१७ द्यूत-समाह्वय-प्रकरणम्

अथ द्यूतसमाह्वयप्रकरणम्

अधुना द्यूतसमाह्वयाख्यं विवादपदम् अधिक्रियते । तत्स्वरूपं च नारदेनाभिहितम् ।

अक्षवध्रशलाकाद्यैर् देवनं जिह्मकारितम् ।
पणक्रीडावयोभिश् च पदं द्यूतसमाह्वयम् ॥ इति । (न्स्म् १७.१)

अक्षाः पाशकाः । वध्रश् चर्मपट्टिका । शलाका दन्तादिमय्यो दीर्घचतुरस्राः । आद्यग्रहणाच् च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैर् अप्राणिभिर् यद् देवनं क्रीडा पणपूर्विका क्रियते, तथा वयोभिः पक्षभिः कुक्कुटपारावतादिभिः च शब्दान् मल्लमेषमहिषादिभिश् च प्राणिभिर् या पणपूर्विका क्रीडा क्रियते, तद् उभयं यथाक्रमेण द्यूतसमाह्वयाख्यं विवादपदम् । द्यूतं च समाह्वयश् च द्यूतसमाह्वयम् । तद् उक्तम् मनुना ।

अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियमाणस् तु स विज्ञेयः समाह्वयः ॥ इति ॥ (म्ध् ९.२२३)

तत्र द्यूतसभाधिकारिणो वृत्तिम् आह ।

ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम् । २.१९९अब्
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम् ॥ २.१९९च्द् ॥

परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्य् उच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तद् अधिकपरिमाणा वा व्र्द्धिर् यस्यासौ शतिकवृद्धिस् तस्माद् धूर्तकितवात् पञ्चकं शतम् आत्मवृत्त्यर्थं सभिको गृह्नीयात् । पञ्चपणा आयो यस्मिन् शते तत् पञ्चकं शतम् । “तद् अस्मिन् वृद्ध्यायलाभ-” (पाण् ५.१।४७) इत्यादिना कन् । जितग्लहस्य विंशतितमं भागं गृह्नीयाद् इत्य् अर्थः । सभा कितवनिवासार्था, यस्यास्त्य् असौ सभिकः । कल्पिताक्षादिनिखिलक्रीडोपकरणस् तदुपचितद्रव्योपजीवी सभापतिर् उच्यते । इतरस्मात् पुनर् अपि पूर्णशतिकवृद्धेः कितवाद् दशकं शतं जितद्रव्यस्य दशमं भागं गृह्नीयाद् इति यावत् ॥ २.१९९ ॥

एवं कॢप्तवृत्तिना सभिकेन किं कर्तव्यम् इत्य् आह ।

स सम्यक् पालितो दद्याद् राज्ञे भागं यथाकृतम् । २.२००अब्
जितम् उद्ग्राहयेज् जेत्रे दद्यात् सत्यं वचः क्षमी ॥ २.२००च्द् ॥

य एवं कॢप्तव्र्त्तिर् द्यूताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस् तस्मै राज्ञे यथा संप्रतिपन्नम् अंशं दद्यात् । तथा जितं यद् द्रव्यं तद् उद्ग्राहयेत् बन्धकग्रहणेनासेधादिना च पराजितसकाशाद् उद्धरेत् । उद्धृत्य च तद् धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थं द्यूतकारिणां दद्यात् । तद् उक्तं नरदेन ।

सभिकः कारयेद् द्यूतं देयं दद्याच् च तत्कृतम् इति । (न्स्म् १७.२) २.२०० ॥

यदा पुनः सभिको दापयितुं न शक्नोति तदा राजा दापयेद् इत्य् आह ।

प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । २.२०१अब्
जितं ससभिके स्थाने दापयेद् अन्यथा न तु ॥ २.२०१च्द् ॥

प्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवसमाजे सभिकेन च राजाभागे दत्ते राजा धूर्तकितवम् अविप्रतिपन्नं जितं पणं दापयेत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे द्यूते जितपणं जेत्रे न दापयेत् ॥ २.२०१ ॥

जयपराजयविप्रतिपत्तौ निर्णयोपायम् आह ।

द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि । २.२०२अब्

द्यूतव्यवहाराणां द्रष्टारः सभ्यास् त एव कितवा एव राज्ञा नियोक्तव्याः । न तत्र श्रुताध्ययनसंपन्ना इत्यादिर् नियमो ऽस्ति । साक्षिणश् च द्यूते द्यूतकारा एव कार्याः । न तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधो ऽस्ति ॥

क्वचिद् द्यूतं निषेद्धुं दण्डम् आह ।

राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ॥ २.२०२च्द् ॥

कूटैर् अक्षादिभिर् उपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान् निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्तः ।

कूटाक्षदेविनः पापान् राजा राष्ट्राद् विवासयेत् ।
कण्ठे ऽक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥ इति । (न्स्म् १७.६)

यानि च मनुवचनानि द्यूतनिषेधपराणि,

द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा ।
तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गितः ॥ (म्ध् ९.२२४)

इत्यादीनि तान्य् अपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया योज्यानि ॥ २.२०२ ॥

किं च ।

द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात् । २.२०३अब्

यत् पूर्वोक्तं द्यूतं तद् एकमुखं एकं मुखं प्रधानं यस्य द्यूतस्य तत् तथोक्तं कार्यम् । राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यम् इत्य् अर्थः, तस्करज्ञानकारणात् । तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायशश् चौर्यार्जितधना एव कितवा भवन्ति, अतश् चौरविज्ञानार्थम् एकमुखं कार्यम् ॥

द्यूतधर्मं समाह्वये ऽतिदिशन्न् आह ।

एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्वये ॥ २.२०३च्द् ॥

“ग्लहे शतिकवृद्धेः” (य्ध् २.१९९) इत्यादिना यो द्यूतधर्म उक्तः स एव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसंज्ञके ज्ञातव्यः ॥ २.२०३ ॥

**इति द्यूतसमाह्वयाख्यं प्रकरणम् **