६ रहस्य-प्रायश्चित्तम्

एवं तावत् प्रख्यातपापानां प्रायश्चित्तान्य् अभिधायाधुना रहस्यप्रायश्चित्तानि प्रस्तोतुम् आह ।

विख्यातदोषः कुर्वीत पर्षदानुमतं व्रतम् ।
अनभिख्यातदोषस् तु रहस्यं व्रतम् आचरेत् ॥ ३.३०३ ॥

तथा चाह मनुः-

एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः ।
अनाविष्कृतपापास् तु मन्त्रैर् होमैश् च शोधनैः ॥ इति । (म्ध् ११.२२६)

द्विजातयो ऽप्य् आविष्कृतैनसः परिषदा प्रायश्चित्तार्थं कृतोपसदनाः शोध्याः । ये त्व् अनाविष्कृतैनसो द्विजातयः श्रुतिस्मृत्यर्थतत्त्वज्ञाश् च, ते परिषद्य् अनिवेद्यैव वक्ष्यमाणैर् अघमर्षणादिमन्त्रजपैः शाकलादिभिश् च होमैः शोधनार्थम् उपदिष्टैः स्वयम् एवात्मानं शोधयेउर् इत्य् अभिप्रायः । अविदुषाम् अद्विजातीनां चानविष्कृतैनसाम् अप्य् उपरितनः श्लोकारम्भो मानव एव-

ख्यापनेनानुतापेन तपसाध्ययनेन च ।
पापकृन् मुच्यते पापात् तथा दानेन चापदि ॥ इति । (म्ध् ११.२२७)

रहस्यं व्रतं पार्श्वस्थैर् अप्य् अविदितं धर्मव्याजादिना कर्तव्यम् । यत् तु स्मृत्यन्तरम्-

धर्मव्याजेन यो मोहात् प्रायश्चित्तं समाचरेत् ।
न तस्य तेन शुद्धिः स्याद् एनस्वी चाधिकं भवेत् ॥

इति, तद् आविष्कृतपापविषयं द्रष्टव्यम् । न चात्रैतच् चोद्यम्- किम् इत्य् अनाविष्कृतैनसाम् अल्पं प्रायश्चित्तम् इति । अमीमांस्यत्वाच् छास्त्रस्य । विद्वत्तयैव च तस्यैनसा संबन्धाभावात् । तथा च “वेदाभासरतं क्षान्तम्” (य्ध् ३.३१३) इत्यादि वक्ष्यत्य् एव । आत्मशुद्धिप्रधानत्वाच् च प्रवृत्तेर् युक्तम् एव प्रायश्चित्ताल्पत्वम् । रहस्यप्रकारश् च लोकतः । विद्वान् अविद्वत्संनिधौ प्रकाशम् अपि पापं कृत्वा स्वयम् एव वेत्ति, इतरे त्व् अनेन पापं कृतम् इत्य् एवं न जानन्ति, तत् प्रकाशकृतम् अपि रहस्यम् एव । एवं देशकालादिनिमित्तेनाप्य् अप्रिज्ञानेन रहस्यता योज्या ॥ ३०३ ॥

एवं रहस्यप्रायश्चित्तानां विषयम् उक्त्वाधुना तान्य् उपदिशति ।

त्रिरारोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम् ।
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनीम् ॥ ३.३०४ ॥

त्रिरातम् उपोष्यान्तर्जले निमग्नो ऽघमर्षणं जप्त्वा गां च पयस्विनीं ब्राह्मणाय दत्त्वा विशुध्यतीत्य् एवं योजना । अन्ये तु त्रिरात्रोपोषितो ऽन्तर्जले ऽघमर्षणं जप्त्वा विशुध्येत, गां च पयस्विनीं दत्त्वा विशुध्येत, इत्य् एवं प्रायश्चित्तद्वयं वर्णयन्ति । तथा च सति पूर्वं चतुर्णाम् अप्य् आश्रमाणां प्रायश्चित्तम्, उत्तरं तु दानाधिकृतानाम् एवेति महाविषयतापि शास्त्रस्याभ्युच्चयाय स्यात् । तथा च स्वयंभुवा दानरहितम् एव त्रिरात्रोपोषितस्याघमर्षणं जप्यम् उक्तम्-

त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ऽभ्यवयन्न् अपः ।
मुच्यते पातकैः सर्वैर् जप्त्वा त्रिर् अघमर्षणम् ॥ इति । (म्ध् ११.२५९)

अतो बेदकल्पनापि युक्तैव ॥ ३०४ ॥

साग्निकस्य तु ब्राह्मणवधे पूर्ववैकल्पिकत्वेन प्रायश्चित्तान्तरम् आह ।

लोमभ्यः स्वाहेति हि वा दिवसं मारुताशनः।
जले सुप्त्वाभिजुहुयाच् चत्वारिंशद् घृताहुतीः ॥ ३.३०५ ॥

दिवसं मारुताशन इत्य् उदकपानप्रतिषेधार्थम् । अन्यत्राप्य् एवं व्याख्येयम् । जले सुप्त्वेति रातिम् उदके तिष्ठेद् इत्य् अर्थः । ततः पाकयज्ञविधानेनौपासने लोमभ्यः स्वाहेत्यादिभिः (व्स् ३९.१०) शुक्रियाधितैश् चत्वारिंशद् आज्याहुरीर् जुहुयात् ॥ ३०५ ॥

सुरापस्वर्णहारिनोस् तु ।

त्रिरारोपोषितो हुत्वा कूश्माण्डीभिर् घृतं शुचिः ।
सुरापः स्वर्णहारी तु रुद्रजापो जले स्थितः ॥ ३.३०६ ॥

कूश्माण्डीभिः “यद् देवा देवहेडनम्” (त्ब् २.४।४.८) इत्य् एवमाध्याभिस् तैत्त्तिरीयाम्नाताभिस् त्रिरात्रोपोषितः सुरापः पूर्ववद् घृतं हुत्वा शुचिः स्यात् । स्वर्णहारी तु त्रिरात्रोपोषित एव नाभिमात्रे जले तिष्ठन् रुद्रं (व्स् १६.१) जपञ् शुचिर् इति योज्यम् । तथा च भारद्वाजः-

नाभिदध्नोदकस्थस् तु रुद्रं ध्यायन् समाहितः ।
त्रिरत्रोपोषितो जप्त्वा स्वर्णहारी विशुध्यति ॥ इति ॥ ३०६ ॥

त्रिरात्रोपोषित एव पूर्ववत् ।

सहस्रशीषा(दि)जापाच् छुध्येत गुरुतल्पगः ।
गौर् देया कर्मणश् चान्ते पृथग् एभिः पयस्विनी ॥ ३.३०७ ॥

“सहस्रशीर्षा पुरुष्ः” (र्व् १०.९०) इतीमम् षोडशर्चं जप्त्वा गुरुतल्पगः शुध्येत् । एभिश् च “लोमभ्यः स्वाहा” (व्स् ३०.१०) इत्य् आरभ्य पुरुषसूक्तजपान्तकर्माधिकृतैर् होमकर्मणो जपकर्मणश् चान्ते ब्राह्मणाय पयस्विणी गौर् देया पृथक् चैकैकपातकोद्देशेन । होमाद्यनधिकृतैर् अपि त्रिरत्रम् उपोष्य गौर् देया । सर्वत्र च रहस्यप्रकरणे न कामकृताद्यपेक्षया विषयव्यवस्था कल्पनीया । स्वरुचिवैकल्पिकत्वेनैव तु व्यवस्था सामर्थ्यकृता वा, यथा होमचोदनास्व् अग्निमताम् । प्रकाशप्रायश्चित्तानां तु विषयव्यवस्था प्रदर्शितैव । रहस्येषु त्व् आत्मतुष्टिर् एव ज्ञानाग्निदग्धकल्मषस्य शुद्धिकारणम् । तथा च रहस्येष्व् एव स्वयंभुवाभिहितम्-

यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् ।
तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥ इति । (म्ध् ११.२३३)

आत्मतुष्टिर् एव गुरुलघुत्वोपादाने व्यवस्थाहेतुत्वम् उक्तम् । इतरत्र तु परिषच्छास्त्रोपदिष्ठं गुरुलघुत्वाद्यालोच्योपदिशेत्, न तु तत्रात्मतुष्टेर् व्यवस्थाहेतुत्वम् ॥ ३०७ ॥

एवं चतुर्णां महापातकानाम् उक्तम् । तत्संसर्गे तु ।

प्राणायामशतं कुर्यात् सर्वपापापनुत्तये ।
उपपातकजातानाम् अनिर्दिष्टस्य चैव हि ॥ ३.३०८ ॥

सर्वपापापनुत्तय इत्य् अविशेषाभिधाने ऽपि प्रक्रमानुसारात् सर्वैर् महापातकिभिर् यत् संसर्गनिमित्तं पापम्, तदपनुत्तये इत्य् एवं व्याख्येयम् । न केवलं संसर्गजानां सर्वपापानाम्, उपपातकजातानाम् अप्य् एतद् एव प्रायश्चित्तम् । अनिर्दिष्टप्रायश्चित्तान्तराणाम् अप्य् एतद् एवेति योज्यम् ॥ ३०८ ॥

ॐकाराभिषुतं सोमसलिलं पावनं पिबेत् ।
कृतोपवसनं रेतोविण्मूत्रप्राशने द्विजः ॥ ३.३०९ ॥

अहोरात्रम् उपोष्यापरेदुर् ॐकारेण सोमम् अभिषुत्य पावनेन तीर्थोदकेन ततस् तद् ॐकाराभिज्ञातं सोमसलिलं पावनं पिबेद् इति योज्यम् । स्पष्टम् अन्यत् । द्विजग्रहणं ब्राह्मणर्थम्, इतरयोः सोमपानप्रतिषेधात् । अद्विजातेर् वा रहस्यप्रायश्चित्तानधिकारज्ञापनार्थम् ॥ ३०९ ॥

यत् तु कर्त्रा स्वयम् अप्य् असंचेतितं, तच् छास्त्रीयश्रौतस्मार्तनित्यकर्मानुष्ठातॄणां नैव दोषारम्भकं भवतीत्य् एवं प्रपञ्चयितुम् आह ।

निशायां वा दिवा वापि यद् अज्ञानकृतं त्व् अघम् ।
त्रिष्कालसंध्याकरणात् तत् सर्वं विप्रणश्यति ॥ ३.३१० ॥

कृतव्याख्यानः श्लोकः ॥ ३१० ॥

शुक्रियारण्यकजपो गायत्र्याश् च सहस्रशः ।
सर्वपापहरः प्रोक्तो रुद्रैकादशिनी तथा ॥ ३.३११ ॥

आदिष्टप्रायश्चित्तान्तराणाम् अनादिष्टप्रायश्चित्तानां सर्वेषां महापातकादीनां रहस्यानां शुक्रियो जप आरण्यको वा सकृत्कृत एव प्रायश्चित्तम् । गायत्र्यास् तु सहस्रकृत्वः । रुद्राध्यायस्य चैकादशकृत्वः । आरण्यकं ब्राह्मणम् । शुक्रिया मन्त्राः ॥ ३११ ॥

सर्वत्र च रहस्ये प्रायश्चित्ते कृते ऽपि ।

यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर् होमः सावित्र्या जप एव वा ॥ ३.३१२ ॥

कार्य इति शेषः । द्विजग्रहणम् उक्तार्थम् ॥ ३१२ ॥

रहस्यानि वा प्रकाशानि वा यान्य् अविज्ञातानि तानि ।

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियारतम् ।
न स्पृशन्तीह पापानि महापातकजान्य् अपि ॥ ३.३१३ ॥

स्पष्टार्थः स्लोकः ॥ ३१३ ॥

यश् चैवं वेदाभ्यासरतः, स रहस्ये प्रकाशे वा कथंचिद् अकामकृते ।

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् ।
जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाद् ऋते ॥ ३.३१४ ॥

यत् तु विदुषः प्रायश्चित्तभूयस्त्वम्, तत् कामकृतप्रकाशविषयं द्रष्टव्यम् । वायुभक्षवचनम् उदकपानप्रतिषेधार्थम् । तिष्ठन् रात्रिं नीत्वेति च योज्यम् । स्पष्टम् अन्यत् ॥ ३१४ ॥

रहस्याद्यधिकृतानां सर्वप्रायश्चित्तान् वाचयत्वेन ।

ब्रह्मचर्यं दया क्षान्तिर् ध्यानं सत्यम् अकल्कता ।
अहिंसास्तेयम् अद्रोहो दमश् चैते यमाः स्मृताः ॥ ३.३१५ ॥

प्रकाशप्रायश्चित्ताधिकृतानाम् अप्य् अविरोधाद् एते यमाः प्रत्येतव्याः ॥ ३१५ ॥

पूर्ववद् एव ।

स्नानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः
नियमा गुरुशुश्रूषा शौचाक्रोधप्रदातृताः ॥ ३.३१६ ॥

ब्रह्मचर्यं यथाशास्त्रं मैथुनप्रसङ्गः । उपस्थनिग्रहः स्त्र्यनभिलाष इति विवेकः । प्रदातृता तु प्रकर्षेण दानशीलता । स्पष्टम् अन्यत् ॥ ३१६ ॥

अधुना सर्वपापक्षपणार्थान्य् अभ्युदयसाधनानि च यानि सान्तपनादीनि तपांसि तत्र तत्र च प्रायश्चित्तार्थम् उपदिष्टानि, तेषां स्वरूपं वक्तुम् आह ।

पञ्चगव्यं तु गोक्षीरं दधि मूत्रं शकृद् घृतम् ।
पीत्वा परेद्यूपवसेत् कृच्छ्रं सान्तपनं चरन् ॥ ३.३१७ ॥

पञ्चगव्यवचनम् अत्रानुक्तकुशोदकान्वितं च यथा स्याद् इत्य् एवमर्थम् । गोक्षीरम् इति त्व् अचिरदुग्धोपादानार्थम् । भोजनाय चैतत् प्राशनम्, नादृष्टाय । कृच्छ्रम् इति कृच्छ्रधर्मप्राप्त्यर्थम् । तथा च हारीतः- “धारोष्णं तु गव्यं पयो दधिशकृन्मूत्रघृतानि च मन्त्रपूतान्य् एककालं भुक्त्वा परेद्युर् उपवसेत् स सान्पतनः” इति ॥ ३१७ ॥

एतैर् एव क्षीरादिभिः ।

पृथक् सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रो ऽयं महासान्तपनः स्मृतः ॥ ३.३१८ ॥

पृथक् सान्तपनद्रव्यैः क्षीरादिभिः कुशोदकान्तैः षडहान्य् एककालं भोजनं कार्यम् । कुशोदकं च कुशक्वाथितम् उदकं सर्वत्र प्रत्येतव्यम् । स्पष्टम् अन्यत् ॥ ३१८ ॥

पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहाभ्यस्तैः पर्णकृच्छ्र उदाहृतः ॥ ३.३१९ ॥

पर्णः पलाशः । राजीवं पद्मिनी । स्पष्टम् अन्यत् । पलाशादिपत्रक्वथितेनोदकेन पञ्चरात्रं वर्तितव्यम् इत्य् अर्थः । यद्य् अपि च पर्णकृच्छ्रस्य क्वचिद् विनियोगो नोक्तः, तथाप्य् अनादेशे पापगुरुत्वापेक्षया प्रत्येतव्यः । अभ्युदयसाधनत्वं तु वक्ष्यत्य् एव ॥ ३१९ ॥

तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः ॥ ३.३२० ॥

स्मृत्यन्तरे तु- “पयो घृतम् उदकं वायुं प्रत्यहं तप्तानि, स कृच्छः” (ग्ध् २३.२) इत्य् उक्तम् । तत्र व्याख्यातारो वायोर् अप्य् उष्णस्य पानं वर्णयन्ति । तत् पुनर् विचार्यम् । इह तूपवासवचनाद् वायूपादानं तत्रोपवासप्रतिपत्त्यर्थम्, न तप्तानीत्य् अनेन संबन्धयितुम् इति व्याख्येयम् ॥ ३२० ॥

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ॥ ३.३२१ ॥

प्राजापत्यस्य चायं तृतीये भागे पादकृच्छ्रशब्दः प्रयुक्तः । पर्णकृच्छ्रादिष्व् अप्य् अयम् एवानुसर्तव्यः । स्पष्टम् अन्यत् ॥ ३२१ ॥

यथाकथंचित् त्रिगुणः प्राजापत्यो ऽयम् उच्यते ।
अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजिनः ॥ ३.३२२ ॥

यथाकथंचिद् इत्य् एकभक्तादिक्रमस्याविवक्षार्थम् । एतद् अपि पर्णकृच्छ्रादिष्व् अप्य् उक्तं द्रष्टव्यम् । एष्व् एव प्राजापत्यार्थेषु भोजनकालेषु पाणिपूरान्नभोजिनः कर्तुर् अयम् एवातिकृच्छ्रसंज्ञः प्रत्येतव्यः । पाणिः पूर्यते यावान् अन्नेन तत् पाणिपूरान्नम्, तद् भुङ्क्ते यः स पाणिपूरान्नभोजी । भोजनाधिकाराच् च भोजनार्थं यावत् सकृद् आदीयते, तावत् प्रत्येतव्यम् । तथा चाह मनुः- “एकैकं ग्रासम् आश्नीयात्” (म्ध् ११.२१३) इति ॥ ३२२ ॥

कृच्छातिकृच्छ्रः पयसा दिवसान् एकविंशतिम् ।
द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ३.३२३ ॥

एकविंशतिरात्रं पयोव्रतता कृछ्रातिकृच्छ्रः । द्वादशरात्रम् अभोजनं पराकः । अत्र च पादादिभागाभावः ॥ ३२३ ॥

पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।
एकैकम् उपवासश् च कृच्छ्रः सौम्यो ऽयम् उच्यते ॥ ३.३२४ ॥

पिण्याकः खलः । आचाम ओदनास्रावणम्, मण्ड इति यावत् । तक्रं मथितम् । अम्बुसक्तव उदकसक्तवः । एषाम् एकैकेन प्रत्यहम् । पञ्चमे ऽहन्य् उपवास इत्य् एष सौम्यो नाम कृच्छ्रः । सोमस्यात्रार्षम् इति सौम्यः । एवं प्राजापत्यादिष्व् अप्य् आर्षेयनिमित्तैवाख्या प्रत्येतव्या ॥ ३२४ ॥

य एते पिण्याकादयः ।

एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम् ।
तुलापुरुष इत्य् एष ज्ञेयः पञ्चदशाह्निकः ॥ ३.३२५ ॥

तुलापुरुषसंज्ञा महापातकादिभिः पापैर् युक्तः पुरुषो ऽनेन तपसा तुलितः पापेभ्यो ऽधिकतया धर्म एवावतिष्ठते इत्य् एवमर्था । स्पष्टम् अन्यत् ॥ ३२५ ॥

तिथिवृद्ध्याचरेत् पिण्डाञ् शुक्ले शिख्यण्डसंमितान् ।
एकैकं ह्रासयेत् पिण्डान् कृष्णे चान्द्रायणं चरन् ॥ ३.३२६ ॥

तिथिवृद्ध्येति । शुक्लपक्षादौ प्रतिपत्प्रभृति ग्रासोपचयेन पूर्णमासा[^२०] यावद् आचरेद् अश्नीयाद् इत्य् अर्थः । ततः प्रतिपद्य् अपि पञ्चदशैव ग्रासान् भुक्त्वा द्वितीयाप्रभृत्य् एकैकं ग्रासं कृष्णपक्षे ह्रासयेत् । एतद् यवमध्यं चान्द्रायणम् । स्पष्टम् अन्यति ॥ ३२६ ॥

यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणम् अथापरम् ॥ ३.३२७ ॥

यथाकथंचिद् इति “पिपीलिकामध्यतया अष्टग्रासेन शिशुचान्द्रायणप्रकारेण वा” इति स्मृत्यन्तरोकचान्द्राय्णप्रकारोपसंग्रहणार्थम् । “चत्वारिंशच् छतद्वयम्” इति यवमध्येषु प्रतिपद्य् अपि पञ्चदशग्रासप्राप्त्यर्थम्, “चान्द्रायणम् अथापरम्” इति । वाशब्दाध्याहारेण अथ वान्य एवायं चान्द्रायणप्रकारोपदेश इत्य् अर्थः ॥ ३२७ ॥

यान्य् एतानि सान्तपनादीनि कृच्छ्राण्य् उक्तानि, एषाम् एकैकम् ।

कुर्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा ।
पवित्राणि जपेत् पिण्डं गायत्र्या चाभिमन्त्रयेत् ॥ ३.३२८ ॥

निगदोक्तः श्लोकः ॥ ३२८ ॥

अनादिष्टेषु पापेषु शुद्धिश् चान्द्रायणेन तु ।
धर्मार्थं यश् चरेद् एतच् चन्द्रस्यैति सलोकताम् ॥ ३.३२९ ॥

यानि परिषदा नादिश्यन्ते, तान्य् अनादिष्टानि, रहस्यानीत्य् अर्थः । प्रायश्चित्तान्तरं वा येष्व् अनादिष्टं तान्य् अनादिष्टानि । यस् तु निर्दोष एव धर्मार्थं चान्द्रायणं चरेत्, स चन्द्रस्य सलोकताम् एति । (यथा?) चन्द्रमण्डले स्वर्गोपभोगं प्राप्नोतीत्य् अर्थः ॥ ३२९ ॥

यस् त्व् अनभिसंधाय फलम् आत्मसंस्कारार्थं कुर्यात् ।

कृच्छ्रकृद् धर्मकामस् तु महतीं श्रियम् अश्नुते ।
यथागुरु क्रतुफलं प्राप्नोति च न संशयः ॥ ३.३३० ॥

कृच्छ्रशब्दो ऽत्र चान्द्रायणस्यापि ग्राहकः । कृच्छ्रकृच् चान्द्रायणकृद् वा धर्मकामश् चोदितानुष्टानमात्रार्थी न फलम् इत्च्छतीत्य् अर्थः । महती श्रीर् देवयानेन मार्गेणैन्द्र उपभोगः । यथागुर्व् इति । अल्पेन सान्तपनादिनाल्पस्य क्रतोः, तथा गुरुणा पराकचान्द्रायणादिना गुरुतरस्य क्रतोर् यत् फलम्, तत् प्राप्नोतीत्य् अर्थः ॥ ३३० ॥

य एते “यस्मिन् देशे मृगः कृष्णः” (य्ध् १.२) इत्य् आरभ्य “यथागुरु क्रतुफलं प्राप्नोति च न संशयः” (य्ध् ३.३३०) इत्य् एवमन्ता याज्ञवल्क्येनोपदिष्टाः ।

श्रुत्वैतान् ऋषयो धर्मान् याज्ञवल्क्येन भाषितान् ।
इदम् ऊचुर् महात्मानो योगीन्द्रम् अमितौजसम् ॥ ३.३३१ ॥
य इदं धारयिष्यन्ति धर्मशास्त्रम् अतन्द्रिताः ।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३.३३२ ॥

किं च ।

विद्यार्थी चाप्नुयाद् विद्यां धनकामो धनानि च ।
आयुष्कामस् तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३.३३३ ॥

_तथा _।

श्लोकत्रयम् अपि ह्य् अस्माद् यः श्राद्धे श्रावयिष्यति ।
पितॄणां तत्र तृप्तिः स्याद् आनन्त्याय न संशयः ॥ ३.३३४ ॥

किं च ।

ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश् च धान्यधनवान् अस्य शास्त्रस्य धारणात् ॥ ३.३३५ ॥

ग्रन्थतो ऽर्थतश् चेति शेषः ॥ ३३५ ॥

इदं चान्यत् ।

य इदं श्रावयेद् विप्रान् द्विजः पर्वसु संयतः ।
अश्वमेधफलं तस्य तद् भवान् अनुमन्यताम् ॥ ३.३३६ ॥

स्पष्टार्थः श्लोकः ॥ ३३६ ॥

यद् एतन् मुनिभिः प्रार्थितम् ।

श्रुत्वैतद् याज्ञवल्क्यस् तु प्रीतात्मा मुनिभाषितम् ।
एव अस्त्व् इति होवाच नमस्कृत्वा स्वयंभुवे ॥ ३.३३७ ॥

इदम् इदं चास्त्व् इति मुनिभिः प्रार्थितोपन्यासो मुनीनां धर्मोपदेशे कृते परितोषज्ञापनार्थतयास्य धर्मशास्त्रस्याविचिकित्सं प्रामाण्यप्रतिपत्त्यर्थम्, याज्ञवल्क्यस्य चैवम् एवास्त्व् इति प्रीतात्मनः प्रतिवचनं सम्यग् एभिर् मदुक्तं धर्मशास्त्रम् अवधृतं भविष्यति अस्माद् धर्मशास्त्राद् वर्णिनाम् आश्रमिणां नैःश्रेयसम् इत्य् उपदेशसाफल्यप्रतिपत्त्यर्थम्, ब्राह्मणाश् च परिषद्धर्मेणावस्थिता यद् ब्रूयुर् इदम् एवम् अस्त्व् इति, तत् तथैव स्याद् इति ब्राह्मणवचनस्य दर्मप्रमाणताप्रतिपत्त्यर्थम्, गुरुसंनिधौ च न शिष्यैः स्वातन्त्र्येण धर्मावधारणं गुर्वननुमतैः कार्यम् इत्य् एवं सदाचारपरिपालनार्थम् । “नमस्कृत्वा स्वयंभुवे” इति । मनवे नमस्कृवेत्य् अर्थः । एतच् चाचारपरिपालनार्थम् । न ह्य् आगमिके ऽर्थे गुरुम् अनभिपूज्य स्वातन्त्र्येण किंचिद् वक्तव्यम् इत्य् अभिप्रायः । मानवश् चायं सर्वो ऽर्थः स्मार्त इत्य् एतद् अपि तन्नमस्कारेणैव स्पष्टीकृतम् । ततश् च वेदविरोधवन् मनुविरोधे ऽपि स्मृत्यन्तराणाम् अप्रामाण्यम् । स्मृत्यन्तरानुसारेणैव मानवे ऽपि संदिग्धार्थनिर्णयः, मानवीय एवार्थः स्मृत्यन्तरे ऽपि यस्मात् । अतः सूक्तम्- “नमस्कृत्वा स्वयंभुवे” इति ॥ ३३७ ॥

लब्ध्वा रहस्यानि सुदुर्लभानि यजूंषि शुक्लानि विवस्वतो यः ।
स्वर्वापवर्गाव् अकरोत् प्रकाशौ जयत्य् असौ ब्रह्मविद् एकहंसः ॥
प्रज्ञापराधाद् इह यद् दुरुक्तं नोक्तं च तत् सर्वम् अनाकुलिम्ना ।
कृपालुभिः सम्यग् अमत्सरेण विवेचनीयं स्वमतिप्रभावात् ॥

इति परमभट्टारकयोगीन्द्रप्रणीते धर्मशास्त्रे

विश्वरूपकृतविवरणबालक्रीडायां

तृतीयो ऽध्यायः ॥

**

समाप्तश् चायं ग्रन्थः ।

शुभं भूयात् ।