१३ राजधर्म-प्रकरणम्

**अथ राजधर्मप्रकरणम् **

साधारणान् गृहस्थधर्मान् उक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य विशेषधर्मान् आह ।

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । १.३०९अब्
विणीतः सत्त्वसंपन्नः कुलीनः सत्यवाक् शुचिः ॥ १.३०९च्द् ॥
अदीर्घसूत्रः स्मृतिमान् अक्षुद्रो ऽपरुषस् तथा । १.३१०अब्
धार्मिको ऽव्यसनश् चैव प्राज्ञः शूरो रहस्यवित् ॥ १.३१०च्द् ॥
स्वरन्ध्रगोप्ता ऽन्वीक्षिक्यां दण्डनीत्यां तथैव च । १.३११अब्
विनीतस् त्व् अथ वार्तायां त्रय्यां चैव नराधिपः ॥ १.३११च्द् ॥

पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः महान् उत्साहो यस्यासौ महोत्साहः । बहुदेयार्थदर्शी स्थूललक्षः । परकृतोपकारापकारौ न विस्मरतीति कृतज्ञः । तपोज्ञानादिवृद्धानां सेवकः वृद्धसेवकः । विनयेन युक्तो विनीतः । विनयशब्देनाविरुद्धः पूर्वोक्तस्नातकधर्मकलाप उच्यते- “न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत्” (य्ध् १.१३२) इत्यादिनोक्तः । सत्त्वसंपन्नः संपदापदोर् हर्षविषादरहितः । मातृतः पितृतश् चाभिजनवान् कुलीनःसत्यवाक् सत्यवचनसीलः । शुचिर् बाह्याभ्यन्तरशौचयुक्तः । अवश्यकार्याणां कर्मणाम् आरम्भे प्रारब्धानां च समापने यो न विलम्बते ऽसाव् अदीर्घसूत्रः । अधिगतार्थाविस्मरणशीलः स्मृतिमान्अक्षुद्रो ऽसद्गुणद्वेषी । अपरुषः परदोषाकीर्तनशीलः । धार्मिको वर्णाश्रमधर्मान्वितः । न विद्यन्ते व्यसनानि यस्यासाव् अव्यसनः । व्यसनानि चाष्टादश, यथा मनुः-

म्र्गयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥
पैशुन्यम् साहसं द्रोह ईर्श्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥ इति (म्ध् ८.४७-४८)

तत्र च सप्त कष्टतमानि । तथा च मनुः-

पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् ।
एतत् कष्टतमं विद्याच् चतुष्कं कामजे गणे ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥ इति (म्ध् ८.५०-५१)

प्राज्ञो गम्भीरार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयार्थगोपनचतुरः । स्वरन्ध्रगोप्ता स्वस्य सप्तसु राज्यङ्गेषु यत् परप्रवेशद्वारशैथिल्यं तत् स्वरन्ध्रं तस्य गोप्ता प्रच्छादयिता । आन्वीक्षिक्यां आत्मविद्यायां । दण्डनीत्याम् अर्थयोगक्षेमोपयोगिन्यां । वार्तायां कृषिवाणिज्यपशुपालनरूपायां धनोपचयहेतुभूतायां । त्रय्यां ऋग्यजुःसामाख्यायां[^२२] च । विनीतस् तत्तदभिज्ञैः प्रावीण्यं नीतः । यथाह मनुः-

त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकीं चात्मविद्भ्यो वार्तारम्भांश् च लोकतः । इति (म्ध् ९.४३)

नराधिपो राज्याभिशिक्तः । स्याद् इति सर्वत्र संबन्धः ॥ ३०९–३११ ॥

एवम् अभिषेकयुक्तस्यान्तरङ्गान् धर्मान् अभिधायेदानीं बहिरङ्गान् आह ।

स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिराञ् शुचीन् । १.३१२अब्
तैः सार्धं चिन्तयेद् राज्यं विप्रेणाथ ततः स्वयं ॥ १.३१२च्द् ॥

महोत्साहादिगुणैर् युक्तो राजा मन्त्रिणः कुर्वीत । कथंभूतान् । प्राज्ञान् हिताहितविवेककुशलान् । मौलान् स्ववंशपरम्परायातान् । स्थिरान् महत्य् अपि हर्षविषादस्थाने विकाररहितान् । शुचीन् धर्मार्थकामभयोपधाशुद्धान् । ते च सप्ताष्टौ वा कार्याः । यथाह मनुः-

मौलाञ् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् ।
सचिवान् सप्त चाष्टौ वा कुर्वीत सुपरीक्षिताण् ॥ इति (म्ध् ९.५४) ।

एवं मन्त्रिणः पूर्वं कृत्वा, तैः सार्धं राज्यं संधिविग्रहादिलक्षणं कार्यं चिन्तयेत् समस्तैर् व्यस्तैश् च । अनन्तरं तेषाम् अभिप्रायं ज्ञात्वा, सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन सह कार्यं विचिन्त्य, ततः स्वयं बुद्ध्या कार्यं चिन्तयेत्

कीदृशं पुरोहितं कुर्याद् इत्य् आह ।

पुरोहितं प्रकुर्वीत दैवज्ञम् उदितोदितं । १.३१३अब्
दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा ॥ १.३१३च्द्

पुरोहितं च सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरतो हितं दानमानसत्कारैर् आत्मसंबद्धं कुर्यात् । कथंभूतम् । दैवज्ञं ग्रहोत्पाततच्छमनादेर् वेदितारम् । उदितोदितं विद्याभिजनानुष्ठानादिभिर् उदितैः शास्त्रोक्तैर् उदितं समृद्धम् । दण्डनीत्याम् अर्थशास्त्रे कुशलम् । अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ १.३१३ ॥

श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् एव चर्त्विजः । १.३१४अब्
यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥ १.३१४च्द् ॥

श्रौताग्निहोत्रादिस्मार्तोपासनादिक्रियानुष्ठानसैद्ध्यर्थम् ऋत्विजो वृणुयात् । यज्ञांश् च राजसूयादीन् विधिवद् यथाविधानं भूरिदक्षिणान् बहुदक्षिणान् एव कुर्यात् ॥ १.३१४ ॥

किं च ।

भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च । १.३१५अब्
अक्षयो ऽयं निधी राज्ञां यद् विप्रेषूपपादितम् ॥ १.३१५च्द् ॥

ब्राह्मणेभ्यो भोगान् सुखानि तत्सास्हनदानद्वारेण दद्यात् । वसूनि च सुवर्णरूप्यभूप्रभृतीनि विविधानि नानाप्रकाराणि । यस्माद् एष राज्ञाम् अक्षयो निधिः शेवधिर् यद् ब्राह्मणेभ्यो दीयते । साधारणधर्मत्वेन दानप्राप्तौ सत्यां राज्ञां दानप्राधान्यप्रतिपादनार्थं पुनर् वचनम् ॥ १.३१५ ॥

किं च ।

अस्कन्नम् अव्यथं चैव प्रायश्चित्तैर् अदूषितम् । १.३१६अब्
अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते ॥ १.३१६च्द् ॥

अग्नेः सकाशाद् अग्निसाध्याद् भूरिदक्षिणाद् राजसूयादेर् अपि विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते । एतद् अस्कन्नं क्षणरहितम् अव्यथं पशुहिंसारहितं प्रायश्चित्तैर् अदूषितं प्रायश्चित्तरहितम् ॥ १.३१६ ॥

वसूनि विप्रेभ्यो दद्याद् इत्य् उक्तम् । कया परिपाट्या दद्याद् इत्य् आह ।

अलब्धम् ईहेद् धर्मेण लब्धं यत्नेन पालयेत् । १.३१७अब्
पालितं वर्धयेन् नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ १.३१७च्द् ॥

अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यत्नेन लब्धं तत् परिपालयेत् स्वयम् अवेक्षया रक्षेत् । पालितं तत्परतया रक्षितं नीत्या वणिक्पथादिकया वृद्धिं नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामपात्रेषु निक्ष्पिपेद् दद्यात् ॥ १.३१७ ॥

पात्रे निक्षिप्य किं कुर्याद् इत्य् आह ।

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । १.३१८अब्
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ १.३१८च्द् ॥

यथोक्तविधिना भूमिं दत्त्वा स्वत्वनिवृत्तिं कृत्वा निबन्धं वः एकस्य भाण्डभरकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा लेख्यं कारयेत् । किम् अर्थम् । आगामिनः एष्यन्तो ये भद्राः साधवो नृपतयो भूपास् तेषाम् अनेन दत्तम् अनेन प्रतिगृहीतम् इति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूपतेर् एव भूमिदाने निबन्धदाने वा ऽधिकारो न भोगपतेर् इति दर्शितम् ॥ १.३१८ ॥

लेख्यं कारयेद् इत्य् उक्तम् । कथं कारयेद् इत्य् आह ।

**पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । १.३१९अब् **
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ॥ १.३१९च्द् ॥
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । १.३२०अब्
स्वहस्तकालसंपन्नं शासनं कारयेत् स्थिरम् ॥ १.३२०च्द् ॥

कार्पासिके पटे ताम्रपट्टे फलके वा आत्मनो वंश्यान् प्रपितामहपितामहपित्र्̣̄न् । बहुवचनस्यार्थवत्त्वाय वंशवीर्य्श्रुतादिगुणोपवर्णनपूर्वकम् अभिलेख्य आत्मानं चशब्दात् प्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभिलेख्य । प्रतिगृह्यत इति प्रतिग्रहो निबन्धस् तस्य रूपकादिपरिमाणम् । दीयते इति दानं क्षेत्रादि तस्य छेदः छिद्यते ऽनेनेति छेदः नद्यावाटौ निवर्तनं तत्परिमाणं च तस्योपवर्णनम्, अमुकनद्या दक्षिणतो ऽयं ग्रामः क्षेत्रं वा, पूर्वतो ऽमुकग्रामस्यैतावन्निवर्तनम् इत्यादिनिवर्तनपरिमाणं च लेख्यम् । एवं आवाटस्य नदीनगरवर्त्मादेः संचारित्वेन भूमेर् न्यूनाधिकभावसंभवात् तन्निवृत्त्यर्थम्, स्वहस्तेन स्वहस्तलिखितेन मतं मे अमुकनाम्नो ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् इत्य् अनेन संपन्नं युक्तं, कालेन च द्विविधेन शकनृपातीतरूपेण संवत्सररूपेण च कालेन चन्द्रसूर्योपरागादिना संपन्नं स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश् चिह्नितम् अङ्कितं स्थिरं दृढं शासनं शिष्यन्ते भविष्यन्तो नृपतयो ऽनेन दानाच्छ्रेयो ऽनुपालनम् इति शासनं कारयेत् । महीपतिर् न भोगपतिः । संधिविग्रहादिकारिणा न येन केनचित् ।

संधिविग्रहकारी तु भवेद् यस् तस्य लेखकः ।
स्वयं राज्ञा समादिष्टः स लिखेद् राजशासनम् ॥

इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे शासनकरणं भोगाभिवृद्ध्या फलातिशयार्थम् ॥ १.३१९ ॥ १.३२० ॥

इदानीम् राज्ञो निवासस्थानम् आह ।

रम्यं पशव्यम् आजीव्यं जाङ्गलं देशम् आवसेत् । १.३२१अब्
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ १.३२१च्द् ॥

रम्यं रमणीयम् अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् । आजीव्यम् उपजीव्यं कन्दमूलपुष्पफलादिभिः । जाङ्गलं यद्य् अप्य् अल्पोदकतरुपर्वतो देशो जाङ्गलस् तथाप्य् अत्र सजलतरुपर्वतो देशो जाङ्गलशब्देनाभिधीयते । तं देशम् आवसेद् अधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेर् आत्मनश् च रक्षणार्थं दुर्गं कुर्वीत । तच् च षड्विधम् । यथाह मनुः ।

धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ इति ॥ (म्ध् ७.७०) १.३२१ ॥

किं च ।

तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन् । १.३२२अब्
प्रकुर्यादायकर्मान्तव्ययकर्मसु चोद्यतान् ॥ १.३२२च्द् ॥

तत्र तत्र धर्मार्थकामादिषु अध्यक्षान् योग्यान् अधिकारिणः प्रकुरान् नियुञ्जीत । यथाहुः ।

धर्मकृत्येषु धर्म्ज्ञानर्थकृत्येषु पण्डितान् ।
स्त्रीषु क्लीबान्नियुञ्जीत नीचान्निन्द्येषु कर्मसु ॥ इति ।

कीदृशान् । निष्णातान् अनन्यव्यापारान् । कुशलान् तत्तद्व्यापारचतुरान् । शुचीन् चतुर्विधोपधाशुद्धान् । आयकर्मसु सुवर्णद्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यतान् अनलसान् । चशब्दात् प्राज्ञत्वादिगुणयुक्तान् । उक्तं च ।

प्राज्ञत्वम् उपधाशुद्धिर् अप्रमादो ऽभियुक्तता ।
कार्येषु व्यसनाभावः स्वामिभक्तिश् च योग्यता ॥ इति ॥ १.३२२ ॥

“भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च” (य्ध् १.३१५) इति सामान्येन स्वस्वदानम् उक्तम् । इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयम् आह ।

नातः परतरो धर्मो नृपाणां यद् रणार्जितम् । १.३२३अब्
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश् चाभयं सदा ॥ १.३२३च्द् ॥

अस्माद् उत्कृष्टतमो धर्मो नृपानां न विद्यते यद् रणार्जितं द्रव्यं विप्रेभ्यो दीयते । यच् च प्रजाभ्यो ऽभयदानम् ॥ १.३२३ ॥

“रणार्जितं देयम्” इत्य् उक्तं । द्रव्यार्जनाय रणे प्रवृत्तस्य विपत्तिर् अपि संभवतीति न धर्मो नाप्य् अर्थ इति ततो निवृत्तिर् एव श्रेयसीत्य् अत आह ।

य आहवेषु वध्यन्ते भूम्यर्थम् अपराङ्मुखाः । १.३२४अब्
अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥ १.३२४च्द् ॥

ये भूम्याद्यर्थम् आहवेषु प्रवृत्ता अपराङ्मुखा अभिमुखा वध्यन्ते मार्यन्ते ते स्वर्गं यान्ति । योगाभ्यासरता यथा । यद्य् अकूतैर् अविषदिग्धादिभिर् आयुधैर् योद्धारो भवन्ति ॥ १.३२४ ॥

किं च ।

पदानि क्रतुतुल्यानि भग्नेष्व् अविनिवर्तिनाम् । १.३२५अब्
राजा सुकृतम् आदत्ते हतानां विपलायिनाम् ॥ १.३२५च्द् ॥

स्वबलेषु करितुरगरथपदातिषु भग्नेष्व् अविनिवर्तिनां परबलाभिमुख्यायिनां पदानि क्रतुतुल्यान्य् अश्वमेधतुल्यानि । विपर्यये दोषम् आह- विपलायिनां पराङ्मुखानां हतानां राजा सुकृतम् आदत्ते ॥ १.३२५ ॥

अपि च ।

तवाहंवादिनं क्ल्ịबं निर्हेतिं परसंगतम् । १.३२६अब्
न हन्याद् विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ १.३२६च्द् ॥

तवाहम् इति यो वदति तं क्ल्ịबं नपुंसकं निर्हेतिं निरायुधं परसंगतम् अन्येन सह युद्ध्यमानं विनिवृत्तं युद्धाद् विनिवृत्तं युद्धप्रेक्षणकं युद्धदर्शिनं । न हन्याद् इति सर्वत्र संबन्धः । आदिग्रहणाद् अश्वसारथ्यादीनां ग्रहणम् । यथाह गौतमः- “न दोषो हिंसायाम् आहवे ऽन्यत्र व्यश्वसारथ्यानायुधकृताञ्जलिप्रकीर्णकेशपराङ्-मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगोब्राह्मणादिभ्यः” (ग्ध् १०.१७–१८) इति । शङ्खो ऽप्य् आह- “न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नावर्माणं सवर्मा न स्त्रियं न करेणुं न वाजिनं न सारथिनं न सूतं न दूतं न ब्राह्मणं न राजानम् अराजा हन्यात्” इति ॥ १.३२६ ॥

कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम् । १.३२७अब्
व्यवहारांस् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ १.३२७च्द् ॥

कृतरक्षः पुरस्यात्मनश् च रक्षां विधाय प्रतिदिनं प्रातःकाल उत्थाय स्वयम् एवायव्ययौ पश्येत् । ततो व्यवहारान् दृष्ट्वा मध्याह्नकाले स्नात्वा कामतो यथाकालं भुञ्जीत ॥ १.३२७ ॥

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । १.३२८अब्
पश्येच् चारांस् ततो दूतान् प्रेषयेन् मन्त्रिसंगतः ॥ १.३२८च्द् ॥

तदनन्तरं हिरण्यं व्यापृतैर् हिरण्याद्यानयननियुक्तैर् आनीतं स्वयम् एव निरीक्ष्य भाण्डागारेषु निक्षिपेत् । ततश् चारान् स्पशान् प्रत्यागतान् पश्येत् । ये परराज्ये वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास् तांश् चारान् दृष्ट्वा क्वचिन् निवेशयेत् । तदनन्तरं दूतांश् च पश्येत् । दूताश् च ये प्रकटम् एव राजान्तरं प्रति गतागतम् आचरन्ति । ते च त्रिविधाः । निसृष्टार्थाः संदिष्टार्थाः शासनहराश् चेति । तत्र निसृष्टार्था राजकार्याणि देशकालोचितानि स्वयम् एव कथयितुं क्षमाः । उक्तमात्रं ये परस्मै निवेदयन्ति ते संदिष्टार्थाः । शासनहरास् तु राजलेखहारिणः । तान् पूर्वप्रेषितान् आगतान् मन्त्रिसंगतः पश्येत् । दृष्ट्वा तद्वार्ताम् आकलय्य पुनः पुनः प्रेषयेत् ॥ १.३२८ ॥

ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः । १.३२९अब्
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ १.३२९च्द् ॥

तदनन्तरम् अपराह्णे स्वैरं यथेष्टम् एको ऽअन्तःपुरविहारी स्यात् । मन्त्रिभिर् वा विश्वासिभिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश् च रूपयौवनवैदग्ध्यशालिनीभिः

भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह ।
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ (म्ध् ७.२२१)

इति मनुस्मरणात् । ततो विशिष्टैर् वस्त्रकुंसुमविलेपनालंकारैर् अलंकृतः हस्त्यश्वरथपदातिबलानि दृष्ट्वा सेनान्या सेनापतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ १.३२९ ॥

संध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम् । १.३३०अब्
गीतनृत्यैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च ॥ १.३३०च्द् ॥

ततः सायंकाले संध्याम् उपास्य । सामान्येन प्रापतस्यापि पुनर् वचनं कार्याकुलत्वाद् अविस्मरणार्थं । अनन्तरं ये पूर्वदृष्टाः क्वचित् स्थाने निवेशितास् तेषां चाराणां गूढभाषितम् अन्तर्वेश्मनि शस्त्रपाणिः शृणुयात् । उक्तं च मनुना ।

संध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शत्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ इति । (म्ध् ७.२२३)

ततो नृत्यगीतादिभिः कंचित् कालं क्रीडीत्वा कक्षान्तरं प्रविश्य भुञ्जीत,

गत्वा कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् ।
प्रविशेद् भोजनार्थं च स्त्रीभिर् अन्तःपुरं सह ॥ (म्ध् ७.२२४)

इति स्मरणात् । ततो ऽविस्मरणार्थं यथाशक्ति स्वाध्यायं पठेत् ॥ १.३३० ॥

संविशेत् तूर्यघोषेण प्रतिबुध्येत् तथैव च । १.३३१अब्
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्तव्यतास् तथा ॥ १.३३१च्द् ॥

तदनन्तरं तूर्यशङ्खघोषेण संविशेत् स्वप्यात् । तथैव तूर्यादिघोषेण प्रतिबुद्धेत् । प्रतिबुद्ध्य च शास्त्रविद्भिर् विश्वासिभिः सह एकाकी वा पश्चिमे यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्याश् च सर्वकार्याणि च । एतच् च स्वस्थं प्रत्य् उच्यते । अस्वस्थः पुनः सर्वकार्येष्व् अन्यं नियोजयेत् । यथाह मनुः ।

एतद् वृत्तं समातिष्ठेद् अरोगः पृथिवीपतिः ।
अस्वस्थः सर्वम् एवैतन् मन्त्रिमुख्ये निवेषयेत् ॥ इति ॥ (म्ध् ७.२२५) १.३३१ ॥
प्रेषयेच् च ततश् चारान् स्वेष्व् अन्येषु च सादरान् । १.३३२अब्
ऋत्विक्पुरोहिताचार्यैर् आशीर्भिर् अभिनन्दितः ॥ १.३३२च्द् ॥
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् । १.३३३अब्
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ १.३३३च्द् ॥

अनन्तरं तत्रस्थ एव विश्वस्तान् स्वान् चारान् दानमानसत्कारैः पूजितान् स्वेषु सामन्ताद्यधिकारिषु अन्येषु च महीपतिषु प्रेषयेत् तच्चिकीर्षितपरिज्ञानाय । ततः प्रातःसंध्याम् उपास्या ऽग्निहोत्रं हुत्वा पुरोहितर्त्विगाचार्यादिभिर् आशीर्भिर् अभिनन्दितो ज्योतिर्विदो दृष्ट्वा तेभ्यश् च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि च पुरोहितान् आदिश्य वैद्यांश् च दृष्ट्वा तेभ्यश् च स्वशरीरस्थितिं निवेद्य प्रतिविधानं चादिश्य गां दोग्ध्रीं काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालंकारादीनि गृहाणि च सुधाधवलितादीनि श्रोत्रियेभ्यो ऽधीतवेदेभ्यो ब्राह्मणेभ्यः । दद्याद् इति प्रत्येकं संबध्यते ॥ १.३३२ ॥ १.३३३ ॥

किं च ।

ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मः क्रोधनो ऽरिषु । १.३३४अब्
स्याद् राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ १.३३४च्द् ॥

ब्राह्मणेष्व् अधिक्षिपत्स्व् अपि क्षमी क्षमावान् । स्निग्धेषु स्नेहवत्सु मित्रादिष्व् अजिह्मो ऽवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेनाहितनिवर्तनेन च पितेव दयावान् । “स्याद्” इति प्रत्येकं संबध्यते ॥ १.३३४ ॥

प्रजापालनफलम् आह ।

पुण्यात् षड्भागम् आदत्ते न्यायेन परिपालयन् । १.३३५अब्
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥ १.३३५च्द् ॥

यस्मान् न्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहितपुण्यात् षड्भागं षष्टं भागम् आदत्ते । यस्माच् च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां परिपालनम् अधिकफलम् । तस्मात् “प्रजासु यथा पिता तथैव स्याद्” इति गतेन संबन्धः ॥ १.३३५ ॥

चाटतस्करदुर्वृत्तमहासाहसिकादिभिः । १.३३६अब्
पीड्यमानाः प्रजा रक्षेत् कायस्थैश् च विशेषतः ॥ १.३३६च्द् ॥

चाटाः प्रतारकाः विश्वास्य ये परधनम् अपहरन्ति । प्रच्छन्नापहारिणस् तस्कराः । दुर्वृत्ता इन्द्रजालिककितवादयः । सहो बलं सहसा बलेन कृतं साहसं महच् च तत् साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । आदिशब्दान् मौलिककुहकदुर्वृत्तयः । एतैः पीड्यमाना बाध्यमानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश् च तैः पीड्यमाना विशेषतो रक्षेत् । तेषां राजवल्लभतयातिमायावित्वाच् च दुर्निवारत्वात् ॥ १.३३६ ॥

अरक्ष्यमाणाः कुर्वन्ति यत् किंचित् किल्बिषं प्रजाः । १.३३७अब्
तस्मात् तु नृपतेर् अर्धं यस्माद् गृह्णात्य् असौ करान् ॥ १.३३७च्द् ॥

अरक्ष्यमाणाः प्रजाः यत् किंचित् किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात् पापाद् अर्धं नृपतेर् भवति । यस्माद् असौ राजा रक्षणार्थं प्रजाभ्यः करान् गृह्णाति ॥ १.३३७ ॥

ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् । १.३३८अब्
साधून् संमानयेद् राजा विपरीतांश् च घातयेत् ॥ १.३३८च्द् ॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् । १.३३९अब्
सद्दानमानसत्काराञ् श्रोत्रियान् वासयेत् सदा ॥ १.३३९च्द् ॥

राष्ट्रे राष्ट्राधिकारेषु ये नियुक्तास् तेषां विचेष्टितं चरितं चारैर् उक्तलक्षणैः सम्यक् ज्ञात्वा साधून् सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान् दुष्टचरितान् सम्यग् विदित्वा घातयेद् अपराधानुसारेण । ये पुनर् उत्कोचजीविनस् तान् द्रव्यरहितान् कृत्वा स्वराष्ट्रात् प्रवासयेत् । श्रोत्रियान् सद्दानमानसत्करैः सहितान् कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् ॥ १.३३८ ॥ १.३३९ ॥

अन्यायेन नृपो राष्ट्रात् स्वकोशं यो ऽभिवर्धयेत् । १.३४०अब्
सो ऽचिराद् विगतश्रीको नाशम् एति सबान्धवः ॥ १.३४०च्द् ॥

यो ऽसौ राजा स्वराष्ट्राद् अन्यायेन द्रव्यम् आदाय स्वकोशं अभिवर्धयेत् सो ऽचिराच् छीघ्रम् एव विगतश्रीको विनष्टलक्ष्मीको बन्धुभिः सह नाशं प्राप्नोति ॥ १.३४० ॥

प्रजापीडनसंतापात् समुद्भूतो हुताशनः । १.३४१अब्
राज्ञाः कुलं श्रियं प्राणांश् चा ऽदग्ध्वा न निवर्तते ॥ १.३४१च्द् ॥

प्रजानां तस्करादिकृतपीडनेन यः संतापस् तस्माद् उद्भूतो हुताशन इव संतापकारित्वाद् अपुण्यराशिर् हुताशनशब्देनोच्यते । स राज्ञः कुलं श्रियं प्राणांश् चादग्ध्वा नाशम् अनीत्वा न निवर्तते नोपशाम्यति ॥ १.३४१ ॥

य एव नृपतेर् धर्मः स्वराष्ट्रपरिपालने । १.३४२अब्
तम् एव कृत्स्नम् आप्नोति परराष्ट्रं वशं नयन् ॥ १.३४२च्द्

न्यायतः स्वराष्ट्रपरिपालने राज्ञो यो धर्मस् तं सकलं वक्ष्यमाणन्यायेन परराष्ट्रं वशं नयन् आत्मसात्कुर्वन्न् आप्नोति धर्मषड्भागं च ॥ १.३४२ ॥

किं च ।

यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ॥ १.३४३अब्
तथैव परिपाल्यो ऽसौ यदा वशम् उपागतः ॥ १.३४३च्द्

यदा परदेशो वशम् उपागतस् तदा न स्वदेशाचारादिसंकरः कार्यः किं तु यस्मिन् देशे य आचारः कुलस्थितिर् व्यवहारो वा यथैव प्राग् आसीत् तथैवासौ परिपालनीयो यदि शास्त्रविरुद्धो न भवति । यदा वशम् उपागत इत्य् अनेन वशोपगमनात् प्राग् अनियम इति दर्शितम् । यथोक्तम् ।

उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ॥ इति ॥ (म्ध् ७.१९५) १.३४३ ॥
मन्त्रमूलं यतो राज्यं तस्मान् मन्त्रं सुरक्षितम् ॥ १.३४४अब्
कुर्याद् यथास्य न विदुः कर्मणाम् आ फलोदयात् ॥ १.३४४च्द् ॥

यस्मात् “तैः सार्धं चिन्तयेद् राज्यम्” (य्ध् १.३१२) इत्याद्य् उक्तं मन्त्रमूलं राज्यं तस्मान् मन्त्रं यत्नेन तथा सुरक्षितं कुर्याद् यथास्य राज्ञः कर्मणां संधिविग्रहादीनाम् आ फलोदयात् फलनिष्पत्तेः प्राग् अन्ये मन्त्रं न जानन्ति ॥ १.३४४ ॥

किं च ।

अरिर् मित्रम् उदासीनो ऽनन्तरस् तत्परः परः ॥ १.३४५अब्
क्रमशो मण्डलं चिन्त्यं सामादिभिर् उपक्रमैः ॥ १.३४५च्द् ॥

अरिः शत्रुः । मित्रं सुहृत् । उभविलक्षण उदासीनश् च । ते च त्रयस् त्रिविधाः सहजाः कृत्रिमाः प्राकृताश् चेति । तत्र सहजो ऽरिः सापत्नपितृव्यतत्पुत्रादिः । कृत्रिमो ऽरिः यस्यापकृतं येन चापकृतम् । प्राकृतस् त्व् अनन्तरदेशाधिपतिः । सहजं मित्रं भागिनेयपैतृष्वस्रीयमातृष्वस्रीयादि । कृत्रिमं मित्रं येनोपकृतं यस्य चोपकृतम् । प्राकृतमित्रम् एकान्तरितदेशाधिपतिः । सहजकृत्रिममित्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो द्व्यन्तरितदेशाधिपतिः । अरिः पुनश् चतुर्विधः यातव्योच्छेत्तव्यपीडनीयकर्शनीयभेदेन । तत्र यातव्यो ऽनन्तरभूमिपतिर् व्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गो मित्रहीनो दुर्बलश् चोच्छेत्तव्यः । पीडनीयो मन्त्रबलहीनः । प्रबलमन्त्रबलयुक्तः कर्शनीयः-

निर्मूलनात् समुच्छेदं पीडनं बलनिग्रहम् ।
कर्शनं तु पुनः प्राहुः कोशदण्डापकर्शनात् ॥ इति ।

मित्रं द्विविधं बृंहणीयं कर्शनीयम् इति । कोशबलहीनं बृंहणीयम् । कोशबलाधिकं कर्शनीयम् । अनन्तरस् तत्परः पर इति प्राकृतारिमित्रोदासीनान् आह । अनन्तरः प्राकृतो ऽरिः, तत्परः प्राकृतं मित्रं, तस्मात् परः प्राकृत उदासीनः, शेषाः पुनः प्रसिद्धत्वान् नोक्ताः । एतद् राजमण्डलं क्रमशः पूर्वादिदिक्क्रमेण चिन्त्यं तेषाम् चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिभिर् उपायैर् वक्ष्यमाणैर् अनुसंधेयम् । एवं पुरतः पृष्ठतः पार्श्वतश् च त्रयस् त्रय आत्मा चैक इति त्रयोदशराजकम् इदं राजमण्डलं पद्माकारम् । पार्ष्णिग्राहाक्रन्दासारादयस् त्व् अरिमित्रोदासीनेष्व् एवान्तर्भवन्ति संज्ञाभेदमात्रं ग्रन्थान्तरे दर्शितम् इति योगीश्वरेण न पृथग् उक्ताः ॥ १.३४५ ॥

“सामादिभिर् उपक्रमैः” इत्य् उक्तं । इदानीं तान् उपायान् आह ।

उपायाः साम दानं च भेदो दण्डस् तथैव च । १.३४६अब्
सम्यक् प्रयुक्ताः सिद्ध्येयुर् दण्डस् त्व् अगतिका गतिः ॥ १.३४६च्द् ॥

साम प्रियभाषणम् । दानं सुवर्णादेः । भेदो भेदकरणं तत्सामन्तादीनां परस्परतो वैरस्योत्पादनेन । दण्ड उपांशुप्रकाशाभ्यां धनापहारादिवधपर्यन्तो ऽपकारः । एते सामादयः परिपन्थ्यादिसाधनोपायाः । एते च देṡअकालाद्यनुसारेण सम्यक् प्रयुक्ताः सिद्ध्येयुः । तेषां च मध्ये दण्डस् त्व् अगतिका गतिः, उपायान्तरसंभवे सति न प्रयोक्तव्यः । एतच् च पीडनीयकर्शनीयाभिप्रायेण । यातव्योच्छेत्तव्ययोस् तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषया अपि तु सकललोकव्यवहारविषयाः । यथा ।

अधीष्व पुत्रकाधीष्व दास्यामि तव मोदकान् ।
यद् वान्यस्मै प्रदास्यामि कर्णम् उत्पाटयामि ते ॥ इति ॥ १.३४६ ॥

किं च ।

संधिं च विग्रहं यानम् आसनं संश्रयं तथा । १.३४७अब्
द्वैधीभावं गुणान् एतान् यथावत् परिकल्पयेत् ॥ १.३४७च्द् ॥

संधिर् व्यवस्थाकरणम् । विग्रहो ऽपकारः । यानं परं प्रति यात्रा । आसनम् उपेक्षा । संश्रयो बलवदाश्रयणम् । द्वैधीभावः स्वबलस्य द्विधाकरणम् । एतान् संधिप्रभृतीन् गुणान् यथावद् देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ १.३४७ ॥

यानकालान् आह ।

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । १.३४८अब्
परश् च हीन आत्मा च हृष्टवाहनपूरुषः ॥ १.३४८च्द् ॥

यदा परराष्ट्रं सस्यैर् व्रीह्यादिभिर् गुणैश् च समजलेन्धनतृणादिभिर् उपेतं संपन्नं शत्रुश् च हीनो बलादिभिर् आत्मा च हृष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि तानि च पूरुषाश् च वाहनपूरुषाः हृष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा परराष्ट्रम् आत्मसात्कर्तुं व्रजेत् ॥ १.३४८ ॥

प्राणिनाम् अभ्युदयविनिपातानां दैवायत्तत्वाद् यदि दैवम् अस्ति तदा स्वयम् एव परराष्ट्रादि वशीभविष्यति, अथ नास्ति कृते ऽपि पौरुषे न भविष्यत्य् अतो व्यर्थ एवायं यात्राप्रयास इत्य् अत आह ।

दैवे पुरुषकारे च कर्मसिद्धिर् व्यवस्थिता । १.३४९अब्
तत्र दैवम् अभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ १.३४९च्द् ॥

कर्मसिद्धिः फलप्राप्तिर् इष्टानिष्टलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपि तु पुरुषकारे ऽपि, लोके तथादर्शनात्, चिकित्सकादिशास्त्रवैयर्थ्याच् च । अपि च पुरुषकाराभावे दैवम् एव नास्तीत्य् आह “तत्र दैवम्” इति । यतः पूर्वदेहार्जितं पौरुषम् एव दैवम् उच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं पौर्वदेहिकं कर्म । तस्मात् पुरुषकाराभावे न दैवम् अस्तीति पुरुषकारे यत्नो विधातव्यः ॥ १.३४९ ॥

इदानीं मतान्तराण्य् आह ।

केचिद् दैवात् स्वभावाद् वा कालात् पुरुषकारतः । १.३५०अब्
संयोगे केचिद् इच्छन्ति फलं कुशलबुद्धयः ॥ १.३५०च्द् ॥

केचिद् इष्टानिष्टलक्षणं फलं दैवाद् एवेच्छन्ति । केचित् स्वभावात्, स्वयम् एव भवति न कारणम् अपेक्षत इति । केचित् कालात् । केचित् पुरुषकारत एवेति । स्वमतम् आह- दैवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वादयो मन्यन्ते ॥ १.३५० ॥

एकैकस्मात् फलं न भवतीत्य् अत्र दृष्टान्तम् आह ।

यथा ह्य् एकेन चक्रेण रथस्य न गतिर् भवेत् । १.३५१अब्
एवं पुरुषकारेण विना दैवं न सिध्यति ॥ १.३५१च्द् ॥

नात्र तिरोहितम् अस्ति ॥ १.३५१ ॥

लभाय परराष्ट्रं गन्तव्यम् इत्य् उक्तम् । लाभश् च त्रिविधः हिरण्यलाभो मूललाभो मित्रलाभश् चेति । तेषु मित्रलाभो ज्यायान् । ततस् तत्प्राप्त्युपाये यत्नो विधातव्यः । तत्प्राप्त्युपायश् च सत्यवचनम् इत्य् आह ।

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः । १.३५२अब्
अतो यतेत तत्प्राप्त्यै रक्षेत् सत्यं समाहितः ॥ १.३५२च्द् ॥

यस्मात् हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा उत्कृष्टा तस्मात् तत्प्राप्त्यै यतेत यत्नं कुर्यात् सामादिभिः । सत्यं च रक्षेत् समाहितः सावधानः, सत्यमूलत्वान् मित्रलाभस्य ॥ १.३५२ ॥

इदानीं राज्याङ्गान्य् आह ।

स्वाम्यमात्या जनो दुर्गं कोशो दण्डस् तथैव च । १.३५३अब्
मित्राण्य् एताः प्रकृतयो राज्यं सप्ताङ्गम् उच्यते ॥ १.३५३च्द् ॥

महोत्साह इत्याद्युक्तलक्षणो महीपतिः स्वामी । अमात्या मन्त्रिपुरोहितादयः । जनो ब्राह्मणादिप्रजाः । दुर्गं धन्वदुर्गादि । कोशः सुवर्णादिधनराशिः । दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिमप्राकृतानि । एताः स्वाम्याद्याः राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गम् उच्यते ॥ १.३५३ ॥

तद् अवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । १.३५४अब्
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ १.३५४च्द् ॥

तद् एवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसकादिषु नृपो दण्डं पातयेत् प्रयोजयेत् । हि यस्माद् धर्म एव दण्डरूपेण पूर्वं ब्रह्मणा निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा, “दण्ड दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्” (ग्ध् ११.२८) इत्यादिगौतमस्मरणात् ॥ १.३५४ ॥

स नेतुं न्यायतो ऽशक्यो लुब्धेनाकृतबुद्धिना । १.३५५अब्
सत्यसंधेन शुचिना सुसहायेन धीमता ॥ १.३५५च्द् ॥

स पूर्वोक्तो दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्यायानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति । कीदृशेन तर्हि शक्य इत्य् आह- सत्यसंधेन अप्रतारकेण, शुचिना जितारिषड्वरेण, सुसहायेन पूर्वोक्तसहायसहितेन, धीमता नयानयकुशलेन, स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः ॥ १.३५५ ॥

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । १.३५६अब्
जगद् आनन्दयेत् सर्वम् अन्यथा तत् प्रकोपयेत् ॥ १.३५६च्द् ॥

स दण्डः शास्त्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्वं जगद् आनन्दयेत् हर्षयेत् । अन्यथा शास्त्रातिक्रमेण प्रयुक्तश् चेज् जगत् प्रकोपयेत् ॥ १.३५६ ॥

न केवलम् अधर्मदण्डेन जगत्प्रकोपो ऽपि तु प्रयोक्तुर् दृष्टादृष्टहानिर् अपीत्य् आह ।

अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् । १.३५७अब्
सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ १.३५७च्द् ॥

यः पुनः शास्त्रातिक्रमेण लोमादिना दण्डः कृतः स पापहेतुत्वात् स्वर्गं कीर्तिं लोकाश्च विनाशयति । शास्त्रोक्तमार्गेण तु कृतो धर्महेतुत्वात् स्वर्गकीर्तिजयानां हेतुर् भवति ॥ १.३५७ ॥

अपि भ्राता सुतो ऽर्घ्यो वा श्वशुरो मातुलो ऽपि वा । १.३५८अब्
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥ १.३५८च्द् ॥

अर्घ्यो ऽर्घार्ह आचार्यादिः । शेषः प्रसिद्धः । एते भ्रातृसुतादयो ऽपि स्वधर्माच् चलिता दण्ड्याः किम् उतान्ये । यतः स्वधर्माच् चलितो ऽदण्ड्यो नाम राज्ञः को ऽपि नास्ति । एतच् च मातापित्रादिव्यतिरेकेण । तथा च स्मृत्यन्तरम्- “अदण्ड्यौ मातापितरौ स्नातकपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्, ते हि धर्माधिकारिणः” इति ॥ १.३५८ ॥

किं च ।

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् । १.३५९अब्
इष्टं स्यात् क्रतुभिस् तेन समाप्तवरदक्षिणैः ॥ १.३५९च्द् ॥

यस् तु दण्ड्यान् स्वधर्मचलनादिना दण्ड्योग्यान् सम्यक् शास्त्रदृष्टेन मार्गेण धिग्धनदण्डादिना दण्डयति वध्यान् वधार्हान् घातयति तेन राज्ञा भूरिदक्षिणैः क्रतुभिर् इष्टं भवति । बहुदक्षिणक्रतुफलं प्राप्नोतीत्य् अर्थः । न च फलश्रवणाद् दण्डप्रणयनं काम्यम् इति मन्तव्यम्, अकरणे प्रायश्चित्तस्मरणात् । यथाह वसिष्ठः- “दण्डोत्सर्गे राजैकरात्रम् उपवसेत्, त्रिरात्रं पुरोहितः, कृच्छ्रम् अदण्ड्यदण्डने पुरोहितः, त्रिरात्रं राजा” (वध् १९.४०–४३) इति । ॥ १.३५९ ॥

दुष्टे सम्यग् दण्डः प्रयोक्तव्य इत्य् उक्तम् । दुष्टपरिज्ञानं च व्यवहारदर्शनम् अन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनम् अहर् अहः स्वयं कर्तव्यम् इत्य् आह ।

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । १.३६०अब्
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥ १.३६०च्द् ॥

इत्येवमुक्तप्रकारेण क्रतुतुल्यं फलं दण्ड्यदण्डेन, स्वर्गादिनाशं चादण्ड्यदण्डेन सम्यग् विचिन्त्य पृथक् पृथग् वर्णादिक्रमेण सभ्यैर् वक्ष्यमाणलक्षणैः परिवृतः प्रतिदिनं व्यवहारान् वक्ष्यमाणमार्गेण दुष्टादुष्टपरिज्ञानार्थं राजा स्वयं पश्येत् ॥ १.३६० ॥

कुलानि जातिः श्रेणीश् च गणाञ् जानपदान् अपि । १.३६१अब्
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥ १.३६१च्द् ॥

कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्तप्रभृतयः । श्रेणयस् ताम्बूलिकादीनाम् । गणा हेलावुक्कादीनाम् । जानपदाः कारुकादयः । एतान् स्वधर्माच् चलितान् प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । दण्डं दुर्वृत्तेषु निपातयेद् इत्य् उक्तम् । स च दण्डो द्विविधः शारीरो ऽर्थदण्डश् चेति । यथाह नारदः-

शारीरश् चार्थदण्डश् च दण्डो हि द्विविधः स्मृतः ।
शारीरस् ताडनादिस् तु मरणान्तः प्रकीर्तितः ॥
काकिण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ॥ (न्स्म् १९.६०–६१) इति ।

द्विविधो ऽप्य् अपराधानुसारेणानेकधा भवति । आह स्म-

शारीरो दशधा प्रोक्तो ह्य् अर्थदण्डस् त्व् अनेकधा ॥ (न्स्म् १९.६०) इति । १.३६१ ॥

तत्र कृष्णलमाषसुवर्णपलादिशब्दैर् अर्थदण्डा वक्तव्यास् । ते च प्रतिदेशं भिन्नपरिमाणार्था इत्य् एकरूपापराधे ऽपि देशभेदेन न्यूनाधिकदण्डो मा भूद् इति कृष्णलादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शयितुम् आह ।

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । १.३६२अब्
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥ १.३६२च्द् ॥
गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः । १.३६३अब्
कृष्णलः पञ्च ते माषासस् ते सुवर्णस् तु षोदश ॥ १.३६३च्द् ॥
पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ॥ १.३६४अब्

जालकान्तरप्रविष्टादित्यरश्मिस्थितं यद् रजस् तत् त्रसरेणुर् इत्य् उक्तं योगीश्वरादिभिस् तत्त्वदर्शिभिः । ते च त्रसरेणवो ऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिḳसास् तिस्रो राजसर्षपो राजिका । ते राजसर्षपास् त्रयो गौरसर्षपः सिद्धार्थः । गौरसर्षपाः षड् यवो मध्यः । मध्यमो न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि मध्यमशब्दाद् एव सर्षपादिशब्दाः न केवलम् उन्मानवचनाः किं तु तदुन्मितद्रव्यवचना इति गम्यते । यथा प्रस्थपरिमिता यवाः प्रस्थ उच्यते । एवं सर्षपाद्युन्मितं द्रव्यं सर्षपादिशब्दैः । सर्षपादिशब्दानां च केवलोन्मानवचनत्वे त्रसरेणून् उपसंहृत्योन्मातुम् अशक्यत्वात् तद्वारेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतमसूक्ष्मसूक्ष्मतरसूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्डव्यवहारे मध्य इति नियम्यते । ते मध्यमा यवास् त्रय एकः कृष्णलः । ते कृष्णलाः पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः । ते सुवर्णाश् चत्वारः पलम् इति संज्ञाः कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभिः । तत्र स्थूलैस् त्रिभिर् यवैः कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांशः कृष्णलो भवति । तैः पञ्चभिर् माषः । माषैः षोडशभिः सुवर्णः । स च व्यावहारिकैः पञ्चभिर् निष्कैर् एकः सुवर्णो भवति । ते चत्वारः पलम् इति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस् त्रिभिर् यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिण्शत्तमो भागः कृष्णलो भवति । तस्मिन् पक्षे सुवर्णः सार्धं निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशतितमो भागः कृष्णलः, सुवर्णश् चतुर्निष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्णं पलम् इति । पक्ẹ विंशतिनिष्कं पलम् । एवम् अन्यद् अपि निष्कस्य चत्वारिंशो भागः कृष्णलः द्विनिष्कः सुवर्णो ऽष्टनिष्कं पलम् इत्यादि लोकव्यवहारानुसारेणास्माद् एव सूत्राद् ऊहनीयम् ॥ १.३६२ ॥ १.३६३ ॥

एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह ।

द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ १.३६४अब्
शतमानं तु दशभिर् धरणैः पलम् एव तु । १.३६५अब्
निष्कं सुवर्णाश् चत्वारः १.३६५च्

द्वे कृष्णले पूर्वोक्ते रूप्यमाषो रूप्यसंबन्धी माषः । ते रूप्यमाषाः षोडश धरणम् । पुराण इत्य् अस्यैव संज्ञान्तरम्,

ते षोडश स्याद् धरणं पुराणश् चैव राजतः । (म्ध् ८.१३६)

इति मनुस्मरणात् । दशभिर् धरणैः शतमानं पलम् इति चाभिधीयते । पूर्वोक्ताश्चत्वारः सुवर्णा एको राजतो निष्को भवति ॥ १.३६४ ॥

इदानीं ताम्रस्योन्मानमाह ।

कार्षिकस् ताम्रिकः पणः ॥ १.३६५द् ॥

पलस्य चतुर्थो ऽंशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिकः । ताम्रस्य विकारस् ताम्रिकः । कर्षस्ंमितस् ताम्रविकारः पणसंज्ञो भवति कार्षापणसंज्ञकश् च,

कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः । (म्ध् ८.१३६)

इति मनुवचनात् । पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति,

माषो विंशतिमो भागः पणस्य परिकीर्तितः ।

इत्यादिव्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः पणो भवति । अस्मिंश् च पक्षे सुवर्णकार्षापणपणशब्दानां समानार्थत्वे ऽपि पणकार्षापणशब्दौ ताम्रविषयावेव । एवं तावद् धेमरूप्यताम्राणाम् उन्मानम् उक्तम्, दण्डव्यवहारोपयोगित्वात् । कांस्यरीतिकादीनाम् अपि लोकव्यवहाराङ्गभूतानाम् एवोन्मानं द्रष्टव्यम् ॥ १.३६५ ॥

स्वशास्त्रपरिभाषाम् आह ।

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । १.३६६अब्
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥ १.३६६च्द् ॥

पणानां सहस्रं पणसहस्रं तत्परिमाणम् अस्येति पणसाहस्रः । अशीत्या सह वर्तत इति साशीतिः । अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स उत्तमसाहससंज्ञो वेदितव्यः । तदर्धं मध्यमः तस्य साशीतिपणसहस्रस्यार्धं चत्वार्ịम्शदधिकपणपञ्चशतपणस्यार्धं सप्तत्यधिकपणशतद्वयपरिमितो दण्डो ऽधमसाहससंज्ञः स्मृत उक्तो मन्वादिभिः । यत् तु,

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः । (म्ध् ८.१६८)

इति मनुनोक्तम्, तत् पक्षान्तरम् अमतिपूर्वापराधविषयं द्रष्टव्यम् ॥ १.३६६ ॥

दण्डभेदान् आह ।

धिग्दण्डस् त्व् अथ वाग्दण्डो धनदण्डो वधस् तथा । १.३६७अब्
योज्या व्यस्ताः समस्ता वा ह्य् अपराधवशाद् इमे ॥ १.३६७च्द् ॥

धिग्दण्डो धिग् धिग् इति कुत्सनम् । वाग्दण्डस् तु परुषशापवचनात्मकः । धनदण्डो धनापहारात्मकः । वधदण्डः शारीरो ऽवरोधादिजीवितान्तः । एते चतुर्विधा दण्डाः व्यस्ता एकैकशः समस्ताः द्वित्राः त्रिचतुरो वापराधानुसारेण प्रयोक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनुः-

धिग्दण्डं प्रथं कुर्याद् वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ इति ॥ १.३६७ ॥

दण्डव्यवस्थानिमित्तान्य् आह ।

ज्ञात्वा ऽपराधं देशं च कालं बलम् अथापि वा । १.३६८अब्
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ १.३६८च्द् ॥

यथापराधं ज्ञात्वा तदनुसारेण दण्डप्रणयनम् एव देशकालवयःकर्मवित्तानि ज्ञात्वा तदनुसारेण दण्ड्येषु दण्डार्हेषु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबुद्धिपूर्वसकृदावृत्त्यनुसारेण च । यद्य् अपि राजानम् अधिकृत्यायं राजधर्मकलाप उक्तस् तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधिकृतस्यायं धर्मो वेदितव्यः । “राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः” इत्य् अत्र पृथङ्नृपग्रहणात् करग्रहणस्य रक्षार्थत्वाच् च रक्षणस्य दण्डप्रणयनायत्तत्वाद् इति ॥ १.३६८ ॥

इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्-परमहंस-परिव्राजक-विज्ञानेश्वर-भट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्य-धर्मशास्त्र-विवृतौ सदाचारः प्रथमाध्यायः ।