०६ लेख्य-प्रकरणम्

**अथ लेख्यप्रकरणम् **

भुक्तिसाक्षिणौ निरूपितौ । सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधं शासनं जानपदं चेति । शासनं निरूपितम् । जानपदम् अभिधीयते । तच् च द्विविधम् स्वहस्तकृतम् अन्यकृतं चेति । तत्र स्वहस्तकृतम् असाक्षिकं अन्यकृतं ससाक्षिकम् । अनयोश् च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः ।

लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा ।
असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ इति । (न्स्म् १.११५)

तत्रान्यकृतम् आह ।

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् । २.८४अब्
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥ २.८४च्द् ॥

धनिकाधमर्णयोर् यो ऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद् देयम् इयती च प्रतिमासं वृद्धिर् इति निष्णातो व्यवस्थितः तस्मिन्न् अर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यं साक्षिमद् उक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यस्मिंस् तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकम् इति यावत् । कार्यं कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः,

कर्ता तु यत् कृतम् कार्यं सिद्ध्यर्थं तस्य साक्षिणः ।
प्रवर्तन्ते विवादेषु स्वकृतम् वाथ लेख्यकम् ॥

इति स्मरणात् ॥ २.८४ ॥

अपि च ।

समामासतदर्धाहर्नामजातिस्वगोत्रकैः । २.८५अब्
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ २.८५च्द् ॥

समा संवत्सरः । मासश् चैत्रादि । तदर्धं पक्षः शुक्लः कृण्णो वा । अहस् तिथिः प्रतिपदादिः । नाम धनिकर्णिकयोः । जातिर् ब्राह्मणत्वादिः । स्वगोत्रं वासिष्टादिगोत्रम् । एतैः समादिभिश् चिह्नितम् । तथा सब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम । आदिग्रहणाद् द्रव्यजातिसंख्याचारादेर् ग्रहणम् । एतैश् च चिह्नितं लेख्यम् कार्यम् इति गतेन संबन्धः ॥ २.८५ ॥

किं च ।

समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । २.८६अब्
मतं मे ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥ २.८६च्द् ॥

धनिकाधमर्णयोर् यो ऽर्थः स्वरुच्या व्यवस्थितस् तस्मिन्न् अर्थे समाप्ते लिखिते ऋण्य् अधमर्णो नामात्मीयं स्वहस्तेनास्मिंल् लेख्ये** यद् उपरि लेखितं तन् ममामुकपुत्रस्य मतम् **अभिप्रेतम् इति निवेशयेत् पत्रे विलिखेत् ॥ २.८६ ॥

तथा ।

साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् । २.८७अब्
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥ २.८७च्द् ॥

तस्मिंल् लेख्ये ये साक्षिणो लिखितास् ते ऽप्य् आत्मीयपितृनामलेखनपूर्वकं अस्मिन्न् अर्थे ऽयम् अमुको देवत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुः । ते च समाः संख्यातो गुणतश् च कर्तव्याः । यद्य् अधमर्णः साक्षी वा लिपिज्ञो न भवति तदाधमर्णो ऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह नारदः-

अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु स लेखयेत् ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥ इति ॥ (ध्को ३५७) २.८७ ॥

अपि च ।

उभयाभ्यर्थितेनैतन् मया ह्य् अमुकसूनुना । २.८८अब्
लिखितं ह्य् अमुकेनेति लेखको ऽन्ते ततो लिखेत् ॥ २.८८च्द् ॥

ततो लेखक उभाभ्यां धनिकाधमर्णिकाभ्याम् प्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुना एतल् लेख्यं लिखितम् इत्य् अन्ते लिखेत् ॥ २.८८ ॥

सांप्रतं स्वकृतं लेख्यम् आह ।

विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् । २.८९अब्
तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृताद् ऋते ॥ २.८९च्द् ॥

यल् लेख्यं स्वहस्तेन लिखितम् अधमर्णेन तत् साक्षिभिर् विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृताद् ऋते बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदादिलक्षणेन यत् कृतं तस्माद् विना । नारदो ऽप्य् आह ।

मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् ।
तद् अप्रमाणं लिखितं भयोपधिकृतं तथा ॥ इति । (न्स्म् १.११७)

तच् चैतत् स्वहस्तकृतं परहस्तकृतं च यल् लेख्यं देशाचारानुसारेण सबन्धकव्यवहारे ऽबन्धकव्यवहारे च युक्तम् अर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यम् इत्य् एतावत् न पुनः साधुशब्दैर् एव, प्रातिस्विकदेशभाषयापि लेखनीयम् । यथाह नारदः ।

देशाचाराविरुद्धं यद् व्यक्ताधिविधिलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥ इति । (न्स्म् १.११६)

विधानं विधिः, आधेर् विधिर् आधिविधिर् आधीकरणं, तस्य लक्षणं गोप्याधिभोग्याधिकालकृतमित्यादि, तद् व्यक्तं विस्पष्टं यस्मिंस् तद् व्यक्ताधिविधिलक्षणम् । अविलुप्तक्रमाक्षरं अक्षराणां क्रमः क्रमश् चाक्षराणि च क्रमाक्षराण्य् अविलुप्तानि क्रमाक्षराणि यस्मिंस् तद् अविलुप्तक्रमाक्षरं । तद् एवंभूतं लेख्यं प्रमाणम् । राजशासनवन् न साधुशब्दनियमो ऽत्रेत्य् अभिप्रायः ॥ २.८९ ॥

लेख्यप्रसङ्गेन लेख्यारूढम् अप्य् ऋणं त्रिभिर् एव देयम् इत्य् आह ।

ऋणं लेख्यकृतं देयं पुरुषैस् त्रिभिर् एव तु । २.९०अब्

यथा साक्ष्यादिकृतम् ऋणं त्रिभिर् एव देयं तथा लेख्यकृतम् अप्य् आहर्तृतत्पुत्रतत्पुत्रैस् त्रिभिर् एव देयं न चतुर्थादिभिर् इति नियम्यते ।

  • ननु पुत्रपौत्रैर् ऋणं देयम् इत्य् अविशेषेण ऋणमात्रं त्रिभिर् एव देयम् इति नियतम् एव ।

  • बाढम् । अस्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभवाम् अपवादशङ्काम् अपनेतुम् इदं वचनम् आरब्धम् । तथा हि पत्रलक्षणम् अभिधाय कात्यायनेनाभिहितम्-

एवं कालम् अतिक्रान्तं पितॄणां दाप्यते ऋणम् । इति । (ध्को ७०९)

इत्थं पत्रारूढम् ऋणम् अतिक्रान्तकालम् अपि पितॄणां संबन्धि दाप्यते । अत्र पितॄणाम् इति बहुवचननिर्देशात् कालम् अतिक्रान्तम् इति वचनाच् चतुर्थादिर् दाप्य इति प्रतीयते । तथा हारीतेनापि-

लेख्यं यस्य भवेद् धस्ते लाभं तस्य विनिर्दिशेत् । इति ।

अत्रापि यस्य हस्ते लेख्य(पत्र)म् अस्ति तस्यर्णलाभे इति सामान्येन चतुर्थादिभ्यो ऽप्य् ऋणलाभो ऽस्तीति प्रतीयते । अतश् चैतद् आशङ्कानिवृत्त्यर्थम् एतद् वचनम् इत्य् उक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥

अस्यापवादम् आह ।

**आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते ॥ २.९०च्द् ॥ **

संबन्धके ऽपि पत्रारूढम् ऋणं त्रिभिर् एव देयम् इति नियमाद् ऋणापाकरणानधिकारेणाध्याहरणे ऽप्य् अनधिकारप्राप्ताव् इदम् उच्यते । यावच् चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावद् एवाधिर् भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेर् अप्य् अधिकारो दर्शितः ।

  • ननु एतद् अप्य् उक्तम् एव “फलभोग्यो न नश्यति” (य्ध् २.५८) इति ।

  • सत्यम् । तद् अप्य् एतस्मिन्न् असत्य् अपअवादवचने पुरुषत्रयविषयम् एव स्याद् इति सर्वम् अनवद्यम् ॥ २.९० ॥

प्रासङ्गिकं परिसमाप्य प्रकृतम् एवानुसरति ।

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । २.९१अब्
**भिन्ने दग्धे ऽथवा छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥ २.९१च्द् ॥ **

व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्याद् इति विधीयते । व्यवहाराक्षमत्वं चात्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्लेख्ये दुष्टानि संदिह्यमानान्य् अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस् तत् दुर्लेख्यं तस्मिन् दुर्लेख्ये, नष्टे कालवशेन, उन्मृष्टे मषीदौर्बल्यादिना मृदितलिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे प्रज्वलिते, छिन्ने द्विधाभूते सति पत्रं द्विर्भवति । एतच् चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनायाध्वापेक्षया कालो दातव्यः । दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभिर् एव व्यवहारनिर्णयः कार्यः । यथाह नारदः ।

लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।
सतस् तत्कालकरणम् असतो द्रष्टदर्शणम् ॥ इति । (न्स्म् १.१२२)

सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिर् दातव्यः । असतां पुनर् अविद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस् तैर् दर्शनं व्यवहारपरिसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः,

अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् । (क्स्म् २२४)

इति स्मरणात् । एतच् च जानपदं व्यवस्थापत्रम् । राजकीयम् अपि व्यवस्थापत्रम् ईदृशम् एव भवति । इयांस् तु विशेषः-

राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्व् अर्थेषु साक्षिमत् ॥ इति । (क्स्म् २५८)

तथान्यद् अपि राजकीयं जयपत्रकम् वृद्धवसिष्टेनोक्तम् ।

यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।
सावधारणकं चैव जयपत्रकम् इष्यते ॥
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धे ऽर्थे वादिने दद्याज् जयिने जयपत्रकम् ॥ इति । (ध्को ३७८)

तथा सभासदो ऽपि मतं मे ऽमुकपुत्रस्येति स्वहस्तं दद्युः,

सभासदश् च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथालेख्यविधौ तद्वत् स्वहस्तं दद्युर् एव ते ॥ (क्स्म् २६३(

इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो भवति । यथाह नारदः-

यत्र सभ्यो जनः सर्वः साध्व् एतद् इति मन्यते ।
स निःशल्यो विवादः स्यात् सशल्यस् त्व् अन्यथा भवेत् ॥ इति । (न्स्म् मा ३.१६)

एतच् चतुष्पाद्व्यवहार एव,

साधयेत् साध्यम् अर्थं यच् चतुष्पादान्वितं च यत् ।
राजमुद्रान्वितं चैव जयपत्रकम् इष्यते ॥ (बृस्म् १.६।२८)

इति स्मरणात् । यत्र तु हीनता, यथा,

अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ (न्स्म् मा २.३३)
इति, तत्र न जयपत्रकम् अस्त्य् अपि तु हीनपत्रकम् एव । तच् च कालान्तरे दण्डप्राप्त्यर्थे जयपत्रं तु प्राङ्न्यायविधिसिद्ध्यर्थम् इति विशेषः ॥ २.९१ ॥

लेख्यसंदेहे निर्णयनिमित्तान्य् आह ।

संदिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः । २.९२अब्
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ २.९२च्द् ॥

शुद्धम् अशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल् लेख्यान्तरं तेन शुद्धिः । यदि सदृशान्य् अक्षराणि भवन्ति तदा शुद्धिः स्याद् इत्य् अर्थः । आदिशब्दात् साक्षिलेखकस्वहस्तलिखितान्तरसंवादाच् छुद्धिर् इति । युक्त्या प्राप्तिर् युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन् देशे ऽस्मिन्काले ऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया तत्साक्ष्युपन्यासः । चिह्नम् असाधारणं श्रीकारादि । संबन्धो ऽर्थिप्रत्यर्थिनोः पूर्वम् अपि परस्परविश्वासेन दानग्रहणादिसंबन्धः । आगमो ऽस्यैतावतो ऽर्थस्य संभावितः प्राप्त्युपायः । एते एव हेतवः । एभिर् हेतुभिः संदिग्धलेख्यस्य शुद्धिः स्याद् इत्य् अन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर् निर्णयः कार्यः । यथाह कात्यायनः-

दूषिते पत्रके वादी तदारूढांस् तु निर्दिशेत् । इति । (क्स्म् २८३)

साक्षिसंभवविषयम् इदं वचनं । साक्ष्यसंभवविषयं तु हारीतवचनम्-

न मयैतत् कृतं पत्रं कूटम् एतेन कारितम् ।
अधरीकृत्य तत् पत्रम् अथो दिव्येन निर्णयः ॥ इति ॥ (ध्को ३७४) २.९२ ॥

एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते, यदा कृत्स्नम् एव ऋणं दातुम् असमर्थस् तदा किं कर्तव्यम् इत्य् अत आह ।

लेख्यस्य पृष्ठे ऽभिलिखेद् दत्त्वा दत्त्वर्णिको धनम् । २.९३अब्
धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥ २.९३च्द् ॥

यदाधमर्णिकः सकलम् ऋणं दातुम् असमर्थस् तदा शक्त्यनुसारेण दत्त्व पूर्वकृतस्य लेख्यस्य पृष्ठे ऽभिलिखेत् एतावन् मया दत्तम् इति । उत्तमर्णो वा उपगतं प्राप्तं धनं तस्यैव लेख्यस्य पृष्ठे दद्याद् अभिलिखेत् “एतावन् मया लब्धम्” इति । कथम् । स्वहस्तपरिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद् वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्नितम् अधमर्णायोत्तमर्णो दद्यात् ॥ २.९३॥

ऋणे तु कृत्स्ने दत्ते, लेख्यं किं कर्तव्यम् इत्य् अत आह ।

दत्त्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् । २.९४अब्

क्रमेण सकृद् एव वा कृत्स्नम् ऋणं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्या अधमर्णत्वनिवृत्त्यर्थम् अन्यल् लेख्यं कारयेद् उत्तमर्णेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमर्णो विशुद्धिपत्रम् अधमर्णाय दद्याद् इत्य् अर्थः ॥

ससाक्षिके ऋणे कृत्स्ने दातव्ये, किं कर्तव्यम् इत्य् अत आह ।

साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षिकम् ॥ २.९४च्द् ॥

यत् तु ससाक्षिकम् ऋणं तत् पूर्वसाक्षिसमक्षम् एव दद्यात् ॥ २.९४ ॥

**इति लेख्यप्रकरणम् **