१३ क्रीतानुशय-प्रकरणम्

अथ क्रीतानुशयप्रकरणम्

अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं नारदेनोक्तम् ।

क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीतानुषय इत्य् एतद् विवादपदम् उच्यते ॥ इति । (न्स्म् ९.१)

तत्र च यस्मिन्न् अहनि पण्यं क्रीतं तस्मिन्न् एवाह्नि तद् अविकृतं प्रत्यर्पणीयम् इति तेनैवोक्तम् ।

क्रीत्वा मूल्येन यत् पण्यं दुःक्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥ इति । (न्स्म् ९.२)

द्वितीयादिदिने तु प्रत्यर्पणे विशेषस् तेनैवोक्तः ।

द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आहरेत् ।
द्विगुणं तु तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ इति ॥ (न्स्म् ९.३)

परतो ऽनुशयो न कर्तव्य इत्य् अर्थः । एतच् च बीजातिरिक्तोपभोगादिविनश्वरवस्तुविषयम् ।

बीजादिक्रये पुनर् अन्य एव प्रत्यर्पणविधिर् इत्य् आह ।

दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकम् । २.१७७अब्
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ २.१७७च्द् ॥

बीजं व्रीह्यादिबीजम् । अयो लोहम् । वाह्यो बलीवर्दादिः । रत्नं मुक्ताप्रवालादि । स्त्री दासी । दोह्यं महिष्यादि । पुमान् दासः । एषां बीजादीनां यथाक्रमेण दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्य् असम्यक्त्वबुद्ध्यानुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिर् न पुनर् ऊर्ध्वम् इत्य् उपदेशप्रयोजनम् । यत् तु मनुवचनम्,

क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर् दशाहात् तद् द्रव्यं दद्याच् चैवाददीत च ॥ (म्ध् ८.२२२)

इति, तद् उक्तलोहादिव्यतिरिक्तोपभोगविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्वं चैतद् अपरीक्षितक्रीतविषयम् । यत् पुनः परीक्ष्य न पुनः प्रत्यर्पणीयम् इति समयं कृत्वा क्रीतं तद् विक्रेत्रे न प्रत्यर्पणीयम् । तद् उक्तम् ।

क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥ इति ॥ (न्स्म् ९.४) ॥ २.१७७ ॥

दोह्यादिपरीक्षाप्रसङ्गेन स्वर्णादेर् अपि परीक्षाम् आह ।

अग्नौ सुवर्णम् अक्षीणं रजते द्विपलं शते । २.१७८अब्
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ २.१७८च्द् ॥

वह्नौ प्रताप्यमानं सुवर्णं न क्षीयते । अतः कटकादिनिर्माणार्थं यावत् स्वर्णकारहस्ते प्रक्षिप्तं तावत् तुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दण्ड्याश् च । रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीसे च । शते इत्य् अनुवर्तते । त्रपुणि सीसे च शतपले प्रताप्यमाने ऽष्टौ पलानि क्षीयन्ते । ताम्रे पञ्चदशायसि ताम्रे शतपले पञ्चपलानि । अयसि दशपलानि क्षीयन्ते । अत्रापि शत इत्य् एव । कांस्यस्य तु त्रपुताम्रयोनित्वात् तदनुसारेण क्षयः कल्पनीयः । ततो ऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः ॥ २.१७८ ॥

क्वचित् कम्बलादौ वृद्धिम् आह ।

शते दशपला वृद्धिर् और्णे कार्पाससौत्रिके । २.१७९अब्
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ २.१७९च्द् ॥

स्थूलेनौर्णसूत्रेण यत् कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धिर् वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनिर्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिर् वेदितव्या । एतच् चाप्रक्षालितवासोविषयम् ॥ २.१७९ ॥

द्रव्यान्तरे विशेषम् आह ।

कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । २.१८०अब्
न क्षयो न च वृद्धिश् च कौशेये वाल्कलेषु च ॥ २.१८०च्द् ॥

कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रं सूत्रैः क्रियते तत् कार्मिकम् इत्य् उच्यते । यत्र प्रावारदौ रोमाणि बध्यन्ते स रोमबद्धः, तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः । कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वङ्निर्मितेषु वसनेषु वृद्धिह्रासौ न स्तः किं तु यावद् वयनार्थं कुविन्दादिभ्यो दत्तं तावद् एव प्रत्यादेयम् ॥ २.१८० ॥

द्रव्यानन्त्यात् प्रतिद्रव्यं क्षयव्र्द्धिप्रतिपादनाशक्तेः सामान्येन ह्रासवृद्धिज्ञानोपायम् आह ।

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् । २.१८१अब्
द्रव्याणां कुशला ब्रूयुर् यत् तद् दाप्यम् असंशयम् ॥ २.१८१च्द् ॥

शाणक्षौमादौ द्रव्ये नष्टे ह्रासम् उपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालम् उपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत् कल्पयन्ति तद् असंशयं शिल्पिनो दाप्याः ॥ २.१८१ ॥

**इति क्रीतानुशयप्रकरणम् **