१६ वेतनादान-प्रकरणम्

**अथ वेतनादानप्रकरणम् **

संप्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम् ।

भृत्यानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ इति । (न्स्म् ६.१)

अस्यार्थः- भृत्यानां वेतनस्य वक्ष्यमाणश्लोकैर् उक्तो दानादानविधिक्रमो यत्र विवादपदे तद् वेतनस्यानपाकर्मेत्य् उच्यते ।

तत्र निर्णयम् आह ।

गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् । २.१९३अब्
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ २.१९३च्द् ॥

गृहीतं वेतनं येनासौ स्वाङ्गीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृतिं स्वामिने दद्यात् । यदा पुनर् अभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं यावद् वेतनम् अभ्युपगतं तावाद् दाप्यो न द्विगुणम् । यद् वाङ्गीकृतां भृतिं दत्त्वा बलात् कारयितव्यः,

कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् । (न्स्म् ६.५)

इति नारदवचनात् । भृतिर् अपि तेनैवोक्ता ।

भृत्याय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् ।
आदौ मध्ये ऽवसाने वा कर्मणो यद् विनिश्चितम् ॥ इति । (न्स्म् ६.२)

तैश् च भृत्यैर् उपस्कर उपस्करणं लाङ्गलादीनां प्रग्रहयोक्त्रादिकं यथाशक्त्या रक्षणीयम्, इतरथा कृष्यादिनिष्पत्त्यनुपपत्तेः ॥ २.१९३ ॥

भृतिम् अपरिच्छिद्य यः कर्म कारयति तं प्रत्य् आह ।

दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः । २.१९४अब्
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥ २.१९४च्द् ॥

यस् तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनम् एव भृत्यं कर्म कारयति, स तस्माद् वाणिज्यपशुसस्यलक्षणात् कर्मणो यल् लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीयः ॥ २.१९४ ॥

अनाज्ञप्तकारिणं प्रत्य् आह ।

देशं कालं च यो ऽतीयाल् लाभं कुर्याच् च यो ऽन्यथा । २.१९५अब्
तत्र स्यात् स्वामिनश् छन्दो ऽधिकं देयं कृते ऽधिके ॥ २.१९५च्द् ॥

यस् तु भृत्यः पण्यविक्रयाद्युचितं देशं कालं च पण्यविक्रयाद्य् अकुर्वन् दर्पादिनोल्लङ्घयेत् तस्मिन्न् एव वा देशे काले च लाभम् अन्यथा व्ययाद्यतिशयसाध्यतया हीनं करोति तस्मिन् भृतके भृतिदानं प्रति स्वामिनश् छन्द इच्छा भवेत्, यावद् इच्छति तावद् दद्यान् न पुनः सर्वाम् एव भृतिम् इत्य् अर्थः । यदा पुनर् देशकालाभिज्ञतयाधिको लाभः कृतस् तदा पूर्वपरिच्छन्नाय भृतेर् अधिकम् अपि धनं स्वामिना भृत्याय दातव्यम् ॥ २.१९५ ॥

अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारम् आह ।

यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् । २.१९६अब्
उभयोर् अप्य् असाध्यं चेत् साध्ये कुर्याद् यथाश्रुतम् ॥ २.१९६च्द् ॥

यदा पुनर् एकम् एव कर्म नियतवेतनम् उभाभ्यां क्रियमाणं उभयोर् अप्य् असाध्यं चेद् व्याध्याद्यभिभवाद् उभाभ्याम् अपि शब्दाद् बहुभिर् अपि यदि न परिसमापितं तदा यो भृत्यो यावत् कर्म करोति तावत् तस्मै तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं न पुनः समम् । न चावयवशः कर्मणि वेतनस्यापरिभाषितत्वाद् अदानम् इति मन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत् परिभाषितं तावद् उभाभ्यां देयं न पुनः प्रत्येकं कृत्स्नं वेतनं नापि कर्मानुरूपं परिकल्प्य देयम् ॥ २.१९६ ॥

आयुधीयभारवाहकौ प्रत्य् आह ।

अराजदैविकं नष्टं भाण्डं दाप्यस् तु वाहकः । २.१९७अब्
प्रस्थानविघ्नकृच् चैव प्रदाप्यो द्विगुणां भृतिम् ॥ २.१९७च्द् ॥

न विद्यते राजदैविकं यस्य भाण्डस्य तत् तथोक्तम् । तद् यदि प्रज्ञाहीनतया वाहकेन नाशितं तदा नाशानुसारेणासौ तद् भाण्डं दापनीयः । तद् आह नारदः ।

भाण्डं व्यसनम् आगच्छेद् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नश्येत् तु दैवराजकृताद् ऋते ॥ इति । (न्स्म् ६.१०)

यः पुनर् विवाहाद्यर्थं मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौपयिकं कर्म प्राग् अङ्गीकृत तदानीं न करिष्यामीति प्रस्थानविघ्नम् आचरति तदासौ द्विगुणां भृतिं दप्यः, अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ २.१९७ ॥

किं च ।

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् । २.१९८अब्
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजको ऽपि च ॥ २.१९८च्द् ॥

प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस् त्यजत्य् असौ भृतेः सप्तमं भागं दाप्यः । ननु अत्रैव विषये प्रस्थानविघ्नकृद् इत्यादिना द्विगुणभृतिदानम् उक्तम्, इदानीं सप्तमो भाग इति विरोधः । उच्यते । भृत्यान्तरोपादानावसरसंभवे स्वाङ्गीकृतं कर्म यस् त्यजति तस्य सप्तमो विभागः । यस् तु प्रस्थानलग्नसमय एव त्यजति तस्य द्विगुणभृतिदानम् इत्य् अविरोधः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश् चतुर्थं भागं दाप्यः । अर्धपथे पुनः सर्वां भृतिं दाप्यः । यस् तु त्याजकः कर्मात्यजन्तं त्याजयति स्वामी पूर्वोक्तप्रदेशेष्व् असाव् अपि पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः । एतच् चाव्याधितादिविषयम्,

भृत्यो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोचितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं तस्य वेतनम् ॥ (म्ध् ८.२१५)

इति मनुवचनात् । यदा पुनर् व्याधाव् अपगते ऽन्तरितदिवसान् परिगणय्य पूरयति तदा लभत एव वेतनम्,

आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः ।
स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ॥ (म्ध् ८.२१६)

इति मनुस्मरणात् ॥ यस् त्व् अपगतव्याधिः स्वस्थ एव वालस्यादिना स्वारब्धं कर्माल्पोनं न करोति परेण वा न समापयति तस्मै वेतनं न देयम् इति । यथाह मनुः ।

यथोक्तम् आर्तः स्वस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥ इति ॥ (म्ध् ८.२१७) २.१९८ ॥

इति वेतनादानप्रकरणम्