२४ स्त्री-सङ्ग्रहण-प्रकरणम्

अथ स्त्रीसंग्रहणप्रकरणम्

स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम् ।

त्रिविधं तत् समाख्यातं प्रथमं मध्यमोत्तमम् ।
अदेशकालभाषाभिर् निर्जने च परस्त्रियाः ॥
कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ।
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥
प्रलोभनं चान्नपानैर् मध्यमं साहसं स्मृतम् ।
सहासनं विविक्तेषु परस्परम् उपाश्रयः ॥
केशाकेशिग्रहश् चैव सम्यक् संग्रहणं स्मृतम् ॥ (ध्को १८८९)

स्त्रीपुंसयोर् मिथुनीभावः संग्रहणम् ॥

संग्रहणज्ञानपूर्वकत्वात् तत्कर्तुर् दण्डविधानं तज्ज्ञानोपायं तावद् आह ।

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया । २.२८३अब्
सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥ २.२८३च्द् ॥

संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर् लिङ्गैर् ज्ञात्वा ग्रहीतव्यः । परस्परं केशग्रहणपूर्विका क्रीडा केशाकेशि । “तत्र तेनेदम्” (पाण् २.२।२७) इति सरूपे इति बहुव्रीहौ सति, “इच् कर्मव्यतिहारे” (पाण् ५.४।१२७) इति समासान्त इच्प्रत्ययः । अव्ययत्वाच् च लुप्ततृतीयाविभक्तिः । ततश् चायम् अर्थः । परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशनादिकृतव्रणैः रागकृतैर् लिङ्गैर् द्वयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तौ ग्रहीतव्यः । परस्त्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् ॥ २.२८३ ॥

किं च ।

नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । २.२८४अब्
अदेशकालसंभाषं सहैकासनम् एव च ॥ २.२८४च्द् ॥

यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्टते यः सो ऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच् चाशङ्क्यमानदोषपुरुषविषयम् । इतरस्य तु न दोषः । यथाह मनुः ।

यस् त्व् अनाक्षारितः पूर्वम् अभिभाषते कारणात् ।
न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥ इति । (म्ध् ८.३५५)

यः परस्त्रिया स्पृष्टः क्षमते ऽसाव् अपि ग्राह्य इति तेनैवोक्तम् ।

स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तथा ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥ इति । (म्ध् ८.३५८)

यश् च मयेयं विदग्धासकृद्रमितेति श्लाघया भुजंगजनसमक्षं ख्यापयत्य् असाव् अपि ग्राह्य इति तेनैवोक्तम् ।

दर्पाद् वा यदि वा मोगाच् छ्लाघया वा स्वयं वदेत् ।
पूर्वं मयेयं भक्तेति तच् च संग्रहणं स्मृतम् ॥ इति ॥ (ध्को १८५३)

प्रतिषिद्धयोर् द्वयोः स्त्रीपुंसयोः पुनः सल्लापादिकरणे दण्डम् आह ।

स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान् । २.२८५अब्
प्रतिषेधे तयोर् दण्डो यथा संग्रहणे तथा ॥ २.२८५च्द् ॥

प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर् येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनर् एवं निषिद्धे प्रवर्तमानो द्विशतं दद्यात् । द्वयोस् तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच् च चारणादिभार्याव्यतिरेकेण । (८.३६२) –

नैष चारणदारेषु विधिर् नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीं निगूढाश् चारयन्ति च ॥ (म्ध् ८.३६२)

इति मनुस्मरणात् ॥ २.२८५ ॥

तद् इदानीं संग्रहणे दण्डम् आह ।

सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः । २.२८६अब्
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २.२८६च्द् ॥

चतुर्णाम् अपि वर्णानां बलात्कारेण सजातीयगुप्तपरदाराभिगमने साशीतिपणसहस्रं दण्डनीयः । यदा त्व् आनुलोम्येन हीनवर्णां स्त्रियम् अगुप्ताम् अभिगच्छति तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णाम् अगुप्ताम् आनुलोम्येन गुप्तां वा व्रजति तदा मानवे विशेष उक्तः ।

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह संगतः ॥ (म्ध् ८.३७८)
तथा ।
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रियविशोः साहस्रं तु भवेद् दमः ॥ इति ॥ (म्ध् ८.३८३)

एतच् च गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम्,

माता मातृष्वसा श्वश्रूमातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥ (न्स्म् १२.७२–७४)

इति नारदस्मरणात् । प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच् च गुप्ताविषयम् । अन्यत्र तु धनदण्डः ।

उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ (म्ध् ८.३७७)
ब्राह्मणीं यद्य् अगुप्तां तु सेवेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ (म्ध् ८.३७६)

इति मनुस्मरणात् । शूद्रस्य पुनर् अगुप्ताम् उत्कृष्टवर्णां स्त्रियं व्रजतो लिङ्गच्छेदनसर्वस्वापहारौ ।

शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।
अगुप्तम् अङ्गसर्वस्वैर् गुप्तं सर्वेण हीयते ॥ इति । (म्ध् ८.३७४)

नार्याः पुनर् हीनवर्णं व्रजन्त्याः कर्णयोर् आदिग्रहणान् नासादेश् च कर्तनम् । आनुलोम्येन वा सवर्णं वा व्रजन्त्या दण्डः कल्प्यः । अयं च वधाद्युपदेशो राज्ञ एव तस्यैव पालनाधिकारान् न द्विजातिमात्रस्य । तस्य “ब्राह्मणः परीक्षार्थम् अपि शस्त्रं नाददीत” (ध्को १६०५- आपस्तम्ब) इति शस्त्रग्रहणनिषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशण्का तदा स्वयम् एव जारादीन् हन्यात् ।

शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते । (म्ध् ८.३४८)

तथा ।

नाततायिवधे दोषो हन्तुर् भवति कश् चन ।
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ (म्ध् ८.३५१)

इति शस्त्रग्रहणाभ्यनुज्ञानाच् च । तथा क्षत्रियवैश्ययोर् अन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्रपञ्चशतपणात्मकौ दण्डौ वेदितव्यौ । तद् आह मनुः ।

वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥ इति ॥ (म्ध् ८.३८२) २.२८६ ॥

पारदार्यप्रसङ्गात् कन्यायाम् अपि दण्डम् आह ।

अलंकृतां हरन् कन्याम् उत्तमं ह्य् अन्यथाधमम् । २.२८७अब्
दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २.२८७च्द् ॥

विवाहाभिमुखीभूताम् अलंकृतां सवर्णां कन्याम् अपहरन्न् उत्तमसाहसं दण्डनीयः । तदनभिमुखीं सवर्णां हरन् प्रथमं साहसम् । उत्कृष्टवर्णजां कन्याम् अपहरतः पुनः क्षत्रियादेर् वध एव । दण्डविधानाच् चापहर्तृसकाशाद् आच्छिद्यान्यस्मै देयेति गम्यते ॥ २.२८७ ॥

आनुलोम्यापहरणे दण्डम् आह ।

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः । २.२८८अब्

यदि सानुरागां हीनवर्णां कन्याम् अपहरति तदा दोषाभावान् न दण्डः । अन्यथा त्व् अनिच्छन्तीम् अपहरतः प्रथमसाहसो दण्डः ॥

कन्यादूषणे दण्डम् आह ।

दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ २.२८८च्द् ॥

अनुलोमास्व् इत्य् अनुवर्तते । यद्य् अकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति, तदा तस्य करश् छेत्तव्यः । यदा पुनस् ताम् एवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन् दूषयति तदा मनूक्तषट्शतसहितो ऽङ्गुलिच्छेदः ।

अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥ इति । (म्ध् ८.३६७)

यदा पुनः सानुरागां पूर्ववद् दूषयति तदापि तेनैव विशेष उक्तः ।

सकामां दूषयन् कन्यां नाङ्गुलिछेदम् अर्हति ।
द्विशतं तु दमम् दाप्यः प्रसङ्गविनिवृत्तये ॥ इति । (म्ध् ८.३६८)

यदा तु कन्याइव कन्यां दूषयति विदग्धा वा तत्रापि विशेषस् तेनैवोक्तः ।

कन्यैव कन्यां या कुर्यात् तस्यास् तु द्विशतो दमः ।
या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव वा च्छेदं खरेणोद्वहनं तथा ॥ इति । (म्ध् ८.३६९–७०)

कन्यां कुर्याद् इति कन्यां योनिक्षतवतीं कुर्याद् इत्य् अर्थः ॥ यदा पुनर् उत्कृष्टजातीयां कन्याम् अविशेषात् सकामाम् अकामां वाभिगच्छति तदा हीनस्य क्षत्रियादेर् वध एव ।

उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति । (म्ध् ८.३६६)

इति मनुस्मरणात् ॥ यदा सवर्णां सकामाम् अभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् यदीच्छति । पितरि तु शुल्कम् अनिच्छति दण्डरूपेण तद् एव राज्ञे दद्यात् । सवर्णाम् अकामां तु गच्छतो वध एव । यथाह मनुः ।

शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥ (म्ध् ८.३६६)
यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥ (म्ध् ८.३६४) इति ॥

किं च ।

शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसने । २.२८९अब्
पशून् गच्छन् शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ २.२८९च्द् ॥

स्त्रीशब्देनात्र प्रकृतत्वात् कन्यावमृश्यते । तस्या यदि कश्चिद् विद्यमानान् एवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोषान् प्रकाश्येयम् अकन्येति दूषयत्य् असौ शतं दाप्यः । मिथ्याभिशंसने तु पुनर् अविद्यमानदोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्यः । यः पुनर् हीनां स्त्रियम् अन्त्यावसायिनीम् अविशेषात् सकामाम् अकामां वा गां चाभिगच्छत्य् असौ मध्यमसाहसं दण्डनीयः ॥ २.२८९ ॥

साधारणस्त्रीगमने दण्डम् आह ।

अवरुद्धासु दासीषु भुजिष्यासु तथैव च । २.२९०अब्
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ २.२९०च्द् ॥

“गच्छन्” इत्य् अनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस् ता एव स्वामिना शुश्रूषाहानिव्युदासार्थं गृह एव स्थातव्यम् इत्य् एवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्यो ऽवरुद्धा भुजिष्या वा भवेयुस् तदा तासु तथा । चशब्दाद् वेश्यास्वैरिणीनाम् अपि साधारणस्त्रीणां भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्व् अपि गच्छन् पञ्चाशत् पणान् दण्डनीयः, परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच् च स्पष्टम् उक्तं नारदेन ।

स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासनी च या ।
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥
आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्यास्व् अपि हि नोपेयाद् यत् ताः परपरिग्रहाः ॥ इति ॥ (न्स्म् १२.७७–७८)

निष्कासिनी स्वाम्यनवरुद्धा दासी ।

  • ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानम् उक्तम् । न हि जातितः शास्त्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते । तथा हि । स्वैरिण्यो दास्यश् च तावद् वर्णस्त्रिय एव,

स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् । (य्ध् १.६७)
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ (य्ध् २.१८३)

इति स्मरणात्[^३८] । न च वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते ।

दुःशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।
उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥
कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ (म्ध् ५.१५४, १५७)

इति निषेधस्मरणात् ॥ नापि कन्यावस्थायाः साधारणत्वम् । पित्रादिपरिरक्षितायाः कन्याया एव दानोपदेशात् । दात्रभावे ऽपि तथाविधाया एव स्वयंवरोपदेशात् । न च दासीभावात् स्वधर्माधिकारच्युतिः । पारतन्त्र्यं हि दास्यं न स्वधर्मपरित्यागः । नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभवात् । तद् अन्तःपातित्वे च पूर्ववद् एवागम्यत्वम् । प्रतिलोमजत्वे तु तासां नितराम् अगम्यत्वम् । अतः पुरुषान्तरोपभोगे तासां निन्दितकर्माभ्यासेन पातित्यात् । पतितसंसर्गस्य निषिद्धत्वाच् च न सकलपुरुषोपभोगयोग्यत्वम् ।

  • सत्यम् एवम् । किं त्व् अत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद् गम्यत्ववाचोयुक्तिः । दण्डाभावश् चावरुद्धासु दासीष्व् इति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात् तदुपाधिरहितास्व् अर्थाद् अवगम्यते । स्वैरिण्यादीनां पुनर् दण्डाभावो विधानाभावात्,

कन्यां भजन्तीम् उत्कृष्टां न किंचिद् अपि दापयेत् । (म्ध् ८.३६५)

इति लिङ्गनिदर्शनाच् चावगम्यते । प्रायश्चित्तं तु स्वधर्मस्खलननिमित्तं गम्यानां गन्तॄणां चाविशेषाद् भवत्य् एव । यत् पुनर् वेश्यानां जात्यन्तरासंभवेन वर्णान्तःपातित्वम् अनुमानाद् उक्तम्, “वेश्या वर्णानुलोमाद्यन्तःपातित्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्” इति । तन् न, तत्र कुण्डगोलकादिभिर् अनैकान्तिकत्वात् । अतो वेश्याख्या काचिज् जातिर् अनादिर् वेश्यायाम् उत्कृष्टजातेः समानजातेर् वा पुरुषाद् उत्पन्ना पुरुषसंभोगवृत्तिर् वेश्येति ब्राह्मण्यादिवल् लोकप्रसिद्धिबलाद् अभ्युपगमनीयम् । न च निर्मूलेयं प्रसिद्धिः । स्मर्यते हि स्कन्दपुराणे- “पञ्चचूडा नाम काश्चनाप्सरसस् तत्सन्ततिर् वेश्याख्या पञ्चमी जातिः” इति । अतस् तासां नियतपुरुषपरिणयनविधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्य् अपि न दण्डस् तथाप्य् अदृष्टदोषो ऽस्त्य् एव “स्वदारनिरतः सदा” (म्ध् ३.४५) इति नियमात्,

पशुवेश्याभिगमने प्राजापत्यं विधियते । (च्ड़्। विध् ५३.७)

इति प्रायश्चित्तस्मरणाच्, चेति निरवद्यम् ॥ २.२९० ॥

“अवरुद्धासु दासीषु” इत्य् अनेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं विदधतस् तास्व् अभुजिषास्व् दण्डो नास्तीत्य् अर्थाद् उक्तम्, तद् अपवादम् आह ।

प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः । २.२९१अब्
बहूनां यद्य् अकामासौ चतुर्विंशतिकः पृथक् ॥ २.२९१च्द् ॥

पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्य बलात्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव एकाम् अनिच्छन्तीम् अपि बलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस् तदिच्छया भाटिं दत्त्वा पश्चाद् अनिच्छन्तीम् अपि बलाद् व्रजन्ति तदा तेषाम् अदोषः, यदि व्याध्याद्यभिभवस् तस्या न स्यात्,

व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा ।
आमन्त्रिता चेन् नागच्छेद् अदण्ड्या वडवा स्मृता ॥ (बृस्म् १.१६.१३)

इति नारदवचनात् ।

गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । २.२९२अब्
अगृहीते समं दाप्यः पुमान् अप्य् एवम् एव हि ॥ २.२९२च्द् ॥

यदा तु शुल्कं गृहीत्वा स्वस्थाप्य् अर्थपतिं नेच्छति तदा द्विगुणं शुल्कं दद्यात् । तथा शुल्कं दत्त्वा स्वयम् अनिच्छतः स्वस्थस्य पुंसः शुल्कहानिर् एव,

शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छन् दत्तशुल्को ऽपि शुल्कहानिम् अवाप्नुयात् ॥ (न्स्म् ६.२०; ध्को ८५१)

इति तेनैवोक्तम् । तथान्यो ऽपि विशेषस् तेनैव दर्शितः ।

अप्रयच्छंस् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् । (न्स्म् ६.२०)
अक्रमेण च संगच्छन् पाददन्तनखादिभिः ॥ (ध्को ८५१)
अयोनौ वाभिगच्छेद् यो बहुभिर् वापि वासयेत् ।
शुल्कम् अष्टगुणं दाप्यो विनयं तावद् एव तु ॥ (न्स्म् ६.२१)
वेश्याप्रधाना यास् तत्र कामुकास् तद्गृहोषिताः ।
तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥ (ध्को ८५१) इति ॥ २.२९२ ॥

किं च ।

अयोनौ गच्छतो योषां पुरुषं वापि मेहतः । २.२९३अब्
चतुर्विंशतिको दण्डस् तथा प्रव्रजितागमे ॥ २.२९३च्द् ॥

यस् तु स्वयोषां मुखादाव् अभिगच्छति पुरुषं वाभिमुखो मेहति तथा प्रव्रजितां वा गच्छत्य् असौ चतुर्विंशतिपणान् दण्डनीयः ॥ २.२९३ ॥

किं च ।

अन्त्याभिगमने त्व् अङ्क्यः कुबन्धेन प्रवासयेत् । २.२९४अब्
शूद्रस् तथान्त्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥ २.२९४च्द् ॥

अन्त्या चाण्डाली तद्गमने त्रैवर्णिकान् प्रायश्चित्तानभिमुखान् “सहस्रं त्व् अन्त्यजस्त्रियम्” (म्ध् ८.३८५) इति मनुवचनात् पणसहस्रं दण्डयित्वा, कुबन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा, स्वराष्ट्रान् निर्वासयेत् । प्रायश्चित्ताभिमुखस्य पुनर् दण्डनम् एव । शूद्रः पुनश् चाण्डाल्यभिगमे ऽन्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश् चाण्डालादेर् उत्कृष्टजातिस्त्र्यभिगमे वध एव ॥ २.२९४ ॥

इति स्त्रीसंग्रहणप्रकरणम्