०१ उपोद्घात-प्रकरणम्

श्रीगणेशाय नमः

धर्माधर्मौ तद्विपाकस् त्रयो ऽपि क्लेशाः पञ्च प्राणिनाम् आयतन्ते ।
यस्मिन्न् एतैर् नो परामृष्ट ईशो यस् तं वन्दे विष्णुम् ॐकारवाच्यम् ॥
याज्ञवल्क्यमुनिभाषितं मुहुर् विश्वरूपविकटोक्तिविस्तृतम् ।
धर्मशास्त्रम् ऋजुभिर् मिताक्षरैर् बालबोधविधये विविच्यते ॥

याज्ञवल्क्यशिष्यः कश् चित् प्रश्नोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्मशास्त्रं संक्षिप्य कथयाम् आस यथा मनुप्रणीतं भृगुः । तस्य चायम् आद्यः श्लोकः ।

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयो ऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः ॥ १.१ ॥

योगिनां सनकादिनाम् ईश्वरः श्रेष्ठस् तं याज्ञवल्क्यं संपूज्य मनोवाक्कायकर्मभिः पूजयित्वा मुनयः सामश्रवःप्रभृतयः श्रवणधारणयोग्या अब्रुवन् उक्तवन्तः धर्मान् नो ऽस्मभ्यं ब्रूहीति । कथम् । अशेषतः कार्त्स्न्येन । केषाम् । वर्णाश्रमेतराणाम् । वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयः, इतरे ऽनुलोमप्रतिलोमजाता मूर्धावसिक्तादयः । इतरशब्दस्य “द्वन्द्वे च” इति (पाण् १.१।३१) सर्वनामसंज्ञाप्रतिषेधः । अत्र च धर्मशब्दः षड्विधस्मार्तधर्मविषयः । तद् यथा वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मः साधारणधर्मश् चेति । तत्र वर्णधर्मो “ब्राह्मणो नित्यं मद्यं वर्जयेद्” इत्यादिः । आश्रमधर्मो ऽग्नीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः “पालाशो दण्डो ब्राह्मणस्य” इत्य् एवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापरिपालनादिः । निमित्तधर्मो विहिताकरणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मो ऽहिंसादिः । “न हिंस्यात् सर्वा भूतानि” इत्य् आचण्डालं साधारणो धर्मः । “शौचाचारांश् च शिक्षयेत्” (य्ध् १.१५) इत्य् आचार्यकरणविधिप्रयुक्तत्वाद् धर्मशास्त्राध्ययनस्य प्रयोजनादिकथनं नातीवोपयुज्यते । तत्र चायं क्रमः । प्राग् उपनयनात् कामचारकामवादकामभक्षाः । ऊर्ध्वम् उपनयनात् प्राग् वेदाध्ययनोपक्रमाद् धर्मशास्त्राध्ययनं, ततो धर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं, ततस् तदर्थजिज्ञासा, ततस् तदर्थानुष्ठानम् इति । तत्र यद्य् अपि धर्मार्थकाममोक्षाः शास्त्रेणानेन प्रतिपाद्यन्ते तथापि धर्मस्य प्राधान्याद् धर्मग्रहणम् । प्राधान्यं च धर्ममूलत्वाद् इतरेषाम् । न च वक्तव्यं धर्ममूलो ऽर्थो ऽर्थमूलो धर्म इत्य् अविशेष इति । यतो ऽर्थम् अन्तरेणापि जपतपस्तीर्थयात्रादिना धर्मनिष्पत्तिर् अर्थलेशो ऽपि न धर्मम् अन्तरेणेति । एवं काममोक्षाव् आपीति ॥ १.१ ॥

एवं पृष्टः किम् उवाचेत्य् आह ।

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन् मुनीन् ।
यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत ॥ १.२ ॥

मिथिलानाम नगरी तत्रावस्थितः स याज्ञवल्क्यो योगीश्वरः क्षणं ध्यात्वा किंचित् कालं मनः समाधाय “एते श्रवणाधिकारिणो विनयेन पृच्छन्तीति युक्तम् एतेभ्यो वक्तुम्” इत्य् उक्तवान् मुनीन् । किम् । यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत इति । कृष्णसारो मृगो यस्मिन् देशे स्वच्छन्दं विहरति तस्मिन् देशे वक्ष्यमाणलक्षणा धर्मा अनुष्ठेया नान्यत्रेत्य् अभिप्रायः ॥ १.२ ॥

“शौचाचारांश् च शिक्षयेत्” (य्ध् १.१५) इत्य् आचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तदध्ययनं कर्तव्यम् इति कुतो ऽवगम्यत इत्य् अत आह ।

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ १.३ ॥

पुराणं ब्राह्मादि । न्यायस् तर्कविद्या । मीमांसा वेदवाक्यविचारः । धर्मशास्त्रं मानवादि । अङ्गानि व्याकरणादीनि षट् । एतैर् उपेताश् चत्वारो वेदाःविद्याः पुरुषार्थसाधनानि । तासां स्थानानि च चतुर्दश । धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैर् अध्येतव्यानि, तदन्तर्भूतत्वाद् धर्मशास्त्रम् अप्य् अध्येतव्यम् । तत्रैतानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथा च शङ्खेन विद्यास्थानान्य् उपक्रम्योक्तम्- “एतानि ब्राह्मणो ऽधिकुरुते स च वृत्तिं दर्शयतीतरेषाम्” इति । मनुर् अपि द्विजातीनां धर्मशास्त्राध्यायने ऽधिकारः ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति ।

निषेकादिश्मशानान्तो मन्त्रैर् यस्योदितो विधिः ।
तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो नान्यस्य कर्हि चित् ॥
विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः ।
शिष्येभ्यश् च प्रवक्तव्यं सम्यङ् नान्येन केन चित् ॥ इति । (म्ध् २.१६, १.१०३) ॥१.३ ॥

“अस्तु धर्मशाश्त्रम् अध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किम् आयातम्” इत्य् अत आह ।

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनो ऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ १.४ ॥
पराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश् च धर्मशास्त्रप्रयोजकाः ॥ १.५ ॥

उशनःशब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतम् इदं धर्मशास्त्रम् अध्येतव्यम् इत्य् अभिप्रायः । नेयं परिसंख्या किं तु प्रदर्शनार्थम् एतत् । अतो बौधायनादेर् अपि धर्मशास्त्रत्वम् अविरुद्धम् । एतेषां प्रत्येकं प्रामाण्ये ऽपि साकाङ्क्षाणाम् आकाङ्क्षापरिपूरणम् अन्यतः क्रियते । विरोधे विकल्पः ॥ १.४-१.५ ॥

इदानीं धर्मस्य कारकहेतून् आह ।

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् ॥ १.६ ॥

देशो “यस्मिन् देशे मृगः कृष्णः” (य्ध् १.२) इत्य् उक्तलक्षणः । कालः संक्रान्त्यादिः । उपायः शास्त्रोक्तेतिकर्तव्यताकलापः । द्रव्यं प्रतिग्रहादिलब्धं गवादि । श्रद्धा आस्तिक्यबुद्धिस् तद्अन्वितं यथा भवति तथा । पात्रं “न विद्यया केवलया” (य्ध् १.२००) इत्य् एवमादिवक्ष्यमणलक्षणम् । प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्त्यवसानं त्यज्यते । एतद् धर्मस्योत्पादकम् । किम् एतावद् एव नेत्य् आह । सकलम् इति । अन्यद् अपि शास्त्रोक्तं जातिगुणहोमयागादि तत् सकलं धर्मस्य कारकं, जातिगुणद्रव्यक्रियाभावार्थात्मकं चतुर्विधं धर्मस्य कारकम् इत्य् उक्तं भवति । तच् च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ १.६ ॥

इदानीं धर्मस्य ज्ञापकहेतून् आह ।

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥ १.७ ॥

श्रुतिर् वेदः । स्मृतिर् धर्मशास्त्रम् । तथा च मनुः ।

श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । इति । (म्ध् २.१०)

सदाचारः सतां शिष्टानाम् आचारो ऽनुष्ठानम् । स्वस्य चात्मनः प्रियं, वैकल्पिके विषये यथा “गर्भाष्टमे ऽष्टमे वाब्दे “(य्ध् १.१४) इत्यादव् आत्मेच्छैव नियामिका । सम्यक्संकल्पाज् जातः कामः शास्त्राविरुद्धः यथा “मया भोजनव्यतिरेकेणोदकं न पातव्यम्” इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ १.७ ॥

देशादिकारकहेतूनाम् अपवादम् आह ।

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥ १.८ ॥

इज्यादिनां कर्मणाम् अयम् एव परमो धर्मः यद् योगेन बाह्यचित्तवृत्तिनिरोधेन्आत्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मज्ञाने देशादिनियमो नास्तीत्य् अर्थः । तद् उक्तं “यत्रैकाग्रता तत्राविशेषात्” (ब्र्सू ४.१।११) इति पातञ्जले ॥ १.८ ॥

कारकहेतुषु ज्ञापकहेतुषु वा संदेहे तु निर्णयहेतुम् आह ।

चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा ।
सा ब्रुते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ १.९ ॥

चत्वारो ब्राह्मणाः वेदधर्मशास्त्रज्ञाः पर्षत् । तिस्रो विद्या अधीयन्त इति त्रैविद्याः । तेषां समूहस् त्रैविद्यम् । धर्मशास्त्रज्ञत्वम् अत्राप्य् अनुवर्तते । तद् वा पर्षत् । सा पूर्वोक्ता पर्षत् यं ब्रुते स धर्मःअध्यात्मज्ञानेषु निपुणतमो धर्मशास्त्रज्ञश् च एको ऽपि वा यं ब्रुते सो ऽपि धर्मः ॥ १.९ ॥

इत्य् उपोद्घातप्रकरणम् ।