१४ अभ्युपेत्याशुश्रूषा-प्रकरणम्

**अथाभ्युपेत्याशुश्रूषाप्रकरणम् **

सांप्रतम् अभ्युपेत्याशुश्रूषाख्यम् अपरं विवादपदम् अभिधातुम् उपक्रमते । तत्स्वरूपं च नारदेनोक्तम् ।

अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥ इति । (न्स्म् ५.१)

आज्ञाकरणं शुश्रूषा ताम् अङ्गीकृत्य पश्चाद् यो न संपादयति तद्विवादपदम् अभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश् च पञ्चविधः । शिष्यो ऽन्तेवासी भृतको ऽधिकर्मकृद् दास इति । तेषाम् आद्याश् चत्वारः कर्मकरा इत्य् उच्यन्ते । ते च शुभकर्मकारिणः । दासाः पुनर् गृहजातादयः पञ्चदशप्रकाराः । गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तद् इदं नारदेन स्पष्टीकृतम् ।

शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधाः कर्मकरास् तेषां दासास् त्रिपञ्चकाः ॥
शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकरा ज्ञेया दासास् तु गृहजादयः ॥
सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः ।
जातिकर्मकृतस् तूक्तो विशेषो वृत्तिर् एव च ॥
कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥
इच्छतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥ इति ॥ (न्स्म् ५.२–७)

तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वताम् अधिष्ठाताधिकर्मकृत् । अशुचिस्थानम् उच्छिष्टप्रक्षेपार्थं गर्तादिकम् । अवस्करो गृहमार्जितपांस्वादिनिचयस्थानम् । उज्झनं त्यागः । भृतकश् चात्र त्रिविधः । तद् उक्तम्

उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाही स्याद् इत्य् एवं त्रिविधो भृतः ॥ इति । (न्स्म् ५.२१)

दासाः पुनः-

गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥
मोक्षितो महतश् चर्णाद् युद्धप्राप्तः पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ (न्स्म् ५। २४–२६)

गृहे दास्यां जातो गृहजातः । क्रीतो मूल्येन लब्धः प्रतिग्रहादिना । दायाद् उपागतः पित्रादिदासः । अनाकालभृतो दुर्भिक्षे यो दासत्वाय मरणाद् रक्षितः । आहितः स्वामिना धनग्रहणेनाधितां नीतः । ऋणमोचनेन दासत्वम् अभ्युपगतो ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितो यद्य् अस्मिन् विवादे पराजितो ऽहं तदा त्वद्दासो भवामीति परिभाष्य जितः । तवाहम् इत्य् उपगतः तवाहं दास इति स्वयं संप्रतिपन्नः । प्रव्रज्यावसितः प्रव्रज्यातश् च्युतः । कृतः एतावत् कालं त्वद्दास इत्य् अभ्युपगमितः । भक्तदासः सर्वकालं भक्तार्थम् एव दासत्वम् अभ्युपगम्य यः प्रविष्टः । वडवाहृतः वडवा गृहदासी तयाहृतः तल्लोभेन ताम् उद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणिते ऽसाव् आत्मविक्रेतेत्य् एवं पञ्चदश प्रकाराः ॥ यत् तु मनुना,

ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ॥ (म्ध् ८.४१५)

इति सप्तविधत्वम् उक्तंम्, तत् तेषां दासत्वप्रतिपादनार्थं न तु परिसंख्यार्थम् । तत्रैषां शिष्यान्तेवासिभृतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्राग् एव प्रतिपादिता,

आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् । (य्ध् १.२७)

इत्यादिना । अधिकर्मकृद् भृतकानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते,

यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् । (य्ध् २.१९६)

इत्यादिना ॥

दासान्तेवासिनोस् तु धर्मविशेषं वक्तुम् आह ।

बलाद् दासीकृतश् चौरैर् विक्रीतश् चापि मुच्यते । २.१८२अब्
**स्वामिप्राणप्रदो भक्तत्यागात् तन् निष्क्रयाद् अपि ॥ २.१८२च्द् ॥ **

बलात् बलावष्टम्भेन यो दासीकृतः, यश् चौरैर् अपहृत्य विक्रीतः, अपिशब्दाद् आहितो दत्तश् च, स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः । उक्तं च नारदेन ।

चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोचयितव्यास् ते दास्यं तेषु हि नेष्यते ॥ इति । (न्स्म् ५.३६)

चौरव्याघ्राद्यवरुद्धस्य स्वामिनः प्राणान् यः प्रददाति रक्षत्य् असाव् अपि मोचयितव्यः । तद् इदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम्,

यो वैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्यते पुत्रभागं लभेत च ॥ (न्स्म्५.२८)

इति नारदस्मरणात् ॥ भक्तदासादीनां प्रातिस्विकम् अपि मोक्षकरणम् उच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्यागाद् दासभावाद् आरभ्य स्वामिद्रव्यं यावद् उपभुक्तं तावद् दत्त्वा मुच्येते । आहितर्णदासौ तु तन्निष्क्रयाद् यद् गृहीत्वा स्वामिना आहितो यच् च दत्त्वा धनिनोत्तमर्णान् मोचितस् तस्य निष्क्रयात् सवृद्धिकस्य प्रत्यर्पणान् मुच्यते । नारदेन विशेषो ऽप्युक्तः ।

अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ।
संभक्षितं यद् दुर्भिक्षे न तच् छुध्येत कर्मणा ॥ (न्स्म् ५.२९)
भक्तस्योत्क्षेपणात् सद्यो भक्तदासः प्रमुच्यते । (न्स्म् ५.३४)
आहितो ’पि धनं दत्त्वा स्वामी यद्य् एनम् उद्धरेत् ॥ (न्स्म् ५.३०)
ऋणं तु सोदयं दत्त्वा ऋणी दास्यात् प्रमुच्यते ॥ (न्स्म् ५.३१) इति ॥

तथा तवाहमित्युपगतयुद्धप्राप्तपणजितकृतकवडावाहृतानां च प्रातिस्विकं मोचनकारणं च तेनैवोक्तम् । यथा ।

तवाहम् इत्य् उपगतो युद्धप्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्येरंस् तुल्यकर्मणा ॥ (न्स्म् ५.३२)
कृतकालव्यपगमात् कृतको ऽपि विमुच्यते । (न्स्म् ५.३१)
निग्रहाद् वडवायास् तु मुच्यते वडवाहृतः ॥ (न्स्म् ५.३४) इति ।

दासेन सह संभोगनिरोधाद् इत्य् अर्थः । तद् एवं गृहजातक्रीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्राणप्रदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति । विशेषकारणानभिधानात् । दासमोक्षश् चानेन क्रमेण कर्तव्यः,

स्वं दासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।
स्कन्धाद् आदाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा ॥
साक्षताभिः सपुष्पाभिर् मूर्धन्य् अद्भिर् अवाकिरेत् ।
अदास इत्य् अथोक्त्वा त्रिः प्राङ्मुखं तम् अवासृजेत् ॥ (न्स्म् ५.४०–४१)

इति तेनैवोक्तम् ॥ २.१८२ ॥

प्रवज्यावसित्यस्य तु मोक्षो नास्तीत्य् आह ।

प्रव्रज्यावसितो राज्ञो दास आ मरणान्तिकम् । २.१८३अब्

प्रव्रज्या संन्यासस् ततो ऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चितश् चेद् राज्ञ एव दासो भवति मरणम् एव तद्दासत्वस्यान्तो ऽन्यस्मिन् काले न मोक्षो ऽस्ति ॥

वर्णापेक्षया दास्यव्यवस्थाम् आह ।

वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ २.१८३च्द् ॥

ब्राह्मणादीनां वर्णानाम् आनुलोम्येन दास्यम् । ब्राह्मणस्य क्षत्रियादयः, क्षत्रियस्य वैश्यशूद्रौ, वैश्यस्य शूद्र इत्य् एवम् आनुलोम्येन दासभावो भवति न प्रातिलोम्येन । स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वम् इष्यत एव । यथाह नारदः ।

वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥ इति ॥ (न्स्म् ५.३७) ॥२.१८३ ॥

अन्तेवासिधर्मान् आह ।

कृतशिल्पो ऽपि निवसेत् कृतकालं गुरोर् गृहे । २.१८४अब्
अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः ॥ २.१८४च्द् ॥

अन्तेवासी गुरोर् गृहे कृतकालं “वर्षचतुष्टयम् आयुर्वेदादिशिल्पशिक्षार्थं त्वद् गृहे वसामि” इति यावद् अङ्गीकृतं तावत् कालं वसेत्, यद्य् अपि वर्षचतुष्टयाद् अर्वाग् एव लब्धापेक्षितशिल्पविद्यः । कथं निवसेत् । गुरुप्राप्तभोजनः गुरोः सकाशात् प्राप्तं भोजनं येन स तथोक्तः । तत्फलप्रदः तस्य शिल्पस्य फलम् आचार्याय प्रददातीति तत्फलप्रदः । एवंभूतो वसेत् । नारदेन विशेषो ऽप्य् अत्र दर्शितः ।

स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कृत्वा कालं सुनिश्चितम् ॥
आचार्याः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥
शिक्षयन् तम् असंदुष्टं य आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽर्हति ॥
शिक्षितो ऽपि कृतं कालम् अन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥
गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शिक्षितश् चानुमान्यैनम् अन्तेवासी निवर्तते ॥ इति । (न्स्म् ५.१५–१९)

वधशब्दो ऽत्र ताडनार्थः दोषस्याल्पत्वात् ॥ २.१८४ ॥

इत्य् अभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम्