०३ ऋणादान-प्रकरणम्

**अथ ऋणादानप्रकरणम् **

साधारणासाधारणरूपां व्यवहारमातृकाम् अभिधायाधुनाष्टादशानां व्यवहारपदानाम् आद्यम् ऋणादानपदं दर्शयति “अशीतिभागो वृद्धिः स्यात्” इत्यादिना “मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने” इत्येवम् अन्तेन (य्ध् २.३७–६४) । तच् च ऋणादानं सप्तविधम् । ईदृशम् ऋणं देयं ईदृशम् अदेयम्, अनेनाधिकारिणा देयम्, अस्मिन् समये देयम्, अनेन प्रकारेण देयम् इत्य् अधमर्णे पञ्चविधम् । उत्तमर्णे दानविधिः, आदानविधिश् चेति द्विविधम् इति । एतच् च नारदेन स्पष्टीकृतम्-

ऋणं देयम् अदेयं च येन यत्र यया च यत् ।
दानग्रहणधर्माभ्याम् ऋणादानम् इति स्मृतम् ॥ इति । (न्स्म् १.१)

तत्र प्रथमम् उत्तमर्णस्य दानविधिम् आह तत्पूर्वकत्वाद् इतरेषाम् ।

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके । २.३७अब्
वर्णक्रमाच् छतं द्वित्रिचतुःपञ्चकम् अन्यथा ॥ २.३७च्द् ॥

मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यद् आधीयते, आधिर् इति यावत् । बन्धकेन सह वर्तत इति सबन्धकः प्रयोगस् तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीतितमो भागो वृद्धिर् धर्म्या भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धर्म्यं भवति । ब्राह्मणे ऽधमर्णे द्विकं शतं क्षत्रिये त्रिकं वैश्ये चतुष्कं शूद्रे पञ्चकं मासि मासीत्य् एव द्वौ वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर् दीयते इति द्वित्रिचतुःपञ्चकं शतम् । “संख्याया अतिशदन्तायाः कन्” (पाण् ५.१।२२) इत्यनुवृत्तौ, “तद् अस्मिन् वृद्ध्यायलाभशुल्कोपदादीयते” (पाण् ५.१।४७) इति कन् ।[^२४] इयं च वृद्धिर् मासि गृह्यत इति कालिका । इयम् एव वृद्धिर् दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथा च नारदेन-

कायिका कालिका चैव कारिता च तथा परा ।
चक्रवृद्धिश् च शास्त्रेषु तस्य वृद्धिश् चतुर्विधा ॥ (न्स्म् १.८७)

इत्य् उक्त्वा, उक्तम्-

कायाविरोधिनी शश्वत् पणपादादिकायिका ।
प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥
वृद्धिः सा कारिता नामाधमर्णेन स्वयं कृता ।
वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता ॥ इति ॥ (न्स्म् १.८८–८९) २.३७ ॥

ग्रहीतृविशेषेण प्रकारान्तरम् आह ।

कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् । २.३८अब्

कान्तारम् अरण्यं तत्र गच्छतीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिकलाभार्थम् अतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च समुद्रगास् ते विंशकं शतं मासि मासीत्य् एव । एतद् उक्तं भवति- कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश् च विंशकम् उत्तमर्ण आदद्यान् मूलविनाशस्यापि शङ्कितत्वाद् इति ॥

इदानीं कारितां वृद्धिम् आह ।

दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ २.३८च्द् ॥

सर्वे वा ब्राह्मणादयो ऽधमर्णा अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतवृद्धिं सर्वासु जातिषु दद्युः । क्वचिद् अकृतापि वृद्धिर् भवति । तथाह नारदः ।

न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।
अनकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥ इति । (न्स्म् १.९६)

यस् तु याचितकं गृहीत्वा देशान्तरं गतस् तं प्रति कात्यायनेनोक्तम् ।

यो याचितकम् आदाय तम् अदत्त्वा दिशं व्रजेत् ।
ऊर्ध्वं संवत्सरात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥ इति । (क्स्म् ५०२)

यश् च याचितकम् आदाय याचित् ऽप्य् अदत्त्वा देशान्तं व्रजति तं प्रति तेनैवोक्तम् ।

कृतोद्धारम् अदत्त्वा यो याचितस् तु दिशं व्रजेत् ।
ऊर्ध्वं मासत्रयात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥ इति । (क्स्म् ५०३)

यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याचनकालाद् आरभ्याकारितां वृद्धिं दापयेद् राजा । यथाह ।

स्वदेशे ऽपि स्थितो यस् तु न दद्याद् याचितः क्वचित् ।
तं ततो ऽकारितां वृद्धिम् अनिच्छन्तं च दापयेत् ॥ इति । (क्स्म् ५०४)

अनाकारितवृद्देर् अपवादो नारदेनोक्तः ।

पण्यमूल्यं भृतिर् न्यासो दण्डो यश् च प्रकल्पितः ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥ इति । (न्स्म् ४.७)

अविवक्षिता अनाकारिता इति ॥ २.३८ ॥

अधुना द्रव्यविशेषे वृद्धिविशेषम् आह ।

सन्ततिस् तु पशुस्त्रीणां । २.३९अब्

पशुस्त्रीणां सन्ततिर् एव वृद्धिः । पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचर्यार्थिनः ।

अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणम् अन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धिर् इत्य् अपेक्षित आह ।

**रसस्याष्टगुणा परा । २.३९च्द् **
वस्त्रधान्यहिर्ण्यानां चतुस्त्रिद्विगुणा परा ॥ २.३९च्द् ॥

रसस्य तैलघृतादेर् वृद्धिग्रहणम् अन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्ध्या वर्धमानस्याष्टगुणा वृद्धिः परा । नातः परं वर्धते । तथा वस्त्रधान्यहिर्ण्यानां यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्यम् उक्तम्- “द्विगुणम् हिरण्यं त्रिगुणम् धान्यं । धान्येनैव रसा व्याख्याताः, पुष्पमूलफलानि च । तुलाधृतम् अष्टगुणम्” इति (वध् २.४४–४७) । मनुना तु धान्यस्य पुष्पमूलफलादीनां च पञ्चगुणत्वम् उक्तम्-

धान्ये शदे लवे वाह्ये नातिक्रामति पञ्चताम् । इति । (म्ध् ८.१५१)

शदः क्षेत्रफलं पुष्पमूलफलादि । लवो मेषोर्णाचमरीकेशादिः । वाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच् च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्न् एव वा पुरुषे रेकसेकाभ्यां अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्य् अतिक्रम्य पूर्ववद् वर्धते । सकृत्प्रयोगे ऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वा वृद्ध्याहरणे ऽधमर्णदेयस्य द्वैगुण्यसंभवात् पूर्वाहृतवृद्ध्या सह द्वैगुण्यम् अतिक्रम्य वर्धत एव । यथाह मनुः-

कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहृता । इति । (म्ध् ८.१५१)

सकृदाहितेत्य् अपि पाठो ऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं तस्य वृद्धिः कुसीदवृद्धिः सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाधमर्णाद् आहृता द्वैगुण्यम् अत्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम् “चिरस्थाने द्वैगुण्यं प्रयोगस्य” (ग्ध् १२.३१) इति । प्रयोगस्येत्य् एकवचननिर्देशात् प्रयोगान्तरकरणे द्वैगुण्यातिक्रमो ऽभिप्रेतः । चिरस्थान इति निर्देशात् शनैः शनैर् वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ २.३९ ॥

ऋणप्रयोगधर्मा उक्ताः । सांप्रतं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते ।

प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् । २.४०अब्
साध्यमानो नृपं गच्छेद् दण्ड्यो दाप्यश् च तद् धनम् ॥ २.४०च्द् ॥

प्रपन्नम् अभ्युपगतम् अधमर्णेन धनं साक्ष्यादिभिर् भावितं वा साध्ययन् प्रत्याहरन् धर्मादिभिर् उपायैर् उत्तमर्णो नृपतेर् न वाच्यो निर्वारणीयो न भवति ॥ धर्मादयश् चोपाया मनुना दर्शिताः-

धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ इति । (म्ध् ८.४९)

धर्मेण प्रीतियुक्तेन सत्यवचनेन । व्यवहारेण साक्षिलेख्याद्युपायेन । छलेन उत्सवादिव्याजेन भूषणादिग्रहणेन । आचरितेन अभोजनेन । पञ्चमेनोपायेन बलेन निगडबन्धनादिना उपचयार्थं प्रयुक्तं द्रव्यम् एतैर् उपायैर् आत्मसात्कुर्याद् इति । “प्रपन्नं साधयन्न् अर्थं न वाच्यः” इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतद् एव स्पष्टीकृतं कात्यायनेन ।

पीडयेद् यो धनी कश्चिद् ऋणिकं न्यायवादिनम् ।
तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥ इति । (क्स्म् ५८९)

यस् तु धर्मादिभिर् उपायैः प्रपन्नम् अर्थं साध्यमानो याच्यमानो नृपं गच्छेद् राजानम् अभिगम्य साधयन्तम् अभियुङ्क्ते स दण्ड्यो भवति, शक्त्यनुसारेण धनिने तद्धनं दाप्यश् च । राज्ञा दापने च प्रकारा दर्शिताः ।

राजा तु स्वामिने व्प्रं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस् तु दुष्टान् संपीड्य दापयेत् ॥
रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥ इति । (क्स्म् ४७७–७८)

साध्यमानो नृपं गच्छेन्न् इत्य् एतत् स्मृत्याचारव्यपेतेनेत्य् अस्य प्रत्युदाहरणं बोद्धव्यम् ॥ २.४० ॥

बहुषूत्तमर्णिकेषु युगपत् प्राप्तेष्व् एको ऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्य् अपेक्षित आह ।

गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः । २.४१अब्
दत्त्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥ २.४१ च्द् ॥

समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधमर्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ २.४१ ॥

यदा पुनर् उत्तमर्णो दुर्बलः प्रतिपन्नम् अर्थं धर्मादिभिर् उपायैः साधयितुम् अशक्नुवन् राज्ञा साधितार्थो भवति तदा ऽधमर्णस्य दण्डम् उत्तमर्णस्य च भृतिदानम् आह ।

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् । २.४२अब्
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णिकः ॥ २.४२च्द् ॥

अधमर्णिको राज्ञा प्रतिपन्नार्थात् साधिताद् दशकं शतं दाप्यः । प्रतिपन्नस्य साधितार्थस्य दशमम् अंशं राजा ऽधमर्णिकाद् दण्डरूपेण गृह्णीयाद् इत्यर्थः । उत्तमर्णस् तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितमं भागम् उत्तमर्णाद् राजा भृत्यर्थं गृह्णीयाद् इत्य् अर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शितः “निह्नवे भावितो दद्यात्” (य्ध् २.५) इत्यादिना ॥ २.४२ ॥

सधनम् अधमर्णिकं प्रत्युक्तम् । अधुना निर्धनम् अधमर्णिकं प्रत्याह ।

हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् । २.४३अब्
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥ २.४३च्द् ॥

ब्राह्मणादिर् उत्तमर्णो हीनजातिं क्षत्रियादिजातिं परिक्षीणं निर्धनम् ऋणार्थं ऋणनिवृत्त्यर्थं कर्म स्वकर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोधेन । ब्राह्मणस् तु पुनः परिḳसीणो निर्धनः शनैः शनैः यथोदयं यथासंभवम् ण्र्णं दाप्यः । अत्र च हीनजातिग्रहणं समानजातेर् अप्य् उपलक्षणम् । अतश् च समानजातिम् अपि परिक्षीणं यथोचितं कर्म कारयेत् । ब्राह्मणग्रहणं च श्रेयोजातेर् उपलक्षणम् । अतश् च क्षत्रियादिर् अपि परिक्षीणो वैश्यादेः शनैः शनैर् दाप्यो यथोदयम् । एतद् एव मनुना स्पष्टीकृतम् ।

कर्मणापि समं कुर्याद् धनिकेनाधमर्णिकः ।
समो ऽपकृष्टजातिश् च दद्याच् छ्रेयांस् तु तच् छनैः ॥ इति । (म्ध् ८.१७७)

उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेशम् आत्मानम् अधमर्णः कर्मणा कुर्याद् इत्य् अर्थः ॥ २.४३ ॥

मध्यस्थस्थापितं न वर्धते ।

दीप्यमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । २.४४अब्
मध्यस्थस्थापितं चेत् स्याद् वर्धते न ततः परम् ॥ २.४४च्द् ॥

किं च, उपचयार्थं प्रयुक्तं धनं अधमर्णेन दीयमानम् उत्तमर्णो वृद्धिलोभाद् यदि न गृह्णाति, तदाधमर्णेन मध्यमहस्ते स्थापितं यदि स्यात्, तदा ततः स्थापनाद् ऊर्ध्वं न वर्धते । अथ स्थापितम् अपि याच्यमानो न ददाति ततः पूर्ववद् वर्धत एव ॥ २.४४ ॥

इदानीं देयम् ऋणं यदा येन च देयं तद् आह ।

अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् । २.४५अब्
दद्युस् तद् रिक्थनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ २.४५च्द् ॥

अविभक्तैर् बहुभिः कुटुम्बार्थम् एकैकेन वा यद् ऋणं कृतं तद् ऋणं कुटुम्बी दद्यात् । तस्मिन् प्रेते प्रोषिते वा तद्रिक्थिनः सर्वे दद्युः ॥ २.४५ ।

येन देयम् इत्य् अत्र प्रत्युदाहरणम् आह ।

न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता । २.४६अब्
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥ २.४६च्द् ॥

पत्या कृतम् ऋणं योषिद् भार्या नैव दद्यात् । पुत्रेण कृतं योषिन् माता न दद्यात् । तथा पुत्रेण कृतम् पिता न दद्यात् । तथा भार्याकृतं पतिर् न दद्यात् । कुटुम्बार्थाद् ऋत इति सर्वशेषः । अतश् च कुटुम्बार्थं येन केनापि कृतं तत् कुटुम्बिना देयम् । तदभावे तद्दायहरैर् देयम् इत्य् उक्तम् एव ॥ २.४६ ॥

“पुत्रपौत्रैर् ऋणं देयम्” (य्ध् २.५०) इति वक्ष्यति । तस्य पुरस्ताद् अपवादम् आह ।

सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् । २.४७अब्
वृथादानं तथैवेह पुत्रो दद्यान् न पैतृकम् ॥ २.४७च्द् ॥

सुरापानेन यत्कृतम् ऋणं कामकृतं स्त्रीव्यसननिमित्तं द्यूते पराजयनिमित्तं दण्डशुल्कयोर् अविशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो यत् प्रतिज्ञातम्,

धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥ (ध्को ७१५)

इति स्मरणात् । एतद् ऋणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टकम् इत्य् अवशिष्टग्रहणात् सर्वं दातव्यम् इति न मन्तव्यम्,

दण्डं वा दण्डशेषं वा शुल्कं तच्छेषम् एव वा ।
न दातव्यं तु पुत्रेण यच् च न व्यावहारिकम् ॥ (ध्को ७१४)

इत्य् औशनसस्मरणात् । गौतमेनाप्य् उक्तम् “मद्यशुल्कद्यूतकामदण्डा न पुत्रान् अध्यावहेयुः” इति (ग्ध् १२.४१) । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयम् ऋणम् उक्तम् ॥ २.४७ ॥

“न पतिः स्त्रीकृतं तथा” (य्ध् २.४६) इत्यस्यापवादम् आह ।

गोपशौण्डिकशैलूषरजकव्याधयोषिताम् । २.४८अब्
ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥ २.४८च्द् ॥

गोपो गोपालः । शौण्डिकः सुराकारः । शैलूषो नटः । रजको वस्त्राणां रञ्जकः । व्याधो मृगयुः । एतेषां योषिद्भिर् यद् ऋणं कृतं तत् तत्पतिभिर् देयम् । यस्मात् तेषां वृत्तिर् जीवनं तदाश्रया योषिदधीना । “यस्माद् वृत्तिस् तदाश्रया” इति हेतुव्यपदेशाद् अन्ये ऽपि ये योषिदधीनजीवनास् ते ऽपि योषित्कृतम् ऋणं दद्युर् इति गम्यते ॥ २.४८ ॥

“पतिकृतं भार्या न दद्यात्” (य्ध् २.४६) इत्य् अस्यापवादम् आह ।

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् । २.४९अब्
स्वयं कृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अरहति ॥ २.४९च्द् ॥

मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत् प्रतिपन्नं तत् पतिकृतम् ऋणं देयम् । यच् च पत्या सह भार्यया ऋणं कृतं तद् अपि भर्त्रभावे भार्यया अपुत्रया देयम् । यच् च स्वयं कृतं ऋणं तद् अपि देयम् ।

  • ननु प्रतिपन्नादि त्रयं स्त्रिया देयम् इति न वक्तव्यम् संदेहाभावात् ।

  • उच्यते-

भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥ (म्ध् ८.४१६)

इति वचनान् निर्धन्त्वेन प्रतिपन्नादिष्व् अदानाशङ्कायाम् इदम् उच्यते, “प्रतिपन्नं स्त्रिया देयम्” इत्यादि । न चानेन वचनेन स्त्र्यादीनां निर्धनत्वम् अभिधीयते, पारतन्त्र्यमात्रप्रतिपादनपरत्वात् । एतच् च विभागप्रकरणे स्पष्टीकरिष्यते ।

“नान्यत् स्त्री दातुम् अर्हति” इत्य् एतत् तर्हि न वक्तव्यम्, विधानेनैवान्यत्र प्रतिषेधसिद्धेः ।

  • उच्यते- “प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतअम्” इत्य् एतयोर् अपवादार्थम् उच्यते । अन्यत् सुराकामादिवचनोपात्तं प्रतिपन्नम् अपि पत्या सह कृतम् अपि न देयम् इति ॥ २.४९ ॥

पुनर् अपि यद् ऋणं दातव्यं येन च दातव्यं यत्र च काले दातव्यं तत् त्रितयम् आह ।

पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि वा । २.५०अब्
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥ २.५०च्द् ॥

पिता यदि दातव्यम् ऋणम् अदत्त्वा प्रेतो दूरदेशं गतो ऽचिकित्सनीयव्याध्याद्यभिभूतो वा तदा तत्कृतम् ऋणम् आख्यापने ऽवश्यं देयं पुत्रेण पौत्रेण वा पितृधनाभावे ऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमो ऽप्य् अयम् एव- पित्रभावे पुत्रः पुत्राभावे पौत्र इति पुत्रेण पौत्रेण वा निह्नवे कृते अर्थिना साक्ष्यादिभिर् भावितम् ऋणं देयं पुत्रपौत्रैर् इत्य् अन्वयः । अत्र पितरि प्रोषित इत्य् एतावद् उक्तम् कालविशेषस् तु नारदेनोक्तो द्रष्टव्यः ।

नार्वाक् संवत्सराद् विंशात् पितरि प्रोषिते सुतः ।
ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भातर्य् अथापि वा ॥ इति । (न्स्म् १.११)

प्रेते ऽप्य् अप्राप्तव्यवहारकालो न दद्यात् । प्राप्तव्यवहारकालस् तु दद्यात् । स च कालस् तेनैव दर्शितः ।

गर्भस्तैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बाल आ षोडशाद् वर्षात् पौगण्डश् चेति शब्द्यते ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥ इति । (न्स्म् १.३१–३२)

यद्य् अपि पितृमरणाद् ऊर्ध्वं बालो ऽपि स्वन्त्रन्त्रो जातस् तथापि नर्णभाग् भवति । यथाह ।

अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽपि हि नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥ इति । (न्स्म् १.२७)

तथा आसेधाह्वाननिषेधश् च दृश्यते ।

अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्या न चैतान् आह्वयेन् नृपः ॥ इति । (न्स्म् १.४७)

तस्मात् ।

अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।
ऋणात् पिता मोचनीयो यथा नो नरकं व्रजेत् ॥ इति । (न्स्म् १.६)

पुत्रेण व्यवहाराज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्याप्य् अधिकारः “न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात्” (ग्ध् २.५) इति गौतमस्मरणात् । पुत्रपौत्रैर् इति बहुवचननिर्देशाद् बहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं दद्युः । अविभक्ताश् चेत् संभूयसमुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूत एव वा दद्याद् इति गम्यते । यथाह नारदः ।

अत ऊर्ध्वं पितुः पुत्रा ऋणं दद्युर् यथांशतः ।
अविभक्ता विभक्ता वा यस् तां चोद्वहते धुरम् ॥ इति । (न्स्म् १.२)

अत्र च यद् यपि पुत्रपौत्रैर् ऋणं देयम् इत्य् अविशेषेणोक्तं तथापि पुत्रेण यथा पिता सवृद्धिकं ददाति तथैव देयम् । पौर्त्रेण तु समं मूलम् एव दातव्यं न वृद्धिर् इति विशेषो ऽवगन्तव्यः,

ऋणम् आत्मीयवत् पित्र्यं देयं पुत्रैर् विभवितम् ।
पैतामहं समं देयम् अदेयं तत्सुतस्य तु ॥ (बृस्म् १.१०.११४)

इति बृहस्पतिस्मरणात् । अत्र विभावितम् इत्य् अविशेषोपादानात् साक्षिविभावितम् इत्य् अत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समण् यावद् गृहीतं तावद् एव देयं न वृद्धिः । तत्सुतस्य प्रपौत्रस्यादेयम् अगृहीतधनस्य । एतच् चोत्तरश्लोके स्पष्टीक्रियते ॥ २.५० ॥

ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास् तेषां समवाये क्रमो ऽपि दर्शितः । इदानीं कर्त्रन्तरसमवाये च क्रमम् आह ।

रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च । २.५१अब्
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ २.५१च्द् ॥

अन्यदीयं द्रव्यम् अन्यस्य क्रयादिव्यतिरेकेण यत् स्वीयं भवति तद् रिक्थम् । विभागद्वारेण रिक्थं गृह्णातीति रिक्थाग्राहः स ऋणं दाप्यः । एतद् उक्तं भवति । यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतम् ऋणं दाप्यो न चौरादिः । योषितं भार्यां गृह्णातीति योषिद्ग्राहः स तथैवर्णं दाप्यः । यो यदीयां योषितं गृह्णाति स तत्कृतम् ऋणं दाप्यः । योषितो ऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाद् भेदेन निर्देशः । पुत्रश् चानन्याश्रितद्रव्य ऋणं दाप्यः । अन्यम् आश्रितम् अन्याश्रितं मातृपितृसंबन्धिद्रव्यं यस्यासाव् अन्याश्रितद्रव्यः न अन्याश्रितद्रव्यो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिन ऋणं दाप्य इति संबन्धः । एतेषां समवाये क्रमश् च पाठक्रम एव रिक्थग्राह ऋणं दाप्यस् तदभावे योषिद्ग्राहस् तदभावे पुत्र इति ।

  • नन्व् एतेषां समवाय एव नोपपद्यते,

न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । (म्ध् ९.१८५)

इति पुत्रे सत्य् अन्यस्य रिक्थग्रहणासंभवात् । योषिद् ग्राहो ऽपि नोपपद्यते,

न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते । (म्ध् ५.१६२)

इति स्मरणात् । तथा तदृणं पुत्रो दाप्य इत्य् अप्य् अयुक्तम्, “पुत्रपौत्रैर् ऋणं देयम्” (य्स्ह् २.५०) इत्य् उक्तत्वात् । “अनन्याश्रितद्रव्यः” इति विशेषणम् अप्य् अर्थकम्, पुत्रे सति द्रव्यस्यान्याश्रयणासंभवात्, संभवे च रिक्थग्राह इत्य् अनेनैव गतार्थत्वात् । पुत्रहीनस्य रिक्थिन इत्य् एतद् अपि न वक्तव्यम् । पुत्रे सत्य् अपि रिक्थग्राह ऋणं दाप्य इति स्थितम् । असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति सिद्धम् एवेति ।

  • अत्रोच्यते- पुत्रे सत्य् अप्य् अन्यो रिक्थग्राही संभवति । क्ल्ịबान्धबधिरादीनां पुत्रत्वे ऽपि रिक्थहरत्वाभावात् । तथा च क्लीबादीन् अनुक्रम्य “भर्तव्याः स्युर् निरंशकाः” (य्ध् २.१४०) इति वक्ष्यति । तथा “सवर्णापुत्रो प्य् अन्यायवृत्तिर् न लभेतैकेषाम्” (ग्ध् २८.४०) इति गौतमस्मरणात् । अतश् च क्लीबादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णापुत्रे सति रिक्थाग्राही पितृव्यतत्पुत्रादिः । योषिद्ग्राहो यद्य् अपि शास्त्राविरोधेन न संभवति तथाप्य् अतिक्रान्तनिषेधः पूर्वपतिकृतर्णापाकरणाधिकारी भवत्य् एव । योषिद्ग्राहो यश् चतसृणां स्वैरिणीनाम् अन्तिमां गृह्णाति, यश् च पुनर्भुवां तिसृणां प्रथमाम् । यथाह नारधः-

परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्मणा ॥ (न्स्म् १२.४५–४६)
देशधर्मान् अवेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥ (न्स्म् १२.५२)

उत्पन्नसाहसा उत्पन्नव्यभिचारा ।

असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥
स्त्रीप्रसूता ऽप्रसूता वा पत्याव् एव तु जीवति ।
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥ (न्स्म् १२.४८–४९)
कौमारं पतिम् उत्सृज्य या त्व् अन्यं पुरुषं श्रिता ।
पुनः पत्युर् ग्रहं यायात् सा द्वितीया प्रकीर्तिता ॥ (न्स्म् १२.४७)
मृते भर्तरि तु प्राप्तान् देवरादीन् अपास्य या ।
उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥
प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहम् इत्य् उपगता सा चतुर्थी प्रकीर्तिता ॥ (न्स्म् ५०–५१)
अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद् यस् ताम् उपाश्रितः ॥ इति । (ध्को ७०२)

तथान्यो ऽपि योषिद्ग्राह ऋणापाकरणे ऽधिकारी तेनैव दर्शितः ।

या तु सप्रधनैव स्त्री सापत्या वान्यम् आश्रयेत् ।
सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥ (न्स्म् १.१८)

प्रकृष्टेन धनेन सह वर्तत इति सप्रधना । बहुधनेति यावत् । तथा ।

अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते सैव चास्य धनं स्मृतम् ॥ इति । (न्स्म् १९)

पुत्रस्य पुनर् वचनं क्रमार्थम् । “अनन्याश्रितद्रव्यः” इति बहुषु पुत्रेषु रिक्थाभावे ऽप्य् अंशग्रहणयोग्यस्यैवर्णापाकरणे ऽधिकारो नायोग्यस्यान्धादेर् इत्य् एवम् अर्थम् । पुत्रहीनस्य रिक्थिन इत्य् एतद् अपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्या नान्यथेत्य् एवम् अर्थम् । पुत्रपौत्रौ च रिक्थग्रहणाभावे ऽपि दाप्याव् इत्य् उक्तम् । यथाह नारदः ।

क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥ (न्स्म् १.४)

इति सर्वं निरवद्यम् ॥

यद् वा योषिद्ग्राहाभावे पुत्रो दाप्य इत्य् उउक्तं । पुत्राभावे योषिद्ग्राहो दाप्य इत्य् उच्यते । पुत्रहीनस्य रिक्थिन इति रिक्थशब्देन योषिद् एवोच्यते, “सैव चास्य धनं स्मृतम्” (न्स्म् १.१९) इति स्मरणात्,
यो यस्य हरते दारान् स तस्य हरते धनम् । (न्स्म् १.१८* अद्दितिओन्)

इति च ॥

  • ननु योषिद्ग्राहाभावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्ग्राह इति परस्परविरुद्धम् । उभयसद्भावे न कश्चिद् दाप्य इति ।

नैष दोषः । अन्तिमस्वैरिणीग्राहिणः प्रथम्पुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश् चाभावे पुत्रो दाप्यः । पुत्राभावे तु निर्धननिरपत्ययोषिद्ग्राही दाप्य इति । एतद् एवोक्तं नारदेन ।
धनस्त्रीहारिपुत्राणाम् ऋणभाग्यो धनं हरेत् ।
पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥ इति । (न्स्म् १.२०)

धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत् स ऋणभाक् । पुत्रो ऽसतोः स्त्रीधनिनोः स्त्री च धनं च स्त्रीधने ते विद्येते ययोस् तौ स्त्रीधनिनौ तयोः स्त्रीधनिनोर् असतोः पुत्र एव ऋणभाक् भवति । धनिपुत्रयोर् असतोः स्त्रीहार्य् एवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक् पुत्राभावे स्त्रीहारीति विरोधाभासपरिहारः पूर्ववत् । पुत्रहीनस्य रिक्थिन इत्य् अस्यान्या व्याख्या- एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्या इत्य् अपेक्षायाम् उत्तमर्णस्य दाप्यास् तदभावे तत्पुत्रादेः पुत्राद्यभावे कस्य दाप्या इत्य् अपेक्षायाम् इदम् उपतिष्ठते “पुत्रहीनस्य रिक्थिनः” इति । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहणयोग्यः सपिण्डादिस् तस्य रिक्थिनो दाप्याः । तथा च नारदेन,

ब्राह्मणस्य तु यद्देयं सान्वयस्य च नास्ति चेत् ।
निर्वपेत् तत्सकुल्येषु तदभावे ऽस्य बन्धुषु ॥ (न्स्म् १.९९)

इत्य् अभिहितम् ।

यदा तु न सकुल्याः स्युर् न च संबन्धिबान्धवाः ।
तदा दद्याद् द्विजेभ्यस् तु तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥ इति ॥ (न्स्म् १.१००) २.५१ ॥

अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन् प्रसङ्गाद् अन्यद् अपि प्रतिषेधति ।

भ्रात्र्̣̄णाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि । २.५२अब्
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ २.५२च्द् ॥

प्रतिभुवो भावः प्रतिभाव्यं । भ्रात्र्̣̄णां दम्पत्योः पितापुत्रयोश् चाविभक्ते द्रव्ये द्रव्यविभागात् प्राक् प्रातिभाव्यम् ऋणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपि तु प्रतिषिद्धं, साधारणधनत्वात्, प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसानत्वात्, ऋणस्य चावश्यप्रतिदेयत्वात् । एतच् च परस्परानुमतिव्यतिरेकेण । परस्परानुमत्या त्व् अविभक्तानाम् अपि प्रातिभाव्यादि भवत्य् एव । विभागाद् ऊर्ध्वं तु प्रस्परानुमतिव्यतिरेकेणापि भवति ॥

  • ननु दम्पत्योर् विभागात् प्राक् प्रातिभाव्यादिप्रतिषेधो न युज्यते, तयोर् विभागाभावेन विशेषणानर्थक्यात् । विभागाभावश् च आप्स्तम्बेन दर्शितः - “जायापत्योर् न विभागो विद्यते” (आप्ध् २.१४.१६) इति ।

  • सत्यम् । श्रौतस्मार्ताग्निसाध्येषु कर्मसु तत्फलेषु च विभागो विद्यते इत्य् उक्त्वा किम् इति न विद्यते इत्य् अपेक्षायां, हेतुम् उक्तवान् “पाणिग्रहणाद् धि सहत्वं कर्मसु तथा पुण्यफलेषु च” (आप्ध् २.१४.१७–१८) इति । हि यस्मात् पाणिग्रहणाद् आरभ्य कर्मसु सहत्वं श्रूयते “जायापत्य् अग्निम् आदधीयाताम्” इति । तस्माद् आधाने सहाधिकाराद्, आधानसिद्धाग्निसाध्येषु कर्मसु सहाधिकारः । तथा “कर्म स्मार्तं विवाहाग्नौ” (य्ध् १.९७) इत्यादिस्मरणाद् विवाहसिद्धाग्निसास्हेष्व् अपि कर्मसु सहाधिकार एव । अतश् चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथग् एवाधिकारः संपद्यते । तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते- “दिवि ज्योतिर् अजरम् आरभेताम्” इत्यादि । येषु पुण्यकर्मसु सहाधिकारस् तेषां फलेषु सहत्वम् इति बोद्धव्यं, न पुनः पूर्तानां भर्त्रनुज्ञयानुष्ठितानां फलेष्व् अपि ।

  • ननु द्रव्यस्वामित्वे ऽपि सहत्वम् उक्तम्- “द्रव्यपरिग्रहेषु च, न हि भर्तुर् विप्रवासे नैमित्तिके दाने स्तेयम् उपदिशन्ति” (आप्ध् २.१४.१९–२०) इति ।

  • सत्यम् । द्रव्यस्वामित्वं पत्न्या दर्शितम् अनेन न पुनर् विभागाभावः । यस्माद् द्रव्यपरिग्रहेषु चेत् युक्त्या तत्र कारणम् उक्तम्- “भर्तुर् विप्रवासे नैमित्तिके ऽवश्यकर्तव्ये दाने ऽतिथिभोजनभिक्षाप्रदानादौ हि यस्मान् न स्तेयम् उपदिशन्ति मन्वादयस् तस्माद् भार्त्याया अपि द्रव्यस्वामित्वम् अस्त्य् अन्यथा स्तेयं स्यात्” इति । तस्माद् भर्तुर् इच्छया भार्याया अपि द्रव्यविभागो भवत्य् एव न स्वेच्छया । यथा वक्ष्यति-

यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः । इति । (य्ध् २.११५) २.५२ ॥

अधुना प्रातिभाव्यं निरूपयितुम् आह ।

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । २.५३अब्
आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥ २.५३च्द् ॥

प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः । तच् च विषयभेदात् त्रिधा भिद्यते । यथा- दर्शने दर्शनापेक्षायां एनं दर्शयिष्यामीति । प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते यतो ऽमुकस्य पुत्रो ऽयं उर्वराप्रायभूर् अस्य ग्राह्मवरो वास्तीति । दाने यद्य् अयं न ददाति तदानीम् अहम् एव दास्यामीति । “प्रातिभाव्यं विधीयते” इति प्रत्येकं संबध्यते । आद्यौ तु दर्शनप्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिवारे च दाप्यौ राज्ञा प्रस्तुतं धनम् उत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः ॥ वितथ इत्य् एव शाठ्येन निर्धनत्वेन वा ऽधमर्णे ऽप्रतिकुर्वति “इतरस्य सुता अपि” (य्ध् २.११९) इति वदता पूर्वयोः सुता न दाप्या इत्य् उक्तम् । सुता इति वदता न पौत्रा दाप्या इति दर्शितम् ॥ २.५३ ॥

एतद् एव स्पष्टीकर्तुम् आह ।

दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा । २.५४अब्
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय यः स्थितः ॥ २.५४च्द् ॥

यदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर् दिवं गतस् तदा तयोः पुत्राः प्रातिभाव्यायातं पैतृकम् ऋणं न दद्युः । यस् तु दानाय स्थितः प्रतिभूर् दिवं गतस् तस्य पुत्रा दद्युर् न पौत्राः । ते च मूलम् एव दद्युर् न वृद्धिम्,

ऋणं पैतामहं पौत्रः प्रातिभाव्याहतं सुतः ।
समं दद्यात् तत्सुतौ तु न दाप्याव् इति निश्चयः ॥ (ध्को ६७६)

इत् व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहम् ऋणं पौत्रः समं यावद् गृहीतं तावद् एव दद्यान् न वृद्धिम् । तथा तत्सुतो ऽपि प्रातिभाव्यागतं पित्र्यम् ऋणं समम् एव दद्यात् । तयोः पौत्रपुत्रयोः सुतौ पौत्रप्रपौत्रौ च प्रातिभाव्यायातम् अप्रातिभाव्यं च ऋणं यथाक्रमम् अगृहीतधनौ न दाप्याव् इति । यद् अपि स्मरणम्-

खादको वित्तहीनः स्याल् लग्नको वित्तवान् यदि ।
मूलं तस्य भवेद् देयं न वृद्धिं दातुम् अर्हति ॥ (ध्को ६६१=हारीत)

इति, तद् अपि लग्नकः प्रतिभूः, खादको ऽधमर्णः । लग्नको यदि वित्तवान् मृतस् तदा तस्य पुत्रेण मूलम् एव दातव्यं न वृद्धिर् इति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्रतिभूर् वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर् जातस्, तत्र तत्पुत्रा अपि तस्माद् एव बन्धकात् प्रातिभाव्यायातम् ऋणं दद्युर् एव । यथाह कात्यायनः-

गृहीत्वा बन्धकं यत्र दर्शने ऽस्य स्थितो भवेत् ।
विना पित्रा धनात् तस्माद् दाप्यः स्यात् तदृणं सुतः ॥ इति । (क्स्म् ५३४)

दर्शनग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते वेति ॥ २.५४ ॥

यस्मिन्न् अनेकप्रतिभूसंभवस् तत्र कथं दाप्यस्, तत्राह ।

बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम् । २.५५अब्
एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि ॥ २.५५च्द् ॥

यद्य् एकस्मिन् प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस् तदर्णं संविभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तम् आश्रिता एकच्छायाश्रिताः । अधमर्णो यथा कृत्स्नद्रव्यदानाय स्थितस् तथा दाने प्रतिभुवो ऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः एवं दर्शने प्रत्यये च तेष्व् एकच्छायाश्रितेषु प्रतिभूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश् च धनिको वित्ताद्यपेक्षायां स्वार्थं यं प्रार्थयते स एव कृत्स्नं दाप्यो नांशतः । एकच्छायाश्रितेषु यदि कश्चिद् देशान्तरं गतस् तत् पुत्रश् च संनिहितस् तदा धनिकेच्छया सर्वं दाप्यः । मृते तु कस्मिंश्चित् तत्सुतः स्वपित्रंशम् अवृद्धिकं दाप्यः । यथाह कात्यायनः-

एकच्छायाप्रविष्टानां दाप्यो यस् तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते समम् ॥ इति ॥ (क्स्म् ५३८) २.५५ ॥

प्रातिभाव्यर्णदानविधिम् उक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिम् आह ।

प्रतिभूर् दापितो यत् तु प्रकाशं धनिनो धनम् । २.५६अब्
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥ २.५६च्द् ॥

यद् द्रव्यं प्रतिभूस् तत् पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न पुनर् द्वैगुण्यलोभेन स्वयम् उपैत्य दत्तम् । यथाह नारदः-

यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।
ऋणिकस् तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥ इति । (न्स्म् १.१०७)

ऋणिकैर् अधमर्णैस् तस्य प्रतिभुवस् तद् द्रव्यं द्विगुणं प्रतिदातव्यं स्यात् । तच् च कालविशेषम् अनपेक्ष्य सद्य एव द्विगुणं दातव्यम्, वचनारम्भसामर्थ्यात् । एतच् च हिर्णयविषयम् ।

  • ननु इदं प्रतिभूर् इति वचनं द्वैगुण्यमात्रं प्रतिपादयति, तच् च पूर्वोक्तकालकल्पक्रमाबाधेनाप्य् उपपद्यते । यथा जातेष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः संतत्यभावान् मूल्यदानम् एव प्राप्नोतीति ।

  • तद् असत्, “वस्त्रधान्यदिर्ण्यानां चतुस्त्रिद्विगुणा परा” (य्ध् २.३९) इत्य् अनेनैव कालकल्पक्रमेण द्वैगुण्यादिसिद्धेः । द्वैगुण्यमात्रविधाने चेदं वचनम् अनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षे ऽपि संतत्यभावे स्वरूपदानम् एव । यदा प्रतिभूर् अपि द्रव्यदानानन्तरं कियतापि कालेनाधमर्णेन संघटते तदा संततिर् अपि संभवत्य् एव । यद् वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो दास्यन्तीति न किंचिद् एतत् ।

  • अथ प्रातिभाव्यं प्रीतिकृतम् । अतश् च प्रतिभुवा दत्तं प्रीतिदत्तम् एव । न च प्रीतिदत्तस्य याचनात् प्राग् वृद्धिर् अस्ति । यथाह-

प्रीतिदत्तं तु यत् किंचिद् वर्धते न त्व् अयाचितम् ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥ इति । (न्स्म् १.९६* अद्दितिओन्)

अतश् चाप्रीतिदत्तस्यायाचितस्यापि दानदिवसाद् आरभ्य यावद् द्विगुणं कालक्रमेण वृद्धिर् इत्य् अनेन वचनेनोच्यते इति ।

  • तद् अप्य् असत्, अस्यार्थस्यास्माद् वचनाद् अप्रतीतेर्, द्विगुणं प्रतिदातव्यम् इत्य् एतावद् इह प्रतीयते । यस्मात् कालक्रमम् अनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्याद् इति सुष्ठूक्तम् ॥ २.५६ ॥

प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्ते ऽपवादम् आह ।

संततिः स्त्रीपशुष्व् एव धान्यं त्रिगुणम् एव च । २.५७अब्
वस्त्रं चतुर्गुणं प्रोक्तं रसश् चाष्टगुणस् तथा ॥ २.५७च्द् ॥

हिरण्यद्वैगुण्यवत् कालानादरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्ध्या दाप्याः । श्लोकस् तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद् द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्ध्या सह कालविशेषम् अनपेक्ष्यैव सद्यो दातव्यम् इति तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्णं दर्शयितुम् असमर्थस् तदा तद्गवेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा भोक्तव्यो ऽन्यथा प्रस्तुतं धनं दाप्यः,

नष्टस्यान्वेषणार्थं तु दाप्यं पक्षत्रयं परम् ।
यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥
काले व्यतीते प्रतिभूर् यदि तं नैव दर्शयेत् ।
निबन्धं दापयेत् तं तु प्रेते चैष विधिः स्मृतः ॥ (क्स्म् ५३२–३३)

इति कात्यायनवचनात् । लग्नके विशेषनिषेधश् च तेनैवोक्तः-

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
निरुद्धो दण्डितश् चैव संदिग्धश् चैव न क्वचित् ॥
नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्ताश् च ये च प्रव्रजिता नराः ॥
न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
जीवन् वापि पिता यस्य तथैवेच्छाप्रवर्तकः ॥
नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥ इति । (क्स्म् ११४–१६)

संदिग्धो ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । इति प्रतिभूविधिः ॥ २.५७ ॥

धनप्रयोगे विश्वासहेतू द्वौ प्रतिभूर् आधिश् च । यथाह नारदः-
विश्रंभहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च । इति । (न्स्म् १.१०३)

तत्र प्रतिभूर् निरूपितः । इदानीम् आधिर् निरूप्यते । आधिर् नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थम् अधमर्णेनोत्तमर्णो ऽधिक्रियते आधीयत इत्य् आधिः । स च द्विविधः कृतकालो ऽकृतकालश् च । पुनश् चैकैकशो द्विविधः गोप्यो भोग्यश् च । यथाह नारदः-

अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ।
कृतकाले ऽपनेयश् च यावद् देयोद्यतस् तथा ॥
स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च ॥ इति । (न्स्म् १.१०८–०९)

कृतकाले आधानकाल एवामुष्मिन्काले दीपोत्सवादौ मयायम् आधिर् मोक्तव्यो ऽअन्यथा तवैवाधिर् भविष्यतीत्य् एवं निश्चिते काले उपनेय आत्मसमीपं नेतव्यः । मोचनीय इत्य् अर्थः । देयं दानम् । देयम् अनतिक्रम्य यावद् देयम् । उद्यतः नियतः स्थापित इत्य् अर्थः । यावद् देयम् उद्यतो यावद् देयोद्यतः गृहीतधनप्रत्यर्पणावधिर् अनिरूपितकाल इत्य् अर्थः । गोप्यो रक्षणीयः ।

एवं चतुर्विधस्याधेर् विशेषम् आह ।

आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते । २.५८अब्
काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥ २.५८च्द् ॥

प्रौक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्विगुणीभूते यद्य् आधिर् अधमर्णेन द्रव्यदानेन न मोक्ष्यते तदा नश्यति । अधर्मर्णस्य धनं प्रयोक्तुः स्वं भवति । कालकृतः कृतकाल आहिताग्न्यादिषु पाठात् कालश्ब्दस्य पूर्वनिपातः । स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात् प्राग् ऊर्ध्वं वा । फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स कदाचिद् अपि न नश्यति । कृतकालस्य गोप्यस्य भोग्यस्य च तत्कालातिक्रमे नाश उक्तः “काले कालकृतो नश्येद्” इति । अकृतकालस्य भोग्यस्य नाशाभाव उक्तः “फलभोग्यो न नश्यति” इति । पारिशेष्याद् आधिः प्रणश्येद् इत्य् एतद् अकृतकालगोप्याधिविषयम् अवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमेण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं बृहस्पतिवचनात्-

हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः ।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥
तदन्तरा धनं दत्त्वा ऋणी बन्धम् अवाप्नुयात् ॥ इति ॥ (बृस्म् १.१०.४८–४९)

  • ननु आधिः प्रणश्येद् इत्य् अनुपपन्नम्, अधमर्णस्य स्वत्वनिवृत्तिहेतोर् दानविक्रयादेर् अभावात्, धनिनश् च स्वत्वहेतोः प्रतिग्रहक्रयादेर् अभावात्, मनुवचनविरोधाच् च-

न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः । इति । (म्ध् ८.१४३)

कालेन संरोधः कालसंरोधश् चिरकालम् अवस्थानं तस्मात् कालसंरोधाच् चिरकालावस्थानाद् आधेर् न निसर्गो ऽस्ति नान्यत्राधीकरणम् अस्ति न च विक्रयः । एवाम् आधीकरणविक्रयप्रतिषेधाद् धनिनः स्वत्वाभावो ऽवगम्यत इति ।

  • उच्यते- आधीकरणम् एव लोके सोपाधिकस्वत्वनिवृत्तिहेतुः । आधिस्वीकारश् च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्तनिवृत्तेर् अनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्वनिवृत्तिर् उत्तमर्णस्य चात्यन्तिकं स्वत्वं भवति । न च मनुवचनविरोधः । यतः मनुः-

न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् । इति । (म्ध् ८.१४३)

भोग्याधिं प्रस्तुत्य, इदम् उच्यते-

न चाधेः कालसंरोधान्निसर्गो ऽस्ति न विक्रयः । इति । (म्ध् ८.१४३)

भोग्यस्याधेश् चिरकालावस्थाने ऽप्य् आधीकरणविक्रयनिषेधेन धनिनः स्वत्वं नास्तीति । इहाप्य् उक्तं फलभोग्यो न नश्यतीति गोप्याधौ तु पृथग् आरब्धं मनुना (८.१४४)

न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् । इति । (म्ध् ८.१४४)

इहापि वक्ष्यते- “गोप्याधिभोगे नो वृद्धिर्” इति । “आधिः प्रणश्येद् द्विगुणो” इति तु गोप्याधिं प्रत्युच्यत इति सर्वम् अविरुद्धम् ॥ २.५८ ॥

किं च ।

गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते । २.५९अब्
नष्टो देयो विनष्टश् च दैवराजकृताद् ऋते ॥ २.५९च्द् ॥

गोप्याधेस् ताम्रकटाहादेर् उपभोगेन वृद्धिर् भवति । अल्पे ऽप्य् उपभोगे महत्य् अपि वृद्धिर् हातव्या, स्मयातिक्रमात् । तथा सोपकारे उपकारकारिणि बलीवर्दताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिर् इति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिश् छिद्रभेदनादिना पूर्ववत् कृत्वा देयः । तत्र गोप्याधिर् नष्टश् चेत् पूर्ववत् कृत्वा देयः । उपभुक्तो ऽपि चेद् वृद्धिर् अपि हातव्या । भोग्याधिर् यदि नष्टस् तदा पूर्ववत् कृत्वा देयः । वृद्धिसद्भावे वृद्धिर् अपि हातव्या । विनष्ट आत्यन्तिकं नाशं प्राप्तः सो ऽपि देयो मूल्यादिद्वारेण । तद्दाने सवृद्धिकं मूल्यं लभते । यदा न ददाति तदा मूलनाशः,

विनष्टे मूलनाशः स्याद् दैवराजकृताद् ऋते । (न्स्म् १.११०)

इति नारदवचनात् । “दैवराजकृतादृते”- दैवम् अग्न्युदकदेशोपप्लवादि । दैवकृताद् विनाशाद् विना । तथा स्वापराधरहिताद् राजकृतात् । दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यम् अधमर्णेनाध्यन्तरं वा । यथाह-

स्त्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते ।
आधिर् अन्यो ऽथ कर्तव्यो देयं वा धनिने धनम् ॥ इति । (ध्को ६६१)

तत्र “स्त्रोतसापहृते” इति दैवकृतोपलक्षणम् ॥ २.५९ ॥

अपि च ।

आधेः स्वीकर्णात् सिद्धी रक्ष्यमाणो ऽप्य् असारताम् । २.६०अब्
यातश् चेद् अन्य आधेयो धनभाग् वा धनी भवेत् ॥ २.६०च्द् ॥

आधेर् भोग्यस्य को ऽप्य् अस्य च स्वीकरणाद् उपभोगाद् आधिग्रहणसिद्धिर् भवति न साक्षिलेख्यमात्रेण नाप्य् उद्देशमात्रेण । यथाह नारदः-

आधिस् तु द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा ।
सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥ इति । (न्स्म् १.११९)

अस्य च फलम्-

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा । इति । (य्ध् २.२३)

या स्वीकारान्ता क्रिया सा पूर्वा बलवती । स्वीकाररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयत्नेन रक्ष्यमाणो ऽपि कालवशेन यद्य् असारताम् अविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्तां गतस् तदाधिर् अन्यः कर्तव्यो धनिने धनं वा देयम् । रक्ष्यमाणो ऽप्य् असारताम् इति वदता आधिः प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् ॥ २.६० ॥

“आधिः प्रणश्येद् द्विगुणे” (य्ध् २.५८) इत्य् अस्यापवादम् आह ।

चरित्रबन्धककृतं सवृद्ध्या दापयेद् धनम् ॥ २.६१अब्
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ २.६१च्द् ॥

चरित्रं शोभनाचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद् द्रव्यम् आत्मसात्कृतं पराधीनं वा कृतम् । एतद् उक्तं भवति- धनिनः स्वच्छाशयत्वेन बहुमूल्यम् अपि द्रव्यम् आधीकृत्याधमर्णेनाल्पम् एव द्रव्यम् आत्मसात्कृतम् । यदि वाधमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यम् आधिं गृहीत्वा बहुद्रव्यम् एव धनिनाधमर्णाधीनं कृतम् इति । तद्** **धनं स नृपो वृद्ध्ह्या सह दापयेत् । अयमाशयः- एवं च बन्धकं द्विगुणीभूते ऽपि द्रव्ये न नश्यति किं तु द्रव्यम् एव द्विगुणं दातव्यम् इति । तथा सत्यंकारकृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकारः- “कारे सत्यागदस्य” (पाण् ६.३।७०) इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयम् अभिसन्धिः- यदा बन्धकार्पणसमय एवेत्थं परिभाषितं- “द्विगुणीभूते ऽपि द्रव्ये मया द्विगुणं द्रव्यम् एव दातव्यं नाधिनाशः” इति, तदा तद्द्विगुणं दापयेद् इति । अन्यो ऽर्थः । चरित्रम् एव बन्धकं चरित्रबन्धकं । चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितम् अपूर्वम् उच्यते । यत्र तद् एवाधीकृत्य यद् द्रव्यम् आत्मसाकृतं, तत्र तद् एव द्विगुणीभूतं दातव्यं नाधिनाश इति । आधिप्रसङ्गाद् अन्यद् उच्यते सत्यंकारकृतम् इति । क्रयविक्रयादिव्यवस्थानिर्वाहाय यदङ्गुलीयकादि परहस्ते कृतं तद् व्यवस्थातिक्रमे द्विगुणं दातव्यम् । तत्रापि येनाङ्गुलीयकाद्यर्पितं स एव चेद् व्यवस्थातिवर्ती तेन तद् एव दातव्यम् । इतरश् चेद् व्यवस्थातिवर्ती तदा तद् एवाङ्गुलीयकादि द्विगुणं प्रतिदापयेद् इति ॥ २.६१ ॥

किं च ।

उपस्थितस्य भोक्तव्य आधिः स्तेनो ऽन्यथा भवेत् । २.६२अब्
प्रयोजके ऽसति धनं कुले ऽन्यस्याधिम् आप्नुयात् ॥ २.६२च्द् ॥

धनदानेनाधिमोक्षणायोपस्थितस्याधिर् मोक्तव्यो धनिनो न वृद्धिलोभेन स्थापयितव्यः । अन्यथा अमोक्षणे स्तेनश् चौरवद् दण्ड्यः स्यात् । असंनिहिते पुनः प्रयोक्तरि कुले तद् आप्तहस्ते सवृद्धिकं धनं विधायाधमर्णकः स्वीयं बन्धकं गृह्णीयात् ॥ २.६२ ॥

अथ प्रयोक्ताप्य् असंनिहितस् तद् आप्ताश् च धनस्य ग्रहीतारो न सन्ति ,यदि वा असंनिहिते प्रयोक्तर्य् आधिविक्रयेण धनदित्साधमर्णस्य तत्र किं कर्तव्यम् इत्य् अपेक्षित आह ।

तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः । २.६३अब्

तस्मिन् काले यत् तस्याधेर् मूल्यं तत् परिकल्प्य तत्रैव धनिनि तम् आधिं वृद्धिरहितं स्थापयेन् न तत ऊर्ध्वं विवर्धते । यावद् धनी धनं गृहीत्वा तम् आधिं मुञ्चति, यावद् वा तन्मूल्यद्रव्यम् ऋणे प्रवेशयति ॥

यदा तु द्विगुणीभूते ऽपि धने द्विगुणं धनम् एव ग्रहीतव्यं, न त्व् आधिनाश इति विचारितम् ऋणग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असंनिहिते वाधमर्णे धनिना किं कर्तव्यम् इत्य् अत आह ।

विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ॥ २.६३च्द् ॥

धारणकाद् अधमर्णाद् विना अधमर्णे ऽसंनिहिते साक्षिभिस् तदाप्तैश् च सह तम् आधिं विक्रीय तद् धनं गृह्णीयाद् धनी । वाशब्दो व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले द्विगुणीभूते ऽपि धने धनम् एव ग्रहीतव्यं न त्व् आधिनाश इति न विचारितं, तदा “आधिः प्रणश्येद् द्विगुणे” (य्ध् २.५८) इत्य् आधिनाशः । विचारिते त्व् अयं पक्ष इति ॥ २.६३ ॥

भोग्यादौ विशेषम् आह ।

यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु । २.६४अब्
मोच्य आधिस् तद् उत्पन्ने प्रविष्टे द्विगुणे धने ॥ २.६४च्द् ॥

यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्विगुणीभूतं तदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्रव्ये द्विगुणे धनिनः प्रविष्टे धनिनाधिर् मोक्तव्यः । यदि वादाव् एवाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर् मोक्तव्य इति परिभाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणीभूतम् ऋणं तदा आधौ भोगार्थं धनिनि प्रविष्टे तद् उत्पन्ने द्रव्ये द्विगुणे सत्य् आधिर् मोक्तव्यः । अधिकोपभोगे तद् अपि देयम् । सर्वथा सवृद्धिकमूलर्णापाकरणार्थाध्युपभोगविषयम् इदं वचनम् । तम् एनं क्षयाधिम् आचक्षते लौकिकाः । यत्र तु वृद्ध्यर्थ एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमे ऽपि यावन् मूलदानं तावद् उपभुङ्क्त एवाधिम् । एतद् एव स्पष्टीकृतं बृहस्पतिना-

ऋणी बन्धम् अवाप्नुयात् ।
फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥
यदि प्रकर्षितं तत् स्यात् तदा न धनभाग् धनी ।
ऋणी च न लभेद् बन्धं परस्परमतं विना ॥ इति । (बृस्म् १.१०.१२५–२६)

अस्यार्थः- फलं भोग्यं यस्यासौ फलभोग्यः बन्ध आधिः । स च द्विविधः सवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश् च । तत्र च सवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकाल्सस् तम् आप्नुयाद् ऋणी । यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टं तदा बन्धम् आप्नुयाद् इत्य् अर्थः । वृद्धिमात्रापाकरणार्थं तु बन्धकं सामकं दत्त्वाप्नुयाद् ऋणी । समं मूलं समम् एव सामकम् । अस्यापवादम् आह “यदि प्रकर्षितं तत् स्यात्” । तत् बन्धकं प्रकर्षितम् अतिशयितं वृद्धेर् अप्य् अधिकफलं यदि स्यात् तदा न धनभाग् धनी सामकं न लभते धनी । मूलम् अदत्त्वैव ऋणी बन्धम् अवाप्नुयाद् इति यावत् । अथ त्व् अप्रकर्षितं तद् बन्धकं वृद्धये ऽप्य् अपर्याप्तं तदा सामकं दत्त्वापि बन्धं न लभेताधमर्णः । वृद्धिशेषम् अपि दत्त्वैव लभेतेत्य् अर्थः । पुनर् उभयत्रापवादम् आह- “परस्परमतं विना” उत्तमर्णाधमर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितम् इत्य् आद्य् उक्तम् । परस्परानुमतौ तत् कृष्टम् अपि बन्धकं यावन् मूलदानं तावद् उपभुङ्क्ते धनी निकृष्टम् अपि मूलमात्रदानेनैवाधमर्णो लभत इति ॥ २.६४ ॥

**इति ऋणादानप्रकरणम् **