्छति तदापीदम् एव प्रायश्चित्तयुगलं चान्द्रायणतप्तकृच्छ्रात्मकं क्रमेण कामतो ऽकामतश् च प्रवृत्तौ द्रष्टव्यम् । साधारणस्त्रीषु तु गुरुणोपभुक्तास्व् अपि गमने गुरुतल्पत्वदोषो नास्ति,

जात्युक्तं पारदार्यं च कन्यादूषणम् एव च ।
साधारणस्त्रियां नास्ति गुरुतल्पत्वम् एव च ॥

इति व्याघ्रस्मरणात् । एवम् अन्यान्य् अपि स्मृतिवचनान्य् उच्चावचप्रायश्चित्तप्रतिपत्तिपराण्य् अन्विष्य विषयव्यवस्थोहनीया, ग्रन्थगौरवभयान् न लिख्यन्ते ॥ ३.२६० ॥

इति गुरुतल्पप्रायश्चित्तप्रकरणम्

एवं ब्रह्महादिमहापातकिप्रायश्चित्तान्य् अभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तम् आह ।

एभिस् तु संवसेद् यो वै वत्सरं सो ऽपि तत्समः । ३.२६१अब्

एभिः पूर्वोक्तैर् ब्रह्महादिभिर् एकं संवत्सरं यो ऽत्यन्तं संवसति सहाचरति सो ऽपि तत्समः । यो येन सहाचरति स तदीयम् एव प्रायश्चित्तं कुर्याद् इति तदीयप्रायश्चित्तातिदेशार्थं तत्समग्रहणम्, न पुनः पातकित्वातिदेशार्थम्, तस्य “यश् च तैः सह संवसेत्” (य्ध् ३.२२३) इत्य् उपदेशत एव सिद्धत्वात् । अत्र च सत्य् अप्य् अतिदेशत्वे कृत्नम् एव द्वादशवार्षिकं कार्यं, साक्षान् महापातकित्वात् संसर्गिणः । अपिशब्दान् न केवलं महापातकिसंयोगी तत्समः किं त्व् अतिपातकीपातक्युपपातक्यादीनां मध्ये यो येन सह संसर्गं करोति सो ऽपि तत्सम इति तदीयम् एव प्रायश्चित्तं कुर्याद् इति दर्शयति । अत एव मनुना सकलं प्रायश्चित्तजातम् अभिधायाभिहितम् ।

यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ इति । (म्ध् ११.१८२)

विष्णुनापि सामान्येनोपपातक्याद् एनस्विमात्रसंषर्गे तत्प्रायश्चित्तभाक्त्वं दर्शितम्- “पापात्मना येन सह यः संसृज्यते स तस्यैव व्रतं कुर्यात्” (विध् ५४.१) इति । अत एव मनुना सामान्येनैनस्विमात्रप्रतिषेधः कृतः ।

एनस्विभिर् अनिर्णिक्तैर् नार्थं कंचित् समाचरेत् । इति । (म्ध् ११.१९०)

तथा,

न संसर्गं भजेत् सद्भिः प्रायश्चित्ते कृते सति । (म्ध् ११.४७)

इति च । एतच् च द्वादशवार्षिकादिपतितप्रायश्चित्तं बुद्धिपूर्वसंसर्गविषयम्,

पतितेन सहोषित्वा जानन् संवत्सरं नरः ।
मिश्रितस् तेन सो ऽब्दान्ते स्वयं च पतितो भवेत् ॥

इति देवलस्मरणात् । अज्ञानतः संसर्गे पुनर् वसिष्ठोक्तम्- “पतितसंप्रयोगे तु ब्राह्मेन वा यौनेन वा स्रौवेण वा यास् तेभ्यः सकाशान् मात्रा उपलब्धास् तासां परित्यागतस् तैश् च न संवसेद् उदीचीं दिशं गत्वानश्नन् संहिताध्ययनम् अधीयानः पूतो भवतीति विज्ञायते” (वध् १.४५–४६) इति । तथा,

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः ।
एते महापातकिनो यश् च तैः सह संवसेत् ॥ इति ।

तैर् इति तृतीयया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्टयसंसर्गिण एव महापातकित्ववचनात् तत्संसर्गिणो न महापातकित्वम् ।

ननु महापातकिसंसर्ग एव महापातकित्वे हेतुर् न ब्रह्महादिविशेषसंसर्गः, तस्य व्यभिचारात् । अतो ऽत्र ब्रह्महादिसंसर्गिसंसर्गिणो ऽपि महापातकिसंषर्गो विद्यत इति तस्यापि महापातकित्वं स्यान् न च प्रतिषेधः ।
उच्यते । स्याद् एवं यदि प्रमाणान्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तस्मिन्न् एव भवितुम् अर्हतीति, तैर् इति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापातकित्वहेतुत्वस्यावगमितत्वात् । एवं च सति प्रतिषेधाभावो ऽप्य् अहेतुः प्राप्त्यभावाद् एव । अतः संषर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर् न भवति, प्रायश्चित्तं तु भवत्य् एव । न च संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तम् इति वाच्यम्,
एनस्विभिर् अनिर्णिक्तैर् नार्थं कंचित् समाचरेत् । (म्ध् ११.१९०)

इति सामान्येनैनस्विमात्रसंसर्गप्रतिषेधेन महापातकिसंसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्, पातित्याभावे ऽपि युक्तम् एव प्रायश्चित्तम् । तच् च पादहीनम् ।

यो येन संवसेद् वर्षं सो ऽपि तत्समताम् इयात् ।
पादहीनं चरेत्सो ऽपि तस्य तस्य व्रतं द्विजः ॥
इति व्यासोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्चमयोर् अपि कामतः संसर्गिणोर् अर्धहीनं त्रिपादोनं च द्रष्टव्यम् । अतः साक्षाद् ब्रह्महादिसंसर्गिण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गिण इति सिद्धम् । अत्र च ब्रह्महादिषु यद्य् अपि कामतो मरणान्तिकम् उपदिष्टं तथापि संषर्गिणस् तन् नातिदिश्यते, “स तस्यैव व्रतं कुर्यात्” इति व्रतस्यैवातिदेशात्, मरणस्य च व्रतशब्दवाच्यत्वाभावात् । अतो ऽत्र कामकृते ऽपि संसर्गे द्वादशवार्षिकम् अकामतस् तु तद् अर्धम् । संसर्गश् च स्वनिबन्धनकर्मभेदाद् अनेकधाभिद्यते । यथाह वृद्धबृहस्पतिः ।
एकशय्यासनं पङ्क्तिर् भाण्डपङ्क्त्यन्नमिश्रणम् ।
याजनाध्यापने योनिस् तथा च सहभोजनम् ॥
नवधा संकरः प्रोक्तो न कर्तव्यो ऽधमैः सह ॥ इति ।

देवलो ऽपि ।

संलापस्पर्शनिःश्वाससहयानासनाशनात् ।
याजनाध्यापनाद् यौनात् पापं संक्रमते नृणाम् ॥ इति ।

एकशय्यासनम् एकखट्वाशयनम् एकपङ्क्तिभोजनम् एकभाण्डपचनम् अन्नेन मिश्रणं संसर्गस् तदीयान्नभोजनम् इति यावत् । याजनं पतितस्य स्वस्य वा तेन । अध्यापनं तस्य स्वस्य वा तेन । यौनं तस्मै कन्यादानं तत्सकाशाद् वा कन्यायाः प्रतिग्रहः । सहभोजनम् एकामत्रभोजनम् । संलापः संभाषणम् । स्पर्शो गात्रसंमर्दः । निःश्वासः पतितमुखवायुसंपर्कः । सहयानम् एकतुरगाद्यारोहणम् । एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यम् इत्य् अपेक्षायां बृहद्विष्णुनोक्तम्- “संवत्सरेण पतति पतितेन सहाचरन्न् एकयानभोजनासनशयनैः यौनस्रौवमुख्यैस् तु संबन्धैः सद्य एव” इति । अत्रैकभोजनम् एकपङ्क्तिभोजनम् । एकामत्रभोजने तु सद्यःपातित्यम् । याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम्,

याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्य् एव पतितेन न संशयः ।

इति देवलस्मरणात् । स्रौवशब्देन याजनम् अभिधीयते । मुख्यशब्देन मुखभवत्वेनाध्यापनम् । यौनस्रौवमुख्यैर् इति सत्य् अपि द्वन्द्वनिर्देशे प्रत्येकम् एव तेषां सद्यः पतनहेतुत्वम्, “यः पतितैः सह यौनमुख्यस्रौवानां संबन्धानाम् अन्यतमं संबन्धं कुर्यात् तस्याप्य् एतद् एव प्रायश्चित्तम्” इति सुमन्तुस्मरणात् । एकयानादिचतुष्टयस्य तु समुदितस्यैव पतनहेतुत्वम्, “एकयानभोजनासनशयनैः” इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्ठानस्य तु पतनहेतुत्वाभावे ऽपि दोषहेतुत्वम् अस्त्य् एव,

आसनाच् छयनाद् यानात् संभाषात् सहभोजनात् ।
संक्रामन्ति हि पापानि तैलबिन्दुर् इवाम्भसि ॥

इति पराशारवचनेन निरपेक्षाणाम् अपि पापहेतुत्वावगमात् । संलापस्पर्शनिःश्वासानां तु यानादिचतुष्टयेनानुषङ्गिकतया समुच्चितानाम् एव पतनहेतुत्वं न पृथग्भूतानाम्, अल्पत्वात् । पापहेतुत्वं पुनर् अस्त्य् एव, “संलापस्पर्शनिःश्वास” इति देवलवचनस्य दर्शितत्वात् । अतः संलापादिरहिते सहयानादिचतुष्टये कृते पञ्चमभागोनं द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् । तत्सहिते तु पूर्णम् । एवं च सति “एभिस् तु संवसेद् यो वै वत्सरं सो ऽपि तत्समः” इति योगीश्वरवचनम् अपि सहयानादिचतुष्टयपरम् एव युक्तम् । यतः संलापादीनां पृथक्पातित्यहेतुत्वं नास्ति । अत एव मनुना,

संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनान् न तु यानासनाशनात् ॥ (म्ध् ११.१८१)

इति यानादिचतुष्टयस्यैव संवत्सरेण पातित्यहेतुत्वम् उक्तम् । अत्रासनग्रहणं शयनस्याप्य् उपलक्षणम्, अत्र च “संवत्सरेण पतति पतितेन सहाचरन्” (वध् १.२२) “यानाशनासनात्” (वध् १.२२) इति व्यवहितेन संबन्धः, प्राग्दर्शितविष्णुवचनानुरोधात्, तथा,

संवत्सरेण पतति पतितेन सहाचरन् ।
भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥

इति देवलवचनाच् च । न चानन्वयदोषः, यानासनाशनादिहेतोर् आचरन्न् आचारं कुर्वन्न् इति भेदविवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमितयेष्ट्येष्ट्वेति । यद् वा आचरन्न् इति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनासनाद् इति द्वितीयार्थे पञ्चमी । याजनाध्यापनाद् यौना(त् सहभोजना)न् न तु संवस्तरेण पतति, किं तु सद्य एव प्राचीनवचननिचयानुरोधाद् एव । अतो यौनादिचतुष्टयेन सद्यः पतति, यानादिचतुष्टयेन तु संवत्सरं निरन्तराभ्यासेनेति युक्तं “वत्सरं सो ऽपि तत्समः” इत्य् अत्यन्तसंयोगवाचिन्या द्वितीयया दर्शनाद् अन्तरितदिवसगणना कार्या । यथा षष्ट्यधिकशतत्रयदिवसव्यापित्वं संसर्गस्य भवति ततो न्यूने तु न पतितप्रायश्चित्तं किं त्व् अन्यद् एव । यथाह पराशरः ।

संसर्गम् आचरन् विप्रः पतितादिष्व् अकामतः ।
पञ्चाहं वा दशाहं वा द्वादशाहम् अथापि वा ।
मासार्धं मासम् एकं वा मासत्रयम् अथापि वा ।
अब्दार्धम् एकम् अब्दं वा भवेद् ऊर्ध्वं तु तत्समः ॥
त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रम् आचरन् ।
चरेत् सान्तपनं कृच्छ्रं तृतीये पक्ष एव तु ।
चतुर्थे दशरात्रं स्यात् पराकः पञ्चमे ततः ।
षष्ठे चान्द्रायणं कुर्यात् सप्तमे त्व् ऐन्दवद्वयम् ॥
अष्टमे च तथा पक्षे षण्मासान् कृच्छ्रम् आचरेत् ॥ इति ।

कामतः संसर्गे पुनर् विशेषः स्मृत्यन्तरे ऽभिहितः । सुमन्तुः-

पञ्चाहे तु चरेत् कृच्छ्रं दशाहे तप्तकृच्छ्रकम् ।
पराकस् त्व् अर्धमासे स्यान् मासे चान्द्रायणं चरेत् ॥ इति ।
मासत्रये प्रकुर्वीत कृच्छ्रं चान्द्रायणोत्तरम् ।
षाण्मासिके तु संसर्गे कृच्छ्रं त्व् अब्दार्धम् आचरेत् ॥
संसर्गे त्व् आब्दिके कुर्याद् अब्दं चान्द्रायणं नरः ॥ इति ।

अत्र चाब्दिके संसर्गे इति किंचिन् न्यून इति द्रष्टव्यम्, पूर्णे तु वत्सरे मन्वादिभिर् द्वादशवार्षिकस्मरणात् । यत् तु बार्हस्पत्यं वचनम्,

षाण्मासिके तु संसर्गे याजनाध्यापनादिना ।
एकत्रासनशय्याभिः प्रायश्चित्तार्धम् आचरेत् ॥ इति ।

याजनाध्यापनयानैकपात्रभोजनानां षण्मासात् पातित्यवचनम् एतद् अकामतो ऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजने ऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे द्रष्टव्यम्, प्रकृष्टयाजनादिभिः सद्यः पातित्यस्योक्तत्वात् । एतद् दिगवलम्बनेनैव दुहितृभगिनीस्नुषागाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकम् अकामतः सार्धचतुर्वार्षिकं कल्पनीयम् । सखिपितृव्यदारादिगामिपातकिसंसर्गिणां कामतः षड्वार्षिकम् अकामतस् त्रैवार्षिकम् । अथोपपातक्यादिसंसर्गिणाम् अपि कामतस् तदीयम् एव त्रैमासिकम् अकामतो ऽर्धम् इत्य् ऊहनीयम् । पुरुषवत् स्त्रिणाम् अपि महापातक्यादिसंसर्गात् पातित्यम् अविशिष्टम् । यथाह शौनकः- “पुरुषस्य यानि पतननिमित्तानि स्त्रीणाम् अपि तान्य् एव । ब्राह्मणी हीनवर्णसेवायाम् अधिकं पतति” इति । अतस् तासाम् अपि महापातकिप्रभृतीनां मध्ये येन सह संसर्गस् तदीयम् एव प्रायश्चित्तम् अर्धकृत्या योजनीयम् । एवं बालवृद्धातुराणाम् अपि कामतो ऽर्धम् अकामतः पादः । तथानुपनीतस्यापि बालस्य कामतः पादो ऽकामतस् तदर्धम् इत्य् एषा दिक् ॥

पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य क्वचित् प्रतिप्रसवम् आह ।

कन्यां समुद्वहेद् एषां सोपवासाम् अकिंचनाम् ॥ ३.२६१च्द्

एषां पतितानां कन्यां पतितावस्थायाम् उत्पन्नां सोपवासां कृतसंसर्गकालोचितप्रायश्चित्ताम् अकिंचनाम् अगृहीतवस्त्रालंकारादिपितृधनाम् उद्वहेत् । “कन्यां समुद्वहेद्” इति वदन् स्वयम् एव कन्यां त्यक्तपतितसंसर्गां समुद्वहेन् न पुनः पतितहस्तात् प्रतिगृह्णीयाद् इति दर्शयति । एवं च सति पतितयौनसंसर्गप्रतिषेधविरोधो ऽपि परिहृतो भवति । अयं चार्थो बृहद्धारीतेन स्पष्टीकृतः- “पतितस्य तु कुमारीं विवस्त्राम् अहोरात्रोपोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितां ऽनाहम् एतेषां न ममैतेऽ इति त्रिर् उच्चैर् अभिदधानां तीर्थे स्वगृहे वोद्वहेत्” इति । तथा “एषां कन्यां समुद्वहेद्” इति वचनात्, स्त्रीव्यतिरिक्ततदीयापत्यस्य संसार्गानर्हतां दर्शयति । अत एव वसिष्ठ । “पतितेनोत्पन्नः पतितो भवत्य् अन्यत्र स्त्रियाः, सा हि परगामिनी ताम् अरिक्थाम् उद्वहेत्” (वध् १३.५१–५३) इति ॥ ३.२६१ ॥

इति संसर्गप्रायश्चित्तप्रकरणम्

निषिद्धसंसर्गप्रसङ्गान् निषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्रायश्चित्तम् आह ।

चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु । ३.२६२अब्

अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास् तेषां प्रत्येकं हनने चान्द्रायणम् । तथा च शङ्खः- “सर्वेषाम् अवकृष्टानां वधे प्रत्येकं चान्द्रायणम्” इति । यद् वाङ्गिरसोक्तम्,

सर्वान्त्यजानां गमने भोजने संप्रमापणे ।
पराकेण विशुद्धिः स्याद् इत्य् आङ्गिरसभाषितम् ॥

इति पराकं कुर्यात् । तत्र कामतः सूतादिवधे चान्द्रायणम् । अकामतस् तु सूतवधे पराकः । वैदेहकवधे पादोनम् । चण्डालवधे द्विपादः । मागधवधे पादोनः पराकः । क्षत्तरि द्विपादः । आयोगवे च पादद्वयम् । अनयैव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत् तु ब्रह्मगर्भवचनम्,

प्रतिलोमप्रसूतानां स्त्रीणां मासावधि स्मृतः ।
अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥

इति, तद् आवृत्तिविषयम् । तत्र सूतवधे षण्मासाः वैदेहकवधे चत्वारः चण्डालवधे द्वाव् इति योग्यतयान्वयः । तथा मागधवधे चत्वारः क्षत्तरि द्वैमासिकं अयोगवे च द्वैमासिकम् इति व्यवस्था ॥

नैमित्तिकव्रतानां जपादिसाध्यत्वाद् विद्याविरहिणां च शूद्रादीनां तदनुपपत्तेर् आज्यावेक्षणादिसाध्येष्व् इवान्धानाम् अनधिकारम् आशङ्क्याह ।

शूद्रो ऽधिकारहीनो ऽपि कालेनानेन शुध्यति ॥ ३.२६२च्द्

यद्य् अपि शूद्रो जपाद्यधिकारहीनस् तथाप्य् अनेन द्वादशवार्षिकादिकालसंपाद्येन व्रतेन शुध्यति । शूद्रग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्य् अपि तस्य गायत्र्यादिजपासंभवस् तथापि नमस्कारमन्त्रजपो भवति । अत एव स्मृत्यन्तरे ऽभिहितम्- “उच्छिष्टं चास्य भोजनम् अनुज्ञातो ऽस्य नमस्कारो मन्त्रः” इति । यद् वा वचनबलाज् जपादिरहितम् एव व्रतं कुर्यात्,

तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥

इत्य् अङ्गिरःस्मरणात् । तथापरम् अपि तेनैवोक्तम् ।

शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः ।
दानैर् वाप्य् उपवासैर् वा द्विजशुश्रूषया तथा ॥ इति ।

यत् तु मानवम्,

न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् । (म्ध् ४.८०)

इति शूद्रस्य व्रतोपदेशनिषेधपरं वचनं, तद् अनुपसन्नशूद्राभिप्रायम् । यद् अपि स्मृत्यन्तरवचनं,

कृच्छ्राण्य् एतानि कार्याणि सदा वर्णत्रयेण तु ।
कृच्छ्रेष्व् एतेषु शूद्रस्य नाधिकारो विधीयते ॥

इति, तत् काम्यकृच्छ्राभिप्रायम् । अतः स्त्रीशूद्रयोः प्रतिलोमजानां च त्रैवर्णिकवद् व्रताधिकार इति सिद्धम् । यत् तु गौतमवचनम् “प्रतिलोमा धर्महीनाः” (ग्ध् ४.२५) इति, तद् उपनयनादिविशिष्टधर्माभिप्रायम् ॥ ३.२६२ ॥

**इति पञ्चमहापातकप्रायश्चित्तप्रकरणम् **

महापातकादिपञ्चकमध्ये महापातकातिपातकानुपातकप्रायश्चित्तान्य् उक्त्वा, अधुनोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्राप्तं गोवधप्रायश्चित्तं तावद् आह ।

पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः । ३.२६३अब्
गोष्ठेशयो गो ऽनुगामी गोप्रदानेन शुध्यति ॥ ३.२६३च्द्
कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः । ३.२६४अब्
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास् तु गाः ॥ ३.२६४च्द्

गां हन्तीति गोघ्नः । मूलविभुजादित्वात् कप्रत्ययः । असौ मासं समाहित आसीत । किं कुर्वन् । पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथाविधि मिश्रितानि पिबन् आहारान्तरपरित्यागेन, भोजनकार्ये तस्य विधानात् । तथा गोष्ठेशयः । प्राप्तशयनानुवादेन गोष्ठविधानाद् दिवा च स्वापप्रतिषेधाद् रात्रौ गोशालायां शयानः । गा अनुगच्छति तद् अस्य व्रतम् इति गो ऽनुगामी । व्रते णिनिः । अतश् च यासां गोष्ठे शेते सन्निधानात् ता एव गाः प्रातर् वनं विचरन्तीर् अनुगच्छेत् । अनुगच्छेद् इति वचनाद् यदा ता गच्छन्ति तदैव स्वयम् अनुगच्छेत् । यदा तु तिष्ठन्त्य् आसते वा तदा पश्चाद्गमनस्याशक्यकरणत्वात् स्वयम् अपि तिष्ठेद् आसीत वेति गम्यते । अनुगमनविधानाद् एव ताभिः सायं गोष्ठं व्रजन्तीभिः सह गोष्ठप्रवेशो ऽप्य् अर्थसिद्धः । एवं कुर्वन् मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य संपत्तेर् गोहत्यायाः शुध्यतीत्य् एकं व्रतम् । मासं गोश्ठेशयो गो ऽनुगामीत्य् अनुवर्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छ्रविधानाद् एव । अतश् च मासं निरन्तरं कृच्छ्रं समाहितश् चरेद् इत्य् अपरम् । अत एव जाबालेन मासप्राजापत्यस्य पृथक् प्रायश्चित्तत्वम् उक्तम् ।

प्राजापत्यं चरेन् मासं गोहन्ता चेद् अकामतः ।
गोहितो गो ऽनुगामी स्याद् गोप्रदानेन शुध्यति ॥ इति ।

अतिकृच्छ्रं वा तथैव समाचरेद् इत्य् अन्यत् । कृच्छ्रातिकृच्छ्रयोर् लक्षणम् उत्तरत्र वक्ष्यते । अथ वा त्रिरात्रम् उपवासं कृत्वा वृषभ एकादशो यासां गवां ता दद्याद् इति व्रतचतुष्टयम् । तत्राकामकृते जातिमात्रब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा व्र्षभैकादशगोदानसहितस् त्रिरात्रोपवासो द्रष्टव्यः, विशिष्टस्वामिकाया विषिष्टगुणवत्याश् च वधे गुरुप्रायश्चित्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास् तु तादृग्विधे व्यापादने मासं पञ्चगव्याशित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वान् मासोपवासतुल्यत्वम् । ततश् च षड्भिः षड्भिर् उपवासैर् एकैकप्राजापत्यकल्पनया पञ्चकृच्छ्राणां प्रत्याम्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौर् एकेति षट् धेनवो भवन्तीति वृषभैकादशगोदानसहितत्रिरात्रव्रताल् लघीयस्त्वम् । कथं पुनर् ब्राह्मणगवीनां गुरुत्वम् ।

वेदब्राह्मणराज्ञां तु विज्ञेयं द्रव्यम् उत्तमम् ।

इति नारदेन (न्स्म् १४.१३) तद्द्रव्यस्योत्तमत्वाभिधानात्, “गोषु ब्राह्मणसंस्थासु” (न्स्म् १९.४०) इति दण्डभूयस्त्वदर्शनाच् च । वैश्यसंबन्धिन्यास् तु तादृग्विधे व्यापादने मासम् अतिकृच्छ्रं कुर्यात् । अतिकृच्छ्रे त्व् आद्ये त्रिरात्रत्रये पाणिपूरान्नभोजनम् उक्तम् । अन्त्ये त्रिरात्रे ऽनशनम् । अतो ऽतिकृच्छ्रधर्मेण मासव्रते क्रियमाणे षड्रात्रम् उपवासो भवति । चतुर्विंशत्यहे च पाणिपूरान्नभोजनम् । ततश् च कृच्छ्रप्रत्याम्नायकल्पनया किंचिन्न्यूनं धेनुपञ्चकं भवतीति पूर्वस्माद् व्रतद्वयाल् लघिष्ठत्वेन वैश्यस्वामिकगोवधविषयता युक्ता । तादृश एव विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिदधिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच् छूद्रविषयतोचिता । अथ चैतत् प्रायश्चित्तचतुष्टयं साक्षात्कर्त्रनुग्राहकप्रयोजकानुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत् तु वैष्णवं व्रतत्रयम्,

गोघ्नस्य पञ्चगव्येन मासम् एकं पलत्रयम् ।
प्रत्यहं स्यात् पराको वा चान्द्रायणम् अथापि वा ॥

इति, यच् च काश्यपीयम् “गां हत्वा तच्चर्मणा प्रावृतो मासं गोष्ठेशयस् त्रिषवणस्नायी नित्यं पञ्चगव्याहारः” इति, यच् च शातातपीयम् “मासं पङ्चगव्याहारः” इति, तत् पञ्चकम् अपि याज्ञवल्क्यीयपञ्चगव्याहारसमानविषयम् । यच् च शङ्खप्रचेतोभ्याम् उक्तम् “गोघ्नः पञ्चगव्याहारः पञ्चविंशतिरात्रम् उपवसेत् सशिखं वपनं कृट्वा गोचर्मणा प्रावृतो गाश् चानुगच्छन् गोष्ठेशयो गां च दद्यात्” इति, एतच् च याज्ञवल्क्यीयमासातिकृच्छ्रव्रतसमानविषयम् । “दद्यात् त्रिरात्रं चोपोष्य” इत्य् एतद्विषयं वात्यन्तगुणिनो हन्तुर् वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं काश्यपीयं “मासं पञ्चगव्येन” इति प्रतिपाद्य, “षष्ठे काले पयोभक्षो वा गच्छन्तीष्व् अनुगच्छेत् तासु सुखोपविष्टासु चोपविशेन् नातिप्लवं गच्छेन् नातिविषमेणावतारयेन् नाल्पोदके पाययेद् अन्ते ब्राह्मणान् भोजयित्वा तिलधेनुं दद्यात्” इति द्रष्टव्यम् । अत्राप्य् अशक्तस्य “गोघ्नो मासं यवागूं प्रसृतितन्दुलशृतं भुञ्जानो गोभ्यः प्रियं कुर्वन् शुध्यति” इति पैठीनसिनोक्तं वेदितव्यम् । यत् तु सौमन्तम् “गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च” इति, य च्च संवर्तेनोक्तम्,

सक्तुयावकभैक्षाशी पयो दधि घृतं सकृत् ।
एतानि क्रमशो ऽश्नीयान् मासार्धं सुसमाहितः ॥
ब्राह्मणान् भोजयित्वा तु गां दद्याद् आत्मशुद्धये ॥

इति, यच् च बार्हस्पत्यम् “द्वादशरात्रं पञ्चगव्याहारः” इति, तत् त्रितयम् अपि याज्ञवल्क्यीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्रदेशत्रासेन जनितव्याधितो मरणविषयम् वा वेदितव्यम् । तद् इदं सर्वं प्राग् उक्तम् अकामविषयम् । यदा पुनर् ईदृग्विधाम् अविशिष्टविप्रस्वामिकाम् अविशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हविष्येण चतुर्थकालभोजनं, मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तनम् इति व्रतत्रितयम् आम्नातम् । यथाह ।

उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
कृतवापो वसेद् गोष्ठे चर्मणार्द्रेण संवृतः ॥
चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥
दिवानुगच्छेत् ता गास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥
तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् ।
आसीनासु तथासीनो नियतो वीतमत्सरः ॥
आतुराम् अभिशस्तां वा चौरव्याघ्रादिभिर् भयैः ।
पतितां पङ्कलग्नां वा सर्वोपायैर् विमोचयेत् ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥
आत्मनो यदि वान्येषां गृहे क्षेत्रे ऽथ वा खले ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥
अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥
वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ इति । (म्ध् ११.१०९–१७)

एतत् त्रितयं याज्ञवल्क्यीयमासप्राजापत्यमासपञ्चगव्याशनवृषभैकदशगोदान-युक्तत्रिरात्रोपवासरूपव्रतत्रितयविषयं यथाक्रमेण द्रष्टव्यम् । यत् त्व् अङ्गिरसा मानवेतिकर्तव्यतायुक्तं त्रैमासिकम् अभिधायाधिकम् अभिहितम्,

अक्षारलवणं रुक्षं षष्ठे काले ऽस्य भोजनम् ।
गोमतीं वा जपेद् विद्याम् ओङ्कारं वेदम् एव च ॥
व्रतवद् धारयेद् दण्डं समन्त्रां चैव मेखलाम् ॥

इति, तन् मानवविषयम् । एवं पुष्टितारुण्यादिकिंचिदुणातिशययोगिन्यां द्रष्टव्यम्,

अतिबालाम् अतिकृशाम् अतिवृद्धां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेद् अर्धं व्रतं द्विजः ॥

इति पुष्टितारुण्यादिरहितायां गव्य् अर्धप्रायश्चित्तदर्शनात् । यदा तु याज्ञवल्क्यीयमासातिकृच्छ्रव्रतनिमित्तभूतां गाम् अविशिष्टस्वामिकां जातिमात्रयोगिनीं कामतो व्यापादयति, तदा,

विहितं यद् अकामानां कामात् तद्द्विगुणं चरेत् ।

इति न्यायेन पूर्वोक्तम् एवाकामविहितं मासातिकृच्छ्रव्रतं द्विगुणं कुर्यात् । यत् तु हारीतेन “गोघ्नस् तच्चर्मौर्ध्ववालं परिधाय” इत्यादिना मानवीम् इतिकर्तव्यताम् अभिधायोक्तम्, “वृषभैकादशाश् च गा दत्त्वा त्रयोदशे मासे पूतो भवति” इति, तत् सवनस्थश्रोत्रियगोवधे अकामकृते द्रष्टव्यम् । यत् तु वसिष्ठेन – “गां चेद् धन्यात् तस्याश् चर्मणार्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रतप्तकृच्छ्राव् आतिष्ठेत्, ऋषभवेहतौ दद्यात्” (वध् २१.१८, २२) इति षाण्मासिकं कृच्छ्रतप्तकृच्छ्रानुष्ठानम् उक्तम्, यद् अपि देवलेव “गोघ्नः षण्मासांस् तच्चर्मपरिवृतो गोव्रजनिवासी गोभिर् एव सह चरन् प्रमुच्यते” इति, तत् द्वयम् अपि हारीतीयेन समानविषयम् । तत्रैव कामकारकृते कात्यायनीयं त्रैवार्षिकम्-

गोघ्नस् तच्चर्मसंवीतो वसेद् गोष्ठे ऽथ वा पुनः ।
गाश् चानुगच्छेत् सततं माउनी वीरासनादिभिः ॥
वर्षशीतातपक्लेशवह्निपङ्कभयार्दितः ।
मोक्षयेत् सर्वयत्नेन पूयते वत्सरैस् त्रिभिः ॥

इति द्रष्टव्यम् । यच् च शाङ्खं त्रैवार्षिकम्-

पादं तु शूद्रहत्यायाम् उदक्यागमने तथा ।
गोवधे च तथा कुर्यात् परस्त्रीगमने तथा ॥

इति, तद् अपि कात्यायनीयव्रतसमानविषयम् । यत् तु यमेन आङ्गिरसीम् इतिकर्तव्यताम् अभिधाय,

गोसहस्रं शतं वापि दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥

इति गोसहस्रयुक्तं गोशतयुक्तं च द्वैमासिकं व्रतद्वयम् अभिहितम्, तत्र यदा सवनस्थश्रोत्रियादिदुर्गतबहुकुटुम्बिब्राह्मणसंबन्धिनीं कपिलां कर्माङ्गभूतां गर्भिणीं बहुक्षीरतर्ँँउणिमाँँदिगुणशालिनीं निर्गुणो धनवान् सप्रतिज्ञं खड्गादिना व्यापादयति तदा गोसहस्रयुक्तं द्वैमासिकं कुर्यात्,

गर्भिणीं कपिलां दोघ्रीं होमधेनुं च सुव्रताम् ।
खड्गादिना घातयित्वा द्विगुणं व्रतम् आचरेत् ॥

इति विशिष्टायां गवि बार्हस्पत्ये प्रायश्चित्तविशेषदर्शनात् । अत एव प्रचेतसा, “स्त्रीगर्भिणीबालवृद्धवधेषु भ्रूंअहा भवति” इति ईदृग्विधम् एव गोवधम् अभिसंधाय ब्रह्महत्याव्रतम् अतिदिष्टम् । द्वितीयं तु याम्यं गोशतदानयुक्तं व्रतं कात्यायनीयव्रतविषये धनवतो द्रष्टव्यम् । यत् तु गौतमेन वृषभैकशतगोदानसमुच्चितं ब्रह्मचर्यं वैश्यवधे ऽभिधाय गोवधे ऽतिदिष्टम्- “गां च हत्वा वैश्यवत्” (ग्ध् २२.१८) इति, एतच् च त्रैवार्षिकव्रतप्रत्याम्नायभूतनवतिधेनुभिः सार्धं वृषभैकशता गावो नवन्यूनं द्विशतं भवतीति गोसहस्रयुक्तत्रैमासिकव्रतान् न्यूनत्वात् पूर्वोक्तविषये एव कामतो वधे । यद् वा तत्रैव विषये गर्भरहितायाः कामतो वधे द्रष्टव्यम् । तादृग्विधाया एव गर्भरहितायास् त्व् अकामतो हनने ऽपि कात्यायनीयम् एव त्रैवार्षिकं कल्प्यम् । यत् तु यमेनोक्तं,

काष्ठलोष्टाश्मभिर् गावः शस्त्रैर् वा निहता यदि ।
प्रायश्चित्तं कथं तत्र शस्त्रे ऽशस्त्रे विधीयते ॥
काष्ठे सान्तपनं कुर्यात् प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्य् अतिकृच्छ्रकम् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
त्रिशद् गा वृषभं चैकं दद्यात् तेभ्यश् च दक्षिणाम् ॥

इति, तत् पूर्वोक्तगोसहस्रशतादिदानत्रैवार्षिकादिव्रतविषयेष्व् एव काष्ठादिसाधनविशेषजनितवधनिमित्तसान्तपनादिपूर्वकत्वप्रतिपादनपरं, न तु निरपेक्षं, लघुत्वाद् व्रतस्य । तथा वयोविशेषाद् अपि प्रायश्चित्तविशये उक्तः-

अतिवृद्धाम् अतिकृशाम् अतिबालां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेद् अर्धव्रतं द्विजः ॥
ब्राह्मणान् भोजयेच् छक्त्या दद्याद् धेमतिलांस् तथा ॥

इति नीरोगादिवधे यद् विहितं तस्यार्धम् । बृहत्प्रचेतसाप्य् अत्र विशेष उक्तः ।

एकवर्षे हते वत्से कृच्छ्रपादो विधीयते ।
अबुद्धिपूर्वो पुंसः स्याद् द्विपादस् तु द्विहायने ।
त्रिहायने त्रिपादः स्यात् प्राजापत्यम् अतः परम् ॥ इति ॥

तथा गर्भिण्या वधे यदा गर्भो ऽपि निहतो भवति तदा “प्रतिनिमित्तं नैमित्तिकम् आवर्तते” इति न्यायेनाविशेषेण द्विगुणव्रतप्राप्तौ षट्त्रिंशन्मते विशय उक्तः-

पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते ।
पादोनं व्रतम् उद्दिष्टं हत्वा गर्भम् अचेतनम् ॥
अङ्गप्रत्यङ्गसंपूर्णे गर्भे चेतःसमन्विते ।
द्विगुणं गोव्रतं कुर्याद् एषा गोघ्नस्य निष्कृतिः ॥ इति ।

बहुकर्तृके तु हनने संवर्तापस्तम्बौ विशेषम् आहतुः-

एका चेद् बहुभिः काचिद् दैवाद् व्यापादिता क्वचित् ।
पादं पादं तु हत्यायाश् चरेयुस् ते पृथक् पृथक् ॥ इति ।

यादृग्विधगोहत्यायां यद्व्रतम् उपदिष्टं तत्पादं प्रत्येकं कुर्युः, वचनात् । “एका चेत्” इत्य् उपलक्षणम् । अतो बहुभिर् द्वयोर् बहूनां च व्यापादने प्रतिपुरुषं पादद्वयं पादोनं वा कल्पनीयम् । एतच् चाकामतो वधे द्रष्टव्यं, “दैवाद्” इति विशेषणोपादानात् । कामकारे तु बहूनाम् अपि प्रत्येकं कृत्स्नदोषसंबन्धात्, कृत्स्नव्रतसंबन्धो युक्तः, सत्रिणाम् इव प्रतिपुरुषं कृत्स्नव्यापारसमवायात्,

एकं घ्नतां बहूनां तु यथोक्ताद् द्विगुणो दमः ।

इति प्रत्येकं दण्डद्वैगुण्यदर्शनाच् च । यदा त्व् एकेनैव रोधनादिव्यापारेण बहवो गावो व्यापादितास् तत्र संवर्तापस्तम्बौ विशेषम् आहतुः-

व्यापन्नानां बहूनां तु रोधने बन्धने ऽपि वा ।
भिषङ् मिथ्योपचारे च द्विगुणं ग्रोव्रतं चरेत् ॥ इति ।

बहुष्व् अपि व्यापन्नेषु न प्रतिनिमित्तं नैमित्तिकानुष्ठानं, नापि तन्त्रेण किं तु वचनबलाद् द्विगुणम् एव । तथा भिषग् अपि विरुद्धौषधदानेनैकस्या अप्य् अकामतो व्यापादने द्विगुणं गोव्रतं कुर्यात् । भिषग्व्यतिरिक्तस्य केवलम् उपकारार्थं प्रवृत्तस्य त्व् अकामतः प्रतिकूलौषधदाने व्यास आह ।

औषधं लवणं चैव पुण्यार्थम् अपि भोजनम् ।
अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥
अतिरिक्ते विपत्तिश् चेत् कृच्छ्रपादो विधीयते ॥ इति ।

यत् त्व् आपस्तम्बेनोक्तम्,

पादम् एकं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्याच् चरेत् सर्वं निपातने ।

इति, तद् व्यवहितव्यापारिणो निमित्तकर्तुर् विज्ञय न साक्षात् कर्तुः । साक्षात् कर्तृनिमित्तनोश् च भेदस् तेनैव दर्शितः-

पाषाणैर् लकुटैर् वापि शस्त्रेणान्येन वा बलात् ।
निपातयन्ति ये गास् तु कृत्स्नं कुर्युर् व्रतं हि ते ॥
तथैव बाहुजङ्घोरुपार्श्वग्रीवाङ्ग्रिमोटनैः ॥ इति ।

एतद् उक्तं भवति- पाषाणखड्गादिभिर् ग्रीवामोटनादिना वा ये गां निपातयन्ति, ते साक्षाद् घन्तारस् तेष्व् एव कृत्स्नं प्रायश्चित्तम् । ये तु व्यवहितरोधबन्धादिव्यापारयोगिनस् ते निमित्तिनस् तेषां न कृत्स्नव्रतसंबन्धः । किं तु तदवयवैर् एव पादद्विपादादिभिर् इति । तत्र च रोधादीनां व्यवहितव्यापारत्वाविशेषे ऽपि वचनात् क्वचित् पादः क्वचिद् द्विपादः पादोनं क्वचिद् इति युक्तम् । अत्राह पराशरः ।

गवा बन्धनयोक्त्रैस् तु भवेन् मृत्युर् अकामतः ।
अकामकृतपापस्य प्राजापत्यं विनिर्दिशेत् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मण भोजनम् ।
अनडुत्सहितां गां च दद्याद् विप्राय दक्षिणाम् ॥ इति ॥

अयं च प्राजापत्यो यदि रोधादिकं कृत्वा तज्जन्यप्रमादपरिजिहीर्षया प्रत्यवेक्षमाण आस्ते तदा द्रष्टव्यः, “अकामकृतपापस्य” इति विशेषणोपादानात् । यदा तु न प्रमादसंरक्षणं करोति तदा,

पादम् एकं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्याच् चरेत् सर्वं निपातने ॥

इत्य् अङ्गिरोदृष्टं त्रैमासिकपादं किंचिदधिकं वा विंशत्यहर्गोवधव्रतं कुर्यात् । आपस्तम्बेनापि विशेष उक्तः ।

अतिदाहातिवाहाभ्यां नासिकाच्छेदने तथा ।
नदीपर्वतसंरोधे सृते पादोनम् आचरेत् ॥ इति ।

लक्षणमात्रोपयोगिनि तु दाहे न दोषः,

अन्यत्राङ्कनलक्षाभ्यां वाहने मोचने ऽपि वा ।
सायं सङ्गोपनार्थं च न दुष्येद् रोधबन्धने ॥

इति पराशरस्मरणात् । अङ्कनं स्थिरचिह्नकरणम्, लक्षणं सांप्रतोपलक्षणम् । वाहने शास्त्रोक्तमार्गेण रक्षणाथम् अपि नालिकेरादिभिर् बन्धने भवत्य् एव दोषः,

न नालिकेलेण न शाणवालैर् न चापि मौञ्जेन न बन्धशृङ्खलैः ।
एतैस् तु गावो न निबन्धनीया बध्वा तु तिष्ठेत् परशुं गृहीत्वा ॥
कुशैः काशैश् च बध्नीयात् स्थाने दोषविवर्जिते ॥

इति व्यासस्मरणात् ॥ तथान्यो ऽपि विशेषस् तेनैवोक्तः-

घण्टाभरणदोषेण विपत्तिर् यत्र गोर् भवेत् ।
कृच्छ्रार्धं तु भवेत् तत्र भूषणार्थं हि तत् स्मृतम् ॥
अतिदोहे ऽतिदमने संघाते चैव योजने ।
बद्ध्वा शृङ्खलपाशैश् च मृते पादोनम् आचरेत् ॥

इति पालनाकरणादिनोपेक्षयां क्वचित् प्रायश्चित्तविशेषस् तेनैवोक्तः-

जलौघपल्वले मग्ना मेघविद्युद्धतापि वा ।
श्वभ्रे वा पतिताकस्माच् छ्वापदेनापि भक्षिता ॥
प्राजापत्यं चरेत् कृच्छ्रं गोस्वामी व्रतम् उत्तमम् ।
शीतवाताहता वा स्याद् उद्बन्धनहतापि वा ॥
शून्यागार उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥ इति ।

इदं तु कार्यान्तरविरहे ऽप्य् उपेक्षायां वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्व् अर्धम्,

पल्वलौघमृगव्याघ्रश्वापदादिनिपातने ।
श्वभ्रप्रपातसर्पाद्यैर् मृते कृच्छ्रार्धम् आचरेत् ॥
उपालत्वात् तु कृच्छ्रं स्याच् छून्यागार उपप्लवे ॥

इति विष्णुस्मरणात् । तथा सत्य् अपि व्यापादने क्वचिद् उपकारार्थप्रवृत्तौ वचनाद् दोषाभावः । यथाह संवर्तः ।

यन्त्रणे गोचिकित्सार्थे मूढगर्भविमोचने ।
यत्ने कृते विपत्तिः स्यान् न स पापेन लिप्यते ॥ इति ।

यन्त्रणं व्याध्यादिनिर्यातनार्थं संदंशाङ्कुशादिप्रवेशनम् । तथा,

औषधं स्नेहम् आहारं ददद् गोब्राह्मणे द्विजः ।
दीयमाने विपत्तिश् चेन् न स पापेन लिप्यते ॥
ग्रामघाते शरौघेण वेश्मभङ्गान् निपातने ।
दाहच्छेदशिराभेदप्रयोगैर् उपकुर्वताम् ।
द्विज्æन्æं गोहितार्थं च प्रायश्चित्तं न विद्यते ॥

अत्र पराशरो ऽप्य् आह ।

ग्रामघाते शरौघेण वेश्मभङ्गान् निपातने ।
अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥ इति ॥

तथा,

कूपखाते च धर्मार्थे गृहदाहे च या मृता ।
ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥ इति ॥

इदं तु बन्धनरहितस्यैव पशोः कथञ्चिद् गृहादिदाहेन मृतविषयम् । इतरथा त्व् आपस्तम्बेनोक्तम् ।

कान्तारेष्व् अथ दुर्गेषु गृहदाहे खलेषु च ।
यदि तत्र विपत्तिः स्यात् पाद एको विधीयते ॥ इति ।

तथा ऽस्थ्यादिभङ्गे मरनाभावे ऽपि क्वचित् प्रायश्चित्तम् उक्तम् ।

अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा ।
पाटनं दन्तशृङ्गाणां मासार्धं तु यवान् पिबेद् ॥ इति ।

यत् त्व् आङ्गिरसं,

शृङ्गभङ्गे ऽस्थिभङ्गे वा चर्मनिर्मोचने ऽपि वा ।
दशरात्रं पिबेद् वज्रं स्वस्थापि यदि गौर् भवेत् ॥

इति वज्रशब्दवाच्यं क्षीरादिवर्तनम् उक्तं, तद् अशक्तविषयम् । इदं च प्रायश्चित्तं गोस्वामिने व्यापन्नगोसदृशीं गां दत्त्वैव कार्यम् । यदाह पराशरः ।

प्रमापणे प्राणभृतां दद्यात् तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीद् यमः ॥ इति ।

मनुर् अपि ।

यो यस्य हिंस्याद्द्रव्याणि ज्ञानतोऽज्ञानतोऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥ इति । (म्ध् ८.२८८)

एतत् तु पूर्वोक्तं प्रायश्चित्तजातं ब्राह्मणस्यैव हन्तुर् वेदितव्यम् । क्षत्रियादेस् तु हन्तुर् बृहद्विष्णुना विशेषो ऽभिहितः-

विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।
वैश्ये ऽर्धं पाद एकस् तु शूद्रजातिषु शस्यते ॥ इति ।

यत् त्व् अङ्गिरोवचनम्,

पर्षद् या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥

इति, तत् प्रातिलोम्येन वाग्दण्डपारुष्यादिविषयम् । तथा स्त्रीबालवृद्धादीनां त्व् अर्धं, अनुपनीतस्य बालस्य पाद इति च प्रागुक्तम् अनुसंधेयम् ॥ स्त्रीणां पराशरेण विशेषो ऽभिहितः ।

वपनं नैव नारीणां नानुव्रज्या जपादिकम् ।
न गोष्ठे शयनं तासां न वसीरन् गवाजिनम् ॥
सर्वान् केशान् समुद्धृत्य छेदयेद् अङ्गुलद्वयम् ।
सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥ इति ।

पुरुषेषु च विशेषः संवर्तेन दर्शितः ।

पादे ऽङ्गरोमवपनं द्विपादे श्मश्रुणो ऽपि च ।
त्रिपादे तु शिखावर्जं सशिखं तु निपातने ॥ इति ।

पादप्रायश्चित्तार्हस्य कण्ठाद् अधस्तनाङ्गरोम्णाम् एव वपनम् । अर्धप्रायश्चित्तार्हस्य तु श्मश्रूणाम् अपि । पादोनप्रायश्चित्तार्हस्य पुनः शिरोगतानाम् अपि शिखावर्जितानाम् । पादचतुष्टयार्हस्य तु सशिखस्य सकलकेशजातस्येति । एवम् एतद् दिगवलम्बनेनान्येषाम् अपि स्मृतिवचसा विषयो निरूपणीयः ॥ ३.२६३ ॥ ३.२६४ ॥

**इति गोवधप्रायश्चित्तप्रकरणम् **

अधुनान्येषाम् उपपातकानां प्रायश्चित्तम् आह ।

**उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा । ३.२६५अब् **
पयसा वापि मासेन पराकेणाथवा पुनः ॥ ३.२६५च्द्

एवम् उक्तेन गोवधव्रतेन मासं पञ्चगव्याशनादिनान्येषां व्रात्यतादीनाम् उपपातकानां शुद्धिर् भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसाम् अर्थ्याद् गोचर्मवसनगोपरिचर्यादिभिर् गोवधासाधारणैः कतिपयैर् न्यूनत्वम् अवगम्यते । एतच् च व्रतचतुष्टयम् अकामकारे शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु,

एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ (म्ध् ११.११८)

इति मनूक्तं त्रैमासिकं द्रष्टव्यम् । अत एव वचनाद् अयं प्रायश्चित्तातिदेशः सर्वेषाम् उपपातकगणपठितानाम् उक्तप्रायश्चित्तानाम् अनुक्तप्रायश्चित्तानां चावकीर्णिवर्जितानाम् अविशेषेन वेदितव्यः । अवकीर्णिनस् तु प्रतिपदोक्तम् एव ।

ननु अनुक्तप्रायश्चित्तविषयतयैवातिदेशस्य युक्ता, इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् ।
मैवम् । तथा सत्य् उक्तनिष्कृतीनाम् उपपातकगणपाठो ऽनर्थकः स्यात् । यदि परम् उपपातकमध्ये सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरम् उच्यते । यथा, “अयाज्यानां च याजनं । त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजको ऽविचरन्न् अपि” इति स एव विषयः केवलं परिह्रियते न पुनर् विशेषतः पठितस्यैवान्यत्रापि विशेषत एव यत्र प्रायश्चित्तम् उच्यते सो ऽपि यथा “इन्धनार्थं द्रुमच्छेदः” “वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम्” इति । अतो व्रात्यतादिषु अस्मिन् शास्त्रे शास्त्रान्तरे वा दृष्टैः प्रायश्चित्तैः सह “उपपातकशुद्धिः स्याद् एवम्” इत्यादिना प्रतिपादितव्रतचतुष्टयस्य समविषयताकल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि च स्मृत्यन्तरदृष्टप्रायश्चित्तानि पाठक्रमेण व्रात्यादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदम् उक्तम्,
येषां द्विजानां सावित्री नानूच्येत यथावधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥ (म्ध् ११.१९२)

इति, यच् च यमेनोक्तम्,

सावित्री पतिता यस्य दशवर्षाणि पञ्च च ।
सशिखं वपनं कृत्वा व्रतं कुर्यात् समाहितः ॥
एकविंशतिरात्रं च पिबेत् प्रसृतियावकम् ।
हविषा भोजयेच् चैव ब्राह्मणान् सप्त पञ्च वा ॥
ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥

इति, तद् उभयम् अपि याज्णवल्क्यीयमासपयोव्रतविषयम् । यत् तु वसिष्ठेनोक्तम्- “पतितसावित्रीक उद्दालकव्रतं चरेत् । द्वौ मासौ यावकेन वर्तयेन् मासं पयसा पक्षम् आमिक्षयाष्टरात्रण् घृतेन षड्रात्रम् अयाचितेन त्रिरात्रम् अबभक्षो ऽहोरात्रम् उपवसेत् । अश्वमेधावभृथं गच्छेद् व्रात्यस्तोमेन वा यजेत” (वध् ११.७६–७८) इति । अत्रेयं व्यवस्था । यस्योपनेत्राद्यभावेन तत्कालातिक्रमस् तस्य याज्ञवल्क्यीयव्रतानाम् अन्यतमं शक्त्यपेक्षया भवति । अनापद्य् अतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदशवर्षाद् ऊर्ध्वम् अपि कियत्कालातिक्रमे तूद्दालकव्रतं व्रात्यस्तोमो वेति । येषां तु पित्रादयो ऽप्य् अनुपनीतास् तेषाम् आपस्तम्बोक्तम्- “यस्य पितापितामहाव् अनुपेतौ स्यातां तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपितामहादेर् नानुस्मर्यत उपनयनं तस्य द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यम्” (च्फ़्। आप्ध् १.१.३२, १.२.५) ।

(इति व्रात्यता)[^४८]

तथा स्तेये ऽप्य् उपपातकसाधारणप्राप्तव्रतचतुष्टयापवादकं प्रायश्चित्तं मनुनोक्तम् ।

धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः ।
सजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ॥ इति । (म्ध् ११.१६३)

द्विजोत्तमस्य सजातीयो ब्राह्मण एवातो विप्रपरिग्रहे ब्राह्मणस्य हर्तुर् इदम् । क्षत्रियादेस् त्व् अल्पं कल्प्यम् । अथ “अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य, द्विगुणोत्तराणीतरेषां प्रतिवर्णं, विदुषो ऽतिक्रमे दण्डभूयस्त्वम्” (ग्ध् १२.१५–१७) इति क्षत्रियादेर् अपहर्तुर् दण्डाल्पत्वस्य दर्शनात्, तथा,

विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।

इति पादपादहान्या प्रायश्चित्तदर्शनात् । तथा क्षत्रियादिपरिग्रहेणापि दण्डानुसारेण प्रायश्चित्ताल्पत्वं कल्प्यम् । अतः क्षत्रियपरिग्रहे चौर्ये षाण्मासिकम्, वैश्यपरिग्रहे त्रैमासिकं गोवधव्रतम्, शूद्रापरिग्रहे चान्द्रायणं कल्प्यम् । एवम् उत्तरत्राप्य् ऊहनीयम् । इदं च दशकुम्भधान्यापहारविषयम्, अधिके तु,

धान्यं दशभ्यः कुम्भेभ्यो हरतो दम उत्तमः । (म्ध् ८.३२०)
पलसहस्राद् अधिके वधः । (च्फ़्। म्ध् ८.३२१)

इति वधदर्शनात् । कुम्भश् च पञ्चसहस्रपलपरिमाणः । धान्यसाहचर्याद् अन्नधने चैतावद्धान्यपरिमिते वेदितव्ये । अन्नशब्देन तन्दुलादिकम् अभिधीयते, धनशब्देन ताम्ररजतादिकम् । इदं तु प्रायश्चित्तं कामकारविषयम् । अकामतस् तु त्रैमासिकं गोवधव्रतम् । तथा,

मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापीजलानां च शुद्धिश् चान्द्रायणेन तु ॥ (म्ध् ११.१६४)

इति सार्धशतद्वयपणलभ्यजलापहार इदं चान्द्रायणं प्राप्तम् अपीतरगोवधव्रतनिवृत्त्यर्थं विधीयते,

तावन्मूल्यजलापहारे पानीयस्य तृणस्य च ।
तन्मूल्याद् द्विगुणो दण्डः ।

इति पञ्चशतदण्डविधानात्, तावत्पणयोर् दण्डचान्द्रायणयोर् गोवधादौ सहचरितत्वात्, तथा,

कृच्छ्रातिकृच्छ्रैन्दवयोः पणपञ्चशतं तथा ।

इति चान्द्रायणविषये पञ्चशतपणदण्डविधानाच् च । एतच् च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् । (ब्राह्मसंबन्धिद्रव्यापहारे तु,

निक्षेपस्यापहरणं नराश्वरजतस्य च ।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ (म्ध् ११.५८)

इति द्रष्टव्यम् ) । तथा,

द्रव्याणाम् अल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।
चरेत् सांतपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ॥ (म्ध् ११.१६५)

इत्य् अनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहारविशेषेण स्तेयसामान्योपपातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमूल्यस्य पञ्चदशांशार्धत्रपुसीसाद्यपहारे प्रायश्चित्तम्, चान्द्रायणपञ्चदशांशत्वात् तस्य । तथा द्रव्यविशेषेणाप्य् उपपातकसामान्यप्राप्तव्रतापवादः-

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् । इति । (म्ध् ११.१६६)

एकवारभोजनपर्याप्तभक्षभोज्यापहार इदम् । द्वित्रिवारभोजनपर्याप्ताहारे त्रिरात्रम् । यथाह पैठीनसिः- “भक्ष्यभोज्यान्नस्योदरपूरणमात्रहरणे त्रिरात्रम् एकरात्रं वा पञ्चगव्याहारश् च” इति । यानादीनाम् अप्य् एतत्साहचर्याद् एतावन्मूल्यानाम् एवापहरणे एतत् प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्तस्यापि लघुगुरुभावः कल्पनीयः । तथा,

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
तैलचर्मामिषाणां च त्रिरात्रं स्याद् अभोजनम् ॥ इति । (म्ध् ११.१६७)

एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात्, तत्त्रिगुणमूल्यार्धाणाम् एतत् प्रायश्चित्तम् । तथा,

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयस्कांस्योपलानां च द्वादशाहं ँँकणान्नताँँ ॥ इति । (म्ध् ११.१६८)

अत्रापि भक्ष्यादिवत् द्वादशगुणप्रायश्चित्तदर्शनात्, तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्यपहार एतत् प्रायश्चित्तं द्रष्टव्यम् । तथा,

कार्पासकीटजौर्णानां द्विखुरैकखुरस्य च ।
पक्षिगन्धौषधीनां च रज्ज्वाश् चैव त्र्यहं पयः ॥ इति । (म्ध् ११.१६९)

अत्रापि भक्ष्यादित्रिगुणप्रायश्चित्तदर्शनात्, तत्त्रिगुणमूल्यानाम् अपहार एवैतत् प्रायश्चित्तं ज्ञेयम् । ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्ताल्पत्वमहत्त्वं कल्प्यम् एव । इदं च स्तेयप्रायश्चित्तम् अपहृतद्रव्यदानोत्तरकालम् एव द्रष्टव्यम् । यथाह विष्णुः-

दत्त्वैवापहृतं द्रव्यं स्वामिने व्रतम् आचरेत् । इति ।

(इति स्तेयम्)

ऋणापाकरणे च “पुत्रपौत्रैर् ऋणं देयम्” (य्ध् २.५०) इति विहितं तस्यानपाकरणे तथा वैदिकस्य च “जायमानो वै ब्राह्मणः” इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च “उपपातकशुद्धिः स्याद् एवम्” इत्यादिनोपपातकसामान्यविहितं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् । प्रायश्चित्तान्तरम् अप्य् अत्र मनुनोक्तम्-

इष्टिं वैश्वानरीं चैव निर्वपेद् अब्दपर्यये ।
लूप्तानां पशुसोमानां निष्कृत्यर्थम् असंभवे ॥ इति । (म्ध् ११.२७)

अब्दपर्यये संवत्सरान्ते ।

(इति ऋणानपाकरणम्)

तथाधिकृतस्यानाहिताग्नित्वे ऽप्य् एतद् एव व्रतचतुष्टयं वत्सराद् ऊर्ध्वम् आपदि शक्त्यपेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक् पुनर् वत्सरात् कार्ष्णाजिनिर् विशेषम् आह ।

काले त्व् आधाय कर्माणि कुर्याद् विप्रो विधानतः ।
तद् अकुर्वंस् त्रिरात्रेण मासि मासि विशुध्यति ॥
अनाहिताग्नौ पित्रादौ यक्ष्यमाणः सुतो यदि ।
स हि व्रात्येन पशुना यजेत् तन्निष्क्रयाय तु ॥ इति ।

एकाग्नेर् अपि विशेषस् तेनैवोक्तः ।

कृतदारो गृहे ज्येष्ठो यो नादध्याद् उपासनम् ।
चान्द्रायणं चरेद् वर्षं प्रतिमासम् अहो ऽपि वा ॥

(इत्य् अनाहिताग्निता)

[^४९]तथा अपण्यानां विक्रये च स्मृत्यन्तरे प्रायश्चित्तविशेष उक्तः । यथाह हारीतः- “गुडतिलपुष्पमूलफलपक्वान्नविक्रये सोमपानं सौम्यः कृच्छ्रः । लाक्षालवणमधुमांसतैलक्षीरदधितक्रघृतगन्धचर्मवाससाम् अन्यतमविक्रये चान्द्रायणम् । तथा । ऊर्णाकेशकेसरिभूधेनुवेश्माश्मशस्त्रविक्रये च भक्ष्यमांसस्नाय्वस्थिशृङ्गनखशुक्तिविक्रये तप्तकृच्छ्रः । हिङ्गुगुग्गुलुहरितालमनःशिलाञ्जनगैरिकक्षारलवणमणिमुक्ताप्रवालवैणवमृन्मयेषु च तप्तकृच्छ्रः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिषवणस्नाय्य् अधःशायी चतुर्थकालाहारो दशसहस्रं जपन् संवत्सरेण पूतो भवति । हीनमानोन्मानसंकरसंकीर्णविक्रये च” इति । एवम् अन्यैर् अपि शङ्खविष्ण्वाद्युक्तवचनैर् यत्र प्रायश्चित्तविशेषो नोक्तस् तत्रानापादि मानवम् उपपातकसाधारणतः प्राप्तं त्रैमासिकम् । आपदि तु याज्ञवल्क्यीयं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् ॥

(इत्य् अपण्यविक्रयः)

तथा परिवेत्तरि च वसिष्ठेन प्रायश्चित्तविशये उक्तः- “परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर् निविशेत तां चैवापयच्छेत” (वध् २०.८) इति । परिविविदानः परिवेत्तोच्यते । तत्स्वरूपं च प्राग् व्याख्यातम् । असौ कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै ज्येष्ठाय तां स्वोढां दत्त्वा ब्रह्मचर्याहृतभैक्षवद् गुरुपरिभवपरिहारार्थं निवेद्य पुनर् उद्वहेत् । काम् इत्य् अपेक्षायाम् उक्तं “ताम् एवोपयच्छेत” इति । ताम् एव स्वोढां ज्येष्ठाय निवेदितां तेन चानुज्ञाताम् उद्वहेत् । यत् तु हारीतेनोक्तम्, “ज्येष्ठे ऽनिविष्टे कनीयान् निविशमानः परिवेत्ता भवति परिवित्तिर् ज्येष्ठः परिवेदनी कन्या परिदायी दाता परियष्टा याजकस् ते सर्वे पतिताः संवत्सरं प्राजापत्येन कृच्छेण पावयेयुः” इति, यद् अपि शङ्खेनोक्तम्, “परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम्” इति, तद् उभयम् अपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम्, प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्ताम् एव परिणयति तदा मानवं त्रैमासिकम् । पूर्वोक्तौ कृच्छ्रातिकृच्छ्रौ याज्ञवल्क्यीयं च व्रतचतुष्टयम् अज्ञातविषयम् । यमेनाप्य् अत्र विशेष उक्तः-

कृच्छ्रौ द्वयोः पारिवेद्ये कन्यायाः कृच्छ्र एव च ।
अतिकृच्छ्रं चरेद् दाता होता चान्द्रायणं चरेत् ॥ इति ।

एतच् च पर्याहिताग्न्यादीनाम् अपि समानम्, एकयोगनिर्देशात् । यथाह गौतमः- “परिवित्तिपरिवेत्तृपर्याहितपर्याधात्रग्रेदिधिषूदिधिषूपतीनां संवस्तरं प्राकृतं ब्रह्मचर्यम्” (नोत् इन् ग्ध्) इति । अत एव वसिष्ठेनाग्रेदिधिषूपत्यादाव् इदम् एव प्रायश्चित्तम् उक्तम्- “अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत । दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्तां पुनर् निविशेत” (वध् २०.९–१०) इति । अग्रेदिधिष्वादेर् लक्षणं स्मृत्यन्तरे ऽभिहितम्-

ज्येष्ठायां यद्य् अनूढायां कन्यायाम् ऊह्यते ऽनुजा ।
या साग्रेदिधिषूर् ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥ इति ।

तत्राग्रेदिधिषूपतिः प्राजापत्यं कृत्वा ताम् एव ज्येष्ठां पश्चाद् अन्येनोढाम् उद्वहेत् । दिधिषूपतिस् तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढ्रे दत्त्वान्याम् उद्वहेद् ।

(इति परिवेदनम्)

तथा भृतकाध्यापकभृतकाध्यापितयोश् च पयसा ब्रह्मसुवर्चलां पिबेद् इत्य् अधिकृत्य विष्णुनोक्तम्-

भृतकाध्यापनं कृत्वा भृतकाध्यापितस् तथा ।
अनुयोगप्रदानेन त्रीन् पक्षान् नियतः पिबेत् ॥ इति ।

उत्कर्षहेतोर् अधीयानस्य किं पठसि नाशितं त्वयेत्य् एवं पर्यनुयोगो ऽनुयोगप्रदानम् । अत एव स्मृत्यन्तरे,

दत्तानुयोगान् अध्येयुः पतितान् मनुर् अब्रवीत् ।

इत्य् उक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्त्यपेक्षया विकल्पः ।

इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् ।

तथा पारदार्ये ऽप्य् उपपातकसामान्यप्राप्तमानवत्रैमासिकस्य याज्ञवल्क्यव्रतचतुष्टयस्यापि गुरुदारादाव् अपवाद उक्तः । तथान्यत्रापि गौतमादिभिः पारदार्यविशेषेणापवाद उक्तः । यथाह गौतमः- “द्वे परदारे त्रीणि श्रोत्रियस्य” (ग्ध् २२.२९–३०) इति । तथा वार्षिकं प्राकृतं ब्रह्मचर्यं प्रस्तुत्य तेनैवेदम् अभिहितम्- “उपपातकेषु चैवम्” (ग्ध् २२.३४) इति । तत्रेयं व्यवस्था- ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यं, तस्मिन्न् एव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम्, तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यम्, यद् वा श्रोत्रियपत्न्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम्, तादृग्विधायाम् एव क्षत्रियायां द्वैवार्षिकम्, तादृश्याम् एव वैश्यायां वार्षिकम् इति व्यवस्था । एतत्समानदृष्ट्या शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्यं कल्पनीयम् । अत एव शङ्खेन “वैश्याम् अवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्, क्षत्रियायां द्वे वर्षे, त्रीणि ब्राह्मण्यां वैश्यावच् च शूद्रायां ब्राह्मणपरिणीतायाम्” इति वर्णक्रमेण ह्रासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिस्त्रीषु क्रमेण द्विवार्षिकैकवार्षिकैकषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूद्र्योर् वार्षिकषाण्मासिके । शूद्रस्य शुद्र्यां परभार्यायां षाण्मासिकम् एव । यत् त्व् आपस्तम्बीयम् “सवर्णायाम् अनन्यपूर्वायां सकृत् संनिपाते पादः, पतत्य् एवम् अभ्यासे पादः पादश्, चतुर्थे सर्वम्” (आप्ध् २.२७.११–१३) इति, तद् गौतमीयत्रिवार्षिकेण समानविषयम् । अनन्यपूर्विकायां तु चतुरभ्यासे द्वादशवार्षिकप्रायश्चित्तविधानाद् एकस्याम् एव गमनाभ्यासे नेदं प्रायश्चित्तं किं तु प्रतिगमनं पादन्यूनं कल्प्यम् । एतत् सर्वं कामकारविषयम् । अकामतः पुनर् एतद् एवार्धकॢप्त्या पूर्वोक्तविषये योजनीयम् । अनृतुकाले तु जातिमात्रब्राह्मण्यां कामतो गमने मानवं त्रैमासिकम् । जातिमात्रक्षत्रियादिस्त्रीषु पुनर् अस्मिन्न् एव विषये तदीयान्य् एव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि, क्षत्रियादीनां च क्षत्रियादिस्त्रीषु द्वैमासिकादीन्य् एव । अकामतः पुनर् एतासु त्रैवर्णिकानां याज्ञवल्कीयम् ऋषभैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासव्रतम् एवार्धकॢप्त्या योजनीयम् । अत एव संवर्तः ।

शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धम् एव वा ।
गोमूत्रयावकाहारस् तिष्ठेत् तत्पापमुक्तये ॥ इति ।

अकामतो ऽर्धमासिकम् इत्य् अभिप्रेतम् । “ब्राह्मणश् चेदं प्रेक्षापूर्वकं ब्राह्मणदारान् अभिगच्छेत् तन्निवृत्तधर्मकर्मणः कृच्छ्रो ऽनिवृत्तधर्मकर्मणो ऽतिकृच्छ्रः” इति तद् ब्राह्मणभार्यायां शूद्रायां द्रष्टव्यम्, द्विजातिस्त्रीषु वा विप्रोढासु द्विस्त्रिर्व्यभिचरितासु अबुद्धिपूर्वगमने वा । तथा च संवर्तः ।

विप्राम् अस्वजनां गत्वा प्राजापत्यं समाचरेत् । इति ।

कामतस् तु,

राज्ञीं प्रव्रजितां धात्रीं साध्वीं वर्णोत्तमाम् अपि ।
क्र्च्छ्रद्वयं प्रकुर्वीत सगोत्राम् अभिगम्य च ॥

इति यमोक्तं कृच्छ्रद्वयं द्रष्टव्यम् । चतुराद्यभ्यासे तु व्यभिचारस्य स्वैरिण्यां वृषल्याम् अवकीर्णः सचैलस् नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां च चतुर्थकालाहारो ब्राह्मणान् भोजयेद् यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रोपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रोपोषितो गां दद्याद् गोष्व् अवकीर्णः प्राजापत्यं चरेत् । “अनूढायाम् अवकीर्णः पलालभरं सीसमाषकं च दद्यात्” इति शङ्खोक्तं वेदितव्यम् । चतुराद्यभ्यासविषयत्वं चास्य,

चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी मता ।

इति स्मृत्यन्तरादव् अगम्यते । अत्रैव विषये षट्त्रिंशन्मते ऽप्य् उक्तम्-

ब्राह्मणीं बन्धकीं गत्वा किंचिद् दद्याद् द्विजातये ।
राजन्यां चेद् धनुर् दद्याद् वैश्यां गत्वा तु चैलकम् ॥
शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये ।
दिवसोपोषितो वा स्याद् दद्याद् विप्राय भोजनम् ॥ इति

[^५०]इदं प्रायश्चित्तजातं गर्भानुत्पत्तिविषयम् । तदुत्पत्तौ तु यद्विशेषेण यत्प्रायश्चित्तम् उक्तं तद् एव तत्र द्विगुणं कुर्यात्,

गमने तु व्रतं यत् स्याद् गर्भे तद्द्विगुणं चरेत् ।

इत्य् उशनःस्मरणात् । शूद्र्यां गर्भम् आदधतश् चतुर्विंशतिमते विशेष उक्तः- “वृषल्याम् अभिजातस् तु त्रीणि वर्षाणि चतुर्थकालसमये नक्तं भुञ्जीत” इति । यत् तु मनुवचनम्,

शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ (म्ध् ३.१७)

इति तत् पापगौरवख्यापनपरम् । प्रातिलोम्यव्यवाये तु सर्वत्र पुरुषस्य वध एव,

प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ।

इति वचनात् । यत् तु वृद्धप्रचेतोवचनम्,

शूद्रस्य ब्राह्मणीं मोहाद् गच्छतः शुद्धिम् इच्छतः ।
पूर्णम् एतद् व्रतं देयं माता यस्माद् धि तस्य सा ॥
पादहान्यान्यवर्णासु गच्छतः सार्ववर्णिकम् ॥

इति द्वादशवार्षिकातिदेशकं, तत् स्वभार्याभ्रान्त्या गच्छतो वेदितव्यम्, मोहाद् इति विशेषणोपादानात् । यत् तु संवर्तवचनम्,

कथंचिद् ब्राह्मणीं गच्छेत् क्षत्रियो वैश्य एव वा ।
कृच्छ्रं सान्तपनं वा स्यात् प्रायश्चित्तं विशुद्धये ॥
शूद्रस् तु ब्राह्मणीं गच्छेत् कथंचित् काममोहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥

तद् अत्यन्तव्यभिचरितब्राह्मणीविषयम् । अन्त्यजागमने ऽपि प्रायश्चित्तं बृहत्संवर्तेनोक्तम्-

रजकव्याधशैलूषवेणुचर्मोपजीविनाम् ।
एतास् तु ब्राह्मणो गत्वा चरेच् चान्द्रायणद्वयम् ॥ इति ।

इदं ब्राह्मणस्य कामतः सकृद् गमनविषयम् । क्षत्रियादीनां तु पादपादहीनं कल्प्यम् । अत्रैवापस्तम्बेनोक्तम्-

म्लेच्छी नटी चर्मकारी रजकी बुरुडी तथा ।
एतासु गमनं कृत्वा चरेच् चान्द्रायणद्वयम् ॥ इति ।

अन्त्यजाश् च तेनैव दर्शिताः ।

रजकश् चर्मकारश् च नटो बुरुड एव च ।
कैवर्तमेदमिल्लाश् च सप्तैते ह्य् अन्त्यजाः स्मृताः ॥ इति ।

ये तु चाण्डालादयो ऽन्त्यावसायिनस् तत्स्त्रीगमने गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शितम् । एतासां चान्त्यजस्त्रीणां मध्ये यद् एकस्यां व्यवाये प्रायश्चित्तम् अभिहितं तत् सर्वासु भवति, सर्वासां सदृशत्वात् । यथाह उशना ।

बहूनाम् एकधर्माणाम् एकस्यापि यद् उच्यते ।
सर्वेषां तद् भवेत् कार्यम् एकरूपा हि ते स्मृताः ॥ इति ।

अकामतस् तु गमने,

चण्डालमेदश्वपचकपालव्रतचारिणाम् ।
अकामतः स्त्रियो गत्वा पराकव्रतम् आचरेत् ॥

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । यच् च संवर्तवचनम्,

रजकव्याधशैलूषवेणुचर्मोपजीविनाम् ।
स्त्रियो विप्रो यदा गच्छेत् कृच्छ्रं चान्द्रायणं चरेत् ॥

इति तद् अप्य् अकामविषयम् । यत् तु शातातपेनोक्तम्,

कैवर्तां रजकीं चैव वेणुचर्मोपजीविनीम् ।
प्राजापत्यविधानेन कृच्छ्रेणैकेन शुध्यति ॥

इति तद् रेतःसेकात् प्राङ् निवृत्तिविषयम् । यत् तु उशनसोक्तम्,

कपालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।
ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवद्वयम् ॥

इति तद् अभ्यासविषम् । यदा तु चाण्डाल्यादिषु गच्छतो गर्भो भवति तदा,

चाण्डाल्यां गर्भम् आरोप्य गुरुतल्पव्रतं चरेत् ।

इत्य् उशनसोक्तं द्वादशवार्षिकं द्रष्टव्यम् । यत् तु,

अन्त्यजायां प्रसूतस्य निष्कृतिर् न विधीयते ।
निर्वासनं कृताङ्कस्य तस्य कार्यम संशयम् ॥

इत्य् आपस्तम्बवचनं, तत् कामकारविषयम् । स्त्रीणाम् अपि सवर्णानुलोमव्यवाये यत् पुरुषस्योक्तं त्रैवार्षिकादि तद् एव भवति,

यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् । (म्ध् ११.१७७)

इति मनुस्मरणात् । प्रातिलोम्येन व्यवाये एव परस्त्रीपुंसयोः प्रायश्चित्तभेदः । यथाह वसिष्ठः- “शूद्रश् चेद् ब्राह्मणीम् अभिगच्छेद् वीरणैर् वेष्टयित्वा शूद्रम् अग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरम् आरोप्य महापथम् अनुव्राजयेत् पूता भवतीति विज्ञायते” (वध् २१.१) इति । तथा “वैश्यश् चेद् ब्राह्मणीम् अभिगच्छेल् लोहितदर्भैर् वेष्टयित्वा वैश्यम् अग्नौ प्रास्येद् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरम् आरोप्य महापथम् अनुव्राजयेत् पूता भवतीति विज्ञायते” (वध् २१.२) इति । तथा “राजन्यश् चेद् ब्राह्मणीम् अभिगच्छेच् छरपत्रैर् वेष्टयित्वा राजन्यम् अग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां गौरखरम् आरोप्य महापथम् अनुसंव्राजयेत् पूता भवतीति विज्ञायत” (वध् २१.३) इति । एवं वैश्यो राजन्यां शूद्रश् च राजन्यावैश्ययोर् इति । “पूता भवति” इति वचनाद्, राजवीथिपरिव्राजनम् एव दण्डरूपं प्रायश्चित्तान्तरनिरपेक्षं शुद्धिसाधनम् इति दर्शयति ॥

ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये प्रायश्चित्तान्तरम् अप्य् उक्तं संवर्तेन-

ब्राह्मण्य् अकामा गच्छेच् चेत् क्षत्रियं वैश्यम् एव वा ।
गोमूत्रयावकैर् मासात् तदर्धाच् च विशुध्यति ॥ इति ।

कामतस् तु तद्द्विगुणं कर्तव्यम्, “कामात् तद्द्विगुणं भवेत्” इति वचनात् । षट्त्रिंशन्मते ऽपि “ब्राह्मणी क्षत्रियवैश्यसेवायाम् अतिकृच्छ्रं कृच्छ्रातिकृच्छ्रौ चरेत् । क्षत्रिययोषित् ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रार्धं प्राजापत्यम् अतिकृच्छ्रम् । वैश्ययोषिद् ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादं कृच्छ्रार्धं प्राजाप्त्यम् । शूद्रायाः शूद्रसेवने प्राजापत्यम् । ब्राह्मणराजन्यवैश्यसेवायां त्व् अहोरात्रं त्रिरात्रं कृच्छ्रार्धम्” इति । शूद्रसेवायां तु विशेषो बृहत्प्रचेतसोक्तः ।

विप्रा शूद्रेण संपृक्ता न चेत् तस्मात् प्रसूयते ।
प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥

एतद् अनिच्छन्त्यां स्वपतिभ्रान्त्या वा वेदितव्यम् ।

चान्द्रायणे द्वे कृच्छ्रश् च विप्राया वैश्यसेवने ।
कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥
क्षत्रिया शूद्रसंपर्के कृच्छ्रं चान्द्रायणद्वयम् ।
चान्द्रायणं सकृच्छ्रं तु चरेद् वैश्येन संगता ॥
शूद्रं गत्वा चरेद् वैश्या कृच्छ्रं चान्द्रायणोत्तरम् ।
आनुलोम्ये प्रकुर्वीत कृच्छ्रं पादावरोपितम् ॥ इति ।

प्रजातायास् तु चतुर्विंशतिमते विशये उक्तः ।

विप्रगर्भे पराकः स्यात् क्षत्रियस्य तथैन्दवम् ।
ऐन्दवश् च पराकश् च वैश्यस्याकामकारतः ॥
शूद्रगर्भे भवेत् त्यागश् चाण्डालो जायते यतः ।
गर्भस्रावे धातुदोषैश् चरेच् चान्द्रायणत्रयम् ॥ इति ।

अकामकारत इति विशेषणोपादानात् कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । यदा त्व् अनिःसृतगर्भैव दशमासं स्थित्वा प्रजायते तदा प्रायश्चित्ताभावः,

ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ (वध् २१.१२)

इति वसिष्ठस्मरणात् । यदा त्व् आहितगर्भैव पश्चाच् छूद्रादिभिर् व्यभिचरति तदा गर्भपातशङ्कया प्रसवोत्तरकाल एव प्रायश्चित्तं कुर्यात्,

अन्तर्वत्नी तु या नारी समेताक्रम्य कामिना ।
प्रायश्चित्तं न कुर्यात् सा यावद् गर्भो न निःसृतः ॥
जाते गर्भे व्रतं पश्चात् कुर्यान् मासं तु यावकम् ।
न गर्भदोषस् तस्यास्ति संस्कार्यः स यथाविधि ॥

इति स्मृत्यन्तरदर्शनात् । यदा त्व् औद्धत्यात् प्रायश्चित्तं न कुर्वन्ति तदा नार्याः कर्णादिकर्तनम् इति द्रष्टव्यम् । अन्त्यजादिगमने ऽपि स्त्रीणां स्मृत्यन्तरे प्रायश्चित्तं दर्शितम् ।

रजकव्याधशैलूषवेणुचर्मोपजीविनः ।
ब्राह्मण्य् एतान् यदा गच्छेद् अकामाद् ऐन्दवत्रयम् ॥ इति ।

तथा चाण्डाल्याद्यन्त्यजागमने ऽपि,

चाण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा ।
ब्राह्मण्य् अकामतो गत्वा चान्द्रायणचतुष्टयम् ॥ इति ।

अकामत इति वचनात् कामतो द्विगुणं कल्प्यम् । तथा,

चाण्डालेन तु संपर्कं यदि गच्छेत् कथंचन ।
सशिखं वपनं कुर्याद् भुञ्जीयाद् यावकौदनम् ॥
त्रिरात्रम् उपवासः स्याद् एकरात्रं जले वसेत् ।
आत्मना संमिते कूपे गोमयोदककर्दमे ॥
तत्र स्थित्वा निराहारा सा त्रिरात्रं ततः क्षिपेत् ।
शङ्खपुष्पीलतामूलं पत्रं वा कुसुमं फलम् ।
क्षीरं सुवर्णसंमिश्रं क्वाथयित्वा ततः पिबेत् ॥
एकभक्तं चरेत् पश्चाद् यावत् पुष्पवती भवेत् ।
बहिस् तावच् च निवसेद् यावच् चरति तद् व्रतम् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
गोद्वयं दक्षिणां दद्याच् छुद्ध्यै स्वायंभुवो ऽब्रवीत् ॥ इति ।

एतद् अप्य् अकामविषयम् एव,“यदि गच्छेत् कथंचन” इति वचनात् । ऋष्यशृण्गेणाप्य् अन्त्यजव्यवाये प्रायश्चित्तान्तरम् उक्तम् ।

संपृक्ता स्याद् अथान्त्यैर् या सा कृच्छ्राब्दं समाचरेत् । इति ।

कामतः सकृद् गमने इदम् । यदा त्व् आहितगर्भाया एव पश्चाच् चाण्डालादिव्यवायस् तदा तेनैव विशेष उक्तः ।

अन्तर्वत्नी तु युवतिः संपृक्ता चान्त्ययोनिना ।
प्रायश्चित्तं न सा कुर्याद् यावद् गर्भो न निःसृतः ॥
न प्रचारं गृहे कुर्यान् न चाङ्गेषु प्रसाधनम् ।
न शयीत समं भर्त्रा न वा भुञ्जीत बान्धवैः ॥
प्रायश्चित्तं गते गर्भे विधिं कृच्छ्राब्दिकं चरेत् ।
हिरण्यम् अथ वा धेनुं दद्याद् विप्राय दक्षिणाम् ॥ इति ।

यदा तु कामतो ऽत्यन्तसंपर्कं करोति तदा,

अन्त्यजेन तु संपर्के भोजने मैथुने कृते ।
प्रविशेत् संप्रदीप्ते ऽग्नौ मृत्युना सा विशुध्यति ॥

इत्य् उशनसोक्तं द्रष्टव्यम् । यदा तूक्तं प्रायश्चित्तं न करोति तदा पुंलिङ्गेनाङ्कनीया वध्या वा भवेत्,

हीनवर्णोपभुक्ता या साङ्क्या वध्याथवा भवेत् ।

इति पराशरस्मरणात् ।

(इति पारदार्यप्रकरणम्)

तथा परिवित्तिप्रायश्चित्तानाम् अपि परिवेत्तृप्रायश्चित्तवद् व्यवस्था विज्ञेया । इयांस् तु विशेषः । परिवेत्तुर् यस्मिन् विषये कृच्छ्रातिकृच्छ्रौ तत्र परिवित्तेः प्राजापत्यम् इति, “परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् निविशेत तां चैवोपयच्छेत्” इति वसिष्ठस्मरणात् ।

(इति परिवित्तिप्रकरणम्)

वार्धुष्यलवणक्रययोस् तु मनुयोगीश्वरोक्तसामान्योपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ ३.२६५ ॥

लवणक्रयानन्तरं स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्ये पठितं तत्र प्रायश्चित्तान्तरम् अप्य् आह ।

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् । ३.२६६अब्
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ ३.२६६च्द्
वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम् । ३.२६७अब्
षण्मासाच् छूद्रहाप्य् एतद् धेनुर् दद्याद् दशाथ वा ॥ ३.२६७च्द्

एकम् अधिकं यस्मिन् सहस्रे तद् एकसहस्रं, तस्य पूरण एकसहस्रः, ऋषभ एकसहस्रो यासां गवां ताः ऋषभैकसहस्रास् ताः क्षत्रवधे दद्यात् । अथ वा बृहत्प्रायश्चित्तं ब्रह्महत्याव्रतं वर्षत्रयं कुर्यात् । वैश्यघाती पुनर् एतत् ब्रह्महत्याव्रतम् एकवर्षं चरेत् । गवाम् ऋषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् । यद् वा दशधेनूर् अचिरप्रसूताः सवत्सा दद्यात् । इदम् अकामतो जातिमात्रक्षत्रियादिवधविषयम्, “अकामतस् तु राजन्यं विनिपात्य” (म्ध् ११.१२८) इति प्रक्रम्यैतेषाम् एव प्रायश्चित्तानां मानवे ऽभिधानात् । दानतपसोश्च शक्त्यपेक्षया व्यवस्था । ईषद्वृत्तस्थयोस् तु विट्शूद्रयोः,

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥ (म्ध् ११.१२७)

इति मनूक्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । वृत्तशब्देन चात्र गुणादिकम् उच्यते,

गुरुपूजा घृणा शौचं सत्यम् इन्द्रियनिग्रहः ।
प्रवर्तनं हितानां च तत्सर्वं वृत्तम् उच्यते ॥

इति मनुस्मरणात् । यत् तु वृद्धहारीतवचनम्,

ब्राह्मणः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् ।
वैश्यं हत्वा चरेद् एवं व्रतं त्रैवार्षिकं द्विजः ॥
शूद्रं हत्वा चरेद् वर्षं वृषभैकादशाश् च गाः ॥

इति, तत् कामकारविषयम् । श्रोत्रियक्षत्रियादिवधे तु,

तुरीयोनं क्षत्रियस्य वधे ब्रह्महणि व्रतम् ।
अर्धं वैश्यवधे कुर्यात् तुरीयं वृषलस्य तु ॥

इति वृद्धहारीतोक्तं द्रष्टव्यम् । यत् तु वसिष्ठवचनम्, “ब्राह्मणो राजन्यं हत्वाष्टौ वर्षाणि व्रतं चरेत्, षड् वैश्यं, त्रीणि शूद्रम्” (वध् २०.३१–३३) इति, तद् अपि हारीतीयेन समानविषयम् । क्षत्रिये त्व् ईषद्गुणन्यून इत्य् एतावान् विशेषः । यदा तु श्रोत्रियो वृत्तस्थश् च भवति तदा पूर्वयोर् वर्णयोर् “यो वेदाध्यायिनं हत्वा” इत्य् आपस्तम्बोक्तं द्वादशवार्षिकं द्रष्टव्यम् । प्रारब्धयोगे त्व् अश्रोत्रिये क्षत्रियादौ व्यापादिते “यागस्थक्षत्रविड्घाती चरेद् ब्रह्मणि व्रतम्” (य्ध् ३.२५१) इति द्रष्टव्यम् । श्रोत्रिये पुनर् यागस्थे क्षत्रियादौ “ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम् ऋषभैकसहस्राश् च गा दद्यात्, वैश्यवधे त्रिवार्षिकम् ऋषभैकशताश् च गा दद्यात्, शूद्रवधे सांवत्सरिकम् ऋअभैकादशाश् च गा दद्याद्” (ग्ध् २२.१४–१६) इति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतच् चामतिपूर्वविषयम् । पूर्ववद् “अमतिपूर्वं चतुर्षु वर्णेषु प्रमाप्य द्वादश षट् त्रीन् संवस्तरं च व्रतान्य् आदिशेत् तेषाम् अन्ते गोसहस्रं च ततो ऽर्धं तस्यार्धम् अर्धं च दद्यात् सर्वेषाम् आनुपूर्व्येण” इति शङ्खस्मरणात् । इदं च द्वादशवार्षिकं गौतमीयविषयम् एव किंचिन्न्यूनगुणे क्षत्रिये गुणाधिकयोर् वैश्यशूद्रयोश् च द्रष्टव्यम् । स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वाभावाद् उपपातकसामान्यप्राप्तान्य् अपि प्रायश्चित्तान्य् अत्र योजनीयानि । तत्र दुर्वृत्तक्षत्रियादौ कामतो व्यापादिते मानवं त्रैमासिकं त्रैवार्षिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस् तु योगीश्वरोक्तं त्रिरात्रोपवाससहितम् ऋषभैकादशगोदानं मासं पञ्चगव्याशनं मासिकं च पयोव्रतं यथाक्रमेण योज्यम् । एतच् च प्राग् उक्तं व्रतजातं ब्राह्मणकर्तृके क्षत्रियादिवधे द्रष्टव्यम् ।

अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः । (म्ध् ११.१२८)

तथा,

ब्राह्मण (ओ?) राजन्यवधे षड्वार्षिकं । (ग्ध् २२.१४_

तथा,

ब्राह्मणः क्षत्रियं हत्वा । (वध् २०.३१)

इत्यादिषु मनुगौतमहारीतवसिष्ठवाक्येषु ब्राह्मणग्रहणात् क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पादन्यूनं द्रष्टव्यम्,

विप्रे तु सकलं देयं पादोनं क्षत्र्यिये स्मृतम् ।
वैश्ये ऽर्धम् एकपादस् तु शूद्रजातिषु शस्यते ॥

इति वृद्धविष्णुस्मरणात् । यत् तु,

पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥

इत्य् अङ्गिरोवचनं, तत् प्रातिलोम्येन वाग्दण्डपारुष्यविषयम् इत्य् उक्तं गोवधप्रकरणे । मूर्धावसिक्तादीनां वधे एतत् प्रायश्चित्तजातं न भवति, तेषां क्षत्रियादित्वाभावात् । अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रतकदम्बस्य वृद्धिह्रासौ कल्पनीयौ । दण्डस्य च वृद्धिह्रासौ दर्शितौ, “दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरे” इत्य् अत्र ॥ ३.२६६ ॥ ३.२६७ ॥

(इति क्षत्रियादिवधप्रायश्चित्तप्रकरणम्)

स्त्रीवधे प्रायश्चित्तम् आह ।

दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु । ३.२६८अब्
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥ ३.२६८च्द्

ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधारचर्मकोशं धनुः कार्मुकं बस्तं छागं अविं मेषं च विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्त्यजातिप्रसूतानां ब्राह्मण्यादीनाम् अकामतो वधविषयम् । कामतस् तु ब्रह्मगर्भ आह ।

प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः ।
अन्तरप्रभवानां च सूतादीनाम् चतुर्द्विषट् ॥ इति ।

ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश् चत्वारो वैश्याया द्वाव् इत्य् एवं यथार्थतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं व्यापादयति तदा किंचिद् देयम्, “वैशिके न किंचित्” (ग्ध् २२.२७) इति गौतमस्मरणात् । वैशिकेन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिद् एव देयं तच् च जलम्,

कोशं कूपे च विप्रे वा ब्राह्मण्याः प्रतिपादयेत् ।
वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥
शूद्रायाम् आविकं वैश्यां हत्वा दद्याज् जलं नरः ॥

इत्य् अङ्गिरःस्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गोवधप्रायश्चित्तानि यथार्हं योज्यानि ॥ ३.२६८ ॥

ईषद्व्यभिचरितब्राह्मण्यादिवधे विशेषम् आह ।

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । ३.२६९अब्

यदा त्व् अप्रकर्षेण दुष्टाम् ईषद्व्यभिचारिणीं ब्राह्मण्यादिकां व्यापादयति, तदा शूद्रहत्याव्रतं षाण्मासिकं कुर्यात् । यद् वा दशधेनूर् दद्यात् । इदं च षाण्मासिकम् अकामतो ब्राह्मण्या व्यापादने क्षत्रियावधे तु कामकृते द्रष्टव्यम् । कामतो वैश्यावधे दशधेनूर् दद्यात् । कामतः शूद्रावधे तु उपपातकसाधारणप्राप्तं मासं पञ्चगव्याशनम् । यदा तु कामतो ब्राह्मणीं व्यापादयति तदा द्वादशमासिकम् । क्षत्रियादीनां त्व् अकामतो व्यापादने त्रैमासिकसार्धमासिकसार्धद्वाविंशत्यहानि । यथाह प्रचेताः- “अनृतुमतीं ब्राह्मणीं हत्वा कृच्छ्राब्दं षण्मासान् वेति । क्षत्रियां हत्वा षण्मासान् मासत्रयं वेति । वैश्यां हत्वा मासत्रयं सार्धमासं वेति । शूद्रां हत्वा सार्धमासं सार्धद्वाविंशत्यहानि वा” । इति ।

यत् तु हारीतेन षड्वर्षाणि राजन्ये प्राक्र्टं ब्रह्मचर्यं त्रीणि वैश्ये सार्धं शूद्र इति प्रतिपाद्योक्तं “क्षत्रियवद् ब्राह्मणीषु वैश्यवत् क्षत्रियायां शूद्रवद् वैश्यायां शूद्रां हत्वा नवमासान्” इत् युक्तं, तद् अपि कर्मसाधनत्वादिगुणयोगिनीनां कामतो व्यापादने द्रष्टव्यम् । अकामतस् तु सर्वत्रार्धं कल्प्यम् । आत्रेय्यां तु प्राग् उक्तम् ॥

(इति स्त्रीवधप्रायश्चित्तप्रकरणम्)

_हिंसाप्रायश्चित्तप्रसङ्गात्, प्रकीर्णकपदाभिधेयानुपपातकप्राणिवधे ऽपि प्रायश्चित्तम् आह । _

अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः ॥ ३.२६९च्द्

अस्थिमतां प्राणिनां कृकलासप्रभृतीनाम् अनुक्तनिष्कृतीनां सहस्रं हत्वा अनस्थिमतां च यूकामत्कुणदंशमशकप्रभृतीनाम् अनः शकटं तत्परिपूर्णमात्रं हत्वा शूद्रहत्याव्रतं षाण्मासिकं प्राकृतं ब्रह्मचर्यं चरेद् दशधेनूर् वा दद्यात् । सहस्रम् इति परिमाणनियमात् ततो ऽधिकवधे त्व् अतिरिक्तं कल्प्यम् । अर्वाक् पुनः प्रत्येकं वधे तु किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके इति वक्ष्यति । तथानस्थिमताम् अन इत्य् एतच् च क्षोदिष्ठजन्तुविषयम् । स्थविष्ठानस्थिघुणादिजन्तुवधे तु “कृमिकीटवयो हत्वा” (म्ध् ११.७१) इत्य् आदिना मलिनीकरणीयान्य् अभिधाय “मलिनीकरणीयेषु तप्तः स्याद् यवकस् त्र्यहम्” (म्ध् ११.१२६) इति मनूक्तं द्रष्टव्यम् ॥ ३.२६९ ॥

किं च ।

मार्जारगोधानकुलमण्डूकांश् च पतत्रिणः । ३.२७०अब्
हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ ३.२७०च्द्

मार्जारादयः प्रसिद्धाः पतत्रिणश् चाषकाकोलूकास् तान् हत्वा त्रिरात्रं पयः पिबेत् पादकृच्छ्रं वाचरेत् । वाशब्दाद् योजनगमनादिकं वा कुर्यात् । यथाह मनुः ।

पयः बिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
अपः स्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ इति । (म्ध् ११.१३३)

इदं च प्रत्येकवधविषयम् । समुदितवधे तु,

मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥ (म्ध् ११.१३२)

इति मनूक्तं षाण्मासिकं द्रष्टव्यम् । यत् पुनर् वसिष्ठेनोक्तम्, “श्वमार्जारनकुलमण्डूकसर्पदहरमूषिकान् हत्वा कृच्छ्रं द्वादशरात्रं चरेत् किंचिद् दद्यात्” (वध् २१.२४) इति, तत् कामतो ऽभ्यासविषयम् वेदितव्यम् । दहरो ऽल्पमूषक छुछुन्दरी वा ॥ ३.२७० ॥

किं च ।

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः । ३.२७१अब्
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ ३.२७१च्द्

दन्तिनि व्यापादिते पञ्च नीलवृषा देयाः । शुके पक्षिणि द्विवर्षो वत्सः । रासभच्छागैडकेषु व्यापादितेषु प्रत्येकम् एको वृषः । क्रौञ्चे पक्षिणि त्रिहायनो वत्सः । देय इति सर्वत्रानुषङ्गः । मनुनाप्यत्र विशेष उक्तः ।

वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥ इति ॥ (म्ध् ११.१३७) ३.२७१ ॥

किं च ।

हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः । ३.२७२अब्
भासं च हत्वा दद्याद् गाम् अक्रव्यादस् तु वत्सिकाम् ॥ ३.२७२च्द्

क्रव्यम् अपक्वं मांसम् अत्तीति क्रव्याव्याद् व्याघ्रसृगालादिर् मृगविशेषः, वानरसाहचर्यात् । तथा हंसश्येनसमभिव्याहारात् कङ्कगृध्रादिः पक्षिविशेषश् च गृह्यते । जलशब्देन जलचरा बकादयो गृह्यन्ते । स्थलशब्देन स्थलचरा बलाकादयः । शिखण्डी मयूरः । भासः पक्षिविशेषः । शेषाः प्रसिद्धाः । एषां प्रत्येकं वधे गाम् एकां दद्यात् । अक्रव्यादस् तु हरिणादिमृगान् खञ्जरीटादिपक्षिविशेषान् हत्वा वत्सतरीं दद्यात् । तथा च मनुः ।

हत्वा हंसं बलाकां च बकं बर्हिणम् एव च ।
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥
वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥
क्रव्यादस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादो वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥ इति ॥ (म्ध् ११.१३६–३८) ३.२७२ ॥

किं च ।

उरगेष्व् आयसो दण्डः पण्डके त्रपु सीसकम् । ३.२७३अब्
कोले घृतघटो देय उष्ट्रे गुञ्जा हये ऽंशुकम् ॥ ३.२७३च्द्

सरीसृपेषु व्यापादितेषु अयोमयो दण्डस् तीक्ष्णप्रान्तो देयः । पण्डके नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात् पलालभारं वा, “पण्डकं हत्वा पलालभारं त्रपु सीसकं वा दद्यात्” इति स्मृत्यन्तरदर्शनात् । यद्य् अपि,

पण्डको लिङ्गहीनः स्यात् संस्कारार्हश् च नैव सः ।

इति देवलवचनेन सामान्येनैव स्त्रीपुंलिङ्गरहितो निर्दिष्टस् तथापि न गोब्राह्मणरूपस्येह विवक्षा । गोब्राह्मणवधनिषेधस्य जात्यवच्छेदेन प्रवृत्तेः लिङ्गविरहिणि च पण्डे जातिसमवायाविशेषात् तन्निमित्तम् एव लघुप्रायश्चित्त मुक्तम् । तस्मान् मृगपक्षिण एव विवक्षिताः, मृगपक्षिसमभिव्याहाराच् च । कोले सूकरे व्यापादिते घृतकुम्भो देयः । उष्ट्रे गुञ्जा देया । वाजिनि विनिपातिते ऽंशुकं वस्त्रं देयम् । तथा च मनुः ।

अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।
पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ इति ॥ (म्ध् ११.१३४) ३.२७३ ॥

किं च ।

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन् । ३.२७४अब्
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ ३.२७४च्द्

तित्तिरौ पतत्त्रिणि व्यापादिते तिलद्रोणं दद्यात् । द्रोणशब्दश् च परिमाणविशेषवचनः ।

अष्टमुष्टि भवेत् किंचित् किंचिद् अष्टौ तु पुष्कलम् ।
पुष्कलानि तु चत्वार्य् आढकः परिकीर्तितः ॥
चतुराढको भवेद् द्रोण इत्य् एतन् मानलक्षणम् ॥

इति स्मरणात् । पूर्वोक्तानां गजादीनां व्यापादने निर्धनत्वेन नीलवृषपञ्चकादिदानं कर्तुम् अशक्नुवन् प्रत्येकं कृच्छ्रं चरेद् विशुद्ध्यर्थम् । कृच्छ्रशब्दश् चात्र लक्षणया क्लेशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दर्शितानि- “संवत्सरः षण्मासाश् चत्वारस् त्रयो द्वाव् एकश् चतुर्विंशत्यहो द्वादशाहः षडहस् त्र्यहो ऽहोरात्र इति कालः । एतान्य् एवानादेशे विकल्पेन क्रियेरन्न् एनसि गुरुणि गुरूणि लघुनि लघूनि” (ग्ध् १९.१७–१९) इति । यदि कृच्छ्रशब्देन मुख्यो ऽर्थो गृह्यते तर्हि गजे शुके वा विशेषेण प्रजापत्य एव स्यात् । न च तद् युक्तम् । तपोमात्रपरत्वे तु दानगुरुलघुभावाकलनया तपसो ऽपि गुरुलघुभावो युज्यते । ततश् च गजे द्विमासिकं यावकाशनं शुके तूपवास इति । एवम् अन्यत्रापि दानानुसारेण प्रायश्चित्तं कल्प्यम् ॥ ३.२७४ ॥

किं चाह ।

फलपुष्पान्नरसजसत्त्वघाते घृताशनम् । ३.२७५अब्

उदुम्बरादौ फले मधूकादौ च कुसुमे चिरस्थितभक्तसक्त्वाद्यन्ने च रसे गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धिसाधनम् । इदं च घृतप्राशनं भोजनकार्ये एव विधीयते, प्रायश्चित्तानां तपोरूपत्वात् । दर्शितं च तपोरूपत्वम् आङ्गिरसे प्रायश्चित्तपदनिर्वचनव्याजेन ।

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयुक्तं प्रायश्चित्तं तद् उच्यते ॥ इति ॥

प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुम् अशक्यत्वात् सामान्येन प्रायश्चित्तम् आह ।

किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके ॥ ३.२७५च्द्

अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित् स्वल्पं धान्यहिरण्यादि देयम् । अनस्थिके त्व् एकः प्राणायामः । तत्र किंचिद् इति यदा हिरण्यं दीयते तदा पणमात्रम्, “अस्थिमतां वधे पणो देयः” इति सुमन्तुस्मरणात् । यदा तु धान्यं देयं तदाष्टमुष्टि देयम् “अष्टमुष्टि भवेत् किंचित्” इति स्मरणात् । एतच् चानुक्तनिष्कृतिप्राणिवधविषयम् । यत्र तु प्रायश्चित्तविशेषः श्रूयते तत्र स एव भवति । यथाह पराशरः ।

हंषसारसचक्राह्वक्रौञ्चकुक्कुटघातकः ।
मयूरमेषौ हत्वा च एकभक्तेन शुध्यति ॥
मद्गुं च टिट्टिभं चैव शुकं पारावतं तथा ।
आडिकां च बकं हत्वा शुध्येद् वै नक्तभोजनात् ॥
चाषकाककपोतानां सारीतित्तिरघातकः ।
अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ॥
गृध्रश्येनविहङ्गानाम् उलूकस्य च घातकः ।
अपक्वाशी दिनं तिष्टेद् द्वौ कालौ मारुताशनः ॥
हत्वा मूषिकमार्जारसर्पाजगरडुण्डुभान् ।
प्रत्येकं भोजयेद् विप्रांल् लोहदण्डश् च दक्षिणा ॥
सेधाकच्छपगोधानां शशशल्यकघातकः ।
वृन्ताकफलगुञ्जाश्य् अहोरात्रेण शुध्यति ॥
मृगरोहिवराहाणाम् अविकाबस्तघातने ।
वृकजम्बूकऋक्षाणां तरक्षूणां च घातकः ॥
तिलप्रस्थं त्व् असौ दद्याद् वायुभक्षो दिनत्रयम् ।
गजमेषतुरङ्गोष्ट्रगवयानां निपातने ॥
प्रायश्चित्तम् अहोरात्रं त्रिसंध्यं चावगाहनम् ।
खरवानरसिंहानां चित्रकव्याघ्रघातकः ॥
शुद्धिम् एति त्रिरात्रेण ब्राह्मणानां च भोजनैः ॥ इति ॥

एवम् अन्येषाम् अपि स्मृतिवचसां देशकालाद्यपेक्षया विषयव्यवस्था कल्पनीया ॥ ३.२७५ ॥

(इति हिंसाप्रायश्चित्तप्रकरणम्)

“इन्धनार्थं द्रुमच्छेदः” (य्ध् ३.२४०) इत्य् उपपातकोद्देशे पठितं हिंसाप्रसङ्गलोभेन तद्व्युत्क्रमपठितम् अपपकृष्य तत्र प्रायश्चित्तम् आह ।

वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम् । ३.२७६अब्
स्याद् ओषधिवृथाछेदे क्षीराशी गो ऽनुगो दिनम् ॥ ३.२७६च्द्

फलदानां आम्रपनसादिवृक्षणां गुल्मादीनां च यज्ञाद्यदृष्टार्थं विना छेदने ऋचां गायत्र्यादीनां शतं जप्तव्यम् । ओषधीनां तु ग्राम्यारण्यानां वृथैव छेदने दिनं कृत्स्नम् अहर् गवां परिचर्यार्थम् अनुगम्यान्ते क्षीरं पिबेद् आहारान्तरपरित्यागेन । पञ्चयज्ञार्थे तु न दोषः । एतच् च फलादिद्वारेणोपयोगिषु द्रष्टव्यम्,

फलदानां तु वृक्षाणां छेदने जप्यम् ऋच्छतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ (म्ध् ११.१४३)

इति मनुस्मरणात् । दृष्टार्थत्वे ऽपि कर्षणाङ्गभूतहलाद्यर्थत्वे न दोषः, “फलपुष्पोपगान् पादपान् न हिंस्यात् कर्षणकरणार्थं चोपहन्यात्” (वध् १९.११–१२) इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद् दण्डाधिक्यं तत्र प्रायश्चित्ताधिक्यम् अपि कल्पनीयम् । तद् उक्तम् ।

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे ऽथ विश्रुते ॥ इति । (य्ध् २.२२८)

अयं च ऋक्शतजपो द्विजातिविषयो न पुनः शूद्रादिविषयः, तेषां जपे ऽनधिकारात् । अतस् तेषां दण्डानुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्यानर्थक्यपरिहारार्थम् उपपातकसाधारणप्राप्तं प्रायश्चित्तम् अप्य् अत्र भवति । तच् च गुरुत्वाद् अभ्यासविषयं कल्प्यम् ॥ ३.२७६ ॥

पुंश्चलीवानरादिवधप्रायश्चित्तप्रसङ्गात् तद्दंशनिमित्तं प्रायश्चित्तम् आह ।

पुंश्चलीवानरखरैर् ँँदष्टःँँ श्वोष्ट्रादिवायसैः । ३.२७७अब्
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ ३.२७७च्द्

पुंश्चल्यादयः प्रसिद्धाः एतैर् दष्टः पुमान् अन्तर्जले प्राणायामः कृत्वा घृतं प्राश्य विशुध्यति । आदिग्रहणाच् छृगालादीनां ग्रहणम् । यथाह मनुः ।

श्वसृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च ।
नराश्वोष्ट्रवराहैश् च प्राणायामेन शुध्यति ॥ इति । (म्ध् ११.२००)

अयं च घृतप्राशो भोजनप्रत्याम्नायो द्रष्टव्यः, प्रायश्चित्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । एतद् अशक्तविषयम् । “श्वसृगालमृगमहिषाजाविकखरकरभनकुलमार्जारमूषकप्लवबककाकपुरुषदष्टानाम् आपोहिष्टेत्यादिभिः स्नानं प्राणायामत्रयं च” इति यत् सुमन्तुवचनं, तन् नाभेर् अधःप्रदेश ईषद्दष्टविषयम् । यत् त्व् अङ्गिरोवचनम्,

ब्रह्मचारी शुना दष्टस् त्र्यहं सायं पिबेत् पयः ।
गृहस्थश् चेद् द्विरात्रं तु एकाहं यो ऽग्निहोत्रवान् ॥
नाभेर् ऊर्ध्वं तु दष्टस्य तद् एव द्विगुणं भवेत् ।
स्याद् एतत्त्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥

इति, तत् सम्यग्दष्टविषयम् । क्षत्रियवैश्ययोस् तु पादपादन्यूनं कल्पनीयम् । शूद्रस्य तु,

शूद्राणां चोपवासेन शुद्धिर् दानेन वा पुनः ।
गां वा दद्याद् वृषं चैकं ब्राह्मणाय विशुद्धये ॥

इति बृहदङ्गिरसोक्तं द्रष्टव्यम् । यत् तु वसिष्ठवचनम्,

ब्राह्मणस् तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ (वध् २३.३१)

इति, तद् उत्तमाङ्गदंशविषयम् ॥ स्त्रीणां तु,

ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा ।
उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर् भवेत् ॥

इति पराशरोक्तं द्रष्टव्यम् । कृच्छ्रादिव्रतस्थायाः पुनस् तेनैव विशेषो दर्शितः ।

त्रिरात्रम् एवोपवसेच् छुना दष्टा तु सुव्रता ।
सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् ॥ इति ।

रजस्वलायाम् अपि विशेषः पुलस्त्येन दर्शितः ।

रजस्वला यदा दष्टा शुना जम्बुकरासभैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
ऊर्ध्वं तु द्विगुणं नाभेर् वक्त्रे तु त्रिगुणं तथा ।
चतुर्गुणं स्मृतं मूर्ध्नि दष्टे ऽन्यत्राप्लुतिर् भवेत् ॥ इति ।

अन्यत्रारजस्वलावस्थायाम् । यस् तु श्वादिभिर् घ्राणादिनोपहन्यते तस्य शातातपेन विशेष उक्तः ।

शुना घ्राणावलीढस्य नखैर् विलिखितस्य च ।
अद्भिः प्रक्षालनं शौचम् अग्निना चोपचूलनम् ॥ इति ।

उपचूलनं तापनम् । यदा तु श्वादिदंशशस्त्रघातादिजनितव्रणे कृमय उत्पद्यन्ते, तदा मनुना विशेष उक्तः ।

ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
कृमिर् उत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥
गवां मूत्रपुरीषेण त्रिसंध्यं स्नानम् आचरेत् ।
त्रिरात्रं पञ्चगव्याशी त्व् अधोनाभ्या विशुध्यति ॥
नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः ।
षड्रात्रं तु त्र्यहं पञ्चगव्याशनम् इति स्मृतम् ॥ (नोत् इन् म्ध्)

तत्र श्वादिदंशव्रणे तद्दंशप्रायश्चित्तानन्तरम् इदं कर्तव्यम् । शस्त्रादिजनितव्रणे त्व् एतद् एव त्र्यहं पञ्चगव्याशनादिकम् इति शेषः । क्षत्रियादिषु तु प्रतिवर्णं पादपादह्रासः कल्पनीयः ॥ ३.२७७ ॥

शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच् छारीरचरमधातुविच्छेदकस्कन्दने प्रायश्चित्तम् आह ।

यन् मे ऽद्य रेत इत्य् आभ्यां स्कन्नं रेतो ऽभिमन्त्रयेत् । ३.२७८अब्
स्तनान्तरं भ्रुवोर् मध्यं तेनानामिकया स्पृशेत् ॥ ३.२७८च्द्

यदि कथंचित् स्त्रीसंभोगम् अन्तरेणापि हत्ःआच् चरमधातुर् विसृष्टस् तदा तत् स्कन्नं रेतो “यन् मे ऽद्य रेतः पृथिवीम् अस्कन्,” “पुनर् माम् ऐत्व् इन्द्रियम्” (तैता १.३०.१) इत्य् आभ्यां मन्त्राभ्याम् अभिमन्त्रयेत् । तेन चाभिमन्त्रितेन रेतसा स्तनयोर् भ्रुवोश् च मध्यम् उपकनिष्टिकया स्पृशेत् । अन्ये तु स्कन्नस्य रेतसो ऽशुचित्वेन स्पर्शकर्मण्य् अयोग्यत्वात् तेनेत्य् अनामिकासाहचर्यात् स्वबुद्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेत्य् अङ्गुष्ठपदग्रहणे वृत्तभङ्गप्रसङ्गात् तेनेति निर्दिष्टम् इति । तद् असत्, अङ्गुष्ठस्याबुद्धिस्थत्वात् । न च शब्दसंनिहितपरित्यागेनार्थाद् बुद्धिस्थस्यान्वयो युक्तः । तद् उक्तम् ।

गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
शब्दान्तरैर् विभक्त्या वा धूमो ऽयं ज्वलतीति वत् ॥ इति ।

न च रेतसो ऽशुचित्वेन स्पर्शायोग्यत्वम् । विधानाद् एव प्रायश्चित्तार्थरूपस्पर्शे योग्यत्वम् अवगम्यते प्रायश्चित्तरूपपान इव सुरायाः । इदं च प्रायश्चित्तं गृहस्थस्यैवाकामतः स्कन्नविषयम्, ब्रह्मचारिणः स्वप्ने जागरणावस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् । यत् तु यमवचनम्,[^५१]

गृहस्थः कामतः कुर्याद् रेतसः स्कन्दनं भुवि ।
सहस्रं तु जपेद् देव्यः प्राणायामैस् त्रिभिः सह ॥

इति, तत् कामकारविषयम् ॥ ३.२७८ ॥

किं च ।

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् । ३.२७९अब्
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृते ऽपि च ॥ ३.२७९च्द्

स्वीयं प्रतिबिम्बम् अम्बुगतं दृष्टं चेत् तदा “मयि तेज इन्द्रियम्” इतीमं मन्त्रं जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्रीं सवितृदैवत्यां “तत् सवितुर्” इत्यादिकाम् ऋचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे ताम् एव जपेत्, अनृतवचने च । एतत् कामकारे द्रष्टव्यम् । अकामकृते तु,

सुप्त्वा भुक्त्वा च क्षुत्वा च निष्टीव्योक्त्वानृतानि च ।
पीत्वापो ऽध्येष्यमाणश् च आचामेत्प्रयतो ऽपि सन् ॥ (म्ध् ५.१४५)

इति मनूक्तमाचमनं द्रष्टव्यम् । यत्तु संवर्तवचनम्,

क्षुते निष्टीवने चैव दन्तश्लिष्टे तथानृते ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥

इति, तद् अल्पप्रयोजने जलाभावे वा द्रष्टव्यम् । स्त्रीशूद्रविट्क्षत्रवधानन्तरं निन्दितार्थोपजीवनं पठितं तत्र च मनुयोगीश्वरप्रोक्तान्य् उपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्ये ऽपि तानि प्रायश्चित्तानि तथैव प्रयोज्यानि, नास्तिक्यशब्देन च वेदनिन्दनं, तेन जीवनम् उच्यते तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्तान्तरम् अप्य् उक्तम्- “नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन् नास्तिक्यान् नास्तिकवृत्तिस् त्व् अतिकृच्छ्रम्” (वध् २१.२९–३०) इति । एतच् च सकृत्करणविषयम् । उपपातकप्रायश्चित्तान्य् अभ्यासविषयाणि । यच् च शङ्खेनोक्तम् “नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसी इत्य् एते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः” इति, यच् च हारीतेन “नास्तिको नास्तिकवृत्तिः” इति प्रक्रम्य, “पञ्चतपो ऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु” इति, तद् उभयम् अप्य् अन्ताभिनिवेशेन बहुकालाभ्यासविषयम् ॥ ३.२७९ ॥

“नास्तिक्यानन्तरं व्रतलोपश् च” (य्ध् ३.२३६)इत्य् उक्तम् । तत्रावकीर्णस्याप्रसिद्धत्वात् तल्लक्षणकथनपूर्वकं प्रायश्चित्तम् आह ।

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् । ३.२८०अब्
गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति ॥ ३.२८०च्द्

ब्रह्मचार्य् उपकुर्वाणको नैष्टिकश् चासौ योषितं गत्वावकीर्णी भवति । चरमधातोर् विसर्गो ऽवकीर्णं, तद् यस्यास्ति सो ऽवकीर्णी, स निरृतिदैवत्येन गर्दभपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धे ऽपि पुनः पशुग्रहणं “अथ पशुकल्पः” (आश्गृ १.११.१) इत्य् आश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच् चारण्ये चतुष्पथे लौकिके ऽग्नौ कार्यम्, “ब्रह्मचारी चेत् स्त्रियम् उपेयाद् अरण्ये चतुष्पथे लौकिके ऽग्नौ रक्षोदैवतं गर्दभं पशुम् आलभेत” (वध् २३.१) इति वसिष्ठस्मरणात् ॥ तथा रात्राव् एकाक्षिविकलेन यष्टव्यम् । तथा च मनुः ।

अवकीर्णी तु काणेन रसभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥ इति । (म्ध् ११.११९)

पशोर् अभावे चरुणा यष्टव्यम्, “निरृतिं वा चरुं निर्वपेत् । तस्य जुहुयात् कामाय स्वाहा कामकामाय स्वाहा निरृत्यै स्वाहा रक्षोदेवताभ्य स्वाहा” (वध् २३.२–३) इति वसिष्ठस्मरणात् । एतच् चाशक्तविषयम् । शक्तस्य पुनर् गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् । “तस्याजिनम् ऊर्ध्ववालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं चरेत् कर्माचक्षाणः, संवत्सरेण शुध्यति” (ग्ध् २३.१८–१९) इति गौतमोक्तो वार्षिकतपःसमुचितः पशुयागश् चरुर् वा द्रष्टव्यः । तथा त्रिषवणस्नानम् एककालभोजनं च द्रष्टव्यम्,

एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारां चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥
तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् ।
उपस्पृशंस् त्रिषवणं त्व् अब्देन स विशुध्यति ॥ (म्ध् ११.१२३–२४)

इति मनुस्मरणात् । इदं च वार्षिकम् अश्रोत्रियब्राह्मणपत्न्यां वैश्यायां श्रोत्रियपत्न्यां च द्रष्टव्यम् । यदा तु गुणवत्योर् ब्राह्मणीक्षत्रिययोः श्रोत्रियभार्ययोर् अवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च क्रमेण द्रष्टव्यम् । यथाहतुः शङ्खलिखितौ “गुप्तायां वैश्यायाम् अवकीर्णः संवत्सरं त्रिषवणम् अनुतिष्ठेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि” इति । यत् त्व् अङ्गिरोवचनम्,

अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
चीरवासास् तु षण्मासांस् तथा मुच्येत किल्बिषात् ॥

इति, तद् अकामतो मानवाब्दिकविषयम् ईषद्व्यभिचारिणीविषयं वा । अत्यन्तव्यभिचरितासु पुनः “स्वैरिण्यां वृषल्याम् अवकीर्णः सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां त्रिरात्रम् उपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रम् उपोषितो गां च दद्यात् । गोष्व् अवकीर्णः प्राजपत्यं चरेत् । षण्ढायाम् वकीर्णः पलालभारं सीसमाषकं च दद्यात्” इति शङ्खलिखितोदितं वेदितव्यम् । एतच् चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम्,

अवकीर्णी द्विजो राजा वैश्यश् चापि खरेण तु ।
इष्ट्वा भैक्षाशनो नित्यं शुध्यन्त्य् अब्दात् समाहिताः ॥

इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगम् अन्तरेण कामतश् चरमधातुं विसृजति दिवा च स्वप्ने वा विसृजति, तदा नैरृटयागमात्रं द्रष्टव्यम्, “एतद् एव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने च” (वध् २३.४) इति वसिष्ठेन यागमात्रस्यातिदिष्टत्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्व् अतिदिष्टब्रह्मचर्येषु स्कन्दने सत्य् एतद् एव यागमात्रम्, “व्रतान्तरेषु चैवम्” (वध् २३.४) इति तेनैवातिदिष्टत्वात् । स्वप्नस्कन्दने तु मनूक्तं द्रष्टव्यम् ।

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥ इति । (म्ध् २.१८१)

वानप्रस्थादीनां चेदम् एव ब्रह्मचर्यखण्डने अवकीर्णिव्रतं कृच्छ्रत्रयाधिकं भवति,

वानप्रस्थो यतिश् चैव स्कन्दने सति कामतः ।
पराकत्रयसंयुक्तम् अवकीर्णिव्रतं चरेत् ॥

इति शाण्डिल्यस्मरणात् । यदा गार्हस्थ्यपरिग्रहेण संन्यासात् प्रच्युतो भवति तदा संवर्तोक्तं द्रष्टव्यम् ।

संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद् यदि ।
स कुर्यात् कृच्छ्रम् अश्रान्तः षण्मासात् प्रत्यनन्तरम् ॥ इति ।

प्रत्यापत्तिर् गार्हस्थ्यपरिग्रहः । अत एव वसिष्ठः ।

यस् तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् ।
षष्टिवर्षसहस्राणि विष्टायां जायते कृमिः ॥ इति ।

तथा च पराशरः ।

यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः ।
अनाशकनिवृत्तश् च गार्हस्थ्यं चेच् चिकीर्षति ॥
स चरेत् रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ।
जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिम् आप्नुयात् ॥ इति ।

तत्र ब्राह्मणस्य षाण्मासिकः कृच्छ्रः पुनः संन्याससंस्कारश् च, क्षत्रियस्य चान्द्रायणत्रयम्, वैश्यस्य कृच्छ्रत्रयम् इति व्यवस्था । अथ वा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ।[^५२] तथा मरणसंन्यासिनाम् अपि यमेन प्रायश्चित्तम् उक्तम् ।

जलाग्न्युद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपतनप्रायशस्त्रघातच्युताश् च ये ॥
नवैते प्रत्यवसिताः सर्वलोकबहिष्कृताः ।
चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥ इति ।

इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्याद्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु “शस्त्रघातहताश् च” इति पाठः तदात्मत्यागाद्यशास्त्रीयमरणनिमित्तस् तत्पुत्रादेर् उपदेशो द्रष्टव्यः । यत् पुनर् वसिष्ठेनोक्तम् “जीवन्न् आत्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् त्रिरात्रं चोपवसेत्” (वध् २३.१९) इति, तद् अप्य् अध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथ वाध्यवसायमात्रे त्रिरात्रं शस्त्रादिक्षतस्य द्वादशरात्रम् इति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम्, तत्र गुरुतरप्रायश्चित्तस्य दर्शितत्वात् । न च लगुनावकीर्णिव्रतेन द्वादशवार्षिकाद्यपनोद्यमहापातकदोषनिबर्हणम् उचितम् । न च ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानम् इति युक्तम्, आश्रमान्तराणां द्वैगुण्यादिवृद्धेर् ब्रह्महत्याप्रकरणे दर्शितत्वात् । न चात्रागम्यागमनप्रायश्चित्तं पृथक् कर्तव्यम्, ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनेनान्तरीयकत्वात्, अतो ऽन्यत्रापि यस्मिन् निमित्ते यन्निमित्तान्तरं समं न्यूनं वावश्यंभाविनः । तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा,

अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रो ऽसृक्पाते कृच्छ्रो ’भ्यन्तरशोणिते ॥ (म्ध् ११.२०९)

इत्य् अत्र शोणितोत्पादननिमित्ते ऽवगूरणनिपातलक्षणं निमित्तद्वयम् अवश्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रम् अतिकृच्छ्रं च न प्रयुङ्क्ते, एवम् अन्यत्राप्य् ऊहनीयम् । यत्र पुनर् निमित्तानाम् अन्तर्भावनियमो नास्ति तत्र पुनर् नैमित्तिकानि पृथक् प्रयुज्यन्ते । निमित्तानि यथा- “यदा पर्वणि परभार्यां रजस्वलां तैलाभ्यक्तो दिवा जले गच्छति” इति ।

ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनान्तरीयकत्वं नास्त्य् एव, पुत्रिकागमने ऽगम्यागमनदोषाभावात् । तथा हि न तावत् पुत्रिका कन्या अक्षतयोनित्वात्, नापि परभार्या प्रदानाभावात्, नापि वेश्या अतद्वृत्तित्वात्, नापि विधवा भर्तृमरणाभावात् । अतः पुत्रिकायाः क्वाप्य् अनन्तर्भावाद् अप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलम् अवकीर्णिव्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपाताद् अवकीर्णिव्रतं नैमित्तिकान्तरम् अपि प्रयोक्तव्यम् इति ।
तद् असत्, पुत्रिकाया परभार्यास्व् अन्तर्भावात् । प्रदानाभावे ऽपि विवाहसंस्कारेण संस्कृतत्वात्, गान्धर्वादिविवाहपरिणीतावत् । न च,
यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत् तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ (म्ध् ३.११)

इति प्रतिषेधात्, सगोत्रास्व् इव भार्यात्वं नोत्पद्यत इति वाच्यम्, दृष्टार्थत्वात् प्रतिपेधस्य व्यङ्गांग्यादिप्रतिषेधवत् । दृष्टार्थत्वं च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । न च पुत्रार्थम् एव परिणयनं, अपि तु धर्मार्थम् अपि । अतश् चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थं पुत्रिकापरिणयने को विरोधः । प्रपञ्चितं चैतत् पुरस्ताद् इत्य् अलम् अतिप्रसङ्गेन । तस्माद् ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनानन्तरीयकत्वान् न पृथङ् नैमित्तिकं प्रयोक्तव्यम् इति सुष्टूक्तम् ॥ ३.२८० ॥

ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् अन्यद् अप्य् अनुपातकप्रायश्चित्तम् आह ।

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः । ३.२८१अब्
कामावकीर्ण इत्य् आभ्यां जुहुयाद् आहुतिद्वयम् ॥ ३.२८१च्द्
उपस्थानं ततः कुर्यात् सं मा सिञ्चन्त्व् अनेन तु । ३.२८२अब्

यस् त्व् अनातुर एव ब्रह्मचारी निरन्तरं सप्तरात्रं भैक्षम् आग्निकार्यं वा त्यजत्य् असौ “कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि कामकामाय स्वाहा । कामावपन्नो ऽस्म्य् अवपन्नो ऽस्मि कामकामाय स्वाहा” (ग्ध् २५.४) इत्य् एताभ्यां मन्त्राभ्याम् आहुती हुत्वा, “सं मा सिंचन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । सं मायम् अग्निः सिंचन्तां यशसा ब्रह्मवर्चसेन” इत्य् अनेन मन्त्रेणाग्निम् उपतिष्ठेत् ॥ एतच् च गुरुपरिचर्यादिगुरुतरकार्यव्यग्रतया अकरणे द्रष्टव्यम् । यदा त्व् अव्यग्र एवोभे भैक्षाग्निकार्ये त्यजति तदा,

अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ (म्ध् २.१८७)

इति मानवं द्रष्टव्यम् । यज्ञोपवीतविनाशे तु हारीतेन प्रायश्चित्तम् उक्तम्- “मनोव्रतपतीभिश् चतस्र आज्याहूतीर् हुत्वा पुनर् यथार्थं प्रतीयाद् असद्भैक्षभोजने ऽभ्युदिते ऽभिनिर्मुक्ते वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नग्नस्वापे श्मशानम् आक्रम्य हयादींश् चारुह्य पूज्यातिक्रमे चैताभिर् एव जुहुयाद् अग्निसमिन्धने स्थावरसरीसृपादीनां वधे यद् देवादेव हेऌअनम् इति कूष्माण्डीभिर् आज्यं जुहुयात्, मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्” इति । मनोव्रतपतीभिर् इति मनोज्योतिर् इत्यादिमनोलिङ्गाभिस् “त्वम् अग्ने व्रतपा असि” इत्यादिव्रतलिङ्गाभिर् इत्य् अर्थः । यथार्थं प्रतीयाद् इति उपनयनोक्तमार्गेण समन्त्रकं गृह्णीयाद् इत्य् अर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु,

ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुते ऽथवा ।
गायत्र्यष्टस्हस्रेण प्राणायामेन शुध्यति ॥

इति मरीच्युक्तं द्रष्टव्यम् ॥ ३.२८१ ॥

किं च ।

मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥ ३.२८२च्द्
प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । ३.२८३अब्

ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरम् अवशिष्टानि व्रतानि समापयेत् । एतच् च शिष्टभोजनार्हशशादिमांसभक्षणविषयम्, “ब्रह्मचारी चेन् मांसम् अश्नीयाच् छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्” (वध् २३.११) इति वसिष्ठस्मरणात् । द्वादशरात्रग्रहणं तु मतिपूर्वाभ्यासापेक्षयातिकृच्छ्रपराकादेर् अपि प्राप्त्यर्थम् । यदा तु मांसैकापनोद्यव्याध्यभिभूतस् तदा मांसं गुरोर् उच्छिष्टं कृत्वा भक्षणीयम्, “स चेद् व्याधितः कामं गुरोर् उच्छिष्टं भैषज्यार्थं सर्वं प्राश्नीयात्” (वध् २३.९) इति तेनैवोक्तत्वात् । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्रसंग्रहार्थम् । तद्भक्षणेन चापगतव्याधिर् आदित्यम् उपतिष्ठेत । तथा च बौधायनः- “येनेच्छेत् तु चिकित्सितुं स यदागदो भवति तदोत्थायादित्यम् उपतिष्ठेत हंसः शुचिषत्” (ब्ध् २.१.२८) इति । मधुनो ऽप्य् अज्ञानतः प्राशनोपपत्तौ न दोषः, “अकामोपनतं मधु वाजसनेयके न दुष्यति” (वध् २३.१३) इति वसिष्ठस्मरणात् । अन्तसूतकान्नादिभक्षणप्रायश्चित्तं त्व् अभक्ष्यप्रायश्चित्तप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलम् आचरन् पादप्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ ३.२८२ ॥

ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् गुरोर् अपि प्रायश्चित्तम् आह ।

कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि ॥ ३.२८३च्द्

यस् तु गुरुश् चौरोरगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितनिशीथावसरे कार्यार्थं शिष्यं प्रेरयति, स च गुरुणा प्रेरितो दैवान् मृतस्, तदा स गुरुः क्र्च्छ्राणां प्राजाप्त्यादीनां त्रयं कुर्यात् । न पुन स्त्रयः प्राजापत्याः, तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । न च “एकादश प्रयाजान् यजति” इतिवद् आवृत्त्यपेक्षा संख्येति चतुरस्रम् । स्वरूपपृथक्त्वे संभवत्य् आवृत्त्यपेक्षाया अन्याय्यत्वात् । यद् इयम् उत्पन्नगता संख्या स्यात् तदा स्याद् अपि कथंचिद् आवृत्त्यपेक्षा । किं तूत्पत्तिगतेयं, अतस् तिस्र आज्याहुतीर् जुहोतीतिवत् स्वरूपपृथक्त्वापेक्षयैव त्रित्वसंख्याघटना युक्ता ॥ ३.२८३ ॥

सकलहिंसाप्रायश्चित्तापवादम् आह ।

क्रियमाणोपकारे तु मृते विप्रे न पातकम् । ३.२८४अब्
**[विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥] **

आयुर्वेदोपदेशानुसरेणौषधपथ्यान्नप्रदानादिभिश् चिकित्सादिना क्रियमाण उपकारे यस्य ब्राह्मणादेस् तस्मिन् दैवात् कथंचिन् मृते ऽपि पातकं नैव भवति । विप्रग्रहणं प्राणिमात्रोपलक्षणार्थम् । अत एव,

यन्त्रणे गोचिकित्सार्थे गूढगर्भविमोचने ।
यत्ने कृते विपत्तिः स्यान् न स पापेन लिप्यते ॥

इत्यादि संवर्ताद्यैर् उक्तम् । एतच् च प्रपञ्चितं प्राक् ॥

मिथ्याभिशंसिनः प्रायश्चित्तविवक्षया तदुपयोग्यर्थवादं तावद् आह ।

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः । ३.२८४च्द्
**मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥ **

यस् तु परोत्कर्षेर्ष्याजनितरोषकलुषितान्तःकरणो जनसमक्षं मिथ्यैवाभिशापं “ब्रह्महत्यादिकम् अनेन कृतम्” इत्य् आरोपयति, तस्य तद् एव द्विगुणं भवति । यस् तु विद्यमानम् एव दोषम् अलोकविदितं जनसमक्षं प्रकाशयति, तस्यापि तत्पातकिसमदोषभाक्त्वम् । तथा चापस्तम्बः- “दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याता स्यात् परिहरेच् चैनं धर्मेषु” इति (आप्ध् १.२१.२०) । न केवलं मिथ्याभिशंसी द्विगुणदोषभाक्, अपि तु मिथ्याभिशस्तस्य यद् अन्यद् दुरितजातं तद् अपि समादत्त इति वक्ष्यमाणप्रायश्चित्ते ऽर्थवादः, न पुनः पापद्वैगुण्यादिप्रतिपादनम् अत्र विवक्षितम्, निमित्तस्य लघुत्वाल् लघुप्रायश्चित्तस्योपदेक्ष्यमाणत्वात् कृतनाशाकृताभ्यागमप्रसङ्गाच् च ॥ ३.२८४ ॥

तत्र प्रायश्चित्तम् आह ।

महापापोपपापाभ्यां यो ऽभिशंसेन् मृषा परम् । ३.२८५अब्
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः ॥ ३.२८५च्द्

यस् तु महापापेन ब्रह्महत्यादिना गोवधाद्युपपापेन वा मृषैव परम् अभिशंसति, स मासं यावज् जलाशनो जपशीलो जितेन्द्रियश् च भवेत् । जपश् च शुद्धवतीनां कार्यः, “ब्राह्मणम् अनृतेनाभिशस्य पतनीयेनोपपातकेन वा मासम् अब्भक्षः शुद्धवतीर् आवर्तयेद् अश्वमेधावभृथं वा गच्छेत्” इति (वध् २३.३९–४०) वसिष्ठस्मरणात् । महापापोपपापग्रहणम् अन्येषाम् अप्य् अतिपातकादीनाम् उपलक्षणम् । एतच् च ब्राह्मणस्यैव ब्राह्मणेनाभिशंसने कृते द्रष्टव्यम् । यदा तु ब्राह्मणः क्षत्रियादेर् अभिशंसनं करोति, क्षत्रियादिर् वा ब्राह्मणस्य, तदा,

प्रतिलोमापवादेषु द्विगुणस् त्रिगुणो दमः ।
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ (य्ध् २.२०७)

इति दण्डानुसारेण प्रायश्चित्तस्य वृद्धिह्रासौ कल्पनीयौ । भूताभिशंसिनस् तु पूर्वोक्तार्थवादानुसारेण दण्डानुसारेण च तदर्थं कल्पनीयम् । तथातिपातकाभिशंसिन एतद् एव व्रतं पादोनम्, पातकाभिशंसिनस् त्व् अर्धम्, उपपातकाभिशंसिनस् तु पादः,

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । (म्ध् ११.१२६)

इत्य् उपपातकभूतक्षत्रियादिवधे महापातकप्रायश्चित्ततुरीयांशस्य दर्शनात् । एवं प्रकीर्णाभिशंसिनो ऽपि उपपातकान् न्यूनं कल्पनीयम्,

शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् । (म्ध् ११.२१०))

इति स्मरणात् । यत् तु शङ्खलिखिताभ्यां “नास्तिकः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी चेत्य् एते षड्वर्षाणि ब्राह्मणगृहेषु भैक्षं चरेयुः संवत्सरं धौतभैक्षम् अश्नीयुः षण्मासान् वा गा अनुगच्छेयुः” इति गुरुप्रायश्चित्तम् उक्तम्, तद् अभ्यासतारतम्यापेक्षया योजनीयम् ॥ ३.२८५ ॥

अभिशंसिप्रायश्चित्तप्रसङ्गाद् अभिशस्तप्रायश्चित्तम् आह ।

अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा । ३.२८६अब्
निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा ॥ ३.२८६च्द्

यः पुनर् मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायु दैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत् तु वसिष्ठेन “मासम् अब्भक्षणम् उक्तम् एतेनैवाभिशस्तो व्याख्यातः” (वध् २४.३७) इति तद् अभिशस्तस्यैव किंचित् कालम् अकृतप्रायश्चित्तस्य सतो द्रष्टव्यम्,

संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । (म्ध् ८.३७३)

इति दण्डातिरेकदर्शनात् । यत् तु पैठीनसिनोक्तम् “अनृतेनाभिशस्यमानः कृच्छ्रं चरेन् मासं पातकेषु महापातकेषु द्विमासम्” इति, तद् अपि वासिष्ठेन समानविषयम् । यत् तु बौधायनेनोक्तम् “पातकाभिशंसिने कृच्छ्रस् तदर्धम् अभिशस्तस्य” इति, तद् उपपातकादिविषयं अशक्तविषयं वा । एवम् अन्येषाम् अप्य् उच्चावचप्रायश्चित्तानाम् अभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः ।

षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश् च शाकला नित्यम् अपाङ्क्तानां विशोधनम् ॥ इति । (म्ध् ११.२०१)

अपाङ्क्तानां मध्ये अभिशस्तादयः पठिताः । यद्य् अप्य् अत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्वलिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनम् इदं प्रायश्चित्तं कृमिदष्टानाम् इवेति न विरोधः ॥ ३.२८६ ॥

किं च ।

अनियुक्तो भ्रातृजायां गच्छंश् चान्द्रायणं चरेत् । ३.२८७अब्

यस् तु नियोगं विना भ्रातुर् ज्येष्ठस्य कनिष्टस्य वा भार्यां गच्छति स चान्द्रायणं चरेत् । एतच् च सकृद् अमतिपूर्वविषयम् द्रष्टव्यम् । यत् तु शङ्खवचनम् “परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्याम् अनियुक्तो गच्छंस् तद् एव कनिष्ठभार्यां च” इति तत् कामकारविषयम् ॥

किं चाह ।

त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ ३.२८७च्द्

यः पुनर् उदक्यां रजस्वलां स्वभार्याम् अपि गच्छति स त्रिरात्रम् उपोष्यान्ते घृतं प्राश्य विशुध्यति । इदम् अकामतः सकृद् गमनविषयम् । तत्रैवाभ्यासे “रजस्वलागमने सप्तरात्रम्” इति शातातपेनोक्तं द्रष्टव्यम् । कामतः सकृद् गमने ऽप्य् एतद् एव । यत् तु बृहत्संवर्तेनोक्तं,

रजस्वलां तु यो गच्छेद् गर्भिणीं पतितां तथा ।
तस्य पापविशुद्ध्यर्थम् अतिकृच्छ्रं विशोधनम् ॥

इति, तत् कामतो ऽभ्यासविषयम् । यत् पुनः शङ्खेन त्रिवार्षिकम् उक्तम्,

पादस् तु शूद्रहत्यायाम् उदक्यागमने तथा ।

इति तत् कामतो ऽत्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास् तु रजस्वलादिस्पर्शे प्रायश्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथा च बृहद्वसिष्ठः ।

स्पृष्टे रजस्वले ऽन्योन्यं सवर्णे त्व् एकभर्तृके ।
कामाद् अकामतो वापि सद्यः स्नानेन शुध्यतः ॥ इति ।

असपत्न्योस् तु सवर्णयोर् अकामतः स्नानमात्रम् ।

उदक्या तु सवर्णा या स्पृष्टा चेत् स्याद् उदक्यया ।
तस्मिन्न् एवाहनि स्नात्वा शुद्धिम् आप्नोत्य् असंशयम् ॥

इति मार्कण्डेयस्मरणात् । यत् तु कश्यपवचनम्,

रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥

इति, तत् कामकारविषयम् । असवर्णास्पर्शे तु बृहद्वसिष्ठेन विशेषो दर्शितः ।

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजापि च ।
कृच्छ्रेण शुध्यते पूर्वा शूद्री दानेन शुध्यति ॥

दानेनेति पादकृच्छ्रप्रत्याम्नायभूतनिष्कचतुर्थांशदानेन शुध्यतीति ।

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजापि च ।
पादहीनं चरेत् पूर्वा पादकृच्छ्रं तथोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ।
कृच्छ्रार्धाच् छुध्यते पूर्वा तूत्तरा च तदर्धतः ॥
स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया शूद्रजापि च ।
उपवासैस् त्रिभिः पूर्वा त्व् अहोरात्रेण चोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया वैश्यजापि च ।
त्रिरात्राच् छुध्यते पूर्वा त्व् अहोरात्रेण चोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं वैश्या शूद्रा तथैव च ।
त्रिरात्राच् छुध्यते पूर्वा तूत्तरा च दिनद्वयात् ॥
वर्णानां कामतः स्पर्शे शुद्धिर् एषा पुरातनी ॥ इति ।

अकामतस् तु बृहद्विष्णुनोक्तं स्नानमात्रम् “रजस्वलां हीनवर्णां रजस्वला स्पृष्ट्वा न तावद् अश्नीयाद् यावन् न शुद्धा स्यात् । सवर्णाम् अधिकवर्णा वा स्पृष्ट्वा सद्यः स्नात्वा विशुध्यति” इति । चण्डालादिस्पर्शे तु बृहद्वसिष्ठेन विशेष उक्तः ।

पतितान्त्य् अश्वपाकेन संस्पृष्टा चेद् रजस्वला ।
तान्य् अहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमे ऽह्नि त्रिरात्रं स्याद् द्वितीये द्व्यहम् एव तु ।
अहोरात्रं तृतीये ऽह्नि परतो नक्तम् आचरेत् ॥
शूद्रयोच्छिष्टया स्पृष्ट्वा शुना चेद् द्व्यहम् आचरेत् ॥ इति ।

तान्य् अहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । एतत् कामतः स्पर्शविषयम् । अकामतस् तु,

रजस्वला तु संस्पृष्टा चाण्डालान्त्यश्ववायसैः ।
तावत् तिष्ठेन् निराहारा यावत्कालेन शुध्यति ॥

इति बौधायनेनोक्तं द्रष्टव्यम् । यत् पुनस् तेनैवोक्तम्,

रजस्वला तु संस्पृष्टा ग्रामकुक्कुटसूकरैः ।
श्वभिः स्नात्वा क्षिपेत् तावद् यावच् चन्द्रस्य दर्शनम् ॥

इति, तद् अशक्तविषयम् । यदा तु भुञ्जानायाः श्वादिस्पर्शो भवति तदा स्मृत्यन्तरे विशेष उक्तः ।

रजस्वला तु भुञ्जाना श्वान्त्यजादीन् स्पृशेद् यदि ।
गोमूत्रयावकाहारा षड्रात्रेण विशुध्यति ॥
अशक्तौ काञ्चनं दद्याद् विप्रेभ्यो वापि भोजनम् ॥ इति ॥

यदा तूच्छिष्टयोः परस्परस्पर्शनं भवति तदा,

उच्छिष्टोच्छिष्टया स्पृष्टा कदाचित् स्त्री रजस्वला ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानैर् उपोषिता ॥

इत्य् अत्रिणोक्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टान् द्विजान् रजस्वला स्पृशति तदा,

द्विजान् कथंचिद् उच्छिष्टान् रजःस्था यदि संस्पृशेत् ।
अधोच्छिष्टे त्व् अहोरात्रम् ऊर्ध्वोच्छिष्टे त्र्यहं क्षिपेत् ॥

इति मार्कण्डेयोक्तं द्रष्टव्यम् ॥ एवम् अवकीर्णिप्रायश्चित्तप्रसङ्गात् कानिचिद् अनुपातकभूतप्रायश्चित्तान्य् अपि व्याख्याय, प्रकृतम् अनुसरामः । तत्रावकीर्णानन्तरं “सुतानां चैव विक्रयः” (य्ध् ३.२६६) इत्य् उक्तं, तत्र मनुयोगीश्वरोक्तानि त्रैमासिकादीनि कामाकामजातिशक्त्याद्यपेक्षया पूर्ववद् व्यवस्थापनीयानि । यत् तु शङ्खवचनम्, “देवगृहप्रतिश्रयोद्यानारामसभाप्रपातडागपुण्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छ्रं चरेत्” इति, यच् च पराशरेणोक्तम्,

विक्रीय कन्यकां गां च कृच्छ्रं सान्तपनं चरेत् ।

इति, तद् उभयम् अप्य् आपद्य् अकामतो द्रष्टव्यम् । कामतस् तु,

नारीणां विक्रयं कृत्वा चरेच् चान्द्रायणव्रतम् ।
द्विगुणं पुरुषस्यैव व्रतम् आहुर् मनीषिणः ॥

इति चतुर्विंशतिमतोक्तं द्रष्टव्यम् । यत् तु पैठीनसिनोक्तम्, “आरामतडागोदपानपुष्करिणीसुकृतसुतविक्रये त्रिषवणस्नाय्य् अधःशायी चतुर्थकालाहारः संवत्सरेण पूतो भवति” इति तद् एकपुत्रविषयम्, तदनन्तरं “धान्यकुप्यपशुस्तेयम्” इत्य् उक्तं, तत्प्रायश्चित्तानि च स्तेयप्रकरणे प्रपञ्चितानि ॥ ३.२८७ ॥

अनन्तरम् “अयाज्यानां च याजनम्” (य्ध् ३.२३७) इत्युक्तं, तत्र प्रायश्चित्तम् आह ।

त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजको ऽभिचरन्न् अपि । ३.२८८अब्
वेदप्लावी यवाश्य् अब्दं त्यक्त्वा च शरणागतम् ॥ ३.२८८च्द्

यस् तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतींस् त्रीन् कृच्छ्रान् आचरेत् । एतेषां च गुरुलघुभूतानां कृच्छ्राणां निमित्तं गुरुलघुभावेन कल्पनीयम् । तथा अभिचरन्न् अपीदम् एव प्रायश्चित्तं कुर्यात् । एतच् चाग्निदाद्याततायिव्यतिरेकेण, “षट्स्व् अभिचरन्न पतति” इति वसिष्ठस्मरणात् । अपिशब्दो हीनयाजकान्त्येष्टियाजकयोः संग्रहार्थः । अत एवोक्तं मनुना ।

व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च ।
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥ इति । (म्ध् ११.१९८)

परेषाम् अन्त्यकर्मेत्य् अत्यन्ताभ्यासविषयं शूद्रान्त्यकर्मविषयं वा, प्रायश्चित्तस्य गुरुत्वात् । अहीनो द्विरात्रादिर् द्वादशाहपर्यन्तो ऽहर्गणयागः । यत् तु शातातपेनोक्तम्, “पतितसावित्रीकान् नोपनयेन् नाध्यापयेन् न याजयेत्, य एतान् उपनयेद् अध्यापयेद् याजयेद् वा स उद्दालकव्रतं चरेत्” इति, तत् कामकारविषयम् । उद्दालकव्रतं च प्राग् दर्शितम् । एतच् च कृच्छ्रत्रयं साधारणोपपातकप्रायश्चित्तस्यापवादकं, अत उपपातकसाधारणप्रायश्चित्तं शूद्राद्ययाज्ययाजने व्यवतिष्ठते । तत्र कामतस् त्रैमासिकम् । अकामतस् तु योगीश्वरोक्तं मासव्रतादि । यत् तु प्रचेतसा शूद्रयाजकादीन् पठित्वोक्तम् “पञ्चतपोऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुः । क्रमेण ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकम् अश्नीयुः” इति, तत् कामतो ऽभ्यासविषयम् । यत् तु यमेनोक्तम्,

पुरोधाः शूरवर्णस्य ब्राह्मणो यः प्रवर्तते ।
स्नेहाद् अर्थप्रसङ्गाद् वा तस्य कृच्छ्रो विशोधनम् ॥

इति, तद् अशक्तविषयम् । यच् च पैठीनसिनोक्तम् “शूद्रयाजकः सर्वद्रव्यपरित्यागात् पूतो भवति प्राणायामसहस्रेषु दशकृत्वोऽभ्यस्तेषु” इति, तद् अप्य् अकामतो ऽभ्यासविषयम् । यत् तु गौतमेनोक्तम् “निषिद्धमन्त्रप्रयोगे सहस्रवाग् उपतिष्ठेत्” (ग्ध् २२.२३) इति निषिद्धानां पतितादीनां याजनाध्यापनात्मके मन्त्रप्रयोगे बहुशो ऽभ्यस्ते प्राकृतं ब्रह्मचर्यम् उपदिष्टं, तत् कामतो ऽभ्यासविषयम् । तथा यः स्ववेदं विप्लावयति यश् च रक्षणक्षणो ऽपि तस्करव्यतिरिक्तं शरणागतम् उपेक्षते, सो ऽपि संवत्सरं यवोदनं भुञ्जानः शुध्यति । तत्र विप्लवो नाम पर्वचाण्डालश्रोत्रावकाशाद्यनध्यायेष्व् अध्ययनम् । उत्कर्षहेतोर् अधीयानस्य किं पठसि नाशितं त्वयेत्य् एवं पर्यनुयोगदानं वा विप्लावनम् उच्यते । अत एवोक्तं स्मृत्यन्तरे ।

दत्तानुयोगानध्येतुः पतितान् मनुर् अब्रवीत् । इति ।

यत् तु वसिष्ठेनोक्तम् “पतितचाण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्रपरमं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते” (वध् २३.३४–३५) इति, “एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच् च पूता भवन्तीति विज्ञायते” (वध् २३.३६) इति, तद् बुद्धिपूर्वविषयम् । यत् तु षट्त्रिंशन्मते ऽभिहितम् “चाण्दालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रम् अभोजनम्” इति तद् अबुद्धिपूर्वविषयम् । यदा सर्पाद्यन्तरागमनमात्रं भवति न पुनस् तत्राधीते तत्रापि प्रायश्चित्तं यमेनोक्तम् ।

सर्पस्य नकुलस्याथ अजमार्जारयोस् तथा ।
मूषकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥
पुरुषस्यैडकस्यापि शुनो ऽश्वस्य खरस्य च ।
अन्तरागमने सद्यः प्रायश्चित्तम् इदं शृणु ॥
त्रिरात्रम् उपवासश् च त्रिर् अह्नश् चाभिषेचनम् ।
ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥ इति ॥

पितृमातृसुतत्यागतडागारामविक्रयेषु मनुयोगीश्वरोक्तोपपातकसाधारणप्रायश्चित्तानि पूर्ववज् जातिशक्तिगुणाद्यपेक्षया योज्यानि । तत्र पितृमात्रादित्यागस्य,

अकारणपरित्यक्ता मातापित्रोर् गुरोस् तथा ।

इत्य् अपाङ्क्तेयमध्ये पाठात् तन्निमित्तम् अपि प्रायश्चित्तं भवति । यथाह मनुः ।

षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश् च शाकला नित्यम् अपाङ्क्तानां विशोधनम् ॥ इति । (म्ध् ११.२०१)

अपाङ्क्ताश् च श्राद्धकाण्डे “ये स्तेनपतितक्लीबाः” (म्ध् ३.१५०) इत्यादिवाक्यैर् दर्शिताः । तडागारामविक्रयेषु च कतिचिद्विशेषद्वैमासिकप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि । अनन्तरं “कन्याया दूषणम्” (म्ध् ११.६२) इत्य् उक्तं, तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णाविषये योज्यानि । आनुलोम्ये पुनर् मासिकपयोऽशनं प्राजापत्यं वा,

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः । (य्ध् २.२८८)

इति दण्डाल्पत्वदर्शनात् । यत् तु शङ्खेनोक्तम् “कन्यादूषी सोमविक्रयी च कृच्छ्रम् अब्भक्षं चरेयाताम्” इति, य च्च हारीतवचनम् “कन्यादूषी सोमविक्रयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिर् इत्य् एते पञ्चतपोऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकम् अश्नीयुः” इति, तद् उभयम् अपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूद्रस्य तु वध एव,

दूषणे तु करच्छेद उत्तमायां वधस् तथा । (य्ध् २.२८८)

इति वधदर्शनात् । परिविन्दकयाजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे चात्मार्थपाकक्रियारम्भे मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद् व्यस्थापनीयम् । आद्ययोस् तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शितानि । अनन्तरं “स्वाध्यायाग्निसुतत्यागः” (य्ध् ३.२३९) इत्य् उक्तं, तत्र व्यसनाशक्त्या त्यागे “अधीतस्य च नाशनम्” (य्ध् ३.२२८) इति ब्रह्महत्यासमप्रायश्चित्तम् उक्तम् । शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासिकाद्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि । यत् तु वसिष्ठेनोक्तम् “ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् उपयुञ्जीत वेदम् आचार्यात्” (वध् २०.१२) इति, तद् अत्यन्तापद्विषयम् । अग्नित्यागे ऽपि तेनैव विशेषो दर्शितः- “यो ऽग्नीन् अपविध्येत् स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्” (वध् २१.२७) इति । द्वादशरात्रग्रहणम् उत्सन्नकालापेक्षया प्राजाप्त्यादिगुरुलघुकृच्छ्राणां प्राप्त्यर्थम् । तत्र मासद्वये प्राजापत्यं मासचतुष्टये ऽतिकृच्छ्रः, षण्मासोच्छिन्ने पराकः, षण्मासाद् ऊर्ध्वं योगीश्वरोक्तान्य् उपपातकसामान्यप्रायश्चित्तानि कालाद्यपेक्षया योज्यानि, संवत्सराद् ऊर्ध्वं तु मानवं त्रैमासिकं द्वैमासिकम् इति व्यवस्था । एतच् च नास्तिक्येन त्यागविषयम् । तथा च व्याघ्रः ।

यो ऽग्निं त्यजति नास्तिक्यात् प्राजापत्यं चरेद् द्विजः । इति ।

यदा तु प्रमादात् त्यजति तदा भारद्वाजगृह्ये विशेष उक्तः- “प्राणायामशतम् आ त्रिरात्राद् उपवासः स्याद् आ विंशतिरात्राद् अत ऊर्ध्वम् आ षष्टिरात्रात् तिस्रो रात्रीर् उपवसेद् अत ऊर्ध्वम् आ संवत्सरात् प्राजापत्यं चरेत्, अत ऊर्ध्वं कालबहुत्वे दोषगुरुत्वम्” इति । यदा त्व् आलस्यादिना त्यजति तद् अपि तेनैव विशेष उक्तः- “द्वादशाहातिक्रमे त्रहम् उपवासो मासातिक्रमे द्वादशाहम् उपवासः संवत्सरातिक्रमे मासोपवासः पयोभक्षणं वा” इति । संवत्सराद् ऊर्ध्वं तु वृद्धहारीतेन विशेष उक्तः- “संवत्सरोत्सन्ने ऽग्निहोत्रे चान्द्रायणं कृत्वा पुनर् आदध्यात् । द्विवर्षोत्सन्ने चान्द्रायणं सोमायनं च कुर्यात् । त्रिवर्षोत्सन्ने संवत्सरं कृच्छ्रम् अभ्यस्य पुनर् आदध्यात्” इति । सोमायनं कृच्छ्रकाण्डे वक्ष्यते । शङ्खेनापि विशेष उक्तः- “अग्न्युत्सादी संवत्सरं प्राजाप्त्यं चरेद् गां च दद्यात्” इति ॥ सुतत्यागे बन्धुत्यागे च त्रैमासिकं गोवधव्रतं कामतः । अकामतस् तु योगीश्वरोक्तं व्रतचतुष्टयं शक्त्याद्यपेक्षया योज्यम् । द्रुमच्छेदे प्रायश्चित्तं प्रागुक्तं । स्त्रीप्राणिवधवशीकरणादिभिर् जीवने तिलेक्षुयन्त्रप्रवर्तने च तान्य् एव प्रायश्चित्तानि तथैव योज्यानि । व्यसनेषु च द्यूतमृगयादिषु तान्य् एव व्रतानि तथैव योज्यानि । यत् तु बौधयनेन “अथाशुचिकराणि । द्यूतम् अभिचारो ऽनाहिताग्नेर् उञ्छवृत्तिः समावृत्तस्य च भैक्षचर्या तस्य च गुरुकुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यो यश् च तम् अध्यापयति नक्षत्रनिर्देशनं चेति । द्वादशमासान् द्वादशार्धमासान् द्वादशाहान् द्वादशषडहान् द्वादशत्र्यहांश् च त्र्यहम् एकाहम् इत्य् अशुचिकरनिर्देशः” (ब्ध् २.२.१५–१७) इति द्यूते वार्षिकव्रतम् उक्तं, तद् अभ्यासविषयम् । यत् तु प्रचेतसोक्तम् “अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर् गरदो ऽग्निदो ऽश्वरथगजारोहणवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर् भाण्डिको नक्षत्रोपजीवी श्ववृत्तिर् ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारको ऽपत्यविक्रयी मनुष्यपशुविक्रेता चेति तान् उद्धरेत् समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिषवणम् उपपृशेयुस् तस्यान्ते देवपितृतर्पणं गवाह्निकं चेत्य् एवं व्यवहार्या” इति ,तद् अपि बौधायनेन समानविषयम् । श्वागणिको यः श्वगणेन जीवति । भाण्डिको बन्दिव्यतिरिक्तो राज्ञां तूर्यादिस्वनैः प्रबोधयिता, बन्दिनः पृथगुपादानात् । श्ववृत्तिः सेवकः । ब्रह्मजीवी ब्राह्मणकार्येषु मूल्येन परिचारकः । मनूक्तान्य् अप्य् अपाङ्क्तेयप्रायश्चित्तानि षष्ठान्नकालता मासम् इत्यादीन्य् अपि जात्याद्यपेक्षया योज्यानि, तदुक्तापाङ्क्त्यमध्ये ऽपि कितवादिव्यसनिनां पठितत्वात् । आत्मविक्रये शूद्रसेवायां च सामान्यप्रायश्चित्तानि प्राग्वद् एव योज्यानि । यत् तु बौधायनेनोक्तम् “समुद्रयानं ब्राह्मणस्य न्यासापहरणं सर्वपण्यैर् व्यवहरणं भूम्यनृतं शूद्रसेवा यश् च शूद्रायाम् अभिजायते तेन यद् अपत्यं च भवति तेषां तु निर्देशः ।

चतुर्थकालं मितभोजिनः स्युर्
अपो ऽभ्युपेयुः सवनानुकल्पम् ।
स्थानासनाभ्यां विहरन्त एतैस्
त्रिभिर् वर्षैस् तद् अपहरन्ति पापम् ॥ (ब्ध् २.२.२–१०)

इति, तद् बहुकालसेवाविषयम् । हीनजातिभिः सख्ये तूपपातकसामान्यप्रायश्चित्तान्य् एव । यत् तु प्रचेतसोक्तम् “मित्रभेदनकरणाद् अहोरात्रम् अनश्नन् हुत्वा पयः पिबेत्” इति, तद् अहीनसख्यभेदनविषयम् । हीनयोनिनिषेवणे ऽप्य् उपपातकसामान्यप्रायश्चित्तानि योज्यानि । यत् तु शातातपेनोक्तम् “ब्राह्मणो राजकन्यापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत् तां चैवोपयच्छेद् वैश्यापूर्वीं तु तप्तकृच्छ्रं शूद्रापूर्वीं तु कृच्छ्रातिकृच्छ्रं राजन्यश् चेद् वैश्यापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत् तां चैवोपयच्छेच् छूद्रापूर्वी त्व् अतिकृच्छ्रं वैश्यश् चेच् छूद्रापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा तां चोपयच्छेत्” इति, तत्र निविशेत् तां चोपयच्छेद् इति कृच्छ्रानुष्ठानोत्तरकालं सवर्णापरिणयनाद् ऊर्ध्वं तां च राजन्यादिकाम् उपयच्छेद् इत्य् अर्थः । इदं चाज्ञानविषयम् । ज्ञानतस् तूपपातकसामान्यप्रायश्चित्तं व्यवस्थितम् एव द्रष्टव्यम् । साधारणस्त्रीसंभोगे च हीनयोनिनिषेवणम् इत्य् उक्तं तत्रापि,

पशुवेश्याभिगमने प्राजापत्यं विधीयते ।

इति संव्रतोक्तम् अकामतो द्रष्टव्यम् । कामतस् तु यमेनोक्तं द्रष्टव्यम्-

वेश्यागमनजं पापं व्यपोहन्ति द्विजातयः ।
पीत्वा सकृत् सकृत् तप्तं सप्तरात्रं कुशोदकम् ॥ इति ।

उपपातकसामान्यप्रायश्चित्तानि च कामाकामतो ऽभ्यासापेक्षया योज्यानि । तत्र मत्याभ्यासे तु “प्रतिनिमित्तं नैमित्तिकम् आवर्तते” इति न्यायात्, प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्ताया लौगाक्षिणा विशेष उक्तः-

अभ्यासे ऽहर्गुणा वृद्धिर् मासाद् अर्वाग् विधीयते ।
ततो मासगुणा वृद्धिर् यावत् संवत्सरं भवेत् ॥
ततः संवत्सरगुणा यावत् पापं समाचरेत् ॥ इति ।

इदं मतिपूर्वविषयम् । अमतिपूर्वावृत्तौ चतुर्विंशतिमते विशेष उक्तः-

सकृत्कृते तु यत् प्रोक्तं त्रिगुणं तन्त्रिभिर् दिनैः ।
मासात् पञ्चगुणं प्रोक्तं षण्मासाद् दशधा भवेत् ॥
संवत्सरात् पञ्चदशं त्र्यब्दाद् विंशगुणं भवेत् ।
ततो ऽप्य् एवं प्रकल्प्यं स्याच् छातातपवचो यथा ॥ इति ॥

यत् पुनः “विधेः प्राथमिकाद् अस्मात् द्वितीये द्विगुणं चरेत्” इति प्रतिनिमित्तम् आवृत्तिविधायकं तन् महापातकविषयम् इत्य् उक्तं प्राक् । यत् तु यमेन साधारणस्त्रीगमनम् अधिकृत्य गुरुतल्पव्रतम् अतिदिष्टम्-

गुरुतल्पव्रतं केचित् केचिच् चान्द्रायणव्रतम् ।
गोघ्नस्येच्छन्ति केचित् तु केचिद् एवावकीर्णिनः ॥

इति, एतच् च जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं “तथैवानाश्रमे वास” (य्ध् ३.२४१) इत्य् उक्तं, तत्र हारीतेन विशेष उक्तः- “अनाश्रमी संवत्सरं प्राजापत्यं कृच्छ्रं चरित्वाश्रमम् उपेयात् । द्वितीये ऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रम् अत ऊर्ध्वं चान्द्रायणम्” इति । एतद् असंभवविषयम् । संभवे तु सामान्येनोपपातकप्रायश्चित्तानि कामाकामतो व्यवस्थापनीयानि । परपाकरुचित्वासच्छास्त्राधिगमनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ ३.२८९ ॥

“भार्याया विक्रयश् चैषाम्” (य्ध् ३.२४२) इत्य् अत्र चशब्दो मन्वाद्युक्तासत्प्रतिग्रहनिन्दितान्नादनादीनाम् उपलक्षणार्थम् इत्य् उक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चित्तविशेषम् आह ।

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम् । ३.२८९अब्
गायत्रीजप्यनिरतः शुध्यते ऽसत्प्रतिग्रहात् ॥ ३.२८९च्द्

यस् त्व् असत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायत्रीजप्यनिरतो गायत्रीजपशीलो मासं पयोव्रतेन शुध्यतीति । प्रतिग्रहस्य चासत्त्वं दातुर् जातिकर्मनिबन्धनं यथा चण्डालादेः पतितादेश् च । तथा देशकालनिबन्धनं च यथा कुरुक्षेत्रोपरागादौ तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृतशय्योभयतोमुख्यादेः । यदा तु पतितादेर् मेष्यादिकं प्रतिगृह्णाति तदैतद् गुरुप्रायश्चित्तं द्रष्टव्यम्, व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः,

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥ (म्ध् ११.१९५)

इति प्रत्यहं त्रिसहस्रजपो द्रष्टव्यः । मासम् इति द्वितीयया त्रिसहस्रसंख्याकस्य जपस्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशान् निषिद्धं मेषादिकं गृह्णाति पतितादेर् वा भूम्यादिकम् अनिषिद्धं, तदा षट्त्रिंशन्मतोक्तं द्रष्टव्यम्-

पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः ।
ऐन्दवेन मृगारेष्ट्या कदाचिन् मित्रविन्दया ।
देव्या लक्षजपेनैव शुध्यन्ते दुष्प्रतिग्रहात् ॥ इति ।

यत् तु बृहद्धारीतवचनम्,

राज्ञः प्रतिग्रहं कृत्वा मासम् अप्सु सदा वसेत् ।
षष्ठे काले पयोभक्षः पूर्णे मासे विशुध्यति ॥
तर्पयित्वा द्विजान् कामैः सततं नियतव्रतः ॥

इति, तत् पूर्वोक्तविषये ऽभ्यासे द्रष्टव्यम् । अथ वा पतितादेः कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पतया प्रायश्चित्ताल्पत्वम् । यथाह हारीतः- “मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्” इति । तथा षट्त्रिंशन्मते ऽपि-

भिक्षामात्रे गृहीते तु पुण्यं मन्त्रम् उदिरयेत् ।
प्रतिग्रहेषु सर्वेषु षष्ठम् अंशं प्रकल्पयेत् ॥

इतीदं च प्रायश्चित्तजातं द्रव्यत्यागोचरकालं द्रष्टव्यम्,

यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ (म्ध् ११.१९४)

इति मनुस्मरणात् । एवम् अन्यान्य् अपि स्मृतिवाक्यानि द्रव्यसाराल्पत्वमहत्त्वाभ्यां विषयेषु व्यवस्थापनीयानि ॥

इत्य् उपपातकप्रायश्चित्तप्रकरणम् ।

जात्याश्रयादिदोषेण निन्द्यान्नादेश् च शब्दतः ।
योगीन्द्रोक्तव्रतव्रातः सांप्रतं तु प्रतन्यते ॥

तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृत्कृते “पलाण्डुं विड्वराहं च” (य्ध् १.१७६) इत्यादिना चान्द्रायणम् उक्तम् । कामतो ऽभ्यासे तु “निषिद्धभक्षणं जैह्म्यं” (य्ध् ३.२२९) इत्यादिनोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे सान्तपनम्, तत्रैवाभ्यासे यतिचान्द्रायणं,

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ (म्ध् ५.२०)

इति मनुस्मरणात् । यत् तु वृद्धयमेनोक्तम्,

खट्वार्ताककुम्भीकव्रश्चनप्रभवाणि च ।
भूतृणं शिग्रुकं चैव खुखण्डं कवकानि च ॥
एतेषां भक्षणं कृत्वा प्राजापत्यं चरेद् द्विजः ॥

इति, तत् कामतो ऽभ्यासविषयम्,

मत्स्यांश् च कामतो जग्ध्वा सोपवासस्त्र्यहं क्षिपेत् । (य्ध् १.१७५)

इति योगीश्वरेण कामतः सकृद्भक्षणे त्र्यहस्योक्तत्वात् । खट्वाख्यः पक्षी, कुसुम्भम् इत्य् अन्ये । कवकं राजसर्षपाख्यं शाकम् । खुखण्डं तद्विशेषो गोबलीवर्दन्यायेन निर्दिष्टः । यत् तु यमेनोक्तम्,

तन्दुलीयककुम्भीकव्रश्चनप्रभवांस् तथा ।
नालिकां नारिकेलीं च श्लेष्मातकफलानि च ॥
भूतृणं शिग्रुकं चैव खट्वाख्यं कवकं तथा ।
एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥

इति तद् अपि मतिपूर्वाभ्यासविषयम् । नालिका नारिकेली च शाकविशेषौ, खट्वाख्यश् च । अकामतः सकृद्भक्षणे तु “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे त्व् आवृत्तिः कल्प्या । अत्यन्ताभ्यासे तु,

संसर्गदुष्टं यच् चान्नं क्रियादुष्टम् अकामतः ।
भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥

इति प्रचेतोऽभिहितं द्रष्टव्यम् । नील्यास् त्व् अकामतः सकृद्भक्षणे चान्द्रायणम्,

भक्षयेद् यदि नीलीं तु प्रमादाद् ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्याद् आपस्तम्बो ऽब्रवीन् मुनिः ॥

इत्य् आपस्तम्बस्मरणात् । कामतो ऽभ्यासे चावृत्तिः कल्प्या । यद् अपि षट्त्रिंशन्मते ऽभिहितम्,

शणपुष्पं शाल्मलं च करनिर्मथितं दधि ।
बहिर्वेदिपुरोडाशं जग्ध्वा नाद्याद् अहर्निशम् ॥

इति, तद् अप्य् अकामविषयम् । यत् तु सुमन्तुनोक्तम् “लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि संपातान् नयेत्” इति, तद् बलात्कारेणानिच्छतो भक्षणविषयम्, तद् एकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अत एवानन्तरं तेनैवोक्तम्- “एतान्य् एव व्याधितस्य भिषक्क्त्रियायाम् अप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि तेष्व् अपि न दोषः” इति । संपातान् नयेद् उदकबिन्दून् प्रक्षिपेत् ॥

अथ जातिदुष्टसंधिन्यादिक्षीरपाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने,
अनिर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा ।
आविकं संधिनीक्षीरं विवत्सायाश् च गोः पयः ॥
आरण्यानां च सर्वेषां मृगाणां माहिषीं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसम्भवम् ॥ (म्ध् ५.८–१०)

इत्युक्त्वा “शेषेषूपवसेद् अहः” इति (म्ध् ५.२०) मनूक्त उपवासो द्रष्टव्यः । कामतस् तु योगीश्वरोक्तस् त्रिरात्रोपवासो द्रष्टव्यः । यत् तु पैठनसिनोक्तम्- “अविखरोष्ट्रमानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनर् उपनयनं च । अनिर्दशाहगोमहिषीक्षीरप्राशने षड्रात्रम् अभोजनम् । सर्वासां द्विस्तनीनां क्षीरपाने ऽप्य् अजावर्जम् एतद् एव” इति । यच् च शङ्खेन,

क्षीराणि यान्य् अभक्ष्याणि तद्विकाराशने बुधः ।
सप्तरात्रं व्रतं कुर्यात् प्रयत्नेन समाहितः ॥

इति यावकव्रतम् उक्तं, तद् उभयम् अपि कामतो ऽभ्यासविषयम् । यत् तु शङ्खेन संधिन्यमेध्यभक्षयोः क्षीरप्राशने पक्षव्रतम् उक्तम्,

संधिन्यमेध्यभक्षयोर् भुक्त्वा पक्षव्रतं चरेत् ।

इति, तद् अप्य् अभ्यासविषयम्, “सकृत्पाने गोऽजामहिषीवर्ज्यं सर्वाणि पयांसि प्राश्योपवसेत् । अनिर्दशाहं तान्य् अपि संधिनीयम् असूस्यन्दिनीविवत्साक्षीरं चामेध्यभुजश् च” इति विष्णुनोपवासस्योक्तत्वात् । तथा वर्णनिबन्धनश् च प्रतिषेधः,

क्षत्रियश् चापि वृत्तस्थो वैश्यः शूद्रो ऽथवा पुनः ।
यः पिबेत् कपिलाक्षीरं न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् ॥

इत्य् एवमादौ च यत्र प्रतिपदोक्तं प्रायश्चित्तं न दृश्यते तत्र “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इति साधारणप्रायश्चित्तं मनूक्तं द्रष्टव्यम् ॥

अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्त मुक्तम् । तत्र कामतः सकृद्भक्षणे “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस् तु,
चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥

इति योगीश्वरोक्तं द्रष्टव्यम् । कामतो ऽभ्यासे तु,

जग्ध्वा मांसमभक्ष्यं तु सप्तरात्रं यवान्पिबेत् । (म्ध् ११.१५३)

इति मनूक्तं द्रष्टव्यम् । इदं च विट्सूकरादिमांसव्यतिरिक्तविषयम्,

क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥ (म्ध् ११.१५७)

इति मनुना जातिविशेषेण प्रायश्चित्तविशेषस्योक्तत्वात् । एतन् मूत्रपुरीषप्राशने ऽप्य् एतद् एव,

वराहैकशफानां च काककुक्कुटयोस् तथा ।
क्रव्यादानां च सर्वेषाम् अभक्ष्या ये च कीर्तिताः ॥
मांसमूत्रपुरीषाणि प्राश्य गोमांसम् एव च ।
श्वगोमायुकपीनां च तप्तकृच्छ्रं विधीयते ॥
उपोष्य वा द्वादशाहं कूष्माण्डैर् जुहुयाद् घृतम् ॥

इति बृहद्यमस्मरणात् । तत्र कामतस् तप्तकृच्छ्रः, अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था । तथा प्रचेतसाप्य् उक्तम् “श्वसृगालकाककुक्कुटपार्षतवानरचित्रकचाषक्रव्याद-खरोष्ट्रगजवाजिविड्वराहगोमानुषमांसभक्षणे तप्तकृच्छ्रम् आदिशेद् एषां मूत्रपुरीषभक्षणे त्व् अतिकृच्छ्रम्” इति । इदं च कामकारविषयम् । यत् तु उशनसो वचनम्,

नरमांसं श्वमांसं वा गोमांसं वाश्वम् एव वा ।
भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥

इति, तद् अकामविषयम् । यत् त्व् अङ्गिरोवचनम्,

बलाकाभासगृघ्राखुखरवानरसूकरान् ।
दृष्ट्वा चैषाम् अमेध्यानि स्पृष्ट्वाचम्य विशुध्यति ॥
इच्छयैषाम् अमेध्यानि भक्षयित्वा द्विजातयः ।
कुर्युः सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥

इति, तद् भक्षितोद्गारितविषयम् । सान्तपनशब्देन चात्र महासान्तपनम् उच्यते, अकामतः प्राजापत्यविधानात् । यत् पुनर् अङ्गिरोवचनम्,

नरकाकखराश्वानां जग्ध्वा मांसं गजस्य च ।
एषां मूत्रपुरिषाणि द्विजश् चान्द्रायणं चरेत् ॥

इति, यच् च बृहद्यमेनोक्तम्,

शुष्कमांसाशने विप्रो व्रतं चान्द्रायणं चरेत् ।

इति, तद् उभयम् अपि कामतो ऽभ्यासविषयम् । यत् पुनः शङ्खेनोक्तम्,

भुक्त्वा चोभयतोदन्तांस् तथा चैकशफान् अपि ।
औष्ट्रं गव्यं तथा जग्ध्वा षण्मासान् व्रतम् आचरेत् ॥

इति, तत् कामतो ऽत्यन्ताभ्यासविषयम् । यत् तु स्मृत्यन्तरोक्तम्,

जग्ध्वा मांसं नराणां च विड्वराहं खरं तथा ।
गवाश्वकुञ्जरोष्ट्राणां सर्वं पाञ्चनखं तथा ।
क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम् ॥

इति, तद् अत्यन्तानवच्छिन्नाभ्यासविषयम् । अत्र प्रकरणे मूत्रपुरीषग्रहणं वसाशुक्रासृङ्मज्जानाम् उपलक्षणम् । कर्णविट्प्रभृतिमलषट्के त्व् अर्धं कल्पनीयम् ।

केशादिषु पुनः षट्त्रिंशन्मते विशेष उक्तः- “अजाविमहिषमृगाणाम् आममांसभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रम् अज्ञानाद् उपवासः” इति । यत् तु प्रचेतसोक्तम्- “नखकेशमृल्लोष्टभक्षणे ऽहोरात्रम् अभोजनाच् छुद्धिः” इति, तद् अप्य् अकामतः सकृत्प्राशनविषयम् । यत् तु स्मृत्यन्तरवचनम्,
केशकीटनखं प्राश्य मत्स्यकण्टकम् एव च ।
हेमतप्तं घृतं पीत्वा तत्क्षणाद् एव शुध्यति ॥

इति, तन् मुखमात्रप्रवेशविषयम् । यदा तु भाजनस्थम् अन्नं केशादिदूषितं भवति, तदा,

अन्ने भोजनकाले तु मक्षिकाकेषदूषिते ।
अनन्तरं स्पृशेद् आपस् तच् चान्नं भस्मना स्पृशेत् ॥

इति प्रचेतसाभिहितं वेदितव्यम् । प्रासङ्गिको ऽयं श्लोकः । सूक्ष्मतरकृमिकीटास्थिभक्षणे पुनर् हारीतेन विशेष उक्तः- “कृमिकीटपिपीलिकाजलौकःपतङ्गास्थिप्राशने गोमूत्रगोमयाहारस् त्रिरात्रेण विशुध्यति” इति । जलौको मत्स्यादिः । एवं च पशुपतत्त्रिजलचरनरमांसादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि ग्रन्थगौरवभयात् प्रतिव्यक्ति न लिख्यते ॥

अथाशुचिसंस्पृष्टभक्षणे प्रायश्चित्तं तत्र तावद् उच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र मनुः-
बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकीटावपन्नं च पिबेद् ब्रह्मीं सुवर्चलाम् ॥ (म्ध् ११.१६०)

इति कालविशेषानुपादानाद् एकरात्रम् । इदं च कामतो द्रष्टव्यम् । यत् तु विष्णुनोक्तम्,

पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः ।
संस्काररहितस्यापि भोजने कृच्छ्रपादकम् ॥

इति, तत् कामकारविषयम् । संस्कारश् च मानवे “देवद्रोण्याम्” इत्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः । यत् तु शातातपेनोक्तम् “श्वकाकाद्यवलीढशूद्रोच्छिष्टभोजने त्व् अतिकृच्छ्रः"इति, तद् अकामतो ऽभ्यासविषयम् । यत् तु शङ्खेन,

शुनाम् उच्छिष्टकं भुक्त्वा मासम् एकं व्रती भवेत् ।
काकोच्छिष्टं गवा घ्रातं भुक्त्वा पक्षं व्रती भवेत् ॥

इति यावकव्रतम् उक्तं, तत् कामतो ऽभ्यासविषयम् । ब्राह्मणाद्युच्छिष्टभोजने तु बृहद्विष्णुनोक्तं- “ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं पञ्चगव्यं पिबेत्, वैश्योच्छिष्टाशने पञ्चरात्रं, राजन्योच्छिष्टाशने त्रिरात्रं, ब्राह्मणोच्छिष्टाशने त्व् एकाहम्” इति, तत् कामकारविषयम् । यत् तु यमवचनम्,

भुक्त्वा सह ब्राह्मणेन प्राजापत्येन शुध्यति ।
भूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण शुध्यति ॥
वैश्येन सह भुक्त्वान्नम् अतिकृच्छ्रेण शुध्यति ।
शूद्रेण सह भुक्त्वान्नं चान्द्रायणम् अथाचरेत् ॥

इति, तत् कामतो ऽभ्यासविषयम् । यत् पुनः शङ्खवचनम् “ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिर् अभिमन्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टाशने ब्राह्मीरसविपक्वेन त्र्यहं क्षीरेण वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने षड्रात्रम् अभोजनम्” इति, तद् अकामविषयम् । तत्राभ्यासे द्वैगुण्यादिकं कल्प्यम् । एतच् च पित्रादिव्यतिरेकेण, “पितुर् ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोज्यम्” (आप्ध् १.४.११) इत्य् आपस्तम्बस्मरणात् । यत् तु बृहद्व्यासवचनम्-

माता वा भगिनी वापि भार्या वान्याश् च योषितः ।
न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥

इति, तत् सहभोजनविषयम् । उच्छिष्टमात्रभोजने तु “शूद्रोच्छिष्टभोजने सप्तरात्रम् अभोजनं स्त्रीणां च” (आप्ध् १.२६.४–५) इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । यत् त्व् अङ्गिरोवचनम्-

ब्राह्मण्या सह यो ऽश्नीयाद् उच्छिष्टं वा कदाचन ।
तत्र दोषं न मन्यन्ते सर्व एव मनीषिणः ॥

इति, तद् विवाहविषयम् आपद्विषयं वा । अन्त्योच्छिष्टभोजने तु,

अन्त्यानां बुक्तशेषं तु भक्षयित्वा द्विजातयः ।
चान्द्रं कृच्छ्रं तदर्धं च ब्रह्मक्षत्रविशां विधिः ॥

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्त्यावसाय्युच्छिष्टभोजने तु,

चण्डालपतितादीनाम् उच्छिष्टान्नस्य भक्षणे ।
चान्द्रायणं चरेद् विप्रः क्षत्रः सान्तपनं चरेत् ॥
षड्रात्रं च त्रिरात्रं च वर्णयोर् अनुपूर्वशः ॥

इत्य् अङ्गिरोभिहितं सान्तपनम् अत्र महासन्तपनं द्रष्टव्यम् । आपदि तु,

आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत् तु द्रुपदानां शतं जपेत् ॥

इति पराशरोक्तं वेदितव्यम् । यत् तु बृहच्छातातपेनोक्तम्,

पीतशेषं तु यत् किंचिद् भाजने मुखनिःसृतम् ।
अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् ॥

इति, तद् अभ्यासविषयम्, निमित्तस्यातिलघुत्वात् ।

पीतोच्छिष्टं च पानीयं पीत्व तु ब्राह्मणः क्वचित् ।
त्रिरात्रं तु व्रतं कुर्याद् वामहस्तेन वा पुनः ॥

इति एतद् बुद्धिपूर्वविषयम् । अकामतस् त्व् अर्धं कल्प्यम् । दीपोच्छिष्टे तु,

दीपोच्छिष्टं तु यत् तैलं रात्रौ रथ्याहृतं च यत् ।
अभ्यङ्गाच् चैव यच् छिष्टं भुक्त्वा नक्तेन शुध्यति ॥

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥

अथाशुचिद्रव्यसंस्पृश्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः-
केशकीटावपन्नं च नीलीलाक्षोपघातितम् ।
स्नाय्वस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेद् अहः ॥ इति ।

तथाह शातातपः- “केशकीटावपन्नं च रुधिरमांसास्पृश्यस्पृष्टभ्रूणघ्नावेक्षित-पतत्त्र्यवलीढश्वसूकरगवाघ्रातशुक्तपर्युषितवृथापक्वदेवान्नहविषां भोजने उपवासः पञ्चगव्याशनं च” इति एतच् चोभयम् अप्य् अकामविषयम् । कामतस् तु,

मृद्वारिकुसुमादींश् च फलकन्देक्षुमूलकान् ।
विण्मूत्रदूषितान् प्राश्य कृच्छ्रपादं समाचरेत् ॥
संनिकृष्टे ऽर्धम् एव स्यात् कृच्छ्रः स्याच् छुचिशोधनम् ॥

इति विष्णूक्तं वेदितव्यम् । अल्पसंसर्गे पादो महासंसर्गे ऽर्धक्र्च्छ्र इति व्यवस्था । यत् तु व्यासेनोक्तम्,

संसर्गदुष्टं यच् चान्नं क्रियादुष्टं च कामतः ।
भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥

इति, एतच् च संसृष्टामेध्यादिरसोपलब्धौ वदितव्यम् । रजस्वलादिस्पृशे तु शङ्खोक्तम्- “अमेध्यपतितचण्डालपुल्कसरजस्वलावधूतकुणिकुष्टिकुनखिसंस्पृष्टानि भुक्त्वा कृच्छ्रं चरेत्” । इति । कुणिर् हस्तविकलः । एतत् कामकारविषयम् । अकामतो ऽर्धम् ।

भुक्त्वास्पृश्यैस् तथाशौचिकेशकीटैश् च दूषितम् ।
कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः ।
शङ्खपुष्पीसुवर्चादिक्वाथं पीत्वा विशुध्यति ॥

इति यद् विष्णुनोक्तं, तद् अशक्तविषयं रजकादिस्पृष्टविषयं वा । शूद्राद्युपहते तु हारीतोक्तं विज्ञेयम्- “शूद्रेणोपहतं भोज्यं कीटैर् वामेध्यसेविभिः । भुञ्जानेषु वा यत्र शूद्र उपस्पृशेद् अनर्हत्वात् स पङ्क्तौ तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेद् आचामेद् वा कुत्सित्वा वा यत्रान्नं दद्युस् तत्र प्रायश्चित्तम् अहोरात्रम्” इति । उच्छिष्टपङ्क्तिभोजने ऽप्य् एतद् एव,

यस् तु भुङ्क्ते द्विजः पण्क्त्याम् उच्छिष्टायां कदाचन ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥

इति क्रतुस्मरणात् । वामकरनिर्मुक्तान्नभोजने तु,

समुत्थितस् तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभाजने ।
एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥

इति षट्त्रिंशन्मतोक्तं वेदितव्यम् । तथा पराशरेणाप्य् अत्रोक्तम् ।

एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने ।
यद्य् एको ऽपि त्यजेत् पात्रं शेषम् अन्नं न भोजयेत् ॥
मोहाद् भुञ्जीत यस् तत्र पङ्क्त्याम् उच्छिष्टभोजनः ।
प्रायश्चित्तं चरेद् विप्रः कृच्छ्रं सान्तपनं तथा ॥ इति ॥

शवादिसंपृक्तकूपाद्युदकपाने तु विष्णुर् आह- “मृतपञ्चनखात् कूपाद् अत्यन्तोपहताद् वोदकं पीत्वा ब्राह्मणस् त्र्यहम् उपवसेत्, द्व्यहं राजन्यः, एकाहं वैश्यः, शूद्रो नक्तम् । सर्वे चान्ते पञ्चगव्यं पिबेयुः” (विध् ५४.२–६) इति । अत्यन्तोपहताद् वेति मूत्रपुरीषादिभिर् वेत्य् अभिप्रेतम् । यदा तु तत्रैव शवम् उच्छूनतयोद्भिन्नं भवति, तदा हारीतो विशेषम् आह ।

क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत् पिबेत् ।
शुद्ध्यै चान्द्रायणं कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥
यदि कश्चित् ततः स्नायात् प्रमादेन द्विजोत्तमः ।
जपंस् त्रिषवणस्नाय्य् अहोरात्रेण शुध्यति ॥ इति ।

इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस् तु षड्रात्रम्,

क्लिन्नं भिन्नं शवं चैव कूपस्थं यदि दृश्यते ।
पयः पिबेत् त्रिरात्रेण मानुषे द्विगुणे स्मृतम् ॥

इति देवलस्मरणात् । यदा चाण्डालकूपादिगतं जलं पिबति तदा आपस्तम्बोक्तं द्रष्टव्यम् ।

चाण्डालकूपभाण्डस्थं नरः कामाज् जलं पिबेत् ।
प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥
चरेत् सान्तपनं विप्रः प्राजापत्यं च भूमिपः ।
तदर्धं तु चरेद् वैश्यः शूद्रे पादं विनिर्दिशेत् ॥ इति ।

इदं च कामकारविषयम् । अकामतस् तु,

चाण्डालकूपभाण्डस्थम् अज्ञानाद् उदकं पिबेत् ।
स तु त्र्यहेण शुध्येत शूद्रस् त्व् एकेन शुध्यति ॥

इति देवलोक्तं द्रष्टव्यम् । चाण्डालादिसंबद्धाल्पजलाशयेष्व् अपि कूपवच् छुद्धिः,

जलाशयेष्व् अथाल्पेषु स्थावरेषु महीतले ।
कूपवत् कथिता शुद्धिर् महत्सु तु न दूषणम् ॥ (विध् २३.४६)

इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः,

म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां हृदे ऽपि वा ।
जानुदध्नं शुचि ज्ञेयम् अधस्ताद् अशुचि स्मृतम् ॥
तत् तोयं यः पिबेद् विप्रः कामतो ऽकामतो ऽपि वा ।
अकामान् नक्तभोजी स्याद् अहोरात्रं तु कामतः ॥

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । रजकादिभाण्डगततोये तु,

भाण्डस्थम् अन्त्यजानां तु जलं दधि पयः पिबेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव प्रमादतः ॥
ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ॥
शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥

इति पराशरोक्तं वेदितव्यम् । कामतस् तु द्विगुणम्,

अन्त्यजैः खानिताः कूपास् तडागा वाप्य एव वा ।
एषु स्नात्व च पीत्वा च प्राजापत्येन शुध्यति ॥

इत्य् आपस्तम्बोक्तम् अभ्यासविषयं वेदितव्यम् । यत् त्व् आपस्तम्बेन चण्डालादितडागकूपादिजलपाने पञ्चगव्यमात्रं भक्ष्यम् उक्तम्,

प्रपास्व् अरण्ये घटके च सौरे द्रोण्यां जलं कोशविनिर्गतं च ।
श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुध्येत् ॥

इति, तद् अशक्तविषयम् ।

प्रपां गतो विना तोयं शरीरं यो निषिञ्चति ।
एकाहक्षपणं कृत्वा सचैलं स्नानम् आचरेत् ॥
सुराघटप्रपातोये पीत्वा नाव्यं जलं तथा ।
अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥ इति ॥
अथ भावदुष्टभक्षणे प्रायश्चित्तम् । भावदुष्टं च यद् वर्णत आकारतो वा विसदृशतया जुगुप्सितशारीरमलादिवासनां जनयति तद् उच्यते, अरिप्रयुक्तगरलादिशङ्कायां वा । तत्र च पराशरः ।
वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते ।
भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रेण वुसिध्यति ॥ इति ।

एतत् कामकारविषयम् । यत् तु गौतमेन “भावदुष्टं” “केवलम्” (ग्ध् १७.१३, १४) इत्यादि प्राक् पञ्चनखेभ्यः पठित्वा प्रायश्चित्तम् उक्तम् “प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च” (ग्ध् २३.२६) इति, तद् अकामविषयम् । शङ्कायां तु,

शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञितम् ।
आहारशुद्धिं वक्ष्यामि तन् मे निगदतः शृणु ॥
अक्षारलवणां रूक्षां पिबेद् ब्राह्मीं सुवर्चलाम् ।
त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः पयसा सह ॥
पलाशबिल्वपत्राणि कुशान् पद्मम् उदुम्बरम् ।
अपः पिबेत् क्वाथयित्वा त्रिरात्रेण विशुध्यति ॥ (वध् १०–१२)

इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्य् अभोज्यभोजनशङ्कायाम् उक्तम् ।

संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ इति ॥ (म्ध् ५.२१)
अथ कालदुष्टभक्षणे प्रायश्चित्तम् । कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि । तत्र चाकामतः “शेषेषूपवसेद् अहः” इति (म्ध् ५.२०) मनूक्तं वेदितव्यम् । कामतस् तु,
केवलानि च शुक्तानि तथा पर्युषितं च यत् ।
ऋजीषपक्वं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥

इति शङ्खोक्तं वेदितव्यम् । केवलान्य् अस्नेहोक्तानि । अनिर्दशगोक्षीरादिषु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकस्य पाने तु पञ्चगव्यप्राशनम्,

शृङ्गास्थिदन्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः ।
पीत्वा नवोदकं चैव पञ्चगव्येन शुध्यति ॥

इति बृहद्याज्ञवल्क्यस्मरणात् । कामतस् तूपवासः कर्तव्यः,

काले नवोदकं शुद्धं न पिबेच् च त्र्यहं हि तत् ।
अकाले तु दशाहं स्यात् पीत्वा नाद्याद् अहर्निशम् ॥

इति स्मृत्यन्तरदर्शनात् । ग्रहणकालभोजने तु चान्द्रायणम्,

नवश्राद्धग्रामयाजकान्नसग्रहभोजने ।
नारीणां प्रथमे गर्भे भुक्त्वा चान्द्रायणं चरेत् ॥

इति शातातपस्मरणात् । यदा तु सग्रहाद् अन्यत्र निषिद्धकाले भुङ्क्ते तदाह मार्कण्डेयः ।

चन्द्रस्य यदि वा भानोर् यस्मिन्न् अहनि भार्गव ।
ग्रहणं तु भवेत् तस्मिन् न पूर्वं भोजनक्रियाम् ॥
नाचरेत् सग्रहे चैव तथैवास्तमुपागते ।
यावत् स्यान् नोदयस् तस्य नाश्नीयात् तावद् एव तु ॥

तथा,

ग्रहणं तु भवेद् इन्दोः प्रथमाद् अधियामतः ।
भुञ्जीतावर्तनात् पूर्वं प्रथमे प्रथमाद् अधः ॥
तथा,
अपराह्णे न मध्याह्ने सायाह्ने न तु सङ्गवे ।
भुञ्जीत सङ्गवे चेत् स्यान् न पूर्वं भोजनक्रिया ॥ इति ।

यच् च मनुनोक्तम्,

नाश्नीयात् संधिवेलायां नातिप्रगे नातिसायम् । (म्ध् ४.५५)

इत्य् एवमादि, यच् च बृहच्छातातपेनोक्तम्,

धाना दधि च सक्तूंश् च श्रीकामो वर्जयेन् निशि ।
भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥

इत्य् एवमादिष्व् अनादिष्टप्रायश्चित्तेषु,

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ (य्ध् ३.३०५)

इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् । अकामतस् तु “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इति मनूक्तोपवासो द्रष्टव्यः ॥

अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः ।
शुक्तानि च कषायांश् च पीत्वामेध्यान्य् अपि द्विजः ।
तावद् भवत्य् अप्रयतो यावत् तन् न व्रजत्य् अधः ॥ इति । (म्ध् ११.१५४)

अत्राकामतः “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इत्य् उपवासो द्रष्टव्यः । कामतस् तु,

केवलानि च शुक्तानि तथा पर्युषितं च यत् ।
ऋजीषपक्वं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥

इति शङ्खोक्तं द्रष्टव्यम् । एतच् चामलकादिफलयुक्तकाञ्जिकादिव्यतिरेकेण द्रष्टव्यम् ।

कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् ।
तस्यास् तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥

इति स्मरणात् । उद्धृतस्नेहादिषु तु “उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात्” (ग्ध् ९.५८) इत्य् उक्त्वा, “प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च” (ग्ध् २३.२६) इति गौतमोक्तं द्रष्टव्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह ।

यस्य चाग्नौ न क्रियते यस्य चाग्रं न दीयते ।
न तद् भोज्यं द्विजातीनां भुक्त्वा चोपवसेद् अहः ॥
वृथा कृसरसंयावपायसापूपशष्कुलीः ।
आहिताग्निर् द्विजो भुक्त्वा प्राजापत्यं समाचरेत् ॥ इति ॥

अनाहिताग्नेस् तु “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इत्य् उपवासो द्रष्टव्यः । भिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम् ।

शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने ।
अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुध्यति ॥ इति ।

तथा स्मृत्यन्तरे ऽप्य् उक्तम् ।

वटार्काश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः ।
कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥ इति ।

तथा,

पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् ।
वानप्रस्थो यतिश् चैव लभते चान्द्रिकं फलम् ॥ इति ॥
अथ हस्तदानादिक्रियादुष्टाभोज्यभक्षणे प्रायश्चित्तम् । तत्र पराशरः।
माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् ।
हस्तदत्तानि भुक्त्वा तु दिनम् एकम् अभोजनम् ॥ इति ।

कामतस् तु, “हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्टपङ्क्तिभोजने पङ्क्त्यग्रतो भोजने ऽभ्यक्तमूत्रपुरीषकरणे मृतसूतकशूद्रान्नभोजने शूद्रैः सह स्वप्ने त्रिरात्रम् अभोजनम्” इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे तु,

ब्राह्मणान्नं ददच् छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।
द्वयम् एतद् अभोज्यं स्याद् भुक्त्वा तूपवसेद् अहः ॥

इति वृद्धयाज्ञवल्क्योक्तम् अवगन्तव्यम् । शूद्रहस्तेन भोजने तु,

शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिबेत् क्वचित् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥

इति क्रतूक्तं विज्ञेयम् । धमनदुष्टे ऽपि,

आसनारूढपादो वा वस्त्रार्धप्रावृतो ऽपि वा ।
मुखेन धमितं भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥
इति तेनैवोक्तम् । पित्राद्युद्देशेन त्यक्तान्नभोजने तु,
भुङ्क्ते चेत् पार्वणश्राद्धे प्राणायामान् षड् आचरेत् ।
उपवासस् त्रिमासादि वत्सरान्तं प्रकीर्तितः ॥
प्राणायामत्रयं वृद्धाव् अहोरात्रं सपिण्डने ।
असरूपे स्मृतं नक्तं व्रतपारणके तथा ॥
द्विगुणं क्षत्रियस्यैतत् त्रिगुणं वैश्यभोजने ।
साक्षाच् चतुर्गुणं ह्य् एतत् स्मृतं शूद्रस्य भोजने ॥
अतिथौ तिष्ठति द्वारि ह्य् अपः प्राश्नन्ति ये द्विजाः ।
रुधिरं तद् भवेद् वारि भुक्त्वा चान्द्रायणं चरेत् ॥

इति भारद्वाजोक्तम् अवगन्तव्यम् । हारीतेनाप्य् उक्तम् ।

एकादशाहे भुक्त्वान्नं भुक्त्वा संचयने तथा ।
उपोष्य विधिवत् स्नात्वा कूष्माण्डैर् जुहुयाद् घृतम् ॥ इति ।

विष्णुनाप्य् उक्तम् ।

प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥ इति ।

इदं चापद्विषयम् । अनापदि तु,

चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके ।
एकाहस् तु पुराणेषु प्राजापत्यं विधीयते ॥

इति हारीतोक्तं द्रष्टव्यम् । “प्राजापत्यं तु मिश्रके” इत्य् एतद् आद्यमासिकविष्यं द्रष्टव्यम् । द्वितीयादिषु तु,

प्राजापत्यं नवश्राद्धे पदोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं स्यात् पादो द्वैमासिके तथा ।
पादोनकृच्छ्रम् उद्दिष्टं षण्मासे च तथाब्दिके ।
त्रिरात्रं चान्यमासेषु प्रत्यहं चेद् अहः स्मृतम् ॥

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । क्षत्रियादिश्राद्धभोजने त्व् अनापदि तत्रैव उक्तः ।

चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः ।
त्रैपक्षिके सान्तपनं कृच्छ्रो मासद्वये स्मृतः ॥
क्षत्रियस्य नवश्राद्धे व्रतम् एतद् उदाहृतम् ।
वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात् तु मनीषिभिः ॥
शूद्रस्य तु नवश्राद्धे चरेच् चान्द्रायणद्वयम् ।
सार्धं चान्द्रायणं मासे त्रिपक्षे त्व् ऐन्दवं स्मृतम् ॥
मासद्वये पराकः स्याद् ऊर्ध्वं सान्तपनं स्मृतम् ॥ इति ।

यत् तु शङ्खवचनम्,

चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः ।
पक्षत्रये ऽतिकृच्छ्रः स्यात् षण्मासे कृच्छ्र एव तु ॥
आब्दिके पादकृच्छ्रः स्याद् एकाहः पुनर् आब्दिके ।
अत ऊर्ध्वं न दोषः स्याच् छङ्खस्य वचनं यथा ॥

इति, तत् सर्पादिहतविषयम्, “ये स्तेनाः पतिताः क्लीबाः” (म्ध् ३.१५०) इत्याद्यपाङ्क्तेयविषयं वा ।

चण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मणाम् ॥
पतनानाशकैश् चैव विषोद्बन्धनकैस् तथा ।
भुक्त्वैषां षोडशश्राद्धे कुर्याद् इन्दुव्रतं द्विजः ॥ इति ।

तथा,

अपाङ्क्तेयान् यदुद्दश्य श्राद्धम् एकादशे ऽहनि ।
ब्राह्मणस् तत्र भुक्त्वान्नं शिशुचान्द्रायणं चरेत् ॥ इति ।
आमश्राद्धे तथा भुक्त्वा तप्तकृच्छेण शुध्यति ।
संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥

इति भरद्वाजेन गुरुप्रायश्चित्ताभिधानात् ।

ब्रह्मचारिणस् तु बृहद्यमो विशेषम् आह ।
मासिकादिषु यो ऽश्नीयाद् असमाप्तव्रतो द्विजः ।
त्रिरात्रम् उपवासो ऽस्य प्रायश्चित्तं विधीयते ॥
प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति ।

इदम् अज्ञानविषयम् । कामतो ऽपि स एवाह ।

मधु मांसं तु यो ऽश्नीयाच् छ्राद्धे सूतक एव वा ।
प्राजापत्यं चरेत् कृच्छ्रं व्रतशेषं समापयेत् ॥ इति ।

आमश्राद्धे तु सर्वत्रार्धम्,

आमश्राद्धे तदर्धं तु प्राजापत्यं तु सर्वदा ।

इति षट्त्रिंशन्मते ऽभिधानात् । यत् तु उशनसोक्तम्,

दशकृत्वः पिबेच् चापो गायत्र्या श्राद्धभुग् द्विजः ।
ततः संध्याम् उपासीत शुध्येत् तु तदनन्तरम् ॥

इति, तद् अनुक्तप्रायश्चित्तश्राद्धविषयम् । संस्काराङ्गभूतश्राद्धभोजने तु व्यासेन विशेष उक्तः ।

निर्वृत्तचूडाहोमे तु प्राङ्नामकरणात् तथा ।
चरेत् सान्तपनं भुक्त्वा जातकर्मणि चैव हि ॥
अतो ऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः ।
नियोगाद् उपवासेन शुध्यते निन्द्यभोजने ॥ इति ॥

सीमन्तोन्नयनादिषु पुनर् धौम्यो विशेषम् आह ।

ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा ।
जातश्राद्धे नवश्राद्धे द्विजश् चान्द्रायणं चरेत् ॥ इति ।

अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतम्, सोमसाहचर्यात् ॥

अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम् । “यत् स्वरूपतो ऽनिषिद्धम् अपि विशिष्टपुरुषस्वामिकतयाभोज्यं भण्यते तत्परिग्रहाशुचि” । तत्र योगीश्वरेण,
अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि । (य्ध् १.१६०)

इत्य् आरभ्य सार्धपञ्चभिः श्लोकैर् अभोज्यान्नाः प्रतिपादिताः (य्ध् १.१६१–६५) । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः ।

नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥
स्तेनगायनयोश् चान्नं तक्ष्णो वार्द्धुषिकस्य च ।
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥
उग्रान्नं सूतिकान्नं च पर्याचान्तम् अनिर्दशम् ।
अनर्चितं वृथामांसम् अवीरायाश् च योषितः ॥
द्विषदन्नं नगर्यन्नं पतितान्नम् अवक्षुतम् ।
पिशुनानृतिनोश् चैव क्रतुविक्रयिणस् तथा ॥
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ।
कर्मारस्य निषादस्य रङ्गावतारणस्य च ॥
सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ।
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ॥
रजकस्य नृशंसस्य यस्य चोपपतिर् गृहे ।
मृष्यन्ति ये चोपपतिं स्त्रीजितानाम् च सर्वशः ॥
अनिर्दशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥ इति ॥ (म्ध् ४.२०५–१७)

अत्र च पदार्था अभक्ष्यकाण्डे श्राद्धकाण्डे च व्याख्याताः । अत्र प्रायश्चित्तम् आह ।

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वाचरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ इति । (म्ध् ४.२२२)

पैठीनसिनाप्य् अकामतस् त्रिरात्रम् एवोक्तम्- “कुनाखी श्यावदन्तः पित्रा विवदमानः स्त्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको ग्रामयाजको ऽभिशस्तो वृषल्याम् अभिजितः परिवित्तिः परिविन्दानो दिधिषूपतिः पुनर्भूपुत्रश् चौरः काण्डपृष्ठः सेवकश् चेत्य् अभोज्यान्ना अपाङ्क्तेया अश्राद्धार्हाः एषां भुक्त्वा दत्त्वा वाविज्ञानात् त्रिरात्रम्” इति ॥ शङ्खेन त्व् एतान् एव किंचिदधिकान् पठित्वा चान्द्रायणम् उक्तं, तद् अभ्यासविषयम् ॥ गौतमेन पुनर् “उच्छिष्टपुंश्चल्यभिशस्ताः” (ग्ध् १७.१७) इत्यादिना अभोज्यान् पठित्वा, “प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च” (ग्ध् २३.२६) इति प्रायश्चित्तम् उक्तं, तद् आपद्विषयम् । यस् तु बलात्कारेण भोज्यते तस्यापस्तम्बेन विशेष उक्तः ।

बलाद् दासीकृता ये तु म्लेच्छचण्डालदस्युभिः ।
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥
उच्छिष्टमार्जनं चैव तथोच्छिष्टस्य भोजनम् ।
खरोष्ट्रविड्वराहाणाम् आमिषस्य च मक्षणम् ॥
तत्स्त्रीणां च तथा सङ्गस् ताभिश् च सह भोजनम् ।
मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥
चान्द्रायणं त्व् आहिताग्नेः पराकस् त्व् अथवा भवेत् ।
चान्द्रायणं पराकं च चरेत् संवत्सरोषितः ॥
संवत्सरोषितः शूद्रो मासार्धं यावकं पिबेत् ।
मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ॥
ऊर्ध्वं संवत्सरात् कल्प्यं प्रायश्चित्तं द्विजोत्तमैः ।
संवत्सरैस् त्रिभिश् चैव तद्भावं स निगच्छति ॥ इति ।
आशौचिपरिगृहीतान्नभोजने तु छागलेय आह ।
अज्ञानाद् भुञ्जते विप्राः सूतके मृतके तथा ।
प्राणायामशतं कृत्वा शुध्यन्ते शूद्रसूतके ॥
वैश्ये षष्टिर् भवेद् राज्ञि विंशति ब्राह्मणे दश ।
एकाहं च त्र्यहं पञ्च सप्तरात्रम् अभोजनम् ॥
ततः शुद्धिर् भवत्य् एषां पञ्चगव्यं पिबेत् ततः ॥ इति ।

ब्राह्मणादिक्रमेणैकाहत्र्यहादयो योज्याः । इदम् अकामविषयम् । कामतस् तु मार्कण्डेय आह ।

भुक्त्वा तु ब्राह्मणाशौचे चरेत् सान्तपनं द्विजः ।
भुक्त्वा तु क्षत्रियाशौचे सप्तकृच्छ्रो विधीयते ॥
वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् ।
शूद्रस्यैव तथा भुक्त्वा त्रिमासान् व्रतम् आचरेत् ॥

यत् तु शङ्खेनोक्तम्,

शूद्रस्य सूतके भुक्त्वा षण्मासान् व्रतम् आचरेत् ।
वैश्यस्य तु तथा भुक्त्वा त्रीन् मासान् व्रतम् आचरेत् ॥
क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतम् आचरेत् ।
ब्राह्मणस्य तथाशौचे भुक्त्वा मासव्रती भवेत् ॥

इति, इदम् अभ्यासविषयम् । एतच् च प्रायश्चित्तम् आशौचानन्तरं वेदितव्यम्, “ब्राह्मणादीनाम् आशौचे यः सकृद् एवान्नम् अश्नाति तस्य तावद् आशौचं यावत् तेषाम्, आशौचव्यपगमे तु प्रायश्चित्तं कुर्यात्” इति (विध् २२.८–९) विष्णुस्मरणात् ॥

अपुत्राद्यन्नभोजने तु लिखित आह ।
भुक्त्वा वार्धुषिकस्यान्नम् अव्रतस्यासुतस्य च ।
शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्याद् अभोजनम् ॥

तथा ।

परपाकनिवृत्तस्य परपाकरतस्य च ।
अपचस्य तु भुक्त्वान्नं द्विजश् चान्द्रायणं चरेत् ॥ इति ।

एतच् चाभ्यासविषयम् । परपाकेन निवृत्तादेर् लक्षणं च तेनैवोक्तम् ।

गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ।
परपाकनिवृत्तो ऽसौ मुनिभिः परिकीर्तितः ॥
पञ्चयज्ञांस् तु यः कृत्वा परान्नाद् उपजीवति ।
सततं प्रातर् उत्थाय परपाकरतस् तु सः ॥
गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः ।
ऋषिभिर् धर्मतत्त्वज्ञैर् अपचः संप्रकीर्तितः ॥ इति ।

यत् तु ब्रह्मचार्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह,

यतिश् च ब्रह्मचारी च पक्वान्नस्वामिनाव् उभौ ।
तयोर् अन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥ इति ॥

यच् च पार्वणश्राद्धाद्यकर्तुर् अन्नभोजने भरद्वाज आह,

पक्षे वा यदि वा मासे यस्य नाश्नन्ति देवताः ।
भुक्त्वा दुरात्मनस् तस्य द्विजश् चान्द्रायणं चरेत् ॥

इति, तद् उभयम् अप्य् अभ्यासविषयम् । पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास् तदन्नभोजने तु,

निराचारस्य विप्रस्य निशिद्धाचरणस्य च ।
अन्नं भुक्त्वा द्विजः कुर्याद् दिनम् एकम् अभोजनम् ॥

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्यासे षट्त्रिंशन्मत एवोक्तम् ।

उपपातकयुक्तस्य अब्दम् एकं निरन्तरम् ।
अन्नं भुक्त्वा द्विजः कुर्यात् पराकं तु विशोधनम् ॥ इति ।

इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्डगतम् अविशेषोदितव्रतकदम्बकं हि द्विजाग्र्यस्यैव । क्षत्रियादीनां तु पादपादहान्या भवति,

विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।
वैश्ये ऽर्धं पाद एकस् तु शूद्रजातिषु शस्यते ॥

इति विष्णुस्मरणात् ॥

इत्य् अभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ।

निमित्तपरिगणनवेलायाम् उपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि । तत्र प्रायश्चित्तान्य् उच्यन्ते । तत्र मनुः ।
जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥
संकरापात्रकृत्यासु मासं शोधनम् ऐन्दवम् ।
मलिनीकरणीयेषु तप्तः स्याद् यावकस् त्र्यहम् ॥ इति । (म्ध् ११.१२५–२६)

अन्यतमम् इति सर्वत्र संबध्यते । यमेनाप्य् अत्र विशेष उक्तः ।

संकरीकरणं कृत्वा मासम् अश्नाति यावकम् ।
कृच्छ्रातिकृच्छ्रम् अथ वा प्रायश्चित्तं समाचरेत् ॥
अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ॥
शीतकृच्छ्रेण वा शुद्धिर् महासान्तपनेन वा ।
मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥ इति ॥

बृहस्पतिनापि जातिभ्रंशकरे विशेष उक्तः ।

ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् ।
निन्दितेभ्यो धनादानं कृच्छ्रार्धं व्रतम् आचरेत् ॥ इति ।

एतेषां च जातिभ्रंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गतम् अभक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ ३.२८९ ॥

अधुना प्रकृतम् अनुसरामः । महापातकम् अतिपातकम् अनुपातकम् उपपातकं प्रकीर्णकम् इति पञ्चविधं पापजातम् उक्तम् । तत्र चतुर्विधप्रायश्चित्तम् अभिधाय क्रमप्राप्ते प्रकीर्णके प्रायश्चित्तम् आह ।

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः । ३.२९०अब्
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ ३.२९०च्द्

खरयुक्तं यानं खरयानम् । उष्ट्रयुक्तं यानम् उष्ट्रयानं रथगन्त्र्यादि तेनाध्वगमनं कृत्वा दिगम्बरः स्नात्वाभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागतरङ्गिण्यादाव् अवगाह्य कृतप्राणायामः शुध्यति । इदं च कामकारविषयम्,

उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
सवासा जलम् आप्लुत्य प्राणायामेन शुध्यति ॥ (म्ध् ११.२०२)

इति मनुस्मरणात् । अकामतः स्नानमात्रं कल्प्यम् । साक्षात् खरारोहणे तु द्विगुणावृत्तिः कल्पनीया, तस्य गुरुत्वात् ॥ ३.२९० ॥

किं च ।

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः । ३.२९१अब्
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम् ॥ ३.२९१च्द्

गुरुं जनकादिकं त्वंकृत्य “त्वम् एवम् आत्थ,” “त्वयैवं कृतम्” इत्य् एकवचनान्तयुष्मच्छब्दोच्चारणेन निर्भर्त्स्य, विप्रं वा ज्यायांसं समं कनीयांसं वा सक्रोधं “हुं तूष्णीम् आस्व,” “हुं मा बहुवादीः” इत्य् एवम् आक्षिप्य, जल्पवितण्डाभ्यां जयफलाभ्यां विप्रं निर्जित्य, कण्ठे वाससा मृदुस्पर्शेनापि बध्वा, क्षिप्रं पादप्रणिपातादिना प्रसाद्य क्रोधं त्याजयित्वा दिनम् उपवसेत् । अनश्नन् कृत्स्रं वासरं नयेत् । यत् तु यमेनोक्तम्,

वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया ।
त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥

इति, तद् अभ्यासविषयम् ॥ ३.२९१ ॥

किं च ।[^५३]

विप्रदण्डोद्यमे कृच्छ्रस् त्व् अतिकृच्छ्रो निपातने । ३.२९२अब्
कृच्छ्रातिकृच्छ्रो ऽसृक्पाते कृच्छ्रो ऽभ्यन्तरशोणिते ॥ ३.२९२च्द्

विप्रजिघांसया दण्डाद्युद्यमे कृच्छ्रः शुद्धिहेतुः । निपातने ताडने अतिकृच्छ्रः । असृक्पाते रुधिरस्रावणे पुनः कृच्छ्रातिकृच्छ्रः । अभ्यन्तरशोणिते ऽपि कृच्छ्रः शुद्धिहेतुः । बृहस्पतिनाप्य् अत्र विशेष उक्तः ।

काष्ठादिना ताडयित्वा त्व् अभेदे कृच्छ्रम् आचरेत् ।
अस्थिभेदे ऽतिकृच्छ्रः स्यात् पराकस् त्व् अङ्गकर्तने ॥ इति ।

पादप्रहारे तु यम आह ।

पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया ।
दिवसोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥ इति ॥
मनुना त्व् अन्यानि प्रकीर्णकप्रायश्चित्तानि दर्शितानि ।
विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं संनिषेव्य तु ।
सचैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ॥ इति । (म्ध् ११.२०३)

विनाद्भिर् इत्य् असंनिहितास्व् अपीत्य् अर्थः । शारीरं मूत्रपुरीषादि । इदम् अकामविषयम् । कामतस् तु,

आपद्गतो विना तोयं शारीरं यो निषेवते ।
एकाहं क्षपणं कृत्वा सचैलो जलम् आविशेत् ॥

इति यमोक्तं वेदितव्यम् । यत् तु सुमन्तुवचनम् “अप्स्व् अग्नौ वा मेहतस् तप्तकृच्छ्रम्” इति, तद् अनार्तविषयम् अभ्यासविषयं वा । नित्यश्रौतादिकर्मलोपे तु मनुर् आह ।

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥ इति । (म्ध् ११.२०४)

श्रौतेषु दर्शपौर्णमासादिकर्मसु स्मार्तेषु चानित्यहोमादिषु प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तैर् उपवासस्य समुच्चयः । स्नातकव्रतानि च,

न जीर्णमलवद्वासा भवेच् च विभवे सति । (म्ध् ४.३४)

इत्येवमादीनि प्रागुक्तानि । स्नातकव्रतम् अधिकृत्य क्रतुनाप्य् उक्तम्- “एतेषाम् आचाराणाम् एकैकस्य व्यतिरिक्तमे गायत्र्यष्टशतं जप्यं कृत्वा पूतो भवति” इति ॥ पञ्चमहायज्ञाकरणे तु बृहस्पतिर् आह ।

अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते प्रत्यहं गृही ।
अनातुरः सति धने कृच्छ्रार्धेन विशुध्यति ॥
आहिताग्निर् उपस्थानं न कुर्याद् यस् तु पर्वणि ।
ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धम् आचरेत् ॥ इति ।

द्वितीयादिभार्योपरमे तु देवल आह ।

मृतां द्वितीयां यो भार्यां दहेद् वैतानिकाग्निभिः ।
जीवन्त्यां प्रथमायां तु सुरापानसमं हि तत् ॥ इति ।

स्वभार्याभिशंसने तु यम आह ।

स्वभार्यां तु यदा क्रोधाद् अगम्येति नरो वदेत् ।
प्राजापत्यं चरेद् विप्रह् क्षत्रियो दिवसान् नव ॥
षड्रात्रं तु चरेद् वैश्यस् त्रिरात्रं शूद्र आचरेत् ॥ इति ॥
अस्नानभोजनादौ हारीत आह ।
वहन्कमण्डलुं रिक्तम् अस्नातो ऽश्नंश् च भोजनम् ।
अहोरात्रेण शुद्धिः स्याद् दिनजप्येन चैव हि ॥ इति ।

एकपङ्क्त्युपविष्टानां स्नेहादिना वैषम्येण दानादौ यम आह ।

न पङ्क्त्यां विषमं दद्यान् न याचेत न जापयेत् ।
याचको दापको दाता न वै स्वर्गस्य गामिनः ॥
प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस् ततः ।
नदीसंक्रमहन्तुश् च कन्याविघ्नकरस्य च ॥
समे विषमकर्तुश् च निष्कृतिर् नोपपद्यते ।
त्रयाणाम् अपि चैतेषां प्रत्यापत्तिं च मार्गताम् ।
भैक्षलब्धेन चान्नेन द्विजश् चान्द्रायणं चरेत् ॥ इति ।

संक्रम उदकावतरणमार्गः । समे विषमकर्ता पूजादौ । इन्द्रधनुर्दर्शनादाव् ऋष्यशृङ्ग आह ।

इन्द्रचापं पलाशाग्निं यद् अन्यस्य प्रदर्शयेत् ।
प्रायश्चित्तम् अहोरात्रं धनुर्दण्डश् च दक्षिणा ॥

पतितादिसंभाषणे तु गौतम आह- “न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत । तल्पान्नधनलाभवधे पृथग्वर्षाणि” इति (ग्ध् ९.१६–१८; २२.२८)) । भार्यान्नधनानां लाभस्य वधे विघ्नकरणे प्रत्येकं संवत्सरं प्राकृतं ब्रह्मचर्यम् । तथा ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ स्मृत्यन्तरे प्रायश्चित्तम् उक्तम् ।

विना यज्ञोपवीतेन यद् युच्छिष्टो भवेद् द्विजः ।
प्रायश्चित्तम् अहोरात्रं गायत्र्यष्टशतं तु वा ॥

तत्र ऊर्ध्वोच्छिष्टे उपवासो ऽधरोच्छिष्टस्योदकपानादिषु गायत्रीजप इति व्यवस्था । अकामतस् तु,

पिबतो मेहतश् चैव भुञ्जतो ऽनुपवीतिनः ।
प्राणायामत्रिकं षट्कं नक्तं च त्रितयं क्रमात् ॥

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । भुक्त्वा शौचाचमनम् अकृत्वोत्थाने तु,

यद्य् उत्तिष्ठत्य् अनाचान्तो भुक्त्वा वानशनात् ततः ॥
सद्यःस्नानं प्रकुर्वीत सो ऽन्यथा पतितो भवेत् ॥

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । चौराद्युत्सर्गादौ वसिष्ठ आह- “दण्ड्योत्सर्गे राजैकरात्रम् उपवसेत्, त्रिरात्रं पुरोहितः । कृच्छ्रम् अदण्ड्यदण्डने पुरोहितस् त्रिरात्रं राजा । कुनखी श्यावदन्तश्च कृच्छ्रं द्वादशदरात्रं चरित्वोद्धरेयाताम्”(वध् १९.४०–४३; २०.६) इति । उद्धरेयातां कुत्सितानां दन्तानां नखानां चोद्धरणं कुर्याताम् इत्य् अर्थः । स्तेनपतितादिपङ्क्तिभोजने तु मार्कण्डेय आह ।

अपाङ्क्तेयस्य यः कश्चित् पङ्क्तौ भुङ्क्ते द्विजोत्तमः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ इति ॥
नीलीविषये त्व् आपस्तम्ब आह ।
नीलीरक्तं यदा वस्त्रं ब्राह्मणो ऽङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
रोमकूपैर् यदा गच्छेद् रसो नील्यास् तु कस्यचित् ।
त्रिषु वर्णेषु सामान्यं तप्तकृच्छ्रं विशोधनम् ॥
पालनं विक्रयश् चैव तद्वृत्त्या चोपजीवनम् ।
पातनं च भवेद् विप्रस् त्रिभिः कृच्छ्रैर् व्यपोहति ॥
नीलीदारु यदा भिन्द्याद् ब्राह्मणस्य शरीरत ।
शोणितं दृश्यते यत्र द्विजश् चान्द्रायणं चरेत् ॥
स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥ इति ।

भृगुणाप्य् उक्तम् ।

स्त्रीधृता शयने नीली ब्राह्मणस्य न दुष्यति ।
नृपस्य वृद्धौ वैश्यस्य पर्ववर्ज्यं विधारणम् ॥ इति ।

तथा वस्त्रविशेषकृतश् च प्रतिप्रसवः,

कम्बले पट्टसूत्रे च नीलीरागो न दुष्यति ।

इति स्मरणात् । ब्रह्मतरुनिर्मितखट्वाद्यारोहणे शङ्ख आह ।

अध्यस्य शयनं यानम् आसनं पादके तथा ।
द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥
क्षत्रियस् तु रणे पृष्ठं दत्त्वा प्राणपरायणः ।
संवत्सरं व्रतं कुर्याच् छित्त्वा वृक्षं फलप्रदम् ॥
द्वौ विप्रो ब्राह्मणाग्नी वा दम्पती गोद्विजोत्तमौ ।
अन्तरेण यदा गच्छेत् कृच्छ्रं सान्तपनं चरेत् ॥
होमकाले तथा दोहे स्वाध्याये दारसंग्रहे ।
अन्तरेण यदा गच्छेद् द्विजश् चान्द्रायणं चरेत् ॥ इति ।

दोहे सान्नाय्याद्यङ्गभूते । एतच् चाभ्यासविषयम् । सच्छिद्रादित्याद्यरिष्टदर्शनादौ शङ्ख आह- “दुःस्वप्नारिष्टदर्शनादौ घृतं सुवर्णं च दद्यात्” ॥

क्वचिद् देशविशेषगमने ऽपि देवल आह ।
सिन्धुसौवीरसौराष्ट्रांस् तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारम् अर्हति ॥

एतच् च तीर्थयात्राव्यतिरिकेण द्रष्टव्यम् । स्वपुरीषदर्शनादौ यम आह ।

प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः शकृत् ।
दृष्ट्वा सूर्यं निरीक्षेत गाम् अग्निं ब्राह्मणं तथा ॥ इति ।

शङ्खो ऽप्याह ।

पादप्रतनं कृत्वा कृत्वा वह्निम् अधस् तथा ।
कुशैः प्रमृज्य पादौ तु दिनम् एकं व्रती भवेत् ॥ इति ॥

क्षत्रियाद्युपसंग्रहणे हारीत आह- “क्षत्रियाभिवादने ऽहोरात्रम् उपवसेत् वैश्याभिवादने द्विरात्रम् शूद्रस्याभिवादने त्रिरात्रम् उपवासः” इति । तथा, “शय्यारूढे पादुकोपानहारोपितपादोच्छिष्टान्धकारस्थश्राद्धकृज् जपदेवपूजानिरताभिवादने त्रिरात्रम् उपवासः स्याद् अन्यत्र निमन्त्रितेनान्यत्र भोजने ऽपि त्रिरात्रम्” इति ॥

समित्पुष्पादिहस्तस्याभिवादने प्य् एतद् एव,
समित्पुष्पकुशाज्याम्बुमृदन्नाक्षतपाणिकम् ।
जपं होमं च कुर्वाणं नाभिवादेत वै द्विजम् ॥

इत्य् आपस्तम्बीये जपादिभिः समभिव्याहारात् । अभिवादकस्यापीदम् एव प्रायश्चित्तम्, “नोदकुम्भहस्तो ऽभिवादयेत् न भैक्षं चरन् न पुष्पाज्यादिहस्तो नाशुचिर् न जपन् न देवपितृकार्यं कुर्वन् न शयानः” इति तस्यापि शङ्खेन प्रतिषेधात् । एवम् अन्यान्य् अपि वचांसि स्मृत्यन्तरतो ऽन्वेष्याणि ग्रन्थगौरवभयाद् अत्र न लिख्यन्ते ॥ ३.२९२ ॥

इति प्रकीर्णकप्रायश्चित्तप्रकरणम् ।

निमित्तानाम् आनन्त्यात् प्रतिव्यक्तिप्रायश्चित्तस्य वक्तुम् अशक्यत्वात् सामान्येनोपदिष्टानुपदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थम् इदम् आह ।

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः । ३.२९३अब्
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥ ३.२९३च्द्

यद् उक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद् देशादिकम् अवेक्ष्य यथा कर्तुः प्राणविपत्तिर् न भवति तथा विषयविशेषे कल्पनीयम्, इतरथा प्रधाननिवृत्तिप्रसङ्गात् । तथा च वक्ष्यति ।

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् । इति ।(य्ध् ३.३११)

तत्र यदि हिमवद्गिरिनिकटवर्तिनाम् उदकवास उपदिश्यते अतिशीताकुलिते वा शिशिरादिकाले, तदा प्राणवियोगो भवेद् इति तद्देशकालपरिहारेणोदकवासः कल्पनीयः । तथा वयोविशेषाद् अपि यदि नवतिवार्षिकादेर् अपूर्णद्वादशवार्षिकस्य वा द्वादशाब्दिकं प्रायश्चित्तम् उपदिश्यते तदा प्राणा विपद्येरन्न् इति ततो ऽन्यवयस्के तत् प्रायश्चित्तं कल्प्यम् । अत एव स्मृत्यन्तरे “क्वचिद् अर्धं क्वचित् पादः” इति वृद्धादिषु प्रायश्चित्तस्य ह्रासो ऽभिहितः । तच् च प्राक् प्रपञ्चितम् । तथा धनदानतपश्चरणादिशक्त्यपेक्षया च, न हि निर्धनस्य पात्रे धनं वा पर्याप्तम् इत्याद्य् उपपद्यते । तथोद्रिक्तपित्तादेर् वा पराकादिकं नापि स्त्रीशूद्रादेर् जपादिकम् । अत एव,

गजादीनाम् अशक्नुवन् ।
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ (य्ध् ३.२७४)

इत्य् उक्तम् । तथा,

प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ।

इति तपस्य् अशक्तस्य स्मृत्यन्तरे प्रायश्चित्तस्य ह्रासो ऽभिहितः । तथा पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यत्नतः सकलधर्मशास्त्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यद् विहितं तद् एव कामकृते द्विगुणं, कामतो ऽभ्यासे चतुर्गुणम् इत्य् एवं स्मृत्यन्तरानुसारेण कल्पनीयम् । तथा,

महापापोपपापाभ्यां यो ऽभिशंसेन् मृषा परम् ।
अब्भक्षो मासम् आसीत ।

इत्य् उक्तं, तत्र महापापोपपापयोस् तुल्यप्रायश्चित्तस्यायुक्तत्वान् महापापापेक्षयोपपातके मासिकव्रतस्य ह्रासः कल्पनीयः । यत्र च हसितजृम्भिताक्रन्दितास्फालनादिनाकस्मात् कुर्यात् तथा,

नोदन्वतो ऽम्भसि स्नायान् न च श्मश्रवादि कर्तयेत् ।
अन्तर्वत्न्याः पतिः कुर्वन्न् अप्रजा भवति ध्रुवम् ॥

इत्यादौ प्रायश्चित्तं नोपदिष्टं, तत्रापि देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् ।

ननु किंचिद् अपि निमित्तजातम् अनुक्तनिष्कृतिकम् उपलभ्यते,
प्रानायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥

इत्य् अनुक्तनिष्कृतिष्व् अपि प्रायश्चित्तस्य वक्ष्यमाणत्वात् । गौतमेनाप्य् “एतान्य् एवानादेशे विकल्पेन क्रियेरन्” (ग्ध् १९.१८) इत्य् एकाहादयः प्रतिपादिताः ।

उच्यते । सत्यम् अस्त्य् एव सामान्यतः प्रायश्चित्तोपदेशस्, तथापि सर्वत्र देशकालादीनाम् अपेक्षितत्वाद् अस्त्य् एव कल्पनावसरः । न च हसितादिषु सर्वत्र प्राणायामशतं युक्तम्, निमित्तस्य लघुत्वात् । अतः पापापेक्षया ह्रासः कल्पनीयः प्रायश्चित्तान्तरं वा ।
ननु कथं पापस्य लघुत्वं येन प्रायश्चित्तस्य ह्रासकल्पना स्यात् । न च प्रायश्चित्ताल्पत्वाद् इति वाच्यम्, अनुक्तनिष्कृतित्वाद् एव ।
सत्यम् । किं तु अर्थवादसंकीर्तनाद् बुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलघुभावः । तथा दण्डह्रासवृद्ध्यपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ सजातीयविषये प्राजापत्यादिकम् उक्तम्, तत्र यदा चानुलोम्येन प्रातिलोम्येन वावगोरणादि क्रियते, यदा वा मूर्धवसिक्तादिभिस् तदा दण्डस्य तारतम्यदर्शनाद् एव दोषाल्पत्वमहत्त्वावगमात् प्रायश्चित्तस्यापि गुरुलघुभावः कल्पनीयः । दर्शितश् च दण्डस्य गुरुलघुभावः,
प्रातिलोम्यापवादेषु द्विगुणस् त्रिगुणो दमः । (य्ध् २.२०७)

इत्यादिना ॥ ३.२९३ ॥

एवं महापातकादिभिः पतितस्य प्रायश्चित्तम् उक्तं, यस् त्व् औद्धत्याद् एतन् न चिकीर्षति तस्य किं कार्याम् इत्य् अत आह ।

दाषीकुम्भं बहिर्ग्रामान् निनयेरन् स्वबान्धवाः । ३.२९४अब्
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ ३.२९४च्द्

जीवत एव पतितस्य ये स्वा जातयो बान्धवाः पितृमातृपक्षास् ते सर्वे संनिपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतम् अपां पूर्णं कुम्भं घटं ग्रामाद् बहिर् निर्णयेयुः । एतच् चतुर्थ्यादिरिक्तातिथिष्व् अह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम्,

पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः ।
निन्दिते ऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसंनिधौ ॥ (म्ध् ११.१८३)

इति मनुस्मरणात् । अथवा दास्य् एव सपिण्डादिप्रयुक्ता निनयेत् । यथाह मनुः ।

दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा ।
अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ॥ इति । (म्ध् ११.१८४)

प्रेतवद् इति दक्षिणामुखापसव्ययोः प्राप्त्यर्थम् । तच् च निनयनम् उदकपिण्डदानादिप्रेतक्रियोत्तरकालं द्रष्टव्यम्, “तस्य विद्यागुरुयोनिसंबन्धाश् च संनिपत्य सर्वाण्य् उदकादीनि प्रेतकर्माणि कुर्युः । पात्रं चास्य विपर्यस्येयुः । दासः कर्मकरो वावकरात् पात्रम् आनीय दासीघटात् पूरयित्वा दक्षिणाभिमुखः पदा विपर्यस्येत् “अमुम् अनुदकं करोमि” इति नामग्राहम् । तं सर्वे ऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखाः । विद्यागुरवो योनिसंबन्धाश् च वीक्षेरन्। अप उपस्पृश्य ग्रामं प्रविशेयुः” इति (ग्ध् २०.२–७) गौतमस्मरणात् । अयं च त्यागो, यदि बन्धुभिः प्रेर्यमाणो ऽपि प्रायश्चित्तं न करोति, तदा द्रष्टव्यः, “तस्य गुरोर् बान्धवानां राज्ञश् च समक्षं दोषान् अभिख्याप्यानुभाष्य पुनः पुनर् आचारं लभस्वेति, स यद्य् एवम् अप्य् अनवस्थितमतिः स्यात् ततो ऽस्य पात्रं विपर्यस्येद्” इति शङ्खस्मरणात् । ततस् तं लब्धोदकं पतितं सर्वकार्येषु संभाषणसहासनादिषु बहिः कुर्युर् वर्जयेयुः । तथा च मनुः ।

निवर्तेरंस् च तस्मात् तु सम्भाषणसहासने ।
दायाद् यस्य प्रदानं च यात्राम् एव च लौकिकीम् ॥ इति । (म्ध् ११.१८५)

यदि स्नेहादिना संभाषणं करोति तदा प्रायश्चित्तं कार्यम् । “अत ऊर्ध्वं तेन संभाष्य तिष्ठेद् एकरात्रं जपन् सावित्रीम् अज्ञानपूर्वं, ज्ञानपूर्वं चेत् त्रिरात्रं” (ग्ध् २०.८–९) इति ॥ ३.२९४ ॥

यदा तु बन्धुत्यागाद् अन्यथा वा जातवैराग्यः प्रायश्चित्तं च कृतं, तदा किं कार्यम् इत्य् अत आह ।

चरितव्रत आयाते निनयेरन् नवं घटम् । ३.२९५अब्
जुगुप्सेरन् न चाप्य् एनं संवसेयुश् च सर्वशः ॥ ३.२९५च्द्

कर्तप्रायश्चित्ते बन्धुसमीपं पुनर् आयाते तत्सपिण्डाद्यास् तेन सहिता नवं अनुपहतं घटं उदकपूर्णं निनयेयुः । एतच् च निनयनं पुण्यह्रदादिस्नानोत्तरकालं द्रष्टव्यम्,

प्रायश्चित्ते तु चरिते पूर्णं कुम्भम् अपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ (म्ध् ११.१८७)

इति मनुस्मरणात् । गौतमेन तु विशेष उक्तः- “यस् तु प्रायश्चित्तेन शुध्येत् तस्मिन् शुद्धे शातकुम्भमयं पात्रं पुण्यतमात् ह्रदात् पूरयित्वा स्रवन्तीभ्यो वा तत एनम् अप उपस्पर्शयेयुः । अथास्मै तत् पात्रं दद्युः । तत् संप्रतिगृह्य जपेत् ऽशान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं यो रोचनस् तम् इह गृह्णामिऽ इत्य् एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिः कूष्माण्डैश् चाज्यं जुहुयाद्, धिरण्यं दद्याद्, गां चाचार्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येद्, एतद् एव शान्त्युदकं सर्वेषूपपातकेषु” इति (ग्ध् २०.१०–१७) ॥ तत एनं कृतप्रायश्चित्तं ते नैव कुत्सयेयुः । तथा सर्वकार्येषु क्रयविक्रयादिषु तेन सह संव्यवहरेयुः ॥ ३.२९५ ॥

पूर्वोक्तस्य पतितपरित्यागादिविधेर् अतिदेशम् आह ।

पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः । ३.२९६अब्
वासो गृहान्तके देयम् अन्नं वासः सरक्षणम् ॥ ३.२९६च्द्

य एव पुरुषाणां परित्यागे पिण्डोदकदानविधिः कृतप्रायश्चित्तानां परिग्रहविधिश् च स एव स्त्रीणाम् अपि पतितानां वेदितव्यः । इयांस् तु विशेषः । पतिताभ्यो ऽपि ताभ्यः स्त्रीभ्यः कृतोदकादिकर्मभ्यो वासस् तृणपर्णमयं कुटीगृहकं प्रधानगृहसमीपे देयम् । तथा प्राणधारणमात्रम् अन्नं मलिनं च वस्त्रं पुनः पुरुषान्तरोपभोगनिवारणसहितं देयम् ॥ ३.२९६ ॥

ननु काः पतितास् ता यासाम् अयं परित्यागविधिर् इत्य्, अत आह ।

नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । ३.२९७अब्
विशेषपतनीयानि स्त्रीमाम् एतान्य् अपि ध्रुवम् ॥ ३.२९७च्द्

हीनवर्णगमनं गर्भपातनम् अब्राह्मण्या अपि भर्तुर् अब्राह्मणस्यापि हिंसनम् इत्य् एतानि स्त्रीणाम् असाधारणानि पतननिमित्तानि । अपिशब्दात् पुरुषस्य यानि पतननिमित्तानि महापातकातिपातकानुपपातकान्य् अभ्यस्तानि चोपपातकादीनि तान्य् अपि स्त्रीणां ध्रुवं निश्चितं पतनकारणानि भवन्ति । अत एव शौनकः- “पुरुषस्य यानि पतननिमित्तानि स्त्रीणाम् अपि तान्य् एव ब्राह्मणी हीनवर्णसेवायाम् अधिकं पतति” इति । यत् तु वसिष्ठेनोक्तम्,

त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः ।
भर्तुर् वधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥ (वध् २८.७)

इति भ्रूणहत्याग्रहणं कृतं, तत् दृष्टान्तार्थं न पुनर् इतरेषां महापातकादीनां पतनहेतुत्वनिरासार्थम् । यद् अपि तेनैव,

चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥ (वध् २१.१०)

इति चतसृणाम् एव परित्याग इत्य् उक्तं, तस्यापि तासां प्रायश्चित्तम् अचिकीर्षन्तीनां मध्ये चतसृणाम् एव शिष्यगादीनां चैलान्नगृहवासादिजीवनहेतुत्वाद्युच्छेदेन त्यागं कुर्यान् नान्यासाम् इत्य् अभिप्रायः । अतश् चान्यासां पतितानां प्रायश्चित्तम् अकुर्वतीनाम् अपि “वासो गृहान्तिके देयम्” इत्यादिकं कर्तव्यम् इत्य् अवगम्यते ॥ ३.२९७ ॥

“जुगुप्सेरन् न चाप्य् एनं संविशेयुश् च सर्वशः” इत्यस्यापवादम् आह ।

शरणागतबालस्त्रीहिंसकान् संवसेन् न तु । ३.२९८अब्
चीर्णव्रतान् अपि सतः कृतघ्नसहितान् इमान् ॥ ३.२९८च्द्

शरणागतादिव्यापादनकारिणः कृतघ्नसहितान् प्रायश्चित्तेन क्षीणदोषान् अपि न संव्यवहरेद् इति वाचनिको ऽयं प्रतिषेधः, किम् इति वचनं न कुर्यात्, न हि वचनस्यातिभारो ऽस्ति, अतश् च यद्य् अपि व्यभिचारिणीनां वधे ऽल्पीय एव प्रायश्चित्तं तथापि वाचनिको ऽयं संव्यवहारप्रतिषेधः ॥ ३.२९८ ॥

एवं प्रसङ्गेन स्त्रीषु विशेषम् अभिधाय प्रकृत एव चरितव्रतविधौ विशेषम् आह ।

घटे ऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । ३.२९९अब्
स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥ ३.२९९च्द्

घटे ऽपवर्जिते ह्रदाद् उद्धृत्य पूर्णे कुम्भे ऽवनीते ऽसौ चरितव्रतः सपिण्डादिमध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज् ज्ञातिभिः सत्क्रिया कार्या । गोभिश् च तस्य सत्कारस् तद्दत्तयवसभक्षणम् एव । यदि गावस् तद्दत्तं यवसं न गृह्णीयुस् तर्हि पुनः प्रायश्चित्तम् अनुतिष्ठेत् । यद् आह हारीतः- “स्वशिरसा यवसम् आदाय गोभ्यो दद्याद्, यदि ताः प्रतिगृह्णीयुर् अथैनं प्रवर्तयेयुः,” इतरथा नेत्य् अभिप्रेतम् ॥ ३.२९९ ॥