१९ दण्ड-पारुष्य-प्रकरणम्

अथ दण्डपारुष्यप्रकरणम्

संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम् ।

परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश् चोपघातो दण्डपारुष्यम् उच्यते ॥ इति । (न्स्म् १५–१६.४)

परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैर् आदिग्रहणाद् ग्रावादिभिर् यो ऽभिद्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद् रजःपङ्कपुरीषाद्यैश् च य उपह्गातः संस्पर्शनरूपं मनोदुःखोत्पादनं तद् उभयं दण्डपारुष्यम् । दण्ड्यते ऽनेनेति दण्डो देयस् तेन यत् पारुष्यं विरुद्धाचरणं जङ्गमादेर् द्रव्यस्य तद् दण्डपारुष्यम् । तस्य चावगोरणादिकारणभेदेन त्रैविद्यम् अभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्मत्रैविद्यात् पुनस् त्रैविद्यं तेनैवोक्तम् ।

तस्यापि दृष्टं त्रैविद्यं हीनमध्योत्तमक्रमात् ।
अवगोरणनिःसङ्गपातनक्षतदर्शनैः ॥
हीनमध्योत्तमानां च द्रव्याणां समतिक्रमात् ।
त्रीण्य् एव साहसान्य् आहुस् तत्र कण्टकशोधनम् ॥ इति । (न्स्म् १५–१६.५–६)

निःसङ्गपातनं निःशङ्गप्रहरणं । त्रीण्य् एव साहसानि त्रिपकाराण्य् एव । सहसा कृतानि दण्डपारुष्याणीत्य् अर्थः । तथा वाग्दण्डपारुष्ययोर् उभयोर् अपि द्वयोः प्रवृत्तकलहयोर् मध्ये यः क्षमते तस्य न केवलं दण्डाभावः किं तु पूज्य एव । तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुर् एव दण्डभाक्त्वम् । तथा तयोर् द्वयोर् अपराधविशेषापरिज्ञाने दण्डः समः । तथा श्वपचादिभिर् आर्याणाम् अपराधे कृते सज्जना एव दण्डदापने ऽधिकारिणः, तेषाम् अशक्यत्वे तान् राजा घातयेद् एव, नार्थं गृह्नीयाद् इत्य् एवं पञ्च प्रकारा विधयस् तेनैवोक्ताः ।

विधिः पञ्चविधस् तूक्त एतयोर् उभयोर् अपि ।
पारुष्ये सति संरम्भाद् उत्पन्ने क्रुद्धयोर् द्वयोः ॥
स मन्यते यः क्षमते दण्डभाग्यो ऽतिवर्तते ।
पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ॥
पञ्चाद्यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ।
द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुनः ॥
स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वेतरः ।
पारुष्यदोषावृतयोर् युगपत्संप्रवृत्तयोः ॥
विशेषश् चेन् न लक्ष्यते विनयः स्यात् समस्तयोः ।
श्वपाकषण्डचण्डालव्यङ्गेषु वधवृत्तिषु ॥
हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च ।
मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥
यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जनं नृषु ।
स एव विनयं कुर्यान् नूनं विनयभाङ् नृपः ॥
मला ह्य् एते मनुष्याणां धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ इति ॥ (न्स्म् १५–१६.७–१५)

एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वाद् दण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णयहेतुम् आह ।

असाक्षिकहते चिह्नैर् युक्तिभिश् चागमेन च । २.२१२अब्
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृतो भयात् ॥ २.२१२च्द् ॥

यदा कश्चिद् रहस्य् अहम् अनेन हत इति राज्ञे निवेदयति तदा चिह्नैर् वर्णादिस्वरूपगतैर् लिङ्गैर् युक्त्या कारणप्रयोजनपर्यालोचनात्मिकया आगमेन जनप्रवादेन चशब्दाद् दिव्येन वा कूटचिह्नकृतसंभावनाभयात् परीक्षा कार्या ॥ २.२१२ ॥

एवं निश्चिते साधनविशेषेण दण्डविशेषम् आह ।

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । २.२१३अब्
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणस् ततः ॥ २.२१३च्द् ॥
समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च । २.२१४अब्
हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् ॥ २.२१४च्द् ॥

भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्य् असौ दशपणं दण्डं दाप्यः । अमेध्यम् इत्य् अश्रुश्लेष्मनखकेशकर्णविट्दूषिकाभुक्तोच्छिष्टादिकं च गृह्यते । पार्ष्णिः पादस्य पश्चिमो भागः । निष्ठ्यूतं मुखनिःसारितं जलम् । तैः स्पर्शने ततः पूर्वाद् दशपणाद् द्विगुणो विंशतिपणो दण्डो वेदितव्यः ॥ पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः ।

छर्दिमूत्रपुरीषाद्यैर् आपाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान् मूर्घ्नि त्व् अष्टगुणः स्मृतः ॥ इति । (क्स्म् ७८४)

आद्यग्रहणाद् वसाशुक्रासृङ्मज्जानो गृह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः, परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाधिकश्रुतवृत्तेषु पूर्वोक्ताद् दशपणाद् विंशतिपणाच् च दण्डाद् द्विगुणो दण्डो वेदितव्यः । हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः पञ्चपणो दशपणश् च वेदितव्यः । मोहश् चित्तवैकल्यम् । मदो मद्यपानजन्यो ऽवस्थाविशेषः । आदिग्रहणाद् ग्रहावेशादिकम् । एतैर् युक्तेन भस्मादिस्पर्शने कृते ऽपि दण्डो न कर्तव्यः ॥ २.२१३ ॥ २.२१४ ॥

प्रातिलोम्यापराधे दण्डम् आह ।

विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु । २.२१५अब्
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २.२१५च्द् ॥

ब्राह्मणानां पीडाकरम् अब्राह्मणस्य क्षत्रियादेर् यद् अङ्गं करचरणादिकं तच् छेत्तव्यम् । क्षत्रियवैश्ययोर् अपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनम् एव ।

येन केनचिद् अङ्गेन हिंस्याच् छ्रेयांसम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥ इति । (म्ध् ८.२७९)

द्विजातिमात्रस्यापराधे शूद्रस्याण्गच्छेदविधानाद् वैश्यस्यापि क्षत्रियापकारिणो ऽयम् एव दण्डस् तुल्यन्यायत्वात् । उद्गूर्णे वधार्थम् उद्यते शस्त्रादिके प्रथमसाहसो दण्डो वेदितव्यः । शूद्रस्य पुनर् उद्गूर्णे ऽपि हस्तादिच्छेदनम् एव,

पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति । (म्ध् ८.२८०)

इति मनुस्मरणात् ॥ उद्गूरणार्थं शस्त्रादिस्पर्शने तु तदर्धिकः प्रथमसाहसाद् अर्धदण्डो वेदितव्यः ॥ भस्मादिसंस्पर्शे पुनः क्षत्रियवैश्ययोः “प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः” (य्ध् २.२०७) इति वाक्पारुष्योक्तन्यायेन कल्पयम् । शूद्रस्य तत्रापि हस्तच्छेद एव,

अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥ (म्ध् ८.२८२)

इति मनुस्मरणात् ॥ २.२१४ ॥

एवं प्रातिलोम्यापराधे दण्डम् अभिधाय, पुनः सजातिम् अधिकृत्याह ।

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ । २.२१६अब्
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २.२१६च्द् ॥

हस्ते पादे वा ताडनार्थम् उद्गूर्णे यथाक्रमं दशपणो विंशतिपणश् च दण्डो वेदितव्यः । परस्परवधार्थं शास्त्रे उद्गूर्णे सर्वेषां वर्णिनां मध्यमसाहसो दण्डः ॥ २.२१६ ॥

किं च ।

पादकेशांशुककरोल्लुञ्चनेषु पणान् दश । २.२१७अब्
पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥ २.२१७च्द् ॥

पादकेशवस्त्रकराणाम् अन्यतमं गृहीत्वा य उल्लुञ्चति झटित्य् आकर्षयत्य् असौ दशपणान् दण्ड्यः । पीडा च कर्षश् चांशुकावेष्टश् च पादाध्यासश् च पीडाकर्षांशुकावेष्टपादाध्यासं तस्मिन् समुच्चिते शतं दण्ड्यः । एतद् उक्तं भवति । अंशुकेनावेष्ट्य गाढम् आपीड्याकृष्य च यः पादेन घट्टयति तं शतं पणान् दापयेद् इति ॥ २.२१७ ॥

किं च ।

शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर् नरः । २.२१८अब्
द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शने ऽसृजः ॥ २.२१८च्द् ॥

यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्टलोष्टादिभिः करोत्य् असौ द्वात्रिंशतं पणान् दण्ड्यः ॥ यदा पुनर् गाढताडनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्टिपणान् दण्डनीयः । त्वङ्मांसास्थिभेदे पुनर् विशेषो मनुना दर्शितः ।

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्निष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥ इति ॥ (म्ध् ८.२८४) २.२१८ ॥

किं च ।

करपाददतो भङ्गे छेदने कर्णनासयोः । २.२१९अब्
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २.२१९च्द् ॥

करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च प्रत्येकं छेदने रूढव्रणस्योद्भेदने मृतकल्पो यथा भवति तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादिना विषयस्य साम्यमत्रापादनीयम् ॥ २.२१९ ॥

किं च ।

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । २.२२०अब्
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥ २.२२०च्द् ॥

गमनभोजनभाषणनिरोधे नेत्रस्य आदिग्रहणाज् जिह्वायाश् च प्रतिभेदने । कन्धरा ग्रीवा, बाहुः प्रसिद्धः, सक्थि ऊरुस् तेषां प्रत्येकं भञ्जने मध्यमसाहसो दण्डः ॥ २.२२० ॥

अपि च ।

एकं घ्नतां बहूनां च यथोक्ताद् द्विगुणो दमः । २.२२१अब्

यदा पुनर् बहवो मिलिता एकस्याङ्गभङ्गादिकं कुर्वन्ति तदा यस्मिन् यस्मिन् अपराधे यो यो दण्ड उक्तस् तत्र तस्माद् द्विगुणो दण्डः प्रत्येकं वेदितव्यः । अतिक्रूरत्वात् तेषां प्रातिलोम्यानुलोम्यापराधयोर् अप्य् एतस्यैव सवर्णविषये ऽभिहितस्य दण्डजातस्य वाक्पारुष्योक्तक्रमेण हानिं वृद्धिं च कल्पयेत्,

वाक्पारुष्ये य एवोक्तः प्रतिलोम्यानुलोमतः ।
स एव दण्डपारुष्ये दाप्यो राज्ञा यथाक्रमम् ॥ (क्स्म् ७८६)

इति स्मरणात् ॥

किं च ।

कलहापहृतं देयं दण्डश् च द्विगुणस् ततः ॥ २.२२१च्द् ॥

कलहे वर्तमाने यद् येनापहृतं तत् तेन प्रत्यर्पणीयम् । अपहृतद्रव्याद् द्विगुणश् चापहारनिमित्तो दण्डो देयः ॥ २.२२१ ॥

किं च ।

दुःखम् उत्पादयेद् यस् तु स समुत्थानजं व्ययम् । २.२२२अब्
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ २.२२२च्द् ॥

यो यस्य ताडनाद् दुःखम् उत्पादयेत् स तस्य व्रणरोपणादौ औषधार्थं पथ्यार्थं च यो व्ययः क्रियते तं दद्यात् । समुत्थानं व्रणरोपणम् । यस्मिन् कलहे यो दण्डस् तं च दद्यान् न पुनः समुत्थानजव्ययमात्रम् ॥ २.२२२ ॥

परगात्राभिद्रोहे दण्डम् उक्त्वानन्तरं बहिरङ्गार्थनाशे दण्डम् आह ।

अभिघाते तथा छेदे भेदे कुड्यावपातने । २.२२३अब्
पणान् दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥ २.२२३च्द् ॥

मुद्गरादिना कुड्यस्याभिघाते विदारणे द्विधाकरणे च यथाक्रमं पञ्चपणो दशपणो विंशतिपणश् च दण्डो वेदितव्यः । अवपातने पुनः कुड्यस्यैते त्रयो दण्डाः समुच्चिता ग्राह्याः । पुनः कुड्यसंपादनार्थं च धनं स्वामिने दद्यात् ॥ २.२२३ ॥

अपि च ।

दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा । २.२२४अब्
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥ २.२२४च्द् ॥

परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन् षोडशपणान् दण्ड्यः । प्राणहरं पुनर् विषभुजङ्गादिकं प्रक्षिपन् मध्यमसाहसं दण्ड्यः ॥ २.२२४ ॥

पश्वभिद्रोहे दण्डम् आह ।

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा । २.२२५अब्
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २.२२५च्द् ॥

क्षुद्राणां पशुनाम् अजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्स्त्रावणे शाखाङ्गच्छेदने, शाखाशब्देन चात्र प्राणसंचाररहितं शृङ्गादिकं लक्ष्यते, अङ्गानि करचरणप्रभृतीनि, शाखा चाङ्गं च शाखाङ्गं, तस्य छेदने द्विपणप्रभृतिर्दण्डः । द्वौ पणौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिर् आदिर् यस्य दण्डगणस्यासौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश् चतुःपणः षट्पणो ऽष्टपण इत्येवंरूपो न पुनर् द्विपणस् त्रिपणश् चतुष्पणः पञ्चपण इति । कथम् इति चेद्, उच्यते । अपराधगुरुत्वात् तावत् प्रथमदण्डाद् गुरुतरम् उपरितनं दण्डत्रितयम् अवगम्यते । तत्र चाश्रुतत्रित्वादिसंख्याश्रयणाद् वरं श्रुतिद्विसंख्याया एवाभ्यासाश्रयणेन गुरुत्वसंपादनम् इति निरवद्यम् ॥ २.२२४ ॥

किं च ।

ल्इङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च । २.२२६अब्**
महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥ २.२२६च्द् ॥

तेषां क्षुद्रपशूनं लिङ्गछेदने मरणे च मध्यमसाहसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापशूनां पुनर् गोगजवाजिप्रभृतीनाम् एतेषु स्थानेषु ताडनलोहितस्रावणादिषु निमित्तेषु पूर्वोक्ताद् दण्डाद् द्विगुणो दण्डो वेदितव्यः ॥ २.२२६ ॥

स्थावराभिद्रोहे दण्डम् आह ।

प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे । २.२२७अब्
उपजीव्यद्रुमाणां च विंशतेर् द्विगुणो दमः ॥ २.२२७च्द् ॥

प्ररोहा अङ्कुरास् तद्वन्त्यः शाखाः प्ररोहिण्यः याश् छिन्नाः पुनर् उप्ताः प्रतिकाण्डं प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखिनस् तेषां शाखाच्छेदने । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस् तस्य छेदने समूलवृक्षच्छेदने च यथाक्रमं विंशतिपणदण्डाद् आरभ्य पूर्वस्मात् पूर्वस्माद् उत्तरोत्तरो दण्डो द्विगुणः । एतद् उक्तं भवति । विंशतिपणश् चत्वारिंशत्पणो ऽशीतिपण इत्य् एवं त्रयो दण्डा यथाक्रमं शाखाच्छेदनादिष्व् अपराधेषु भवन्तीति । अप्ररोहिशाखिनाम् अप्य् उपजीव्यवृक्षाणाम् आम्रादीनां पूर्वोक्तेषु स्थानेषु पूर्वोक्ता एव दण्डा अनुपजीव्याप्ररोहिशाखिषु पुनर् वृक्षेषु कल्प्याः ॥ २.२२७ ॥

वृक्षविशेषं प्रत्य् आह ।

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । २.२२८अब्
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २.२२८च्द् ॥

चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद् दण्डाद् द्विगुणः । विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २.२२८ ॥

गुल्मादीन् प्रत्य् आह ।

गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् । २.२२९अब्
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २.२२९च्द् ॥

गुल्मा अनतिदीर्गनिबिडलता मालत्यादयः । गुच्छा अवल्लीरूपा असरलप्रायाः कुरण्टकादयः । क्षुपाः करवीरादयः सरलप्रायाः । लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः । प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृतयः । ओषध्यः फलपाकावसानाः शालिप्रभृतयः । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद् दण्डाद् अर्धदण्डो वेदितव्यः ॥ २.२२९ ॥

इति दण्डपारुष्यप्रकरणम्