२२ सम्भूय-समुत्थान-प्रकरणम्

**अथ संभूयसमुत्थानप्रकरणम् **

संभूयसमुत्थानं नाम विवादपदमिदानीम् अभिधीयते ।

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् । २.२५९अब्
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ २.२५९च्द् ॥

“सर्वे वयम् इदं कर्म मिलिताः कुर्मः” इत्य् एवंरूपा संप्रतिपत्तिः समवायः, तेन ये वणिङ्नटनर्तकप्रभृतयो लाभलिप्सवः प्रातिस्विकं कर्म कुर्वते तेषां लाभालाभाव् उपचयापचयौ यथाद्रव्यं येन यावद् धनं पण्यग्रहणाद्यर्थं दत्तं तदनुसारेणावसेयौ । यद् वा प्रधानगुणभावपर्यालोचनयास्य भागद्वयम् अस्यैको भाग इत्य् एवंरूपया संविदा समयेन यथा संप्रतिपन्नौ तथा वेदितव्यौ ॥ २.२५९ ॥

किं च ।

प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम् । २.२६०अब्
स तद् दद्याद् विप्लवाच् च रक्षिताद् दशमांशभाक् ॥ २.२६०च्द् ॥

तेषां सभूय प्रचरतां मध्ये पण्यम् इदम् इत्थं न व्यवहर्तव्यम् इति प्रतिषिद्धम् आचरता यन् नाशितम् अनादिष्टम् अननुज्ञातं वा कुर्वाणेन तथा प्रमादात् प्रज्ञाहीनतया वा येन यन् नाशितं स तत् पण्यं वणिग्भ्यो दद्यात् । यः पुनस् तेषां मध्ये चौरराजादिजनिताद् व्यसनात् पण्यं पालयति स तस्माद् रक्षितात् पण्याद् दशमम् अंशं लभते ॥ २.२६० ॥

अर्घप्रक्षेपणाद् विंशं भागं शुल्कं नृपो हरेत् । २.२६१अब्
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥ २.२६१च्द् ॥

“इयतः पण्यस्येयन् मूल्यम्” इत्य् अर्घः, तस्य प्रक्षेपणात् राजतो निरूपणाद् धेतोर् असौ मूल्याद् विंशतितमम् अंशं शुल्कार्थं गृह्णीयात् । यत् पुनर् व्यासिद्धम् अन्यत्र न विक्रेयम् इति राज्ञा प्रतिषिद्धम्, यच् च राजयोग्यं मणिमाणिक्याद्यप्रतिषिद्धम् अपि तद् राज्ञे ऽनिवेद्य लाभलोभेन विक्रीतं चेद् राजगामि मूल्यदाननिरपेक्षं तत् सर्वं पण्यं राजापहरेद् इत्य् अर्थः ॥ २.२६१ ॥

मिथ्या वदन् परीमाणं शुल्कस्थानाद् अपासरन् । २.२६२अब्
दाप्यस् त्व् अष्टगुणं यश् च स व्याजक्रयविक्रयी ॥ २.२६२च्द् ॥

यः पुनर् वणिक् शुल्कवञ्चनार्थं पण्यपरिमाणं निह्नुते शुल्कग्रहणस्थानाद् वापसरति यश् च “अस्येदम् अस्येदं वा” इत्य् एवं विवादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते वा, ते सर्वे पण्याद् अष्टगुणं दण्डनीयाः ॥ २.२६२ ॥

अपि च ।

तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश । २.२६३अब्
ब्राह्मणप्रातिवेश्यानाम् एतद् एवानिमन्त्रणे ॥ २.२६३च्द् ॥

शुल्कं हि द्विविधम्, स्थलजं जलतं च । तत्र स्थलजम् “अर्घप्रक्षेपणाद् विंशं भागं शुल्कं नृपो हरेत्” (य्ध् २.२६१) इत्य् अत्रोक्तम् । जलजं तु मानवे ऽभिहितम् ।

पणं यानं तरे दाप्यं पौरुषो ऽर्धपणं तरे ।
पादं पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किंचित् पुमांसश् चपरिच्छदाः ॥
गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं नराः ॥ इति ॥ (म्ध् ८.४०४-५, ४०७)

शुल्कद्वये ऽप्य् अयम् अपरो विशेषः ।

न भिन्नकार्षापणम् अस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ।
न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥ इति ॥ (वध् १९.३७)

तीर्यते ऽनेनेति तरिः नावादिः, तज्जन्यशुल्के ऽधिकृतस्तरिकः । स यदा स्थलोद्भवं शुल्कं गृह्णाति तदा दशपणान् दण्डनीयः । वेशो वेश्म, प्रतिवेश इति स्ववेश्माभिमुखं स्ववेश्मपार्श्वस्थं चोच्यते । तत्र भवाः प्रातिवेश्याः ब्राह्मणाश् च ते प्रातिवेश्याश् च ब्राह्मणप्रातिवेश्याः । तेषां श्रुतवृत्तसंपन्नानां श्राद्धादिषु विभवे सत्य् अनिमन्त्रणे एतद् एव दशपणात्मकं दण्डनं वेदितव्यम् ॥ २.२६३ ॥

देशान्तरमृतवणिग्रिक्थं प्रत्य् आह ।

देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । २.२६४अब्
ज्ञातयो वा हरेयुस् तदागतास् तैर् विना नृपः ॥ २.२६४च्द् ॥

यदा संभूयकारिणां मध्ये यः कश्चिद् देशान्तरगतो मृतस् तदा तदीयम् अंशं दायादाः पुत्राद्यपत्यवर्गो बान्धवाः मातृपक्षा मातुलाद्याः ज्ञातयो ऽपत्यवर्गव्यतिरिक्ताः सपिण्डा वा आगताः संभूय व्यवहारिणो ये देशान्तराद् आगतास् ते वा गृह्णीयुः । तैर् विना दायादाद्यभावे राजा गृह्णीयात् । वाशब्देन च दायादादीनां वैकल्पिकम् अधिकारं दर्शयति । पौर्वापर्यनियमश् च “पत्नी दुहितरः” (य्ध् २.१३५) इत्यादिना प्रतिपादित एवात्रापि वेदितव्यः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो वणिक्प्राप्तिश् च वचनप्रयोजनम् । वणिजाम् अपि मध्ये यः पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् । सामर्थ्याविशेषे पुनः सर्वे वणिजः संसृष्टिनो विभज्य गृह्णीयुः । तेशाम् अप्य् अभावे दशवर्षं दायादाद्यागमनं प्रतीक्ष्यानागतेषु स्वयम् एव राजा गृह्णीयात् । तद् इदं नारदेन स्पष्टीकृतम् ।

एकस्य चेत् स्यान् मरणं दायादो ऽस्य तद् आप्नुयात् ।
अन्यो वासति दायादे शक्ताश् चेत् सर्व एव ते ॥ (न्स्म् ३.७)
तद् अभावे तु गुप्तं तत् कारयेद् दशवत्सरान् । (न्स्म् ३.१५)
अस्वामिकम् अदायादं दशवर्षस्थितं ततः ॥
राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥ (न्स्म् ३.१६) इति ॥ २.२६४ ॥

किं च ।

जिह्मं त्यजेयुर् निर्लाभम् अशक्तो ऽन्येन कारयेत् । २.२६५अब्

जिह्मो वञ्चकः तं निर्लाभं निर्गतलाभं लाभम् आच्छिद्य त्यजेयुर् बहिः कुर्युः । यश् च संभूयकारिणां मध्ये भाण्डप्रत्यवेक्षणादिकं कर्तुम् असमर्थो ऽसाव् अन्येन स्वं कर्म भाण्डभारवाहनं तदायव्ययपरीक्षणादिकं कारयेत् ॥

प्रागुपदिष्टं वणिग्धर्मम् ऋत्विगादिष्व् अतिदिशति ।

अनेन विधिर् आख्यात ऋत्विक्कर्षककर्मिणाम् ॥ २.२६५च्द् ॥

अनेन “लाभालाभौ यथाद्रव्यम्” इत्यादिवणिग्धर्मकथनेन ऋत्विजां होत्रादीनां कृषीवलानां नटनर्तककक्षादीनां च शिल्पकर्मोपजीविनां विधिर् वर्तनप्रकार आख्यातः । तत्र च ऋत्विजां धनविभागे विशेषो मनुना दर्शितः ।

सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥ इति ॥ (म्ध् ८.२१०)

अस्यायम् अर्थः । ज्योतिष्टोमेन “तं शतेन दीक्षयन्ति” इति वचनेन गवां शतमृत्विगानतिरूपे दक्षिणाकार्ये विनियुक्तम् । ऋत्विजश् च होत्रादयः षोडश । तत्र कस्य कियान् आंश इत्य् अपेक्षायाम् इदम् उच्यते । सर्वेषां होत्रादीनां षोडशर्त्विजां मध्ये ये मुख्याश् चत्वारो होत्रध्वर्युब्रह्मोद्गातारः ते गोशतस्यार्धिनः सर्वेशां भागपूरणोपपत्तिवशाद् अष्टाचत्वारिंशद्रूपार्धेनार्धभाजः । अपरे मैत्रावरुणप्रतिस्थातृब्राह्मणाच्छंसिप्रस्तोतारस् तदर्धेन तस्य मुख्यांशस्यार्धेन चतुर्विंशति रूपेणार्धभाजः । ये पुनस् तृतीयिनो ऽच्छावाकनेष्ट्राग्नीध्रप्रतिहर्तारस् ते तृतीयिनो मुख्यस्यांशस्य षोडशगोरूपेण तृतीयांशेन तृतीयांशभाजः । ये तु पादिनः ग्रावस्तदुन्नेतृपोतृसुब्रह्मण्यास् ते मुख्यभागस्य यश् चतुर्थांशो द्वादशगोरूपस् तद्भाजः ॥

  • ननु कथम् अयम् अंशनियमो घटते न तावद् अत्र समयो नापि द्रव्यसमवायो नापि वचनं यद्वशाद् ईदृग्भागनियमः स्याद् अतः समं स्याद् अश्रुतत्वाद् इति न्यायेन सर्वेषां समांशभाक्त्वं कर्मानुरूपेण चांशभाक्त्वम् इति युक्तम् ॥

  • अत्रोच्यते । ज्योतिष्टोमप्रकृतिके द्वादशाहे ऽर्धिनस् तृतीयिनः पादिन इति सिद्धवदनुवादो न घटते, यदि तत्प्रकृतिभूते ज्योतिष्टोमे अर्धतृतीयचतुर्थांशभाक्त्वं मैत्रावरुणादीनां न स्यात्, अतो वैदिकर्द्धिप्रभृतिसमाख्याबलात् प्रागुक्तो ऽंशनियमो ऽवकल्पयत इति निरवद्यम् ॥ २.२६५ ॥

इति संभूयसमुत्थानप्रकरणम्