२ आपद्-धर्म-प्रकरणम्

अथापद्धर्मप्रकरणम्

“आपद्य् अपि च कष्टायां सद्यःशौचं विधीयते” (य्ध् ३.१९) इत्य् आपदि मुख्याशौचकल्पानाम् अनुष्ठानासंभवेन सद्यःशौचाद्यनुकल्पम् उक्त्वेदानीं तत्प्रसङ्गाद् आपदि “प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा” (य्ध् १.११८) इत्याद्युक्तयाजनादिमुख्यवृत्त्यसंभवेन वृत्त्यन्तरम् आह ।

क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः । ३.३५अब्
निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि ॥ ३.३५च्द्

द्विजो विप्रो बहुकुटुम्बतया स्ववृत्त्या जीवितुम् असमर्थः क्षत्रसंबन्धिना कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुम् अशक्नुवन् वैश्यसंबन्धिना कर्मणा वाणिज्यादिना जीवेत्, न शूद्रवृत्त्या । तथा च मनुः ।

उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् ।
कृषिगोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ॥ इति । (म्ध् १०.८२)

तथा आपद्य् अपि न हीनवर्णेन ब्राह्मी वृत्तिर् आश्रयणीया किं तु ब्राह्मणेन क्षात्री क्षत्रियेण वैश्यसंबन्धिनी वैश्येन च शौद्रीत्य् एवं स्वानन्तरहीनवर्णवृत्तिर् एव । “अजीवन्तः स्वधर्मेणान्तरां पापीयसीं वृत्तिम् आतिष्ठेरन्न् अतु कदाचिज् ज्यायसीम्” (वध् २.२२–२३) इति वसिष्ठस्मरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथा च स्मृत्यन्तरम् ।

उत्कृष्टं वापकृष्टं वा तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ इति ।

शूद्रस्योत्कृष्टं ब्राह्मं कर्म न विद्यते । तथा ब्राह्मणस्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनर् आपद्गतसर्ववर्णसाधारणे इति । शूद्रश् चापद्गतो वैश्यवृत्त्या शिल्पैर् वा जीवेत्,

“शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग्भवेत् ।
शिल्पैर्वा विव्धैर्जीवेद्द्विजातिहितमाचरन्” ॥ (य्ध् १.१२९)

इति प्रागुक्तत्वात् । मनुना चात्र विशेषो दर्शितः ।

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥ इति । (म्ध् १०.१००)

अनेनैव न्यायेनानुलोमोत्पन्नानाम् अपि स्वानन्तरा वृत्तिर् ऊहनीया । एवं स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पावयित्वा पथि न्यसेत् । स्ववृत्ताव् आत्मानं स्थापयेद् इत्य् अर्थः । यद् वायम् अर्थः । गर्हितवृत्त्यार्जितं धनं पथि न्यसेद् उत्सृजेद् इति । तथा च मनुः ।

जपहोमैर् अपैत्य् एनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ इति ॥ (म्ध् १०.१११) ३.३५ ॥

वैश्यवृत्त्यापि जीवतो ब्राह्मणस्य यद् अपणनीयं तद् आह ।

फलोपलक्षौमसोममनुष्यापूपवीरुधः । ३.३६अब्
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥ ३.३६च्द्
शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । ३.३७अब्
मृच्चर्मपुष्पकुतपकेशतक्रविषक्षितिः ॥ ३.३७च्द्
कौशेयनीललवणमांसैकशफसीसकान् । ३.३८अब्
शाकार्द्रौषधिपिण्याकपशुगन्धांस् तथैव च ॥ ३.३८च्द्
वैश्यवृत्त्यापि जीवन् नो विक्रीणीत कदाचन । ३.३९अब् धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ॥ ३.३९च्द्

नो विक्रीणीतेति प्रत्येकम् अभिसंबन्ध्यते । फलानि कदलीफलादीनि बदरेङ्गुदव्यतिरिक्तानि । यथाह नारदः ।

स्वयंशीर्णानि पर्णानि फलानां बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच् चेद् अविकृतं भवेत् ॥ इति ।

उपलं मणिमाणिक्याद्यश्ममात्रम् । क्षौमम् अतसीसूत्रमयं वस्त्रम् । क्षौमग्रहणं तान्तवादेर् उपलक्षणम् । यथाह मनुः ।

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।
अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥ इति । (म्ध् १०.८७)

सोमो लताविशेषः । मनुष्यपदेनाविशेषात् स्त्रीपुंनपुंसकानां ग्रहणम् । अपूपं मण्डकादि भक्ष्यमात्रम् । वीरुधो वेत्रामृतादिलताः । तिलाः प्रसिद्धाः । ओदनग्रहणं भोज्यमात्रोपलक्षणम् । रसा गुडेक्षुरसशर्करादयः । तथा च मनुः ।

क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ इति । (म्ध् १०.८८)

क्षारा यवक्षारादयः । दधिक्षीरयोर् ग्रहणं मस्तुपिण्डकिलाटकूर्चिकादीनां तद्विकाराणाम् उपलक्षणम्, “क्षीरं सविकारम्” (ग्ध् ७.११) इति गौतमस्मरणात् । घृतग्रहणं तैलादिस्नेहमात्रोपलक्षणम् । जलं प्रसिद्धम् । शस्त्रं खड्गादि । आसवग्रहणं मद्यमात्रोपलक्षणम् । मधूच्छिष्टं सिक्थकम् । मधु क्षौद्रम् । लाक्षा जतु । बर्हिषः कुशाः । मृत् प्रसिद्धा । चर्माजिनम् । पुष्पं प्रसिद्धम् । अजलोमकृतः कम्बलः कुतपः । केशाश् चमर्यादिसंबद्धाः । तक्रम् उदश्वित् । विषं शृङ्ग्यादि । क्षितिर् भूमिः, “नित्यं भूमिव्रीहियवाजाव्यश्वर्षभधेन्वनडुहश् चैके” इति सुमन्तुस्मरणात् । कौशेयं कोशप्रभवं वसनम् । नीलं नीलीरसम् । लवणग्रहणेनैव बिडसौवर्चलसैन्धवसामुद्रसोमककृत्रिमाण्य् अविशेषेण गृह्यन्ते । मांसं प्रसिद्धम् । एकशफा हयादयः । सीसग्रहणं लोहमात्रोपलक्षणम् । शाकं सर्वम् अविशेषात् । ओषधयः फलपाकान्ताः । “आर्द्रौषधयः” इति विशेषोपादानाच् छुष्केषु न दोषः । पिण्याकः प्रसिद्धः । पशव आरण्याः,

आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च । (म्ध् १०.८९)

इति मनुस्मरणात् । गन्धाश् चन्दनागुरुप्रभृतयः । सर्वान् एतान् वैश्यवृत्त्या जीवन् ब्राह्मणः कदाचिद् अपि न विक्रीणीत । क्षत्रियादेस् तु न दोषः । अत एव नारदेन,

वैश्यवृत्ताव् अविक्रेयं ब्राह्मणस्य पयो दधि । (न्स्म् १.५७)
इति ब्राह्मणग्रहणं कृतम् ॥ ३.३६ ॥ ३.३७ ॥ ३.३८ ॥

प्रतिप्रसवम् आह ।

धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ॥ ३.३९च्द्

यद्य् आवश्यकाः पाकयज्ञादिधर्माः स्वसाधनव्रीह्यादिधान्याभावे न निष्पद्यन्ते, तर्हि धान्येन तिला विक्रयं नेयाः । तत्समाः द्रोणपरिमिता द्रोणपरिमितेनेत्य् एवं तेन धान्येन समाः । तथा च मनुः ।

कामम् उत्पाद्य कृष्यात् तु स्वयम् एव कृषीवलः ।
विक्रीणीत तिलाञ् शुद्धान् धर्मार्थम् अचिरस्थितान् ॥ इति । (म्ध् १०.९०)

धर्मग्रहणम् आवश्यकभेषजाद्युपलक्षणम् । अत एव नारदः ।

अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च ।
यद्य् अवश्यं तु विक्रेयास् तिला धान्येन तत्समाः ॥ इति ।(न्स्म् १.६२)

यद्य् अन्यथा विक्रीणीते तर्हि दोषः,

भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
कृमिर् भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥ (म्ध् १०.९१)

इति मनुस्मरणात् । सजातीयैः पुनर् विनिर्मयो भवत्य् एव ।

रसा रसैर् निमातव्या न त्व् एव लवणं रसैः ।
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ इति । (म्ध् १०.९४)

कृतान्नं सिद्धान्नं तच् च कृतान्नेन परिवर्तनीयम् । “कृतान्नं चाकृतान्नेन” इति पाठे तु सिद्धम् अन्नम् अकृतान्नेन तण्डुलादिना परिवर्तनीयम् इति ॥ ३.३९ ॥

पूर्वोक्तनिषिद्धातिक्रमे दोषम् आह ।

लाक्षालवणमांसानि पतनीयानि विक्रये । ३.४०अब्
पायो दधि च मद्यं च हीनवर्णकराणि तु ॥ ३.४०च्द्

लाक्षालवणमांसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्महानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि । एतद्व्यतिरिक्तापण्यविक्रये वैश्यतुल्यता । यथाह मनुः ।

सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥
इतरेषाम् अपण्यानां विक्रयाद् इह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं च गच्छति ॥ इति । (म्ध् १०.९२–९३) ३.४० ॥

किं च ।

आपद्गतः सम्प्रगृह्णन् भुञ्जानो वा यतस् ततः । ३.४१अब्
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ३.४१च्द्

यस् त्व् अधनो ऽवसन्नकुटुम्बतया आपद्गतो ऽपि क्षत्रवृत्तिं वैश्यवृत्तिं वा न प्रविविक्षति स यतस् ततो हीनहीनतरहीनतमेभ्यः प्रतिगृह्णंस् तदन्नं भुञ्जानो ऽपि वा एनसा पापेन न लिप्यते । यतस् तस्याम् आपदवस्थायाम् असत्प्रतिग्रहादाव् अधिकारित्वेन ज्वलनार्कसमः, यथा ज्वलनो ऽर्कश् च हीनसंस्कारे ऽपि न दुष्यति तथायम् आपद्गतो ऽपि न दुष्यतीत्य् एतावता तत्साम्यम् । एवं च वदता आपद्गतस्य परधर्माश्रयणाद् विगुणम् अपि स्वधर्मानुष्ठानम् एव मुख्यम् इति दर्शितं भवति । तथा च मनुः ।

वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्माश्रयाद् विप्रः सद्यः पतति जातितः ॥ इति ॥ (म्ध् १०.९७) ॥३.४१ ॥

किं च ।

कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः । ३.४२अब्
सेवानूपं नृपो भैक्षम् आपत्तौ जीवनानि तु ॥ ३.४२च्द्

“आपत्तौ जीवनानि” इति विशेषणात् कृष्यादीनां मध्ये अनापदवस्थायां यस्य या वृत्तिः प्रतिषिद्धा तस्य सा वृत्तिर् अनेनाभ्यनुज्ञायते । यथापदि वैश्यवृत्तिः स्वयंकृता कृषिर् विप्रक्षत्रिययोर् अभ्यनुज्ञायते एवं शिल्पादीन्य् अप्य् अस्याभ्यनुज्ञायन्ते । शिल्पं सूपकरणादि । भृतिः प्रेष्यत्वम् । विद्या भृतकाध्यापकत्वाद्या । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः । तत् स्वयंकृतम् अभ्यनुज्ञायते । शकटं भाटकेन धान्यादिवहनद्वारेण जीवनहेतुः । गिरिस् तद्गततृणेन्धनद्वारेण जीवनम् । सेवा परचित्तानुवर्तनम् । अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः । तथा नृपो नृपयाचनम् । भैक्षं स्नातकस्यापि । एतान्य् आपत्तौ जीवनानि । तथा च मनुः ।

विद्या शिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः ।
गिरिर् भैक्षं कुसीदं च दश जीवनहेतवः ॥ इति । (म्ध् १०.११६)। ३.४२ ॥

यदा कृष्यादीनाम् अपि जीवनहेतूनाम् असंभवस् तदा कथं जीवनम् इत्य् अत आह ।

बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद् धरेत् । ३.४३अब्
प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः ॥ ३.४३च्द्

धान्याभावेन त्रिरात्रं बुभुक्षितो ऽनश्नन् स्थित्वा अब्राह्मणाच् छूद्रात् तदभावे वैश्यात् तदभावे क्षत्रियाद् वा हीनकर्मण एकाहपर्याप्तं धान्यम् आहरेत् । यथाह मनुः ।

तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ इति । (म्ध् ११.१६)

तथा च प्रतिग्रहोत्तरकालं यद् अपहृतं तद् धर्मतो यथावृत्तम् आख्येयम्, यदि नास्तिकेन स्वामिना “त्वयेदं किं नामापहृतम्” इत्य् अधियुज्यते । यथाह मनुः ।

खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।
आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥ इति ॥ (म्ध् ११.१७) ३.४३ ॥

इदम् अपरम् आप्तसङ्गाद् राज्ञो विधीयते ।

तस्य वृत्तं कुलं शीलं श्रुतम् अध्ययनं तपः । ३.४४अब्
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ ३.४४च्द्

यो ऽशनायापरीतो ऽवसीदति तस्य वृत्तम् आचारं, कुलम् आभिजात्यं, शीलम् आत्मगुणं, श्रुतं शास्त्रश्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य राजा धर्माद् अनपेतां वृत्तिं प्रकल्पयेत् । अन्यथा तस्य दोषः । तथा च मनुः ।

यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा ।
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥ इति ॥ (म्ध् ७.१३४) ३.४४ ॥

इत्य् आपद्धर्मप्रकरणम्