२० साहस-प्रकरणम्

अथ साहसप्रकरणम्

संप्रति साहसं नाम विवादपदं व्याचिख्यासुस् तल्लक्षणं तावद् आह ।

सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम् । २.२३०अब्

सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः । प्रसभहरणात् प्रसह्य हरणात् । बलावष्टम्भेन हरणाद् इति यावत् । एतद् उक्तं भवति । राजदण्डं जनक्रोशं चोल्लङ्घ्य राजपुरुषेतरजनसमक्षं यत् किंचिन् मारणहरणपरदारप्रधर्षणादिकं क्रियते तत् सर्वं साहसम् इति साहसलक्षणम् । अतः साधारणधनपरधनयोर् हरणस्यापि बलावष्टम्भेन क्रियमाणत्वात् साहसत्वम् इति । नारदेनापि साहसस्य स्वरूपं विवृतम् ।

सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥ इति । (न्स्म् १४.१)

तद् इदं साहसं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणीषु व्यासक्तम् अपि बलदर्पावष्टम्भोपाधितो भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । तस्य च दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैविद्यम् अभिधाय तल्लक्षणं तेनैव विवृतं ।

तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥
वासःपश्वन्नपानानाम् गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥
व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् ।
प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर् दृष्टः पञ्चशतावरः ॥
उत्तमे साहसे दण्डः सहस्रावर इषते ।
वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥ इति ॥ (न्स्म् १४.२–७)

वधादयश् चापराधतारतम्याद् उत्तमसाहसे समस्ता व्यस्ता वा योज्याः ॥

तत्र परद्रव्यापहरणरूपे साहसे दण्डम् आह ।

तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २.२३०च्द् ॥

तस्यापहृतद्रव्यस्य मूल्यात् द्विगुणो दण्डः । यः पुनः साहसं कृत्वा नाहम् अकार्षम् इति निह्नुते तस्य मूल्याच् चतुर्गुणो दण्डो भवति । एतस्माद् एव विशेषदण्डविधानात् प्रथमसाहसादिसामान्यदण्डविधानम् अपहारव्यतिरिक्तविषयं गम्यते ॥ २.२३० ॥

साहसिकस्य प्रयोजयितारं प्रत्य् आह ।

यः साहसं कारयति स दाप्यो द्विगुणं दमम् । २.२३१अब्
यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ २.२३१च्द् ॥

यस् तु “साहसं कुरु” इत्य् एवम् उक्त्वा कारयत्य् असौ साहसिकाद् दण्डाद् द्विगुणं दण्डं दाप्यः । यः पुनः “अहं तुभ्यं धनं दास्यामि, त्वं कुरु” इत्य् एवम् उक्त्वा साहसं कारयति, स चतुर्गुणं दण्डं दाप्यो ऽनुबन्धातिशयात् ॥ २.२३१ ॥

साहसिकविशेषं प्रत्य् आह ।

अर्घ्याक्षेपातिक्रमकृद् भ्रातृभार्याप्रहारकः । २.२३२अब्
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २.२३२च्द् ॥
सामन्तकुलिकादीनाम् अपकारस्य कारकः । २.२३३अब्
पञ्चाशत्पणिको दण्ड एषाम् इति विनिश्चयः ॥ २.२३३च्द् ॥

अर्घ्यस्यार्घार्हस्याचार्यादेर् आक्षेपम् आज्ञातिक्रमं च यः करोति, यश् च भ्रातृभार्यां ताडयति तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्याप्रदाता यश् च मुद्रितं गृहम् उद्घाटयति तथा स्वगृहे क्षेत्रादिसंसक्तगृहक्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां आदि ग्रहणात् स्वग्राम्यस्वदेशीयानां च यो ऽपकर्ता, ते सर्वे पञ्चाशत्पणपरिमितेन दण्डेन दण्डनीयाः ॥ २.२३२ ॥ २.२३३ ॥

किं च ।

स्वच्छन्दविधवागामी विक्रुष्टे ऽनभिधावकः । २.२३४अब्
अकारणे च विक्रोष्टा चण्डालश् चोत्तमान् स्पृशेत् ॥ २.२३४च्द् ॥
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः । २.२३५अब्
अयुक्तं शपथं कुर्वन्न् अयोग्यो योग्यकर्मकृत् ॥ २.२३५च्द् ॥
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् । २.२३६अब्
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ २.२३६च्द् ॥
पितृपुत्रस्वसृभ्रातृदंपत्याचार्यशिष्यकाः । २.२३७अब्
एषाम् अपतितान्योन्यत्यागी च शतदण्डभाक् ॥ २.२३७च्द् ॥

नियोगं विना यः स्वेच्छया विधवां गच्छति। चौरादिभयाकुलैर् विक्रुष्टे च यः शक्तो ऽपि नाभिधावति, यश् च वृठाक्रोषं करोति, यश् च चण्डालो ब्राह्मणादीन् स्पृशति, यश् च शूद्रप्रव्रजितान् दिगम्बरादीन् दैवे पित्र्ये च कर्मणि भोजयति, यश् चायुक्तं “मातरं गमिष्यामि” इत्य् एवं शपथं करोति, तथा यश् च अयोग्य एव शूद्रादियोग्यकर्माध्ययनादि करोति, वृषो बलीवर्दः क्षुद्रपशवो ऽजादयस् तेषां पुंस्त्वस्य प्रजननशक्तेर् विनाशकः, वृक्षक्षुद्रपशूनाम् इति पाठे हिंग्वाद्यौषधप्रयोगेण वृक्षादेः फलप्रसूनानां पातयिता, साधारणम् अपलपति साधारणद्रव्यस्य च वञ्चकः, दासीगर्भस्य च पातयिता, ये च पित्रादयो ऽपतिता एव सन्तो ऽन्योन्यं त्यजन्ति, ते सर्वे प्रत्येकं पणशतं दण्डार्हा भवन्ति ॥ २.२३४-२३७ ॥

इति साहसप्रकरणम् ॥

साहसप्रसङ्गात् तत्सदृशापराधेषु निर्णेजकादीनां दण्डम् आह ।

वसानस् त्रीन् पणान् दण्ड्यो नेजकस् तु परांशुकम् । २.२३८अब्
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ २.२३८च्द् ॥

नेजको वस्त्रस्य धावकः, स यदि निर्णेजनार्थं समर्पितानि वासांसि स्वयम् आच्छादयति तदासौ पणत्रयं दण्ड्यः । यः पुनस् तानि विक्रीणीते अवक्रयं वा “एतावत् कालम् उपभोगार्थं वस्त्रं दीयते मह्यम् एतावद् धनं देयम्” इत्य् एवं भाटकेन यो ददाति, आधित्वं वा नयति, स्वसुहृद्भ्यो याचितं वा ददाति, असौ प्रत्यपराधं दशपणान् दण्डनीयः । तानि च वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनीयानि न पाषाणे न च व्यत्यसनीयानि न च स्वगृहे वासयितव्यानि, इतरथा दण्ड्यः,

शाल्मलीफलके श्लक्ष्णे निज्याद् वासांसि नेजकः ।
न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ॥ (म्ध् ८.३९६)

इति मनुस्मरणात् ॥ यदा पुनः प्रमादात् तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम् ।

मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः ।
द्विः पादस् त्रिस् तृतीयां शश् चतुर्धौते ऽर्धम् एव च ॥
अर्धक्षयात् तु परतः पादांशापचयः क्रमात् ।
यावत् क्षीणदशं जीर्णं जीर्णस्यानियमः क्षयः ॥ इति । (न्स्म् ९.८–९)

अष्टपणक्रीतस्य सकृद्धौतस्य वस्त्रस्य नाशितस्याष्टमभागपणोनं मूल्यं देयम् । द्विर्धौतस्य तु पादोनं पणद्वयोनं त्रिर्धौतस्य पुनस् तृतीयांशन्यूनम् । चतुर्धौतस्यार्धं पणचतुष्टयं देयम् । ततः परं प्रतिनिर्णेजनम् अवशिष्टं मूल्यं पादपादापचयेन देयम् । यावज् जीर्णस्य पुनर् नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २.२३८ ॥

पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः । २.२३९अब्
अन्तरे च तयोर् यः स्यात् तस्याप्य् अष्टगुणो दमः ॥ २.२३९च्द् ॥

पितापुत्रयोः कलहे यः साक्ष्यम् अङ्गीकरोति न पुनः कलहं निवारयत्य् असौ पणत्रयं दण्ड्यः । यश् च तयोः सपणे विवादे पणदाने प्रतिभूर् भवत्य् असौ चकारात् तयोर् यः कलहं वर्धयति सो ऽपि त्रिपणाद् अष्टगुणं चतुर्विंशतिपणान् दण्डनीयः । दम्पत्यादिष्वयम् एव दण्डो ऽनुसरणीयः ॥ २.२३९ ॥

तुलाशासनमानानां कूटकृन् नाणकस्य च । २.२४०अब्
एभिश् च व्यवहर्ता यः स दाप्यो दमम् उत्तमम् ॥ २.२४०च्द् ॥

तुला तोलनदण्डः । शासनं पूर्वोक्तम् । मानं प्रस्थद्रोणादि । नाणकं मुद्रादिचिह्नितं द्रम्मनिष्कादि । एतेषां यः कूटकृत् देशप्रसिद्धपरिमाणाद् अन्यथा न्यूनत्वम् आधिक्यं वा द्रम्मादेर् अव्यवहारिकमुद्रात्वं ताम्रादिगर्भत्वं वा करोति यश् च तैः कूटैर् जानन् अपि व्यवहरति ताव् उभौ प्रत्येकम् उत्तमसाहसं दण्डनीयौ ॥ २.२४० ॥

नाणकपरीक्षिणं प्रत्य् आह ।

अकूटं कूटकं ब्रूते कूटं यश् चाप्य् अकूटकम् । २.२४१अब्
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥ २.२४१च्द् ॥

यः पुनर् नाणकपरीक्षी ताम्रादिगर्भम् एव द्रम्मादिकं सम्यग् इति ब्रूते सम्यक् वा कूटकम् इत्य् असाव् उत्तमसाहसं दण्ड्यः ॥ २.२४१ ॥

चिकित्सकं प्रत्य् आह ।

भिषङ् मिथ्याचरन् दण्ड्यस् तिर्यक्षु प्रथमं दमम् । २.२४२अब्
मानुषे मध्यमं राजपुरुषेषूत्तमं दमम् ॥ २.२४२च्द् ॥

यः पुनर् भिषक् मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थं चिकित्सितज्ञो ऽहम् इति तिर्यङ्मनुष्यराजपुरुषेषु चिकित्साम् आचरत्य् असौ यथाक्रमेण प्रथममध्यमोत्तमसाहसान् दण्डनीयः । तत्रापि तिर्यगादिषु मूल्यविशेषेण वर्णविशेषेण राजप्रत्यासत्तिविशेषेण दण्डानां लघुगुरुभावः कल्पनीयः ॥ २.२४२ ॥

अबन्ध्यं यश् च बध्नाति बद्धं यश् च प्रमुञ्चति । २.२४३अब्
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम् ॥ २.२४३च्द् ॥

यः पुनर् बन्धनानर्हम् अनपराधिनं राजाज्ञया विना बध्नाति । यश् च बद्धं व्यवहारार्थम् आहूतं अनिवृत्तव्यवहारं चोत्सृजत्य् असौ उत्तमसाहसं दाप्यः ॥ २.२४३ ॥

मानेन तुलया वापि यो ऽंशम् अष्टमकं हरेत् । २.२४४अब्
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ २.२४४च्द् ॥

यः पुनर् वणिक् व्रीहिकार्पासादेः पण्यस्याष्टमम् अंशं कूटमानेन कूटतुलया वा अन्यथापहरत्य् असौ पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर् वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये ॥ २.२४४ ॥

भेषजस्नेहलवणगन्धधान्यगुडादिषु । २.२४५अब्
पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस् तु षोडश ॥ २.२४५च्द् ॥

भेषजम् औषधद्रव्यम् । स्नेहो घृतादिः । लवणं प्रसिद्धम् । गन्धद्रव्यम् उशीरादि । धान्यगुडौ प्रसिद्धौ । आदिशब्दाद् धिङ्गुमरीचादि । एतेष्व् असारद्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः ॥ २.२४५ ॥

किं च ।

मृच्चर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् । २.२४६अब्
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ २.२४६च्द् ॥

न विद्यते बहुमूल्या जातिर् यस्मिन् मृच्चर्मादिके तद् अजाति, तस्मिन् जातिकरणे विक्रयार्थं गन्धवर्णरसान्तरसंचारणेन बहूमूल्यजातीयसादृश्यसंपादनेन । यथा मल्लिकामोदसंचारेण मृत्तिकायां सुगन्धामलकम् इति । मार्जारचर्मणि वर्णोत्कर्षापादनेन व्याघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग इति । कार्पासिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रम् इति । कालायसे वर्णोत्कर्षाधानेन रजतम् इति । बिल्वकाष्टे चन्दनामोदसंचारेण चन्दनम् इति । कङ्कोले त्वगाख्यं लवङ्गम् इति । कार्पासिके वाससि गुणोत्कर्षाधनेन कौशेयम् इति । विक्रेयस्यापादितसादृश्यमृच्चर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥ २.२४६

समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् । २.२४७अब्
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ २.२४७च्द् ॥
भिन्ने पणे च पञ्चाशत् पणे तु शतम् उच्यते । २.२४८अब्
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ २.२४८च्द् ॥

मुद्गं पिधानं मुद्गेन सह वर्तत इति समुद्गं करण्डकं परिवर्तनं व्यत्यासः । यो ऽन्यद् एव मुक्तानां पूर्णं करण्डकं दर्शयित्वा हस्तलाघवेनान्यद् एव स्फटिकानां पूर्णं करण्डकं समर्पयति यश् च सारभाण्डकं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयम् आधिं वा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेर् मूल्यभूते पणे भिन्ने न्यूने । न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनः शतम् । द्विपणमूल्ये द्विशतो दण्ड इत्य् एवं मूल्यवृद्धौ दण्डवृद्धिर् उन्नेया ॥ २.२४७ ॥ २.२४८ ॥

वणिजः प्रत्य् आह ।

सम्भूय कुर्वताम् अर्घं सबाधं कारुशिल्पिनाम् । २.२४९अब्
अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः ॥ २.२४९च्द् ॥

राजनिरूपितार्घस्य ह्रासं वृद्धिं वा जानन्तो ऽपि वणिजः संभूय मिलित्वा कारूणां रजकादीनां शिल्पिनां चित्रकारादीनां सबाधं पीडाकरम् अर्घान्तरं लाभलोभात् कुर्वन्तः पणसहस्रं दण्डनीयाः ॥ २.२४९ ॥

किं च ।

सम्भूय वणिजां पण्यम् अनर्घेणोपरुन्धताम् । २.२५०अब्
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ २.२५०च्द् ॥

ये पुनर् वणिजो मिलित्वा देशान्तराद् आगतं पण्यम् अनर्घेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति महार्घेण वा विक्रीणते तेषाम् उत्तमसाहसो दण्डो विहितो मन्वादिभिः ॥ २.२५० ॥

केन पुनर् अर्घेण पणितव्यम् इत्य् अत आह ।

राजनि स्थाप्यते यो ऽर्घः प्रत्यहं तेन विक्रयः । २.२५१अब्
क्रयो वा निःस्रवस् तस्माद् वणिजां लाभकृत् स्मृतः ॥ २.२५१च्द् ॥

राजनि संनिहिते सति यस् तेनार्घः स्थाप्यते निरूप्यते तेनार्घेण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गतः स्रवो निःस्रवो विशेषस् तस्माद् राजनिरूपितार्घाद् यो निःस्रवः स एव वणिजां लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् । मनुना चार्घकरणे विशेषो दर्शितः ।

पञ्चरात्रे पञ्चरात्रे पक्षे मासे तथा गते ।
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥ इति ॥ (म्ध् ८.४०२) २.२५१ ॥

किं च ।

स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् । २.२५२अब्
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ २.२५२च्द् ॥

स्वदेशप्राप्तं पण्यं गृहीत्वा यो विक्रीणीते असौ पञ्चकं शतं पणशते पणपञ्चकं लाभं गृह्नीयात् । परदेशात् प्राप्ते पुनः पण्ये शतपणमूल्ये दशपणांल् लाभं गृह्नीयात् । यस्य पणस्य ग्रहणदिवस एव विक्रयः संपद्यते । यः पुनः कालानन्तरे विक्रीणीते तस्य कालोत्कर्षवशाल् लाभोत्कर्षः कल्प्यः । एवं च यथार्घे निरुपिते पणशते पञ्चपणो लाभो भवति तथैवार्घो राज्ञा स्वदेशपण्यविषये स्थापनीयः ॥ २.२५२ ॥

पारदेश्यपण्ये ऽर्घनिरूपणप्रकारम् आह ।

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । २.२५३अब्
अर्घो ऽनुग्रहकृत् कार्यः क्रेतुर् विक्रेतुर् एव च ॥ २.२५३च्द् ॥

देशान्तराद् आगते पण्ये देशान्तरगमनप्रत्यागमनभाण्डग्रहणशुल्कादिस्थानेषु यावान् उपयुक्तो ऽर्थस् तावन्तम् अर्थं परिगणय्य पण्यमूल्येन सह मेलयित्वा यथा पणशते दशपणो लाभः संपद्यते तथा क्रेतृविक्रेत्रोर् अनुग्रहकार्य् अर्घो राज्ञा स्थापनीयः ॥ २.२५३ ॥

**इति साहसे प्रासङ्गिकप्रकरणम् **