१० श्राद्ध-प्रकरणम्

**अथ श्राद्धपर्करणम् **

इदानीं श्राद्धप्रकरणम् आरभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्राद्धया त्यागः । तच् च द्विविधं पार्वणम् एकोद्दिष्टम् इति । तत्र त्रिपुरुषोद्देशेन यत् क्रियते तत् पार्वणम् । एकपुरुषोद्देशेन क्रियमाणम् एकोद्दिष्टम् । पुनश् च त्रिविधं नित्यं नैमित्तिकं काम्यं चेति । तत्र नित्यं नियतनिमित्तोपाधौ चोदितम् अहर् अहर् अमावस्याष्टकादिषु । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्रजन्मादिषु । फलकामनोपाधौ विहितं काम्यं यथा स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु तिथिषु च । पुनश् च पञ्चविधं- “अहर् अहः श्राद्धं पार्वणं वृद्धिश्राद्धम् एकोद्दिष्टं सपिण्डीकरणं च” इति । तत्राहर् अहः श्राद्धं “अन्नं पितृमनुष्येभ्यः” (य्ध् १.१०४) इत्यादिनोक्तम् । तथा च मनुः ।

दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् अक्षयाम् ॥ इति ॥ (म्ध् ३.८२)

अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस् तयोः कालान् आह ।

अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् । १.२१७अब्
द्रव्यं ब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः ॥ १.२१७च्द् ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । १.२१८अब्
श्राद्धं प्रति रुचिश् चैव श्राद्धकालाः प्रकीर्तिताः ॥ १.२१८च्द् ॥

यत्र दिने चन्द्रमा न दृस्यते सा अमावास्या, तस्याम् अहर्द्वयव्यापिन्याम् अपराह्णव्यापिनी ग्राह्या, “अपराह्णः पितॄणाम्” इति वचनात् । अपराह्णश् च पञ्चधाविभक्ते दिने चतुर्थो भागस् त्रिमुहूर्तः । अष्टकाश् चतस्रः “हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः” इत्य् आश्वलायनोक्ताः (आश्गृ २.४।१) । वृद्धिः पुत्रजन्मादिः । कृष्णपक्षो ऽपरपक्षः । अयनद्वयं दक्षिणोत्तरसंज्ञकम् । द्रव्यं कृसरमाषादिकम् । ब्राह्मणसंपत्तिर् वक्ष्यमाणा । विषुवद्द्वयं मेषतुलयोः सूर्यगमनम् । सूर्यसंक्रम आदित्यस्य राशेः राश्यन्तरगमनम् । अयनविषुवतोः संक्रान्तित्वे सिद्धे ऽपि पृथगुपादानं फलातिशयप्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया,

यदेन्दुः पितृदैवत्ये हंसश् चैव करे स्थितः ।
यस्यां तिथिर् भवेत् सा हि गजच्छाया प्रकीर्तिता ॥

इति परिभाषिता । हस्तिच्छायेति केचित् । सेह न गृह्यते कालप्रक्रमात् । ग्रहणं सोमसूर्ययोर् उपरागः । यदा च कर्तुः श्राद्धं प्रति रुचिर् भवति तदापि । चशब्दाद् युगादिप्रभृतयः । एते श्राद्धकालाः । यद्य् अपि “चन्द्रसूर्यग्रहे नाद्यात्” इति ग्रहणे भोजननिषेधस्, तथापि भोक्तुर् दोषो दातुर् अभ्युदयः ॥ १.२१७ ॥ १.२१८ ॥

अहरहःश्राद्धव्यतिरिक्तवक्ष्यमाणचतुर्विधश्राद्धेषु ब्राह्मणसंपत्तिम् आह ।

अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा । १.२१९अब्
**वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णिकः ॥ १.२१९च्द् ॥ **

सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाप्य् अजस्रास्खलिताध्ययनक्षमा अग्र्याः । श्रोत्रियः श्रुताध्ययन्संपन्नः । वक्ष्यमाणं ब्रह्म यो वेत्त्य् असौ ब्रह्मवित् । युवा मध्यमवयस्कः । सर्वस्येदं विशेषणम् । मन्त्रब्राह्मणयोर् अर्थं वेत्तीति वेदार्थवित् । ज्येष्ठसाम सामविशेषस् तदध्ययनाङ्गव्रतं च तद्व्रताचरणेन यस् तद् अधीते स ज्येष्ठसामा । त्रिमधुः ऋग्वेदैकदेशस् तद्व्रतं च तद्व्रताचरेण तदधीते इति त्रिमधुः । त्रिसुपर्णं ऋग्यजुषोर् एकदेशस् तद्व्रतं च तद्व्रताचरेण यस् तदधीते स त्रिसुपर्णिकः । एते ब्राह्मणाः श्राद्धसंपद इति वक्ष्यमाणेन संबन्धः ॥ १.२१९ ॥

स्वस्रीयऋत्विग्जामातृयाज्यश्वशुरमातुलाः । १.२२०अब्
**त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ॥ १.२२०च्द् ॥ **

स्वस्त्रीयो भागिनेयः । ऋत्विग् उक्तलक्षणः । जामाता दुहितुर् भर्ता । त्रिणाचिकेतं यजुर्वेदैकदेशः तद्व्रतं च तद्व्रताचरणेन यस् तदध्यायी स त्रिणाचिकेतः । अन्यत् प्रसिद्धं । एते च पूर्वोक्ताग्र्यश्रोत्रियाद्यभावे वेदितव्याः,

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस् त्व् अयं प्रोक्तः सदा सद्भिर् अगर्हितः ॥ (म्ध् ३.१४७)

इत्य् अभिधाय, मनुना स्वस्त्रीयादीनाम् अभिहितत्वात् ॥ १.२२० ॥

कर्मनिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः । १.२२१अब्
**पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदः ॥ १.२२१च्द् ॥ **

कर्मनिष्ठा विहितानुष्ठानतत्पराः । तपोनिष्ठास् तपःशीलाः । सभ्यावसथ्यौ त्रेताग्नयश् च यस्य सन्ति स पञ्चाग्निः पञ्चाग्निविद्याध्यायी च । ब्रह्मचारी उपकुर्वाणको नैष्टिकश् च । पितृमातृपरास् तत्पूजापराः । चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रियादयः । श्राद्धसंपदः श्राद्धेषु अक्षय्यफलसंपत्तिहेतवः ॥ १.२२१ ॥

वर्ज्यान् आह ।

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा । १.२२२अब्
**अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ १.२२२च्द् ॥ **

रोगी महारोगोपसृष्टः । हीनम् अतिरिक्तं वाङ्गं यस्यासौ हीनातिरिक्ताङ्गः । एकेनाक्ष्णा यः पश्यति स काणः । एतस्माद् एवान्धबधिरविद्धप्रजननखलतिदुश्चर्मप्रभृतयो निरस्ताः । पुनर्भूर् उक्तलक्षणा तस्यां जातः पौनर्भवः । अवकीर्णी ब्रह्मचर्य एव स्खलितब्रह्मचर्यः । कुण्डगोलौ,

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ (म्ध् ३.१७४)

इत्येवमुक्तलक्षणकौ । कुनखी कुत्सितनखः । श्यावदन्तकः स्वभावात् कृष्णदशनः । एते श्राद्धे निन्दिता इति वक्ष्यमाणेन संबन्धः ॥ १.२२२ ॥

**भृतकाध्यापकः क्लीबः कन्यादूस्य् अभिशस्तकः । १.२२३अब् **
**मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ १.२२३च्द् ॥ **

वेतनग्रहणेन यो ऽध्यापयति स भृतकाध्यापकः । वेतनदानेन च यो ऽधीते सो ऽपि । क्लीबो नपुंसकः । असद्भिः सद्भिर् वा दोषैर् यः कन्यां दूष्यति स कन्यादूषी । असता सता वा ब्रह्महत्यादिनाभियुक्तो ऽअभिशस्तः । मित्रध्रुक् मित्रद्रोही । परदोषसंकीर्तनशीलः पिशुनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । परिविन्दकः परिवेत्ता । ज्येष्ठे ऽकृतदारे ऽकृताग्निपरिग्रहे वा यः कनीयान् दारपरिग्रहम् अग्निपरिग्रहं वा कुर्यात् स परिवेत्ता । ज्येष्ठस् तु परिवित्तिः । यथाह मनुः ।

दाराग्निहोत्रसंयोगं यः करोत्य् अग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ इति । (म्ध् ३.१७१)

एवं दातृयाजकाव् अपि,

परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ (म्ध् ३.१७२)

इति मनुवचनात् ॥ १.२२३ ॥

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः । १.२२४अब्
**परपूर्वापतिः स्तेनः कर्मदुष्टाश् च निन्दिताः ॥ १.२२४च्द् ॥ **

विना कारेण मातापितृगुरून् यस् त्यजति स मातापितृगुरुत्यागी । एवं भार्यापुत्रत्याग्य् अपि,

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥ (म्ध् ११.१०)

इति समाननिर्देशात् । कुण्डस्यान्नं यो ऽश्नात्य् असौ कुण्डाशी । एवं गोलकस्यापि,

यस् तयोर् अन्नम् अश्नाति स कुण्डाशी प्रकीर्तितः ।

इति वचनात् । वृषलो निर्धर्मस् तत्सुतो वृषलात्मजः । परपूर्वा पुनर्भूः तस्याः पतिः । अदत्तादायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धकारिणः । चकारात् कितवदेवलकप्रभृतयः । एते श्राद्धे निन्दिताः प्रतिषेद्धाः । “अग्र्याः सर्वेषु वेदेषु” इत्यादिना श्राद्धयोग्यब्राह्मणप्रतिपादनेनैव तद्व्यतिरिक्तानाम् अयोग्यत्वे सिद्धे ऽपि पुनः केषां चिद् रोग्यादीनां प्रतिषेधवचनम् उक्तलक्षणब्राह्मणासंभवे प्रतिषेधरहिताणां प्राप्त्यर्थम् ॥ १.२२४ ॥

एवं श्राद्धकालान् ब्राह्मणांश् चोक्त्वाधुना पार्वणप्रयोगम् आह ।

निमन्त्रयेत पूर्वेद्युर् ब्राह्मणान् आत्मवाञ् शुचिः । १.२२५अब्
**तैश् चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः ॥ १.२२५च्द् ॥ **

पूर्वोक्तान् ब्राह्मणान् “श्राद्धे क्षणः क्रियताम्” इति पूर्वेद्युर् निमन्त्रयेत प्रार्थनया क्षणम् अभ्युपगमयेत् । अपरेद्युर् वा,

पुर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते ।
निमन्त्रयेत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ (म्ध् ३.१८७)

इति मनुस्मरणात् । आत्मवान् शोकोन्मादादिरहितः सन् दोषवान् न भवति । यद् वा आत्मवान् नियतेन्द्रियो भवेत् । शुचिः प्रयतश् च । तैर् अपि निमन्त्रितैर् ब्राह्मणैर् मनोवाक्कायव्यापारैः संयतैर् नियतैर् भवितव्यम् ॥ १.२२५ ॥

अपराह्णे समभ्यर्च्य स्वागतेनागतांस् तु तान् । १.२२६अब्
पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् ॥ १.२२६च्द् ॥
**

अपराह्णे उक्तलक्षणे समभ्यर्च्य तान् निमन्त्रितान् ब्राह्मणान् आहूय स्वागतवचनेन पूजयित्वा कृतपादधावनान् आचान्तान् कॢप्तेष्व् आसनेषु पवित्रपाणिः पवित्रपाणीन् उपवेशयेत् । यद्य् अप्य् अत्र सामान्येनापराह्णे इत्य् उक्तं तथापि कुतपे प्रारभ्य तदादि पञ्चसु मुहूर्तेषु परिसमापनं श्रेयस्करम्,

अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥
मध्याह्ने सर्वदा यस्मान् मन्दीभवति भास्करः ।
तस्माद् अनन्तफलदस् तत्रारम्भो विशिष्यते ॥
ऊर्ध्वं मुहूर्तात् कुतपाद् यन् मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्य् एतत् स्वधाभवनम् इष्यते ॥ (मत्स्पु २२.८४–८५, ८८)

इति वचनात् । तथान्यद् अपि श्राद्धोपयोगि कुतपसंज्ञकम् उक्तम् ।

मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः ।
रौप्यं दर्भास् तिला गावो दौघित्रश् चाष्टमः स्मृतः ॥
पापं कुत्सितम् इत्य् आहुस् तस्य संतापकारिणः ।
अष्टाव् एते यतस् तस्मात् कुतपा इति विश्रुता ॥ इति ॥ १.२२६ ॥ (मत्स्पु २२। ८६–८७)
युग्मान् दैवे यथाशक्ति पित्र्ये ऽयुग्मांस् तथैव च । १.२२७अब्
**परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ १.२२७च्द् ॥ **

दैवे आभ्युदयिके श्राद्धे युग्मान् समान् ब्राह्मणान् उपवेशयेत् । कथम् यथाशक्ति शक्तिम् अनतिक्रम्य । तत्र वैश्वदेवे द्वौ मात्रादीनां तिसृणाम् एकैकस्या द्वौ द्वौ तिसृणां वा द्वौ । एवं पित्रादीनाम् एकैकस्य द्वौ द्वौ त्रयाणां वा द्वौ । एवं मातामहादीनां च वर्गत्रये वैश्वदेवं पृथक् तन्त्रं वा । पित्र्ये पार्वणश्राद्धे अयुग्मान् विषमान् उपवेशयेद् इति संबध्यते । एतच् च परिस्तृते सर्वतः प्रच्छादिते शुचौ गोमयादिनोपलिप्ते दक्षिणाप्रवणे दक्षिणतो ऽवनते देशे कार्यम् ॥ १.२२७ ॥

अयुग्मान् पित्र्य इति पार्वणश्राद्धाङ्गभूते वैश्वदेवे ऽप्य् अयुग्मप्रसङ्गे इदम् आरभ्यते, द्वौ दैव इति ।

द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा । १.२२८अब्
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ १.२२८च्द् ॥

दैवे वैश्वदेवे द्वौ ब्राह्मणौ प्राङ्मुखाव् उपवेश्यौ । पित्र्ये अयुग्मान् इत्य् अविशेषप्रसङ्गे विशेष उच्यते “त्रयः पित्र्ये” इति । पित्र्ये पित्रादिस्थाने त्रय उदङ्मुखा उपवेश्याः । पक्षान्तरम् आह “एकैकम् एव वा” । वैश्वदेवे पित्र्ये च एकम् एकम् उपवेशयेत् । संभवतो विकल्पः । “मातामहानाम् अप्य् एवं” श्राद्धे निमन्त्रणादि । “द्वौ दैवे प्राक् त्रयः पित्र्ये उदग् एकैकम् एव वा” इत्य् एव मतं पितृश्राद्धवत् कर्तव्यम् । पितृश्राद्धं मातामहश्राद्धे च वैश्वदेविकं पृथक् तन्त्रेण वा कर्तव्यम् । तन्त्रशब्दः समुदायवाचकः । यदा तु द्वाव् एव ब्राह्मणौ लब्धौ तदा वैश्वदेवे पात्रं प्रकल्प्य उभयत्रैकैकं ब्राह्मणं नियुञ्ज्यात् । यथाह वसिष्ठः ।

यद्य् एकं भोज्ययेच् छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥
देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् ।
प्रास्येद् अन्नं तद् अग्नौ तु दद्याद् वा ब्रह्मचारिणे ॥ इति ॥ (वध् ११.३०–३१) १.२२७ ॥
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशान् अपि । १.२२९अब्
आवाहयेद् अनुज्ञातो विश्वेदेवास इत्य् ऋचा ॥ १.२२९च्द् ॥

तदनन्तरं वैश्वदेवार्थब्राह्मणहस्ते जलं दत्त्वा विष्टरार्थं कुशांश् च युग्मान् द्विगुणितानासने दक्ष्ịणतो दत्त्वा विश्वान् देवान् आवाहयिष्ये इति ब्राह्मणान् पृष्ट्वा तैर् आवाहयेत्य् अनुज्ञातो “विश्वेदेवास आगत” इत्य् अनयर्चा “आगच्छन्तु महाभागाः” इत्य् अनेन च स्मार्तेन मन्त्रेण तान् आवाहयेत् । एतच् च यज्ञोपवीतिना प्रदक्षिणं च कार्यम्,

अपसव्यं ततः कृत्वा पित्र्̣̄णाम् अप्रदक्षिणम् । (य्ध् १.२३२)

इति पित्र्ये विशेषस्मरणात् ॥ १.२२९ ॥

यवैर् अन्ववकीर्याथ भाजने सपवित्रके । १.२३०अब्
शं नो देव्या पयः क्षिप्त्वा यवो ऽसीति यवांस् तथा ॥ १.२३०च्द् ॥
या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् । १.२३१अब्

ततो वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैर् अन्ववकीर्य अनन्तरं तैजसादिभाजने सपवित्रके कुशयुग्मान्तर्हिते “शं नो देवीर् अभिष्टय” इत्य् अनयर्चापः क्षिप्त्वा “यवो ऽसि धान्यराजो वा” इत्यादिना मन्त्रेण यवान् ततो गन्धपुष्पाणि च क्ष्पित्वानन्तरं अर्घ्यपात्रपवित्रान्तर्हितेषु ब्राह्मणहस्तेषु “या दिव्या आपः पृथिवि” इत्यादिना मन्त्रेण विश्वेदेवा इदं वो ऽर्घ्यम् इत्य् अर्घ्योदकं विनिक्षिपेत् ॥ १.२३० ॥

दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ १.२३१च्द् ॥
तथाच्छादनदानं च करशौचार्थम् अम्बु च । १.२३२अब्

अथ करशौचार्थम् उदकं दत्त्वा यथाक्रमं गन्धपुष्पधूपदीपदानं कुर्यात् तथाच्छादनदानं च । गन्धादीनां स्मृत्यन्तरोक्तो विशेषो द्रष्टव्यः । “चन्दनकुङ्कुमकर्पूरागरुपद्मकान्य् उपलेपनार्थम्” इति (विध् ७९.११) विष्णुनोक्तम् । पुष्पाणि च,

श्राद्धे जात्यः प्रशस्ताः स्युर् मल्लिका श्वेतयूथिका ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥

इत्य् उक्तानि । वर्ज्यानि च,

उग्रगन्धीन्य् अगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥

न कण्टकिजम् । कण्टकिजम् अपि शुक्लं सुगन्धि यत् तद् दद्यात् । न रक्तं दद्यात् । रक्तम् अपि कुङ्कुमजं जलजं च दद्यात् इत्यादीनि द्रष्टव्यानि । धूपे च विशेषो विष्णुनोक्तः- “प्राण्यङ्गं सर्वं धूपार्थे न दद्यात् । घृतमधुसंयुक्तं गुग्गुलशीखण्डागरुदेववदारुसरलादि दद्यात्” (च्ड़्। विध् ७९.९–१०) इति । दीपे च विशेषः शङ्खेनोक्तः-

घृतेन दीपो दातव्यस् तिलतैलेन वा पुनः ।
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥ इति ।

आच्छादनं च शुभ्रं नवम् अहतं सदशं दद्याद् इति । एतच् च सर्वं वैश्वदेवानुष्ठानकाण्डम् उदङ्मुखः कुर्यात् । पित्र्यं काण्डं दक्षिणामुखः । यथाह वृद्धशातातपः-

उदङ्मुखस् तु देवानां पित्र्̣̄णां दक्षिणामुखः ।
प्रदद्यात् पार्वणे सर्वं देवपूर्वं विधानतः ॥ इति ॥ १.२३१ ॥

अपसव्यं ततः कृत्वा पित्र्̣̄णाम् अप्रदक्षिणम् ॥ १.२३२च्द् ॥
द्विगुणांस् तु कुशान् दत्त्वा ह्य् उशन्तस् त्वेत्य् ऋचा पित्र्̣̄न् । १.२३३अब्
**आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ॥ १.२३३च्द् ॥ **

ततो वैश्वदेवकाण्डानन्तरम्, अपसव्यं यज्ञोपवीतं प्राचीनावीतं कृत्वा । अत्र तत इति वदता काण्डानुसमयो दर्शितः । पित्रादीनां त्रयाणाम् अयुग्मान् कुशान् द्विगुणभुग्नान् अप्रदक्षिणं वामतो विष्टरार्थम् आसनेषूदकपूर्वकं दत्त्वा पुनर् उदकं दद्यात्, “अपः प्रदाय दर्भान् द्विगुणभुग्नान् आसनं प्रदायापः प्रदाय”(आश्ग् ४.७।७–८) इत्य् आश्वलायनस्मरणात् । एतच् चाद्यन्तयोर् उदकदानं वैश्वदेवे पित्र्ये च प्रतिपदार्थं प्रतिपादनार्थं द्रष्टव्यम् । अथ पित्र्̣̄न् पितामहान् प्रपितामहान् आवाहयिष्य इति ब्राह्मणान् पृष्ट्वा आवाहयेति तैर् अनुज्ञातः “उशन्तस् त्वा निधीमहि” इत्य् अनयर्चा पित्रादीन् आवाह्य “आयन्तु नः पितरः” इत्यादिना मन्त्रेणोपतिष्ठेत ॥ १.२३२ ॥ १.२३३ ॥

अपहता इति तिलान् विकीर्य च समन्ततः । १.२३४अब्
यवार्थास् तु तिलैः कार्याः कुर्याद् अर्घ्यादि पूर्ववत् ॥ १.२३४च्द् ॥
दत्त्वार्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः । १.२३५अब्
**पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः ॥ १.२३५च्द् ॥ **
यवार्था यवसाध्यानि कार्याण्य् अवकिरणादीनि तिलैः कर्तव्यानि । ततो ऽर्घ्यपात्रासादनाच्छादनान्तं पूर्ववत् कुर्यात् । तत्रायं विशेषः तिलान् “अपहता असुरा रक्षांसि” इत्यादिना मन्त्रेण ब्राह्मणान् परितो ऽप्रदक्षिणम् अन्ववकीर्य राजतादिषु पात्रेषु त्रिष्व् अयुग्मकुशनिर्मितकूर्चान्तर्हितेषु “शं नो देवीः” इतिमन्त्रेणापः क्षिप्त्वा “तिलो ऽसि सोमदैवत्य” इत्यादिमन्त्रेण तिलान् गन्धपुष्पाणि च क्षिप्त्वा “स्वधार्ग्याः” इति ब्राह्मणानां पुरतो ऽर्घ्यपात्राणि स्थापयित्वा “या दिव्या” इति मन्त्रान्ते पितर् इदं ते ऽर्घ्यं पितामहेदं ते ऽर्घ्यं प्रपितामहेदं ते ऽर्घ्यम् इति ब्राह्मणानां हस्तेष्व् अर्घ्यं दद्यात् । एकैकम् उभयत्र वेत्य् अस्मिन्न् अपि पक्षे पात्रत्रयं कार्यम् । एवम् अर्घ्यं दत्त्त्वा तेषाम् अर्घ्याणां संस्रवान् ब्राह्मणहस्तगलितार्घोदकानि पितृपात्रे गृहीत्वा दक्षिणाग्रं कुशस्तम्बं भूमौ निधाय तस्योपरि “पितृभ्यः स्थानम् असि” इत्य् अनेन मन्त्रेण तत्पात्रं न्युब्जम् अधोमुखं कुर्यात् । तस्योपर्य् अर्घ्यपात्रपवित्राणि निदध्यात् । अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि “पितर् अयं ते गन्धः पितर् इदं ते पुष्पम्” इत्यादिना प्रयोगेण दद्यात् ॥ १.२३४ ॥ १.२३५ ॥

अग्नौकरणम् आह द्वाभ्याम् ।

अग्नौ करिष्यन्न् आदाय पृच्छत्य् अन्नं घृतप्लुतम् । १.२३६अब्
कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ १.२३६च्द् ॥
हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः । १.२३७अब्
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ १.२३७च्द् ॥

अनन्तरम् अग्नौ करिष्यन् घृतप्लुतं घृताक्तम् अन्नम् आदाय ब्राह्मणान् पृच्छेद् अग्नौ करिष्ये इति । घृतग्रहणं सूपशाकादिनिवृत्त्यर्थम् । ततस् तैः कुरुष्वेत्य् अभ्यनुज्ञातः प्राचीनावीती शुद्धम् अन्नम् उपसमाधाय मेक्षणेनादायावदानसंपदा जुहुयात् “सोमायपितृमते स्वधा नमः । अग्नये कव्यवाहनाय स्वधा नमः” इति पिण्डपितृयज्ञकल्पेनाग्नौ हुत्वा मेक्षणम् अनुप्रहृत्य हुतशेषं मृन्मयवर्जं यथालाभोपपन्नेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । समाहितो ऽनन्यमनस्कः । अत्र यद्य् अप्य् अग्नाव् इत्य् अविशेषेण उक्तं तथाप्य् आहिताग्नेः सर्वाधानपक्षे औपासनाग्नेर् अभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्वणश्राद्धे विहृतदक्षिणाग्नेः संनिधानाद् दक्षिणाग्नौ होमः “कर्म स्मार्तं विवाहाग्नौ” इत्य् अस्यापवाददर्शनात् । यथाह मार्कण्डेयः ।

आहिताग्निस् तु जुहुयाद् दक्षिणाग्नौ समाहितः ।
अनाहिताग्निस् त्व् औपसथे ऽग्न्यभावे द्विजे ऽप्सु वा ॥ इति ।

अर्धाधानपक्षे त्व् औपासनाग्निसद्भावाद् आहिताग्नेर् अनाहिताग्नेर् इवौपासनाग्नाव् एवाग्नौकरणहोमः । एवम् अन्वष्टकादिषु त्रिष्व् अपि पिण्डपितृयज्ञकल्पातिदेशात् । काम्यादिषु चतुर्षु ब्राह्मणपाणाव् एव होमः । यथाहुर् गृह्यकाराः ।

आन्वष्टक्यं च पूर्वेद्युर् मासि मास्य् अथ पार्वणम् ।
काम्यम् अभ्युदये ऽष्टम्याम् एकोद्दिष्टम् अथाष्टमम् ॥
चतुर्ष्व् आद्येषु साग्नीनां वह्नौ होमो विधीयते ।
पित्र्यब्राह्मणहस्ते स्याद् उत्तरेषु चतुर्ष्व् अपि ॥

अस्यार्थः । “हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः” (आश्गृ २.४।१)) इत्य् अष्टका विहिताः । तत्र नवम्यां यत् क्रियते तद् अन्वष्टक्यम् । सप्तम्यां क्रियमाणं पूर्वेद्युः । मासि मासि कृष्णपक्षे पञ्चमीप्रभृतिषु यस्यां कस्यां चित् तिथाव् अन्वष्टक्यातिदेशेन यद् विहितम् । अमावास्यास्यां पिण्डपितृयज्ञानन्तरं यद् विहितं तत् पार्वणम् । स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु यद् विहितं तत् काम्यम् । अभ्युदयेषु पुत्रोत्पत्त्यादिषु तडागारामदेवताप्रतिष्ठादिषु च यद् विहितं तद् आभ्युदयिकम् । अष्टम्यां अष्टका विहिताः । एकोद्दिष्टम् । अत्रैकोद्दिष्टशब्देन सपिण्डीकरणं लक्षयति, तत्रैकोद्दिष्टस्यापि सद्भावात्, साक्षाद् एकोद्दिष्टे तदभावात् । अथ वा गृह्यभाष्यकारमते साक्षाद् एकोद्दिष्टे ऽपि पाणिहोमस्य सद्भावात् साक्षाद् एकोद्दिष्टम् एव । एतेषाम् अष्टानाम् आद्येषु चतुर्षु साग्निकस्याग्नौ होमः । उत्तरेषु चतुर्षु पित्र्यब्राह्मणहस्ते । निरग्निकस्यापि प्रमीतपितृकस्य द्विजस्य पार्वणं नित्यम् इति तस्यापि पाणाव् एव होमः,

न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥

इति वचनात् । एवं काम्याभ्युदयिकाष्टकैकोद्दिष्टेषु पाणाव् एव होमः,

अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् । (म्ध् ३.२१२)

इति मनुस्मरणात् । पाणिदत्तस्य पृथग्ग्रासप्रतिषेध उच्यते । यथाहुर् गृह्यकाराः ।

अन्नं पाणितले दत्तं पृथग् अश्नन्त्य् अबुद्धयः ।
पितरस् तेन तृप्यन्ति शेषान्नं न लभन्ति ते ॥
यच् च पाणितले दत्तं यच् चान्यद् उपकल्पितम् ।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥ इति । १.२३६ ॥ १.२३७ ॥

अन्ननिवेदनम् ।

दत्त्वान्नं पृथिवीपात्रम् इति पात्राभिमन्त्रणम् । १.२३८अब्
**कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ १.२३८च्द् ॥ **

अन्नम् ओदनसूपपायसघृतादिकं भाजनेषु दत्त्वा “पृथिवी ते पात्रं” इत्यादिना मन्त्रेण पात्राभिमन्त्रणं कृत्वा “इदं विष्णुर् विचक्रमे” इत्य् अनयर्चा अन्ने द्विजाङ्गुष्ठं निवेशयेत् । तत्र च वैश्वदेवे यज्ञोपवीती विष्णो हव्यं रक्षेति । पित्र्ये प्राचीनावीती विष्णो कव्यं रक्षति ।

विष्णो हव्यं च कव्यं च ब्रूयाद् रक्षेति वै क्रमात् ।

इति मनुस्मरणात् ॥ १.२३८ ॥

सव्याहृतिकां गायत्रीं मधुवाता इति त्र्यृचम् । १.२३९अब्
**जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् ते ऽपि वाग्यताः ॥ १.२३९च्द् ॥ **

अनन्तरं “विश्वेभो देवेभ्य इदम् अन्नं परिविष्टं परिवेक्ष्यमाणं चातृप्तेः” इति यवोदकेन दैवे निवेद्य, तथा पित्रे “अमुकगोत्रायामुकशर्मणे इदम् अन्नं परिविष्टं परिवेक्ष्यमाणं चातृप्तेः” इति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपितामहाय च निवेद्यानन्तरम् आपोशनं दत्त्वा पूर्वोक्ताभिर् व्याहृतिभिः सहितां गायत्रीं “मधु वाता” इति तृचं मधु मधु मध्व् इति त्रिवारं जप्त्वा, “यथासुखं जुषध्वम्” इति ब्रूयात्,

संकल्प्य पितृदेवेभ्यः सावित्रीं मधुमज् जपः ।
श्राद्धं निवेद्यापोशानं जुषप्रैषो ऽथ भोजनम् ॥

तथा ।

गायत्रीं त्रिः सकृद् वापि जपेद् व्याहृतिपूर्विकाम् ।
मधुवाता इति तृचं मध्व् इत्य् एतत् त्रिकं तथा ॥

इति पारस्करादिवचनात् । भुञ्जीरंस् ते ऽपि वाग्यताः । ते ऽपि ब्राह्मणा वाग्यता मौनिनो भुञ्जीरन् ॥ १.२३९ ॥

अन्नम् इष्टं च दद्याद् अक्रोधनो ऽत्वरः । १.२४०अब्
**आ तृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ १.२४०च्द् ॥ **

अन्नं भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधम् इष्टं यद् ब्राह्मणाय प्रेताय कर्त्रे वा रोचते । हविष्यं श्राद्धहविर् योग्यं व्रीहिशालियवगोधूममुद्गमाषमुन्यन्न-कालशाकमहाशल्कैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकर्पूरसैन्धवसांभरपन्सनालिकेर-कदलीबदरगव्यपयोदधिघृतपायसमधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । हविष्यम् इत्य् अनेनैवायोग्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्रवमसूरचणककुलित्थपुलाकनिष्पावराजमाषकूष्माण्डवार्ताकबृहतीद्वयोपोदकी-वंशाङ्कुरपिप्पलीवचाशतपुष्पोषधबिडलवणमाहिषचामरक्षीरदधिघृतपायसादीनां निवृत्तिः । अक्रोधनः क्रोधहेतुसंभवे ऽपि । अत्वरो ऽव्यग्रः । आ तृप्तेर् दद्याद् इति संबन्धः । तुशब्दाद् तथा किंचिद् उच्छिष्यते तथा दद्यात्, उच्छेषणस्य दासवर्गभागधेयत्वात्,

उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च ।
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ (म्ध् ३.२४६)

इति मनुस्मरणात् । तथा आ तृप्तेः पवित्राणि पुरुषसूक्तपावमानीप्रभृतीनि जप्त्वा तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सव्याहृतिकाम् इत्य् उक्तं जपेत् ॥ १.२४० ॥

अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य च । १.२४१अब्
**तद् अन्नं विकिरेद् भूमौ दद्याच् चापः सकृत् सकृत् ॥ १.२४१च्द् ॥ **

अनन्तरं सर्वम् अन्नम् आदाय तृप्ताः स्थेति तान् पृष्ट्वा तृप्ताः स्म इति तैर् उक्तः शेषम् अप्य् अस्ति किं क्रियताम् इति पृष्ट्वा इष्टैः सहोपभुज्यताम् इत्य् अभ्युपगम्य तद् अन्नं पितृस्थानब्राह्मणस्य पुरस्ताद् उच्छिष्टसंनिधौ दक्षिणाग्रदर्भान्तरितायां भूमौ तिलोदकप्रक्षेपपूर्वकं “ये अग्निदग्धा” इत्य् अनयर्चा निक्षिप्य पुनस् तिलोदकं निक्षिपेत् । तदनन्तरं ब्राह्मणहस्तेषु गण्डूषार्थं सकृत् सकृद् अपो दद्यात् ॥ १.२४१ ॥

[^१५]सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः । १.२४२अब्
उच्छिष्ठसंनिधौ पिण्डान् दद्याद् वै पितृयज्ञवत् ॥ १.२४२च्द् ॥

पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अग्नौकरणशिष्टचरुशेषेण सह सर्वम् अन्नम् उपादायाग्निसंनिधौ पिण्डान् दद्यात् । तदभावे ब्राह्मणार्थं कृतम् अन्नं सर्वम् उपादाय सतिलं तिलमिश्रं दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान् दद्यात् ॥ १.२४२ ॥

[^१६]मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः । १.२४३अब्
स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च ॥ १.२४३च्द् ॥

मातामहानाम् अपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कर्मैवम् एव कर्तव्यम् । अनन्तरं ब्राह्मणानाम् आचमनं दद्यात् । स्वस्तिवाच्यं ततः कुर्यात् स्वस्ति ब्रूतेति ब्राह्मणान् स्वस्ति वाचयेत् । तैश् च स्वस्तीत्य् उक्ते अक्षय्यम् अस्त्व् इति ब्रूतेति ब्राह्मणहस्तेषूदकदानं कुर्यात् । तैश् चाक्षय्यम् अस्त्व् इति वक्तव्यम् ॥ १.२४३ ॥

[^१७]दत्त्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् । १.२४४अब्
वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ १.२४४च्द् ॥

अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा स्वधां वाचयिष्य इत्य् उक्त्वा तैर् ब्राह्मणैर् “वाच्यताम्” इत्य् अनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश् च “स्वधोच्यताम्” इति स्वधाकारम् उदाहरेत् ॥ १.२४४ ॥

ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् । १.२४५अब्
विश्वेदाश् च प्रीयन्तां विप्रैश् चोक्त इदं जपेत् ॥ १.२४५च्द् ॥

ते च ब्राह्मणा “अस्तु स्वधा” इति ब्रूयुः । तैर् एवम् उक्ते अनन्तरं कमण्डलुना उदकं भूमौ सिञ्चेत् । ततो “विश्वेदेवाः प्रीयन्ताम्” इति ब्रूयात् । ब्राह्मणैश् च “प्रीयन्तां विश्वेदेवाः” इत्य् उक्ते इदम् अनन्तरोच्यमानं जपेत् ॥ १.२४५ ॥

[^१८]दातारो नो’भिवर्धन्तां वेदाः संततिर् एव च । १.२४६अब्
श्रद्धा च नो माव्यगमद्बहुदेयं च नो’स्त्विति ॥ १.२४६च्द् ॥ ** **

दातारो हिरण्यादेः नो’स्माकं कुले’भिर्धन्तां बहवो भवन्तु । वेदाश्च वर्धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्परया । श्रद्धा च पित्र्ये कर्मण्यास्था नो’स्माकं माव्यगमत् मा गच्छतु । “न माङ्योगे” (पाण् ६.४।७४) इत्य् अडभावः । देयं च हिर्ण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेद् इत्यर्थः ॥ १.२४६ ॥

इत्य् उक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । १.२४७अब्
**वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ १.२४७च्द् ॥ **

एवं पूर्वोक्तं प्रार्थनामन्त्रं जप्त्वा, उक्त्वा च प्रिया वाचः “धन्या वयं भवच्चरणयुगलरजःपवित्रीकृतम् अस्मन्मन्दिरं शाकाद्यशनक्लेशम् अविगणय्य भवद्भिर् अनुगृहीता वयम्” इत्य् एवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्वं नमस्कृत्य विसर्जयेत् । कथं विसर्जयेद् इत्य् आह “वाजे वाजेवत वाजिनो नः” इत्य् अनयर्चा पितृपूर्वं प्रपितामहादि विश्वेदेवान्तं दर्भान्वारम्भेण “उत्तिष्ठ[^१९] पितरः” इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥ १.२४७ ॥

यस्मिंस् तु संस्रवाः पूर्वम् अर्घ्यपात्रे निवेशिताः । १.२४८अब्
**पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ १.२४८च्द् ॥ **

यस्मिन्न् अर्घ्यपात्रे पूर्वम् अर्घ्यदानान्ते संस्रवा ब्राह्मणहस्तगलितार्घ्योदकानि निवेशिताः स्थापितास् तदर्घ्यपात्रं न्युबं तदुत्तानम् ऊर्ध्वमुखं कृत्वा विप्रान् विसर्जयेत् । एतच् चाशीर्मन्त्रजपाद् ऊर्ध्वं “वाजे वाजे” इत्य् अतः प्राग् द्रष्टव्यम्, “कृत्वा विसर्जयेत्” इति क्त्वाप्रत्ययश्रवणात् ॥ १.२४८ ॥

प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् । १.२४९अब्
ब्रह्मचारी भवेत् तां तु रजनीं ब्राह्मणैः सह ॥ १.२४९च्द् ॥

अनन्तरम् आ सीमान्तं ब्राह्मणान् अनुव्रज्य तैर् “गम्यताम्”[^२०] इत्य् अनुज्ञातस् तान् प्रदक्षिणीकृत्य प्रतिनिवृत्तः पितृसेवितं श्राद्धशिष्टम् इष्टैः सह भुञ्जीत । नियम एवायं न परिसंख्या । “मांसे तु यथरुचि” (य्ध् १.१७९) इति द्विजकाम्ययेत्य् अत्रोक्तम् । यस्मिन् दिने श्राद्धं कृतं तत्संबन्धिनीं रात्रिं भोक्तृभिर् ब्राह्मणैः सह कर्ता ब्रह्मचारी भवेत् । तुशब्दात् पुनर्भोजनादिरहितो ऽपि भवेत्,

दन्तधावनताम्बूलं स्निग्धस्नानम् अभोजनम् ।
रत्यौषधपरान्नानि श्राद्धकृत् सप्त वर्जयेत् ॥
पुनर्भोजनम् अध्वानं भाराध्ययनमैथुनम् ।
दानं प्रतिग्रहं होमं श्राद्धभुक् त्व् अष्ट वर्जयेत् ॥

इति वचनात् ॥ १.२४९ ॥

एवं पार्वणश्राद्धम् उक्त्वा, इदानीं वृद्धिश्राद्धम् आह ।

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पित्र्̣̄न् । १.२५०अब्
यजेत दधिकर्कन्धूमिश्रान् पिण्डान् यवैः क्रियाः ॥ १.२५०च्द् ॥

वृद्धौ पुत्रजन्मादिनिमित्ते श्राद्धे एवम् उक्तेन प्रकारेण पित्र्̣̄न् यजेत पूजयेत् । तत्र विशेषम् आह, प्रदक्षिणावृत्क इति । प्रदक्षिणा आवृद् अनुष्ठानपद्धतिर् यस्यासौ प्रदक्षिणावृत्कः प्रदक्षिणप्रचार इति यावत् । “नान्दीमुखान्” इति पित्र्̣̄णां विशेषणम् । अतश् चावाहनादौ “नान्दीमुखान् पित्र्̣̄न् आवाहयिष्ये नान्दीमुखान् पितामहान्” इत्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्य् आह- दधिकर्कन्धूमिश्रान् । कर्कन्धूर् बदरीफलम् । दध्ना बदरीफलैश् च मिश्रान् पिण्डान् दत्त्वा यजेतेति संबध्यते । तिलसाध्याः सर्वाः क्रिया यवैः कर्तव्याः । अत्र च ब्राह्मणसंख्या दर्शितैव “युग्मान् दैवे यथाशक्ति” (य्ध् १.२२७) इत्य् अत्र । प्रदक्षिणावृत्कत्वादिपरिगणनम् अन्येषाम् अपि स्मृत्यन्तरोक्तानां विशेषधर्माणां प्रदर्शनार्थम् । यथाह आश्वलायनः- “अथाभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखो यज्ञोपवीती स्यात् प्रदक्षिणम् उपचारो यवैस् तिलार्थो गन्धादिदानं द्विर् द्विः ऋजुदर्भानासने दद्यात् । ऽयवो ऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः पुष्ट्या नान्दीमुखान् पित्र्̣̄न् इमांल् लोकान् प्रीणयाहि नः स्वाहाऽ इति यवावपनम् । ऽविश्वेदेवा इदं वो ऽअर्घ्यं नान्दीमुखाः पितर इदं वो ऽअर्घ्यम्ऽ इति यथालिङ्गम् अर्घ्यदानम् । पाणौ होमो ऽग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति । ऽमधु वाता ऋतायतेऽ इति तृचस्थाने ऽउपास्मै गायत; इति पञ्च मधुमतीः श्रावयेत् । ऽअक्षन्नमीमदन्तऽ इति षष्ठीम् । आचान्तेषु भुक्ताशयान् गोमयेनोपलिप्य प्राचीनाग्रान् दर्भान् संस्तीर्य तेषु पृषदाज्यमिश्रेण भुक्तशेषेणैकैकस्य द्वौ द्वौ पिण्डौ दद्याद्” इत्यादि (आश्गृपरिशिष्ट २.१९) । यद्य् अपि “पित्र्̣̄न् यजेत” इति सामान्येनोक्तं ,तथापि श्राद्धत्रयं क्रमश् च स्मृत्यन्तराद् अवगन्तव्यः । यथाह शातातपः ।

मातुः श्राद्धं तु पूर्वं स्यात् पित्र्̣̄णां तदनन्तरम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥ इति ॥ १.२५० ॥

एकोद्दिष्टम् आह ।

एकोद्दिष्टं देवहीनम् एकार्घ्यैकपवित्रकम् । १.२५१अब्
**आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥ १.२५१च्द् ॥ **

एकोद्दिष्टम् एक उद्दिष्टो यस्मिन् श्राद्धे तद् एकोद्दिष्टम् इति कर्मनामधेयम् । “शेषं पूर्ववद् आचरेत्” (य्ध् १.२५४) इत्य् उपसंहारात् । पार्वणसकलधर्मप्राप्तौ विशेषो ऽभिधीयते । देवहीनं विश्वेदेवरहितम् एकार्घ्यपात्रम् एकदर्भपवित्रकं च आवाहनेनाग्नौकरणहोमेन च रहितम् । अपसव्यवत् प्राचीनावीतब्रह्मसूत्रवत् । अनेनानन्तरोक्ताभ्युदयिके यज्ञोपवीतित्वं सूचयति ॥ १.२५१ ॥

किं च ।

उपतिष्ठताम् अक्षय्यस्थाने विप्रविसर्जने । १.२५२अब्स्
अभिरम्यताम् इति वदेद् ब्रूयुस् ते ऽभिरताः स्म ह ॥ १.२५२च्द् ॥

यद् उक्तं,

स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च । (य्ध् १.२४२)

इति तत्राक्षय्यस्थाने उपतिष्ठताम् इति वदेत् । विप्रविसर्जने कर्तव्ये वाजे वाजे इति जपान्ते दर्भान्वारम्भेणाभिरम्यताम् इति ब्रूयात् । ते चाभिरताः स्म इति ब्रूयुः । ह प्रसिद्धम् । शेषं पूर्ववद् इति यावत् । एतच् च मध्याह्ने कर्तव्यम् । यथाह देवलः ।

पूर्वाह्ने दैविकं कर्म अपराह्ने तु पैतृकम् ।
एकोद्दिष्टं तु मध्याह्ने प्रातर् वृद्धिनिमित्तकम् ॥ इति ।

“भुञ्जीत पितृसेवितम्” (य्ध् १.२४९) इत्य् अस्यैकोद्दिष्टविशेषे निषेधो दृश्यते ।

नवश्राद्धेषु यच् छिष्टं गृहे पर्युषितं च यत् ।
दंपत्योर् भुक्तशिष्टं च न भुञ्जीत कदाचन ॥ इति ।

नवश्राद्धं च दर्शितम् ।

प्रथमे ऽह्नि तृतीये ऽह्नि पञ्चमे सप्तमे तथा ।
नवमैकादशे चैव तन् नवश्राद्धम् उच्यते ॥ इति ॥ १.२५२ ॥

सपिण्डीकरणम् आह ।

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् । १.२५३अब्
**अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ १.२५३च्द् ॥ **
ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् । १.२५४अब्
एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि ॥ १.२५४च्द् ॥

गन्धोदकतिलैर् युक्तं पात्रचतुष्टयम् अर्घ्यसिद्ध्यर्थं पूर्वोक्तविधिना कुर्यात् । तिलैर् युक्तं पात्रचतुष्टयम् इति वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिताः । वैश्वदेवे द्वौ स्थिताव् एव । अत्र प्रेतपात्रोदकं किंचिद् अवशेषं त्रिधा विभज्य पितृपात्रेषु सेचयेत् “ये समानाः समनसः” इति द्वाभ्यां मन्त्राभ्याम् । शेषं विश्वेदेवावाहनादिविसर्जनान्तं पूर्ववत् पार्वणवद् आचरेत् । प्रेतार्घ्यपात्रावशिष्टोदकेन प्रेतस्थानब्राह्मणहस्ते ऽर्घ्यं दत्त्वा शेषम् एकोद्दिष्टवत् समापयेत् । पित्र्येषु त्रिषु पार्वणवत् । एतत् सपिण्डीकरणम् अनन्तरोक्तम् एकोद्दिष्टं च ततः प्राग् उक्तं स्त्रिया अपि मातुर् अपि कर्तव्यं । एवं वदता पार्वणे मातुःश्राद्दं पृथक् कर्तव्यम् इत्य् उक्तं भवति । अत्र प्रेतशब्दं पितुः प्रपितामहविषयं केचिद् वर्णयन्ति । तस्य त्रिष्व् अन्तर्भावेन सपिण्डीकरणोत्तरकालं पिण्डदानादिनिवृत्त्युपपत्तेः । समनन्तरमृतस्योत्तरत्र पिण्डोदकदानानुवृत्तेर् अन्तर्भावो न युक्तः । अत एवाह यमः ।

यः सपिण्डीकृतं प्रेतं पृथक् पिण्डे नियोजयेत् ।
विधिघ्नस् तेन भवति पितृहा चोपजायते ॥ इति ।

प्रकर्षेण इतः प्रेत इति चतुर्थे ऽपि प्रेतशब्दोपपत्तेः, “प्रेतेभ्य एव निपृणीयात्” इति च प्रयोगदर्शनात् । अपि च,

सपिण्डीकरणं श्राद्धं देवपूर्वं नियोजयेत् ।
पित्र्̣̄न् एवाशयेत् तत्र पुनः प्रेतं न निर्दिशेत् ॥

इति सपिण्डीकरणोत्तरकालं प्रेतस्य श्राद्धादिप्रतिषेधो दृश्यते, स चानन्तरमृतस्य न संभवति, अमावास्यादौ श्राद्धविधानात् ।

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । (म्ध् ५.६०)

इत्य् एतद् अपि वचनं चतुर्थस्य त्रिष्व् अन्तर्भाव एव घटते “चतुर्थस्य पिण्डत्रयव्यापित्वं पञ्चमस्य पिण्डद्वयव्यापित्वं षष्ठस्यैकपिण्डव्यापित्वं सप्तमे विनिवृत्तिः” इति । “पितृपात्रेषु” इत्य् एतद् अपि पितृमुख्यत्वाद् अस्मिन् एव पक्षे घटते नान्यथा, प्रपितामहप्रमुखत्वात् । तस्मात् पितृपात्रेषु तत्प्रेतपात्रं प्रसेचयेद् इति, पितुः प्रपितामहपात्रं पित्रादिपात्रेषु प्रसेचयेद् इति तद् अयुक्तम् । न ह्य् अत्र पिण्डसंयोजनम् उत्तरत्र पिण्डदानादिनिवृत्तिप्रयोजकम्, अपि तु पितुः प्रेतत्वनिवृत्त्या पितृत्वप्राप्त्यर्थम् । प्रेतत्वं च क्षुत्तृष्णोपजनितात्यन्तदुःखानुभवावस्था । यथाह मार्कण्डेयः ।

प्रेतलोके तु वसतिर् नृणां वर्षं प्रकीर्तिता ।
क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन ॥ इति ।

पितृत्वप्राप्तिश् च वस्वादिश्राद्धदेवतासंबन्धः । प्राक्तनैकोद्दिष्टसहितेन सपिण्डीकरणेन प्रेतत्वनिवृत्त्या पितृत्वं प्राप्नोतीत्य् अवगम्यते,

यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैर् अपि ॥ इति ।

तथा ।

चतुरो निर्वपेत् पिण्डान् पूर्वं तेषु समावपेत् ।
ततः प्रभृति वै प्रेतः पितृसामान्यम् अश्नुते ॥

इत्यादिवचनात् । “यः सपिण्डीकृतं प्रेतम्” इत्य् अनेनापि पृथग् एकोद्दिष्टविधानेन पिण्डदाननिषेधात्, पार्वणविधानेन सह पिण्डदानम् अवगम्यते । तच् च सांवत्सरिकपाक्षिकैकोद्दिष्टविधानेनापोद्यते । यद् अपि “पुनः प्रेतं न निर्दिशेत्” इति, तद् अपि प्रेतशब्दं नोच्चारयेद् अपि तु पितृशब्दम् एवेत्य् एवम् अर्थम् । न च प्रकर्षगमनात् तत्रैव प्रेतशब्दः । यतो विशिष्टदुःखानुभवावस्था प्रेतशब्देन रूढ्याभिधीयत इत्य् उक्तम् । योऽपि प्रमीतमात्रे प्रेतशब्दप्रयोगः सो ऽपि भूतपूर्वगत्या । “सपिण्डता तु पुरुषे सप्तमे विनिवर्तते” इति (म्ध् ५.६०) च प्रथमस्य पिण्डस्य चतुर्थव्यापित्वात्, द्वितीयस्य पञ्चमव्यापित्वात्, तृतीयस्य षष्ठव्यापित्वात्, सप्तमे विनिवर्तत इत्य् एवम् अपि घटते । अपि च निर्वाप्यपिण्डान्वयेन न सापिण्ड्यं अव्यापकत्वात्, अपि त्व् एकशरीरावयवान्वयेनेत्य् उक्तम् । पितृशब्दश् च प्रेतत्वनिवृत्त्या श्राद्धदेवताभूयंगतेषु वर्तत इति पितृपात्रेष्व् इत्य् अविरुद्धम् । तस्माद् अनन्तराचार्येण पूर्वपक्षद्वारेण परमतं दर्शितम् इत्य् अर्थः । मृतपात्रोदकस्य तत्पिण्डस्य च पितृपात्रेषु तत्पिण्डेषु च संसर्जनम् इति स्थितम् । आचार्यस् तु परमतम् एवोपन्यस्तवान् । एतच् च पितुः सपिण्डीकरणं पितामहादिषु त्रिषु प्रमीतेषु वेदितव्यम् । पितरि प्रेते पितामहे वा जीवति सपिण्डीकरणं नास्त्य् एव ।

व्युत्क्रमाच् च प्रमीतानां नैव कार्या सपिण्डता ।

इति वचनात् । यत् तु मनुवचनं,

पिता यस्य निवृत्तः स्याज् जीवेद् वापि पितामहः ।
पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहम् ॥ (म्ध् ३.२२१)

इति, तद् अपि पितृशब्दप्रयोगनियमाय न पिण्डद्वयदानार्थम् । कथम्,

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् ।
पिता यस्य तु वृत्तः स्याज् जीवेच् चापि पितामहः ॥

सो ऽपि पूर्वेषाम् एव निर्वपेद् इत्य् अन्वयः । पक्षद्वये ऽपि कथं निर्वपेद् इत्य् आह ।

पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहम् । (म्ध् ३.२२१)

इत्याद्यन्तग्रहणेन सर्वत्र पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इत्येवं प्रयोगो न पुनः कदाचिद् अपि पितामहस्य प्रपितामहस्य वादित्वं वृद्धप्रपितामहस्य तत्पितुर् वान्तत्वम् । अतश् च पितादिशब्दानां संबन्धिवचनत्वात् ध्रियमाणे ऽपि पितरि पितुः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । पितामहे ध्रियमाणे पितामहस्य पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । अतश् च पिण्डपितृयज्ञे “शुन्धन्तां पितरः” इत्यादिमन्त्राणाम् ऊहो न भवति । यद् अपि विष्णुवचनं “यस्य पिता प्रेतः स्यात् स पितृपिण्डं निधाय पितामहात् पराभ्यां द्वाभ्यां दद्यात्” (विध् ७५.४) इति । तस्यायम् अर्थः । पितामहे ध्रियमाणे प्रेते च पितरि पितुर् एकं पिण्डम् एकोद्दिष्टविधानेन निधाय पितुर् यः पितामहस् ततः पराभ्यां द्वाभ्यां दद्यात् । पितामहस् त्व् आत्मनः प्रपितामहः संप्रदानभूतः स्थित एवेति प्रपितामहाय ततः पराभ्यां द्वाभ्यां च दद्याद् इति । शब्दप्रयोगनियमस् तु पूर्वोक्त एव । एवं गोब्राह्मणादिहतस्यापि सपिण्डीकरणाभावो वेदितव्यः । यथाह कात्यायनः ।

ब्राह्मणादिहते ताते पतिते संगवर्जिते ।
व्युत्क्रमाच् च मृते देयं येभ्य एव ददात्य् असौ ॥ इति ।

गोब्राह्मणहतस्य पितुः सपिण्डीकरणसंभवे तम् उल्लंघ्य पितामहादिभ्यः पार्वणविधानम् अनुपपन्नम् इति सपिण्डीकरणाभावो ऽवगम्यते । स्मृत्यन्तरे ऽपि ।

ये नराः संततिच्छिन्ना नास्ति तेषां सपिण्डता ।
न चैतैः सह कर्तव्यान्य् एकोद्दिष्टानि षोडश ॥ इति ।

मातुः पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा दातव्यम् इति उभयत्र वचनदर्शनात् ।

स्वगोत्राद् भ्रश्यते नारी विवाहात् सप्तमे पदे ।
स्वामिगोत्रेण कर्त्यव्या तस्याः पिण्डोदकक्रिया ॥

इत्यादिभर्तृगोत्रविषयं वचनम् ।

पितृगोत्रं समुत्सृज्य न कुर्याद् भर्तृगोत्रतः ।
जन्मन्य् एव विपत्तौ च नारीणां पैतृकं कुलम् ॥

इत्यादिपितृगोत्रविषयम् । एवं विप्रतिपत्ताव् आसुरादिविवाहेषु पुत्रिकाकरणे च पितृगोत्रम् एव, तत्र तत्र विशेषवचनात् दानस्यानिवृत्तेश् च । ब्राह्मादिविवाहेषु व्रीहियववत् बृहद्रथन्तरसामवत् विकल्प एव । तत्र च,

येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न दुष्यति ॥ (म्ध् ४.१७८)

इति वचनात्, वंशपरम्परायातसमाचरणेन व्यवस्था, एवंविधविषयव्यतिरेकेणास्य वचनस्य विषायान्तराभावात् । यत्र पुनः शास्त्रतो न व्यवस्था नाप्य् आचारस् तत्र “आत्मनस् तुष्टिर् एव वा” (म्ध् २.६) इति वचनाद् आत्मनस् तुष्टिर् एव व्यवस्थापिका, यथा “गर्भाष्टमे ऽष्टमे वाब्दे” (य्ध् १.१४) इति । मातुः सपिण्डीकरणे ऽपि विरुद्धानि वाक्यानि दृश्यन्ते तत्र “पितामह्यादिभिः सार्धं सपिण्डीकरणं स्मृतम्” । तथा भर्त्रापि भार्यायाः स्वमात्रादिभिः सह सपिण्डीकरणं कर्तव्यम् इति पैठीनसिर् आह ।

अपुत्रायां मृतायां तु पतिः कुर्यात् सपिण्डताम् ।
श्वश्र्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥ इति ।

पत्या सह सपिण्डीकरणं यम आह ।

पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः ।
सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैः ॥ इति ।

उशनसा तु मातामहेन सह सपिण्डीकरणम् उक्तम् ।

पितुः पितामहे यद्वत् पूर्णे संवत्सरे सुतैः ।
मातुर् मातामहे तद्वद् एषा कार्या सपिण्डता ॥

तथा ।

पिता पितामहे योज्यः पूर्णे संवत्सरे सुतैः ।
माता मातामहे तद्वद् इत्य् आह भगवाञ् छिवः ॥

इत्येवं विविधेषु वचनेषु सत्सु अपुत्रायां भार्यायां प्रमीतायां भर्ता स्वमात्रैव सापिण्ड्यं कुर्यात् । अन्वारोहणे तु पुत्रः स्वपित्रैव मातुः सापिण्ड्यं कुर्यात् । आसुरादिविवाहोत्पन्नः पुत्रिकासुतश् च मातामहेनैव । ब्राह्मादिविवाहोत्पन्नः पित्रा मातामहेन पितामह्या वा विकल्पेन कुर्यात् । अत्रापि यदि नियतो वंशसमाचारस् तदानीं तथैव कुर्यात् । वंशसमाचारो ऽप्य् अनियतश् चेत् तदा “आत्मनस्तुष्टिर् एव च” इति यथारुचि कुर्यात् । तत्र च येन केनापि मातुः सापिण्ड्ये ऽपि यत्रान्वष्टकादिषु मातृश्राद्धं पृथग् विहितं ।

अन्वष्टकासु वृद्धौ च गयायां च क्षये ऽहनि ।
मातुः श्राद्धं पृथक् कुर्याद् अन्यत्र पतिना सह ॥ इति

तत्र पितामह्यादिभिर् एव पार्वणश्राद्धं कर्तव्यम् । अन्यत्र “पतिना सह” इति पतिसापिण्ड्ये तदंशभागित्वात् । मातामहसापिण्ड्ये तदंशभागित्वात् तेनैव सह । यथाह शातातपः ।

एकमूर्तित्वम् आयाति सपिण्डीकरणे कृते ।
पत्नी पतिपित्र्̣̄णां च तस्माद् अंशेन भागिनी ॥ इति ।

एवं सति मातामहेन मातुः सापिण्ड्ये मातामहश्राद्धं पितृश्राद्धवन् नित्यम् एव । पत्या पितामह्या वा मातुः सापिण्ड्ये मातामहश्राद्धं न नित्यम् । कृते अभ्युदयो ऽकृते न प्रत्यवाय इति निर्णयः ॥ १.२५३ ॥ १.२५४ ॥

अर्वाक् सपिण्डीकरणं यस्य संवत्सराद् भवेत् । १.२५५अब्
तस्याप्य् अन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे ॥ १.२५५च्द् ॥

संवत्सराद् अर्वाक् सपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं वा यावत् संवत्सरं शक्त्यनुसारेणान्नम् उदकुम्भसहितं ब्राह्मणाय दद्यात् । “अर्वाक् संवत्सरात्” इति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग् वेति दर्शितम् । यथाह आश्वलायनः" “अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा” (आश्गृपरिशिष्ट ३.११) इति । कात्यायनो ऽप्याह “ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा यदा चार्वाग् वृद्धिर् आपद्यते” (पार्गृपरिशिष्ट,श्राद्धसूत्र ५) इति । द्वादशाहे त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वेति चत्वारः पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साग्निकेन कार्यम्, सपिण्डीकरणं विना पिण्डपितृयज्ञासिद्धेः,

साग्निकस् तु यदा कर्ता प्रेतो वाप्य् अग्निमान् भवेत् ।
द्वादशाहे तदा कार्यं सपिण्डीकरणं पितुः ॥

इति वचनात् । निरग्निकस् तु त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक् संवत्सरात् सपिण्डीकरणं तदा षोडशश्राद्धानि कृत्वा सपिण्डीकरणं कार्यम्, उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि कर्तव्यानि इति संशयः, उभयथा वचनदर्शनात् ।

श्राद्धानि षोडशादत्त्वा नैव कुर्यात् सपिण्डताम् ।
श्राद्दानि षोडशापाद्य विदधीत सपिण्डताम् ॥ इति ।

षोडशश्राद्धानि च,

द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके ।
श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः ॥

इति दर्शितानि । तथा ।

यस्यापि वत्सराद् अर्वाक् सपिण्डीकरणं भवेत् ।
मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥ इति ।

तत्र सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानि इति प्रथमः कल्पः, अप्राप्तकालत्वेन प्राग् अनधिकारात् । यद् अपि वचनं “षोडशश्राद्धानि कृत्वैव सपिण्डीकरणं संवत्सरात् प्राग् अपि कर्तव्यम्” इति सो ऽयम् आपत्कल्पः । यदा त्व् आपत्कल्पत्वेन प्राक् सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्यकल्पेन स्वकाल एव करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्वणम् एकोद्दिष्टं वा तथा मासिकानि कुर्यात्,

सपिण्डीकरणाद् अर्वाक् कुर्वन् श्राद्धानि षोडश ।
एकोद्दिष्टविधानेन कुर्यात् सर्वाणि तानि तु ॥
सपिण्डीकरणाद् ऊर्ध्वं यदा कुर्यात् तदा पुनः ।
प्रत्यब्दं यो यथा कुर्यात् तथा कुर्यात् स तान्य् अपि ॥

इति स्मरणात् । एतच् च प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्व् अप्य् एकेनैव कृतेनालं न सर्वैः कर्तव्यम्,

नवश्राद्धं सपिण्डत्वं श्राद्धान्य् अपि च षोडश ।
एकेनैव तु कार्याणि संविभक्तधनेष्व् अपि ॥

इति स्मरणात् । इदं च प्रेतश्राद्धसहितं सपिण्डीकरणम् असंन्यासिनां पुत्रादिभिर् नियमेन कर्तव्यम्, प्रेतत्वविमोक्षार्थत्वात् संन्यासिना तु न कर्तव्यम् । यथाह उशना ।

एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा ।
अहन्य् एकादशे प्राप्ते पार्वणं तु विधीयते ॥
सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः ।
त्रिदण्डग्रहणाद् एव प्रेतत्वं नैव जायते ॥ इति ।

पुत्रासंनिधाने येन सगोत्रादिना दाहसंस्कारः कृतस् तेनैवादशाहान्तं तत्प्रेतकर्म कर्तव्यम्,

असगोत्रः सगोत्रो वा स्त्री दद्याद् यदि वा पुमान् ।
प्रथमे ऽहनि यो दद्यात् स दशाहं समापयेत् ॥

इति स्मरणात् । शूद्राणाम् अप्य् एतत् कर्तव्यम् अमन्त्रकं द्वादशे ऽह्नि, “एवं सपिण्डीकरणं मन्त्रवर्ज्यं शूद्राणां द्वादशे ऽह्नि” (विध् २१.१९–२०) इति विष्णुस्मरणात् । सपिण्दीकरणाद् ऊर्ध्वं सांवत्सरिकपार्वणादीनि पुत्रस्य नियमेनैव कार्याणि, अन्येषाम् अनियतानि ॥ १.२५५ ॥

एकोद्दिष्टकालान् आह ।

मृते ऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् । १.२५६अब्
**प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥ १.२५६च्द् ॥ **

मृते ऽहनि प्रतिमासं संवत्सरं यावद् एकोद्दिष्टं कार्यम् । सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरम् एकोद्दिष्टम् एव कर्तव्यम् । आद्यं सर्वैकोद्दिष्टप्रकृतिभूतम् एकोद्दिष्टम् एकादशे ऽहनि । मृतदिवसापरिज्ञाने तच्छ्रवणदिवसे अमावास्यायां वा कार्यम् । “अपरिज्ञाते मृते ऽहन्य् अमावस्यायां श्रवणदिवसे वा” इति स्मरणात् । अमावास्यायाम् इति गमनमाससंबन्धिन्याम् अमावास्यायाम्,

प्रवासदिवसे देयं तन्मासेन्दुक्षये ऽपि वा ।

इति स्मरणात् । मृते ऽहनीत्य् अत्राहिताग्नेर् विशेषो जातूकर्ण्येनोक्तः-

ऊर्ध्वं त्रिपक्षाद् यच् छ्राद्धं मृते ऽहन्य् एव तद् भवेत् ।
अधस् तु कारयेद् दाहाद् आहिताग्नेर् द्विजन्मनः ॥ इति ।

तत्र त्रिपक्षाद् अर्वाग् यत् प्रेतकर्म तद् दाहदिवसाद् आरभ्याहिताग्नेः कार्यम् । त्रिपक्षाद् ऊर्ध्वं यच् छ्राद्धं तन् मरणदिवस एवेत्य् अर्थः । अनाहिताग्नेस् तु सर्वं मृताह एव । “आद्यम् एकादशे ऽहनि” इत्य् आशौचोपलक्षणम् इति केचित् । “शुचिना कर्म कर्तव्यम्” इति शुद्देर् अण्गत्वात्, अथाशौचापगम इति सामान्येन सर्वेषां वर्णानाम् उपक्रम्य, एकोद्दिष्टस्य विष्णुना विहितत्वाच् च (विध् २२.१–४) । तद् अयुक्तम्,

एकादशे ऽह्नि यच् छ्राद्धं तत् सामान्यम् उदाहृतम् ।
चतुर्णाम् अपि वर्णानां सूतकं च पृथक् पृथक् ॥

इति पैठीनसिस्मरणविरोधात्,

आद्यं श्राद्धम् अशुद्धो ऽपि कुर्याद् एकादशे ऽहनि ।
कर्तुस् तात्कालिकी शुद्धिर् अशुद्धः पुनर् एव सः ॥

इति शङ्खवचनविरोधाच् च । सामान्योपक्रमं विष्णुवचनं दशाहाशौचविषयम् अपि घटते इति । प्रतिसंवत्सरं चैवम् इति प्रतिसंवत्सरं मृते ऽहन्य् एकोद्दिष्टम् उपदिष्टं योगीश्वरेण । तथा च स्मृत्यन्तरम् ।

वर्षे वर्षे च कर्तव्या मातापित्रोस् तु सत्क्रिया ।
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥ इति ।

यमो ऽप्य् आह ।

सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरं सुतैः ।
मातापित्रोः पृथाक् कर्यम् एकोद्दिष्टं मृते ऽहनि ॥ इति ।

व्यासस् तु पार्वणं प्रतिषेधति ।

एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः ।
अकृतं तद् विजानीयात् स भवेत् पितृघातकः ॥ इति ।

जमदग्निस् तु पार्वणम् आह ।

आपाद्य च सपिण्डत्वम् औरसो विधिवत् सुतः ।
कुर्वीत दर्शवच् छ्राद्धं मातापित्रोः क्षये ऽहनि ॥ इति ।

शातातपो ऽप्य् आह ।

सपिण्डीकरणं कृत्वा कुर्यात् पार्वणवत् सदा ।
प्रतिसंवत्सरं विद्वांश् छागलेयोदितो विधिः ॥
इत्येवंवचनविप्रतिपत्तौ, दाक्ịणात्या ह्य् एवं व्यवस्थाम् आहुः- “औरसक्षेत्रजाभ्यां मातापित्रोः क्षयाहे पार्वणम् एव कर्तव्यं दत्तकादिभिर् एकोद्दिष्टम्” इति, जातूकर्ण्यवचनात्,
प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ ।
कुर्याताम् इतरे कुर्युर् एकोद्दिष्टं सुता दश ॥ इति ।

  • तद् असत् । न ह्य् अत्र क्षयाहवचनम् अस्ति, अपि तु प्रत्यब्दम् इति । सन्ति च क्षयाहव्यतिरिक्तानि प्रत्यब्दश्राद्धान्य् अक्षय्यतृतीयामाघीवैशाखीप्रभृतिषु । अतो न क्षयाहविषयपार्वणैकोद्दिष्टव्यवस्थापनयालम् । यत् तु पराशरवचनम्,

पितुर् गतस्य देवत्वम् औरसस्य त्रिपौरुषम् ।
सर्वत्रानेकगोत्राणाम् एकस्यैव मृते ऽहनि ॥

इति, तद् अपि न व्यवस्थापकम् । यस्माद् अस्य अयम् अर्थः । देवत्वं गतस्य सपिण्डीकृतस्य पितुः सर्वत्रौरसेन त्रिपौरुषं पार्वणम् कार्यम् । अनेकगोत्राणां भिन्नगोत्राणां मातुलादीनां क्षये ऽहनि यच् छ्राद्धं तद् एकस्यैवैकोद्दिष्टम् एवेति । किं च सपिण्डीकरणाद् ऊर्ध्वम् अप्य् एकोद्दिष्टम् एव कर्तव्यम् औरसेनापि इत्य् उक्तं पैठीनसिना ।

एकोद्दिष्टं हि कर्तव्यम् औरसेन मृते ऽहनि ।
सपिण्डीकरणाद् ऊर्ध्वं मातापित्रोर् न पार्वणम् ॥ इति ॥

  • उदीच्याः पुनर् एवं व्यवस्थापयन्ति- “अमावास्यायां भाद्रपदकृष्णपक्षे वा मृताहे पार्वणम् अन्यत्र मृताह एकोद्दिष्टं एव” इति,

अमावास्याक्षयो यस्य प्रेतपक्षे ऽथ वा पुनः ।
पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ॥

इति स्मरणात् ।

  • तद् अपि नाद्रियन्ते वृद्धाः । अनिश्चितमूलेनानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्रपार्वणविषयाणां वचनानाम् अमावास्याप्रेतपक्षमृताहविषयत्वेन अतिसंकोचस्य अयुक्तत्वात्, सामान्यवचनानर्थक्याच् च । तत्र हि सामान्यवचनस्य विशेषवचनेनोपसंहारो यत्र सामान्यविशेषसंबन्धज्ञानेन वचनद्वयम् अर्थवत् । यथा सप्तदश सामिधेनीर् अनुब्रूयाद् इत्य् अनारभ्याधीतस्य विकृतिमात्रविषयस्य सप्तदशवाक्यस्य सामधेनीलक्षणद्वारसंबन्धबोधेनार्थवतो मित्रविन्दादिप्रकरणपठितेन सप्तदशवाक्येन मित्रविन्दाध्यधिकारापूर्वसंबन्ध-बोधेनार्थवता उपसंहारः । इह तु द्वयोर् मृताहमात्रविषयत्वान् नार्थवत्तेति । अतो ऽत्र पाक्षिकैकोद्दिष्टनिवृत्तिफलकतया पार्वणनियमविधानं युक्तम् । न चैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणवचनानां च तदन्यक्षयाहविषयत्वेन व्यवस्था युक्ता । उभयत्रापि मातापितृसुतग्रहणस्य विद्यमानत्वात्-

सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरं सुतैः ।
मातापित्रोः पृथक् कार्यम् एकोद्दिष्टं मृते ऽहनि ॥ इति ।

तथा ।

आपाद्य सहपिण्डत्वम् औरसो विधिवत् सुतः ।
कुर्वीत दर्शवच् छ्राद्धं मातापित्रोः क्षये ऽहनि ॥ इति ।

  • यद् अपि कैश् चिद् उच्यते मातापित्रोः क्षयाहे साग्निः पार्वणं कुर्यान् निरग्निर् एकोद्दिष्टम् इति,

वर्षे वर्षे सुतः कुर्यात् पार्वणं यो ऽग्निमान् द्विजः ।
पित्रोर् अनग्निमान् धीर एकोद्दिष्टं मृते ऽहनि ॥

इति सुमन्तुस्मरणाद् इति । त्

  • तद् अपि सत्प्रतिपक्षत्वाद् उपेक्षणीयम्

बह्वग्नयस् तु ये विप्रा ये चैकाग्नय एव च ।
तेषां सपिण्डनाद् ऊर्ध्वम् एकोद्दिष्टं न पार्वणम् ॥

इतिस्मरणात् । तत्रैवं निर्णयः- संन्यासिनां क्षयाहे सुतेन पार्व्णम् एव कर्तव्यम्,

एकोद्दिष्टं यतेर् नास्ति त्रिदण्डग्रहणाद् इह ।
सपिण्डीकरणाभावात् पार्वणं तस्य सर्वदा ॥

इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणम् एव,

अमावास्याक्षयो यस्य प्रेतपक्षे ऽथ वा पुनः ।

इत्यादिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोर् व्रीहियववद् विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यव्स्थितो विकल्पो ऽसत्याम् ऐच्छिक इत्य् अलम् अतिप्रसङ्गेन ॥ १.२५६ ॥

नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषम् इदम् अभिधीयते ।

**पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा । १.२५७अब् **
प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ १.२५७च्द् ॥

पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिर् इयं गवे अजाय ब्राह्मणाय वा तदर्थिने पिण्डान् दद्यात् । अग्नाव् अगाधे जले ऽपि वा प्रक्षिपेत् । किं च सत्सु विप्रेषु

भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेन् नोद्वासयेत् ॥ १.२५७ ॥

भोज्यविशेषेण फलविशेषम् आह ।

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । १.२५८अब्
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ १.२५८च्द् ॥
ऐणरौरववाराहशाशैर् मांसैर् यथाक्रमम् । १.२५९अब्
मासवृद्ध्याभितृप्यन्ति दत्तैर् इह पितामहाः ॥ १.२५९च्द् ॥

हविष्यं हविर् योग्यं तिलव्रीह्यादि । यथाह मनुः ।

तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं तृप्यन्ति विधिवत् पितरो नृणाम् ॥ इति । (म्ध् ३.२६७)

तदन्नं हविष्यान्नं तेन मासं पितरस् तृप्यन्तीत्य् अनागतेन अन्वयः । पायसेन गव्यपयःसिद्धेन संवत्सरम्,

संवत्सरं तु गव्येन पयसा पायसेन च । (म्ध् ३.२७१)

इति स्मरणात् । मत्स्यो भक्ष्यः पाठीनादिस् तस्येदं मात्स्यम् । हरिणस् ताम्रमृगः । एणः कृष्णः,

एणः कृष्णमृगो ज्ञेयस् ताम्रो हरिण उच्यते ।

इत्यायुर्वेदस्मरणात् । तस्येदं हारिणकम् । अविर् उभ्रस् तत्संबन्ध्य् औरभ्रम् । शकुनिस् तित्तिरिस् तत्संबन्धि शाकुनम् । छागो ऽजस् तदीयं छागम् । पृषच् चित्रमृगस् तन्मांसं पार्षतम् । एणः कृष्णम्र्गस् तत्पिशितम् ऐणम् । रुरुः शंबरस् तत्प्रभवं रौरवम् । वराह आरण्यसूकरस् तज्जं वाराहम् । शशस्येदं शाशम् । एभिर् मासैः पितृभ्यो दत्तैर्, “हविष्यान्नेन वै मासम्” (य्ध् १.२५८) इत्युक्तत्वात् तत ऊर्ध्वं यथाक्रमम् एकैकमासवृद्ध्या पितरस् तृप्यन्ति ॥ १.२५८ ॥ १.२५९ ॥

किं च ।

खड्गामिषं महाशल्कं मधु मुन्यन्नम् एव वा । १.२६०अब्
लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥ १.२६०च्द् ॥
यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते । १.२६१अब्
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ १.२६१च्द् ॥

खड्गो गण्डकस् तस्य मांसम् । महाशल्को मत्स्यभेदः । मधु माक्षिकम् । मुन्यन्नं सर्वम् आरण्यं नीवारादि । लोहो रक्तश् छागस् तदामिषं लौहामिषम् । महाशाकं कालशाकम् । वार्ध्रीणसो वृद्धः श्वेतच्छागः,

त्रिपिबं त्व् इन्द्रियक्षीणं वृद्धं श्वेतम् अजापतिम् ।
वार्ध्रीणसं तु तं प्राहुर् याज्ञिकाः श्राद्धकर्मणि ॥

इति याज्ञिकप्रसिद्धः । त्रिपिबः पिबतः कर्णौ जिह्वा च यस्य जलं स्पृशन्ति सः त्रिभिः पिबति इति त्रिपिबः, तस्य वार्ध्र्ịणसस्य मांसम् । यद् ददाति गयास्थश् च यत् किंचिच् छाकादिकम् अपि गयास्थो ददाति । चशब्दाद् गङ्गाद्वारादिषु च,

गङ्गाद्वारे प्रयोगे च नैमिषे पुष्करे ऽर्बुदे ।
संनिहत्यां गयायां च श्राद्धम् अक्षय्यतां व्रजेत् ॥

“आनन्त्यम् अश्नुते” इत्य् अनन्तफलहेतुत्वं प्राप्नोते । “आनन्त्यम् अश्नुते” इति प्रत्येकम् अभिसंबध्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायुक्तायां यत् किंचिद् दीयते तत् सर्वम् आनन्त्यम् अश्नुत इति गतेन संबन्धः ॥ अत्र यद्य् अपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शितानि तथापि पुलस्त्योक्ता व्यवस्थादरणीया ।

मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः ।
मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥ इति ।

अस्यार्थः- मुन्यन्नं नीवारादि यच् छ्राद्धयोग्यम् उक्तं तद् ब्राह्मणस्य प्रधानं समग्रफलदम् । यच् च मांसम् उक्तं तत् क्षत्रियवैश्ययोः प्रधानम् । यत् क्षौद्रम् उक्तं तच् छूद्रस्य । एतत् त्रितयव्यतिरिक्तं यद् अविरोधि यद् अप्रतिषिद्धं वास्तुकादि यच् च विहितं हविष्यं कालशाकादि तत् सर्वेषां समग्रफलदम् इति ॥ १.२६० ॥ १.२६१ ॥

तिथिविशेषात् फलविशेषम् आह ।

कन्यां कन्यावेदिनश् च पशून् वै सत्सुतान् अपि । १.२६२अब्
द्यूतं कृषिं वणिज्यां च द्विशफैकशफांस् तथा ॥ १.२६२च्द् ॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके । १.२६३अब्
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥ १.२६३च्द् ॥
प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् । १.२६४अब्
शस्त्रेण तु हता ये वै तेभ्यस् तत्र प्रदीयते ॥ १.२६४च्द् ॥

कन्यां रूपलक्षणशीलवतीम् । कन्यावेदिनो जामातरो बुद्धिरूपलक्षणसंपन्नाः । पशवः क्षुद्रा अजादयः । सत्सुताः सन्मार्गवर्तिनः । द्यूतं द्यूतविजयः । कृषिः कृषिफलम् । वणिज्या वाणिज्यलाभः । द्विशफा गवादयः । एकशफा अश्वादयः । ब्रह्मवर्चस्विनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं तद्वन्तः । स्वर्णरूप्ये हेमरजते । तद्व्यतिरिक्तं त्रपुसीसकादि कुप्यकम् । ज्ञातिश्रैष्ट्यं ज्ञातिषूत्कृष्ट्वम् । सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्वादयः । एतानि कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्व् अमावास्यापर्यन्तासु चतुर्दशीवर्जितासु चतुर्दशासु तिथिषु श्राद्धदो यथाक्रमम् आप्नोति । ये केचन शस्त्रहतास् तेभ्यः कृष्णचतुर्दश्याम् एकोद्दिष्टविधिना श्राद्धं दद्याद् यदि ब्राह्मणादिहता न भवन्ति,

समत्वम् आगतस्यापि पितुः शस्त्रहतस्य वै ।
एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालयः ॥

इति स्मरणात् । समत्वम् आगत्स्य सपिण्डीकृतस्य महालये भाद्रपदकृष्णचतुर्दश्यां शस्त्रहतस्य एव श्राद्ध नान्यस्येति नियम्यते न पुन्ः शस्त्रहतस्य चतुर्दश्याम् एवेति । एतश् च क्षयाहादौ शस्त्रहत्स्यापि यथाप्राप्तम् एव श्राद्धम् । न च भाद्रपदकृष्णपक्ष एवायं श्राद्धविधिर् इति मन्तव्यम्, “प्रौष्टपद्याम् अपरपक्षे मासि मासि चैवम्” इति शौनकस्मरणात् ॥ १.२६२ ॥ १.२६३ ॥ १.२६४ ॥

नक्षत्रविशेषात् फलविशेषम् आह ।

**स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा । १.२६५अब् **
**पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभाम् ॥ **
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीन् अपि । १.२६६अब्
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ १.२६६च्द् ॥
धनं वेदान् भिषक्सिद्धिं कुप्यं गा अप्य् अजाविक् अम् । १.२६७अब्
अश्वान् आयुश् च विधिवद् यः श्राद्धं संप्रयच्छति ॥ १.२६७च्द् ॥
कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान् । १.२६८अब्
आस्तिकः श्रद्दधानश् च व्यपेतमदमत्सरः ॥ १.२६८च्द् ॥

कृत्तिकाम् आदिं कृत्वा भरण्यन्तं प्रतिनक्षत्रं यः श्राद्धं ददाति स यथाक्रमं स्वर्गादीन् आयुःपर्यन्तान् कामान् अवाप्नोति यद्य् आस्तिकः श्रद्धधानो व्यपेतमदमत्सरश् च भवति । आस्तिको विश्वासवान् । श्रद्दधान आदरातिशययुक्तः । व्यपेतमदमत्सरः मदो गर्वः मत्सर ईर्ष्या ताभ्यां रहितः । स्वर्गं निरतिशयसुखम् । अपत्यम् अविशेषेण । ओज आत्मशक्त्यतिशयः । शौर्यं निर्भयत्वम् । क्षेत्रं फलवत् । बलं शारीरं । पुत्रो गुणवान् । श्रैष्ठ्यं ज्ञातिषु । सौभाग्यं जनप्रियता । समृद्धिर् धनादेः । मुख्यता अग्र्यता । शुभं सामान्येन । प्रवृत्तचक्रता अप्रतिहताज्ञता । वणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः । अरोगित्वम् अनामययोगित्वम् । यशः प्रख्यातिः । वीतशोकता इष्टवियोगादिजनितदुःखाभावः । परमा गतिर् ब्रह्मलोकप्राप्तिः । धनं सुवर्णादि । वेदा ऋग्वेदादयः । भिषक्सिद्धिर् औषधफलावाप्तिः । कुप्यं सुवर्णरजतव्यतिरिक्तं ताम्रादि । गावः प्रसिद्धाः । अजाश् च अवयश् च अश्वाश् च । आयुर् दीर्घजीवनम् ॥ १.२६५ ॥ १.२६६ ॥ १.२६७ ॥ १.२६८ ॥

“मासवृद्ध्याभितृप्यन्ति दत्तैर् इह पितामहाः” (य्ध् १.२५९) इत्य् अनेन पित्र्̣̄णां श्राद्धेन तृप्तिर् भवतीत्य् उक्तम् । तद् अनुपपन्नम्, प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर् दत्तैर् अन्नपानादिभिस् तृप्त्यसंभवात् । संभवे ऽपि स्वयम् आत्मनाप्य् अनीशाः कथं स्वर्गादिफलं प्रयच्छन्ति । इत्य् अत आह ।

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । १.२६९अब्
प्रीणयन्ति मनुष्याणां पित्र्̣̄न् श्राद्धेन तर्पिताः ॥ १.२६९च्द् ॥
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । १। २७०अब्
प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥ १.२७०च्द् ॥
**

न ह्य् अत्र देवदत्तादय एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैर् उच्यन्ते किं त्व् अधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्दैर् न शरीरमात्रं नाप्य् आत्ममात्रं किं तु शरीरविशिष्टा आत्मान उच्यन्ते, एवम् अधिष्ठातृदेवतासहिता एव देवदत्तादयः पित्रादिशब्दैर् उच्यन्ते । अतश् चाधिष्ठातृदेवता वस्वादयः पुत्रादिभिर् दत्तेनान्नपानादिना तृप्ताः सन्तस् तान् अपि देवदत्तादींस् तर्पयन्ति कर्त्र्̣̄ंश् च पुत्रादीन् फलेन संयोजयन्ति । यथा माता गर्भपोषणायान्य् अदत्तेन दोहदान्नपानादिना स्वयम् उपभुक्तेन तृप्ता सती स्वजठरगतम् अप्य् अपत्यं तर्पयति दोहदान्नादिप्रदायिनश् च प्रत्युपकारफलेन संयोजयति तद्वद् वसवो रुद्रा अदितिसुता आदित्या एव ये पितरः पितृपितामहप्रपितामहशब्दवाच्याः न केवलं देवदत्तादय एव श्राद्धदेवताः श्राद्धकर्मणि संप्रदानभूताः किं तु मनुष्याणां पित्र्̣̄न् देवदत्तादीन् स्वयं श्राद्धेन तर्पितास् तर्पयन्ति ज्ञानशक्त्यतिशययोगेन । किं च न केवलं पित्र्̣̄ंस् तर्पयन्त्य् अपि तु श्राद्धकारिभ्य आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि राज्यं च । चकारात् तत्र तत्र शास्त्रोक्तम् अन्यद् अपि फलं स्वयं प्रीताः पितामहा वस्वादयः प्रयच्छन्तीति ॥ १.२६९ ॥ १.२७० ॥

**इति श्राद्धप्रकरणम् **