१२ दत्ताप्रदानिक-प्रकरणम्

अथ दत्ताप्रदानिकप्रकरणम्

अधुना विहिताविहितमार्गद्वयाश्रयतया दत्तानपकर्म दत्ताप्रदानिकम् इति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपदम् अभिधीयते । तत्स्वरूपं च नारदेनोक्तम् ।

दत्त्वा द्रव्यम् असम्यग् यः पुनर् अदातुम् इच्छति ।
दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥ इति । (न्स्म् ४.१)

असम्यग् अविहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनर् आदातुम् इच्छति यस्मिन् विवादपदे तद् दत्ताप्रदानिकं दत्तस्याप्रदानं पुनर्हरणं यस्मिन् दानाख्ये तद् दत्ताप्रदानिकं नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रतिपक्षभूतं तद् एव व्यवहारपदं दत्तानपकर्मेत्य् अर्थाद् उक्तं भवति । दत्तस्यानपकर्म अपुनरादानाख्यं यत्र दानाख्ये विवादपदे तद् दत्तानपकर्म । तच् च देयादेयादिभेदेन चतुर्विधम् । यथाह नारदः ।

अथ देयम् अदेयं च दत्तं वादत्तम् एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥ इति । न्स्म् ४.२)

तत्र देयम् इत्य् अनिषिद्धदानक्रियायोग्यम् उच्यते । अदेयम् अस्वतया निषिद्धतया वा दानानर्हम् । यत् पुनः प्रकृतिस्थेन दत्तम् अव्यावर्तनीयं तद् दत्तम् उच्यते । अदत्तं तु यत् प्रत्याहरणीयं तत् कथ्यते ।

तद् एतत् संक्षेपतो निरूपयितुम् आह ।

स्वं कुटुम्बाविरोधेन देयं २.१७५अ

स्वम् आत्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन । कुटुम्बभरणावशिष्टम् इति यावत् । तद् दद्यात्, तद्भरणस्यावश्यकत्वात् । यथाह मनुः ।

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥ इति । (म्ध् ११.१०)

“स्वं कुटुम्बाविरोधेन” इत्य् अनेनादेयम् एकविधं दर्शयति । स्वं दद्याद् इत्य् अनेन चास्वभूतानाम् अन्वाहितयाचितकाधिसाधारणनिक्षेपाणां पञ्चानाम् अप्य् अदेयत्वं व्यतिरेकतो दर्शितम् । यत् पुनर् नारदेन अष्टविधत्वम् अदेयानाम् उक्तम्,

अन्वाहितं याचितकम् आधिः साधारणं च यत् ।
निक्षेपः पुत्रदारांश् च सर्वस्वं चान्वये सति ।
आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥ (न्स्म् ४.४–५)

इति, एतद् अदेयत्वमात्राभिप्रायेण न पुनः स्वत्वाभावाभिप्रायेण, पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां स्वरूपं प्राग् एव प्रपञ्चितम् ॥

“स्वं दद्याद्” इत्य् अनेन दारसुतादेर् अपि स्वत्वाविशेषेण देयत्वप्रसण्गे प्रतिषेधम् आह ।

दारसुताद् ऋते । २.१७५ब्
नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम् ॥ २.१७५च्द् ॥

दारसुताद् ऋते दारसुतव्यतिरिक्तं स्वं दद्यान् न दारसुतम् इत्य् अर्थः । तथा पुत्रपौत्राद्यन्वये विद्यमाने सर्वं धनं न दद्यात्,

पुत्रान् उत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेत् । (?)

इति स्मरणात् । तथा हिरण्यादिकम् अन्यस्मै प्रतिश्रुतम् अन्यस्मै न देयम् ॥ २.१७५ ॥

एवं दारसुतादिव्यतिरिक्तं देयम् उक्त्वा प्रसङ्गाद् अदेयधनग्रहणं च प्रतिग्रहीत्रा प्रकाशम् एव कर्तव्यम् इत्य् आह ।

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । २.१७६अब्

प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । “स्थावरस्य च विशेषतः” प्रकाशम् एव ग्रहणं कार्यम् । तस्य सुवर्णादिवद् आत्मनि स्थितस्य दर्शयितुम् अशक्यत्वात् ॥

एवं प्रासङ्गिकम् उक्त्वा, प्रकृतम् अनुसरन्न् आह ।

देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः ॥ २.१७६च्द् ॥

“देयं प्रतिश्रुतं चैव” यद् यस्मै धमार्थं प्रतिश्रुतं तत् तस्मै देयम् एव यद्य् असौ धर्मात् प्रच्युतो न भवति । प्रच्युते न पुनर् दातव्यम् । “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” (ग्ध् ५.२३) इति गौतमस्मरणात् । “दत्त्वा नापहरेत्पुनः” । न्यायमार्गेण यद् दत्तं तत् सप्तविधम् अपि पुनर् नापहर्तव्यम्, किं तु तथैवानुमन्तव्यम् । यत् पुनर् अन्यायेन दत्तं तद् अदत्तं षोडशप्रकारम् अपि प्रत्यार्हतव्यम् एवेत्य् अर्थाद् उक्तं भवति । नारदेन च,

दत्तं सप्तविधं प्रोक्तम् अदत्तं षोडशात्मकम् । (न्स्म् ४.३)

इति प्रतिपाद्य, दत्तादत्तयोः स्वरूपं विवृतं ।

पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ।
अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
बालमूढास्त्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् ।
कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् ॥
अपात्रे पात्रम् इत्य् उक्ते कार्ये वा धर्मसंहिते ।
यद् दत्तं स्याद् अविज्ञानाद् अदत्तम् इति तत् स्मृतम् ॥ इति । (न्स्म् ४.७–१०)

अयम् अर्थः- पण्यस्य क्रीतद्रव्यस्य यन् मूल्यं दत्तम्, भृतिर् वेतनं कृतकर्मणे दत्तम्, तुष्ट्या बन्दिचारणादिभ्यो दत्तम्, स्नेहाद् दुहितृपुत्रादिभ्यो दत्तम्, प्रत्युपकारत उपकृतवते प्रत्युपकाररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थं कन्याज्ञातिभ्यो यद् दत्तम्, यच् चानुग्रहार्थम् अदृष्टार्थं दत्तं तद् एतत् सप्तविधम् अपि दत्तम् एव न प्रत्याहरणीयम् । भयेन बन्दिग्राहादिभ्यो दत्तम्, क्रोधेन पुत्रादिभ्यो वैरनिर्यातनायान्यस्मै दत्तम्, पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्यप्रतिबन्धनिरासार्थम् अधिकृतेभ्यो दत्तम्, परिहासेनोपहासेन दत्तम् । एकः स्वं द्रव्यम् अन्यस्मै ददात्य् अन्यो ऽपि तस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदानम् अभिसंधाय सहस्रम् इति परिभाष्य ददाति । बालेनाप्राप्तषोडशवर्षेण । मूढेन लोकवादानभिज्ञेन । अस्वतन्त्रेण पुत्रदासादिना । आर्तेन रोगाभिभूतेन । मत्तेन मदनीयमत्तेन । उन्मत्तेन वातिकाद्युन्मादग्रस्तेन अपवर्जितं दत्तं, यथायं मदीयम् इदं कर्म करिष्यतीति प्रतिलोभेच्छया दत्तम्, अचतुर्वेदाय चतुर्वेदो ऽहम् इत्य् उक्तवते दत्तम्, यज्ञं करिष्यामीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तम् इत्य् एवं षोडशप्रकारम् अपि दत्तम् अदत्तम् इत्य् उच्यते, प्रत्याहरणीयत्वात् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम्,

स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥ (क्स्म् ५६६)

इति कात्यायनस्मरणात् ॥ तथेदम् अपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् ।

योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ इति ॥ (म्ध् ८.१६५)

योग उपाधिः । येनागामिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास् तदुपाधिविगमे तान् क्रयादीन् विनिवर्तयेद् इत्य् अस्यार्थः । यः पुनः षोडशप्रकारम् अप्य् अदत्तं गृह्नाति यश् चादेयं प्रयच्छति तयोर् दण्डो नारदेनोक्तः ।

गृह्नात्य् अदत्तं यो लोभाद् यश् चादेयं प्रयच्छति ।
अदेयदायको दण्ड्यस् तथा दत्तप्रतीच्छकः ॥ इति ॥ (न्स्म् ४.११) ॥२.१७६ ॥

**इति दत्ताप्रदानिकं नाम प्रकरणम् **