१५ संविद्-व्यतिक्रम-प्रकरणम्

**अथ संविद्व्यतिक्रमप्रकरणम् **

संप्रति संविद्व्यतिक्रमः कथ्यते । तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम् ।

पाखण्डिनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥ (न्स्म् १०.१)

इति पारिभाषिकधर्मेण व्यवस्थानं समयः, तस्यानपाकर्माव्यतिक्रमः परिपालनं तद्व्यतिक्रम्यमाणं विवादपदं भवतीत्य् अर्थः ॥

तदुपक्रमार्थं किंचिद् आह ।

राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु । २.१८५अब्
त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ॥ २.१८५च्द् ॥

राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणान् न्यस्य स्थापयित्वा तद् ब्राह्मणजातं त्रैविद्यं वेदत्रयसंपन्नं वृत्तिमद् भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिर् अनुष्ठीयताम् इति तान् ब्राह्मणान् ब्रूयात् ॥ २.१८५

एवं नियुक्तैस् तैर् यत् कर्म कर्तव्यं तद् आह ।

निजधर्माविरोधेन यस् तु समयिको भवेत् । १८६अब्
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ १८६च्द् ॥

श्रौतस्मार्तधर्मानुपमर्देन समयान् निष्पन्नो यो धर्मो गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सो ऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्माविरोधेनैव यः सामयिको धर्मो “यावत्पथिकं भोजनं देयम् अस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीयाः” इत्य् एवंरूपः कृतः सो ऽपि रक्षणीयः ॥ २.१८६ ॥

एवं समयधर्मः परिपालनीय इत्य् उक्त्वा तदतिक्रमादौ दण्डम् आह ।

गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः । २.१८७अब्
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥ २.१८७च्द् ॥

यः पुनर् गणस्य ग्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यम् अपहरति संवित् समयस् तां समूहकृतां राजकृतां वा यो लङ्घयेद् अतिक्रामेत् तदीयं सर्वं धनम् अपहृत्य स्वराष्ट्राद् विप्रवासयेन् निष्कासयेत् ॥ अयं च दण्डो ऽनुबन्धाद्यतिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु,

यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥
निगृह्य दापयेद् एनं समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण्निष्काञ् शतमानं च राजतम् ॥ (म्ध् ८.२१९–२०)

इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषण्निष्कशतमानानां चतुर्णाम् अन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥ २.१८७ ॥

इदं च तैः कर्तव्यम् इत्य् आह ।

कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् । २.१८८अब्

गणिनां मध्ये ये समूहहितवादनशीलास् तद्वचनम् इतरैर् गणानाम् अन्तर्गतैर् अनुसरणीयम् ॥

अन्यथा दण्ड इत्य् आह ।

यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ २.१८८च्द् ॥

यस् तु गणिनां मध्ये समूहहितवादिवचनप्रतिबन्धकारी स राज्ञा प्रथमसाहसं दण्डनीयः ॥ २.१८८ ॥

राज्ञा चेत्थं गणिषु वर्तनीयम् इत्य् आह ।

**समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् । २.१८९अब् **
**स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ २.१८९च्द् ॥ **

समूहकार्यनिवृत्त्यर्थं स्वपार्श्वं प्राप्तान् गणिनो निर्वर्तितात्मीयप्रयोजनान् दानमानसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ २.१८९ ॥

समूहदत्तापहारिणं प्रत्य् आह ।

समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् । २.१९०अब्
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥ २.१९०च्द् ॥

समूहकार्यार्थं महाजनैः प्रेरितो राजपार्श्वे यद् धिरण्यवस्त्रादिकं लभते तद् अप्रार्थित एव महाजनेभ्यो निवेदयेत् । अन्यथा लब्धाद् एकादशगुणं दण्डं दापनीयः ॥ २.१९० ॥

एवंप्रकाराश् च कार्यचिन्तकाः कार्या इत्य् आह ।

धर्मज्ञाः शुचयो ऽलुब्धा भवेयुः कार्यचिन्तकाः । २.१९१अब्
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ २.१९१च्द् ॥

श्रौतस्मार्तधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्व् अलुब्धाः कार्यविचारकाः कर्तव्याः । तेषां वचनम् इतरैः कार्यम् इत्य् एतद् आदरार्थं पुनर्वचनम् ॥ २.१९१ ॥

इदानीं त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्यादिष्व् अतिदिशन्न् आह ।

श्रेणिनैगमपाखण्डिगणानाम् अप्य् अयं विधिः । २.१९२अब्
भेदं चैषां नृपो रक्षेत् पूर्ववृत्तिं च पालयेत् ॥ २.१९२च्द् ॥

एकपण्यशिल्पोपजीविनः श्रेणयः । नैगमाः ये वेदस्याप्तप्रणीतत्वेन प्रामाण्यम् इच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेदस्य प्रामाण्यम् एव नेच्छन्ति नग्नाः सौगतादयः । गणो व्रात आयुधीयादीनाम् एककर्मोपजीविनां । एषां चतुर्विधानाम् अप्य् अयम् एव विधिर् यो “निजधर्माविरोधेन” (य्ध् २.२।१८६) इत्यादिना प्रतिपादितः । एतेषां च श्रेण्यादीनां भेदं धर्मव्यवस्थानं नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च पालयेत् ॥ २.१९२ ॥

**इति संविद्व्यतिक्रमप्रकरणम् **