१८ वाक्-पारुष्य-प्रकरणम्

अथ वाक्पारुष्यप्रकरणम्

इदानीं वाक्पारुष्यं प्रस्तूयते । तल्लक्षणं चोक्तं नारदेन ।

देशजातिकुलादीनाम् आक्रोशं न्यङ्गसंयुतम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते । इति । (न्स्म् १५–१६.१)

देशादीनाम् आक्रोशं न्यङ्गसंयुतम् । उच्चैर् भाषणम् आक्रोशः, न्यङ्गम् अवद्यं तदुभययुक्तं यत् प्रतिकूलार्थम् उद्वेगजननार्थं वाक्यं तद् वाक्पारुष्यं कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति जात्याक्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणात् स्वविद्याशिल्पादिनिन्दया विद्वच्छिल्पादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थं निष्ठुरादिभेदेन त्रैविध्यम् अभिधाय तल्लक्षणं तेनैवोक्तं ।

निष्ठुराश्लीलतीव्रत्वाद् अपि तत् त्रिविधं स्मृतम् ।
गौरवानुक्रमात् तस्य दण्डो ऽपि स्यात् क्रमाद् गुरुः ॥
साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् ।
पतनीयैर् उपाक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥ इति । (न्स्म् १५–१६.२–३)

तत्र धिङ् मूर्खं जाल्मम् इत्यादि साक्षेपम् । अत्र न्यङ्गम् इत्य् असभ्यम् । अवद्यं भगिन्यादिगमनं तद्युक्तम् अश्लीलम् । सुरापो ऽसीत्यादिमहापातकाद्याक्रोशैर् युक्तं वचस्तीव्रम् ॥

तत्र निष्ठुराक्रोशे सवर्णविषये दण्डम् आह ।

सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम् । २.२०४अब्
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान् ॥ २.२०४च्द् ॥

न्यूनाङ्गाः करचरणादिविकलाः । न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः । रोगिणो दुश्चर्मप्रभृतयः । तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । यत्र नेत्रयुगलहीन एषो ऽन्ध इत्य् उच्यते तत् सत्यम् । यत्र पुनश् चक्षुष्मान् एवान्ध इत्य् उच्यते तद् असत्यम् । यत्र विकृताकृतिर् एव दर्शनीयस् त्वम् असीत्य् उच्यते तद् अन्यथास्तोत्रम् । एवंविधैर् यः क्षेपं निर्भर्त्सनं करोत्य् असौ अर्धाधिकत्रयोदशपणान् दण्डनीयः ।

काणं वाप्य् अथवा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ (म्ध् ८.२७४)

इति यन् मनुवचनं तद् अतिदुर्वृत्तवर्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनैवोक्तम् ।

मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।
आक्षारयञ् शतं दाप्यः पन्थानं चाददद् गुरोः ॥ इति । (म्ध् ८.२७५)

एत च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २.२०४ ॥

अश्लीलाक्षेपे दण्डम् आह ।

अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । २.२०५अब्
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥ २.२०५च्द् ॥

“त्वदीयां भगिनीं मातरं वा अभिगन्तास्मि” इति शपन्तं अन्यां वा त्वज्जायाम् अभिगन्तेत्य् एवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर् यस्मिन् दण्डे स तथोक्तस् तं दमं दापयेत् ॥ २.२०५ ॥

एवं समानगुणेषु वर्णिषु दण्डम् अभिधाय विषमगुणेषु दण्डं प्रतिपादयितुम् आह ।

अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । २.२०६अब्

अधमेष्व् आक्षेप्त्रापेषया न्यूनवृत्तादिगुणेष्व् अर्धो दण्डः । पूर्ववाक्ये पञ्चविंशतेः प्रकृतत्वात् तदपेक्षार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनर् अविशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः । तथोत्तमेषु च स्वापेक्षयाधिकश्रुतवृत्तेषु दण्डः पञ्चाशत्पणात्मक एव ॥

वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनाम् आह ।

**दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २.२०६च्द् ॥ **

वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्ताद्याः । वर्णाश् च जातयश् च वर्णजातयः । उत्तराश् च अधराश् च उत्तराधराः, वर्णजातयश् च ते उत्तराधराश् च वर्णजात्युत्तराधराः, तैः वर्णजात्युत्तराधरैः परस्परम् आक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनम् ऊहनं वेदितव्यम् । तच् च दण्डकल्पनम् उत्तराधरैर् इति विशेषेणोपादानाद् उत्तराधरभावापेक्षयैव कर्तव्यम् इत्य् अवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद् धीनं क्षत्रियाद् उत्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात् प्रञ्चाशत्पणदण्डात् किंचिदधिकं पञ्च सप्तत्यात्मकं दण्डम् अर्हति, क्षत्रियो ऽपि तम् आक्रुश्य ब्राह्मणाक्षेपनिमित्ताच् छतदण्डाधीनं पञ्चसप्ततिम् एव दण्डम् अर्हति । मूर्धावसिक्तो ऽपि ताव् आक्रुश्य तम् एव दण्डम् अर्हति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तकौ यथाक्रमेण दण्डौ वेदितव्यौ । एवम् अन्यत्राप्य् ऊहनीयम् ॥ २.२०६ ॥

एवं सवर्णविषये दण्डम् अभिधाय वर्णानाम् एव प्रतिलोमानुलोमाक्षेपे दण्डम् आह ।

प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । २.२०७अब्
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ २.२०७च्द् ॥

अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादास् तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर् यथाक्रमेण पूर्ववाक्याद् द्विगुणपदोपात्तपञ्चाशत्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा भवति । यथाह मनुः ।

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽध्यर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ इति । (म्ध् ८.२६७)

विट्शूद्रयोर् अपि क्षत्रियाद् अनन्तरैकान्तरयोस् तुल्यन्यायतया शतम् अध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य च वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविट्शूद्राणां ब्राह्मणेनाक्रोशे कृते तस्माद् ब्राह्मणाक्रोशनिमित्ताच् छतपरिमितात् क्षत्रियदण्डात् प्रतिवर्णम् अर्धस्यार्धस्य हानिं कृत्वावशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तद् उक्तं मनुना ।

पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ इति ॥ (म्ध् ८.२६८)

क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथाक्रमं पञ्चाशत्पञ्चविंशतिकौ दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशद् इत्य् ऊहनीयम्, “ब्राह्मणराजन्यवत् क्षत्रियवैश्ययोः” (ग्ध् १२.१४) इति गौतमस्मरणात्, “विट्शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः” (म्ध् ८.२७७) इति मनुस्मरणाच् च ॥ २.२०७ ॥

पुनर् निष्टुराक्षेपम् अधिकृत्याह ।

बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । २.२०८अब्
शत्यस् तदर्धिकः पादनासाकर्णकरादिषु ॥ २.२०८च्द् ॥

बाह्वादीनां प्रत्येकं विनाशे वाचिके वाचा प्रतिपादिते “तव बाहू छिनद्मि” इत्य् एवंरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरादिषु आदिग्रहणात् स्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्धं तदर्धं तद् यस्यास्त्य् असौ तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २.२०८ ॥

किं च ।

अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश । २.२०९अब्
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २.२०९च्द् ॥

यः पुनर् ज्वरादिना क्षीणशक्तिस् “त्वद्बाह्वाद्यङ्गभङ्गं करोमि” इत्य् एवं शपत्य् असौ दश पणान् दण्डनीयः । यः पुनः समर्थः क्षीणशक्तिं पूर्ववद् आक्षिपत्य् असौ पूर्वोक्तशतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थं प्रतिभुवं दापनीयः ॥ २.२०९ ॥

तीव्राक्रोशे दण्डम् आह ।

पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । २.२१०अब्
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २.२१०च्द् ॥

पातित्यहेतुभिर् ब्रह्महत्यादिभिर् वर्णिनाम् आक्षेपे कृते मध्यमसाहसं दण्डः । उपपातकसंयुक्ते पुनर् गोघ्नस्त्वम् असीत्य् एवमादिरूपे क्षेपे प्रथमसाहसं दण्डनीयः ॥ २.२१० ॥

किं च ।

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । २.२११अब्
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २.२११च्द् ॥

त्रैविद्याः वेदत्रयसंपन्नास् तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर् ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास् तेषाम् आक्षेपे मध्यमसाहसो दण्डः । ग्रामदेशयोः प्रत्येकम् आक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥ २.२११ ॥

**इति वाक्पारुष्यं नाम विवादपदप्रकरणम् **