४ यति-धर्म-प्रकरणम्

**अथ यतिधर्मप्रकरणम् **

वैखानसधर्मान् अनुक्रम्य क्रमप्राप्तान् परिव्राजकधर्मान् सांप्रतं प्रस्तौति ।

वनाद् गृहाद् वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । ३.५६अब्
प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥ ३.५६च्द्
अधीतवेदो जपकृत् पुत्रवान् अन्नदो ऽग्निमान् । ३.५७अब्
शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥ ३.५७च्द्

यावता कालेन तीव्रतपःशोषितवपुषो विषयकषायपरिपाको भवति पुनश् च मदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवासं कृत्वा तत्समनन्तरं “मोक्षे मनः कुर्यात्” । वनगृहशब्दाभ्यां तत्संबन्ध्याश्रमो लक्ष्यते । मोक्षशब्देन च मोक्षैकफलकश् चतुर्थाश्रमः । अथ वा गृहाद् गार्हस्थ्याद् अनन्तरं मोक्षे मनः कुर्यात् । अनेन च पूर्वोक्तश् चतुराश्रमसमुच्चयपक्षः पाक्षिक इति द्योतियति । तथा च विकल्पो जाबाल्श्रुतौ श्रूयते- “ब्रह्मचर्यं परिसमाप्य गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत् गृहाद् वा वनाद् वा” इति (जाबाल उपनिषद्, प्। ६४) । तथा गार्हस्थोत्तराश्रमबाधश् च गौतमेन दर्शितः- “ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्य” (ग्ध् ३.३६) इति । एतेषां च समुच्चयविकल्पबाधपक्षाणां सर्वेषां श्रुतिमूलस्त्वाद् इच्छया विकल्पः । अतो यत् कैश्चित् पण्डितंमन्यैर् उक्तम् “स्मार्तत्वान् नैष्ठिकत्वादीनां गार्हस्थ्येन श्रौतेन बाधः गार्हस्थ्यानधिकृतान्धक्लीबादिविषयता वा” इति, तत् स्वाध्यायाध्ययनवैधुर्यनिबन्धनम् इत्य् उपेक्षणीयम् । किं च यथा विष्णुक्रमणाज्यावेक्षणाद्यक्षमतया पङ्ग्वादीनां श्रौतेष्व् अनधिकारस् तथा स्मार्तेष्व् अप्य् उदकुम्भाहरणभिक्षाचर्यादिष्व् अक्षमत्वात् कथं पङ्ग्वादिविषयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः । अस्मिंश् चाश्रमे ब्राह्मणस्यैवाधिकारः,

आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् । (म्ध् ६.२५)

तथा,

एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । (म्ध् ६.९७)

इत्य् उपक्रमोपसेहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात् । “ब्राह्मणाः प्रव्रजन्ति” इति श्रुतेश् चाग्रजन्मन एवाधिकारो न द्विजातिमात्रस्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात्, “त्रयाणां वर्णानां वेदम् अधीत्य चत्वार आश्रमाः” इति सूत्रकारवचनाच् च द्विजातिमात्रस्याधिकारम् आहुः । यदा वनाद् गृहाद् वा प्रव्रजति तदा सार्ववेदसदक्षिणां सार्ववेदसी सर्ववेदसंबन्धिनी दक्षिणा यस्याः सा तथोक्ता तां प्रजापतिदेवताकाम् इष्टिं कृत्वा तदन्ते तान् वैतानान् अग्नीन् आत्मनि श्रुत्युक्तविधानेन समारोप्य, चशब्दात् “उदगयने पौर्णमास्यां पुरश्चरणम् आदौ कृत्वा शुद्धेन कायेनाष्टौ श्राद्धानि निर्वपेत् द्वादश वा” इति बौधायनाद्युक्तं पुरश्चरणादिकं च कृत्वा, तथाधीतवेदो जपपरायणो जातपुत्रो दीनान्धकृपणार्पितार्थो यथाशक्त्यान्नदश् च भूत्वानाहिताग्निर् ज्येष्ठत्वादिना प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान् यज्ञान् कृट्वा, मोक्षे मनः कुर्यात् चतुर्थाश्रमं प्रविशेन् नान्यथा । अनेनानपाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायाम् अधिकारं दर्शयति । यथाह मनुः ।

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ इति ॥ (म्ध् ६.३५)

यदा तु ब्रह्मचर्यात् प्रव्रजति तदा न प्रजोत्पादनादिनियमः, अकृतदारपरिग्रहस्य तत्रानधिकारात्, रागप्रयुक्तत्वाच् च विवाहस्य । न च ऋणत्रयापाकरणविधिर् एव दारान् आक्षिपतीति शङ्कनीयम् । विद्याधनार्जननियमवद् अन्यप्रयुक्तदारसंभवे तस्यानाक्षेपकत्वात् । ननु “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवाञ् जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” (तैत्सं ६.३।१०.५) इति जातमात्रस्यैव प्रजोत्पादनादीन्य् आवश्यकानीति दर्शयति । मैवम् । न हि जातमात्रो ऽकृतदाराग्निपरिग्रहो यज्ञादिष्व् अधिक्रियते । तस्माद् अधिकारी जायमानो ब्राह्मणादिर् यज्ञादीन् अनुतिष्ठेद् इति तस्यार्थः । अतश् चोपनीतस्य वेदाध्ययनम् एवावश्यकम् । कृतदाराग्निपरिग्रहस्य प्रजोत्पादनम् अपीति निरवद्यम् ॥ ३.५६ ॥ ३.५७ ॥

एवम् अधिकारिणं निरूप्य तद्धर्मान् आह ।

सर्वभूतहितः शान्तस् त्रिदण्डी सकमण्डलुः । ३.५८अब्
एकारामः परिव्रज्य भिक्षार्थी ग्रामम् आश्रयेत् ॥ ३.५८च्द्

सर्वभूतेभ्यः प्रियाप्रियकारिभ्यो हित उदासीनो न पुनर् हिताचरणः, “हिंसानुग्रहयोर् अनारम्भी” (ग्ध् ३.२४–२५) इति गौतमस्मरणात् । शान्तो बाह्यान्तःकरणोपरतः । त्रयो दण्डा अस्य सन्तीति त्रिदण्डी । ते च दण्डा वैणवा ग्राह्याः, “प्राजापत्येष्ट्यनन्तरं त्रीन् वैणवान् दण्डान् मूर्धप्रमाणान् दक्षिणेन पाणिना धारयेत् सव्येन सोदकं कमण्डलुम्” इति स्मृत्यन्तरदर्शनात् । एकं वा दण्डं धारयेत्, “एकदण्डी त्रिदण्डी वा” (ब्ध् २.१८.१) इति बौधायनस्मरणात्,

चतुर्थम् आश्रमं गच्छेद् ब्रह्मविद्यापरायणः ।
एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जितः ॥

इति चतुर्विंशतिमते दर्शनाच् च । तथा शिखाधारणम् अपि वैकल्पिकम् । “मुण्डः शिखी वा” (ग्द्ह् ३.२२) इति गौतमस्मरणात्, “मुण्डो ऽममो ऽक्रोधो ऽपरिग्रहः” (वध् १०.६) इति वसिष्ठस्मरणात् । तथा यज्ञोपवीतधारणम् अपि वैकल्पिकम् एव, “सशिखान् केशान् निकृन्त्य विसृज्य यज्ञोपवीतम्” (कटश्रुति उप्। ३२) इति काठकश्रुतिदर्शनात्,

कुटुम्बं पुत्रदारांश् च वेदाङ्गानि च सर्वशः ।
केशान् यज्ञोपवीतं च त्यक्त्वा गूढश् चरेन् मुनिः ॥

इति बाष्कलस्मरणाच् च, “अथ यज्ञोपवीतम् अप्सु जुहोति भूः स्वाहेत्य् अथ दण्डम् आदत्ते सखे मां गोपाय” इति परिशिष्टदर्शनाच् च । यद्य् अशक्तिस् तदा कन्थापि ग्राह्या, “काषायी मुण्डस् त्रिदण्डी सकमण्डलुपवित्रपादुकासनकन्थामात्रः” इति देवलस्मरणात् । शौचाद्यर्थं कमण्डलुसहितश् च भवेत् । एकारामः प्रव्रजितान्तरेणासहायः संन्यासिनीभिः स्त्रीभिश् च, “स्त्रीणां चैके” (नोत् इन् ब्ध्) इति बौधायनेन स्त्रीणाम् अपि प्रव्रज्यास्मरणात् । तथा च दक्षः ।

एको भिक्षुर् यथोक्तश् च द्वाव् एव मिथुनं स्मृतम् ।
त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥
राजवार्तादि तेषां तु भिक्षावार्ता परस्परम् ।
अपि पैशुन्यमात्सर्यं सन्निकर्षान् न संशयः ॥ इति ।

परिव्रज्य परिपूर्वो व्रजतिस् त्यागे वर्तते । अतश् चाहंममाभिमानं तत्कृतं च लौकिकं कर्मनिचयं वैदिकं च नित्यकाम्यात्मकं संत्यजेत् । तद् उक्तं मनुना ।

सुखाभ्युदयिकं चैव नैश्रेयसिकम् एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥
इह वामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥
यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥ इति । (म्ध् १२.८८-८९, ९२)

अत्र वेदाभ्यासः प्रणवाभ्यासस् तत्र यत्नवान् । भिक्षाप्रयोजनार्थं ग्रामम् आश्रयेत् प्रविशेत् न पुनः सुखनिवासार्थम् । वर्षाकाले तु न दोषः, “ऊर्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थानवासी” इति शङ्कस्मरणात् । अशक्तौ पुनर् मासचतुष्टयपर्यन्तम् अपि स्थातव्यं न चिरम् एकत्र वसेद् अन्यत्र वर्षाकालात्, “श्रावणादयश् चत्वारो मासा वर्षाकालः” इति देवलस्मरणात्,

एकरात्रं वसेद् ग्रामे नगरे रात्रिपञ्चकम् ।
वर्षाभ्यो ऽन्यत्र वर्षासु मासांस् तु चतुरो वसेत् ॥

इति काण्वस्मरणात् ॥ ३.५८ ॥

कथं भिक्षाटनं कार्यम् इत्य् अत आह ।

अप्रमत्तश् चरेद् भैक्षं सायाह्ने ऽनभिलक्षितः । ३.५९अब्
रहिते भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः ॥ ३.५९च्द्

अप्रमत्तो वाक्चक्षुरादिचापलरहितो भैक्षं चरेत् । वसिष्ठेन अत्र विशेषो दर्शितः- “सप्तागाराण्य् असंकल्पितानि चरेद् भैक्षम्” (वध् १०.६) इति । सायाह्ने अह्नः पञ्चमे भागे । तथा च मनुः ।

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्ज्जने ।
वृत्ते शरावसंपाते नित्यं भिक्षां यतिश् चरेत् ॥ इति । (म्ध् ६.५६)

तथा,

एककालं चरेद् भिक्षां प्रसज्येन् न तु विस्तरे ।
भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ॥ इति । (म्ध् ६.५५)

अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिह्नितः,

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ (म्ध् ६.५०)

इति तेनोक्तत्वाद् इति ॥ यत् पुनर् वसिष्ठवचनम् “ब्राह्मणकुले वा यल् लभेत् तद् भुञ्जीत सायंप्रातर् मांसवर्ज्यम्” (वध् १०.२४) इति, तद् अशक्तविषयम् । भिक्षुकैर् भिक्षणशीलैः पाखण्ड्यादिभिर् वर्जिते ग्रामे । मनुनात्र विशेष उक्तः ।

न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।
आकीर्णं भिक्षुकैर् अन्यैर् अगारम् उपसंव्रजेत् ॥ इति । (म्ध् ६.५१)

यावता प्राणयात्रा वर्तते तावन्मात्रं भैक्षं चरेत् । तथा च संवर्तः ।

अष्टौ भिक्षाः समादाय मुनिः सप्त च पञ्च वा ।
अद्भिः प्रक्षाल्य ताः सर्वास् ततोऽ’श्नीयाच् च वाग्यतः ॥ इति ।

अलोलुपो मिष्टान्नव्यञ्जनादिष्व् अप्रसक्तः ॥

भिक्षाचरणार्थं पात्रम् आह ।

यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च । ३.६०अब्
सलिलं शुद्धिर् एतेषां गोवालैश् चावघर्षणम् ॥ ३.६०च्द्

मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः । तेषां सलिलं गोवालावघर्षणं च शुद्धिसाधनम् । इयं च शुद्धिर् भिक्षाचरणादिप्रयोगाङ्गभूता नामेध्याद्युपहतिविषया । तदुपघाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या । अत एव मनुना ।

अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥ इति । (म्ध् ६.५३)

चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर् दर्शिता । पात्रान्तराभावे भोजनम् अपि तत्रैव कार्यम्, “तद् भैक्ष्यं गृहीत्वैकान्ते तेन पात्रेणान्येन वा तूष्णीं प्राणमात्रं भुञ्जीत” इति देवलस्मरणात् ॥ ३.६० ॥

एवंभूतस्य यतेर् आत्मौपासनाङ्गं नियमविषयम् आह ।

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च । ३.६१अब्
भयं हित्वा च भूतानाम् अमृतीभवति द्विजः ॥ ३.६१च्द्

चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यङ् निरुद्ध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा चशब्दाद् ईर्ष्यादीन् अपि तथा भूतानाम् अपकारेण भयम् अकुर्वन् शुद्धान्तःकरणः सन्न् अद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥ ३.६१ ॥

किं च ।

कर्तव्याशयशुद्धिस् तु भिक्षुकेण विशेषतः । ३.६२अब्
ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥ ३.६२च्द्

विषयाभिलाषद्वेषजनितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणायामैः कर्तव्या । तस्याः शुद्धेर् आत्माद्वैतसाक्षात्काररूपज्ञानोत्पत्तिनिमित्तत्वात् । एवं च सति विषयासक्तितज्जनितदोषात्मकप्रतिबन्धक्षये सत्य् आत्मध्यानधारणादौ स्वतन्त्रो भवति । तस्माद् भिक्षुकेण त्व् एषा शुद्धिर् विशेषतो ऽनुष्ठेया, तस्य मोक्षप्रधानत्वात्, मोक्षस्य च शुद्धान्तःकरणाम् अन्तरेण दुर्लभत्वात् । यथाह मनुः ।

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ इति ॥ (म्ध् ६.७१) ३.६२ ॥

इन्द्रियनिरोधोपायतया संसारस्वरूपनिरूपणम् आह ।

अवेक्ष्या गर्भवासाश् च कर्मजा गतयस् तथा । ३.६३अब्
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ ३.६३च्द्
भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । ३.६४अब् ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥ ३.६४च्द्

वैराग्यसिद्ध्यर्थं मूत्रपुरीषादिपूर्णनानाविधगर्भवासा आवेक्षणीयाः पर्यालोचनीयाः । चशब्दाज् जनोपरमाव् अपि । तथा निषिद्धाचरणादिक्रियाजन्या महारौरवादिनिरयपतनरूपा गतयः । तथाधयो मनःपीडाः, व्याधयश् च ज्वरातीसाराद्याः शारीराः, क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च, जरा वलीपलिताद्यभिभवः, रूपविपर्ययः खञ्जकुब्जत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा श्वसूकरखरोरगाद्यनेकजातिषु भव उत्पत्तिः । इष्टस्याप्राप्तिर् अनिष्टस्य प्राप्तिर् इत्यादिबहुतरक्लेशावहं संसारस्वरूपं पर्यालोच्य तत्परिहारार्थम् आत्मज्ञानोपायभूतेन्द्रियजये प्रयतेत ॥ ३.६३ ॥

एवम् अवेक्ष्यानन्तरं किं कार्यम् इत्य् अत आह ।

ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥ ३.६४च्द्

योगश् चित्तवृत्तिनिरोध आत्मैकाग्रता ध्यानं तस्या एव बाह्यविषयत्वोपरमः ध्यानयोगेन निदिध्यासतापरपर्यायेण सूक्ष्मशरीरप्राणादिव्यतिरिक्तः क्षेत्रज्ञ आत्मा आत्मनि ब्रह्मण्य् अवस्थित इत्य् एवं तत्त्वंपदार्थयोर् अभेदं सम्यक् पश्येद् अपरोक्षीकुर्यात् । अत एव श्रुतौ “आत्मा वारे द्रष्टव्यः” इति साक्षात्काररूपं दर्शनम् अनूद्य, तत्साधनत्वेन “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बृउ २.१।५) इति श्रवणमनननिदिध्यासनानि विहितानि ॥ ३.६४ ॥

किं च ।

नाश्रमः कारणं धर्मे क्रियमाणो भवेद् धि सः । ३.६५अब्
अतो यद् आत्मनो ऽपथ्यं परेषां न तद् आचरेत् ॥ ३.६५च्द्

प्राक्तनश्लोकोक्तात्मोपासनाख्ये धर्मे नाश्रमो दण्डकमण्डल्वादिधारणं कारणम्, यस्माद् असौ क्रियमाणो भवेद् एव नातिदुष्करः । तस्माद् यद् आत्मनो ऽपथ्यम् उद्वेगकरं परुषभाषणादि तत् परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्तःकरणशुद्ध्यापादनत्वेनान्तरङ्गत्वाद् रागद्वेषप्रहाणस्य प्रधानत्वेन प्रशंसार्थम् आश्रमनिराकरणं न पुनस् तत्परित्यागाय, तस्यापि विहितत्वात् । तद् उक्तं मनुना ।

दोषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ इति ॥ (म्ध् ६.६६) ॥ ३.६५ ॥

किं च ।

सत्यम् अस्तेयम् अक्रोधो ह्रीः शौचं धीर् धृतिर् दमः । ३.६६अब्
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥ ३.६६च्द्

सत्यं यथार्थप्रियवचनम् । अस्तेयं परद्रव्यानपहारः । अक्रोधो ऽपकारिण्य् अपि क्रोधस्यानुत्पादनम् । ह्रीर् लज्जा । शौचम् आहारादिशुद्धिः । धीर् हिताहितविवेकः । धृतिर् इष्टवियोगे ऽनिष्टप्राप्तौ प्रचलितचितस्य यथापूर्वम् अवस्थापनम् । दमो मदत्यागः । संयतेन्द्रियता अप्रतिषिद्धेष्व् अपि विषयेष्व् अनतिसङ्गः । विद्या आत्मज्ञानम् । एतैः सत्यादिभिर् अनुष्ठितैः सर्वो धर्मो ऽनुष्ठितो भवति । अनेन दण्डकमण्डल्वादिधारणबाह्यलक्षणात् सत्यादीनाम् आत्मगुणानाम् अन्तरङ्गतां द्योतयति ॥

ननु ध्यानयोगेनात्मनि स्थितम् आत्मानं पश्येद् इत्य् अयुक्तं जीवपरमात्मनोर् भेदाभावाद् इत्य् अत आहा ।

निःसरन्ति यथा लोहपिण्डात् तप्तात् स्फुलिङ्गकाः । ३.६७अब्
सकाशाद् आत्मनस् तद्वद् आत्मानः प्रभवन्ति हि ॥ ३.६७च्द्

यद्य् अपि जीवपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्य् आत्मनः सकाशाद् अविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद् युज्यत एव जीवपरमात्मनोर् भेदव्यपदेशः । यथाहि तप्ताल् लोहपिण्डाद् अयोगोलकाद् विस्फुलिङ्गकास् तेजोऽवयवा निःसरन्ति निःसृताश् च स्फुलिङ्गव्यपदेशं लभन्ते तद्वत् । अत उपपन्नं आत्मात्मनि स्थितो द्रष्टव्य इति । यद् वायम् अर्थः । ननु सुषुप्तिसमये प्रलये च सकलक्षेत्रज्ञानां ब्रह्मणि प्रलीनत्वात् कस्यायम् आत्मोपासनाविधिर् इत्य् अत आह निःसरन्तीत्यादि । यद्य् अपि सूक्ष्मरूपेण प्रलयवेलायां प्रलीनास् तथाप्य् आत्मनः सकाशाद् अविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति, पुनः कर्मवशात् स्थूलशरीराभिमानिनो जायन्ते, तस्मान् नोपासनाविधिविरोधः, तैजसस्य पृथग्भावसाम्याल् लोहपिण्डदृष्टान्तः ॥ ३.६७ ॥

ननु चानुपात्तवपुषां क्षेत्रज्ञानां निष्परिस्पन्दतया कथं तन्निबन्धनो जरायुजाण्डजादिचतुर्विधदेहपरिग्रह इत्य् अत आह ।

तत्रात्मा हि स्वयं किंचित् कर्म किंचित् स्वभावतः । ३.६८अब्
करोति किंचिद् अभ्यासाद् धर्माधर्मोभयात्मकम् ॥ ३.६८च्द्

यद्य् अपि तस्याम् अवस्थायां परिस्पन्दात्मकक्रियाभावस् तथापि धर्माधर्माध्यवसायात्मकं कर्म मानसं भवत्य् एव । तस्य च विशिष्टशरीरग्रहणहेतुत्वम् अस्त्य् एव,

वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् । (म्ध् १२.९)

इति मनुस्मरणात् । एवं गृहीतवपुः स्वयम् एवान्वयव्यतिरेकनिरपेक्षः स्तन्यपानादिके कृते तृप्तिर् भवत्य् अकृते न भवतीत्य् एवंरूपौ याव् अन्वयव्यतिरेकौ तत्र निरपेक्षं प्राग्भवीयानुभवभावितभावनानुभावोद्भूतकार्यावबोधः किंचित् स्तन्यपानादिकं करोति किंचित् स्वभावतो यदृच्छया प्रयोजनाभिसंधिनिरपेक्षं पिपीलिकादिभक्षणं करोति, किंचिद् भवान्तराभ्यासवशाद् धर्माधर्मोभयरूपं करोति । तथा च स्मृत्यन्तरम्-

प्रतिजन्म यद् अभ्यस्तं दानम् अध्ययनं तपः ।
तेनैवाभ्यासयोगेन तद् एवाभ्यसते पुनः ॥ इति ॥

एवं जीवानां कर्मवैचित्र्यं तत्कृतं जरायुजादिदेहवैचित्र्यं युज्यत एव ॥ ३.६८ ॥

ननु एवं सति ब्राह्मण एव कथंचिज् जीवव्यपदेश्यत्वात् तस्य च नित्यत्वादिधर्मत्वात् कथं “विष्णुमित्रो जातः” इति व्यवहार इत्य् आशङ्क्याह ।

निमित्तम् अक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी । ३.६९अब्
अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥ ३.६९च्द्

सत्यम् आत्मा सकलजगत्प्रपञ्चाविर्भावे ऽविद्यासमावेशवशात् समवाय्यसमवायिनिमित्तम् इत्य् एवं स्वयम् एव त्रिविधम् अपि कारणं न पुनः कार्यकोटिनिविष्टः । यस्माद् अक्षरो ऽविनश्वरः ।

  • ननु सत्त्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनात् तद्गुणवत्याः प्रकृतेर् एव जगत्कर्तृतोचिता, न पुनर् निर्गुणस्य ब्रह्मणः ।

  • मैवं मंस्थाः । आत्मैव कर्ता । यस्माद् असौ जीवोपभोग्यसुखदुःखहेतुभूतादृष्टादेर् बोद्धा । न ह्य् अचेतनायाः प्रकृतेर् नामरूपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादियोगिजगत्प्रपञ्चरचना घटते । तस्माद् आत्मैव कर्ता । तथा स एव ब्रह्म बृंहको विस्तारकः । न चासौ निर्गुणः । यतस् तस्य त्रिगुणशक्तिर् अविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते । अतः स्वतो निर्गुणत्वे ऽपि शक्तिमुखेन सत्त्वादिगुणयोगी कथ्यते । न चैतावता प्रकृतेः कारणता, यस्माद् आत्मैव वशी स्वतन्त्रः न प्रकृतिर् नाम स्वतन्त्रं तत्त्वान्तरं, तादृग्विधत्वे प्रमाणाभावात् । न च वचनीयं शक्तिरूपापि सैव कर्तृभूतेति । यतः शक्तिमत्कारकं न शक्तिः, तस्माद् आत्मैव जगतस् त्रिविधम् अपि कारणम् । तथा अज उत्पत्तिरहितः ।अतस् तस्य यद्य् अपि साक्षाद् जननं नोपपद्यते तथापि शरीरग्रहणमात्रेण जात इत्य् उच्यते अवस्थान्तरयोगितयोत्पत्तेर् गृहस्थो जात इतिवत् ॥ ३.६९ ॥

शरीरग्रहणप्रकारम् आह ।

सर्गादौ स यथाकाशं वायुं ज्योतिर् जलं महीम् । ३.७०अब्
सृजत्य् एकोत्तरगुणांस् तथादत्ते भवन्न् अपि ॥ ३.७०च्द्

सृष्टिसमये स परमात्मा यथाकाशादीन् शब्दैकगुणं गगनं शब्दस्पर्शगुणः पवनः शब्दस्पर्शरूपगुणं तेजः शब्दस्पर्शरूपरसगुणवद् उदकम् शब्दस्पर्शरूपरसगन्धगुणा जगतीत्य् एवम् एकोत्तरगुणान् सृजति । तथात्मा जीवभावम् आपन्नो भवन्न् उत्पद्यमानो ऽपि स्वशरीरस्यारम्भकत्वेनापि गृह्णाति ॥ ३.७० ॥

कथं शरीरारम्भकत्वं पृथिव्यादीनाम् इत्य् अत आह ।

आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिर् अथौषधिः । ३.७१अब्
तद् अन्नं रसरूपेण शुक्रत्वम् अधिगच्छति ॥ ३.७१च्द्

यजमानैः प्रक्षिप्तयाहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः । सूर्याच् च कालवशेन परिपक्वाज्यादिहवीरसाद् वृष्टिर् भवति । ततो व्रीह्याद्यौषधिरूपम् अन्नम् । तच् चान्नं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोनितभावम् आपद्यते ॥ ३.७१ ॥

ततः किम् इत्य् अत आह ।

स्त्रीपुंसयोस् तु संयोगे विशुद्धे शुक्रशोणिते । ३.७२अब्
पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत् प्रभुः ॥ ३.७२च्द्

ऋतुवेलायां स्त्रीपुंसयोर् योगे शुक्रं च शोणितं च शुक्रशोनितं तस्मिन् परस्परसंयुक्ते विशुद्धे “वातपित्तश्लेष्मदुष्टग्रन्थिपूयक्षीणमूत्रपुरीषगन्धरेतांस्य् अबीजानि” इति स्मृत्यन्तरोक्तदोषरहिते स्थित्वा पञ्चधातून् पृथिव्यादिपञ्चमहाभूतानि शरीरारम्भकतया स्वयं षष्टश् चिद्धातुर् आत्मा प्रभुः शरीरारम्भकारणादृष्टकर्मयोगितया समर्थो युगपद् आदत्ते योगायतनत्वेन स्वीकरोति । तथा च शारीरके “स्त्रीपुंसयोः संयोगे योनौ रजसाभिसंसृष्टं शुक्रं तत्क्षणम् एव सह भूतात्मना गुणैश् च सत्त्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति” इति (सुश्रुत ३.४) ॥ ३.७२ ॥

किं च ।

इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः । ३.७३अब्
धारणा प्रेरणं दुःखम् इच्छाहंकार एव च ॥ ३.७३च्द्
प्रयत्न आकृतिर् वर्णः स्वरद्वेषौ भवाभवौ । ३.७४अब्
तस्यैतद् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः ॥ ३.७४च्द्

इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि, । मनश् चोभयसाधारणम् । प्राणो ऽपानो व्यान उदानः समान इत्य् एवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राणः, ज्ञानम् अवगमः, आयुः कालविशेषावच्छिन्नं जीवनम्, सुखं निर्वृतिः, धृतिश् चित्तस्थैर्यम्, धारणा प्रज्ञा मेधा च, प्रेरणं ज्ञानकर्मेन्द्रियाणाम् अधिष्ठातृत्वम्, दुःखम् उद्वेगः, इच्छा स्पृहा, अहंकारो ऽहंकृतिः, प्रयत्न उद्यमः, आकृतिर् आकारः, वर्णो गौरिमादिः, स्वरः षड्जगान्धारादिः, द्वेषो वैरम्, भवः पुत्रपश्वादिविभवः, अभवस् तद्विपर्ययः, तस्यानादेर् आत्मनो नित्यस्यादिम् इच्छतः शरीरं जिघृक्षमाणस्य सर्वम् एतद् इन्द्रियादिकम् आत्मजनितं प्राग्भवीयकर्मबीजजन्यम् इत्य् अर्थः ॥ ३.७४ ॥

संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतौ क्रमम् आह ।

प्रथमे मासि संक्लेदभूतो धातुविमूर्छितः । ३.७५अब्
मास्य् अर्बुदं द्वितीये तु तृतीये ऽङ्गेन्द्रियैर् युतः ॥ ३.७५च्द्

असौ चेतनः षष्टो धातुः धातुविमूर्च्छितो धातुषु पृथिव्यादिषु विमूर्च्छितो लोलीभूतः । क्षीरनीरवद् एकीभूर इति यावत् । प्रथमे गर्भमासे संक्लेदभूतो द्रवरूपतां प्राप्त एवावतिष्ठते, न कठिनतया परिणमते । द्वितीये मास्य् अर्बुदम् ईषत्कठिनमांसपिण्डरूपं भवति । अयम् अभिप्रायः । कौष्ठ्यपवनजठरदहनाभ्यां प्रतिदिनम् ईषदीषच्छोष्यमाणं शुक्रसंपर्कसंपादितद्रवीभावं भूतजातं त्रिंशद्भिर् दिनैः काठिन्यम् आपद्यत इति । तथाच सुश्रुते “द्वितीये शीतोष्णानिलैर् अभिपच्यमानो भूतसंघातो घनो जायते” (शारीर ३.१८) इति । तृतीये तु मास्य् अङ्गैर् इन्द्रियैश् च संयुक्तो भवति ॥ ३.७५ ॥

किं च ।

आकाशाल् लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् । ३.७६अब्
वायोश् च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यम् एव च ॥ ३.७६च्द्
पित्तात् तु दर्शनं पक्तिम् औष्ण्यं रूपं प्रकाशिताम् । ३.७७अब्
रसात् तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ ३.७७च्द्
भूमेर् गन्धं तथा घ्राणं गौरवं मूर्तिम् एव च । ३.७८अब्
आत्मा गृह्णात्य् अजः सर्वं तृतीये स्पन्दते ततः ॥ ३.७८च्द्

आत्मा गृह्णातीति सर्वत्र संबध्यते । गगनाल् लघिमानं लङ्घनक्रियोपयोगिनम्, सौक्ष्म्यं सूक्ष्मेक्षित्वम्, शब्दं विषयम्, ष्रोत्रं श्रवणेन्द्रियम्, बलं दार्ढ्यम् । आदिग्रहणात् सुषिरत्वं विविक्ततां च, “आकाशाच् छब्दं श्रोत्रं विविक्ततां सर्वच्छिद्रसमूहांश् च” इति गर्भोपनिषद्दर्शनात् । पवनात् स्पर्शेन्द्रियम्, चेष्टां गमनागमनादिकाम्, व्यूहनम् अङ्गानां विविधं प्रसारणम्, रौक्ष्यं कर्कशत्वं चशब्दात् स्पर्शं च, पित्तात् तेजसो दर्शनं चक्षुरिन्द्रियम्, पक्तिं भुक्तस्यान्नस्य पचनम्, औष्ण्यम् उष्णस्पर्शत्वम् अङ्गानाम्, रूपं श्यामिकादि, प्रकाशितां भ्राजिष्णुताम् । तथा संतापामर्षादि च, “शौर्यामर्षतैक्ष्ण्यपक्त्यौष्ण्यभ्राजिष्णुतासंतापवर्णरूपेन्द्रियाणि तैजसानि” इति गर्भोपनिषद्दर्शनात् । एवं रसाद् उदकाद् रसनेन्द्रियम्, शैत्यम् अङ्गानां स्निग्धताम् मृदत्वसहितं, क्लेदम् आर्द्रताम्, तथा भूमेर् गन्धं घ्राणेन्द्रियं गरिमाणं मूर्तिं च । सर्वम् एतत् परमार्थतो जन्मरहितो ऽप्य् आत्मा तृतीये मासि गृह्णाति । ततश् चतुर्थे मासि स्पन्दते चलति । तथा शारीरके (३.१८)- “तस्माच् चतुर्थे मासि चलनादाव् अभिप्रायं करोति” इति ॥ ३.७६ ॥ ३.७७ ॥ ३.७८ ॥

किं च ।

दौहृदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् । ३.७९अब्
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥ ३.७९च्द्

गर्भस्यैकं हृदयं गर्भिण्याश् चापरम् इत्य् एवं द्विहृदया तस्याः स्त्रिया यद् अभिलषितं तत् द्वौहृदं, तस्याप्रदानेन गर्भो विरूपता मरणरूपं वा दोषं प्राप्नोति । तस्मात् तद्दोषपरिहारार्थं गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रियाः यत् प्रियम् अभिलषितं तत् संपादनीयम् । तथा च सुश्रुते- “द्विहृदयां नारीं दौहृदिनीम् आचक्षते, तद् अभिलषितं दद्यात्, वीर्यवन्तं चिरायुषं पुत्रं जनयति” (शारीर ३.१८) इति । तथा च व्यायामादिकम् अपि गर्भग्रहणप्रभृति तया परिहरणीयम्, “ततः प्रभृति व्यायामव्यवायातितर्पणदिवास्वप्नरात्रिजागरणशोकभययानारोहणवेगधारण-कुक्कुटासनशोणितमोक्षणानि परिहरेत्” (शारीर ३.१६) इति तत्रैवाभिधानात् । गर्भग्रहणं च श्रमादिभिर् लिङ्गैर् अवगन्तव्यम् । “सद्योगृहीतगर्भायाः श्रमो ग्लानिः पिपासा सक्थिसीदनं शुक्रशोणितयोर् अवबन्धः स्फुरणं च योनेः” (शारीर ३.१३) इत्यादि तत्रैवोक्तम् ॥ ३.७९ ॥

किं च ।

स्थैर्यं चतुर्थे त्व् अङ्गानां पञ्चमे शोणितोद्भवः । ३.८०अब्
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ३.८०च्द्

तृतीये मासि प्रादुर्भूतस्याङ्गसङ्घस्य चतुर्थे मासि स्थैर्यं स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठे बलस्य वर्णस्य कररुहरोम्णां च संभवः ॥ ३.८० ॥

किं च ।

मनश्चैतन्ययुक्तो ऽसौ नाडीस्नायुशिरायुतः । ३.८१अब्
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमान् अपि ॥ ३.८१च्द्

असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतसा चेतनया च युक्तो नाडीभिर् वायुवाहिनीभिः स्नायुभिर् अस्थिबन्धनैः शिराभिर् वातपित्तश्लेष्मवाहिनीभिश् च संयुतः । तथाष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ३.८१ ॥

किं च ।

पुनर् धात्रीं पुनर् गर्भम् ओजस् तस्य प्रधावति । ३.८२अब्
अष्टमे मास्य् अतो गर्भो जातः प्राणैर् वियुज्यते ॥ ३.८२च्द्

तस्याष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषो धात्रीं गर्भं च प्रति पुनः पुनर् अतितरां चञ्चलतया शीघ्रं गच्छति । अतो ऽष्टमे मासि जातो गर्भः प्राणैर् वियुज्यते । अनेनौजःस्थितिर् एव जीवनहेतुर् इति दर्शयति । ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम् ।

हृदि तिष्ठति यच् छुद्धम् ईषदुष्णं सपीतकम् ।
ओजः शरीरे संख्यातं तन् नाशान् नाशम् ऋच्छति ॥ इति ॥ ३.८२ ॥

किं च ।

नवमे दशमे वापि प्रबलैः सूतिमारुतैः । ३.८३अब्
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ ३.८३च्द्

एवं करचरणचक्षुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासे अपिशब्दात् प्राग् अपि सप्तमे ऽष्टमे वा अत्यायासादिदोषवत्प्रबलसूतिहेतुप्रभञ्जनप्रेरितस्नाय्वस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सूक्ष्मसुषिरेण सज्वरो दुःसहदुःखाभिभूयमानो निःसार्यते धनुर् यन्त्रेण सुधन्वप्रेरितो बाण इवातिवेगेन निर्गमसमनन्तरं च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर् भवति, “जातः स वायुना स्पृष्टो न स्मरति पूर्वं जन्म मरणं कर्म च शुभाशुभम्” इति निरुक्तस्याष्टादशे ऽभिधानात् ॥ ३.८३ ॥

कायस्वरूपं विवृण्वन्न् आह ।

तस्य षोढा शरीराणि षट् त्वचो धारयन्ति च । ३.८४अब्
षडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥ ३.८४च्द्

तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरिपाकहेतुभूतषडग्निस्थानयोगित्वेन । तथा ह्य् अन्नरसो जाठराग्निना पच्यमानो रक्ततां प्रतिपद्यते । रक्तं च स्वकोशस्थेनाग्निना पच्यमानं मांसत्वम् । मांसं च स्वकोशानलपरिपक्वं मेदस्त्वम् । मेदो ऽपि स्वकोशवह्निना पक्वम् अस्थिताम् । अस्थ्य् अपि स्वकोशशिखिपरिपक्वं मज्जात्वम् । मज्जापि स्वकोशपावकपरिपच्यमानश् चरमधातुतया परिणमते । चरमधातोस् तु परिणतिर् नास्तीति स एवात्मनः प्रथमः कोशः । इत्य् एवं षट्कोशाग्नियोगित्वात् षट्प्रकारत्वं शरीराणां । अन्नरसरूपस्य तु प्रथमधातोर् अनियतत्वान् न तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट् त्वचो धारयन्ति रक्तमांसमेदोऽस्थिमज्जाशुक्राख्याः षट् धातव एव रम्भास्तम्भत्वग् इव बाह्याभ्यन्तररूपेण स्थिताः त्वगिवाच्छादकत्वात् त्वचस् ताः षट् त्वचो धारयन्ति । तद् इदम् आयुर् वेदप्रसिद्धम् । तथाङ्गानि च षड् एव करयुग्मं चरणयुगलम् उत्तमाङ्गं गात्रम् इति । अस्थ्नां तु षष्टिसहितं शतत्रयम् उपरितनषट्श्लोक्या वक्ष्यमाणम् अवगन्तव्यम् ॥ ३.८४ ॥

किं च ।

स्थालैः सह चतुःषष्टिर् दन्ता वै विंशतिर् नखाः । ३.८५अब्
पाणिपादशलाकाश् च तेषां स्थानचतुष्टयम् ॥ ३.८५च्द्

स्थालानि दन्तमूलप्रदेशस्थान्य् अस्थीनि द्वात्रिंशतैः सह द्वात्रिंशद्दन्ताश् चतुःषष्टिर् भवन्ति । नखाः करचरणरुहा विंशतिर् हस्तपादस्थानि शलाकाकाराण्य् अस्थीनि मणिबन्धस्योपरिवर्तीन्य् अङ्गुलिमूलस्थानि विंशतिर् एव । तेषां नखानां शलाकास्थ्नां च स्थानचतुष्टयं द्वौ चरणौ करौ चेत्य् एवम् अस्थ्नां चतुरुत्तरं शतम् ॥ ३.८५ ॥

किं च ।

षष्ट्य् अङ्गुलीनां द्वे पार्ष्ण्योर् गुल्फेषु च चतुष्टयम् । ३.८६अब्
चत्वार्य् अरत्निकास्थीनि जङ्घयोस् तावद् एव तु ॥ ३.८६च्द्

विंशतिर् अङ्गुलयस् तासां एकैकस्यास् त्रीणि त्रीणीत्य् एवम् अङ्गुलिसंबन्धीन्य् अस्थीनि षष्टिर् भवन्ति । पादयोः पश्चिमौ भागौ पार्ष्णी, तयोर् अस्थीनि द्वे एकैकस्मिन् पादे गुल्फौ द्वाव् इत्य् एवं चतुर्षु गुल्फेषु चत्वार्य् अस्थीनि, बाह्वोर् अरत्निप्रमाणानि चत्वार्य् अस्थीनि, जङ्घयोस् तावद् एव चत्वार्य् एवेत्य् एवं चतुःसप्ततिः ॥ ३.८६ ॥

किं च ।

द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे । ३.८७अब्
अक्षतालूषके श्रोणीफलके च विनिर्दिशेत् ॥ ३.८७च्द्

जङ्घोरुसन्धिर् जानुः, कपोलो गल्लः, ऊरुः सक्थि तत्फलकं, अंसो भुजशिरः, अक्षः कर्णनेत्रयोर् मध्ये शङ्खाद् अधोभागः, तालूषकं काकुदं, श्रोणी ककुद्मती तत्फलकं, तेषाम् एकैकत्रास्थीनि द्वे द्वे विनिर्देशेद् इत्य् एवं चतुर्दशास्थीनि भवन्ति ॥ ३.८७ ॥

किं च ।

भगास्थ्य् एकं तथा पृष्ठे चत्वारिंशच् च पञ्च च । ३.८८अब्
ग्रीवा पञ्चदशास्थिः स्याज् जत्र्व् एकैकं तथा हनुः ॥ ३.८८च्द्

गुह्यास्थ्य् एकं पृष्ठे पश्चिमभागे पञ्चचत्वारिंशद् अस्थीनि भवन्ति । ग्रीवा कंधरा सा पञ्चदशास्थिः स्यात् भवेत् । वक्ष्ॐसयोः सन्धिर् जत्रु प्रतिजत्रु एकैकम् हनुश् चिबुकम् । तत्राप्य् एकम् अस्थीत्य् एवं चतुःषष्टिः ॥ ३.८८ ॥

किं च ।

तन्मूले द्वे ललाटाक्षिगण्डे नासा घनास्थिका । ३.८९अब्
पार्श्वकाः स्थालकैः सार्धम् अर्बुदैश् च द्विसप्ततिः ॥ ३.८९च्द्

तस्य हनोर् मूले ऽस्थिनी द्वे । ललाटं भालं अक्षि चक्षुः गण्डः कपोलाक्षयोर् मध्यप्रदेशः, तेषां समाहारो ललाटाक्षिगण्डं, तत्र प्रत्येकम् अस्थियुगुलम् । नासा घनसंज्ञकास्थिमती । पार्श्वकाः कक्षाधःप्रदेशसंबन्धान्य् अस्थीनि तदाधारभूतानि स्थालकानि, तैः स्थालकैर् अर्बुदैश् चास्थिविशेषैः सह पार्श्वका द्विसप्ततिः । पूर्वोक्तैश् च नवभिः सार्धम् एकाशीतिर् भवन्ति ॥ ३.८९ ॥

किं च ।

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस् तथा । ३.९०अब्
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ३.९०च्द्

भ्रूकर्णयोर् मध्यप्रदेशाव् अस्थिविशेषौ शङ्खकौ । शिरसः संबन्धीनि चत्वारि कपालानि । उरो वक्षस् तत् सप्तदशास्थिकम् इत्य् एवं त्रयोविंशतिः । पूर्वोक्तैश् च सह षष्ट्यधिकं शतत्रयम् इत्य् एवं पुरुषस्यास्थिसंग्रहः कथितः ॥ ३.९० ॥

सविषयाणि ज्ञानेन्द्रियाण्य् आह ।

गन्धरूपरसस्पर्शशब्दाश् च विषयाः स्मृताः । ३.९१अब्
नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥ ३.९१च्द्

एते गन्धादयो विषयाः पुरुषस्य बन्धनहेतवः, विषयशब्दस्य “षिञ् बन्धने” इत्य् अस्य धातोर् व्युत्पन्नत्वात् । एतैश् च गन्धादिभिर् बोध्यत्वेन व्यवस्थितैः स्वस्वगोचरसंवित्साधनतयानुमेयानि घ्राणादीनि पञ्चेन्द्रियाणि भवन्ति ॥ ३.९१ ॥

कर्मेन्द्रियाणि दर्शयितुम् आह ।

हस्तौ पायुर् उपस्थं च जिह्वा पादौ च पञ्च वै । ३.९२अब्
कर्मेन्द्रियाणि जानीयान् मनश् चैवोभयात्मकम् ॥ ३.९२च्द्

हस्तौ प्रसिद्धौ, पायुर् गुदं, उपस्थं रतिसंपाद्यसुखसाधनं, जिह्वा प्रसिद्धा, पादौ च, एतानि हस्तादीनि पञ्च कर्मेन्द्रियाण्य् आदाननिर्हारानन्दव्याहारविहारादिकर्मसाधनानि जानीयात् । मनो ऽन्तःकरणं युगपत् ज्ञानानुत्पत्तिगम्यं तच् च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् ॥ ३.९२ ॥

प्राणायतनानि दर्शयितुम् आह ।

नाभिर् ओजो गुदं शुक्रं शोणितं शङ्खकौ तथा । ३.९३अब्
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥ ३.९३च्द्

नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समाननाम्नः पवनस्य सकलाङ्गचारित्वे ऽपि नाभ्यादिस्थानविशेषवाचोक्तिः प्राचुर्याभिप्राया ॥ ३.९३ ॥

प्राणायतनानि प्रपञ्चयितुम् आह ।

वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा । ३.९४अब्
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानम् एव च ॥ ३.९४च्द्
आमाशयो ऽथ हृदयं स्थूलान्त्रं गुद एव च । ३.९५अब्
उदरं च गुदौ कोष्ठ्यौ विस्तारो ऽयम् उदाहृतः ॥ ३.९५च्द्

वपा प्रसिद्धा, वसा मांसस्नेहः, अवहननं फुप्फुसः, नाभिः प्रसिद्धा, प्लीहा आयुर्वेदप्रसिद्धा, तौ च मांसपिण्डाकारौ स्तः सव्यकुक्षिगतौ । यकृत् कालिका, क्लोम मांसपिण्डस् तौ च दक्षिणकुक्षिगतौ, क्षुद्रान्त्रं हृत्स्थान्त्रम्, वृक्ककौ हृदयसमीपस्थौ मांसपिण्डौ, बस्तिर् मूत्राशयः, पुरीषाधानं पुरीषाशयः, आमाशयो ऽपक्वान्नस्थानम्, हृदयं हृत्पुण्डरीकम्, स्थूलान्त्रगुदोदराणि प्रसिद्धानि, बाह्याद् गुदवलयाद् अन्तर्गुदवलये द्वे, तौ च गुदौ कौष्ठ्यौ कोष्टे नाभेर् अधःप्रदेशे भवौ । अयं च प्राणायतनस्य विस्तार उक्तः । पूर्वश्लोके तु संक्षेपः । अत एव पूर्वश्लोकोक्तानां केषांचिद् इह पाठः ॥ ३.९४ ॥ ३.९५ ॥

पुनः प्राणायतनप्रपञ्चार्थम् आह ।

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ । ३.९६अब्
कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टाव् ओष्ठौ ककुन्दरे ॥ ३.९६च्द्
वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ । ३.९७अब्
उपजिह्वा स्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥ ३.९७च्द्
तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके । ३.९८अब्
अवटश् चैवम् एतानि स्थानान्य् अत्र शरीरके ॥ ३.९८च्द्
अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च । ३.९९अब्
नव छिद्राणि तान्य् एव प्राणस्यायतनानि तु ॥ ३.९९च्द्

कनीनिके अक्षितारके, अक्षिकूटे अक्षिनासिकयोः सन्धी, शष्कुली कर्णशष्कुली, कर्णपत्रकौ कर्णपाल्यौ, कर्णौ प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्ठौ प्रसिद्धौ, कुक्न्दरे जघनकूपकौ, वङ्क्षणौ जघनोरुसंधी, वृक्कौ पूर्वोक्तौ, स्तनौ च श्लेष्मसंघातजौ, उपजिह्वा घण्टिका, स्फिजौ कटिप्रोथौ, बाहू प्रसिद्धौ, जङ्घोरुषु च पिण्डिका गङ्घ्योर् ऊर्वोश् च पिण्डिका मांसलप्रदेशः, गलशुण्डिके हनुमूलगल्लयोः सन्धी, शीर्षं शिरः, अवटः शरीरे यः कश्चन निम्नो देशः कण्ठमूलकक्षादिः । अवटुर् इति पाठे कृकाटिका । तथाक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्श्वद्वयम् इति वर्णचतुष्टयम् । यद् वा अक्षिपुटचतुष्टयम् । शेषं प्रसिधम् । एवम् एतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगुलं कर्णयुग्मं । नासाविवरद्वयम् आस्यं पायुर् उपस्थम् इत्य् एतानि पूर्वोक्तानि नव च्छिद्राणि च प्राणस्यायतनान्य् एव ॥ ३.९६-९९ ॥

किं च ।

शिराः शतानि सप्तैव नव स्नायुशतानि च । ३.१००अब्
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ ३.१००च्द्

शिरा नाभिसंबद्धाश् चत्वारिंशत्संख्या वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्यो नानाशाखिन्यः सत्यः सप्तशतसंख्या भवन्ति । तथाङ्गप्रत्यङ्गसंधिबन्धनाः स्नायवो नवशतानि । धमन्यो नाम नाभेर् उद्भूताश् चतुर्विंशतिसंख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेश्यः पुनर् मांसलाकारा ऊरुपिण्डकाद्यङ्गप्रत्यङ्गसंधिन्यः पञ्चशतानि भवन्ति ॥ ३.१०० ॥

पुनश् चासाम् एव शिरादीनां शाखाप्राचुर्येण संख्यान्तरम् आह ।

एकोनत्रिंशल् लक्षाणि तथा नव शतानि च । ३.१०१अब्
षट्पञ्चाशच् च जानीत सिरा धमनिसंज्ञिताः ॥ ३.१०१च्द्

शिराधमन्यो मिलिताः शाखोपशाखाभेदेन एकोनत्रिंशल् लक्षाणि नवशतानि षट्पञ्चाशच् च भवन्तीत्य् एवं हे सामश्रवःप्रभृतयः मुनयो जानीत ॥ ३.१०१ ॥

किं च ।

त्रयो लक्षास् तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । ३.१०२अब्
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ ३.१०२च्द्

शरीरिणां श्मश्रूणि केशाश् च मिलिताः सन्तस् त्रयो लक्षा विज्ञेयाः । मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं ज्ञेयम् । अस्थ्नां तु द्वे सन्धिशते स्नायुशिरादिसन्धयः पुनर् अनन्ताः ॥ ३.१०२ ॥

सकलशरीरसुषिरादिसंख्याम् आह ।

रोम्णां कोट्यस् तु पञ्चाशच् चतस्रः कोट्य एव च । ३.१०३अब्
सप्तषष्टिस् तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ ३.१०३च्द्
वायवीयैर् विगण्यन्ते विभक्ताः परमाणवः । ३.१०४अब्
यद्य् अप्य् एको ऽनुवेत्त्य् एषां भावनां चैव संस्थितिम् ॥ ३.१०४च्द्

पूर्वोदितशिराकेशादिसहितानां रोम्णां परमाणवः सूक्ष्मसूक्ष्मतररूपा भागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर् विभक्ताः पवनपरमाणुभिः पृथक्कृता विगण्यन्ते । एतच् एतच् च शास्त्रदृष्ट्याभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावाद् अस्यार्थस्य । इमम् अतिगहनम् अर्थं शिरादिभावसंस्थानरूपं हे मुनयः भवतां मध्ये यः कश्चिद् अनुवेत्ति सो ऽपि महान् अग्र्यो बुद्धिमताम् । अतो यत्नतो बुद्धिमता बोद्धव्या भावसंस्थितिः ॥

शरीररसादिपरिमाणम् आह ।

रसस्य नव विज्ञेया जलस्याञ्जलयो दश । ३.१०५अब्
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ ३.१०५च्द्
षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रम् एव च । ३.१०६अब्
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वम् तु मस्तके ॥ ३.१०६च्द्
श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव तु । ३.१०७अब्
इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ ॥ ३.१०७च्द्

सम्यक्परिणताहारस्य सारो रसस् तस्य परिमाणं नवाञ्जलयः । पार्थिवपरमाणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः । पुरीषस्य वर्चस्कस्य सप्तैव । रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टाव् अञ्जलयः प्रकीर्तिताः । श्लेष्मणः कफस्य षड् अञ्जलयः । पित्तस्य तेजसः पञ्च । मूत्रस्योच्चारणस्य चत्वारः । वसाया मांसस्नेहस्य त्रयः । मेदसो मांसरसस्य द्वाव् अञ्जली । मज्जा त्व् अस्थिगतसुषिरगतस् तस्यैको ऽञ्जलिः । मस्तके पुनर् अर्धाञ्जलिः मज्जा श्लेष्मौजसः श्लेष्मसारस्य । तथा रेतसश् चरमधातोस् तावद् एवार्धाञ्जलिर् एव । एतच् च समधातुपुरुषाभिप्रायेणोक्तम् । विषमधातोस् तु न नियमः,

वैलक्षण्याच् छरीराणाम् अस्थायित्वात् तथैव च ।
दोषधातुमलानां च परिमाणं न विद्यते ॥

इत्य् आयुर्वेदस्मरणात् । इतीदृशम् अस्थिस्नाय्वाद्यारब्धम् एतद् अशुचिनिधानं वर्ष्मास्थिरम् इति यस्य बुद्धिर् असौ कृती पण्डितो मोक्षाय समर्थो भवति, वैराग्यनित्यानित्यविवेकयोर् मोक्षोपायत्वात्, अस्थिमूत्रपुरीषादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् । अत एव व्यासः ।

सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥
यदि नामास्य कायस्य यद् अन्तस् तद् बहिर् भवेत् ।
दण्डमादाय लोको ऽयं शुनः काकांश् च वारयेत् ॥ इति ।

तस्माद् ईदृशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थम् आत्मोपासने प्रयतितव्यम् ॥ ३.१०५-१०७ ॥

उपासनीयात्मस्वरूपम् आह ।

द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः । ३.१०८अब्
हिताहिता नाम नाड्यस् तासां मध्ये शशिप्रभम् ॥ ३.१०८च्द्
मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः । ३.१०९अब्
स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु ॥ ३.१०९च्द्

हृदयप्रदेशाद् अभिनिःसृताः कदम्बकुसुमकेसरवत् सर्वतो निर्गता हिताहितकरत्वेन हिताहितेति संज्ञा द्वासप्ततिसहस्राणि नाड्यो भवन्ति । अपरास् तिस्रो नाड्यस् तासाम् इडापिङ्गलाख्ये द्वे नाड्यौ सव्यदक्षिणपार्ष्वगते हृदि विपर्यस्ते नासाविवरसंबद्धे प्राणापानायतने । सुषुम्नाख्या पुनस् तृतीया दण्डवन् मध्ये ब्रह्मरन्ध्रविनिर्गता । तासां नाडीनां मध्ये मण्डलं चन्द्रप्रभं तस्मिन्न् आत्मा निर्वातस्थदीप इवाचलः प्रकाशमान आस्ते स एवंभूतो ज्ञातव्यः । यतस् तत्साक्षात् करणाद् इह संसारे न पुनः संसरत्य् अमृतत्वं प्राप्नोति ॥ ३.१०८ ॥ ३.१०९ ॥

किं च ।

ज्ञेयं चारण्यकम् अहं यद् आदित्याद् अवाप्तवान् । ३.११०अब्
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगम् अभीप्सता ॥ ३.११०च्द्

चित्तवृत्तेर् विषयान्तरतिरस्कारेणात्मनि स्थैर्यं योगस् तत्प्राप्त्यर्थं बृहदारण्यकाख्यम् आदित्याद् यन् मया प्राप्तं तच् च ज्ञातव्यम् । तथा यन् मयोक्तं योगशास्त्रं तद् अपि ज्ञातव्यम् ॥ ३.११० ॥

_कथं पुनर् असाव् आत्मा ध्येय इत्य् अत आह _

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । ३.१११अब्
ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ॥ ३.१११च्द्

आत्मव्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्याहृत आत्मैकविषयाणि कृत्वा आत्मा ध्येयः । यो ऽसौ प्रभुर् निर्वातस्थप्रदीपवद् दीप्यमानो निष्प्रकम्पो हृदि तिष्ठति । एतद् एव तस्य ध्येयत्वं यच् चित्तवृत्तेर् बहिर्विषयावभासतिरस्कारेणात्मप्रवणता नाम शरावसंपुटनिरुद्धप्रभाप्रतानप्रसरस्यैव प्रदीपस्यैकनिष्ठत्वम् ॥ ३.१११ ॥

यस्य पुनश् चित्तवृत्तिर् निराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मोपासनं कार्यम् इत्य् आह ।

यथाविधानेन पठन् सामगायम् अविच्युतम् । ३.११२अब्
सावधानस् तदभ्यासात् परं ब्रह्माधिगच्छति ॥ ३.११२च्द्

स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । साम्नो गानात्मकत्वे ऽपि गायम् इति विशेषणं प्रगीतमन्त्रव्युदासार्थम् । अविच्युतम् अस्खलितं सावधानं सामध्वन्यनुस्यूतात्मैकाग्रचित्तवृत्तिः पठंस् तदभ्यासवशात् तत्र निष्णातः शब्दाकारशून्योपासनेन परं ब्रह्माधिगच्छति । तद् उक्तम्-

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । इति ॥ ३.११२ ॥

यस्य पुनर् वैदिक्यां गीतौ चित्तं नाभिरमते तेन लौकिकगीतानुस्मृतात्मोपासनं कार्यम् इत्य् आह ।

अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा । ३.११३अब्
औवेणकं सरोबिन्दुम् उत्तरं गीतकानि च ॥ ३.११३च्द्
ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका । ३.११४अब्
गेयम् एतत् तदभ्यासकरणान् मोक्षसंज्ञितम् ॥ ३.११४च्द्

अपरान्तकोल्लोप्यमद्रकप्रकर्यौवेणकानि सरोबिन्दुसहितं चोत्तरम् इत्य् एतानि प्रकराख्यानि सप्त गीतकानि । चशब्दाद् आसारितवर्धमानकादिमहागीतानि गृह्यन्ते । ऋग्गाथाद्याश् चतस्रो गीतिका इत्य् एतद् अपरान्तकादिगीतजातम् अध्यारोपितात्मभावं मोक्षसाधनत्वान् मोक्षसंज्ञितं मन्तव्यम्, तदभ्यासस्यैकाग्रतापादनद्वारेणात्मैकग्रतापत्तिकारणत्वात् ॥ ३.११३ ॥ ३.११४ ॥

किं च ।

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । ३.११५अब्
तालज्ञश् चाप्रयासेन मोक्षमार्गं नियच्छति ॥ ३.११५च्द्

भरतादिमुनिप्रतिपादितवीणावादनतत्त्ववेदी । श्रूयत इति श्रुतिः द्वाविंशतिविधा सप्तस्वरेषु । तथा हि । षड्जमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतयः ऋषभधैवतौ प्रत्येकं त्रिश्रुती गान्धारनिषादौ प्रत्येकं द्विश्रुती इति । जातयस् तु षड्जादयः सप्त शुद्धाः संकरजातयस् त्व् एकादशेत्य् एवम् अष्टादशविधास्, तासु विशारदः प्रवीणः । ताल इति गीतपरिमाणं कथ्यते । तत्स्वरूपज्ञश् च तदनुविद्धब्रह्मोपासनतया तालादिभङ्गभयाच् चित्तवृत्तेर् आत्मैकाग्रतायाः सुकरत्वाद् अल्पायासेनैव मुक्तिपथं नियच्छति प्राप्नोति ॥ ३.११५ ॥

चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरम् आह ।

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् । ३.११६अब्
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ३.११६च्द्

गीतज्ञो यदि कथंचिद् योगेन परमं पदं नाप्नोति, तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदिते क्रीडति ॥ ३.११६ ॥

पूर्वोक्तम् उपसंहरति ।

अनादिर् आत्मा कथितस् तस्यादिस् तु शरीरकम् । ३.११७अब्
आत्मनस् तु जगत् सर्वं जगतश् चात्मसंभवः ॥ ३.११७च्द्

प्रागुक्तरीत्या अनादिर् आत्मा क्षेत्रज्ञस् तस्य च शरीरग्रहणम् एवादिर् उद्भवः कथितः “अजः शरीरग्रहणाद्” य्ध् ३.६९) इत्य् अत्र । परमात्मनश् च सकाशात् पृथिव्यादिसकलभुवनोद्भवः तस्माद् उद्भूताच् च पृथिव्यादिभूतसंघाताज् जीवानां स्थूलशरीरतायां संभवश् च कथितः “सर्गादौ स यथाकाशम्” (य्ध् ३.७०) इत्यादिना ॥ ३.११७ ॥

एतद् एव प्रश्नपूर्वकं विवृणोति ।

कथम् एतद् विमुह्यामः सदेवासुरमानवम् । ३.११८अब्
जगदुद्भूतम् आत्मा च कथं तस्मिन् वदस्व नः ॥ ३.११८च्द्

यद् एतत् सकलसुरासुरमनुजादिसहितं जगत् तद् आत्मनः सकाशात् कथम् उत्पन्नम्, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभाग् भवतीत्य् एतस्मिन्न् अर्थे विमुह्यामः । अतो मोहापनुत्त्यर्थम् अस्माकं विस्तरशो वदस्व ॥ ३.११८ ॥

एवं मुनिभिः पृष्टः प्रत्युत्तरम् आह ।

मोहजालम् अपास्येह पुरुषो दृश्यते हि यः । ३.११९अब्
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ ३.११९च्द्
स आत्मा चैव यज्ञश् च विश्वरूपः प्रजापतिः । ३.१२०अब्
विराजः सो ऽन्नरूपेण यज्ञत्वम् उपगच्छति ॥ ३.१२०च्द्

इह जगति यद् इदं स्थूलकलेवरादाव् अनात्मन्य् आत्माभिमानरूपं मोहजालं तद् अपास्य तद्व्यतिरिक्तो यः पुरुषो ऽनेककरचरणलोचनः सूर्यवर्चा अनन्तरश्मिः सहस्रकः बहुशिरा दृश्यते । एतच् च तत्तद्गोचरशक्त्याधारतयोच्यते, तस्य साक्षात्कारादिसंबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश् च । यतो ऽसौ विश्वरूपः सर्वात्मकः । वैश्वरूप्यम् एव कथम् इति चेत्, यस्माद् असौ विराजः पुरोडाशाद्यन्नरूपेण यज्ञत्वम् उपगच्छति । यज्ञाच् च वृष्ट्यादिद्वारेण प्रजासृष्टिर् इत्य् एवं वैश्वरूप्यम् ॥ २.११९ ॥ २.१२० ॥

एतद् एव प्रपञ्चयति ।

यो द्रव्यदेवतात्यागसम्भूतो रस उत्तमः । ३.१२१अब्
देवान् संतर्प्य स रसो यजमानं फलेन च ॥ ३.१२१च्द्
संयोज्य वायुना सोमं नीयते रश्मिभिस् ततः । ३.१२२अब्
ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ ३.१२२च्द्
खमण्डलाद् असौ सूर्यः सृजत्य् अमृतम् उत्तमम् । ३.१२३अब्
यज्जन्म सर्वभूतानाम् अशनानशनात्मनाम् ॥ ३.१२३च्द्
तस्माद् अन्नात् पुनर् यज्ञः पुनर् अन्नं पुनः क्रतुः । ३.१२४अब्
एवम् एतद् अनाद्यन्तं चक्रं सम्परिवर्तते ॥ ३.१२४च्द्

द्रव्यस्य चरुपुरोडाशादेर् देवतोद्देशेन त्यागाद् यो रसो ऽदृष्टरूपम् आत्मनः परिणत्यन्तरम् उत्तमः सकलजगज्जन्मबीजतयोत्कृष्टतमः संभूतः, स देवान् संप्रदानकारकभूतान् सम्यक् प्रीणयित्वा, यजमानं चाभिलषितफलेन संयोज्य, पवनेन प्रेर्यमाणश् चन्द्रमण्डलं प्रति नीयते । ततः शशिमण्डलाद् रश्मिभिर् भानुमण्डलम् । सैषा त्रय्य् एव विद्या तपतीत्य् अभेदाभिधानात्, ऋग्यजुःसाममयं प्रत्य् उपनीयते । ततश् च स्वमण्डलाद् असौ सूर्यो ऽमृतरसं वृष्टिरूपम् उत्तमं यत् सकलभूतानाम् अशनानशनात्मनां चराचराणां जनननिमित्तं तत् सृजति । तस्माद् वृष्टिसंपादितौषधिमयात् प्रजोत्पत्तिहेतोर् अन्नात् पुनर् यज्ञो यज्ञाच् च पूर्वाभिहितभङ्ग्या पुनर् अन्नं अन्नाच् च पुनः क्रतुर् इत्य् एवम् एतद् अखिलं संसारचक्रं प्रवाहरूपेणोत्पत्तिविनाशविरहितं सम्यक् परिवर्तत इत्य् अनेन क्रमेणात्मनः सकाशाद् अखिलजगदुत्पत्तिः । तत्र चात्मनः स्वकर्मानुरूपविग्रहपरिग्रहः ॥ ३.१२१-१२४ ॥

ननु यद्य् आत्मनः संसरणम् अनाद्यन्तं तर्ह्य् अनिर्मुक्तिप्रसङ्गः, इत्य् अत आह ।

अनादिर् आत्मा संभूतिर् विद्यते नान्तरात्मनः । ३.१२५अब्
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ ३.१२५च्द्

यद्य् अप्य् आत्मनो ऽनादित्वात् संभूतिर् न विद्यते अन्तरात्मनः शरीरव्यापिनः, तथापि पुरुषः शरीरेण समवायी भवति भोगायतने सुखदुःखात्मकं भोग्यजातम् उपभुङ्क्ते इत्य् एवंभूतेन संबन्धेन संबन्धी भवत्य् एव । स च समवायो मोहेच्छाद्वेषजनितकर्मनिर्मेयो न तु निसर्गजातः । तस्य कार्यत्वेन विनाशोपपत्तेर् नानिर्मुक्तिः ॥ ३.१२५ ॥

आत्मनो जगज्जन्मेत्य् उक्तम्, तत्प्रपञ्चयितुम् आह ।

सहस्रात्मा मया यो व आदिदेव उदाहृतः । ३.१२६अब्
मुखबाहूरुपज्जाः स्युस् तस्य वर्णा यथाक्रमम् ॥ ३.१२६च्द्
पृथिवी पादतस् तस्य शिरसो द्यौर् अजायत । ३.१२७अब्
नस्तः प्राणा दिशः श्रोत्रात् स्पर्शाद् वायुर् मुखाच् छिखी ॥ ३.१२७च्द्
मनसश् चन्द्रमा जातश् चक्षुषश् च दिवाकरः । ३.१२८अब्
जघनाद् अन्तरिक्षं च जगच् च सचराचरम् ॥ ३.१२८च्द्

यो ऽसौ सकलजीवात्मकतया प्रपञ्चात्मकतया च सहस्रात्मा बहुरूपस् तथा सकलजगद्धेतुतया आदिदेवो मया युष्माकम् उदाहृतः तस्य वदनभुजसक्थिचरणजाता यथाक्रमम् अग्रजन्मादयश् चत्वारो वर्णाः । तथा तस्य पादाद् भूमिर् मस्तकात् सुरसद्म घ्राणात् प्राणः कर्णात् ककुभः स्पर्शात् पवनो वदनाद् धुतवहः मनसः शशाङ्कः नेत्राद् भानुः जघनाद् गगनं जङ्गमाजङ्गमात्मकं जगच् च ॥ ३.१२६-१२८ ॥

अत्र चोदयन्ति ।

यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते । ३.१२९अब्
ईश्वरः स कथं भावैर् अनिष्टैः सम्प्रयुज्यते ॥ ३.१२९च्द्

हे ब्रह्मन् योगीश्वर, यद्य् आत्मैव जीवादिभावं भजते तर्हि कथम् असौ पापयोनिषु मृगपक्ष्यादिषु जायते । अथ मोहरागद्वेषादिदोषदुष्टत्वात् तत्र जन्मेत्य् उच्यते । तच् च न । यस्माद् ईश्वरः स्वतन्त्रः कथम् अनिष्टैर् मोहरागादिभावैः संयुज्यते ॥ ३.१२९ ॥

किं च ।

करणैर् अन्वितस्यापि पूर्वं ज्ञानं कथं च न । ३.१३०अब्
वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम् ॥ ३.१३०च्द्

तथेदम् अप्य् अत्र दूषणम् । मनःप्रभृतिज्ञानोपायैः सहितस्यापि तस्यात्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मान् नोत्पद्यते । तथा सर्वप्राणिगतां वेदनां सुखदुःखादिरूपां स्वयं सर्वगो ऽपि सर्वदेहगतो ऽपि कस्मान् न वेत्ति । तस्माद् आत्मैवेश्वरो जीवादिभावं भजत इत्य् अयुक्तम् ॥ ३.१३० ॥

तत्र पूर्वचोद्यस्योत्तरम् आह ।

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । ३.१३१अब्
दोषैः प्रयाति जीवो ऽयं भवं योनिशतेषु च ॥ ३.१३१च्द्

यद्य् अपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्य् अविद्यासमावेशवशान् मोहरागादिभावैर् अभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनिचयम् आचरति । तेन चान्त्यजादिहीनयोनिताम् आपद्यते । अन्त्याश् चण्डालादयः पक्षिणः काकादयः स्थावरा वृक्षादयः तेषां भावो ऽन्त्यपक्षिस्थावरता तां यथाक्रमेण मनोवाक्कायारब्धकर्मदोषैर् जन्मसहस्रेष्व् अयम् जीवः प्राप्नोति ॥ ३.१३१ ॥

किं च ।

अनन्ताश् च यथा भावाः शरीरेषु शरीरिणाम् । ३.१३२अब्
रूपाण्य् अपि तथैवेह सर्वयोनिषु देहिनाम् ॥ ३.१३२च्द्

शरीरिणां जीवानां शरीरेषु भावा अभिप्रायविशेषाः सत्त्वाद्युद्रेकतारतम्याद् यथानन्तास् तथा तत्कार्याण्य् अपि कुब्जवामनत्वादीनि रूपाणि देहिनां सर्वयोनिषु भवन्ति ॥ ३.१३२ ॥

ननु यदि कर्मजन्यानि कुब्जत्वादीनि तर्हि कर्मानन्तरम् एव तैर् भवितव्यम्, इत्य् आशङ्क्याह ।

विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते । ३.१३३अब्
इह वामुत्र वैकेषां भावस् तत्र प्रयोजनम् ॥ ३.१३३च्द्

केषांचिज् ज्योतिष्टोमादिकर्मणां विपाकः फलं प्रेत्य देहान्तरे भवति । केषांचित् कारीर्यादिकर्मणां वृष्ट्यादिफलम् इहैव भवति । केषांचिच् चित्रादीनां फलं पश्चादिकम् इह देहान्तरे वेत्य् अनियतम् । न ह्य् अनन्तरम् एव कर्मफलेन भवितव्यम् इति शास्त्रार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्त्वादिभाव एव प्रयोजकभूतस् तदायत्तत्वात् फलतारतम्यस्य ॥ ३.१३३ ॥

मनोवाक्कायकर्मजैर् अन्त्यादियोनीः प्राप्नोतीत्य् उक्तं, तत् प्रपञ्चयितुम् आह ।

परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् । ३.१३४अब्
वितथाभिनिवेशी च जायते ऽन्त्यासु योनिषु ॥ ३.१३४च्द्

परधनानि कथम् अहम् अपहरेयम् इत्याभिमुक्ज्येन ध्यायंस्, तथानिष्टानि ब्रह्महत्यादीनि हिंसात्मकानि करिष्यामीति चिन्तयन्, वितथे असत्यभूते वस्तुन्य् अभिनिवेशः पुनः पुनः संकल्पस् तद्वांश् च श्वचण्डालाद्यन्त्ययोनिषु जायते ॥ ३.१३४ ॥

किं च ।

पुरुषो ऽनृतवादी च पिशुनः परुषस् तथा । ३.१३५अब्
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ ३.१३५च्द्

यस् त्व् अनृतवदनशीलः पुरुषः पिशुनः कर्णेजपः पुरुषः परोद्वेगकरभाष्य् अनिबद्धप्रलापी प्रकृतासङ्गतार्थवादी च बुद्धिपूर्वाबुद्धिपूर्वादितारतम्याद् धीनोत्कृष्टेषु मृगपक्षिषु जायते ॥ ३.१३५ ॥

किं च ।

अदत्तादाननिरतः परदारोपसेवकः । ३.१३६अब्
हिंसकश् चाविधानेन स्थावरेष्व् अभिजायते ॥ ३.१३६च्द्

अदत्तादाननिरतो ऽदत्तपरधनापहारप्रसक्तः परदारप्रसक्तश् च अविहितमार्गेण प्राणिनां घातकश् च दोषगुरुलघुभावतारतम्यात् तरुलताप्रतानादिस्थावरेषु जायते ॥ ३.१३६ ॥

सत्त्वादिगुणपरिपाकम् आह ।

आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः । ३.१३७अब्
धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम् ॥ ३.१३७च्द्

आत्मज्ञो विद्याधनाभिजनाद्यभिमानरहितः शौचवान् बाह्याभ्यन्तरशौचयुक्तः दान्त उपशमान्वितः तपस्वी कृच्छ्रादितपोयुक्तः तथेन्द्रियार्थेष्व् अप्रसक्तः नित्यनैमित्तिकधर्मानुष्ठाननिरतः वेदार्थवेदी च यः सात्त्विकः स च सत्त्वोद्रेकतारतम्यवशाद् उत्कृष्टोत्कृष्टतरसुरयोनितां प्राप्नोति ॥ ३.१३७ ॥

किं च ।

असत्कार्यरतो ऽधीर आरम्भी विषयी च यः । ३.१३८अब्
स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ३.१३८च्द्

असत्कार्येषु तूर्यवादित्रनृत्यादिष्व् अभिरतो यस् तथा अधीरो व्यग्रचित्त आरम्भी सदा कार्याकुलो विषयेष्व् अतिप्रसक्तश् च स रजोगुणयुक्तः तद्गुणतारतम्याद् धीनोत्कृष्टमनुष्यजातिषु मरणानन्तरम् उत्पत्तिं प्राप्नोति ॥ ३.१३८ ॥

तथा च[^४३] ।

निद्रालुः क्रूरकृल् लुब्धो नास्तिको याचकस् तथा । ३.१३९अब्
प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः ॥ ३.१३९च्द्

यः पुनर् निद्राशीलः प्राणिपीडाकरो लोभयुक्तश् च तथा नास्तिको धर्मादेर् निन्दकः याचनशीलः प्रमादवान् कार्याकार्यविवेकशून्यः विरुद्धाचारश् च असौ तमोगुणयुक्तस् तत्तारतम्याद् धीनहीनतरपश्वादियोनिषु जायते ॥ ३.१३९ ॥

पूर्वोक्तम् उपसंहरति ।

रजसा तमसा चैवं समाविष्टो भ्रमन्न् इह । ३.१४०अब्
भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ ३.१४०च्द्

एवम् अविद्याविद्धो ऽयम् आत्मा रजस्तमोभ्यां सम्यग् आविष्ट इह संसारे पर्यटन् नानाविधदुःखप्रदैर् भावैर् अभिभूतः पुनः पुनः संसारं देहग्रहणं प्राप्नोति । इतीश्वरः स कथं भावैर् अनिष्टैः संप्रयुज्यत इत्य् अस्य चोद्यस्यानवकाशः ॥ ३.१४० ॥

यद् अपि “करणैर् अन्वितस्यापि” (य्ध् ३.१३०) इति द्वितीयं चोद्यं तस्योत्तरम् आह ।

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः । ३.१४१अब्
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥ ३.१४१च्द्

यद्य् अप्य् आत्मा अन्तःकरणादिज्ञानसाधनसंपन्नस् तथापि जन्मान्तरानुभूतार्थावबोधे न समर्थो ऽविपक्वकरणो रागादिमलाक्रान्तचित्तो यस्मात् । यथा दर्पणो मलछन्नो रूपज्ञानोत्पादनसमर्थो न भवति ॥ ३.१४१ ॥

ननु प्राग्भवीयज्ञानस्याप्य् आत्मप्रकाशित्वात् तस्य च स्वतःसिद्धत्वान् नानुपलम्भो युक्तः, इत्य् आशङ्क्याह ।

कट्वेर्वारौ यथापक्वे मधुरः सन् रसो ऽपि न । ३.१४२अब्
प्राप्यते ह्य् आत्मनि तथा नापक्वकरणे ज्ञता ॥ ३.१४२च्द्

अपक्वे कट्वेर्वारौ तिक्तकर्कटिकायां विद्यमानो ऽपि मधुरो रसो यथा नोपलभ्यते तथात्मन्य् अपक्वकरणे विद्यमानापि ज्ञता ज्ञातृता प्राग्भवीयवस्तुगोचरता न प्राप्यते ॥ ३.१४२ ॥

“वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम्” (य्ध् ३.१३०) इति यद् उक्तं तत्रोत्तरम् आह ।

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् । ३.१४३अब्
योगी मुक्तश् च सर्वासां यो न चाप्नोति वेदनाम् ॥ ३.१४३च्द्

यः पुनर् देही देहाभिमानयुक्तः स सर्वाश्रयाम् आध्यात्मिकादिरूपां वेदनां स्वकर्मोपार्जित एव देहे प्राप्नोति न देहान्तरगतां भोगायतनारम्भादृष्टवैलक्षण्याद् एव । यस् तु योगी मुक्तो मुक्ताहंकारादिः सकलक्षेत्रगतानां सुखदुःखादिसंविदां वेदिता भवति परिपक्वकरणत्वात् ॥ ३.१४३ ॥

ननु एकस्मिन्न् आत्मनि सुरनरादिदेहेषु भेदप्रत्ययो न घटते, इत्य् आशङ्क्याह ।

आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् । ३.१४४अब्
तथात्मा एको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान् ॥ ३.१४४च्द्

यथैकम् एव गगनं कूपकुम्भाद्युपाधिभेदभिन्नं नानेवानुभूयते, यथा वा भानुर् एको ऽपि भिन्नेषु जलभाजनेषु करकमणिकमल्लिकादिषु नानेवानुभूयते, तथैको ऽप्य् आत्मा अन्तःकरणोपाधिभेदेन नाना प्रतीयते । द्वितीयदृष्टान्तोपादानम् आत्मभेदस्यापारमार्थिकत्वद्योतनार्थम् ॥ ३.१४४ ॥

“पञ्चधातून् स्वयं षष्ट आदत्ते युगपत् प्रभुः” (य्ध् ३.७२) इत्याद्युक्तम् अर्थम् उपसंहृत्याह ।

ब्रह्मखानिलतेजांसि जलं भूश् चेति धातवः । ३.१४५अब्
इमे लोका एष चात्मा तस्माच् च सचराचरम् ॥ ३.१४५च्द्

ब्रह्म आत्मा, खं गगनम्, अनिलो वायुः, तेजो ऽग्निः, जलं प्रसिद्धं, भूश् चेत्य् एते वातादिधातव एव शरीरं व्याप्य धारयन्तीति धातवो ऽभिधीयन्ते । तत्र खादयः पञ्च धातवः लोक्यन्ते दृश्यन्ते इति लोकाः । जडा इति यावत् । एष चिद्धातुर् आत्मा एतस्माज् जडाजडसमुदायात् स्थावरजङ्गमात्मकं जगद् उत्पद्यते ॥ ३.१४५ ॥

कथम् असाव् आत्मा जगत् सृजतीत्य् आह ।

मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् । ३.१४६अब्
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः ॥ ३.१४६च्द्
हेममात्रम् उपादाय रूपं वा हेमकारकः । ३.१४७अब्
निजलालासमायोगात् कोशं वा कोशकारकः ॥ ३.१४७च्द्
कारणान्य् एवम् आदाय तासु तास्व् इह योनिषु । ३.१४८अब्
सृजत्य् आत्मानम् आत्मा च सम्भूय करणानि च ॥ ३.१४८च्द्

यथा हि कुलालो मृच्चक्रचीवरादिकं कारणजातम् उपादाय करकशरावादिकं नानाविधकार्यजातं रचयति । यथा वा वर्धकिस् तृणमृत्काष्ठैः परस्परसापेक्षैः एकं गृहाख्यं कार्यं करोति । यथा वा हेमकारकः केवलं हेमोपादाय हेमानुगतम् एव कटकमुकुटकुण्डलादिकार्यम् उत्पादयति । यथा वा कोशकारकः कीटविशेषो निजलालयारब्धम् आत्मबन्धनं कोशाख्यम् आरभते तथात्मापि पृथिव्यादीनि साधनानि परस्परसापेक्षाणि तथा करणान्य् अपि श्रोत्रादीन्य् उपादाय अस्मिन् संसारे तासु तासु सुरादियोनिषु स्वयम् एवात्मानं निजकर्मबन्धबद्धं शरीरितया सृजति ॥ ३.१४६-१४८ ॥

किं पुनर् वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणम्, इत्य् आशङ्क्याह ।

महाभूतानि सत्यानि यथात्मापि तथैव हि । ३.१४९अब्
को ऽन्यथैकेन नेत्रेण दृष्टम् अन्येन पश्यति ॥ ३.१४९च्द्
वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् । ३.१५०अब् अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ ३.१५०च्द्
जातिरूपवयोवृत्तविद्यादिभिर् अहंकृतः । ३.१५१अब्
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ ३.१५१च्द्

यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणागम्यत्वात् तथात्मापि सत्यः । अन्यथा यदि बुद्धीन्द्रियव्यतिरिक्तो ज्ञाता ध्रुवो न स्यात् तर्हि एकेन चक्षुरिन्द्रियेण दृष्टं वस्तु अन्येन स्पर्शनेन्द्रियेण को विजानाति “यम् अहम् अद्राक्षं तम् अहं स्पृशामि” इति । तथा कस्यचित् पुरुषस्य वाचं पूर्वं श्रुत्वा पुनः श्रूयमाणां वाचं तस्य वाग् इयम् इति कः प्रत्यभिजानाति । तस्मात् ज्ञानेन्द्रियातिरिक्तो ज्ञाता ध्रुव इति सिद्धम् ॥ ॥ ३.१४९ ॥

किं च ।

अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ ३.१५०च्द्
जातिरूपवयोवृत्तविद्यादिभिर् अहंकृतः । ३.१५१अब्
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ ३.१५१च्द्

यद्य् आत्मा ध्रुवो न स्यात् तर्ह्य् अनुभूतार्थगोचरा स्मृतिः पूर्वानुभवभावितसंस्कारोद्बोधनिबन्धना कस्य भवेत्? न ह्य् अन्येन दृष्टे वस्तुन्य् अन्यस्य स्मृतिर् उपपद्यते । तथा कः स्वप्नज्ञानस्य कारकः? न हीन्द्रियाणाम् उपरतव्यापाराणां तत्कारकत्वम् । तथाहम् एवाभिजनत्वादिसंपन्न इत्य् एवंविधो ऽनुसंधानप्रत्ययः कस्य भवति स्थिरात्मव्यतिरिक्तस्य? तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थम् उद्योगं मनोवाक्कायैः कः कुर्यात्? तस्माद् अपि बुद्धीन्द्रियव्यतिरिक्त आत्मा स्थितः ॥ ३.१५० ॥ ३.१५१ ॥

उपासनाविशेषविध्यर्थं संसारस्य रूपं विवृण्वन्न् आह ।

स संदिग्धमतिः कर्मफलम् अस्ति न वेति वा । ३.१५२अब्
विप्लुतः सिद्धम् आत्मानम् असिद्धो ऽपि हि मन्यते ॥ ३.१५२च्द्

यो ऽसौ पूर्वोक्त आत्मा विप्लुतो ऽहंकारदूषितः स सकलकर्मसु फलम् अस्ति न वेति संदिग्धमतिर् भवति । तथासिद्धो ऽप्य् अकृतार्थो ऽपि सिद्धम् एव कृतार्थम् आत्मानं मन्यते ॥ ३.१५२ ॥

किं च ।

मम दाराः सुतामात्या अहम् एषाम् इति स्थितिः । ३.१५३अब्
हिताहितेषु भावेषु विपरीतमतिः सदा ॥ ३.१५३च्द्

तस्य विप्लुतमतेर् मम कलत्रपुत्रप्रेष्यादयो ऽहम् एषाम् इत्य् अतीव ममताकुलस्थितिर् भवति । तथा हिताहितकरे कार्यप्रकरे स विप्लुतमतिर् विपरीतमतिः सदा भवेत् ॥ ३.१५३ ॥

किं च ।

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् । ३.१५४अब्
अनाशकानलाघातजलप्रपतनोद्यमी ॥ ३.१५४च्द्
एवंवृत्तो ऽविनीतात्मा वितथाभिनिवेशवान् । ३.१५५अब्
कर्मणा द्वेषमोहाभ्याम् इच्छया चैव बध्यते ॥ ३.१५५च्द्

ज्ञेयं जानातीति ज्ञेयज्ञस् तस्मिन्न् आत्मनि प्रकृतौ चात्मनो गुणसाम्यावस्थायां विकारे चाहंकारादाव् अविशेषवान् विवेकानभिज्ञो भवति । तथानशनहुताशनाम्बुप्रवेशविषाशनादिषु विप्लववशात् कृतप्रयत्नो भवेत् । एवं नानाप्रकाराकार्यप्रवृत्तो ऽविनीतात्मासंयतात्मा असत्कार्याभिनिवेशयुक्तः सन् तत्कृतकर्मजातेन रागद्वेषाभ्यां मोहेन च बध्यते ॥ ३.१५४ ॥ ३.१५५ ॥

शरीरग्रहणद्वारेण कथं पुनस् तस्य विस्रम्भो भवतीत्य् अत आह ।

आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता । ३.१५६अब्
तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर् गिरः शुभाः ॥ ३.१५६च्द्
स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् । ३.१५७अब्
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ ३.१५७च्द्
विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम् । ३.१५८अब्
शरीरपरिसंख्यानं प्रवृत्तिष्व् अघदर्शनम् ॥ ३.१५८च्द्
नीरजस्तमसा सत्त्वशुद्धिर् निःस्पृहता शमः । ३.१५९अब्
एतैर् उपायैः संशुद्धः सत्त्वयोग्य् अमृतीभवेत् ॥ ३.१५९च्द्

विद्यार्थम् आचार्यसेवा, वेदान्तार्थेषु पातञ्जलादियोगशास्त्रार्थेषु च विवेकित्वम्, तत्प्रतिपादितध्यानकर्मणाम् अनुष्ठानम्, सत्पुरुषसण्गः प्रियहितवचनत्वम्, ललनालोकनालम्भयोः परित्यागः, सर्वभूतेष्व् आत्मवद् दर्शनं समत्वदर्शनम्, परिग्रहाणां च पुत्रक्षेत्रकलत्रादीनां त्यागः, जीर्णकाषायधारणम्, तथा शब्दस्पर्शादिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधः, तन्द्रा निद्रानुकारिणी, आलस्यम् अनुत्साहः तयोर् विशेषेण त्यागः, शरीरस्य परिसंख्यानम् अस्थिराशुचित्वादिदोषानुसंधानम्, तथा सकलगमनादिषु प्रवृत्तिषु सूक्ष्मप्राणिवधादिदोषपरामर्शः, तथा रजस्तमोविधुरता प्राणायामादिभिर् भावशुद्धिः, निःस्पृहता विषयेष्व् अनभिलाषः, शमो बाह्यान्तःकरणसंयमः, एतैर् आचार्योपासनादिभिर् उपायैः सम्यक् शुद्धः, केवलसत्त्वयुक्तो ब्रह्मोपासनेनामृती भवेत् मुक्तो भवति ॥ ३.१५६-१५९ ॥

कथम् अमृतत्वप्राप्तिर् इत्य् अत आह ।

तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात् । ३.१६०अब्
कर्मणां संनिकर्षाच् च सतां योगः प्रवर्तते ॥ ३.१६०च्द्

आत्माख्यतत्त्वस्मृतेर् आत्मनि निश्चलतयोपस्थानात् सत्त्वशुद्धियोगात् केवलसत्त्वगुणयोगात् कर्मबीजानां परिक्षयात् सत्पुरुषाणां च संबन्धाद् आत्मयोगः प्रवर्तते ॥ ३.१६० ॥

किं च ।

शरीरसंक्षये यस्य मनः सत्त्वस्थम् ईश्वरम् । ३.१६१अब्
अविप्लुतमतिः सम्यक् स जातिसंस्मरताम् इयात् ॥ ३.१६१च्द्

यस्य पुनर् योगिनो ऽविप्लुतमतेः शरीरसंक्षयसमये मनः सत्त्वयुक्तं सम्यग् एकाग्रतयेश्वरं प्रति व्याप्रियते स यद्य् उपासनाप्रयोगाप्रवीणतयात्मानं नाधिगच्छति तर्हि विशिष्टसंस्कारपाटववशेन जात्यन्तरानुभूतकृमिकीटादिनानागर्भवासादिसमुद्भूतदुःखस्मरत्वं प्राप्नुयात् । तत्स्मरणेन च जातोद्वेगतस् तद्विच्छेदकारिणि मोक्षे प्रवर्तते ॥ ३.१६१ ॥

यस् त्व् अपटुसंस्कारतया पूर्वं जातिं न स्मरति तस्य का गतिर् इत्य् अत्राह ।

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् । ३.१६२अब्
नानारूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ॥ ३.१६२च्द्

भरतो नटः स यथा रामरावणादिनानारूपाणि कुर्वाणः सितासितपीतादिभिर् वर्णैर् आत्मनस् तनुं वर्णयति रचयति तथैवात्मा तत्तत्कर्मफलोपभोगार्थं कुब्जवामनादिनानारूपाणि कर्मनिमित्तानि कलेवराण्य् आदत्ते ॥ ३.१६२ ॥

किं च ।

कालकर्मात्मबीजानां दोषैर् मातुस् तथैव च । ३.१६३अब्
गर्भस्य वैकृतं दृष्टम् अङ्गहीनादि जन्मनः ॥ ३.१६३च्द्

न केवलं कर्मैव कुब्जवामनत्वादिनिमित्तं किं तु कालकर्मणि स्वकारणपितृबीजदोषो मातृदोषश् चेति सर्वम् एतत् सहकारिकारणम् । एतेन दृष्टादृष्टस्वरूपेण कारणकलापेन गर्भस्याङ्गहीनत्वादिविकारो जन्मन आरभ्यानियतकालो दृष्टः ॥ ३.१६३ ॥

ननु प्राकृतिकप्रलयावसरे महदाद्यखिलविकारविनाशे कर्मणो नाशात् कथं तन्निबन्धनः प्रथमपिण्डपरिग्रहः, इत्य् आशङ्क्याह ।

अहंकारेण मनसा गत्या कर्मफलेन च । ३.१६४अब्
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ ३.१६४च्द्

मनोऽहंकारौ प्रसिद्धौ । गतिः संसरणहेतुभूतो दोषराशिः । कर्मफलं धर्माधर्मरूपम् । शरीरं लिङ्गात्मकं एतैर् अहंकारादिभिर् अयम् आत्मा कदाचिद् अपि न मुच्यते यावन् मोक्षः ॥ ३.१६४ ॥

ननु प्रतिनियतकर्मणां जीवानां प्रतिनियतकालम् एवोपरतिर् युक्ता न पुनः संग्रामादौ युगपद् अकाले प्राणसंक्षयः, इत्य् आशङ्क्याह ।

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः । ३.१६५अब्
विक्रियापि च दृष्टैवम् अकाले प्राणसंक्षयः ॥ ३.१६५च्द्

यथा हि खलु तैलक्लिन्नानेकवर्तिवर्तिनीनां नानाज्वालानां युगपत्संस्थितिः तासां च स्थितानां तदुत्तरं दोधूयमानपवनाहतिरूपविपत्तिहेतूपनिपातयौगपद्याद् युगपदुपरतिर् यथा भवति तथैव रथिसारथिवाजिकुञ्जरादिजीवानां युद्धाख्योपरतिहेतुयौगपद्याद् अकाले ऽपि प्राणपरिक्षयो नानुपपन्नः । एतद् उक्तं भवति । प्रतिनियतकालविपत्तिहेतुभूतादृष्टस्य तद्विरुद्धकार्यकरदृष्टहेतूपनिपातेन प्रतिबन्ध इति ॥ ३.१६५ ॥

मोक्षमार्गम् आह ।

अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि । ३.१६६अब्
सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥ ३.१६६च्द्
ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम् । ३.१६७अब्
ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम् ॥ ३.१६७च्द्

यो ऽसौ हृदि प्रदीपवत् स्थितो जीवस् तस्यानन्ता रश्मयो नाड्यः सुखदुःखहेतुभूताः द्वासप्ततिसहस्राणीत्यादिनोक्ताः सितासितकर्बुरादिरूपाः सर्वतः स्थितास् तेषाम् एको रश्मिर् ऊर्ध्वं व्यवस्थितः यो ऽसौ मार्तण्डमण्डलं निर्भिद्य हिरण्यगर्भनिलयं चातिक्रम्य वर्तते तेन जीवः परां गतिम् अपुनरावृत्तिलक्षणां प्राप्नोति ॥ ३.१६७ ॥

यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम् । ३.१६८अब्
तेन देवशरीराणि सधामानि प्रपद्यते ॥ ३.१६८च्द्

यद् अस्यात्मनो मुक्तिमार्गभूताद् रश्मेर् अन्यद् रश्मिशतम् ऊर्ध्वाकारम् एव व्यवस्थितं तेन सुरशरीराणि तैजसानि सुखैकभोगाधिकरणानि सधामानि कनकरजतरत्नरचितामरपुरसहितानि प्रपद्यते ॥ ३.१६८ ॥

संसरणमार्गम् आह ।

ये ऽनेकरूपाश् चाधस्ताद् रश्मयो ऽस्य मृदुप्रभाः । ३.१६९अब्
इह कर्मोपभोगाय तैः संसरति सो ऽवशः ॥ ३.१६९च्द्

ये पुनस् तस्याधस्ताद् रश्मयो मृदुप्रभास् तैर् इह फलोपभोगार्थं संसारे संसरत्य् अवशः स्वकृतकर्मपरतन्त्रः ॥ ३.१६९ ॥

भूतचैतन्यवादिपक्षं परिजिहीर्षुर् आह ।

वेदैः शास्त्रैः सविज्ञानैर् जन्मना मरणेन च । ३.१७०अब्
आर्त्या गत्या तथागत्या सत्येन ह्य् अनृतेन च ॥ ३.१७०च्द्
श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः । ३.१७१अब्
निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ ३.१७१च्द्
तारानक्षत्रसंचारैर् जागरैः स्वप्नजैर् अपि । ३.१७२अब्
आकाशपवनज्योतिर्जलभूतिमिरैस् तथा ॥ ३.१७२च्द्
मन्वन्तरैर् युगप्राप्त्या मन्त्रौषधिफलैर् अपि । ३.१७३अब्
वित्तात्मानं वेद्यमानं कारणं जगतस् तथा ॥ ३.१७३च्द्

वेदैः “स एष नेति नेत्य् आत्मा” (बृउ ४.४।२२) इति, “अस्थूलम् अनण्व् अह्रस्वम्” (बृउ ३.८।८), “अपाणिपादम्” (मुण्डु १.१।६) इत्यादिभिः, शास्त्रैश् च मीमांसान्वीक्षिक्यादिभिः, विज्ञानैश् च “ममेदं शरीरम्” इत्यादिदेहव्यतिरिक्तात्मानुभवैः, तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्यां देहातिरिक्तात्मानुमानम्, आर्त्या जन्मान्तरगतकर्मानुष्ठातृनियतया, तथा गमनागमनाभ्यां ज्ञानेच्छाप्रयत्नाधारनियताभ्याम् अपि भौतिकदेहातिरिक्तात्मानुमानम् । न हि देहस्य चैतन्यादि संभवति । यतः कारणगुणप्रोक्तक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भो दृष्टः । न च तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादिसमवायः संभवति, तदारब्धस्तम्भकुम्भादिभौतिकेष्व् अनुपलम्भात् । न च मदशक्तिवद् उदकादिद्रव्यान्तरसंयोगज इति वाच्यम्, शक्तेः साधारणगुणत्वात् । अतो भौतिकदेहातिरिक्तश् चैतन्यादिसमवाय्य् अङ्गीकर्तव्यः । सत्यानृते प्रसिद्धे । श्रेयो हितप्राप्तिः । सुखदुःखे आमुष्मिके । तथा शुभकर्मानुष्ठानम् अशुभकर्मपरित्यागः । एतैश् च ज्ञाननियतैर् देहातिरिक्तात्मानुमानम् । निमित्तं भूकम्पादि । शाकुनज्ञानं पिङ्गलादिपतत्त्रिचेष्टालिङ्गकं ज्ञानम् । ग्रहाः सूर्यादयः तत्संयोगजैः फलैःतारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्य् अश्वयुक्प्रभृतीनि, एतेषां संचारैः शुभाशुभफलद्योतनैः, जागरैर् जागरावस्थाजन्यैश् च सच्छिद्रादित्यादिदर्शनैः, तथा स्वप्नजैः खरवराहयुक्तरथारोहणादिज्ञानैः, तथा आकाशाद्यैश् च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राप्त्या युगान्तरप्राप्त्या देहे ऽनुपपद्यमानतया तथा मन्त्रौषधिबलैः प्रेक्षापूर्वकैः क्षुद्रकर्माद्यैः साक्षात् परम्परया वा देहे ऽनुपपद्यमानैर् वेद्यमानं हे मुनयः वित्त जानीत ॥ ३.१७०-१७३ ॥

किं च ।

अहंकारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः । ३.१७४अब्
इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ ३.१७४च्द्
स्वर्गः स्वप्नश् च भावानां प्रेरणं मनसो गतिः । ३.१७५अब्
निमेषश् चेतना यत्न आदानं पाञ्चभौतिकम् ॥ ३.१७५च्द्
यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः । ३.१७६अब्
तस्माद् अस्ति परो देहाद् आत्मा सर्वग ईश्वरः ॥ ३.१७६च्द्

अहंकृतिर् अहंकारः, स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्बोधनिबन्धना स्तन्यपानादिगोचरा, सुखम् ऐहिकम्, द्ःर्तिर् धैर्यम्, इन्द्रियान्तरेण हि दृष्टे ऽर्थे इन्द्रियान्तरस्य संचारो “यम् अहम् अद्राक्षं तम् अहं स्पृशामि” इत्येवमनुसन्धानरूप इन्द्रियान्तरसंचारः । अत्र इच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम् । पूर्वश्लोके तु गमनसत्यवचनादिहेतुतया आर्थिकं लिङ्गत्वम् इत्य् अपौनरुक्त्यम् । तथा धारणं शरीरस्य, जीवितं प्राणधारणम्, स्वर्गो नियतदेहान्तरोपभोग्यः सुखविशेषः, स्वप्नः प्रसिद्धः । पूर्वश्लोके तु स्वप्नस्य शुभफलद्योतनाय लिङ्गत्वं अत्र स्वरूपेणेत्य् अपौनरुक्त्यम् । तथा भावानाम् इन्द्रियादीनां प्रेरणम्, मनसो गतिश् चेतनाधिष्ठानव्याप्ता, निमेषः प्रसिद्धः, तथा पञ्चभूतानाम् उपादानम् । यस्माद् एतानि लिङ्गानि भूतेष्व् अनुपपन्नानि साक्षात् परम्परया वा परमात्मनो द्योतकानि दृश्यन्ते तस्माद् अस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् ॥ ३.१७४-१७६ ॥

क्षेत्रज्ञस्वरूपम् आह ।

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । ३.१७७अब्
अहंकारश् च बुद्धिश् च पृथिव्यादीनि चैव हि ॥ ३.१७७च्द्
अव्यक्तम् आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते । ३.१७८अब्
ईश्वरः सर्वभूतस्थः सन्न् असन् सद् असच् च यः ॥ ३.१७८च्द्

बुद्धीन्द्रियाणि श्रोत्रादीनि सार्थानि शब्दादिविषयसहितानि मनः कर्मेन्द्रियाणि वागादीनि तथ्आहंकारो बुद्धिश् च निश्चयात्मिका पृथिव्यादीनि पञ्चभूतान्य् अव्यक्तं प्रकृतिर् इत्य् एतत् क्षेत्रम् अस्य यो ऽसाव् ईश्वरः सर्वगतः, अत एव सद्रूपः, प्रमाणान्तराग्राह्यत्वात् । असन् अस्पष्टप्रतीतिकत्वात् । सदसद्रूपो ऽसाव् आत्मा क्षेत्रज्ञ इति निगद्यते ॥ ३.१७७ ॥ ३.१७८ ॥

बुद्ध्यादेर् उत्पत्तिम् आह ।

बुद्धेर् उत्पत्तिर् अव्यक्तात् ततो ऽहंकारसंभवः । ३.१७९अब्
तन्मात्रादीन्य् अहंकाराद् एकोत्तरगुणानि च ॥ ३.१७९च्द्

सत्त्वादिगुणसाम्यम् अव्यक्तम् । ततस् त्रिप्रकारायाः सत्त्वरजस्तमोमय्या बुद्धेर् उत्पत्तिः तस्याश् च वैकारिकस् तैजसो भूतादिर् इति त्रिविधो ऽहंकार उत्पद्यते । तत्र तामसाद् भूतादिसंज्ञकाद् अहंकारात् तन्मात्राण्य् आदिग्रहणाद् गगनादीनि तानि चैकोत्तरगुणान्य् उत्पद्यन्ते । चशब्दाद् वैकारिकतैजसाभ्यां बुद्धिकर्मेन्द्रियाणाम् उत्पत्तिः ॥ ३.१७९ ॥

गुणस्वरूपम् आह ।

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः । ३.१८०अब्
यो यस्मान् निःसृतश् चैषां स तस्मिन्न् एव लीयते ॥ ३.१८०च्द्

तेषां गगनादिपञ्चभूतानाम् एकोत्तरवृद्ध्या पञ्च शब्दादयो गुणा वेदितव्याः । एषां च बुद्ध्यादिविकाराणां मध्ये यो यस्मात् प्रकृत्यादेर् उत्पन्नः स तस्मिन्न् एव सूक्ष्मरूपेण प्रलयसमये प्रलीयते ॥ ३.१८० ॥

प्रकरणार्थम् उपसंहरन्न् आह ।

यथात्मानं सृजत्य् आत्मा तथा वः कथितो मया । ३.१८१अब्
विपाकात् त्रिप्रकाराणां कर्मणाम् ईश्वरो ऽपि सन् ॥ ३.१८१च्द्
सत्त्वं रजस् तमश् चैव गुणास् तस्यैव कीर्तिताः । ३.१८२अब्
रजस्तमोभ्याम् आविष्टश् चक्रवद् भ्राम्यते ह्य् असौ ॥ ३.१८२च्द्
अनादिर् आदिमांश् चैव स एव पुरुषः परः । ३.१८३अब्
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ ३.१८३च्द्

मानसादित्रिप्रकारकर्मणां विपाकाद् ईश्वरो ऽपि सन्न् आत्मा यथात्मानं सृजति तथा युष्माकं कथितः । सत्त्वाद्याश् च गुणास् तस्यैवाविद्याविशिष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्याम् आविष्टश् चक्रवद् इह संसारे भ्राम्यतीत्य् अपि कथितम् । स एवानादिः परमपुरुषः शरीरग्रहणेनादिमान् कुब्जवामनादिविकारसहितस् तथा स्थूलाकारतया परिणतो लिङ्गैर् इन्द्रियैश् च ग्राह्यस्वरूप उदाहृतः ॥ ३.१८१-१८३ ॥

स्वर्गमार्गम् आह ।

पितृयानो ऽजवीथ्याश् च यद् अगस्त्यस्य चान्तरम् । ३.१८४अब्
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ ३.१८४च्द्

अजवीथ्य् अमरमार्गः तस्यागस्त्यस्य च यद् अन्तरम् असौ पितृयानस् तेनाग्निहोत्रिणः स्वर्गकामाः दिवं यान्ति स्वर्गं प्राप्नुवान्ति ॥ ३.१८४ ॥

किं च ।

ये च दानपराः सम्यग् अष्टाभिश् च गुणैर् युताः । ३.१८५अब्
ते ऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ ३.१८५च्द्

ये च दानादिस्मार्तकर्मपराः सम्यग् दम्भरहिताः तथाष्टाभिर् आत्मगुणैर् “दया क्षान्तिर् अनसूया शौचम् अनायासो मङ्गलम् अकार्पण्यम् अस्पृहा” (ग्ध् ८.२३) इति गौतमादिप्रतिपादितैर् युक्ताः । तथा ये च सत्यवदननिरतास् ते ऽपि तेनैव पितृयानेनैव सुरसदनम् आप्नुवन्ति ॥ ३.१८५ ॥

ननु नैमित्तिकादिप्रतिसंचरे ऽखिलाध्यापकप्रलयाद् अविदितवेदास् तस्योपरितना जनाः कथम् अग्निहोत्रादिकं कर्म करिष्यन्ति कथंतरां चाकृतकर्माणः स्वर्गमार्गम् अधिरोक्ष्यन्ति, इत्य् अत आह ।

तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः । ३.१८६अब्
पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ ३.१८६च्द्

तत्र पितृयाने ऽष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे बीजभूताः सन्तो ऽग्निहोत्रादिधर्मप्रवर्तकाः, अतो न प्रागुदितदोषसमासङ्गः ॥ ३.१८६ ॥

किं च ।

सप्तर्षिनागवीथ्यन्तर् देवलोकं समाश्रिताः । ३.१८७अब्
तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ ३.१८७च्द्
तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । ३.१८८अब्
तत्र गत्वावतिष्ठन्ते यावद् आभूतसंप्लवम् ॥ ३.१८८च्द्

सप्तर्षयः प्रसिद्धाः, नागवीथ्य् ऐरावतपन्थाः, तदन्तराले तावन्त एव अष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठाः तपोब्रह्मचर्ययुक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिता आभूतसंप्लवं प्राकृतप्रलयपर्यन्तम् अवतिष्ठन्ते । तत्र च स्थिताः सृष्ट्यादाव् आध्यात्मिकधर्माणां प्रवर्तकाः ॥ ३.१८७ ॥ ३.१८८ ॥

कथंभूतास् ते मुनयः, इत्य् अत आह ।

यतो वेदाः पुराणानि विद्योपनिषदस् तथा । ३.१८९अब्
श्लोकाः सूत्राणि भाष्याणि यच् च किंचन वाङ्मयम् ॥ ३.१८९च्द्

यतो द्विविधाद् अपि मुनिसमूहाच् चत्वारो वेदाः पुराणाङ्गविद्योपनिषदश् च नित्यभूता एवाध्येतृपरम्परायाताः प्रवृत्तास् तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि च सूत्रव्याख्यारूपाणि यद् अन्यद् आयुर्विद्यादिकं वाङ्मयं तद् अपि यत्सकाशात् प्रवृत्तं तथाविधास् ते मुनयो धर्मप्रवर्तकाः । एवं सति वेदस्यापि नानित्यतादोषप्रसङ्गः ॥ ३.१८९ ॥

ततः किम्, इत्य् अत आह ।

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः । ३.१९०अब्
श्रद्धोपवासः स्वातन्त्र्यम् आत्मनो ज्ञानहेतवः ॥ ३.१९०च्द्

वेदस्य नित्यत्वे सति तत्प्रामाण्यबलाद् वेदानुवचनादयः सत्त्वशुद्ध्यापादनद्वारेणात्मज्ञानस्य हेतव इत्य् उपपन्नं भवति ॥ ३.१९० ॥

किं च ।

स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु । ३.१९१अब्
द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥ ३.१९१च्द्
य एनम् एवं विन्दन्ति ये चारण्यकम् आश्रिताः । ३.१९२अब्
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ ३.१९२च्द्

यस्मान् नित्यतयात्मप्रमाणभूतो वेदस् तस्माद् असाव् उक्तमार्गेण सकलाश्रमिभिर् नानाप्रकारं जिज्ञासितव्यः । तम् एव प्रकारं दर्शयति द्विजातिभिर् द्रष्टव्यो ऽपरोक्षीकर्तव्यः । तत्रोपायं दर्शयति, “श्रोतव्यो मन्तव्यः” इति । प्रथमतो वेदान्तश्रवणेन निर्णेतव्यः । तदनन्तरं मन्तव्यः युक्तिभिर् विचारयितव्यः । ततो ऽसौ ध्यानेनापरोक्षीभवति । ये द्विजातयो ऽतिशयश्रद्धायुक्ताः सन्तो निर्जनप्रदेशम् आश्रिताः सन्त एवम् उक्तेन मार्गेण एनम् आत्मानं सत्यं पर्मार्थभूतम् उपासते ते आत्मानं विदन्ति लभन्ते प्राप्नुवन्ति ॥ ३.१९१ ॥ ३.१९२ ॥

प्राप्तिमार्गं देवयानम् आह ।

क्रमात् ते सम्भवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम् । ३.१९३अब्
अयनं देवलोकं च सवितारं सवैद्युतम् ॥ ३.१९३च्द्
ततस् तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् । ३.१९४अब्
करोति पुनर् आवृत्तिस् तेषाम् इह न विद्यते ॥ ३.१९४च्द्

ते विदितामानः क्रमाद् अग्न्याद्यभिमानिदेवतास्थानेषु मुक्तिमार्गभूतेषु विश्राम्य तैः प्रस्थापिताः परमपदं प्राप्नुवन्ति । अर्चिर् वह्निः, अहर् दिनं, शुक्लपक्षः, तथोत्तरायणं, सुरसद्म, सविता सूर्यः, वैद्युतं च तेजः तान् एवं क्रमाद् अर्चिरादिस्थानगतान् मानसः पुरुषो ब्रह्मलोकभाजः करोति । तेषाम् इह संसारे पुनर् आवृत्तिर् न विद्यते किं तु प्राकृतप्रतिसंचरावसरे त्यक्तलिङ्गशरीराः परमात्मन्य् एकीभवन्ति ॥ ३.१९३ ॥ ३.१९४ ॥

पूर्वोक्तपितृयानम् आह ।

यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः । ३.१९५अब्
धूमं निशां कृष्णपक्षं दक्षिणायनम् एव च ॥ ३.१९५च्द्
पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् । ३.१९६अब्
क्रमात् ते सम्भवन्तीह पुनर् एव व्रजन्ति च ॥ ३.१९६च्द्
एतद् यो न विजानाति मार्गद्वितयम् आत्मवान् । ३.१९७अब्
दन्दशूकः पतङ्गो वा भवेत् कीटो ऽथ वा कृमिः ॥ ३.१९७च्द्

ये पुनर् विहितैर् मार्गैर् यज्ञदानतपोभिः स्वर्गफलभोक्तारस् ते क्रमाद् धूमादिचन्द्रपर्यन्तपदार्थाभिमानिनीर् देवताः प्राप्य पुनर् एव वायुवृष्टिजलभूमीः प्राप्य व्रीह्याद्यन्नरूपेण शुक्रत्वम् अवाप्य संसारिणो योनिं व्रजन्ति । एतन् मार्गद्वयं प्रमत्तो यो न विजानाति मार्गद्वयोपायभूतधर्मानुष्ठानं न करोत्य् असौ दन्दशूको भुजङ्गः, पतङ्गः शलभः, कृमिः कीटो वा भवेत् ॥ ३.१९५-१९७ ॥

उपासनाप्रकारम् आह ।

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् । ३.१९८अब्
उत्तानं किंचिद् उन्नाम्य मुखं विष्टभ्य चोरसा ॥ ३.१९८च्द्
निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशन् । ३.१९९अब्
तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः ॥ ३.१९९च्द्
संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः । ३.२००अब्
द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत् ॥ ३.२००च्द्
ततो ध्येयः स्थितो यो ऽसौ हृदये दीपवत् प्रभुः । ३.२०१अब्
धारयेत् तत्र चात्मानं धारणां धारयन् बुधः ॥ ३.२०१च्द्

ऊरुस्थाव् उत्तानौ चरणौ यस्य स तथोक्तः बद्धपद्मासनः । तथोत्ताने सव्यकरे दक्षिणम् उत्तानं न्यस्य मुखं किंचिद् उन्नाम्योरसा च विष्टभ्य स्तम्भयित्वा तथा निमीलिताक्षः सत्त्वस्थः कामक्रोधादिरहितो दन्तैर् दन्तान् असंस्पृशन् तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः । तथा संवृतास्यः पिहिताननः सुनिश्चलो निष्प्रकम्पः तथा सम्यग् इन्द्रियसमूहं विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्युच्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासम् उपक्रमेत् । ततो वशीकृतपवनेन योगिना यो ऽसौ हृदये दीपवद् अप्रकम्पः प्रभुः स्थितो ऽसौ ध्यातव्यः । तत्र च हृद्य् आत्मानं मनोगोचरतया धारयेत् । धारणाम् अवधारयन् । धारणास्वरूपं च । जान्वग्रभ्रमणेन च्छोटिकादानकालो मात्रा । ताभिः पञ्चदशमात्राभिर् अधमः प्राणायामः । त्रिंशद्भिर् मध्यमः । पञ्चचत्वारिंशद्भिर् उत्तमः । एवं प्राणायामत्रयात्मिकैका धारणा । तास् तिस्रो योगशब्दवाच्यास् ताश् च धारयेत् । यथोक्तम् अन्यत्र-

संभ्रम्य च्छोटिकां दद्यात् कराग्रं जानुमण्डले ।
मात्राभिः पञ्चदशभिः प्राणायामो ऽधमः स्मृतः ॥
मध्यमो द्विगुणः श्रेष्ठस् त्रिगुणो धारणा तथा ।
त्रिभिस् त्रिभिः स्मृतैकैका ताभिर् योगस् तथैव च ॥ इति ॥ ३.१९८ -२०१ ॥

धारणात्मकयोगाभ्यासे प्रयोजनम् आह ।

अन्तर्धानं स्मृतिः कान्तिर् दृष्टिः श्रोत्रज्ञता तथा । ३.२०२अब्
निजं शरीरम् उत्सृज्य परकायप्रवेशनम् ॥ ३.२०२च्द्
अर्थानां छन्दतः सृष्टिर् योगसिद्धेर् हि लक्षणम् । ३.२०३अब्
सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते ॥ ३.२०३च्द्

अणिमप्राप्त्या परैर् अदृश्यत्वम् अन्तर्धानम् । स्मृतिर् अतीन्द्रियेष्व् अर्थेषु मन्वादेर् इव स्मरणम् । कान्तिः कमनीयता । दृष्टिर् अतीतानागतेष्व् अप्य् अर्थेषु । तथा श्रोत्रज्ञता अतिदवीयसि देशे ऽभिव्यज्यमानतया श्रोत्रपथम् अनासेदुषाम् अपि शब्दानां ज्ञातृता । निजशरीरत्यागेन परशरीरप्रवेशनम् । स्ववाञ्छावशेनार्थानां कारणनिरपेक्षतया सृष्टिर् इत्य् एतद् योगस्य सिद्धेर् लक्षणं लिङ्गम् । न चैतावद् एव प्रयोजनं किं तु “सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते” ब्रह्मत्वप्राप्तये च प्रभवति ॥ ३.२०२ ॥ ३.२०३ ॥

यज्ञदानाद्यसंभवे सत्त्वशुद्धाव् उपायान्तरम् आह ।

अथ वाप्य् अभ्यसन् वेदं न्यस्तकर्मा वने वसन् । ३.२०४अब्
अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात् ॥ ३.२०४च्द्

अथ वा त्यक्तकाम्यनिषिद्धकर्मा अन्यतमं वेदम् अभ्यसन् एकान्तशीलो ऽयाचितमिताशनापादितसत्त्वशुद्धिर् आत्मोपासनेन परां मुक्तिलक्षणां सिद्धिं प्राप्नोति ॥ ३.२०४ ॥

किं च ।

न्यायागतधनस् तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः । ३.२०५अब्
श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि हि मुच्यते ॥ ३.२०५च्द्

सत्प्रतिग्रहादिन्यायेनोपार्जितधनो ऽतिथिपूजातत्परः नित्यनैमित्तिकश्राद्धानुष्ठाननिरतः सत्यवदनशीलः सन्न् आत्मतत्त्वध्याननिरतो गृहस्थो ऽपि हि यस्मान् मुक्तिम् अवाप्नोति तस्मान् न केवलम् ऐहिकपारिव्राज्यपरिग्रह एव मुक्तिसाधनम् ॥ ३.२०५ ॥

इत्य् अध्यात्मप्रकरणम्