०९ सीमा-विवाद-प्रकरणम्

**अथ सीमाविवादप्रकरणम् **

अधुना सीमाविवादनिर्णय उच्यते ।

सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । २.१५०अब्
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥ २.१५०च्द् ॥
नयेयुर् एते सीमानं स्थलाङ्गारतुषद्रुमैः । २.१५१अब्
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम् ॥ २.१५१च्द्

ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्नो विवादे तथाइकग्रामान्तर्वर्तिक्षेत्रमर्यादाविवादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैर् उपलक्षितां चिह्नितां सीमां नयेयुर् निश्चिनुयुः । सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा । जनपदसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । सा च यथासंभवं पञ्चलक्षणा । तद् उक्तं नारदेन ।

ध्वजिनि मत्स्यिनी चैव नैधानी भयवर्जिता ।
राजशासननिता च सिमा पञ्चविधा स्मृता ॥ इति । (ध्को ९४४)

ध्वजिनी वृक्षादिलक्षिता, वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती, मत्स्यशब्दस्य स्वाधारजललक्षकत्वात् । नैधानी निखाततुषाङ्गारादिमती, तेषां निखातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसंप्रतिपत्तिनिर्मिता । राजशासननीता, ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । एवंभूतायां षोढा विवादः संभवति । यथाह कात्यायनः ।

आधिक्यं न्यूनता चांशे अस्तिनास्तित्वम् एव च ।
अभोगभुक्तिः सीमा च षड् भूवादस्य हेतवः ॥ इति ॥ (क्स्म् ७३२)

तथा हि । ममात्र पञ्चनिवर्तनाया भूमेर् अधिका भूर् अस्तीति केनचिद् उक्ते, पञ्चनिवर्तनैव नाधिकेत्य् आधिक्ये विवादः । पञ्चनिवर्तना मदीया भूमिर् इत्य् उक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्चनिवर्तनो ममांश इत्य् उक्ते अंश एव नास्तीत्य् अस्तिनास्तित्वविवादः संभवति । मदीया भूः प्रागविद्यमानभोगैव भुज्यते इत्य् उक्तेन संतता चिरंतन्य् एव मे भुक्तिर् इत्य् अभोगभुक्तौ विवादः । इयं मर्यादेयं वेति सीमाविवाद इति षट्प्रकार एव विवादः संभवति । षट्प्रकारे ऽपि भूविवादे श्रुत्यर्थाभ्यां सीमाया अपि निर्णीयमानत्वात् सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ताद् भवाः सामन्ताः । चतसृषु दिक्ष्व् अनन्तरग्रामादयस् ते च प्रतिसीमं व्यवस्थिताः,

ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्टं समन्तात् परिरभ्य हि । (क्स्म् ७३६)

इति कात्यायनवचनात् । ग्रामादिशब्देन तत्स्थाः पुरुषा लक्ष्यन्ते, “ग्रामः पलायितः” इति यथा । सामन्तग्रहणं च तत्संसक्ताद्युपलक्षणार्थम् । उक्तं च कात्यायनेन ।

संसक्तकास् तु सामन्तास् तत्संसक्तास् तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्मकाराः प्रकीर्तिताः ॥ इति ॥ (क्स्म् ७३८)

स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्धृतयोर् ग्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम् –

निष्पाद्यमानं यैर् दृष्टं तत्कार्यं तद्गुणान्वितैः ।
वृद्धा वा यदि वावृद्धास् ते तु वृद्धाः प्रकीर्तिताः ॥ (क्स्म् ७४४)
ये तत्र पूर्वं सामन्ताः पश्चाद् देशान्तरं गताः ।
तन्मूलत्वात् तु ते मौला ऋषिभिः परिकीर्तिताः ॥ (क्स्म् ७४३)
उपश्रवणसंभोगकार्याख्यानोपचिह्निताः ।
उद्धरन्ति पुनर् यस्माद् उद्धृतास् ते ततः स्मृताः ॥ (क्स्म् ७४५) इति ॥

गोपा गोचारकाः । सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः । सर्वे च वनगोचरा वनचारिणो व्याधादयः । ते च मनुनोक्ता ।

व्याधाञ् शाकुनिकान् गोपान् कैवर्तान् मूलखातकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥ इति ॥ (म्ध् ८.२६०)

स्थलम् उन्नतो भूप्रदेशः । अङ्गारो ऽग्नेर् उच्छिष्टम् । तुषा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतुर् जलप्रवाहबन्धः । चैत्यं पाषाणादिबन्धः । आदिशब्देन वेणुवालुकादीनां ग्रहणम् । एतानि च प्रकाशाप्रकाशभेदेन द्विप्रकाराणि । यथाह मनुः-

सीमावृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीशालतालांश् च क्षीरिणश् चैव पादपान् ॥
गुल्मान् वेणूंश् च विविधाञ् शमीवल्लीस्थलानि च ।
शरान् कुञ्जकगुल्मांश् च तथा सीमा न नश्यति ॥
तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च ।
सीमासंधिषु कार्याणि देवतायतनानि च ॥ (म्ध् ८.२४६–४८)

इति प्रकाशरूपाणि ।

उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥
अश्मनो ऽस्थीनि गोवालांस् तुषान् भस्म कपालिकाः ।
करीषम् इष्टकाङ्गाराञ् शर्करा वालुकास् तथा ॥
यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत् ।
तानि संधिषु सीमायाम् अप्रकाशानि कारयेत् ॥
एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ॥ (म्ध् ८.२४९–५२)

इति प्रच्छन्नलिङ्गानि । एतैः प्रकाशाप्रकाशरूपैर् लिङ्गैः सामन्तादिप्रदर्शितैः सीमां प्रति विवदमानयोः सीमानिर्णयं कुर्याद् राजा ॥ २.१५० ॥ २.१५१ ॥

_यदा पुनश् चिह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि, तदा निर्णयोपायम् आह _।

सामन्ता वा समग्रामाश् चत्वारो ऽष्टौ दशापि वा । २.१५२अब्
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ २.१५२च्द् ॥

सामन्ताः पूर्वोक्तलक्षणाः । “समग्रामाश् चत्वारो ऽष्टौ दशापि वा” इत्य् एवं समसंख्याः प्रत्यासन्नग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्ध्य्** **आरोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः । “सामन्ता वा” इति विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्यभिप्रायम् । यथाह मनुः -

साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः । इति ॥ (म्ध् ८.२५३)

तत्र च साक्षिणां निर्णेतृत्वं मुख्यम् । तदभावे सामन्तानाम् । तद् उक्तम् ।

साक्ष्यभावे तु चत्वारो ग्राम्याः सामन्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ इति । (म्ध् ८.२५८)

तदभावे तत्सक्तादीनां निर्णेतृत्वम् । यथाह कात्यायनः ।

स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् ।
तत्संसक्तैस् तु कर्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास् तु राज्ञा धर्मं विजानता ॥ इति । (क्स्म् ७३९–४०)

सामन्ताद्यभावे मौलादयो ग्राह्याः,

तेषाम् अभावे सामन्तमौलव्र्द्धोद्धृतादयः ।
स्थावरे षट्प्रकारे ऽपि कार्या नात्र विचारणा ॥ (क्स्म् ७३७)

इति कात्यायनेन क्रमविधानात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति,

सामन्ताः साधनं पूर्वं निर्दोषाः स्युर् गुणान्विताः ।
द्विगुणास् तूत्तरा ज्ञेयास् ततो ऽन्ये त्रिगुणा मताः ॥ (क्स्म् ७४६)

इति स्मरणात् । ते च साक्षिणः सामन्तादयश् च स्वैः स्वैः शपथैः शापिताः सन्तः सीमां नयेयुः,

शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिथाः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥ (म्ध् ८.२५६)

इति स्मरणात् । नयेयुर् इति बहुवचनं द्वयोर् निरासार्थं नैकस्य,

एकश् चेद् उन्नयेत् सीमां सोपवासः समुन्नयेत् ।
रक्तमाल्याम्बरधरो भूमिम् आदाय मूर्धनि ॥ (न्स्म् ११.१०)

इति नारदेनैकस्याभ्यनुज्ञानात् ॥ यो ऽयं –

नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य कार्यस्य क्रियैषां बहुषु स्थिता ॥ (न्स्म् ११.९)

इत्य् एकस्य निषेधः, स उभयानुमतधर्मविद्व्यतिरिक्तविषय इत्य् अविरोधः । स्थलादिचिह्नाभावे ऽपि साक्षिसामन्तादीनां सीमाज्ञाने उपायविशेषो नारदेनोक्तः ।

निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानाच् च प्रमाणाद् भोगदर्शनात् ॥ इति । (न्स्म् ११.६)

निम्नगया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थानात् प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानाद् उत्सृष्टनष्टचिह्नानां प्राचीनप्रदेशानुमानात् ग्रामाद् आरभ्य सहस्रदण्डपरिमितं क्षेत्रम् अस्य ग्रामस्य पश्चिमे भागे इत्य् एवंविधात् प्रमाणाद् वा प्रत्यर्थिसमक्षविप्रतिपन्नाया अस्मार्तकालोपलक्षितभुक्तेर् वा निश्चिनुयुः । बृहस्पतिना चात्र विशेषो दर्शितः ।

आगमं च प्रमाणं च भोगकालं च नाम च ।
भूभागलक्षणं चैव ये विदुस् ते ऽत्र साक्षिणः ॥ इति । (बृस्म् १.१९.२८)

एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः ।

ग्रामेयककुलानां तु समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥ इति । (म्ध् ८.२५४)

ते च पृष्टाः साक्ष्यादयः एकमत्येन समस्ताः सीम्नि निर्णयं ब्रूयुः । तैर् निर्णीतां सीमां तत्प्रदर्शितसकललिङ्गयुक्तां साक्ष्यादिनामान्वितां चाविस्मरणार्थं पत्रे समारोपयेत् । उक्तं च मनुना ।

ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम् ।
निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥ इति । (म्ध् ८.२६१)

एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्क्रमणदिनाद् आरभ्य यावत् त्रिपक्षं राजदैविकव्यसनाव्यसनं चेन् नोत्पद्यते तदा तत्प्रदर्शनात् सीमानिर्णयः । अयं च राजदैविकव्यसनावधिः कात्यायनेनोक्तः ।

सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकम् इष्यते ॥ इति ॥ (क्स्म् ७५१) ॥ २.१५२)

यदा त्व् अमीषाम् उक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते, अथ वा प्रतिवादिनिर्दिष्टाभ्यधिकसंख्यागुणसाक्ष्यन्तरविरुद्धवचनता, तदा ते मृषाभाषितया दण्डनीयास् तद् आह ।

अनृते तु पृथग् दण्ड्या राज्ञा मध्यमसाहसम् । २.१५३अब्

अनृते मिथ्यावादने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः । सामन्तविषयता चास्य साक्षिमौलादीनां स्मृत्यन्तरे दण्डान्तरविधानाद् अवगम्यते । यथाह मनुः ।

यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥ इति ॥ (म्ध् ८.२५७)

नारदो ऽपि –

अथ चेद् अनृतं ब्रूयुः सामन्ताः सीमनिर्णये ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ (न्स्म् ११.७)

इति सामन्तानां मध्यमसाहसं दण्डम् अभिधाय,

शेषाश् चेद् अनृतं ब्रूयुर् नियुक्ता भूमिकर्मणि ।
प्रत्येकं तु जघन्यास् ते विनेयाः पूर्वसाहसम् ॥ (न्स्म्- ध्को ९४५)

इति तत्संसक्तादिषु प्रथमं साहसम् उक्तवान् । मौलादीनाम् अपि तम् एव दण्डम् आह ।

मौलवृद्धादयस् त्व् अन्ये दण्डगत्या पृथक् पृथक् ।
विनेयाः प्रथमेनैव साहसेनानृते स्थिता ॥ इति । (ध्को ९४६; च्ड़्। न्स्म् ११.८)

आदिशब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्य् अपि शाकुनिकादीनां पापरतत्वाल् लिङ्गप्रदर्शन एवोपयोगो न साक्षात् सीमानिर्णये तथापि लिङ्गदर्शन एव मृषाभाषित्वसंभवाद् दण्डविधानम् उपपद्यत एव । “अनृते तु पृथक् दण्ड्याः” इत्य् एतद् दण्डविधानम् अज्ञानविषयम् ।

बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर् भयाद् वा लोभाद् वा दण्ड्यास् तूत्तमसाहसम् ॥ (क्स्म् ७५०)

इति ज्ञानविषये सक्श्यादीनां कात्यायनेन दण्डान्तरविधानात् ।

तथा साक्षिवचनभेदे ऽप्य् अयम् एव दण्डस् तेनैवोक्तः ।

कीर्तिते यदि भेदः स्याद् दण्ड्यास् तूत्तमसाहसम् । इति । (क्स्म् ७४१)

एवम् अज्ञानादिनानृतवदने साक्ष्यादीन् दण्डयित्वा पुनः सीमाविचारः प्रवर्तयितव्यः ।

अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् । (क्स्म् ७४१)

इत्य् उक्त्वा,

त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ।
संमिश्र्य कारयेत् सीमाम् एवं धर्मविदो विदुः ॥ (क्स्म् ७४२)

इति निर्णयप्रकारस् तेनैवोक्तः ॥

यदा पुनः सामन्तप्रभृतयो ज्ञातारश् चिह्नानि च न सन्ति, तदा कथं निर्णय इत्य् अत आह ।

अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तिता ॥ २.१५३च्द् ॥

ज्ञातॄणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनाम् अभावे राजैव सीम्नः प्रवर्तिता प्रवर्तयिता । अन्तर्भावितो ऽत्र ण्यर्थः । ग्रामद्वयमध्यवर्तिनीं विवादास्पदीभूतां भुवं समं प्रविभज्य अस्येयं भूर् अस्येयम् इत्य् उभयोः समर्प्य तन्मध्ये सीमालिङ्गानि कुर्यात् । यदा तस्यां भूमाव् अन्यतरस्योपकारातिशयो दृश्यते तदा तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाह मनुः ।

सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥ इति ॥ (म्ध् ८.२६५) २.१५३ ॥

असत्याम् अप्य् अतद्भावाशङ्कायाम् अस्याः स्मृतेर् न्यायमूलतां दर्शयितुम् अतिदेशम् आह ।

आरामायतनग्रामनिपानोद्यानवेश्मसु । २.१५४अब्
**एष एव विधिर् ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ २.१५४च्द् ॥ **

आरामः पुष्पफलोपचयहेतुर् भूभागः । आयतनं निवेशनं पलालकूटाद्यर्थं विभक्तो भूप्रदेशः । ग्रामः प्रसिद्धः । ग्रामग्रहणं च नगराद्युपलक्षणार्थम् । निपानं पानीयस्थानं वापीकूपप्रभृतिकम् । उद्यानं क्रीडावनम् । वेश्म गृहम् । एतेष्व् आरामादिष्व् अयम् एव सामन्तसाक्ष्यादिलक्षणो विधिर् ज्ञातव्यः । तथा प्रवर्षणोद्भूतजलप्रवाहेषु अनयोर् गृहयोर् मध्येन जलौघः प्रवहत्य् अनयोर् वेत्य् एवंप्रकारे विवादे आदिग्रहणात् प्रासादादिष्व् अपि प्राचीन एव विधिर् वेदितव्यः । तथा च कात्यायनः ।

क्षेत्रकूपतडागानां केदारारामयोर् अपि ।
गृहप्रासादावसथनृपदेवगृहेषु च ॥ इति ॥ (क्स्म् ७४९) ॥२.१५४ ॥

सीमानिर्णयम् उक्त्वा तत्प्रसण्गेन मर्यादाप्रभेदनादौ दण्डम् आह ।

मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा । २.१५५अब्
**क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ २.१५५च्द् ॥ **

अनेकक्षेत्रव्यवच्छेदिका साधारणा भूर् मर्यादा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमाम् अतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेण अधमोत्तममध्यमसाहसा दण्डा वेदितव्याः । क्षेत्रग्रहणं चात्र गृहारामाद्युपलक्षणार्थम् । यदा पुनः स्वीयभ्रान्त्या क्षेत्रादिकम् अपहरति तदा द्विशतो दमो वेदितव्यः । यथाह मनुः ।

गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥ इति । (म्ध् ८.२६४)

अपह्रियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिद् उत्तमो ऽपि दण्डः प्रयोक्तव्यः । अत एवाह ।

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः ॥ इति ॥ (न्स्म् १४.७) ॥ २.१५५ ॥

यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयार्थदानेन वा लब्धानुज्ञो निर्मातुम् इच्छति तन्निषेधतः क्षेत्रस्वामिन एव दण्ड इत्य् आह ।

न निषेध्यो ऽल्पबाधस् तु सेतुः कल्याणकारकः । २.१५६अब्
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥ २.१५६च्द् ॥

परकीयां भूमिम् अपहरन् नाशयन्न् अपि सेतुर् जलप्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स चेद् ईषत्पीडाकरो बहूपकारकश् च भवति । कूपश् चाल्पक्षेत्रव्यापित्वेनाल्पबाधो बहूदकत्वेन कल्याणकारकश् चेतो बहूदको नैव निवारणीयः । कूपग्रहणं च वापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनर् असौ सर्वक्षेत्रवर्तितया बहुबाधो नद्यादिसमीपक्षेत्रवर्तितया वाल्पोपकारकस् तदासौ निषेध्य इत्य् अर्थाद् उक्तं भवति । सेतोश् च द्वैविध्यम् उक्तं नारदेन ।

सेतुश् च द्विविधो ज्ञेयः खेयो बन्ध्यस् तथैव च ।
तोयप्रवर्तनात् खेयो बन्ध्यः स्यात् तन्निवर्तनात् ॥ इति । (न्स्म् ११.१५)

यदा त्व् अन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तद्वंश्यं नृपं वा पृष्ट्वैव संस्कुर्यात् । यथाह नारदः ।

पूर्वप्रवृत्तम् उत्सन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत् फलभाग् भवेत् ॥
मृते तु स्वामिनि पुनस् तद्वंश्ये वापि मानवे ।
राजानम् आमन्त्र्य ततः कुर्यात् सेतुप्रवर्तनम् ॥ इति । (न्स्म् ११.१७–१८) ॥। २.१५६ ॥

क्षेत्रस्वामिनं प्रत्य् उपदिष्टम् । इदानीं सेतोः प्रवर्तयितारं प्रत्य् आह ।

स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् । २.१५७अब्
**उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः ॥ २.१५७च्द् ॥ **

क्षेत्रस्वामिनम् अनभ्युपगम्य तदभावे राजानं वा यः परक्षेत्रे सेतुं प्रवर्तयत्य् असौ फलभाङ् न भवत्य् अपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस् तदभावे राज्ञः । तस्मात् प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वानुज्ञाप्यैव परक्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्यार्थः ॥ २.१५७ ॥

क्षेत्रस्वामिना सेतुर् न प्रतिषेध्य इत्य् उक्तम् । इदानीं तस्यैव प्रसक्तानुप्रसक्त्या क्वचिद् विध्यनतरम् आह ।

फालाहतम् अपि क्षेत्रं न कुर्याद् यो न कारयेत् । २.१५८अब्
**स प्रदाप्यः कृष्टफलं क्षेत्रम् अन्येन कारयेत् ॥ २.१५८च्द् ॥ **

यः पुनः क्षेत्रस्वामिपार्श्वे अहम् इदं क्षेत्रं कृषामीत्य् अङ्गीकृत्य पश्चाद् उत्सृजति न चान्येन कर्षयति तच् च क्षेत्रं यद्य् अपि फालाहतं ईसद्धलेन विदारितं न सम्यग् बीजावापार्हं तथापि तस्याकृष्टस्य फलं यावत् तत्रोत्पत्त्यर्हं सामन्तादिकल्पितं तावद् असौ कर्षको दापनीयः । तच् च क्षेत्रं पूर्वकर्षकाद् आच्छिद्यान्येन कारयेत् ॥ २.१५८ ॥

**इति सीमाविवादप्रकरणम् **