०३ विवाह-प्रकरणम्

**अथ विवाहप्रकरणम् **

यः पुनर् वैवाह्यस् तस्य विवाहार्थं स्नानम् आह ।

**गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया । १.५१अब् **
वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा ॥ १.५१च्द् ॥

पूर्वोक्तेन न्यायेन वेदं मन्त्रब्राह्मणात्मकं व्रतानि ब्रह्मचारिधर्मान् अनुक्रान्तान् उभयं वा पारं नीत्वा समाप्य गुरवे पूर्वोक्ताय वरम् अभिलषितं यथाशक्ति दत्त्वा स्नायात् । अशक्तौ तदनुज्ञया अदत्तवरो ऽपि । एषां च पक्षाणां शक्तिकालाद्यपेक्षया व्यवस्था ॥ १.५१ ॥

स्नानानन्तरं किं कुर्याद् इत्य् अत आह ।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् । १.५२अब्
अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ॥ १.५२च्द् ॥

अविप्लुतब्रह्मचर्यो ऽस्खलितब्रह्मचर्यः । लक्षण्यां बाह्याभ्यन्तरलक्षणैर् युक्तां । बाह्यानि तनुलोमकेशदशनाम् इत्यादीनि (म्ध् ३.१०) मनुनोक्तानि । आभ्यन्तराणि “अष्टौ पिण्डान् कृत्वा” (आश्गृ १.५।५) इत्याद्याश्वलायनोक्तविधिना ज्ञातव्यानि । स्त्रियं नपुंसकत्वनिवृत्तये स्त्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा पुरुषान्तरापरिगृहीताम् । कान्तां कमनीयां वोदुर् मनोनयनानन्दकारिणीम्, “यस्यां मनश्चक्षुषोर् निर्बन्धस् तस्याम् ऋद्धिः” इत्य् आपस्तम्बस्मरणात् (आप्गृ १.३।२१; ब्गृ २.३।९) । एतच् च न्यूनाधिकाङ्गादिबाह्यदोषाभावे । असपिण्डां समान एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सह । एवं पितामहादिभिर् अपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिर् अपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिर् अपि एकशरीरावयवान्वयात् । तथा पितृव्यपितृष्वस्रादिभिर् अपि । तथा पत्या सह पत्न्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणाम् अपि परस्परम् एकशरीरारब्धैः सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दः तत्र तत्र साक्षात् परम्परया वा एकशरीरावयवान्वयो वेदितव्यः । यद्य् एवं मातामहादीनाम् अपि

दशाहं शावम् आशौचं सपिण्डेषु विधीयते । (म्ध् ५.५९)

इत्य् अविशेषेण प्राप्नोति । स्यात् एतद् यदि तत्र “प्रत्तानाम् इतरे कुर्युः” (वध् ४.१९) इत्यादिविशेषवचनं न स्यात् । अतश् च सपिण्डेषु यत्र विशेषवचनं नास्ति तत्र “दशाहं शावम् आशौचम्” इत्य् एतद् वचनम् अवतिष्टते । अवश्यं चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । “आत्मा हि यज्ञ आत्मनः” इत्यादिश्रुतेः, तथा “प्रजाम् अनु प्रजायसे” (तैत्ब् १.५।५.६) इति च, “स एवायं विरूढः प्रत्यक्षेणोपलभ्यते” (आप्ध् २.२४.२) इत्य् आपस्तम्बवचनाच् च । तथा गर्भोपनिषदि “एतत् षाट्कौशिकं शरीरं त्रीणि पितृतस् त्र्ịणि मातृतो ऽस्थिस्नायुमज्जानः पितृतस् त्वङ्मांसरुधिराणि मातृतः” इति तत्र तत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये (अङ्गीक्रियमाणे) मातृसंताने भ्रातृपितृव्यादिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहे ऽवयवशक्तिस् तत्र तत्रावगम्यमाना परित्यक्ता स्यात् । (सत्स्व्[^१] अवयवार्थेषु यो ऽन्यत्रार्थे प्रयुज्यते तत्रानन्यगतित्वेन समुदायः प्रसिद्धति ।) परम्परयैकशरीरावयवान्वयेन तु सापिण्ड्ये यथा नातिप्रसङ्गस् तथा वक्ष्यामः । यवीयसीं वयसा प्रमाणतश् च न्यूनां उद्वहेत् परिणयेत् स्वगृह्योक्तविधिना ॥ १.५२ ॥

विशेषान्तराण्य् आह ।

अरोगिणीं भातृमतीम् असमानार्षगोत्रजाम् । १.५३अब्

अरोगिणीम् अचिकित्सनीयव्याध्यनुपसृष्टाम् । भातृमतीं पुत्रिकाकरणशङ्कानिवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्षगोत्रजाम् ऋषेर् इदम् आर्षं नाम प्रवर इत्य् अर्थः । गोत्रं वंशपरम्पराप्रसिद्धम् । आर्षं च गोत्रं च आर्षगोत्रे । समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस् तस्माज् जाता समानार्षगोत्रजा न समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक् पृथक् पर्युदासनिमित्तम् । तेनासमानार्षजाम् असमानगोत्रजाम् इति । तथा च “असमानप्रवरैर् विवाहः” (ग्ध् ४.२) इति गौतमः । तथा ।

असपिण्डा च या मातुर् असपिण्डा च ỵआ पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ (म्ध् ३.५)

इति मनुः । तथा मातृगोत्राम् अप्य् अपरिणेयां केचिद् इच्छन्ति,

मातुलस्य सुताम् ऊढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥

इति प्रायश्चित्तस्मरणात् । अत्र च “असपिण्डाम्” इत्य् अनेन पितृष्वसृमातृष्वस्रादिदुहितृनिषेधः । तथा “असगोत्राम्” इत्य् अनेन असपिण्डाया अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा “असमानप्रवराम्” इत्य् अनेन अप्य् असपिण्डाया असगोत्राया अपि समानप्रवराया निषेधः । तथा च “असपिण्डाम्” इत्य् एतत् सार्ववर्णिकं, सर्वत्र सापिण्ड्यसद्भावात् । “असमानार्षगोत्रजाम्” इत्य् एतत् त्रैवर्णिकविषयम् । यद्य् अपि राजन्यविशां प्रातिस्विकगोत्राभावात् प्रवराभावस् तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ । तथा च “यजमानस्यार्षेयान् प्रवृणीत” इत्य् उक्त्वा, “पौरोहित्यान् राजन्यविशां प्रवृणीते” इत्य् आह आश्वलायनः (आश्श्र् १.३।१, ३) । सपिण्डासमानगोत्रासमानप्रवरासु भार्यात्वम् एव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्ने ऽपि दृष्टविरोध एव ॥

“असपिण्डाम्” इत्य् अत्रैकशरीरावयवान्वयद्वारेण साक्षात् परम्परया वा सापिण्ड्यम् उक्तं तच् च सर्वत्र सर्वस्य यथाकथंचिद् अनादौ संसारे संभवति इत्य् अतिप्रसङ्ग इत्य् अत आह ।

पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतः तथा ॥ १.५३च्द् ॥

मातृतो मातुः संताने पञ्चमाद् ऊर्ध्वं पितृतः पितुः संताने सप्तमाद् ऊर्ध्वं सापिण्ड्यं निवर्तत इति शेषः । अतश् चायं सपिण्डशब्दो ऽवयवशक्त्या सर्वत्र वर्तमानो ऽपि निर्मन्थ्यपङ्कजादिशब्दवन् नियतविषय एव । तथा च पित्रादयः षट् सपिण्डाः पुत्रादयश् च षड् आत्मा च सप्तमः संतानभेदे ऽपि यतः संतानभेदस् तम् आदाय गणयेद् यावत् सप्तम इति सर्वत्र योजनीयम् । तथा च मातरम् आरभ्य तत्पितृपितामहादिगणनायां पञ्चमसंतानवर्तिनी मातृतः पञ्चमीत्य् उपचर्यते । एवं पितरम् आरभ्य तत्पित्रादिगणनायां सप्तमपुर्षसंतानवर्तिनी पितृतः सप्तमीति । तथा च,

भगिन्योर् भगिनीभ्रात्रोर् भ्रातृपुत्रीपितृव्ययोः ।
विवाहे ऽव्यादिभूतत्वाच् छाखाभेदो ऽवगण्यते ॥

यद्य् अपि वसिष्ठेन उक्तं ।

पञ्चमीं सप्तमीं चैव मातृतः पितृतः तथा । इति ।
त्रीन् अतीत्य मातृतः पञ्चातीत्य च पितृतः ।

इति च पैठीनसिना, तद् अप्य् अर्वाङ् निषेधार्थं न पुनस् तत्प्राप्त्यर्थम् इति सर्वस्मृतीनाम् अविरोधः । एतच् च समानजातीये द्रष्टव्यम् । विजातीवे तु विशेषः । यथाह शङ्खः ।

यद्य् एकजाता बहवः पृथक्क्षेत्राः प्र्थग्जनाः ।
एकपिण्डाः पृथक्शौचाः पिण्डस् त्व् आवर्तते त्रिषु ॥

एकस्माद् ब्राह्मणादेर् जाताः एकजाताः । पृथक्क्षेत्राः भिन्नजातीयासु भिन्नासु स्त्रीषु जाताः । पृथग्जनाः समानजातीयासु भिन्नासु स्त्रीषु जातास् ते एकपिण्डाः किं तु पृथक्शौचाः । पृथक्शौचम् आशौचप्रकरणे वक्ष्यामः । पिण्डस् त्व् आवर्तते त्रिषु त्रिपुरुषम् एव सापिण्ड्यम् इति ॥ १.५३ ॥

दशपूरुषविख्याताच् छ्रोत्रियाणां महाकुलात् । १.५४अब्

पुरुषा एव पूरुषाः, दशभिः पुरुषैर् मातृतः पञ्चभिः पितृतः पञ्चभिर् विख्यातं यत्कुलं तस्मात् । श्रोत्रियाणाम् अधीतवेदानाम् । अध्ययनम् उपलक्षणं श्रुताध्ययनसंपन्नानाम् । महच् च तत् कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं, तस्मात् कन्यका आहर्तव्येति नियम्यते ॥

एवं सर्वतः प्राप्तौ सत्याम्, अपवादम् आह-

स्फीताद् अपि न संचारिरोगदोषसमन्वितात् ॥ १.५४च्द् ॥

संचारिणो रोगाः श्वित्रकुष्टापस्मारप्रभृतयः शुक्रशोणितद्वारेणानुप्रविशन्तो दोषाḩ । पुनः हीनक्रियनिःपौरुषत्वादयो मनुनोक्ताः (म्ध् ३.७) । एतैः समन्वितात् स्फीताद् अपि पूर्वोक्तान् महाकुलाद् अपि नाहर्तव्या ॥ १.५४ ॥

एवं कन्याग्रहणनियमम् उक्त्वा, कन्यादाने वरनियमम् आह ।

एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः । १.५५अब्
यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥ १.५५च्द् ॥

एतैर् एव पूर्वोक्तैर् गुणैर् युक्तो दोषैश् च वर्जितो वरो भवति । तस्यायम् अपरो विशेषः । सवर्ण उत्कृष्टो वा न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यत्नात् प्रयत्नेन पुंस्त्वे परीक्षितः । परीक्षोपायश् च नारदेन दर्शितः ।

यस्याप्सु प्लवते बीजं ह्लादि मूत्रं च फेनिलम् ।
पुमान् स्याल् लक्षणैः एतैर् विपरीतैस् तु षण्डकः ॥ [^२] इति । (च्ड़्। न्स्म् १२.१०)

युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः स्मितपूर्वमृद्वभिभाषणादिभिर् अनुत्तरक्तजनः ॥ १.५५ ॥

रतिपुत्रधर्मार्थत्वेन विवाहस् त्रिविधः । तत्र पुत्रार्थो द्विविधः नित्यः काम्यश् च । तत्र नित्ये प्रजार्थे “सवर्णः श्रोत्रियो वरः” इत्य् अनेन सवर्णा मुख्या दर्शिता । इदनीं काम्ये नित्यसंयोगे चानुकल्पो वक्तव्य इत्य् अत आह ।

यद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः । १.५६अब्
नैतन् मम मतं यस्मात् तत्रायं जायते स्वयम् ॥ १.५६च्द्

यद् उच्यते ।

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥ (म्ध् ३.१२)

इत्य् उपक्रम्य ।

ब्राह्मणस्य चतस्रो भार्याः क्षत्रियस्य तिस्रो वैश्यस्य द्वे इति (म्ध् ३.१३) द्विजातीनां शूद्रावेदनम् इति, न एतद् याज्ञवल्क्यस्य मतम् । यस्माद् अयं द्विजातिस् तत्र स्वयं जायते, “तज् जाया जाया भवति यद् अस्यां जायते पुनः” (ऐत्ब् ७.१३) इति श्रुतेः । अत्र च तत्रायं जायते स्वयम् इति हेतुं वदता नैत्यकपुत्रोत्पादनाय काम्यपुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयननिषेधं कुर्वता नैत्यकपुत्रोत्पादनानुकल्पे काम्ये च पुत्रोपादने ब्राह्मणस्य क्षत्रियावैश्ये क्षत्रियस्य च वैश्या भार्यानुज्ञाता भवति ॥ १.५६ ॥

इदानीं रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रमान्तरानधिकारिणो गृहस्थाश्रमावस्थामात्राभिकाङ्क्षिणः परिणयनक्रमम् आह ।

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । १.५७अब्
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ १.५७च्द् ॥

वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः, क्षत्रियस्य द्वे, वैश्यस्य एका, शूद्रस्य तु स्वा एव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या अभावे उत्तरोत्तरा भवति । अयम् एव च क्रमो नैत्यकानुकल्पे काम्य च पुत्रोत्पादनविधौ । अतश् च यच् छूद्रापुत्रस्य पुत्रमध्ये परिगणनं विभागसंकीर्तनं च, तथा “विप्रान् मूर्धावसिक्तो हि” (य्ध् १.९१) इत्य् उपक्रम्य, “विन्नास्व् एष विधिः स्मृतः” (य्ध् १.९२) इति च तद् रतिकामस्याश्रममात्राभिकाङ्क्षिणो वा नान्तरीयकतयोत्पन्नस्य ॥ १.५७ ॥

विवाहान् आह ।

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । १.५८अब्
तज्जः पुनात्य् उभयतः पुरुषान् एकविंशतिम् ॥ १.५८च्द् ॥

स ब्रह्मभिधानो विवाहः यस्मिन्न् उक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन् दश पुत्रादींश् च दश आत्मानं चैकविंशं पुनाति सद्वृत्तश् चेत् ॥ १.५८ ॥

दैवार्षविवाहौ ।

यज्ञस्थऋत्विजे दैव आदायार्षस् तु गोद्वयम् । १.५९अब्
चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट् ॥ १.५९च्द् ॥

स दैवो विवाहो यस्मिन् यज्ञानुष्ठाने वितते ऋत्विजे शक्त्यालंकृता कन्या दीयते । यत्र पुनर् गोमिथुनम् आदाय कन्या दीयते स आर्षः । प्रथमजो दैवविवाहजश् चतुर्दश पुनाति सप्तावरान् सप्तपरान् । उत्तरज आर्षविवाहजः षट् पुनाति त्रीन् पूर्वान् त्रीन् परान् ॥ १.५९ ॥

प्राजापत्यविवाकलक्षणम् ।

इत्य् उक्त्वा चरतां धर्मं सह या दीयते ऽर्थिने । १.६०अब्
स कायः पावयेत् तज्जः षट् षड् वंस्यान् सहात्मना ॥ १.६०च्द् ॥
**

सह धर्मं चरताम् इति परिभाष्य कन्यादानं स प्राजापत्यः । “तज्जः षट् पूर्वान् षट् परान् आत्मना सह” इत्य् एवं त्रयोदश पुनाति ॥ १.६० ॥

आसुरगान्धर्वादिविवाहलक्षणानि ।

आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः ।१.६१अब्
राक्षसो युद्धहरणात् पैसाचः कन्यकाछलात् ॥ १.६१च्द् ॥

आसुरः पुनर् द्रविणादानात् । गान्धरवस् तु परस्परानुरागेण भवति । राक्षसो युद्धेनापहरणात् । पैशाचस् तु कन्यकाछलात् छलेन छद्मना स्वापाद्यवस्थास्व् अपहरणात् ॥ १.६१ ॥

सवर्णादिपरिणयेन विशेषम् आह ।

पाणिर् ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् । १.६२अब्
वैश्या प्रतोदम् आदद्याद् वेदने त्व् अग्रजन्मनः ॥ १.६२च्द् ॥

सवर्णासु विवाहे स्वगृह्योक्तविधिना पाणिर् एव ग्राह्यः । क्षत्रियकन्या तु शरं गृणीयात् । वैश्या प्रतोदम् आदद्यात् । उत्कृष्टवेदने शुद्रा पुनर् वसनस्य दशाम् । यथाह मनुः ।

वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने इति ॥ (म्ध् ३.४४) ॥ १.६२ ॥

कन्यादातृक्रमम् आह ।

पिता पितमहो भ्राता सकुल्यो जननी तथा । १.६३अब्
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ १.६३च्द् ॥
अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ । १.६४अब्
गम्यं त्व् अभावे दातॄणां कन्या कुर्यात् स्वयंवरम् ॥ १.६४च्द् ॥

एतेषां पित्रादीनां पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश् चेत्, यद्य् उन्मादादिदोषवान् न भवति । अतो यस्याधिकारः सो ऽप्रयच्छन् भ्रूणहत्याम् ऋताव् ऋताव् आप्नोति । एतच् चोक्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर् दातॄणाम् अभावस् तदा कन्यैव गम्यं गमनार्हम् उक्तलक्षणं वरं स्वयम् एव वरयेत् ॥ १.६३ ॥ १.६४ ॥

कन्याहरणे दण्डः ।

**सकृत् प्रदीयते कन्या हरंस् तां चौरदण्डभाक् । १.६५अब् **

सकृद् एव कन्या प्रदीयते इति शास्त्रनियमः । अतस् तां दत्त्वा अपहरन् कन्यां चौरवद् दण्ड्यः ।

एवं सर्वत्र प्रतिषेधे प्राप्ते ऽपवादम् आह ।

दत्ताम् अपि हरेत् पूर्वाच् छ्रेयांश् चेद् वर आव्रजेत् ॥ १.६५च्द् ॥

यदि पूर्वस्माद् वराच् छ्रेयान् विद्याभिजनाद्यतिशययुक्तो वर आगच्छति पूर्वस्य च पातकयोगो दुर्वृत्तत्वं वा तदा दत्ताम् अपि हरेत् । एतच् च सप्तमपदात् प्राग् द्रष्टव्यम् ॥ १.६५ ॥

अनाख्याय ददद् दोषं दण्ड्य उत्तमसाहसम् । १.६६अब्
अदुष्टां तु त्यजन् दण्ड्यो दूषयंस् तु मृषा शतम् ॥ १.६६च्द् ॥

यः पुनश् चक्षुर्ग्राह्यं दोषम् अनाख्याय कन्यां प्रयच्छति, असाव् उत्तमसाहसं दण्ड्यः । उत्तमसाहसं च वक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजन्न् उत्तमसाहसम् एव दण्ड्यः । यः पुनर् विवाहात् प्राग् एव द्वेषादिना असद्भिर् दोषैर् दीर्घरोगादिभिः कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ १.६६ ॥

“अनन्यपूर्विकाम्” इत्य् अत्रानन्यपूर्वा परिणेयोक्ता, तत्रान्यपूर्वा कीदृशीत्य् आह ।

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । १.६७अब्
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ १.६७च्द् ॥

अन्यपूर्वा द्विविधा पुनर्भूः स्वैरिणी चेति । पुनर्भूर् अपि द्विविधा क्षता चाक्षता च । तत्र क्षता संस्कारात् प्राग् एव पुरुषसंबन्धदूषिता । अक्षता पुनः संस्कारदूषिता । या पुनः कौमारे पतिं त्यक्त्वा कामतः सवर्णम् आश्रयति सा स्वैरिणीति ॥ १.६७ ॥

एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्राप्ते विशेषम् आह ।

आपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । १.६८अब्
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥ १.६८च्द् ॥
आ गर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत् । १.६९अब्
अनेन विधिना जातः क्षेत्रजो ऽस्य भवेत् सुतः ॥ १.६९च्द् ॥

अपुत्राम् अलब्धपुत्रां पित्रादिभिः पुत्रार्थम् अनुज्ञातो देवरो भर्तुः कनीयान् भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रः वा । एतेषां पूर्वस्याभावे परः परः घृताभ्यक्तसर्वाङ्गः ऋताव् एव वक्ष्यमाणलक्षणे इयाद् गच्छेद् आ गर्भोत्पत्तेः । ऊर्ध्वं पुनर् गच्छन् अन्येन वा प्रकारेण तदा पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः क्षेत्रजः पुत्रो भवेत् । एतच् च वाग्दत्ताविषयम् इत्य् आचार्याः,

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥ (म्ध् ९.६९)

इति मनुस्मरणात् ॥ १.६८ ॥ १.६९ ॥

व्यभिचारिणीं प्रत्य् आह ।

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । १.७०अब्
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥ १.७०च्द् ॥

या व्यभिचरति तां हृताधिकारां भृत्यभरणाद्यधिकाररहितां । मलिनां अञ्जनाभ्यञ्जनशुभ्रवस्त्राभरणशून्यां । पिण्डमात्रोपजीविनीं प्राणयात्रामात्रभोजनां । धिक्कारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्य् एव वासयेत् । वैराग्यजननार्थं न पुनः शुद्ध्यर्थम्,

यत् पुंसः परदारेषु तच् चैनां चारयेत् व्रतम् । (म्ध् ११.१७६)

इति पृथक्प्रायश्चित्तोपदेशात् ॥ १.७० ॥

तस्या अल्पप्रायश्चित्तार्थम् अर्थवादम् आह ।

सोमः शौचं ददव् आसां गन्धर्वश् च शुभां गिरम् । १.७१अब्
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥ १.७१च्द् ॥

परिणयनात् पूर्वं सोमगन्धर्ववह्नयः स्त्रीर् भुक्त्वा यथाक्रमं तासां शौचमधुरवचनसर्वमेध्यत्वानि दत्तवन्तः । तस्मात् स्त्रियः सर्वत्र स्पर्शालिङ्गनादिषु मेध्याः शुद्धाः स्म्ŗताः ॥ १.७१ ॥

न च तस्यास् तर्हि दोषो नास्तीत्य् आशङ्कनीयम् इत्य् आह ।

व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते । १.७२अब्
गर्भभर्तृवधादौ च तथा महति पातके ॥ १.७२च्द् ॥

अप्रकाशितान् मनोव्यभिचारात् पुरुषान्तरसंभोगसंकल्पाद् यद् अपुण्यं तस्य ऋतौ रजोदर्शने शुद्धिः । शूद्रकृते तु गर्भे त्यागः,

ब्राह्मणक्षत्रियविशां भार्याः शुद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ (म्ध् ९.१५५)

इति स्मरणात् । तथा गर्भवधे भर्तृवहे महापातके च ब्रह्महत्यादौ, आदिग्रहणाच् छिष्यादिगमने च त्यागः,

चतस्रस् तु परित्यज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥

इति व्यासस्मरणात् । जुङ्गितः प्रतिलोमजश् चर्मकारादिः । त्यागश् चोपभोगधर्मकार्ययोः न तु निष्कासनं गृहात् तस्याः, “निरुन्ध्याद् एकवेश्मनि” (म्ध् ११.१७६) इति नियमात् ।! १.७२ ॥

द्वितीयपरिणयने हेतून् आह ।

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा । १.७३अब्
स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ १.७३च्द् ॥

सुरां पिबतीति सुरापी शुद्रापि,

पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । (वध् २१.१५)

इति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगग्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थघ्न्य् अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषिणी । स्त्रीप्रसूः स्त्रीजननी । पुरुषद्वेषणी सर्वत्राहितकारणी । अधिवेत्तव्येति प्रत्येकम् अभिसंबध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ १.७३ ॥

किं च ।

**अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् । १.७४अब् **
यत्रानुकूल्यं दंपत्योस् त्रिवर्गस् तत्र वर्धते ॥ १.७४च्द् ॥

सा अधिविन्ना पूर्ववद् एव दानमानसत्कारैः भर्तव्या । अन्यथाभरणे महद् अपुण्यं वक्षमाणो दण्डश् च । न च भरणे सति केवलम् अपुण्यपरिहारः । यतः यत्र दंपत्योर् आनुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनम् अभिवृद्धिश् च ॥ १.७४ ॥

स्त्रियं प्रत्य् आह ।

मृते जीवति वा पत्यौ या नान्यम् उपगच्छति । १.७५अब्
सेह कीर्तिम् अवाप्नोति मोदते चोमया सह ॥ १.७५च्द् ॥

भर्तरि जीवति मृते वा या चापल्याद् अन्यं पुरुषं नोपगच्छति सेह लोके विपुलां कीर्तिम् अवाप्नोति । उमया च सह क्रीडति पुण्यप्रभावात् ॥ १.७५ ॥

अधिवेदनकारणाभावे अधिवेत्तारं प्रत्य् आह ।

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । १.७६अब्
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥ १.७६च्द् ॥

आज्ञासंपादिनीम् आदेशकारिणीम्, दक्षां शीघ्रकारिणीम्, वीरसूं पुत्रवतीम्, प्रियवादिनीं मधुरभाषिणीं यस् त्यजत्य् अधिविन्दति स राज्ञा स्वधनस्य तृतीयांशं दाप्यः । निर्धनस् तु भरणं ग्रासाच्चादनादि दाप्यः ॥ १.७६ ॥

स्त्रीधर्मान् आह ।

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ॥ १.७७अब्
आ शुद्धेः संप्रदीक्ष्यो हि महापातकदूषितः ॥ १.७७च्द् ॥

स्त्रीभिः सदा भर्तृवचनं कार्यम् । यस्माद् अयम् एव पर उत्कृष्टो धर्मः स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस् तदा आ शुद्धेः संप्रतीक्ष्यः । न तत्पारतन्त्र्यम् । उत्तरकालं तु पूर्ववद् एव तत्पारतन्त्र्यम् ॥ १.७७ ॥

शास्त्रीयदारसंग्रहस्य फलम् आह ।

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । १.७८अब्
यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याश् च सुरक्षिताः ॥ १.७८च्द् ॥

लोके आनन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश् च दारसंग्रहस्य प्रयोजनम् । कथम् इत्य् आह । पुत्रपौत्रप्रपौत्रकैः लोकानन्त्यम् अग्निहोत्रादिभिश् च स्वर्गप्राप्तिर् इत्य् अन्वयः । यस्मात् स्त्रीभ्य एतद् द्वयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षितव्याश् च धर्मर्थम् । तथा च अपस्तम्बेन धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योक्तं “धर्मप्रजासंपन्नेषु दारेषु नान्यां कुर्वीत” (आप्ध् २.११.१२) इति वदता । रतिफलं तु लौकिकम् एव ॥ १.७८ ॥

पुत्रोत्पत्त्यर्थं स्त्रियः सेव्या इत्य् उक्तम् । तत्र विशेषणम् आह ।

षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । १.७९अब्
ब्रह्मचार्य् एव पर्वाण्य् आद्याः चतस्रस् तु वर्जयेत् ॥ १.७९च्द् ॥

स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । स च रजोदर्शनदिवसाद् आरभ्य षोडशाहोरात्रः । तस्मिन् ऋतौ युज्मासु समासु रात्रिषु, रात्रिग्रहणाद् दिवसप्रतिषेधः, संविशेद् गच्छेत् पुत्रार्थम् । युग्मास्व् इति बहुवचनं समुच्चयार्थम् । अतश् चैकस्मिन्न् अपि ऋतौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एवं गच्छन् ब्रह्मचार्य् एव भवति । अतो यत्र ब्रह्मचर्यं श्राद्धादौ चोदितं तत्र गच्छतो ऽपि न ब्रह्मचर्यस्खलनदोषो ऽस्ति । किंच पर्वाण्य् आद्याश् चतस्रस् तु वर्जयेत् । पर्वाणीति बहुवचनाद् आद्यार्थावगमाद् अष्टमीचतुर्दश्योर् ग्रहणम् । यथाह मनुः ।

अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीं ।
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ इति । (म्ध् ४.१५५)

अतो ऽमावास्यादीनि रजोदर्शनाद् आरभ्य चतस्रो रात्रीश् च वर्जयेत् ॥ १। ७९ ॥

किं च ।

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । १.८०अब्
सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥ १.८०च्द् ॥

एवम् उक्तेन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मिन् कले रजस्वलाव्रतेनैव भवति । अथ चेन् न भवति तदा कर्तव्या क्षामता पुत्रोत्पत्त्यर्थम् अल्पास्निग्धभोजनादिना,

पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियः । (म्ध् ३.४९)

इति वचनात् । यदा युग्मायाम् अपि रात्रौ शोणिताधिक्यं तदा स्त्र्य् एव भवति पुरुषाकृतिः । अयुग्मायाम् अपि शुक्राधिक्ये पुमन् एव भवति स्त्र्याकृतिः । कालस्य निमित्तत्वात् । शुक्रशोणितयोश् चोपादानकारणत्वेण प्राबल्यात् । तस्मात् क्षामा कर्तव्या । मघामूलनक्षत्रे वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात् पुंनक्षत्रशुभयोगलग्नादिसंपत्तौ सकृद् एकस्यां रात्रौ न द्विस् त्रिर् वा । ततो लक्षणैर् युक्तं पुत्रं जनयति । पुमान् अप्रतिहतपुंस्त्वः ॥ १.८० ॥

एवम् ऋतौ नियमम् उक्त्वा इदानीम् अनृतौ नियमम् आह ।

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् । १.८१अब्
स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८१च्द् ॥

भार्याया इच्छानतिक्रमेण प्रवृत्तिर् अस्यास्तीति यथाकामी भवेत् । वाशब्दो नियमान्तरपरिग्रहार्थो न पूर्वनियमनिवृत्त्यर्थः । स्त्रीणां वरम् इन्द्रदत्तम् अनुस्मरन्- “भवतीनां कामविहन्ता पातकी स्यात्” इति, यथा “ता अब्रुवन् वरं वृणीमहा ऋत्वियाप्रजां विन्दामहै कामम् आविजनितोः संभवाम इति तस्माद् ऋत्वियाः स्त्रियः प्रजां विन्दन्ते कामम् आ विजनतोः संभवन्ति वारे वृतं ह्य् आसाम्” इति (च्ड़्। वध् ५.८) । अपि च स्वदारेष्व् एव निरतः नितरां रतस् तन्मनस्कः, “भवेत्” इत्य् अनुषज्यते । एवकारेण स्त्र्यन्तरगमनं निवर्तयति प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनम् आह “स्त्रियो रक्ष्या यतः स्मृताः” इति । यस्मात् स्त्रियो रक्ष्याः स्मृता उक्ताः “कर्तव्याश् च सुरक्षिताः” (य्ध् १.७८) इति । तच् च[^३] सुरक्षितत्वं यथाकामित्वेन स्त्र्यन्तरागमनेन च भवतीति । अत्राह “तस्मिन् युग्मासु संविशेद्” (य्ध् १.७९) इति । किम् अयं विधिर् नियमः परिसंख्या वा । उच्यते । न तावद् विधिः प्राप्तार्थत्वात् । नापि परिसंख्या दोषत्रयसमासक्तेः । अतो नियमं प्रतिपेदिरे न्यायविदः । कः पुनर् एषां भेदः । अत्यन्ताप्राप्तप्रापणं विधिः, यथा “अग्निहोत्रं जुहुयात्,” “अष्टकाः कर्तव्याः” इति । पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः, यथा “समे देशे यजेत,” “दर्शपूर्णमासाभ्यां यजेत” इति यागः कर्तव्यतया विहितः । स च देशम् अन्तरेण कर्तुम् अशक्य इत्य् अर्थाद् देशः प्राप्तः । स च समो विषमश् चेति द्विविधः[^४] । यदा यजमानः समे यियक्षते तदा “समे यजेत” इति वचनम् उदास्ते, स्वार्थस्य प्राप्तत्वात् । यदा तु विषमे देशे यियक्षते तदा “समे यजेत” इति स्वार्थं विधत्ते, स्वार्थस्य तदानीम् अप्राप्तत्वात् । विषमदेशनिवृत्तिस् त्व् आर्थिकी । चोदितदेशेनैव यागनिष्पत्तेर्, अचोदितदेशोपादानेन यथाशास्त्रं यागो नानुष्ठितः स्याद् इति । तथा “प्राङ्मुखो ऽन्नानि भुञ्जीत” इति । इदम् अपि स्मार्तम् उदाहरणं पूर्वेण व्याख्यातम् । एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थम् एकत्र पुनर्वचनं परिसंख्या । तद् यथा “इमाम् अगृभ्णन् रशनामृतस्येत्य् अश्वाभिधानीम् आदत्ते” इत्य् अयं मन्त्रः स्वसामर्थ्याद् अश्वाभिधान्याः गर्दभाभिधान्याश् च रशनाया ग्रहणे विनियुक्तः, पुनर् अश्वाभिधानीम् आदत्त इत्य् अनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्याः निवर्तते । यथा “पञ्च पञ्चनखा भक्ष्याः” इत्य् अत्र हि यदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तं पुनः शशादिषु श्रूयमाणं श्वादिभ्यो[^५] निवर्तत इति । किं पुनर् अत्र युक्तम् । परिसंख्येत्य् आह । तथा हि कृतदारसंग्रहस्य स्वेच्छयैवर्तौ गमनं प्राप्तम् इति न विधेर् अयं विषयः । नापि नियमस्य, गृह्यस्मृतिविरोधात् । एवं हि स्मरन्ति गृह्यकाराः- “दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्” इति । तत्र द्वादशरात्रात् संवत्सराद् वा पूर्वम् एवर्तुसंभवे ऋतौ गच्छेद् एवेति नियमाद् ब्रह्मचर्यस्मरणं बाध्येत । अपि च प्राप्ते भावार्थे वचनं विशेषणपरं युक्तं, प्राप्तं चर्तौ भार्यागमनम् इच्छयैव, अतो यदि गच्छेद् ऋताव् एवेति वचनव्यक्तिर् युक्ता । किं च नैयमिकात् पुत्रोत्पत्तिविधेर् एव ऋतौ गमनं नित्यप्राप्तम् एवेति ऋतौ गच्छेद् एवेति नियमो ऽनर्थकः स्यात् । नियमे चादृष्टं कल्पनीयम् । किं च ऋतौ गन्तव्यम् एवेति नियमे असन्निहितस्य व्याध्यादिना असमर्थस्यानिच्छोश् चाशक्यो ऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश् च नियमे । तथा हि एकः शब्दः सकृद् उच्चरितस् तम् एवार्थं पक्षे ऽनुवदति पक्षे तु विधत्ते चेति । तस्माद् ऋताव् एव गच्छेन् नान्यत्रेति परिसंख्यैव युक्ता । तद् इदं भारुचिविश्वरूपादयो नानुमन्यन्ते । अतो नियम एव युक्तः, पक्षे स्वार्थविधिसंभवात्, अगमने दोषश्रवणाच् च ।

ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ इति । (प्स्म् ४.१५)

न च विध्यनुवादविरोधः, अनुवादाभावाद् विध्यर्थत्वाच् च वचनस्य । तत्र हि विध्यनुवादविरोधो यत्र विधेयावधितया तद् एवानुवदितव्यं, अप्राप्ततयान्योद्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे “वाजपेयेन स्वाराज्यकामो यजेत” इति वाजपेयलक्षणगुणविधानावधित्वेन यागो ऽनुवदितव्यः, स एव स्वाराज्यलक्षणफलोद्देशेन विधातव्यश् चेति । न चानुवादेनेह कृत्यम् अस्ति । यद् तु नियमे ऽदृष्टम् कल्प्यम् इत्य् उक्तं तत् परिसंख्यायाम् अपि समानम् । अनृतौ गच्छतो दोषकल्पनात् । यत् तु नैयमिकपुत्रोत्पादनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्ते न नियम इति । तद् असत् । स एवायं नैयमिकपुत्रोत्पादनविधिः । स्यान् मतम् “एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेत्” (च्ड़्। य्ध् १.८०) इति स्त्र्यभिगमनातिरिक्तः पुत्रोत्पादनविधिर् इति । तन् न । गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं गच्छन् लक्षण्यं पुत्रं जनयेद् इत्य् अनेन यथाग्निहोत्रं जुह्वन् स्वर्गं भावयेद् इति । न चासंनिहितादेर् अशक्यार्थविधिप्रसङ्गः । सन्निहितशक्तयोर् एवोपदेशात् ।

ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । (प्स्म् ४.१५)
यः स्वदारान् ऋतुस्नातान् स्वस्थः सन् नोपगच्छति ।

इति विशेषोपादानात् । अनिच्छनिवृत्तिस् तु नियमविधानाद् एव । न च विशेषणपरतापि, पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संवत्सरात् पूर्वम् एवर्तुदर्शने संविशतो न ब्रह्मचर्यस्खलनदोषो यथा श्रद्धादिषु । तस्मात् स्वार्थहानिपरार्थकल्पनाप्राप्तबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं “पञ्च पञ्चनखा भक्ष्याः” इत्य् अत्र यद्य् अपि शशादिषु भक्षणस्य पक्षे प्राप्तेर् नियमः शशादिषु श्वादिषु च प्राप्तेः परिसंख्येत्य् उभयसंभवस् तथापि नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन प्रायश्चित्तस्मृतिविरोध इति परिसंख्यैवाश्रिता । एतेन

सायंप्रातर् द्विजातीनाम् अशनं स्मृतिनोदितम् ।

इत्य् अत्रापि नियमो व्याख्यातः । “नान्तरा भोजनं कुर्यात्” इति च पुनरुक्तं स्यात् परिसंख्यायाम् । एवं च नियमे सति ऋताव् ŗताव् इति वीप्सा लभ्यते, “निमित्तावृत्तौ नैमित्तिकम् अप्य् आवर्तते” इति न्यायात् । “यथाकामी भवेत्” इत्य् अयम् अपि नियम एव । अनृताव् अपि स्त्रीकामनायां सत्यां स्त्रियम् अभिरमयेद् एवेति । “ऋताव् उपेयात् सर्वत्र वा प्रतिषिद्धवर्जम्” (ग्ध् ५.१–२) इति एतद् अपि गौतमीयं सूत्रद्वयं नियमपरम् एव । ऋताव् उपेयाद् अनृताव् अपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जम् उपेयाद् एवेत्य् अलम् अतिप्रसङ्गेन ॥ १.८१ ॥

किं च ।

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः । १.८२अब्
बन्धुभिश् च स्त्रियः पूज्याः भूषणाच्छादनाशनैः ॥ १.८२च्द् ॥

भर्तृप्रभृतिभिः पूर्वोक्ताः साध्व्यः स्त्रियः यथाशक्त्यलंकारवसनभोजनपुष्पादिभिः संमाननीयाः । यस्मात् ताः पूजिता धर्मार्थकामान् संवर्धयन्ति ॥ १.८२ ॥

तया पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यम् इत्य् अत आह ।

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । १.८३अब्
कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥ १.८३च्द् ॥

संयतः स्वस्थाननिवेशित उपस्करो गृहोपकरणवर्गो यथा सा तथोक्ता । यथोलूखलमुसलशूर्पादेः कण्डनस्थाने, दृषदुपलयोर् अवियोगेन पेषणस्थान इत्यादि । दक्षा गृहव्यापारकुशला । हृष्टा सदैव प्रहसितानना । व्ययपराङ्मुखी न व्ययशीला । स्याद् इति सर्वत्र शेषः । किं च । श्वश्रूश् च श्वशुरश् च श्वशुरौ । “श्वशुरः श्वश्र्वा” (पाण् १.२।७१) इत्य् एकशेषः । तयोः पादवन्दनं नित्यं कुर्यात् । श्वशुरग्रहणं मान्यान्तरोपलक्षणार्थं भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ॥ १.८३ ॥

भर्तृसन्निधाव् उक्तम्, प्रोषिते भर्तरि तया किं कर्तव्यम् इत्य् अत आह ।

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । १.८४अब्
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥ १.८४च्द् ॥

देशान्तरगतभर्तृका क्रीडां कन्दुकादिभिः, शरीरसंस्कारम् उद्वर्तनादिभिः, समाजो जनसमूहः, उत्सवो विवाहादिः, तयोः दर्शनम्, हास्यं विजृम्भणम्, परगृहे गमनम् । त्यजेद् इति प्रत्येकं संबध्यते ॥ १.८४ ॥

किं च ।

रक्षेत् कन्यां पित विन्नां पतिः पुत्राश् च वार्धके । १.८५अब्
**अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ १.८५च्द् ॥ **

पाणिग्रहणात् प्राक् पिता कन्याम् अकार्यकरणाद् रक्षेत् । तत ऊर्ध्वं भर्ता । तदभावे पुत्राः वृद्धभावे । तेषाम् उक्तानाम् अभावे ज्ञातयः । ज्ञातीनाम् अभावे रजा, “पक्षद्वयावसाने तु रजा भर्ता प्रभुः स्त्रियाः” इति वचनात् । अतः क्वचिद् अपि स्त्रीणां नैव स्वातन्त्र्यम् ॥ १.८५ ॥

किं च ।

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः । १.८६अब्
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ १.८६च्द् ॥

भर्त्रा विना भर्तृरहिता पित्रादिरहिता वा न स्यात् । यस्मात् तद्रहिता गर्हणीया निन्द्या भवेत् । एतच् च ब्रह्मचर्यपक्षे । “भर्तरि प्रेते ब्रह्मचर्यं तदन्वारोहणं वा” (विध् २५.१४) इति विष्णुस्मरणात् । अन्वारोहणे महान् अभ्युदयः । तथा च व्यासः कपोतिकाख्यानव्याजेन दर्शितवान् ।

पतिव्रता संप्रदीप्तं प्रविवेशः हुताशनम् ।
तत्र चित्राङ्गदधरं भर्तारं सान्वपद्यत ॥
ततः स्वर्गं गतः पक्षी भार्यया सह संगतः ।
कर्मणा पूजितस् तत्र रेमे च सह भार्यया ॥ इति । (म्भ् १२.१४४.९, १२)

तथा च शङ्खाङ्गिरसौ ।

तिस्रः कोट्यो ऽर्धकोटी च यानि लोमानि मानुषे ।
तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥

इति प्रतिपाद्य तयोर् अवियोगं दर्शयतः ।

व्यालग्राही यथा सर्पं बलाद् उद्धरते बिलात् ।
तद्वद् उद्धृत्य सा नारी सह तनैव मोदते ॥
तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः ।
क्रीडते पतिना सार्धं यावद् इन्द्राश् चतुर्दश ॥ इति ।

तथा ।

ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वा भवेत् पतिः ।
पुनात्य् अविधवा नारी तम् आदाय मृता तु या ॥
मृते भर्तरि या नारी समारोहेद् धुताशनं ।
सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥
यावच् चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् ।
तावन् न मुच्यते सा हि स्त्रीशरीरात् कथंचन ॥ इति ।

हारीतो ऽपि ।

मातृकं पैतृकं चापि यत्र चैव प्रदीयते ।
कुलत्रयं पुनात्य् एषा भर्तारं यानुगच्छति ॥ इति ।

तथा ।

आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता । इति ।

अयं च सकल एव सर्वासां स्त्रीणाम् अगर्भिणीनाम् अबालापत्यानाम् आचण्ḑआलं साधारणो धर्मः, भर्तारं यानुगच्छतीत्य् अविशेषोपादानात् । यानि च ब्रह्मण्यनुगमननिषेधपराणि वाक्यानि ।

मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् ।
इतरेषु तु वर्णेषु तपः परमम् उच्यते ॥
जीवन्ती तद्धितं कुर्यान् मरणाद् आत्मघातिनी ।
या स्त्री ब्राह्मणजातीया म्ŗतं पतिम् अनुव्रजेत् ॥
सा स्वर्गम् आत्मघातेन नात्मानं न पतिं नयेत् ॥

इत्येवमादीनि तानि पृथक्चित्यधिरोहणविषयाणि ।

पृथक्चितिं समारुह्य न विप्रा गन्तुम् अर्हति ।

इति विशेषस्मरणात् । अनेन क्षत्रियादिस्त्रीणां प्ŗथक्चित्यभ्यनुज्ञा गम्यते । यत् तु कैश् चिद् उक्तं पुरुषाणाम् इव स्त्रीणाम् अप्य् आत्महननस्य प्रतिषिद्धत्वाद् अतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्त्रम् अतिक्रामन्त्या अयम् अनुगमनोपदेशः श्येनवत् । यथा “श्येनेनाभिचरन् यजेत” इति तीव्रक्रोधाक्रान्तस्वान्तस्य प्रतिषेधशास्त्रम् अतिक्रामतः श्येनोपदेश इति । तद् अयुक्तम् । ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पर्शाभावेन प्रतिषेधसंस्पर्शात् फलद्वारेण श्येनस्यानर्थतां वर्णयन्ति तेषां मते हिंसाया एव स्वर्गार्थतया अनुगमनन्शास्त्रेण विधीयमानत्वाप्रतिषेधसंस्पर्शाभावाद् अग्नीषोमीयवत् स्पष्टम् एवानुगमनस्य श्येनवैषम्यम् । यत् तु मतं हिंसानां मरणानुकूलो व्यापारः, श्येनश् च परमरणानुकूलव्यापाररूपत्वाद् धिंसैव, कामाधिकारे च करणांशे रागतः प्रवृत्तिसंभवेन विधेर् अप्रवर्तकत्वात् । रागप्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्धः स्वरूपेणैवानर्थकर इति, तत्राप्य् अनुगमनशास्त्रेण मरणस्यैव स्वर्गसाधनतया विधानान् मरणे यद्य् अपि रागतः प्रवृत्तिस् तथापि मरणानुकूले व्यापारे ऽग्निप्रवेशादाव् इतिकर्तव्यतारूपे विधित एव प्रवृत्तिर् इति न निषेधस्यावकाशः “वायव्यं श्वेतम् आलभेत भूतिकामः” इतिवत् । तस्मात् स्पष्टम् एवानुगमनस्य श्येनवैषम्यम् । यत् तु “तस्माद् उ ह न पुरायुषः स्वःकामी प्रेयात्” इति श्रुतिविरोधाद् अनुगमनम् अयुक्तम् इति । यच् च “तद् उ ह न स्वःकाम्य् आयुषः प्राङ् न प्रेयात्” इति स्वर्गफलोद्देशेनायुषः प्राग् आयुर् व्ययो न कर्तव्यो मोक्षार्थिना, यस्माद् आयुषः शेषे सति नित्यनैमित्तिककर्मानुष्ठानक्षपितान्तःकरणकलङ्कस्य श्रवणमनननिदिध्यासनसंपत्तौ सत्यम् आत्मज्ञानेन निरतिशयानन्दब्रह्मप्राप्तिलक्षणमोक्षसंभवः । तस्माद् अनित्याल्पसुखरूपस्वर्गार्थम् आयुर् व्ययो न कर्तव्य इत्य् अर्थः । अतश् च मोक्षम् अनिच्छन्त्या अनित्याल्पसुखरूपस्वर्गार्थिन्या अनुगमनं युक्तम् इतरकाम्यानुष्ठानवद् इति सर्वम् अनवद्यम् ॥ १.८६ ॥

किं च ।

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । १.८७अब्
सेह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ १.८७च्द् ॥

प्रियम् अनवद्यत्वेन मनसो ऽनुकूलम्, आयत्यां यच् छ्रेयस्करं तद् धितम् । प्रियं च तद् धितं च प्रियहितम् । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता निरता । स्वाचारा शोभन आचारः यस्याः सा तथोक्ता । शोभनश् चाचारो दर्शितः शङ्खेन- “नानुक्त्वा गृहान् निर्गच्छेत् । नानुत्तरीया न त्वरितं व्रजेत् । न परपुरुषम् अभिभाषेतान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभः । न नाभिं दर्शयेत् । आ गुल्फाद् वासः परिदध्यात् । न स्तनौ विवृतौ कुर्यात् । न हसेद् अप्रावृता[^६] । भर्तारं तद् बन्धून् वा न द्विष्यात् । न गणिकाधूर्ताभिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीलादिभिः सहैकत्र तिष्टेत् । संसर्गेन हि कुलस्त्रीणां चारित्रं दुष्यति । इति । विजितेन्द्रिया विजितानि संयमितानि इन्द्रियाणि श्रोत्रादीनि वागादीनि च मनःसहितानि यया सा इह लोके कीर्तिं प्रख्यातिं परलोके चोत्तमां गतिं प्राप्नोति । अयं च सकल एव स्त्रीधर्मो विवाहाद् ऊर्ध्वं वेदितव्यः, “प्राग् उपनयनात् कामचारकामवादकामभक्षाः” (ग्ध् २.१) इति स्मरणात्,

वैवाहिको विधिः स्त्रीणाम् औपनायनिकः स्मृतः । (म्ध् २.६७)

इति च ॥ १.८७ ॥

अनेकभार्यं प्रत्य् आह ।

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् । १.८८अब्
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ १.८८च्द् ॥

सवर्णायां सत्याम् अन्याम् असवर्णां नैव धर्मकार्यं कारयेत् । सवर्णास्व् अपि बह्वीषु धर्म्ये विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या ॥ १.८८ ॥

प्रमीतपतिकाया विधिम् उक्त्वा, इदानीं प्रमीतभार्यं प्रत्य् आह ।

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । १.८९अब्
आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन् ॥ १.८९च्द् ॥

पूर्वोक्तवृत्तवतीम् आचारवतीं विपन्नां स्त्रियम् अग्निहोत्रेण श्रौतेनाग्निना तदभावे स्मार्तेन दाहयित्वा पतिः भार्ता अनुत्पादितपुत्रो ऽनिष्टयज्ञो वा आश्रमान्तरेष्व् अनधिकृतो वा स्त्र्यन्त्रराभावे पुनर् दारान् अग्नींश् च विधिवद् आहरेत् । अविलम्बयन् शीघ्रम् एव ,

अनाश्रमी न तिष्ठेत दिनम् एकम् अपि द्विजः ।

इति दक्षस्मरणात् । एतच् चाधानेन सहाधिकृताया एव नान्यस्याः । यत् तु ।

द्वितीयां चैव यो भार्यां दहेद् वैतानिकाग्निभिः ।
जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥ इति ।

तथा ।

मृतायां तु द्वितीयायां यो ऽग्निहोत्रं समुत्सृजेत् ।
ब्रह्मघ्नं तं विजानीयाद् यश् च कामात् समुत्सृजेत् ॥

इत्य् एवमादि, तद् आधानेन सहानधिकृताया अग्निदाने वेदितव्यम् ॥ १.८९ ॥

इति विवाहप्रकरणम् ।