३ वानप्रस्थ-धर्म-प्रकरणम्

अथ वानप्रस्थधर्मप्रकरणम्

चतुर्णाम् आश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर् धर्माः प्रतिपादिताः । साम्प्रतम् अवसरप्राप्तान् वानप्रस्थधर्मान् प्रतिपिपादयितुम् आह ।

सुतविन्यस्तपत्नीकस् तया वानुगतो वनम् । ३.४५अब्
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ३.४५च्द्

वने प्रकर्षेण नियमेन तिष्ठति चरतीति वनप्रस्थः । वनप्रस्थ एव वानप्रस्थः संज्ञायां दैर्ध्यम् । भाविनीं वृत्तिम् आश्रित्य वनं प्रतिष्ठासुर् इति यावत् । असौ सुतविन्यस्तपत्नीकः त्वयेयं भरणीया इत्य् एव सुते विन्यस्ता निःक्षिप्ता पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयम् अपि वनं जिगमिषति, तदा तयानुगतो वा सहितः । तथा ब्रह्मचारी उर्ध्वरेताः साग्निर् वैतानाग्निसहितः तथा सोपासनो गृह्याग्निसहितश् च वनं व्रजेत् । “सुतविन्यस्तपत्नीकः” इति वदता कृतगार्हस्थ्यो वानप्रस्थे ऽधिक्रियत इति दर्शितम् । एतच् चाश्रमसमुच्चयपक्षम् अङ्गीकृत्योक्तम् । इतरथा “अविप्लुतब्रह्मचर्यो यम् इच्छेत् तम् आवसेद्” (वध् ७.३) इत्य् अकृतगार्हस्थ्यो ऽपि वनवासे ऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरकलेवरस्य जातपौत्रस्य वा । यथाह मनुः ।

गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः ।
अपत्यस्यैव वापत्यं तदारण्यं समाश्रयेत् ॥ इति । (म्ध् ६.२)

अयं च पुत्रेषु पत्नीनिःक्षेपो विद्यमानभार्यस्य मृतभार्यस्याप्य् आपस्तम्बादिभिः वनवासस्मरणात् (आप्ध् २.२२.६–२४)। अतो यत् “दाहयित्वाग्निहोत्रेण” (य्ध् १.८९) इति पुनराधानविधानं, तद् अपरिपक्वकषायविषयम् । “साग्निः सोपासनः” (य्ध् ३.४५) इत्य् अत्रापि यदार्धाधानं कृतं तदा श्रौताग्निभिर् गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु श्रौतैर् एव केवलम् । यदि कथंचिज् ज्येष्ठभ्रातुर् अनाहिताग्नित्वादिना श्रौताग्नयो ऽनाहितास् तर्हि केवलं सोपासनो व्रजेद् इत्य् एवं विवेचनीयम् । अग्निनयनं च तन्निवर्त्याग्निहोत्रादिकर्मसिद्ध्यर्थम् । अत एव मनुः ।

वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि ।
दार्शम् अस्कन्दयन् पर्व पौर्णमासं च शक्तितः ॥ इति ॥ (म्ध् ६.९)

ननु च पुत्रनिक्षिप्तपत्नीकस्य तद्विरहिणः कथम् अग्निहोत्रादिकर्मानुष्ठानं घटते, “पत्न्या सह यष्टव्यम्” इति सहाधिकारनियमात् । सत्यम् एवम् । किं त्व् अत्र पत्नीनिक्षेपविधिबलाद् एव तन्नैरपेक्ष्येणाधिकारः कल्प्यते । यथा हि रजस्वलायां “यस्य व्रत्ये ऽहनि पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेत” इत्य् अवरोधविधिबलात् तन्निरपेक्षता । यद् वा वनं प्रतिष्ठमानम् एव पतिं पत्न्य् अनुमन्यत इति न विरोधः । न च यथा ब्रह्मचारिणो विधुरस्य वा वनं प्रस्थितस्याग्निहोत्रादिपरिलोपस् तथा निक्षिप्तपत्नीकस्याप्य् अग्निहोत्राद्यभाव इति शङ्कनीयम्, अपाक्षिकत्वेन श्रवणात् । न च ब्रह्मचारिविधुरयोर् अप्य् अग्निसाध्यकर्मस्व् अनधिकारः, पञ्चममासाद् ऊर्ध्वम् आहितश्रावणिकाग्नेस् तदधिकारदर्शनात्, “वानप्रस्थो जटिलश् चीराजिनवासा न फालकृष्टम् अधित्ष्ठेत्, अक्षृटं मूलफलं संचिन्वीत ऊर्ध्वरेताः क्षमाशयो दद्याद् एव न प्रतिगृह्णीयाद् ऊर्ध्वं पञ्चभ्यो मासेभ्यः श्रावणिकेनाग्नीन् आधायाहिताग्निर् वृक्षमूलको दद्याद् देवपितृमनुष्येभ्यः स गच्छेत् स्वर्गम् आनन्त्यम्” (वध् ९.११२) इति वसिष्ठस्मरणात् । चीरं वस्त्रखण्डो वल्कलं वा । फालकृष्टम् अधितिष्ठेत् कृष्टक्षेत्रस्योपरि न निवसेत् । श्रावणिकेन वैदिकेन मार्गेण न लौकिकेनेत्यर्थः ॥ ३.४५ ॥

“साग्निः सोपासनो व्रजेत्” (य्ध् ३.४५) इत्य् एतद् अग्निसाध्यश्रौतस्मार्तकर्मानुष्ठानार्थम् इत्य् उक्तम् । तत्र गुणविधिम् आह ।

अफालकृष्टेनाग्नींश् च पितॄन् देवातिथीन् अपि । ३.४६अब्
भृत्यांश् च तर्पयेत् श्मश्रुजटालोमभृद् आत्मवान् ॥ ३.४६च्द्

फालग्रहणं कर्षणसाधनोपलक्षणम् । अकृष्टक्षेत्रोद्भवेन नीवारवेणुश्यामाकादिना अग्नींस् तर्पयेद् अग्निसाध्यानि कर्माण्य् अनुतिष्ठेत् । चशब्दाद् भिक्षादानम् अपि तेनैव कुर्यात् । तथा पितॄन् देवातिथीन् अपिशब्दाद् भूतान्य् अपि तेनैव तर्पयेत् । तथा भृत्यान्, चशब्दाद् आश्रमप्राप्तान् अपि । तथा च मनुः ।

यद्भक्षः स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।
अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतान् ॥ इति ॥ (म्ध् ६.७)

एवं पञ्चमहायज्ञान् कृत्वा स्वयम् अपि तच्छेषम् एव भुञ्जीत,

देवताभ्यश् च तद् धुत्वा वन्यं मेध्यतरं हविः ।
शेषम् आत्मनि युञ्जीत लवणं च स्वयंकृतम् ॥ (म्ध् ६.१२)

इति मनुस्मरणात् । स्वयंकृतम् ऊषरलवणम् । एवं भोजनार्थे योगाद्यर्थे च मुन्यन्ननियमाद् ग्राम्याहारपरित्यागो ऽर्थसिद्धः । अत एव मनुः ।

संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् । इति । (म्ध् ६.३)

ननु च दर्शपूर्णमासादेर् व्रीह्यादिग्राम्यद्रव्यसाद्यत्वात् कथं तत्परित्यागः । न च वचनीयम् “अफालकृष्टेनाग्नींश् च” (वध् ९.३) इति विशेषवचनसामर्थ्याद् व्रीह्यादिबाध इति, विशेषविषयिण्यापि स्मृत्या श्रुतिबाधस्यान्याय्यत्वात्, अफालकृष्टविधेश् च स्मार्ताग्निसाध्यकर्मविषयत्वेनाप्य् उपपत्तेः । सत्यम् एव । किं त्व् अत्र व्रीह्यादेर् अप्य् अफालकृष्टत्वसम्भवान् न विरोधः । अत एवोक्तं मनुना ।

वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः ।
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथग् ॥ इति ॥ (म्ध् ६.११)

नीवारदीनाम् उत्पन्नानां स्वतो मेध्यत्वे सिद्धे ऽपि पुनर् मेध्यग्रहणं यज्ञार्हव्रीह्यादिप्राप्त्यर्थं कृतं, मेधो यज्ञस् तदर्हं मेध्यम् इति । तथा श्मश्रूणि मुखजानि रोमाणि जटारूपांश् च शिरोरुहान् कक्षादीनि च रोमाणि बिभृयात् । रोमग्रहणं नखानाम् अप्य् उपलक्षणम् । तथा च मनुः ।

जटाश् च ब्व्भृयान् नित्यं श्मश्रुलोमनखांस् तथा । इति । (म्ध् ६.६)

तथात्मवान् आत्मोपासनाभिरतः स्यात् ॥ ३.४६ ॥

पूर्वोक्तद्रव्यसंचयनियमम् आह ।

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । ३.४७अब्
अर्थस्य संचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥ ३.४७च्द्

एकस्याह्नः संबन्धि भोजनयजनादिदृष्टाद्षृटकर्मणः पर्याप्तस्यार्थस्य संचयं कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्तं संचयं कुर्यात्, नाधिकम् । यद्य् एवं क्रियमाणम् अपि कथंचिद् अतिरिच्यते तर्हि तदतिरिक्तम् आश्वयुजे मासि त्वजेत् ॥ ३.४७ ॥

किं च ।

दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् । ३.४८अब्
स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥ ३.४८च्द्

दान्तो दर्परहितः । त्रिषु सवनेषु प्रातर्मध्यंदिनापराह्णेषु स्नानशीलः । तथा प्रतिग्रहे पराङ्मुखः । चशब्दाद् याजनादिनिवृत्तश् च । स्वाध्यायवान् वेदाभ्यासरतः । तथा फलमूलभिक्षादिदानशीलः सर्वप्राणिहिताचरणनिरतश् च भवेत् ॥ ३.४८ ॥

किं च ।

दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः । ३.४९अब्
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात् तथा क्रियाः ॥ ३.४९च्द्

दन्ता एवोलूखलं निस्तूषीकरणसाधनं दन्तोलूखलं तद् यस्यास्ति स दन्तोलूखलिकः । कालेनैव पक्वं कालपक्वं नीवारवेणुश्यामाकादि बदरेङ्गुदादिफलं च तदशनशीलः कालपक्वाशी । वाशब्दः,

अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा । (म्ध् ६.१७)

इति मनूक्ताग्निपक्वाशित्वाभिप्रायः । अश्मकुट्टको वा भवेत् । अश्मना कुट्टनम् अवहननं यस्य स तथोक्तः । तथा श्रौत्रं स्मार्तं च कर्म दृष्टार्थाश् च भोजनाभ्यञ्जनादिक्रियाः लकुचमधूकादिमेध्यतरुफलोद्भवैः स्नेहद्रव्यैः कुर्यान् न तु घृतादिकैः । तथा च मनुः ।

मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसम्भवान् । इति ॥ (म्ध् ६.१३) ३.४९ ॥

पुरुषार्थतया विहितद्विर्भोजननिवृत्त्यर्थम् आह ।

चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा । ३.५०अब्
पक्षे गते वाप्य् अश्नीयान् मासे वाहनि वा गते ॥ ३.५०च्द्

चान्द्रायणैर् वक्ष्यमाण्लक्षणैः कालं नयेत् । कृच्छ्रैर् वा प्राजापत्यादिभिः कालं वर्तयेत् । यद् वा पक्षे पञ्चदशदिनात्मके ऽतीते ऽश्नीयात् । मासे वाहनि गते वा नक्तम् अश्नीयात् । अपिशब्दाच् चतुर्थकालिकत्वादिनापि । यथाह मनुः ।

नक्तं वान्नं समश्नीयाद् दिवा वाहृत्य शक्तितः ।
चतुर्थकालिको वा स्याद् यद् वाप्य् अष्टमकालिकः ॥ इति । (म्ध् ६.१९)

एतेषाम् च कालनियमानां स्वशक्त्यपेक्षया विकल्पः ॥ ३.५० ॥

किं च ।

स्वप्याद् भूमौ शुची रात्रौ दिवा संप्रपदैर् नयेत् । ३.५१अब्
स्थानासनविहारैर् वा योगाभ्यासेन वा तथा ॥ ३.५१च्द्

आहारविहारावसरवर्ज्यं रात्रौ शुचिः प्रयतः स्वप्यात् नोपविशेन् नापि तिष्ठेत् । दिवास्वप्नस्य पुरुषमात्रार्थतया प्रतिषिद्धत्वान् न तन्निवृत्तिपरम् । तथा भूमाव् एव स्वप्यात् । तच् च भूमाव् एव न शय्यान्तरितायां मञ्चकादौ वा । दिनं तु संप्रपदैर् अटनैर् नयेत् । स्थानासनरूपैर् वा विहारैः संचारैः कंचित् कालं स्थानं कंचिच् चोपवेशनम् इत्य् एवं वा दिनं नयेत् । योगाभ्यासेन वा । तथा च मनुः ।

विविधाश् चौपनिषदीर् आत्मसंसिद्धये श्रुतीः । इति । (म्ध् ६.२९)

आत्मनः संसिद्धये ब्रह्मत्वप्राप्तये । तथाशब्दात् क्षितिपरिलोडनाद् वा नयेत्,

भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् । (म्ध् ६.२२)

इति मनुस्मरणात् । प्रपदैः पादाग्रैः ॥ ३.५१ ॥

किं च ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः । ३.५२अब्
आर्द्रवासास् तु हेमन्ते शक्त्या वापि तपश् चरेत् ॥ ३.५२च्द्

“त्र्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः” इति दर्शनात्, ग्रीष्मे चैत्रादिमासचतुष्टये चतसृषु दिक्षु चत्वारो ऽग्नय उपरिष्टाद् आदित्य इत्य् एवं पञ्चानाम् अग्नीनां मध्ये तिष्ठेत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधाराविनिवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशिर्षादिमासचतुष्टये क्लिन्नं वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश् चरेत् । यथा शरीरशोषस् तथा यतेत,

तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः । (म्ध् ६.२८)

इति मनुस्मरणात् ॥ ३.५२ ॥

किं च ।

यः कण्टकैर् वितुदति चन्दनैर् यश् च लिम्पति । ३.५३अब्
अक्रुद्धो ऽपरितुष्टश् च समस्तस्य च तस्य च ॥ ३.५३च्द्

यः कश्चित् कण्टकादिभिर् विविधम् अङ्गानि तुदति व्यथयति तस्मै न क्रुध्येत् । यश् चन्दनादिभिर् उपलिम्प्यति सुखयति तस्य न परितुष्यते । किं तु तयोर् उभयोर् अपि समः स्याद् उदासीनो भवेत् ॥ ३.५३ ॥

अग्निपरिचर्याक्षमं प्रत्य् आह ।

अग्नीन् वाप्य् आत्मसात्कृत्वा वृक्षावासो मिताशनः । ३.५४अब्
वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्षम् आचरेत् ॥ ३.५४च्द्

अग्नीन् आत्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स तथोक्तः । मिताशनः स्वल्पाहारः । अपिशब्दात् फलमूलाशनश् च भवेत् । यथाह मनुः ।

अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि ।
अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥ इति । (म्ध् ६.२५)

मुनिर् मौनव्रतयुक्तः । फलमूलासंभवे च यावत्प्राणधारणं भवति तावन्मात्रं भैक्षं वानप्रस्थगृहेष्व् आचरेत् ॥ ३.५४ ॥

यदा तु तदसंभवो व्याध्यभिभवो वा तदा किं कार्यम् इत्य् अत आह ।

ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः । ३.५५अब् वायुभक्षः प्रागुदीचीं गच्छेद् आ वर्ष्मसंक्षयात् ॥ ३.५५च्द्

ग्रामाद् वा भैक्षम् आहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान् भूञ्जीत । ग्राम्यभैक्षविधानान् मुन्यन्ननियमो ऽर्थलुप्तः । यदा पुनर् अष्टभिर् ग्रासैः प्राणधारणं न संभवति तदा,

अष्टौ ग्रासा मुनेर् भैक्षं वानप्रस्थस्य षोडश ।

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥

सकलानुष्ठानासमर्थं प्रत्य् आह ।

वायुभक्षः प्रागुदीचीं गच्छेद् आ वर्ष्मसंक्षयात् ॥ ३.५५च्द्

अथ वा वायुर् एव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीम् ऐशानीं दिशं गच्छेत् । आ वर्ष्मसंक्षयात् वर्ष्म वपुस् तस्य निपातपर्यन्तम् अकुटिलगतिर् गच्छेत् । यथाह मनुः ।

अपराजितां वास्थाय गच्छेद् दिशम् अजिह्मगः । इति । (म्ध् ६.३१)

महाप्रस्थाने ऽप्य् अशक्तौ भृगुपतनादिकं वा कुर्यात्, “वानप्रस्थो वीराध्वानं ज्वलनाम्बुप्रवेशनं भृगुपतनं वानुतिष्ठेत्” इति स्मरणात् । स्नानाचमनादिधर्मा ब्रह्मचारिप्रकरणाद्यभिहिताश् चाविरोधिनो ऽस्यापि भवन्ति, “उत्तरेषां चैतदविरोधि” (ग्ध् ३.१०) इति गौतमस्मरणात् । एवं प्रागुदितैन्दवादिदीक्षामहाप्रस्थानपर्यन्तं तनुत्यागान्तम् अनुतिष्ठन् ब्रह्मलोके पूज्यतां प्राप्नोति । यथाह मनुः ।

आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ इति । (म्ध् ६.३१)

ब्रह्मलोकः स्थानविशेषो न तु नित्यं ब्रह्म, तत्र लोकशब्दस्याप्रयोगात्, तुरीयाश्रमम् अन्तरेण मुक्त्यनङ्गीकाराच् च । न च “योगाभ्यासेन वा पुनः” इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशङ्कनीया, सालोक्यादिप्राप्त्यर्थत्वेनापि तद् उपपत्तेः । अत एव श्रुतौ “त्रयो धर्मस्कन्धाः” इत्य् उपक्रम्य, “यज्ञो ऽध्ययनं दानम् इति प्रथमः । तप एवेति द्वितीयः ।ब्रह्मचर्य् आचार्यकुलवासी तृतीयः । अत्यन्तम् आचर्यकुल एवम् आत्मानम् अवसादयन्” इति गार्हस्थ्यवानप्रस्थनैष्टिकत्वस्वरूपम् अभिधाय, “सर्व एते पुण्यलोका भवन्ति” इति त्रयाणाम् आश्रमिणां पुण्यलोकप्राप्तिम् अभिधाय, “ब्रह्मसंस्थो ऽमृतत्वम् एति” (छु २.२३.१) इति पारिशेष्यात् परिव्राजकस्यैव ब्रह्मसंस्थस्य मुक्तिलक्षणामृतत्वप्राप्तिर् अभिहिता । यद् अपि

श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि विमुच्यते । (य्ध् ३.२०५)

इति गृहस्थस्यापि मोक्षप्रतिपादनं तद् भवान्तरानुभूतपारिव्रज्यस्येत्य् अवगन्तव्यम् ॥ ३.५५ ॥

**इति वानप्रस्थधर्मप्रकरणम् **