५ प्रायश्चित्त-प्रकरणम्

अथ प्रायश्चित्तधर्मप्रकरणम् ।

एवं प्रत्यात्मिकान् सर्वाश्रमाणां साधारणांश् च धर्मान् अभिधायेदानीं नैमित्तिकान् दोषनिर्घातार्थान् प्रायश्चित्तात्मकान् धर्मान् उपदिदिक्षुः प्रतिषेधातिक्रमहेतुकं दोषम् एवादौ प्रपञ्चयितुम् आह ।

महापातकजान् घोरान् नरकान् प्राप्य गर्हितान् ।
कर्मक्षयात् प्रजायन्ते महापतकिनस् त्व् इह ॥ ३.२०७ ॥

महापातकम् उपपातकं वा कृत्वा प्रायश्चित्तम् अकृत्वा ये म्रियन्ते, ते तन्निमित्तप्रभवान् घोरान् यमलोकसंबन्धिनस् तामिस्रादीन् एकविंशतिनरकान् अतिशयेन गर्हितान् एकद्वित्रिसामस्त्यादिनानुभूय तीव्रकर्मफलोपभोगेन क्षीणे पुनस् तदवशिष्टोपभोगायेह वक्ष्यमाणप्रकारेण महापातकिनो जायन्ते इति व्याख्येयम् । यदि तु कृत्स्नकर्मक्षयाद् एवेति व्याख्यायेत, ततो महापातकिनस् त्व् इहेत्य् असंबद्धं स्यात् । अतः कर्मक्षयाद् इत्य् एवं व्याख्येयम् ॥ २०७ ॥

तत्र नरकान् वक्ष्यति । यथा त्व् इह जायन्ते तथा प्रपञ्चयति ।

श्वसूकरमृगोष्ट्राणाम् ब्रह्महा याति योनिषु ।
खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ ३.२०८ ॥
कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् ।
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ ३.२०९ ॥

श्वादयः प्रसिद्धाः । सूकरश् चात्र ग्राम्यः श्वसंनिधानात् । मृगशब्दो ऽपि प्रक्रमानुसारात् सृगालादिषु द्रष्टव्यः । उदाहरणार्थत्वाच् चोपन्यासस्य नात्रातीव स्मृत्यन्तरैः सह विषयविभागाय यतितव्यम् । महापातकजान् घोरान् नरकान् प्राप्येति चोपक्रमात् कामकृतमहापातकादिविषयो ऽयं प्रपञ्चो वेदितव्यः । घोरगर्हितकर्मजन्यतया कारणानुरूप्येण कार्यसंबन्धविशेषस्यार्थवत्त्वात् । इतरथा तु नरकशब्दाद् एव तत्सिद्धेर् निष्प्रयोजनत्वं स्यात् । ततश् च स्मृत्यन्तरेष्व् अप्य् एवम् एव व्याख्येयम् । तथा चाम्नायः- “सह तत एव प्राक् प्रवव्राज” इत्य् उपक्रम्य “इत्थं वा इमे ऽमुष्मिन् लोके सचन्ते तान् वयम् इह प्रतिसचामहे” (श्ब् ११.६।१.३) इति कामकृत एव यातनां दर्शयति । तथा च व्यासः-

कामकारकृतं पापं नरकेषूपभुज्यते ।
इहैव प्राप्नुयुः क्लेशान् अकामकृतपातकाः ॥ इति ।

अतो यद्य् अपि स्मृत्यन्तरेषु अकामकृते ऽपि किंचिद् यातनातिशयवचनं स्यात्, तथाप्य् अत्यन्तवर्जनार्थं निन्दापरत्वेन व्याख्येयम् । “खरपुल्कसवेनानां सुरापो नात्र संशयः” इत्य् असंशयवचनं निन्दार्थवादाशङ्कानिवृत्त्यर्थम् । खरशब्दश् च गर्दभादिसदृशतिर्यग्योन्युपलक्षणार्थः । पुल्कसः क्षत्रियायां शूद्राज् जातः । वेनो नटः । कृमिकीटादित्वं च स्वर्णहारी समाप्नुयात् । संशब्दो ऽतिशयदुःखप्रतिपत्त्यर्थः । तृणादिकांश् चानेकविधान् स्थावभावान् गुरुतल्पगः प्राप्नुयात् । क्रमश इति वदन्न् एकेनैव निमित्तेनानेकविधानेकजन्मप्राप्यं क्लेशसंबन्धं दर्शयति । स्पष्टम् अन्यत् ॥ २०८–९ ॥

एवं क्रमशस् तिर्यग्योनित्वम् अनुभूय ततश् चातुर्वर्ण्यविषये जायन्ते । तत्रापि तु ।

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः ।
हेमहारी तु कुनखो दुश्चर्मा गुरुतल्पगः ॥ ३.२१० ॥

क्षयो राजयक्ष्मा । श्यावदन्तादयः स्पष्टाः । दौश्चर्म्यं च स्त्रीणाम् अपि यथासंभवं द्रष्टव्यम् । अकामकृते ऽपि पापे यः प्रायश्चित्तं समर्थः सन् न कुर्यात्, तस्याप्य् एता नरकयातनाः स्वकर्मानुरूप्येण द्रष्टव्याः । क्षयरोगादीनि च लिङ्गान्य् अशक्त्याप्य् अकृतप्रायश्चित्तानां भवन्त्य् एव । तथा च ।

इह दुश्चरितैः केचित् केचित् पूर्वकृतैस् तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ इति । (म्ध् ११.४८)

इह दुश्चरितैर् इति वचनाद् इहापि जन्मनि दुश्चरितैः प्रायश्चित्तैः पूर्वजन्मकृतैश् चाचरितप्रायश्चित्तैः तथाशब्दान् नरकाद्युपभोगान्ते कथंचिन् निमित्तान्तराद् अकृतप्रायश्चित्ताः सन्तो दुराचारात्मानो विरूपकशरीराः सन्तः स्वाभाविकशुक्लदन्तादिविपर्ययं श्यावदन्तादिकं प्राप्नुवन्तीत्य् अर्थः ॥ २१० ॥

एवं तावच् चतुर्णां महापातकिनाम् उक्तम्, तत्संपर्के तु ।

यो येन संपिबत्य् एषां स तल्लिङ्गो ऽभिजायते ।

येषां पतितानां यो येन संपिबति स तदीयेनैव क्षयरोगादिना लिङ्गेन व्यस्तसमस्ततया संसर्गानुरूप्येण जायत इत्य् अर्थः । अभिशब्दाच् च तदभिजनत्वेन क्षयरोगादियुक्तयोर् एव पित्रोः तदनुरूपलिङ्गो जायत इति द्रष्टव्यम् । यदि तु स तल्लिङ्गे ऽभिजायते इति पाठस् तदा स्वयम् अनेवंलिङ्गत्वे ऽपि यो यल्लिङ्गे कुले जायते स तथाभूतपतितसंसृष्ट इत्य् अवगन्तव्यम् । अतश् च तैर् अपि प्रायश्चित्तं कर्तव्यम् एवेत्य् उत्तरत्रापि योज्यम् ।

महापातकव्यतिरेकेणापि रूपविपर्यया भवन्त्य् एवेत्य् एतत् प्रपञ्चयितुं चौर्यविषये तावद् दर्शयितुम् आह ।

अन्नहर्तामयावी स्यान् मूको वागपहारकः ॥ ३.२११ ॥
धान्यमिश्र्य् अतिरिक्ताङ्गः पिशुनः पूतिनासिकः ।
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस् तु सूचकः ॥ ३.२१२ ॥

आमयावित्वं तु मन्दाग्निता । वागपहारकः यो गरादि दत्त्वा कुवैद्यतया वा मिथ्योपचारेण वाचम् अपहरति । अधीत्य वापलापः अनभ्यनुज्ञाताध्ययनं च वागपहार इत्य् अन्ये । तत् तु ब्रह्मस्तेयम् उच्यते न वागपहरणम् । यथाह मनुः ।

ब्रह्म यस् त्व् अननुज्ञातम् अधीयानाद् अवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ इति । (म्ध् २.११६)

विक्रयाद्यर्थं धान्यस्यान्यमिश्री धान्यमिश्री । पिशुनः परगुणापहारी । पूतिनासिकः कुथितनासिकः । तैलहृत् तैलमात्रस्य हर्ता । तैलपायी कीटविशेषः । पूतिवक्त्रः कुथितमुखः । सूचकः परस्यार्थलाभादिप्रसङ्गे तद्विनाशाय वाग्दोषोद्भावकः । स्पष्टम् अन्यत् ॥ २११–२ ॥

तथा ।

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च ।
अरण्ये निर्जले देशे जायते ब्रह्मराक्षसः ॥ ३.२१३ ॥

परस्योत्कृष्टस्य जातितो गुणतो वा योषितं स्त्रीत्वेनोपभोग्यां ब्रह्मस्वं च ब्राह्मणद्रव्यं ज्ञातिं वापहृत्य ब्रह्मराक्षसो भवतीति व्याख्येयम् । ब्रह्मणा वेदात्मकेनाग्निकल्पेनान्तर् बहिश् च दह्यमानो ऽत्यन्तयातनाशरीरो ब्रह्मराक्षसः । वेदाध्यायिन एवैतद् ब्रह्मराक्षसत्वं सामर्थ्याद् द्रष्टव्यम् । अतश् च श्रुताध्ययनसंपन्नेनापि परस्योत्कृष्टस्य भार्या नोपगन्तव्या । तथा चाम्नायः- “तस्माद् एवंविच् छ्रोत्रियस्य जाययोपहासं नेच्छेद् उत ह्य् एवंवित् पराभवति” (बाउ ६.४।१२) इति । तथा “स वा एष निरिन्द्रियो निर्वीर्यः क्षीणसमस्तसुकृतश् च म्रियते तस्य किम् अन्यद् ईदृशाद् ब्रह्मराक्षसत्वाद् भवेत्” इति । अतः सूक्तम् अरण्ये निरुदके ब्रह्मराक्षसो जायत इति ॥ २१३ ॥

हीनजातौ प्रजायन्ते रत्नानाम् अपहारकाः ।
पत्रं शाकं शिखी हृत्वा गन्धांश् चुच्छुन्दरी शुभान् ॥ ३.२१४ ॥

मानवे तु-

मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवाः ।
विविधानि च रत्नानि जायन्ते हेमकर्तृषु ॥ (म्ध् १२.६१)

इति स्वर्णकारित्वं दर्शितम् । इह तु हीनजाताव् इति । तद् मनुवचनस्यान्त्यलक्षणार्थत्वाद् अविरुद्धम्, स्वर्णकारजातेर् वात्यन्तनिकृष्टत्वप्रतिपत्त्यर्थम् । स्पष्टम् अन्यत् ॥ २१४ ॥

मूषिको धान्यहारी स्याद् यानम् उष्ट्रः फलं कपिः ।
अजः पशुं पयः काको गृहकार उपस्करम् ॥ ३.२१५ ॥

यानं गन्त्र्यादि । फलम् आम्रादिकम् । पशवो ऽश्वादयः । पयो दुग्धम् । गृहकारो मृत्तिकासूकरिकः । स्पष्टम् अन्यत् ॥ २१५ ॥

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा ।
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणम् एव च ॥ ३.२१६ ॥

मधु माक्षिकं मद्यं वा । पलं मांसम् । गाम् इति चात्र स्त्री प्रत्येतव्या, पशुग्रहणेनैव गोमात्रस्योक्तत्वात् । तथाशब्दो ऽत्र संस्कृतौपासनादिप्रकारभेदेनाग्निहरणे ऽनेकविधबकादिजातिप्रतिपत्त्यर्थः । तथोत्तरत्रापि वस्त्रगतरक्तादिप्रकारभेदानुरूप्येण श्वित्रस्य रक्तशुक्लादिभेदप्रतिपत्त्यर्थः । श्वा प्रसिद्धः । अरसम् इति वा, तुल्यत्वात् संहितायाः । नीरसं पर्युषितादि हृत्वा श्वयोनिं प्राप्नुयात् । तुशब्दो ऽवधारणार्थः । आदरार्थं चैतत् । यत्र पर्युषितादिहरणे ऽपि श्वा भवति तत्राभ्यधिकहरणे न विद्मः किं भविष्यतीति प्रदर्शयितुम् । चीरी नाम निदाघकाले ऽतवीषु वास्यते कीटविशेषः ॥ २१६ ॥

इदानीम् उपसंहरति ।

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ ३.२१७ ॥

स्तेयकर्मणीत्य् उपलक्षणार्थम् । सर्वत्र वधकर्मण्य् अभक्ष्यकर्मणि परदाराभिगमनकर्मणि च स्वकर्मानुरूप्येण तिर्यग्योनिषु मानुष्ये चानेकविधवैरूप्यव्याधिदारिद्र्यबन्धुवियोगादिर् वधबन्धनादिक्लेशश् च प्रपञ्चनीयः । एतद् एव प्रपञ्चयति । ह्रियमाणद्रव्यप्रकारा हन्यमानप्राणिप्रकारा अभिगम्यमानपरदारादिप्रकाराश् च यथानेकविधाः, तथैव तदुपभोगायानेकविधप्राणिजातयो ऽपि । अतः स्वकर्मानुरूप्येण प्रतिषिद्धसेवनाद् विहिताननुष्ठानाद् अन्यत्रापि परिवित्त्यादौ निमित्ते प्रायश्चित्ताकरणात् तासु तासु दुःखोपभोगबहुलासु योनिषु उत्पादक्लेशादिप्राप्तिः प्रपञ्चनीया ॥ २१७ ॥

एतद् एव स्पष्टयति ।

यथाकर्म निषेव्यैवं तिर्यक्त्वं कालपर्ययात् ।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ ३.२१८ ॥

पापकर्मणो विशेषानुरूप्येण नरकांस् तिर्यग्योनित्वं चानुभूय ततः कालपर्यायात् सत्पुरुषोचितलक्षणरहिता दरिद्राः पुरुषाधमाश् च जायन्ते, न तेषाम् उत्कर्षः संभवतीत्य् अभिप्रायः । अतो ऽवश्यं तैर् इहापि जन्मनि प्रायश्चित्तं चरितव्यम् । तथा च वसिष्ठेनोक्तम्- “कुनखी कृच्छ्रं द्वादशरात्रं चरित्वात्मानम् उद्धरेत्” इति (वध् २०.६) । अतो ऽनेवंलिङ्गैर् अपि दरिद्रैः पुरुषाधमैश् च प्रायश्चित्तं कर्तव्यम् एवेत्य् अभिप्रायः । यतश् च कौनख्यादिलक्षणयोगित्वम् अपि तिर्यग्योनिग्रहणाद् एव गृहीतम्, ततश् च कालपर्ययात् तद् अप्य् अनुभूय तैर् लक्षणैः कौनख्यादिभिर् भ्रष्टाः सन्तो दरिद्राः पुरुषाधमाश् च जायन्ते । ततश् च प्रायश्चित्तं कर्तव्यम् एवेत्य् अभिप्रायः ॥ २१८ ॥

ये पुनः कृत्वापि पापानि तदनुरूपप्रायश्चित्तानि सम्यग् अनुतिष्ठन्ति, तेषाम् अपुण्यानुवृत्तिर् मनाग् अपि यतो नास्ति ।

ततो निष्कल्मषीभूताः कुले महति भोगिनः ।
जायन्ते लक्षणोपेता धनधान्यसमन्विताः ॥ ३.२१९ ॥

स्पष्टार्थः श्लोकः । अन्ये तु तत एवाशुभकर्मोपभोगान् निष्कल्मषीभूता इति व्याचक्षते । तत् तु मन्दप्रयोजनं विपरीतार्थं चेति नादर्तव्यम् ॥ २१९ ॥

इदानीं यस्मिन् निमित्ते प्रायश्चित्तं कर्तव्यं, तद् दर्शयति ।

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् ।
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ ३.२२० ॥

विहितस्य स्मार्तस्य संध्योपासनाष्टकादेः श्रौतस्य चाग्निहोत्रादेर् अननुष्ठानात् । निन्दितस्य च अर्थतः प्राप्तौ सत्यां प्रतिषिद्धस्य सेवनात् । अत एव च प्रतिषिद्धस्येति वक्तव्ये निन्दितस्येत्य् उक्तम् । अन्यथा हि शब्दप्राप्तस्यापि षोडशीग्रहणादेर् निषिद्धस्य सेवनात् पतनप्रसङ्गः स्यात् । इन्द्रियाणां चानिग्रहात् प्रायश्चित्ताकरणाद् इत्य् अर्थः । नरग्रहणं सार्ववर्णिकत्वप्रदर्शनार्थम् । पतनम् ऋच्छतीति च पतनं प्रायश्चित्तार्हत्वम् एवाभिप्रेतं न तु द्विजातिकर्मभ्यः, तस्य महापातकविषयत्वात् । तथा च मानवे “प्रायश्चित्तीयते नरः” (म्ध् ११.४४) इति प्रायश्चित्तार्हत्वम् एवोक्तम् । ननु च प्रायश्चित्ताकरणम् अपि विहिताननुष्ठानम् एव । मैवम् । दोषनिर्घातार्थं हि प्रायश्चित्तम्, न त्व् अग्नोत्रादिवन् नैमित्तिकमात्रम् । अतस् तदकरणाद् दोषनिर्घात एव न स्याद् न त्व् अभ्यधिकदोषत्वम् । अस्मिन्न् अनिग्रहाच् चेन्द्रियाणाम् इति वचने सति न केवलं दोषनिर्घातो न भवति, अतिरिक्तं च पतनकारणम् आपद्यते । अतश् च तथाविधस्य गुरुतरो दण्डः प्रायश्चित्तं च गुरुतरं यथा स्याद् इत्य् एवमर्थः प्रयत्नः । मानवे ऽपि च ।

अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसजंश् चेन्द्रियार्थेषु प्रायश्चित्तियते नरः ॥ (म्ध् ११.४४)

इति प्रायश्चित्ताकरणम् एवेन्द्रियार्थप्रसजनं व्याख्येयम् । यदि त्व् अविहिताप्रतिषिद्धविषयाभिप्रायेणातिप्रसङ्गनिवृत्त्यर्थं प्रसजंश् चेन्द्रियार्थेषु इत्य् उच्येत, ततः-

धर्मम् अर्थं च कामं च यथाशक्ति न हापयेत् । (म्ध् ४.२१)

इत्य् अनेन विरोधः स्यात्, “कामात्मता न प्रशस्ता” (म्ध् २.२) इत्य् अनेनैवातिप्रसङ्गस्य निवारितत्वात् । अतः पूर्वैव व्याख्या ज्यायसी । स्पष्टम् अन्यत् ॥ २२० ॥

यस्माच् च विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् प्रायश्चित्ताकरणेन चेन्द्रियाणाम् अनिग्रहाच् च गुरुतरप्रायचित्तार्हत्वेन पुरुषस्य पतनप्रसङ्गः ।

तस्मात् तेनेह कर्तव्यम् प्रायश्चित्तं विशुद्धये ।
एवम् अस्यान्तरात्मा च लोकश् चैव प्रसीदति ॥ ३.२२१ ॥

यस्मिन् निमित्ते सति प्रायश्चित्ताकरणात् पतनप्रसङ्गः, तस्मात् तेन निमित्तवता पुरुषेण यथाधिकारं रहस्यं वा वक्ष्यमाणेन रहस्यप्रायश्चित्तमार्गेण प्रकाशं वा प्रकाशप्रायश्चित्तप्रकारेण प्रायश्चित्तम् आत्मविशुद्ध्यर्थं लोकव्यवहारप्रसिद्ध्यर्थं चावश्यं कर्तव्यम् । इहेत्य् आनन्तर्यार्थम् । इहैव, निमित्तानन्तरकाल इत्य् अर्थः । एवं च सति अस्य पापकृतो ऽन्तरात्मा रहस्यप्रायश्चित्तकरणाल् लोकश् च प्रकाशप्रायश्चित्तानुष्ठानात् प्रसीदति प्रसन्नो व्यवहारविषये भवतीत्य् अर्थः ॥ २२१ ॥

इतश् च प्रायश्चित्तं नियोगतः कर्तव्यम् । यतः ।

प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस् तु वचनाद् इह जायते ॥ ३.२२२ ॥

प्रायश्चित्तैर् विशेषविहितैः प्रकाशरहस्यात्मकैर् निःशेषं पापं यस्माद् अबुद्धिपूर्वकृतं बुद्धिपूर्वकृतं वापगच्छति, तस्मात् प्रायश्चित्तान्य् अवश्यकर्तव्यानीति श्लोकस्य समस्तस्यार्थः ।

  • ननु च कामकृतं पापं नैव प्रायश्चित्तैर् अपगच्छति । यदि नाम वचनसामर्थ्याद्[^१३] इहानपगते ऽपि संव्यवहार्यत्वं भवति, भवतु । अत एवोक्तम्- “कामतो व्यवहार्यस् तु वचनाद् इह जायते” इति । अस्मिंल् लोके संव्यवहार्यत्वं भवति, न तु पापम् अपैतीत्य् अभिप्रायः । तथा चाह मनुः ।

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ इति । (म्ध् ११.८९)

इति, तथा-

अकामतः कृते पापे प्रायश्चित्तं विधीयते । (म्ध् ११.४५)

इति स्वाभिप्रायेणोक्तम् । तथा श्लोकोत्तरार्धेन परमतोपन्यासः कृतः ।

कामकारकृते ऽप्य् आहुर् एके श्रुतिदर्शनात् ॥ इति । (म्ध् ११.४५)

अन्यपरैर् वैदिकैर् अर्थवादैर् व्यामोहिताः केचित् कामकारकृते ऽपि प्रायश्चित्तम् आहुः, न तु तन् ममाभिप्रेतम् इति भगवतो ऽभिप्रायः । तथा च स्मृत्यन्तरेष्व् अप्य् एवंविधान्य् एव वचनानि वासिष्ठादिषु- “अनभिसंधिकृते प्रायश्चित्तम् अपराधे” (वध् २०.१) इत्येवमादीनि । अतः स्वमतिपरिकल्पितम् इदं कामकारकृते ऽपि प्रायश्चित्तात् पापापगम इति । कथं तर्ह्य् अयं श्लोकः-

एनस्विभिर् अनिर्णिक्तैर् नार्थं किंचित् समाचरेत् । इति । (म्ध् ११.१८९)

अस्याप्य् अयम् एवार्थः- यावत् प्रायश्चित्तं न कुर्वन्त्य् एनस्विनः, तावत् तैः सह न कश्चिद् व्यवहारः कार्यः । अत एव चोक्तम्-

कृतनिर्णेजनांश् चैतान् न जुगुप्सेत कर्हिचित् । इति । (म्ध् ११.१८९)

एतद् उक्तं भवति- यद्य् अपि कामकृतं पापं प्रायश्चित्तैर् नापगच्छति, तथाप्य् एनान् कृतप्रायश्चित्तान् व्यवहारविषये न मनाग् अपि जुगुप्सेतेति । अन्यथा ह्य् अनिर्णिक्तैर् नाचरेद् इत्य् उक्ते सामर्थ्यात् कृतनिर्णेजनैः सहाचरणं प्राप्नोत्य् एव । तत्र कृतनिर्णेजनांश् चैनान् इत्य् एतद् अनारभ्यम् एव स्यात् । तस्मात् कामकृते संव्यहार्यत्वमात्रं न पापापगमः । किं च यः प्रतिषेधं दृष्ट्वा तदतिक्रमेण प्रवर्तते, स नरकाद्युपभोगम् अङ्गीकृत्यैव प्रवर्तते । ततश् च तं प्रति प्रायश्चित्तं पापक्षपणार्थत्वेनानपेक्षितत्वाद् अदृष्टार्थं स्यात् । अतो व्याख्येयम् एतत् कामतो व्यवहार्यस् त्व् इति ।

  • अत्रोच्यते । प्रायश्चित्तं तावद् दोषवति निमित्ते विधीयमानं फलान्तरानुपपत्तेर् दोषनिर्घातार्थम् एव प्रतीयते । तत्र निमित्तगतः श्रूयमणो ऽपि विशेषो “यस्योभयं हविर् आर्तिम् आर्च्छेत्” (च्ड़्। शब्ब् ओन् प्म्स् ६.४।३१) इतिवद् अविवक्षितः । तेनोभयत्राविशेषेणैव ब्रह्महत्यादौ प्रायश्चित्तोपदेशः । यत् तु,

कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते । (म्ध् ११.८९)

इति, तन् निन्दार्थं मरणान्तिकप्रायश्चित्तार्थं वा न तु प्रायश्चित्तनिवृत्त्यर्थं, पूर्वार्धेनैव सिद्धत्वात्, तथा सत्य् आनर्थक्यप्रसङ्गः स्यात् । अत एव च कामकृते ऽपि जिवप्रायश्चित्तसिद्ध्यर्थं कामतो व्यवहार्यस् त्व् इत्य् अत्रोक्तम् ।

  • ननु अत्र व्यवहार्यत्वम् इह लोके वचनात् स्याद् इत्य् उक्तम्, पापं त्व् अज्ञानकृतम् एवापैति नेतरद् अपीति ।

  • नैतद् युक्तम्, श्रुतिविरोधात् । यथोक्तम्- “इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तम् अश्लीला वाग् अभ्यावदत् स प्रजापतिम् उपाधावत् तस्माद् एतद् उपहव्यं प्रायच्छद्” इत्य् उपक्रम्य, “अभिशस्यमनं याजयेत्” इत्य् उक्तम् (प्ब् १८.९–१०) । अतश् चोपक्रमसामर्थ्यात् कामकृत एवैतद् विज्ञायते । तथा “एतेन हेन्द्रो दैवापः शौनको जनमेजयं पारीक्षितं याजयाञ्चकार” इत्य् उपक्रम्य, “सर्वां ह वै पापकृत्यां तत् सर्वां ब्रह्महत्याम् अपहन्ति यो ऽश्वमेधेन यजते” इति (श्ब् १३.५।४.१) । सर्वग्रहणात् कामकृत एवाश्वमेधो विज्ञायते । अतः पापापनुत्तये प्रायश्चित्तं कर्तव्यं न संव्यवहार्यत्वसिद्ध्यर्थम् । तथा चानन्तरम् एवोक्तम्- “पारीक्षिता यजमाना अश्वमेधैः परावरम् अजहुः कर्म पापकं पुण्याह् पुण्येन कर्मणा” (श्ब् १३.५।४.३) इति पापापनोदनत्वं दर्शयति । पुण्याः पुण्येन कर्मणेत्य् अपुण्यमूलोच्छितिम् एव स्पष्टयति । अतः प्रत्यक्षश्रुत्यानुगुण्येनैव स्मृतिव्याख्यानं युक्तम् । तथा च मनुः ।

अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।

इत्य् उक्त्वा,

कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः । इति । (म्ध् ११.४६)

मोहश् चात्रावलिप्ततया श्रुतिस्मृत्योर् अनादरो ऽभिप्रेतो न तून्मादादिलक्षणः, तथाविधस्योन्मत्तादेः कामऋताकामकृतयोर् अविशेषात् । यो हि प्रत्यक्षादिविषये सम्यग्वर्तमानः शास्त्रार्थं च जानन्न् अपि नास्तिक्येनातिशयसांदृष्टिकविषयाभिलाषेण चोदितो मोहाच् छास्त्रम् असमञ्जसं मन्यते, तस्य तत्कामतो मोहात् कृतं पापं प्रायश्चित्तैः पृथग्विधैर् अत्यन्तगुरुभिर् अपगच्छतीत्य् अभिप्रायः । ततश् च कामकृतब्रह्महत्यादौ मरणान्तिकैर् एव प्रायश्चित्तैर् अपनोदनप्रसक्ताव् आचार्येणोक्तम्- कामतो ऽपि पापं कृत्वा प्रत्यक्षश्रुतिवचनाद्[^१४] इहैव जन्मन्य् अश्वमेधादिभिः पापं निर्णिज्य व्यवहार्यत्वं जायत इति । किं च- यदि प्रायश्चित्तात् संव्यवहार्त्वमात्रम् एव स्याद् न दोषनिर्घातः, ततो येन सकृत् कृतं प्रायश्चित्तं, स पुनः कृत्वापि ब्रह्महत्याम् असंव्यवहार्यो न स्यात् । यदि प्रायश्चित्तं दोषापघातार्थं भवेत्, ततः कृतप्रायश्चित्तस्यापि पुनर् दोषोत्पत्तेस् तन्निर्घाताय प्रायश्चित्तं प्रसज्येत । यदा तु कृतप्रायश्चित्ततैव संव्यवहार्यत्वे हेतुः, तदा सकृत्कृते ऽपि कृतपायश्चित्तताया यावज्जीवम् अनपगमात् किम् इत्य् असंव्यवहार्यः स्यात् ।

  • अथोच्येत । अपापापनोदकत्वे ऽपि प्रायश्चित्तस्य नैमित्तिकत्वात् पुनर् अपि निमित्तोत्पादे सति प्रसज्यत इति ।

  • तद् अयुक्तम् । नैवेदं “भिन्ने जुहोति” (त्व् ४.२।३) इतिवद् ब्रह्महत्यादौ निमित्ते नैमित्तिकं प्रायश्चित्तम् । किं तर्हि । असंव्यवहार्यत्वे ऽपि सति संव्यवहार्यत्वार्थम् । तत्र च यद्य् अयं वचनार्थः- यो ब्रह्महत्यादि कुर्यात्, तम् अकृतप्रायश्चित्तं न संपिबेद् इति । ततो येन सकृत् कृतं तस्यामरणं कृतप्रायश्चित्तत्वम् अस्त्य् एवेति नासंव्यव्हार्यत्वं स्यात् । अथ यदा यदा ब्रह्महत्या भवति, तदा तदा प्रायश्चित्ते कृते संव्यवहार्त्वम् इति । तथा सति कालार्थः संयोगः स्यात् । ततश् च यदि कथंचिद् धननानन्तरं न कृतं ततः कालस्यापगतत्वाद् उदितसंध्योपासनादिवन् न कश्चिद् उपकारः स्यात् । यदि च नैमित्तिकं प्रायश्चित्तं न दोषनिर्घातार्थम्, ततश् च यावन्ति प्रायश्चित्तान्य् उपादिश्यन्ते सर्वाणि तान्य् अविशेषात् कर्तव्यानि स्युः, विकल्पस्य विषयविभागस्य चाभावात् । दोषनिर्घातार्थत्वे हि सर्वप्रायश्चित्तानां समानकार्यत्वाद् युक्तो विकल्पः । विषयविभागकल्पना च युक्ता । तस्याकामकृतनैमित्तिकत्वे तु प्रयोजनान्तराभावाद् असत्य् एकस्मिन् कार्यविकल्पो निष्प्रमाणकः स्यात् । यत्रापि चशब्दोक्त एव वाशब्दात् विकल्पः, यथा-

हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम् । (म्ध् ११.७७)

इत्यादौ, तत्रापि यः कश्चिद् अनियमेनैकः कल्पः स्यात् । न चात्र गुरुतरकल्पस्यानर्थक्यप्रसङ्गाद् युक्ता, तस्याकामकृते दोषनिर्घातार्थत्वेन तद्विशेषार्थत्वसिद्धेः ।

  • अथोच्येत । पतितस्यानधिकृतस्य द्विजातिकर्मस्व् अधिकारसञ्जननार्थानि प्रायश्चित्तनीत्य् अस्त्य् एवैककार्यत्वं तेषाम्, अतश् चात्राप्य् उपपद्यत एव विषयकल्पनेति ।

  • तद् अप्य् अयुक्तम्, पूर्वोक्तदोषप्रसङ्गाद् एव । किं चाधिकारार्थत्वे ऽपि कर्तुर् अयोग्यत्वव्यावृत्तिं योग्यतां वा प्रायश्चित्तं कुर्यात् । तत्रायोग्यत्वं तावद् ब्रह्महत्यादिनिमित्तम् । तच् च तज्जनितदोषवत्तया कर्तृत्वमात्रेण वा स्यात् । यदि च वधकर्तृत्वमात्रं तत् क्रियानन्तरम् एव प्रलीनम् इति न तद्व्यावृत्त्या प्रोजनम् अस्ति । अथ तूत्तरकाले ऽअप्य् अस्ति, तत् प्रायस्चित्तसहस्रेणाप्य् अशक्यम् अपनेतुम् । अथ तु दोषवत्तात्मकम् अयोग्यत्वं, ततः तदुपाकरणद्वारेण शक्त्या योग्यता कर्तुम् इति दोषनिर्घातार्थम् एव प्रायश्चित्तं स्यात् । अथ प्रायश्चित्तेनान्यद् अपूर्वं योग्यत्वं जन्यते न तु दोषवत्तात्मकम् अयोग्यत्वम् अपनीयत् इत्य् उच्येत । तथा सत्य् अन्वारम्भणियावत् सकृद् एव करणं स्यात्, कर्माङ्गता च प्रायश्चित्तानां प्रसज्येत, अत्रापि क्रतूपकारकत्वं तादर्थ्यं च प्रमाणशून्यं कल्प्यं स्यात् । यदि च कामकृते ऽधिकारमात्रार्थतोच्येत, ततो मरणान्तिकं प्रायश्चित्तम् अकामकृत एव स्याद्, जीवप्रायश्चित्तन्य् एव कामकृते स्युः, मृतस्याधिकारासंभवात्, संव्यवहार्यत्वं हि जीवत एवापेक्षितं यतः । तत्रैवमादीनि वचनान्य् असंबन्धानि स्युः । यथापस्तम्बेन “अस्यास्मिन् लोके प्रत्यापत्तिर् विद्यते कल्मषं तु निर्हण्यते” (आप्ध् १.२४.२५) । तथा,

मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः । (म्ध् ११.१४६)

इत्य् अज्ञातविषये च विषयोपदेशः । यथा “सुरायाश् चाज्ञाने तप्तकृच्छ्रः” इति वासिष्ठम् (वध् २०.१९) । तथा,

अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति । इति । (म्ध् ११.१४६)

एवं सर्वस्मृतिष्व् एवंजातीयकानाम् असामञ्जस्यं स्यात् । रहस्ये च प्रायश्चित्तं न स्यात् ।

  • अत एवम् अयं याज्ञवल्कीयश्लोको व्याख्यातव्यः- यथैव प्रायश्चित्तवचनाद् अज्ञाते ऽपि प्रतिषिद्धकर्मणि पापं भवति । तच् च प्रायश्चित्तैर् अपैति । एवम् एव कामतो ऽपि कृते पापे न मरणान्तिकम् एव प्रायश्चित्तम्, अपि तु “तरति सर्वं पाप्मनम्” (वध् २२.६) इत्यादिवचनाद् इहैव संव्यवहार्यो निष्कल्मषो जायते इत्य् अलं प्रसङ्गेन ॥ २२२ ॥

एतद् एवानन्तरश्लोकेन स्पष्टयति ।

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान् ॥ ३.२२३ ॥

ये हि कामतः प्रवर्तन्ते, प्रवृत्तिकाले नितरां पापेषु रतिं बध्नन्ति, ते पापेषु रताः सन्तो यद्य् अपश्चात्तापिनः स्युः, ततः प्रायश्चित्तान्य् अकुर्वाणाः कष्टान् दुःसहान् नरकान् प्रतिपद्यन्ते । कष्टवचनात् सिद्धे ऽपि पुनर् दारुणान् इत्य् अतिशयनिन्दार्थम् । ये त्व् अकामात् कथंचित् पापं कुर्युः, ते नियोगतः पश्चात्तापिनो भवन्त्य् एव । न च तेषां पापनिरतत्वम् । ते यद्य् अपि प्रायश्चित्तं न कुर्युः, तथाप्य् अस्मिन्न् एव मनुष्यलोके यातनां प्राप्नुयुर् अस्मिन्न् एव जन्मनि जन्मान्तरे वा, न तु यमलोकसंबन्धिषु तामिस्रादिष्व् इत्य् एतत् पुरस्ताद् अप्य् उक्तम् एव । तथा च मन्त्रवर्णः- “नो जिह्मायन्तो नरकं पताम” इति । जिह्मायन्तः कौटिल्येन प्रवृत्ताः, कामकारप्रवृत्ता इति यावत् । अतश् चाकामकृते नैव नरकप्राप्तिः । तथा च व्यासः ।

कामकारकृतं पापं नरकेषूपभुज्यते ।
इहैव प्राप्नुयुः क्लेशान् अकामकृतपातकाः ॥ इति ।

अतश् च दोषनिर्घातार्थत्वात् प्रायश्चित्तस्य, तदकरणे कष्टतरनरकप्राप्तिर् उपपन्ना ॥ २२३ ॥

तान् इदानीं नरकान् दर्शयति ।

तामिस्रं लोहशङ्कुश् च महानिरयशल्मली ।
रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ ३.२२४ ॥
संघातं लोहितोदं च सविषं संप्रतापनम् ।
महानरककाकोलं संजीवननदीपथम् ॥ ३.२२५ ॥
अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनं चैव तपनं चैकविंशकम् ॥ ३.२२६ ॥

अत्र द्वाभ्यां श्लोकाभ्यां षोडश् नरकाः, तृतीयेन पञ्च । एवम् एकविंशतिः । तामिस्रो ऽत्यर्थं तमोबहुलः । लोहमयाः शङ्कवो यस्मिन् अनवरतं सर्वगात्रेषु निखन्यन्ते, स लोकशङ्खुः । महता रयेण वेगेन नितरां यत्राजस्रं क्षेपणं, स महानिरयः । ताम्रमया अग्निवर्णाः शल्मलिद्रुमाः कण्टकिनो यत्र परिष्वज्यन्ते, स शल्मलिः । यत्रास्थीनि भित्त्वा रुरुवत् तप्तानि लोहशृङ्गाण्य् उत्तिष्ठन्ति, स रौरवः । कुड्मलम् इत्य् अविकसितम् उच्यते । तद् यथा पद्माद्यविकसितं पिण्डीभूतम् आस्ते, तद्वद् यत्र सर्वाङ्गानि संपीड्य कुड्मलीक्रियन्ते, (स) कुड्मलो नाम नरकः । पाठान्तरं च- रौरवं कश्मलम् इति, केशमलप्रायः । पूतिमृत्तिकः स्पष्टः । कृष्णसूत्रे प्रोता यत्रान्तरिक्षस्था (?) धार्यन्ते, तच् च सूत्रं नित्यं चाल्यते, स कालसूत्रकः । यथैव द्वौ सुमलिनौ संहत्य तण्डुलाद्यवघातं कुरुतः, एवं यत्र संहन्यन्ते, स संघातः । सर्वेषूदककार्येषु लोहितं यत्र, स लोहिततोदः । सविषाः फणिनो ऽनवरतं यत्र भक्षयन्ति, स सविषः । प्रकर्षेणान्तर् बहिश् च तापनात् संप्रतापनम् । पाठान्तरं तु- ऋबीसं संप्रतापनम् इति । तत्रान्तरुदरे नित्यं गर्भस्थितापच्यन्ते यस्मिन्, स ऋबीसः । यम् अपेक्ष्यान्ये नरकाः कालसूत्रादयो लघवः, स महानरकः । लोहतुण्डैः काकोलूकैर् अहर्निशं तुद्यन्ते यत्र, स काकोलः । संजीव्य संजीव्यानेकविधैः प्रकारैर् यत्र प्रमाप्यन्ते, स संजीवनः । वैतरणी नाम नदी पूयप्रायोदका, सा पन्था यस्य नरकस्य, स नदीपथः । अधोमुखा गर्तायाम् अङ्गारपूर्णायां निखाता दावाग्निना यत्रोपज्वाल्यन्ते, सो ऽवीचिः । अन्धसर्पाः सन्तस् तामिस्रायाम् इव शकटैः संचूर्ण्यन्ते यत्र, सो ऽन्धतामिस्रः । कुम्भीपाकः स्पष्टः । खड्गधारावत् तीक्ष्णानि पत्राणि यस्मिन् तालवने, तस्मिन् कृष्यन्ते यत्र, सो ऽसिपत्रवनः । प्रचण्डः सवितैव यत्र तपति, न त्व् अन्यानि महाभूतानि सन्ति, स तपनः ॥ २२४–६ ॥

एवम् एतान् एकविंशतिनरकान् स्वकर्मानुरूप्येण ।

महापातकजैर् घोरैर् उपपातकजैस् तथा ।
अन्विता यान्त्य् अचरितप्रायश्चित्ता नराधमाः ॥ ३.२२७ ॥

घोरग्रहणं कामकारप्रतिपत्त्यर्थम् । कामकृतमहापातकोपपातकजनितैः पापैर् अन्विता युक्ताः सन्तो ये प्रायश्चित्तं नाचरन्ति नास्तिक्यातिशयात्, त एवैतान् नरकान् यान्ति, न त्व् अकामकृतपापा अपीत्य् अभिप्रायः । महापातकोपपातकतत्समातिदेशिकव्यतिरेकेणात्र कामकृते ऽपि नैव नरकप्राप्तिः, तिर्यक्त्वम् एव तत्र । यथाह मनुः ।

यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ इति । (म्ध् १२.६८)

बलात् कामकाराद् इत्य् अर्थः ॥ २२७ ॥

के पुनस् ते महापातकिन इत्य् अत आह ।

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः ।
एते महापातकिनो यश् चैतैः संपिबेत् समाम् ॥ ३.२२८ ॥

यो ब्राह्मणं स्वातन्त्र्येण प्रयोजकत्वेन वा हन्ति घातयति वा, स ब्रह्महा । मद्यशब्दश् च पैष्ट्यां द्रष्टव्यः । स्तेनश् च ब्राह्मणसुवर्णस्तेनः । गुरुतल्पगस् त्व् आचार्यस्य पितुर् वा भार्यां य उपगच्छति, स विज्ञेयः । तैश् च व्यस्तैः समस्तैर् वा संपिबेत् संगत्य भोजनपानाद्य् आचरेत् । कियन्तं कालम् इत्य् अत आह- समां संवत्सरम् इत्य् अर्थः । तथा चाम्नायः ।

स्तेनो हिरण्यस्य सुरां पिबंश् च गुरोस् तल्पम् आवसन् ब्रह्महा च ।
एते पतन्ति चत्वारः पञ्चमश् चाचरंस् तैः ॥ इति । (छु ५.१०.९)

हिरण्यशब्दश् च विशेषणान्तराद् ऋते सुवर्ण एव प्रयुज्यते । स्थितम् एतच् छान्दोग्ये- “हिरण्यम् इति जातरूपं प्रतीयात् सर्वत्र” इति श्रुतिप्रस्थानम् एवाङ्गीकृत्य सूत्रकारैर् उक्तम् । तथा च चरकाः- “आग्नेयो वै ब्राह्मणः आग्नेयं हिरण्यं तस्माद् अग्नये ब्राह्मणस्य हिरण्यं दद्याद् यथाग्नय एवाग्नी(ध्रे ? धे) हिरण्यं देयम्” इति प्रकृत्य, “न सुवर्णं ब्राह्मणेभ्यो ऽपहर्तव्यं महद् वा एन एनम् आर्छति यो ब्राह्मणेभ्यो ऽपहृत्यावरुन्धते” इति । अतो ब्राह्मणसुवर्णहरणं स्तेयम् अत्राभिप्रेतम् । तथा च वसिष्ठ एते एव श्रुतिस्मृती उपसंहृत्य महापातकाधिकारे “ब्राह्मणसुवर्णहरणं च” इत्य् उक्तवान् (वध् १.२०) । “सुरां पिबंश् च” इत्य् अत्रापि पैष्ट्य् एवाभिप्रेता । तस्याम् एव मुख्यः सुराशब्दः, गौलीप्रभृतिषु तु मद्यसामान्याद् गौणः । ननु च “विज्ञेया त्रिविधा सुरा” (म्ध् ११.९४) इति सर्वासां मुख्यत्वम् । मैवम् । न ह्य् अनेकार्थत्वम् असति प्रतिबन्धे न्याय्यम् । कथं निर्णय इति चेत् । पैष्ट्याम् एव हि वेदे प्रयोगदर्शनाद् वाजपेये सौत्रामण्यां च सुराग्रहेषु । तथा अग्नीषोमीयब्राह्मणे चरकाणाम् “अथ यन् मल्यम् आसीत् तत् पश्चात् समदोहत् सुरा वै मल्यं यन् नामानृतं पाप्मा तमः सुरा” इत्य् एवं सुराशब्दः पैष्ट्याम् एव प्रयुक्तः । तत्रैव चोपसंहारे “तस्माद् ब्राह्मणः सुरां न पिबेत्” इत्य् उक्तम् । अतः पैष्टीपान एव महापातकं नान्यत्रेति स्थितम् । गुरोस् तल्पम् आवसेद् इत्य् अत्रापि पितर्य् आचार्ये वा गुरुशब्दः, पितर्य् एव वा,

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥ (म्ध् २.१४२)

इति मनुवचनात् । पितृत्वोपचाराच् चाचार्ये गौणत्वम् एव युक्तम् । यथोक्तम् ।

तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते । इति । (म्ध् २.१७०)

एवम् अन्यत्रापि शब्दार्थविवेकः कार्यः । तथा चाचार्यान्यां वसिष्ठेन गुरुतल्पातिदेशः कृतः- “आचार्यपुत्रशिष्यभार्यासु चैवम्” इति (वध् २०.१५) । यत् तु नारदेनोक्तम्-

माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तस्य नान्यो दण्डो विधीयते ॥ (न्स्म् १२। ७२–७४ )

इति, तत् तु न्यायविरोधान् मनुविरोधाच् च दण्डसाम्यप्रतिपत्त्यर्थं न शब्दनियमायेत्य् अवगन्तव्यम् । यत् तु इहैव पितृष्वसां मातुलानीम् इत्यादि, तत् स्वावसरे वक्ष्यामः । “ब्रह्महा चैते पतन्ति चत्वारः” (छु ५.१०.९) इत्य् अत्र आततायिसंग्रामव्यतिरेकेण यो ब्राह्मणम् अन्येनाप्रयुक्तः स्वातन्त्र्येण हन्याद् अन्यं वा द्रव्यदानादिना वशीकृत्य घातयति, स प्रत्येतव्यः । कुत एतत् । “आततायिनं हत्वा नास्य प्राणान् आच्छेत्तुः किल्बिष्म् आहुः” (वध् ३.१५) इति वचनात् । तथा ।

स्वाध्यायिनं कुले जातं यो हन्याद् आततायिनम् ।
न तेन भ्रूणहा भवति मन्युस् तं मन्युम् ऋच्छति ॥ इति । (वध् ३.१८)

तथा ।

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥ इति । (म्ध् ८.३५०)

आततायिनम् आयान्तम् इति वचनात् संग्रामाभ्यनुज्ञाप्य् अत्रैव श्लोके । “अपि वेदान्तगं रणे” “जिघांसन्तं जिघांसीयात्” (वध् ३.१७) इत्य् एवं संग्रामाधिकारे सर्वत्र स्मृतिष्व् अनुज्ञावचनानि सन्ति । यस् तु धनक्रीतः परप्रयुक्तो हन्यात्, तस्य स्वामिगामित्वात् क्रियाफलानाम् ऋत्विजाम् इव ब्रह्महत्याजन्यफलसंबन्धो नास्त्य् एव । ननु च “ब्राह्मणो न हन्तव्यः” इत्य् आम्नायवचनाद् धनादिक्रीतस्यापि ब्रह्महत्यास्त्य् एव । श्येनादिवद् एतद् द्रष्टव्यम् । यथैव श्येनादिजन्ये वधे नर्त्विजां दोषः, तथात्रापि । यथाग्नीषोमीयवधे “न हिंस्यात् सर्वा भूतानि” इति ऋत्विजां प्रतिषेधो न भवति, तथात्रापि । अन्ये तु कुतश्चिद् आगमय्येमं श्लोकं पठन्ति ।

रागाद् द्वेषात् प्रमादाद् वा स्वतः परत एव वा ।
यो हन्यद् ब्राह्मणं कश्चित् स सर्वो ब्रह्महा भवेत् ॥ इति ।

तत् त्व् अविज्ञातमूलत्वाद् विचार्यम् । यद्य् अपि च स्यात्, तथाप्य् आतिदेशिकत्वान् महापातकं तावन् न भवति । यथा, “सृष्टश् चेद् ब्राह्मणवधे हत्वापि राजन्यवैश्यौ चेजानौ” इत्यादि (च्ड़्। म्ध् ११.८८) । तथा च लोकयात्रिकाः पठन्ति- “अन्यायेन गृहीतस्वश् च” इत्यादि । “तम् आहुर् ब्रह्मघातकम्” इत्य् अघातकम् अपि वचनसामर्थ्याद् घातकम् इत्य् आहुः, एवं धनक्रीतादेर् अपि स्यात् । अतो य एव स्वयम् अनन्यप्रयुक्तः शस्त्रादिना परिक्रयादिभिर् वा हन्तारं स्वीकृत्य ब्राह्माणं हन्ति घातयति वा, तस्यैव ब्रह्महाशब्देनात्र ग्रहणम् । ब्राह्मणसुवर्णस्तेनादयश् चत्वार इति पाठात् सिद्धे ऽपि पुनःश्रुतिः पातकसंयोजकादिनिवृत्त्यर्था । तद् एतद् आचार्येणाप्य् उक्तम्- “एते महापातकिनः” इति । “पञ्चमश् चाचरंस् तैः” (छु ५.१०.९) इत्य् अत्रापि तैर् एव चतुर्भिः सहाचरणे महापतकित्वं न तु तत्संसर्गिनो ऽपि । पञ्चम इति चास्यैव दार्ढ्यार्थम् उक्तम् ॥ २२८ ॥

इदानीं महापातकसमानि ।

गुरूणाम् अत्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ह्य् एतद् अधीतस्य च नाशनम् ॥ ३.२२९ ॥

अत्र च बहुवचनाद् आचार्यादयो ऽपि सर्वे गुरवः प्रत्येतव्याः । तेषां “महापातकित्वं युष्माकम् अस्ति” इत्य् एवंप्रकारो ऽतिशयेनाधिक्षेपो ऽअत्यधिक्षेपः । तत्र च गुरुविशेषापेक्षया अधिक्षेपविशेषापेक्षया च प्रायश्चित्तकल्पना । ननु अगुराव् अपि “ब्राह्मणाभिशंसने दोषस् तावान् । द्विर् अनेनसि” (ग्ध् २१.१७–१८) इत्य् अस्त्य् एव पातकसमत्वम् । सत्यम् । प्रायश्चित्तान्तरं तु तत्र । यथाह वसिष्ठः- “ब्राह्मणम् अनृतेनाभिशस्य पतनीयेनोपपतनीयेन वा मासम् अब्भक्षः शुद्धवतीर् आवर्तयेत्” इति (वध् २३.३९) । अत्र तु ब्रह्महत्याप्रायश्चित्तम् एव यथा स्याद् इत्य् आरम्भः । महापातकव्यतिरिक्ते त्व् अधिक्षेपे तदनुरूपम् एव प्रायश्चित्तं वेदितव्यम् । वेदनिन्दा च हेतुशास्त्रावष्टम्भेन श्रुतिस्मृत्योर् बाधितान्तःकरणतयानुष्ठानपर्यन्तत्वेनानादरः । तथा चाह मनुः ।

यो ऽवमन्येत ते तूभे हेतुशास्त्राश्रयाद् द्विजः ।
स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ इति । (म्ध् २.११)

सुहृद्वधस् त्व् अब्राह्मणविषयः, तस्य तत्समत्ववचनात् । अधीतनाशनं तु पित्राद्यधीतां शाखां नेयं शोभनेति कृत्वा तत्परित्यागः । अन्ये त्व् अधीतविस्मरणम् एवाचक्षते । तत् त्व् अतिप्रसङ्गान् नातीय युक्तम् । मनुना तु सुरापानसमत्वेन,

ब्रह्मोज्झो वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ॥ (म्ध् ११.५६)

इत्य् उक्तम् । अतश् च प्रायश्चित्तविकल्पः । अन्यत्राप्य् अनेकपाठे सत्य् एवम् एव व्याख्येयम् । ननु वेदविरोधवन् मनुविरोधो ऽपि स्मृत्यन्तराणां बाधनाय युक्तः । सत्यम्, यदि विरोधः स्यात् । इह तु महापातकत्वाविशेषाद् ब्रह्महत्यातिदेशमध्ये सुहृद्वधस्य सुरापानसममध्यपठितस्य पुनः पाठाद् अविरोध एव । विस्पष्टतरं त्व् एतद् उपरिष्टाद् वक्ष्यामः ॥ २२९ ॥

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचो ऽनृतम् ।
रजस्वलामुखास्वादः सुरापानसमानि तु ॥ ३.२३० ॥

निषिद्धस्य लशुनादेर् नास्तिक्यातिशयान् निषेधं जानत एव कामकारेण भक्षणम् । यथाह मनुः ।

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ (म्ध् ५.१९)

इति विशेषाभिधानात् । अविशेषाभिधाने ऽपि चैतान्य् एव गृह्यन्ते, अस्माद् एव मनुवचनात् । जैह्म्यं तु कौटिल्यम् उच्यते । तद् अपि यदि कश्चित् सुरापानादिप्रवृत्तं ब्राह्मणं निवारणसमर्थो ऽपि कौटिल्येनोपेक्षते, स एवात्र प्रत्येतव्यः । यथाह गौतमः- “दुर्बलहिंसायां च विमोचने शक्तश् चेत्” इति (ग्ध् २१.१९) । हिंसावचनं तत्रोपलक्षणत्वेनैव द्रष्टव्यं सर्वत्रैव तु शक्तस्योपेक्षणे पातकातिदेशार्थम् । जातिभ्रंशकरमध्ये च जैह्म्यं मनुनोक्तम् (म्ध् ११.६७) । तद् एतद् उपरिष्टाद् वक्ष्यामः । “उत्कर्षे च वचो ऽनृतम्” इति । एतच् च मनुना ब्रह्महत्यासमत्वेनोक्तम् (म्ध् ११.५५) । तत्रैवं विवेकः । ब्रह्महत्याप्रसङ्गे यद् अनृतं तस्य तत्समत्वम्, सुरापानप्रसङ्गे यद् अनृतं तस्य सुरापानसमत्वम्, यथा कश्चित् पक्षपातादिना ब्रह्महणम् एव स्वपक्षोत्कर्षार्थं नायम् एवंविध इति ब्रूयाद् विपरीतं वा । एवम् अन्यत्रापि योज्यम् । रजस्वला चात्र सुरापी व्याख्येया नोदक्या, तस्या उपगमने ऽप्य् अल्पदोषत्वाद्, उपगमनाङ्गत्वाच् च मुखास्वादस्य । प्रक्रमानुगुण्याच् चैतद् एवं युक्तम् ॥ २३० ॥

अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा ।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसंमितम् ॥ ३.२३१ ॥

अश्वो ऽत्र यज्ञसाधनभूतः प्राधान्येन वा संग्रामसाधनभूतः प्रत्येतव्यः । धेनुर् अपि यज्ञाङ्गभूतैव । त्रैवर्णिकाश् च मनुष्याः । स्त्री च ब्राह्मणपरिगृहीतैव । भूमिर् अपि ब्राह्मणसात्कृतैव, निक्षेपश् च । तथाशब्दो रजताद्यर्थः । तथा च मनुः ।

निक्षेपस्यापहरणं नराश्वरजतस्य च ।
भूमिवस्त्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ इति । (म्ध् ११.५७)

पूर्वत्र स्तेयवचनं सुवर्णविषयम् एवेति ज्ञापितम् । अतश् च निक्षेपः सुवर्णव्यतिरेकेणेति व्याख्येयम् ॥ २३१ ॥

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं विदुः ॥ ३.२३२ ॥

अन्त्यः शूद्रः तेन पूर्ववर्णेषु त्रिषु जाता अन्त्यजाः स्वयोनिष्व् इति च मातृपितृसंबन्धाः पितृष्वस्रीयादयो गृह्यन्ते । सुतस्त्रियश् चासवर्णाः, स्नुषाभगिन्योर् उत्तरत्राम्नानात् । स्पष्टम् अन्यत् । मानवे ऽपि च “रेतःसेकः स्वयोन्यासु” (म्ध् ११.५८) इत्य् अत्र चकरद्वयसामर्थ्याद् सगोत्रोपादानं व्याख्येयम् ॥ २३२ ॥

प्रायश्चित्तातिरेकार्थं तु भेदेनाह ।

पितृश्वसां मातुलानीं स्नुषां मातृष्वसाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥ ३.२३३ ॥
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ।
छित्त्वा लिङ्गं वधस् तस्य सकामायाश् च योषितः ॥ ३.२३४ ॥

अत्र एवशब्दार्थे तुशब्दस्योत्कृष्य योजना गच्छन् गुरुतल्पग एवेति । एतद् उक्तं भवति- युक्तं सखिभार्यादिषु समत्ववचनं पितृष्वस्रादिषु गुरुतल्पग एव, यथाभ्यर्हिते मन्त्राणि किम् अयं राजसम इत्य् उच्यते ध्रुवम् अयं राजैवेति । एवं च वदता पिऋष्वस्रादिषु गुरुतल्पान्यूनत्वं तत्समातिरेकश् च दर्शितो भवति । अन्ये तु मुख्यम् एव गुरुतल्पं व्याचक्षते । (तद् अयुक्तं ?) तत् त्व् इह मातुर् अनुपादानाद् (अयुक्तम्) । स्मृत्यन्तरे च “ब्रह्महसुरापगुरुतल्पग” इत्य् उक्त्वा, “मातृपितृयोनिसंबन्धाग” (ग्ध् २१.१) इत्य् उक्तम्, “स्नुषायां गवि च तत्समो ऽवकर इत्य् एके” इति च (ग्ध् २३.१२–१३) । तद् असमञ्जसं स्याद्, अतः पूर्वैव व्याख्या ज्यायसी । मातुः सपत्नीति चासवर्णाभिप्रेता इतरासु तु गुरुतल्पसमत्वं मुख्यम् एव यतः । स्पष्टम् अन्यत् ॥ २३३–४ ॥

इदानीम् उपपातकान्य् उच्यन्ते ।

गोवधो व्रात्यता स्तैन्यम् ऋणानां चानपक्रिया ।
अनाहिताग्नितापण्यविक्रयः परिविन्दनम् ॥ ३.२३५ ॥
भृताद् अध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥ ३.२३६ ॥
स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्घोपजीवनम् ।
नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः ॥ ३.२३७ ॥
धान्यरूप्यपशुस्तेयम् अयाज्यानां च याजनम् ।
पितृमातृसुहृत्त्यागस् तटाकारामविक्रयः ॥ ३.२३८ ॥
कन्याया दूषणं चैव परिविन्दकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्यं ब्रह्मलोपनम् ॥ ३.२३९ ॥
आत्मार्थे च क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ ३.२४० ॥
इन्धनार्थं द्रुमच्छेदः स्त्रीहिंस्रौषधिजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥ ३.२४१ ॥
असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता ।
भार्याविक्रयणं चैषाम् एकैकम् उपपातकम् ॥ ३.२४२ ॥

एते ऽष्टौ श्लोका निगदोक्ताः । एकैकग्रहणं द्वित्राद्यनुष्ठाने प्रायश्चित्तगौरवार्थम् । उपपातकसंज्ञाप्य् एवमर्थैव, उपचयेनोपेत्य वा सेव्यमानं पातकम् एव स्याद् इति । अत एव गौतमेन पातकमध्ये निन्दितकर्माभ्यासो दर्शितः (ग्ध् २१) । एवम् एतैर् अष्टाभिः श्लोकैर् एकपञ्चाशदुपपातकान्य् उक्तानि । अन्यान्य् अपि च सूर्याभ्युदितः सूर्याभिनिर्मुक्त इत्यादीन्य् अत्रैव तथाशब्दादिगृहीतत्वेन द्रष्टव्यानि । अथ वा प्रायश्चित्तसाम्यार्थ एषाम् इह पाठो न तूपपातकसंज्ञानियत्यर्थः । तथा शङ्खेनाष्टादशैवोपपातकान्य् उक्तानि । यथाह- “अत ऊर्ध्वम् उपपतनीयानि । कन्यादूषी सोमविक्रयी वृषलीपतिः कौमारदारत्याग्य् असुरामद्यपायी गोघ्नः शूद्रवधी गुरोः प्रतिहन्ता नास्तिकः कृतघ्नः कूटव्यवहारी वृत्तिघ्नो मिथाभिशंसी हिरण्यस्तेनः पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिकूलवृत्तिर् इत्य् एतान्य् अषादशैवोपपातकानि” इति । एवं सुमन्तुः- “स्त्रीरजतगोस्तैन्यं गोश् च गमनं नाशकं भूम्यनृतं क्षत्रियवैश्यगोघ्नता परिवित्तितावकीर्णिता प्रतिरूपकवृत्तिश् चेत्य् उपपातकानि” इति । शातातपे त्व् अष्टाव् एवोपपातकान्य् उक्तानि- “अथोपपातकान्य् अग्न्युत्सादी” इत्यादीनि । वासिष्ठे तु “सूर्याभ्युदितः सूर्याभिनिर्मुक्तः” (वध् १.१८) इत्य् उपक्रम्य, उपपातकिनाम् एनस्विन इत्य् एवं संज्ञा कृता, तन्मध्ये निःसंदिग्धोपपातकिनां परिवित्त्यादीनाम् अनुक्रमणात् । अतो यथानिर्दिष्टानाम् एव प्रायश्चित्तसाम्यार्थम् इयं संज्ञेत्य् एवम् एव व्याख्येयम् । अत्र च पारदार्यस्तेयस्त्रीवधादीनि महापातकतत्समातिरेकेण व्याख्येयात्नि ॥ २३५–४२ ॥

इदानीं यथानिर्देशं ब्रह्महत्यादीनां प्रायश्चित्तान्य् आह ।

शिरःकपालध्वजवान् भैक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादश समा मितभुक् शुद्धिम् आप्नुयात् ॥ ३.२४३ ॥

शिरःसंलग्नम् एव कपालं ध्वजश् चिह्नं यस्य स एवमुक्तः । कपालग्रहणं चाखण्डशिरोवारणार्थम् । स्पष्टम् अन्यत् । एतच् च सार्ववर्णिकं प्रायश्चित्तम् । स्मृत्यन्तरे तु क्वचित् सामर्थ्यान् नियमः । यथाह शङ्कह्- “ब्रह्महा परिषदानुमतः खट्वाङ्गी गर्दभाजिनी मृन्मयपात्रपतितशिष्टान्नभोजी स्वकर्म विख्यापयंश् चरेद् बैक्षम् एककालाहारः शून्यागारनदीपर्वतगुहावृक्षमूलनिकेतनः । स एवं द्वादशे वर्षे शुद्धिम् आप्नोति, अन्तरा वा ब्राह्मणं मरणान् मोचयित्वा गवां वा द्वादशानां परित्राणात्, सद्य एव वाश्वमेधावभृथे स्नात्वा पूतो भवति” इत्य् उपक्रम्य, सर्वाणि प्रायश्चित्तन्य् अभिधाय, पुनस् तदन्ते गोसहस्रप्रदानम् उक्त्वा, पुनर् उक्तम्-

प्रायश्चित्तम् उपासीनो वाग्यतस् त्रिर् उपस्पृशेत् ।
एकवासार्द्रवासाश् च लघ्वाशी स्थण्डिलेशयः ॥
स्थानं वीरासनं मौनं मौञ्जी दण्डकमण्डलू ।
भैक्षचर्याग्निकार्यं च कूश्माण्डीभिः सदा घृतम् ॥ इति ।

न ह्य् अत्रैवर्णिकस्य कूश्माण्डीभिर् अग्निकार्यम् उपपद्यते । अतस् त्रैवर्णिकस्यैवैतत् । क्वचिच् चोपदेशाद् एव विशेषः । यथाह शातातपः- “ब्राह्मणो ब्राह्मणं हत्वा तस्य शिरःकपालम् आदाय” इति । अत्र कपालनियममात्रम् एव विशेषः । एवं यत्र सामर्थ्याच् छब्दतो वा कर्तृलाभः तन् नियतकर्तृकम् । यत्र त्व् अविशेषाभिधानम्, यथात्रैव, तत् सार्ववर्णिकम् । एवम् अन्यत्रापि योज्यम् । न चैकम् एवैतत् सर्वस्मृतिसिद्धं द्वादशवार्षिकं व्रतम् इत्य् आशङ्कनीयं, प्रतिस्मृति प्रयोगबेदस्य “वक्तारो धर्मशास्त्राणाम्” (य्ध् १.४–५) इत्य् अत्र श्लोके ऽभिहितत्वात् । अत एव च यदि शङ्खोक्तं द्वादशवार्षिकम् आरब्धम्, ततो ऽन्तरा ब्राह्मणं मरणान् मोचयित्वा गवां वा द्वादशानां परित्राणाच् छुद्धिः । अन्यत्र तु नियोगतः परिसमापनम् एव । अश्वमेधावभृथस् तु शाङ्खे ऽपि कल्पान्तरतयैव व्याख्येयः, श्रुतौ नैरपेक्ष्योपदेशात् । एवं हि श्रूयते-

स यदा राजानम् उन्नेतोन्नयति, अथैनस्विन उपतिष्ठन्ते ऽत उपब्रुवते इत्थं ब्राह्मणम् अवधिषम् इत्थं गुरोर् जायाम् अभ्यगाम् इति । निरुक्तम् एनो यथा यथा तान् ऋत्विजो राजा च ब्रूयुर् अश्वमेधावभृथपूता भवथेति । ते ऽपो ऽभ्यवयन्ति । यथाहिस् त्वचो निर्मुच्यते, एवं सर्वस्मात् पाप्मनो निर्मुच्यन्ते । तान् न जुगुप्सेयुः । स यावन्तम् अश्वेमेधेनेष्ट्वा लोकं जयति, त्रिस् तावन्तं जयति । यस्यैवं विदुष एवम् एनस्विनो ऽवभृथम् अभ्यवयन्ति ।

इति जाबालिश्रुतिः । इयम् एव हि कात्यायनेनापि निबद्धा- “उत्क्रान्ते यजमाने पापकृतो ऽभ्यवयन्त्य् अचरित्वा व्रतान्य् अश्वमेधावभृथाख्यास्त” इति । अतो नास्य स्मार्तप्रायश्चित्तार्थता घटते । न हि स्मृतिशेषत्वेन श्रुतिः शक्या कल्पयितुम् । यदि तु प्रक्रान्तद्वादशवार्षिकस्यैतत् स्यात्, ततः श्रुताव् एव तदनुवादेन विधीयेत । न चैवं श्रुतिर् अस्ति । अपि च, यदि श्रुतौ द्वादशवार्षिकानुवादः स्यात्, ततो ऽन्यतः प्राप्त्यभावात् तद् एव तावद् विधेयं स्यात् । न हि तथा श्रवणे सति स्मृतेर् मूलान्तरकल्पनोपपद्यते यतः । तत्राश्वमेधावभृथस्नानम् अङ्गत्वेन परिसमाप्त्यर्थं वा विधीयेत । न च नित्यस्यानित्यपरिसमाप्तिर् युक्ता । यदि तु नैमित्तिकी परिसमाप्तिर् उच्येत, तथा सति यदि कथंचिन् न स्नायात्, ततो द्वादशवार्षिके कृते ऽपि न शुध्यति । अथ तु नैमित्तिकं तदङ्गं स्नानम् इत्य् उच्येत, तथा सत्य् अवभृथे स्नात्वापि द्वादशवार्षिकशेषं परिसमापनीयम् एव स्यात् । अतो ऽश्वमेधावभृथस्य स्वातन्त्र्यकल्पनैव न्याय्या । अत एव च वासिष्ठे भ्रूणहत्याप्रकरणम् उल्लङ्घ्यान्यत्रोक्तम्- “अथापरं भ्रूणहत्याया द्वादशरात्रम् अब्भक्षो द्वादशरात्रम् उपवसेद् अश्वमेधावभृथं वा गच्छेत्” इति (वध् २३.३७) । लघुत्वाद् अस्यान्यशेषत्वाशङ्कापि कस्यचित् स्यात् । अत एव शङ्खेनापि- “सद्य एवाश्वमेधावभृथे स्नात्वा पूतो भवति” इति सद्य एवेत्य् अवधारणाद् द्वादशाब्दाकरणाच् चास्य स्वातन्त्र्यम् एव दर्शितम् । एतच् च शङ्खोक्तं क्षत्रियवैश्ययोर् एवाधीतवेदयोर् अनग्निकयोश् चाकामतो गुणवद्ब्राह्मणवधे द्रष्टव्यम्, कामतो ह्य् एतद् एव गोसहस्रदानोपचितम् । शूद्रसाप्य् एतद् दानसहितं मन्त्रवर्जं वाकामकृत एव । कामकृते तु शूद्रस्य मरणान्तिकम् एव । प्रतिलोमानां त्व् अकामतो ऽपि मरणान्तिकम् एव । कुत एतत् । शङ्खवचनाद् एव- “अत ऊर्ध्वं पतनीयानि” इति प्रकृत्य, “निष्कृतिस् तेषां विहिता सद्भिर् अकामकृते” इत्य् उक्तम् । क्षत्रियवैश्ययोश् चैतत् । अन्यत्र स्वल्पेतिकर्तव्यतायुक्तं ब्राह्मणस्योपदिष्टं यतः “ब्राह्मणो ब्राह्मणं घातयित्वा तस्य शिरःकपालम् आदाय तीर्थान्य् अनुचरेद् आत्मनः पापं संकीर्तयन् द्वादशे वर्शे शुद्धिम् आप्नोति, अथाश्वमेधं पश्यति तस्य दर्शनाद् एव शुद्धिम् आप्नोति” इति [शातातपः] । तच् च स्वशब्दोपादानाद् ब्राह्मणस्यैव । न चैतत् कामकृतविषयं ब्राह्मणस्यापीति वक्तुं शक्यम्, अकामकृत इति वचनात् । अतः क्षत्रियवैश्ययोर् एवैतद् इति युक्तम् । शूद्रस्य त्व् असामर्थ्यान् नैतद् युक्तम् । अनग्निकयोर् इति कुतो लब्धम्, केवलस्य पुंसो ऽविधानात्, पत्न्यधीनत्वाच् चाग्निसाध्यानां कर्मणाम्, तस्याश् च पतनकारणाभावात् । यत्रैवोभयोः पतनम्, तत्रैव वैतानिकसंबद्धानि प्रायश्चित्तानि । अन्यतरपतने तु शरीरमात्रसाध्यैर् एवाधिकारः । न चात्र किंचिद् औपासनादिसंबद्धं कर्मास्ति । यत् तु कूश्माण्डीभिर् अग्निकार्यम्, तत् समिदाधानं ब्रह्मचारिसंबन्धिवत् प्रत्येतव्यम् । तच् च लौकिक एवागौ युक्तम् । गर्दभाजिनोपदेशाच् चात्रावकीर्णिपशुर् अपि यदि प्राप्नोति, सो ऽपि लौकिक एवाग्नौ युक्तः । अतो ऽनगिकस्यैवैतद् इति स्थितम् । ननु एवम् अपि यदि नामाग्नेर् अत्रोपयोगो न स्यात्, न त्व् अनग्निकस्यैव प्रायश्चित्तम् इति । स्तयम् । यद्य् अत्राप्य् अग्निसंबन्धं प्रायश्चित्तान्तरं न स्यात् । तद् अपि तु श्रूयत एव । तद् यथा- “यजेत वाश्वमेधेन” (म्ध् ११.७४) इत्यादि मानवम् । तत्राश्वमेधो राष्ट्राधिपतेर् एव, “तस्माद् राष्ट्र्य् अश्वमेधेन यजेत” इति श्रुतेः । स्वर्जिदादयस् त्रयाणाम् अपि वर्णानाम् इष्टप्रथमयज्ञानां भवन्ति । न च तेषाम् अन्यत् प्रायश्चित्तम् अस्ति, सापेक्षत्वेन विषमशिष्टविकल्पासंभवात् । तदनधिकृतानाम् एवान्यत् प्रायश्चित्तं युक्तम्, तस्यानन्यविषयत्वाद् इष्टप्रथमयज्ञस्य । अनन्यविषयत्वाद् अनिष्टप्रथमयज्ञस्याप्य् आहिताग्नेर् अग्निष्टोम एव प्रायश्चित्तम् । गौतमेनाश्वमेधावभृथम् उक्त्वा, “अन्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत्” इत्य् उक्तम् (ग्ध् २२.९–१०) । न चाग्निष्टुदन्तः कश्चित् क्रतुर् अस्ति, सत्राहीनयोः प्रायशो ऽतिरात्रान्तत्वात् । यत्रापि क्वचिद् अतिरात्रान्तता नास्ति, तत्राप्य् अग्निष्टुदन्तता नास्त्य् एव । अतो ऽयम् अग्निष्टुच्छब्दो ऽन्वग्निष्टोमस्तोत्रवचनो द्रष्टव्यः । तदन्तश् चाग्निष्टोम एव भवति । यस्य चान्यप्रयुक्तस्याप्य् अवभृते स्नात्वा शुद्धिर् भवति, तत्र स्वयंप्रवृत्तेर् दण्डापूपन्यायेन सिद्धेर् अग्निष्टोमस्यास्त्य् एव विधानम् । काठके ऽप्य् अश्वमेधवद् अग्निष्टोमस्यापि “भ्रूणहत्याया वा एषो ऽतिमुच्यते, यो ऽग्निष्टोमसंस्थं यजते” इत्य् आहिताग्नेर् अग्निष्टोम एवानिष्टप्रथमयज्ञस्य । इतरस्य तु स्वर्जिदादयो द्रष्टव्याः । यस्य त्व् औपासनमात्रम्, तस्यान्यत् प्रायश्चित्तं शाङ्ख एवोक्तम् । तत्र प्रायश्चित्तम् अकामावाप्तौ । कामकृते ऽप्य् एके-

पतितो ह्य् आत्मानम् उद्धरेत् । संवत्सरं तप्तकृच्छ्रम् आचरेत् । कृतवापनः शुचिर् अपो ऽभ्यवेयात् त्रिर् एकार्द्रवासाः काष्ठमौनी वीरासनम् आसीत रात्रौ, दिवा तिष्ठेद् युक्तो ऽग्निकार्यपरः सावित्रीं सवनानुगां जपेत्, स्वयं व्रतम् अभ्युपगम्य कुशचीरफलकवासा मौञ्जी मेखली दर्भपवित्रपाणिर् हविष्यं श्रपेच् चरुं भैक्षम् अदुष्टं वा यात्रिकम् अश्नीयाद् द्वादशरात्रं चोपवासो ब्राह्मणतर्पणं गवाह्निकम् इत्य् एवं व्यवहार्यो ऽन्यथा पतितः शिष्टैर् असंभाष्यः । इति

यद्य् अपि चैतद् “न विक्रीणीयाद् अविक्रेयाणि” इति प्रकृत्य, “तिलमधुगुलघृततैलेत्यादिनीलीपर्यन्तविक्रयात् सद्यः पतति” इत्य् उक्त्वोक्तम्, तथाप्य् एतन् न तद्विषय्त्वेन प्रायश्चित्तं युक्तम्, “पतितो ह्य् आत्मानम् उद्धरेत्” इति श्रुतेः । न चैषा पूर्वत्रोपयुज्यते, प्रकृतत्वेनैव सिद्धत्वात्, प्रायश्चित्तस्य चातिगुरुत्वेन महापातकोचितत्वात् । अतः श्रुतेः सामर्थाच् च प्रकरणस्य बाधितत्वान् महापातकप्रायश्चित्तम् एवेति व्याख्यातृसंप्रदायाविच्छेदात् सिद्धम् । तथा च सुमन्तुना-

रागद्वेषाद् अलभ्य्माने प्रायश्चित्ते जपहवनाध्ययनब्रह्मचर्यपरो भैक्षाशी दण्डी मेखली त्रिषवण्य् अधःशायी स्वयम् एव महद् अशुभं पुनाति । न ब्राह्मणस्य पतनम् इच्छन्त्य् आचार्याः, किल्बिष्य् उपगतः पातव्य इत्य् आङ्गिरसे । इति ।

ब्राह्मणग्रहणं चात्र प्रदर्शनार्थम् । यत्र च स्वयम् अभ्युपगम्य संवत्सराच् छुद्दिर् इष्यते, तत्रावश्यं ततो ऽधिकं परिषदा न दातव्यम् । तथा चानेनैवोक्तम्- “ब्रह्महसुरापगुरुतल्पगसुवर्णस्तेयिनां महापातकिनां वक्ष्यामः प्रायश्चित्तम्” इति ।

ब्रह्महा संवत्सरं कृच्छ्रं चरेद् अधःशायी स्वकर्माचक्षाणो भैक्षाहारो दिव्यनदीपुलिनशायी सद्ग्रामाश्रमगौष्ठपर्वतप्रस्रवणतपोनवविहारी स्यात् । संवत्सरे पूर्णे हिरण्यमणिगोवृषान्नतिलभूमिसर्पींषि ब्राह्मणेभ्यो दत्त्वा पूतो भवत्य् अश्वमेधावभृतस्नानेन वा सद्यः । इति ।

“अतो ऽर्धम् अर्धं क्षत्रियवैश्यवधे व्याख्यातम्” इति जपहवनस्वाध्यायपरतादि पूर्वोक्तं च समुच्चीयते । कृच्छ्रशब्दश् चायं तप्तकृच्छ्रे द्रष्टव्यः । तद् एतन् नासत्य् औपासने भवति, “कर्म स्मार्तं विवाहाग्नौ” (य्ध् १.९६) इति नियमात् ।

  • ननु एतद् अप्य् अपत्नीकस्य पतने नैव युक्तम्, “जायापत्योर् न विभागो विद्यते । पाणिग्रहणाद् धि सहत्वं कर्मणस् तद्द्रव्यफलेषु च” (आप्ध् २.१४.१६–१८) इति स्मरणात् । न च पत्न्याः पतनं,

आ शुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः । (य्ध् १.७६)

इत्य् उक्तत्वात् ।

  • सत्यम् एवम्, वैतानिके पत्न्या विना कर्मानुष्ठानासंभवात् । स्मार्तानि तु कृतावसथ्यस्यैव कैवल्यसंबन्धीन्य् अपि कर्माण्य् औपासने भवन्ति । यथा ब्रह्मयज्ञसंबन्धीनि प्रायश्चित्तानि । न हि ब्रह्मयज्ञे सपत्नीकस्याधिकार इति शक्यं वक्तुम् । न च तद्गते ऽप्य् अपचारे महाव्याहृतिहोमाद्यधिकारः । एवम् उपाकर्मण्य् अपि । यथा च तत्र, तथौपासने युक्तत्वाद् धोमानां केवलस्यापि पतने प्रवृत्तिर् अव्याहतैवेत्य् अलं प्रसङ्गेन ।

  • अतः स्थितम् एतत् क्षत्रियवैश्ययोर् अनग्निकयोर् अधीतवेदयोश् च गुणवद्ब्राह्मणवधे शङ्खोतं द्वादशवार्षिकम् इति । शूद्रस्य च ब्राह्मणमात्रवधे आपस्तम्बेन द्वादशवार्षिकम् उक्तम् । शूद्रापेक्षया च क्षत्रियवैश्ययोर् अल्पं प्रायश्चित्तम् इत्य् एतद् दर्शयिष्यामः । अत इदं गुणवद्ब्राह्मणवध इत्य् उक्तम् । काककृते तु गोसहस्रदानसहितम् । कुत एतत् । शङ्खवचनाद् एव- “चतुर्षु वर्णेषु प्रमाप्य द्वादश संवत्सरान् षट् त्रीन् संवत्सरं च व्रतम् आदिशेत्, तेषाम् अन्ते गोसहस्रं तथो ऽर्धं तस्यार्धं तदर्धं च दद्यात्, सर्वेषाम् आनुपूर्व्येण” इति । शूद्रस्य चैतत् प्रायश्चित्तं सामर्थ्यात् विज्ञेयम् । न ह्य् उत्कृष्टवर्णानाम् अपकृष्टवध एतत् संभवति । एवं ह्य् उक्तम्- “सर्वेषाम् अन्योन्यापकृष्टवधे चान्द्रायणम्” इति । अतः शूद्रस्यैव वित्तवत इदं प्रायश्चित्तम् । निःस्वस्य त्व् आपस्तम्बोक्तम्, वैश्यस्य वा समस्तं चोक्तम् । ततश् च क्षत्रियवैश्ययोः कामकृत एतत् स्यात्, शङ्खवचनाद् एव, यथापकृष्टं च यद् अकामकृते कामकृते तद् यथोत्कृष्टम् इति, अतः कामकृते गोसहस्रसहितम् इत्य् एषा दिक् ।

  • आपस्तम्बोक्तं तु शूद्रविषयम्-

पूर्वयोर् वर्णयोर् वेदाध्यायिनं हत्वा सवनगतं वाभिशस्तः । ब्राह्मणमात्रं च । गर्भं च तस्याविज्ञातम् । आत्रेयीं च स्त्रियम् । तस्य निर्वेशः । अरण्ये कुटिं कृत्वा वाग्यतः शवशिरोध्वजो ऽर्धशाणीपक्षम् अधोनाभ्य् उपरि जान्वोर् आच्छाद्य । तस्य पन्था अन्तरा वर्त्मनी । दृष्ट्वार्यम् अतिक्रामेत् । खण्डेन लोहितेन शरावेण ग्रामं प्रतिष्ठेत । ततो ऽभिशस्ताय भिक्षाम् इति कर्माचक्षाणः सप्तागाराणि चरेत् । सा वृत्तिः । अलब्धोपवासः । गाश् च रक्षेत् । तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामे ऽर्थः । द्वादश वर्षाणि चरित्वा सिद्धः सद्भिः संप्रयोगः । आजीपथे वा ब्राह्मणगव्युपजिगीषमाणस् त्रिः प्रतिराद्धो ऽवजित्य वा मुक्तः । आश्वमेधिकं वावभृथम् उपेत्य मुच्यते । धर्मार्थसंनिपाते अर्थग्राहिण एतद् एव । इति । (आप्ध् १.२४.६–२३)

अत्र च पूर्वयोर् वर्णयोर् इति शूद्रापेक्षया क्षत्रियवैश्याव् उक्तौ, ब्राह्मणमात्रं चेति वचनाद् न ब्राह्मणक्षत्रियौ पूर्ववर्णाव् इति घटते । तेनैतच् छूद्रस्येति द्रष्टव्यम् । न चात्र जपहोमादि किंचिच् छ्रुतम्, येन त्रैवर्णिकविषयत्वम् आशङ्क्येत । अनेनैवान्यत्रापि जातिकृता गुणकृता च व्यवस्था व्याख्येया । द्वादशसु च स्मृतिषु द्वादश वारिषिकाणि पठ्यन्ते । तान्य् एवं विवेक्तव्यानि । तत्र मानवं याज्ञवल्कीयं च सर्ववर्णानाम् । तत्र च ब्राह्मणस्य कामकृते गुणवद्ब्राह्मणवधे, क्षत्रियवैश्ययोर् अकामकृते निर्गुणवधे, शूद्रस्य त्व् अकमकृते ब्राह्मणमात्रवधे, एवं वैश्यस्यापि क्षत्रियापेक्षया सर्वत्र च गुरुतरं प्रायश्चित्तं प्रयोज्यम् ॥ २४३ ॥

ब्रह्महत्यायाम् एवेदम् अन्यत् प्रायश्चित्तम् ।

लोमभ्यः स्वाहेति हि वा लोमप्रभृति वै तनुम् ।
मज्जान्तं जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम् ॥ ३.२४४ ॥

हिशब्दवैशब्दौ पादपूरणार्थौ । वाशब्दश् चाज्यापेक्षया लोमादिद्रव्यविकल्पार्थः । तनुः शरीरम् । तद् लोमप्रभृति लोमानि त्वचं च लोहितं मेदो मांसं स्नाय्व् अस्थि मज्जानम् इत्य् एवमन्तम् । लोमभ्यः स्वाहेत्य् एतैर् यजुर्वेदपठितैर् आश्वमेधिकैर् द्विरभ्यस्तैर् मन्त्रैर् जुहुयात् । आज्यं वा द्विरभ्यस्तैः प्रत्येकं षोडशभिर् जुहुयात् । वापीत्य् अयं तु द्वितीयो वाशब्दः पूर्णप्रायश्चित्तापेक्षया विकल्पार्थः । स नैककर्त्रपेक्षया । ब्रह्महत्यायाम् एकस्याम् एव यथाधिकारं कर्तृभिर् द्वादशवार्षिकम् इदं वा कर्तव्यम् इत्य् अर्थः । ततश् चैतत् सामर्थ्याद् अधीतवेदस्याग्निमतश् च स्यात् । लोमप्रभृतीनां चात्र चतुर्थ्या मान्त्रवर्णिकं देवतात्वम् । ततश् च य एव लोमत्वगादीनाम् अध्यात्माधिदैवाधियज्ञवित्, तस्यैवाधिकारः । तदधिगमविशेषापेक्षया च द्रव्यविकल्पव्यवस्था व्याख्येया । न चात्र शरीरदाहः, वचनाभावात् । लोमादीनां कार्त्स्न्येन होतुम् अशक्यत्वाद् अवश्यम् एकस्माद् एवाङ्गुल्यादेर् अवयवाद् धोतव्याः । तेन नैतन् मरणान्तिकम् इति व्याख्येयम् । वासिष्ठे ऽप्य् एवम् एव- “भ्रूणहाग्निम् उपसमाधाय जुहुयात्, ऽलोमानि मृत्योर् जुहोमि, लोमभिर् मृत्युं वासये प्रथमाम्” इत्य् आरभ्य, “मज्जानं मृत्योः” इत्येवमन्तम् (वध् २०.२५–२६) । तत्रापि होममात्रम् एव, शरीरप्रक्षेपस्यानुपदेशात् । ये त्व् अल्पत्वात् प्रायश्चित्तस्य, स्मृत्यन्तरे च,

प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः । (म्ध् ११.७३)

इति शरीरत्यागदर्शनाद्, अत्रापि शरीरत्यागं वर्णयन्ति, ते संहिताध्ययने किम् इत्य् आ मरणाद् आवृत्तिर् न कुर्वन्ति- “त्रिः संहिताम् अधीत्यातो नियतं भुक्त्वा पुनस् त्रिः” इति । एवं सर्वेषां जीवप्रायश्चित्तानाम् अल्पत्वाद् यथासंभवं मरणान्तिकैः सह तुल्यतासिद्ध्यर्थं कल्पना प्रसज्येत । अथ कथंचित् तेषु विषयकल्पना, ततो ऽत्रापि तद् एव युक्तम्, न त्व् अश्रुत एवाग्नौ शरीरप्रक्षेपः । अतश् च वासिष्ठे ऽपि होम एवेति स्थितम् । यद् अपि “भ्रूणहाग्निम् उपसमाधाय जुहुयात्” (वध् २०.२५) इति होमवचनाद् एव प्राप्तस्याग्नेः पुनर्वचनम्, तद् अपि न लौकिकाग्निप्राप्त्यर्थम्, अदृष्टकल्पनाप्रसङ्गात् । भ्रूणहतया (??) वा कस्यचिन् मन्दबुद्धेः संस्कृताग्निविनाशाशङ्का मा भूद् इत्य् एवं व्याख्येयम्, न तु वचनप्राप्तस्याग्नेः संस्कृतस्य ज्ञापकमात्रेण त्यागकल्पनेत्य् एषा दिक् । स्पष्टतरं तु विषयकल्पनां प्रायश्चित्तप्रकरणस्यान्ते वक्ष्यामः ॥ २४४ ॥

तथेदम् अन्यद् वैकल्पिकम् ।

ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य वा ।
तथाश्वमेधावभृतस्नानाद् वा शुद्धिम् आप्नुयात् ॥ ३.२४५ ॥

ब्राह्मणग्रहणं चात्र गुणवति द्रष्टव्यं न जातिमात्रे, समासाकरणात् । समासे हि लिङ्गानभिव्यक्तेर् जातिमात्रप्रतिपत्तिः स्यात् । ननु एवम् अपि पुंस इत्य् एव लभ्यते, न तु गुणवत इत्य् अपि । सत्यम् एवम् । किं त्व् एवं सति स्त्रीत्वनिवृत्त्यर्थत्वात् परिसंख्या स्यात् । लिङ्गवच् चैकत्वस्यापि विवक्षितत्वाद् ब्राह्मणद्वयपरित्राणे वैगुण्यं प्रसज्येत । अथातन्त्रं लिङ्गं तत्सहचरिताध्ययनादिगुणप्राप्त्यर्थं भवेत् । ततो न कश्चिद् दोषः । तेन गुणवतो ब्राह्मणस्य परित्राणाद् इत्य् एव युक्तम् । परिशब्दाच् च सर्वतः स्वप्राणपरित्यागेनापीत्य् अर्थः । गवां द्वादशकस्य वेत्य् अत्रापि गुणवतो ब्राह्मणस्य स्वभूतानाम् इत्य् अधिकाराल् लब्यते । तथाशब्दः प्रकारार्थः । यथा “शिरःकपाली” इत्यादिना शुद्धिम् अवाप्नुयात्, तथा गोब्राह्मणपरित्राणाद् अप्य् अन्यानपेक्षाद् एवेत्य् अर्थः । तथा च मनुना-

कृतवापनो वा निवसेद् ग्रामान्ते गोव्रजे ऽपि वा ।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ (म्ध् ११.७८)

इत्य् उक्त्वोक्तम्-

ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥ इति । (म्ध् ११.७९)

तेन ज्ञायते प्रायश्चित्तान्तरम् इदं न तु प्रक्रान्तद्वादशवार्षिकस्य । तद्विषयत्वेन “गोब्राह्मणहिते रतः” इत्य् अनेनैव सिद्धत्वाच् छ्लोकान्तरारम्बो निष्प्रयोजनः स्यात् । न चानेन प्रकारेण हिते रतः स्याद् इत्येवमर्थः श्लोकान्तरारम्भ इति युक्तम्, वाशब्दवैयर्थ्यात्, “गोप्ता गोब्राह्मणस्य वा” इति च पुनरभिधानात् । अतः स्वतन्त्रम् एवेदं प्रायश्चित्तान्तरं भगवतो ऽभिप्रेतम् । अत एव च निःसंदिघेनाश्वमेधावभृथस्नानेनास्य वैकल्पिकत्वम् आचार्येणोक्तम्-

तथाश्वमेधावभृतह्स्नानाद् वा शुद्धिम् आप्नुयात् । इति ।

यथा चाश्वमेधावभृथस्यान्यत्रानुप्रवेशो न संभवति, तथा प्रदर्शितम् एव । शङ्खोतस्य च “अन्तरा वा ब्राह्मणान् मरणान् मोक्षयित्वा” इति तद् उक्तद्वादशवार्षिकविषयं न सार्वत्रिकम् इत्य् एतद् व्याख्यतम् एव ॥ २४५ ॥

तथेदम् अन्यत् वैकल्पिकम् ।

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः ॥ ३.२४६ ॥

आमयो रोगः । तेन दीर्घेण चिरकालप्ररूढतयात्यर्थं कृच्छ्रसाध्येन तीव्रेण च राजयक्ष्ममहाकुष्ठादिना ग्रस्तम् एकान्ततो भुक्तम् । ब्राह्मणम् इत्य् अत्रापि पुंल्लिङ्गनिर्देशो ऽध्ययनादिगुणप्रतिपत्त्यर्थ एव, न स्त्रीत्वनिवृत्त्यर्थः । अथशब्दस्योत्कृष्य वाशब्देन सह योजना- अथ वोक्तविशेषणां गाम् अपीति । अपिशब्दश् चैकसंख्यापेक्षया संभावनार्थः- ब्राह्मणजातीयं निर्गुणम् अपि, तथैकम् अपि, किम् उत गुणवन्तो भूयांसो वेत्य् अभिप्रायः । पथि दृष्ट्वेत्य् अभिसंधिनिवृत्त्यर्थम् । निरातङ्कं निःशेषरोगच्छेदान् निर्भयं व्यपगताकूतं स्वस्थं कृत्वा । वाशब्दाद् आ मरणाद् वा सर्वात्मना सर्वस्वेनापि स्वप्राणोपरोधेनापि शुश्रूषित्वा । ब्रह्महा शुचिः स्याद् इति प्रकृतत्वे ऽपि ब्रह्महा शुचिर् इति पुनर् वचनं सर्वाधिकारप्रतिपत्त्यर्थम्, सर्वत्रामतिपूर्वे कामकृते च त्रैवर्णिकानाम् इदं परिचर्यमाणब्राह्मणगुणापेक्षया भूयस्त्वापेक्षया परिचारकशक्तिगुनापेक्षया च योज्यम् । शूद्रस्याप्य् अमतिपूर्व एतद् भवत्य् एव परित्राणं तदात्वविषयम् । यथा प्रदीप्ते वेश्मन्य् अन्तर् ब्राह्मणं गोद्वादशकं वा निःसरणासमर्थं स्वमरणम् अङ्गीकृत्य प्रविश्यातिवाहयेद् यः, स तत्परित्राणाद् मरणाद् वा शुध्यतीति । अत्र तु आ निरातङ्कभावाद् आ मरणाद् वा परिचर्येति पुनरारम्भः ॥ २४६ ॥

तथेदम् अन्यद् वैकल्पिकं ब्रह्महत्यायाम् एव ।

आनीय विप्रसर्वस्वं हृतं घातित एव वा ।
तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि विशुध्यति ॥ ३.२४७ ॥

सर्वस्ववचनं बहुत्वोपलक्षणार्थम्, भूयसो ह्य् अपहृतस्य प्रत्यानयनं दुष्करं यतः । सर्वस्वं तु कदाचित् घटमात्रम् अपि भवति । तच् चाल्पेनापि प्रयासेन शक्यम् आहर्तुम् । तत्र घातितवचनं नातीव समञ्जसं स्यात् । घातित एवेति चैवकारेण यत्र हृतप्रत्याहरणे मरणम् एवौचित्यात् प्राप्नोति तत् सर्वस्वम् इति स्पष्टयति । ततश् च तदाहरणनिमित्तं यथाशक्त्याघातितो ऽपि पुनः पुनर् उत्थाय व्यायच्छन्न् अनेकशः शस्त्रैः क्षतो यदि जीवति, तथाप्य् अनाहृते ऽपि द्रव्ये विशुध्यत्य् एव । एतच् चाक्षत्रियस्याहरणसंभावनायुक्तस्य च प्रायश्चित्तम् । क्षत्रियस्य त्व् एतन् नित्यत्वाद् अनुपदेश्यम् एव । यस्याप्य् उदाहरणसंभावनास्ति, तस्याप्य् आनीयेत्य् एतन् नातीव समञ्जसम् । तेन संभावितस्याक्षत्रियस्य चेति स्थितम् । शस्त्रग्रहणं च प्रतिपक्षस्य दुर्जयत्वं प्रदर्शयितुम् । तेनाशस्त्रैर् अपि पाषाणादिभिर् निश्चेष्टीकृतः क्षतम् अन्तरेणापि शुध्यतीत्य् अवसेयम् ॥ २४७ ॥

तथेदम् अपरं प्रायश्चित्तद्वयम् ।

अरण्ये नियतो जप्त्वा त्रिष्कृत्वो वेदसंहितां ।
शुध्येत वा मिताशीत्वा प्रतिस्रोतः सरस्वतीम् ॥ ३.२४८ ॥

ग्रामान् निष्क्रम्यारण्ये स्थित्वा नितरां यतः तदर्थानुसंधानैकनिष्ठः त्रिरावृत्त्या वेदसंहितां, मन्त्रब्राह्मणम् इत्य् अर्थः । संहिताग्रहणं चारमणथानेष्व् एवारमणनियमार्थम् । पदक्रमादीनां तु पुरुषकृतत्वाद् एव व्यावृत्तेर् न तन्निवृत्त्यर्थं संहितावचनम् । त्रिर् इत्य् एतावता च सिद्धे त्रिष्कृत्व इत्य् उक्तं कृत्वसुज्विषयावृत्तिसिद्ध्यर्थम्[^१५] (?) । तेन पञ्चकृत्वः षट्कृत्वः इत्य् एवमाद्य् अप्य् अत्रानुबन्धगुणापक्षया योज्यम् । मानवे ऽपि ।

जपेद् वा नियताहारस् त्रिर् वै वेदस्य संहिताम् । इति । (म्ध् ११.७७)

वेदस्य त्रिर् इति संबन्धाद् एकस्य त्रिर् जप्त्वा ततो वेदान्तरस्य त्रिर् इत्य् एवं योज्यम्, अस्माद् एव कृत्वसुच्प्रयोगात् । वैशब्देन च प्रसिद्धार्थद्योतकेनैतद् एव द्योतितम्- स्मृत्यन्तरसंप्रदायापेक्षः श्लोकार्थो ग्राह्य इति । एतच् च विद्वद्विषयत्वाद् वेदार्थज्ञस्यैव प्रायश्चित्तं तद्विशेषापेक्षया योज्यम् । अन्ये त्व् अरण्य एव यो नियतः स जप्त्वा त्रिष्कृत्वो वेदसंहितां शुध्यतीत्य् एवं वनस्थस्यैवैतद् इति व्याचक्षते । तत् त्व् अरण्यस्य मानवे ऽनुपदेशाद् अविशेषाभिधाने ऽपि च तत्सिद्धेर् नावश्यम् अङ्गीकर्तव्यम् । “शुध्येत वा मिताशीत्वा”- मिताशी च यथाश्रमोचितम् “अष्टौ ग्रासा मुनेर् भक्तम्” (आप्ध् २.९।१३) इत्येवमादि, न पथि श्रान्तो ऽपि गोतृप्त्या वर्तेतेत्य् अर्थः । मिताशी इत्वा गत्वेत्य् अर्थः । श्रोतो ऽभिमुखः सोमेश्वराद् आरभ्याप्लक्षम् । मानवे तु “हविष्यभुग् वा” (म्ध् ११.७७) इत्य् उक्तम् । तच् च यतिब्रह्मचारिणोर् यथोक्तलक्षणं भैक्षम् एव । इतरयोस् तु स्वधर्मानुसारेणौपासनश्रामणकाग्निसंस्कृतव्रीहियवश्यामाकनीवारादि प्रत्येतव्यम् । ननु च पतितस्याश्रमव्यवस्था नैवास्ति, पतितत्वाद् एव, “द्विजातिकर्मभ्यो हानिः पतनम्” (ग्ध् २१.४) इति गौतमवचनात् । सत्यम् एवम्, प्राक् प्रायश्चित्तप्रवृत्तेः । प्रायश्चित्तप्रवृत्तौ तु यथावर्णं यथाश्रमं च प्रायश्चित्ताविरोधेन वर्तितव्यम् । यदि तु पतितत्वेनाश्रमव्यवस्थापगमः स्यात्, ततः पतितस्याहवनीयाद्यग्निविनाशाद् अग्निष्टुदादिचोदना दुःश्लिष्टा एव स्युः । तेन सत्य् अपि पतने गृहस्थत्वस्यानपगमाद् अगीनाम् अविनाशः । अतश् चान्यतरपतने सूतकादाव् इवान्यतरेणाग्नयो धार्याः । शुद्ध्यनन्तरकाले च कर्मप्रवृत्तिः । उभयपतने त्व् अपरित्यज्यैवाग्नींस् तत्पालनम् उभाभ्यां कर्तव्यम् । प्रायश्चित्तं च तत्संबन्धापरित्यागेन जपहोमादिलक्षणं प्रत्येतव्यम् । तेन सरस्वतीप्रायश्चित्तम् अपि हविष्यभोजननियमाद् यथाश्रमं स्वधर्मानुसारेण व्याख्येयम् । अनग्निकस्य तु स्नातकस्यापि भिक्षाहारत्वम् “भैक्षाहारो वा सरस्वतीं प्रतिस्रोतसम्” इति हारीतवचनाद्, इत्य् एषा दिक् ॥ २४८ ॥

तद् एतद् अपरं क्षत्रियस्यैव प्रायश्चित्तम् ।

संग्रामे वा हतो लक्षभूतः शुद्धिम् अवाप्नुयात् ।

किं मरणान्तिकम् एवेदं प्रायश्चित्तम्, प्रवृत्तिस् तावत् कृतमरणनिश्चयस्यैव ।

तथा प्रवृत्तस् तु सः ।

मृतकल्पः प्रहारार्तो जीवन्न् अपि न शुध्यति ॥ ३.२४९ ॥

संग्रामवचनं क्षत्रियाधिकारप्रतिपत्त्यर्थम् । लक्षभूत आत्मनो रक्षाम् अकुर्वन् संनहनादिरहितः परकीयशस्त्राण्य् अकवचयन् सांग्रामिकविधिना राजार्थे गवार्थे ब्राह्मणार्थे वाभिमुखो घातितः । तथा च वसिष्ठः- “राजार्थे ब्राह्मणार्थे गवार्थे वा संग्रामे ऽभिमुख आत्मानं घातयेत्” इति (वध् २०.२७) । अस्वामी च राजा प्रत्येतव्यः । शुद्धिम् आप्नुयाद् इति संशयव्युदासार्थो लिङ्प्रयोगः । तथा चाह मनुः ।

लक्षं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः । (म्ध् ११.७३)

विदुषां शस्त्रविदां संग्रामनिपुणानाम् । आत्मन इच्छया न स्वाम्यादेः । शरवेध्यकम् इवात्मानम् अगोपायन् युद्धाभिमुखो भवेत् । नात्र संशयः कार्य इत्य् अत्रापि संशयव्यावृत्त्यर्थ एव लिङ्प्रयोगः ।

प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः । (म्ध् ११.७३)

इत्य् एतद् अपि ब्राह्मणव्यतिरेकेणैव । स्तेयाधिकारे “ब्राह्मणस् तपसैव च” (म्ध् ११.१००) इति ब्राह्मणस् तपसैव पापम् अपनयेद्, न मरणान्तिकेनेति । एतच् च स्तेयाधिकारोक्तम् अपि विशेषवचनाद् ऋते सर्वविषयं द्रष्टव्यम् । तथा चापस्तम्बेन “गुरुतल्पगः सूर्मीं ज्वलन्तीं प्रविश्यात्मानं दहेत्” इत्य् उपक्रम्य, “मिथ्यैतद् इति हारीतो यो ह्य् आत्मानं परं वाभिहन्यते ऽभिशस्त एव सः” इत्य् अनेन विधिना “ओत्तमाद् उच्छ्वासाच् चरेत्” (आप्ध् १.२८.१६–१८) इत्य् अब्राह्मणाभिप्रायेणैव दर्शितम् । आचार्येण त्व् अग्निप्रवेशो नोक्तः, प्रत्यक्षश्रुतिचोदितत्वात् । एवं हि काठके श्रूयते- “अनाशकेन कर्शितो ऽग्निम् आरोहेत् त्रिर् अवाक्शिराः” इति । अत एवाश्वमेधस्वर्जिदादीनाम् अप्य् अत्रानुपदेशः । मानवे तु श्रौतस्मार्तानाम् एकीकृत्योपन्यासः समानार्थतयैव स्मार्तानां बाधाशङ्कानिवृत्त्यर्थः । एवं तर्हि बाध एव स्मार्तानां युक्त इति व्यर्थो भगवतः प्रयत्नः । सत्यं, यद्य् एकविषयता स्यात् । अत एव विषयभेदेन व्याख्यातम् । इतरथा हि वाशब्दाद् एकनिमित्तसंबन्धाच् च यदृच्छाविकल्प एव स्यात् । यन् नामाविशेषेणैव प्राप्नोति, तत्रैव कल्पान्तरानर्थक्याद् विषयव्यवस्था । यथा दर्शितम्- “यो ऽश्वमेधेन यजते, य उ चैनम् एवं वेद” इति (च्ड़्। शब् ओन् प्म्स् १.२।४) । न ह्य् अनधीत्याश्वमेधेन यष्टुं कश्चिच् छक्नुयात् । अत एव, “अर्के चेन् मधु विन्देत किम् अर्थं पर्वतं व्रजेत्” इति, “तेनैव पथा मध्वर्थिनः पर्वतं गच्छेयुः” इति च शाबरे (शब् ओन् प्म्स् १.२।४) दर्शितम् । न चात्राल्पत्वमहत्त्वे विद्येते । कस्यचिद् धि क्लेशासहिष्णोः सात्त्विकस्य द्वादशवार्षिकामरणम् एव सुकरम् । अन्यस्य तु क्लेशसहिष्णोः सत्त्वहीनस्येतरत् । एवम् उदारतृष्णापरापेक्षया मरणसर्वस्वदानयोस् तुल्यता । विद्वन्मूर्खयोश् च संहिताध्ययनमरणद्वादशवार्षिकादिष्व् एवम् एव । न च यस्याविशिष्टं त्रयोदशस्व् अपि सामर्थ्यं, तम् एवैकं पुरुषम् अङ्गीकृत्य मानव आरम्भः । तथा सति समविक्ल्प एव स्यात् । अतो विषयव्यवस्थयैव श्रौतस्मार्तानां परस्परव्याख्यानम् उपदेशबलेनैवानुसर्तव्यं न त्व् अन्यानर्थक्येन इत्य् एषा दिक् ॥ २४९ ॥

वित्तवतस् त्रैवर्णिकस्येदम् अन्यत् प्रायश्चित्तं पूर्वोकवैकल्पिकत्वेन ।

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिं निगच्छति ।
आदातुश् च विशुद्ध्यर्थम् इष्टिर् वैश्वानरी स्मृता ॥ ३.२५० ॥

पात्रे विद्यावृत्ततपःसंपन्नाय स्वाजन्यविद्विष्टाभिसंधिरहितं धनं गोभूतिलहिरण्यादि पर्याप्तं तदीयेभ्यो नित्यतया प्राप्तेभ्यः श्रौतस्मार्तकर्मभ्यो यद् भवति, तद् दत्त्वा शुद्धिं नितरां गच्छति । सर्वप्रायश्चित्तानाम् इदम् एवाभ्यर्हितम् इत्य् अभिप्रायः । मानवे तु दानप्रकारापेक्षः प्रपञ्चो न देयविशेषापेक्षः । देयं त्व् एतावद् एव । तत्र कदाचित् सर्वस्वम् एतन् ममेत्य् एवं निःशेषम् अर्पयेत् । यदि तु नित्यानुष्ठानसंप्रदानसंबन्धि कार्त्स्न्येनालोच्यातिरिक्तम् अपि दातुः स्वं स्यात्, ततो यावज्जीवनसंबन्धिविहितश्रौतस्मार्तानुष्ठानाय यत् पर्याप्तं, तावद् एव दद्यात् । कदाचित् तावन्मात्रेण द्रव्येण पूरयित्वा सपरिच्छदं गृहं वा दद्याद् इति । अत्र दातुर् इच्छाविकल्पः, न द्रव्यपरिमाणे कश्चिद् भेदः । एतच् च कामकृते गुणवद्ब्राह्मणवधे द्रष्टव्यं, पात्रे दातव्यम् इति वचनात् । न ह्य् अल्पेन प्रयासेनैवंभूतो ब्राह्मणः शक्यो ग्राहयितुम् । यो हि सम्यग् ग्रन्थतो ऽर्थतश् चानुपूर्व्येण न्यायानुसारतश् च वेदं कार्त्स्न्येन वेत्ति, प्रायश्चित्तोपदेशात् साग्निः स्वकर्मानुष्ठाननिरतः स कथम् इव प्रतिगृह्णीयात् । किं वा तादृशे पात्रे एतावद् द्रव्यं दत्त्वा पापान् नापगच्छेत् । अतो गुरुतर एव प्रायश्चित्तं युक्तम् । तच् च दर्शितम् । तस्य चादातुः प्रतिगृह्णानस्य विशुद्ध्यर्थं वैश्वानरो द्वादशकपालः पुरोडाशः । चशब्दाद् दातुश् चाहिताग्नेर् एव महाधनस्य तावन्मात्रधनस्यैवेति स्थितम् । श्रौतत्वे ऽपि चेष्टेर् “इष्टिर् वैश्वानरी स्मृता” इति स्मृतत्ववचनं मानवे ऽनुक्तत्वाद् अपस्मृतित्वाशङ्कानिवृत्त्यर्थम् । सत्य् अपि तत्रावचने मनुनैवायम् अर्थ स्मृत इत्य् अवगन्तव्यम् इत्य् अभिप्रायः । तत्रास्यानभिधानं दातुर् अनियमो यथा स्याद् इत्य् एवमर्थम् । तेनानाहिताग्नेर् अपि सर्वस्वं वा वेदविद इत्य् एतत् प्रायश्चित्तम् अस्त्य् एवेत्य् एषा दिक् ।

  • ननु चैतानि प्रक्रान्तद्वादशवार्षिकस्यैवाशक्तौ परिसमाप्त्यर्थानीति युक्तम् । तथा च मनुना- “ब्रह्महा द्वादशाब्दणि” इत्य् उपक्रम्य, “लक्षं शस्त्रभृतां वा स्यात्” इत्यादि “जपेद् वा नियताहारः” इत्य् एवमन्तम् उक्त्वा (म्ध् ११.७२–७७), पुनर् द्वादशवार्षिकसंबन्धितयैवोक्तम्-

कृतवापनो वा निवसेद् ग्रामान्ते गोव्रजे ऽपि वा ।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥
ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य वा ॥
त्र्यवरं प्रतिराद्धो वा सर्वस्वम् अवजित्य वा ।
विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥ (म्ध् ११.७८–८०)

इत्य् एवं ब्राह्मणार्थप्राणत्यागादिना द्वादशवार्षिकस्य परिसमाप्तिम् उक्त्वोपसंहृतम्-

एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ इति । (म्ध् ११.८१)

एवम् उपक्रमोपसंहाराभ्याम् एकम् एवेदं प्रायश्चित्तं सोपस्करम् अवगम्यते । तथा चोत्तरत्र-

हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् । इति । (म्ध् ११.८७)

एतद् एव प्रकृतं द्वादशवार्षिकम् इति सामञ्जस्यं स्याद्, इतरथा चैतद् एवेति न ज्ञायते कस्यायं निर्देश इति । आनन्तर्याद् वाश्वमेधावभृथस्यैव स्यात् । तत्र तस्यासंबवः कादाचित्कत्वात् प्रायश्चित्तस्य च नित्यत्वेनापेक्षितत्वात् । अतः पूर्वपरिसमाप्ताव् एव विषयव्यवस्थया “लक्षं शस्त्रभृताम्” (म्ध् ११.७३) इत्यादीनि द्रष्टव्यानि, न स्वातन्त्र्येण । न च मरणान्तिकं प्रायश्चित्तं युक्तम्, कार्यविरोधात् । शुद्ध्यर्थं हि तद् इष्यते, जीवतश् च शुद्द्ध्या कार्यं यतः । न च जीवप्रायश्चित्तस्येतरेण विकल्पो घटते, वैषम्यात् । स्वेच्छया चेतरसंभवे मरणान्तिकम् अध्यवस्यत आत्मघातदोषो ऽपि प्रसज्येत । अत एवापस्तम्बेन- “गुरुतल्पगः सूर्मीं ज्वलन्तीं प्रविश्यात्मानं दहेत्” इत्य् उपक्रम्य, “मिथ्यैतद् इति हारीतः” इति, “यो ह्य् आत्मानं परं वाभिहन्यते अभिशस्त एव सः” इति (आप्ध् १.२८.१५–१७) । अतो ऽपि मरणान्तिकम् अयुक्तम् । यत्र च सवनस्थविप्रवधादौ द्विगुणं व्रतम् उच्यते, तत्र द्विर् मरणासंभवात् तदनुपपत्तिर् एव स्यात् । अत एकप्रायश्चित्तकल्पनैव युक्तेति । न त्व् इदम् अतीव न्याय्यम् । यत् तावद् उपक्रमोपसंहारबलम् आलोच्यैकत्वम् उक्तम्, तच् छ्रौतैर् आश्वमेधादिभिर् व्यवधानाद् अयुक्तम् एव । न हि द्वादशसंवत्सरोद्देशेनाश्वमेधस्वर्जिदादिवचनान्य् अवकल्पन्ते । अवश्यं ह्य् एषां प्रत्यक्षश्रुतिमूलत्वं वाच्यम् । स्मृतौ चैतानि तु । क्रमानुपपत्तेस् तत्र च द्वादशवार्षिकं ब्रह्महत्योद्देशेन प्रकृत्य य एतत् समापयितुं न शक्नुयात्, स एतेनाश्वमेधादिना यजेतेत्य् एवं क्रतवो विधातव्याः, फलाद्यर्थतया वा क्रतून् प्रकृत्य द्वादशवार्षिकाशक्ताव् अपि यजेतेत्य् एवम् । उभयथापि चायुक्तम्, दम्पत्योर् अधिकारात्, केवलस्य च प्रवृत्तत्वात् । न च भर्तुर् अशक्त्या पत्न्य् अपि प्रवर्तताम् इति युक्तम्, पत्नीशब्दस्य स्वामिवचनत्वाद् अङ्गिनि द्वादशवार्षिके तस्या अनधिकारात् । तत्र यदि वा सह पतने द्वादशवार्षिकम्, यदि वा क्रतूनां तत्राननुप्रवेशः, विधानाद् द्वादशवार्षिकस्य जयाहोमेनेव कृष्यादीनाम् आहवनीयादिसंयुक्तैः कर्मभिर् संबन्धात् तादर्थ्यकल्पनानुपपत्तिः । अतो ऽवश्यं क्रतूनां स्वातन्त्र्यम् एव वक्तव्यम् । तथा चाम्नाय- “सर्वां ब्रह्महत्याम् अपहन्ति, यो ऽश्वमेधेन यजते । अग्निष्टुताभिशस्यमानं याजयेत् । भ्रूणहत्याया वा एषो ऽतिमुच्यते, यो ऽभिजिता यजेत” इति (च्ड़्। श्ब् १३.५।४.१; ग्ध् १९.१०) । एतानि च प्रत्यक्षाण्य् अतिक्रम्य नानुपलब्धवाक्यान्तरकल्पनायां प्रमाणम् अस्ति । अतो ऽश्वमेधादिचोदनास् तावत् पूर्वप्रक्रमानपेक्षा एव । ताभिर् व्यवहिताः सर्वस्वदानादयस् तद्व्यवहितेन द्वादशाब्देन न संबन्धं लभन्ते । स्मृत्यन्तरेषु तु “अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य, लक्षं वा स्याज् जन्ये शस्त्रभृतां, खट्वङ्गकपालपाणिर् वा” (ग्ध् २२.२–४) इति च प्रक्रमालोचनया मरणाशक्ताव् एव द्वादशवार्षिकं लक्ष्यते । वासिष्ठे ऽपि- “ब्रह्महाग्निम् उपसमाधाय” इति प्रकृत्य, “राजार्थे ब्राह्मणार्थे वाभिमुख आत्मानं घातयेत् त्रिरञ्जितो[^१६] वा प्रतिराद्धः पूतो भवतीति विज्ञायते” इत्य् उक्त्वोक्तं द्वादशवार्षिकम्- “द्वादशवर्षाण्य् आत्मना व्रतम् आदिश्य न ग्रामे नारण्ये वसेत् खट्वाङ्गकपालपाणिः” इति (वध् २०.२५–२८) । अत्रापि च प्रक्रमानुसारात् पूर्वानधिकृतस्यैव द्वादशाब्दिकम् इत्य् अवगम्यते । अन्यासु तु द्वादशाब्दिकस्यानुपदेश एव । वासिष्ठे च “विज्ञायते” इति, त्र्यवरं “प्रतिराद्धः” इत्य् अस्य प्रत्यक्षश्रुतिविहितत्वेन द्वादशाब्दाननुप्रवेशः स्पष्टीकृत एव । अतः स्वातन्त्र्येणैव विषयव्यवस्थया सर्वाणि व्याख्येयानि व्याख्यातानि च । यस् तूपसंहारः, स पूर्वोक्तापेक्षया योज्यो न तु तद्पक्षेया पूर्वोक्तम् । उक्तस्य ह्य् उपसंहारः, नोपसंहाराद् उक्तता । तेन “कृतवापनो वा निवसेत्” (म्ध् ११.७८) इत्येवमादेः पूर्वोक्तसमस्तप्रायश्चित्तशेषत्वम् । सर्वत्र चायम् अविरुद्ध एव नियमकलापः । प्रत्युत द्वादशाब्दिक एव “अरण्ये कुटिं कृत्वा” (आप्ध् १.२४ ११) इत्य् अनेन विरोधाद् अस्याननुप्रवेशः । न च विकल्पः संभवति, तत्कल्पनायां द्वादशाब्दाननुप्रवेशो ऽयुक्तः । यौ त्व् अनन्तरौ श्लोकौ, ताभ्यां प्रायश्चित्तान्तरत्वेन गोब्राह्मणार्थे प्राणत्यागादीन्य् उपदिश्यन्ते न तु प्रक्रान्तद्वादशाब्दिकस्य, प्रमाणाभावाद्, वासिष्ठे च “त्रिरञ्जितो वा” इत्य् अत्र “विज्ञायते” इत्य् अनेन श्रौतत्वस्य दर्शितत्वात् । यस् तावद् उपसंहारः “एवं दृढव्रतो नित्यम्” (म्ध् ११.८१) इति, अयम् अपि सर्वशेष एव । एवम् उक्तेन प्रकारेणामुना प्रायश्चित्तेन मयात्मना नियमेन शोधनीय इत्य् एवंरूपं द्वादशाब्दशस्त्रभृल्लक्षभावाग्निप्रवेशक्रत्वनुष्ठानादि यद् व्रतम्, तत्र द्वादशाब्दादौ समाप्ते व्रते ब्रह्महत्यां व्यपोहतीत्य् एवं योज्यः । तथा च परमोपसंहारः समञ्जसो भवति-

अतो ऽन्यतमम् आस्थाय विधिं विप्रः सुयन्त्रितः ।
ब्रह्महत्याकृतं पापं व्यपोहेतात्मवत्तया ॥ इति । (म्ध् ११.८६)

अन्यथैकत्वाद् “अन्यतमम् आस्थाय” इत्य् असंबद्धम् एव स्यात् । न चान्यतमम् अग्निप्रशादिकं द्वादशाब्दसमाप्तिविधिम् आस्थायेति युक्तम्, तथा सति गुणत्वात् प्राधान्येन निर्देशो न स्यात् । न च तत्समाप्त्यर्थता संभवतीत्य् उक्तम् एव । यद् अप्य् अनन्तरम्-

हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् । (म्ध् ११.८७)

इति, अत्रानन्तर्याद् एव “अन्यतमम् आस्थाय विधिं” (म्ध् ११.८६), “ब्रह्महत्याव्रतं चरेत्” (य्ध् ३.२५४) इत्यादि योज्यं न तु द्वादशवार्षिकम्, व्यवधानेन सर्वनामपरामर्शासंभवात् ।

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्ये ऽष्टमो ऽंशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोषशः ॥
अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः ।
ऋषभैकसहस्रा गा दद्याच् छुद्द्यर्थम् आत्मनः ॥

इत्य् उक्त्वोक्तम्-

त्र्यब्दं चरेद् वा नियतो जटिलो ब्रह्महव्रतम् ।
वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥ इति । (म्ध् ११.१२६–२८)

तच् च तुरीयवचनाद् एव सिद्धे सत्य् असंबद्धं स्यात् । यदि तुरीयवचनात् सर्वस्वचतुर्थभागदानम् अपि प्राप्नोति, ततो महाधनस्याकामकृते गोसहस्रदानोपेदेशः, त्रैवार्षिकं वा व्रतम् आदिश्येत । इतरथा हि पूर्वश्लोकात् कामकृते ऽपि त्रैवार्षिकस्यापि प्राप्तत्वाद् अकामकृते तद्वचनम् असमञ्जसं स्यात् । अतो यथोक्तैव व्याख्या युक्ता । यत् तु कार्यविरोधान् मरणान्तिकम् अयुक्तम् इति, तद् अपि “भैक्षं चात्मविशुद्ध्यर्थम्” (च्ड़्। म्ध् ११.७३) इत्य् आत्मविशुद्ध्यर्थं प्रायश्चित्तं न शरीरशुद्ध्यर्थम् । आत्मद्रव्यम् एव प्रायश्चित्तेन संस्क्रियते । तच् च मरणान्तिके इतरत्र चाविशिष्टम् । यत् तु वैषम्याद् विकल्पो मरणान्तिकस्येतरेणायुक्त इति, तत् पुरुषाणां बुद्धिवैचित्र्याद् अकारणम् एवेत्य् उक्तम् । यत् तु स्वेच्छया प्रायश्चित्तान्तरे संभवति मरणम् अध्यवस्यत आत्मघातकत्वप्रसङ्ग इति, तत् पश्वेकादशिन्याम् अप्य् एकेन पशुना सह विकल्पेनोपदिष्टायाम् अनेकप्राणिवधे दोषोत्पत्तिः प्रसज्येत । सुरायाश् चाग्निवर्णैर् उदकगोमूत्रादिभिः सह वैकल्पिकत्वे स्वेच्छयोपादाने दोषः स्यात् । द्वादशाब्दसमाप्त्यर्थत्वे ऽपि चायं तुल्यो दोषः । विषयविभागकल्पना चोभयत्र तुल्यैव । आपस्तम्बवचनं तु ब्राह्मणस्य मरणान्तिकनिवृत्त्यर्थं प्रकारान्तरेण वा मरणान्तस्योपदेशार्थम् “ओत्तमाद् उच्छ्वासात्” इति (आप्ध् १.२४.२४) । अन्यथा मरणान्तस्योपदेशानाम् अप्रामाण्यम् एव स्यात् । गुरुतल्पावसरे च निपुणतरं वक्ष्यामः । यत् तु द्विगुणं व्रतम् इति द्विर्मरणानुपपत्तिः, तत्र सामर्थ्याज् जीवप्रायश्चित्तानां प्रयोगावृत्तिकल्पना न तु द्वादशाब्दिकमात्रसंबन्धिता इत्य् अलं प्रसङ्गेन ॥ २५० ॥

इदानीम् आतिदेशिकान्य् आह ।

यागस्थक्षत्रियविड्घाते चरेद् ब्रह्महणो व्रतम् ।
गर्भहा च यथावर्णं तथारेयीनिषूदकः ॥ ३.२५१ ॥

यागवचनं प्रयोगमध्य एव दोष इत्य् एवमर्थम् । यागशब्दश् चायं सोमयाग एव द्रष्टव्यः, “सवनगतौ च राजन्यवैश्यौ” (वध् २०.३४) इति स्मृत्यन्तरात् । तथा चाम्नायः- “तस्माद् आहुर् न सवनगतं हन्याद् एनस्वी हैव सवनकृतेति” (श्ब् ३.२।१.४०) ज्योतिष्टोमप्रकरणे चैतद् दीक्षितो ऽयं ब्राह्मण इत्य् आवेदनशेषत्वेन । अतश् चावेदनोत्तरकालं दोष इति केचित् । ऋत्विग्वरणप्रभृत्य् एव तु युक्तम्, सवनगत इत्य् अत्र भूतार्थस्याविवक्षितत्वात्, क्रतुप्रवृत्तिर् एव विवक्ष्यते यतः । इतरथा तु निर्वृत्तयागस्यैव स्यात् । यत् तु “आवेदनेन हि ब्राह्मणो जायते, यो यज्ञाज् जायते” इति, अर्थवादमात्रं तत् । मानवे तु “राजन्यवैश्यौ चेजानौ” (म्ध् ११.८७) इति कर्तृत्वमात्रविवक्षयैव, न कृतयागत्वविवक्षयेत्य् एवं योज्यम् । अथ वा सवनकृच्छ्रुतेर् ईजानाव् इति मनुवचनाद् इष्टवतोर् एव दोषः । इह स्थवचनाच् च प्रयोगमध्ये ऽपीति व्याख्येयम् । “ब्रह्महणो व्रतम्” (म्ध् ११.१०१) च द्वादशाब्दिकादिपर्याप्तधनदानान्तं पूर्ववद् विषयव्यवस्थया योज्यम् । गर्भहन्ता च यद् यस्य वर्णस्य वधे प्रायश्चित्तम्, तद् एव तदीयगर्भवधे कुर्यात् । तथात्रेयीं[^१७] हत्वा तद्वर्णविहितं कुर्यात् । आत्रेयी च रजोदर्शनाद् आरभ्याषोडशान्य् अहान्य् उच्यन्ते । तस्याश् च संनिहिते भर्तरि प्राक् संप्रयोगाद् एतद् द्रष्टव्यम्, वासिष्ठे “अत्र ह्य् एष्यद् अपत्यं भवति” (वध् २०.३६) इति श्रुत्युपन्यासात् । अन्ये तु “तथात्रेयीनिषूदकः” इत्य् अत्र “चरेद् ब्रह्महणो व्रतम्” (म्ध् ११.१०१) इत्य् एतद् योजयन्ति, न त्व् अनन्तरं यथावर्णम् इति, आत्रेयीं चात्रिगोरां वर्णयन्ति । तद् अपि युक्तम् एव । तथा चाम्नायः- “ततो ऽत्रिः संबभूव” इत्य् उक्त्वा, “तस्माद् अप्य् आत्रेय्या योषितैनस्विनम् आहुः” (श्ब् १.४।५.१३) । तेनोभे सम्यग् व्याख्याते[^१८] एव । स्पष्टम् अन्यत् ॥ २५१ ॥

इदं चान्यद् आतिदेशिकम् एव ।

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः ।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आचरेत् ॥ ३.२५२ ॥

अवश्यम् अस्माभिर् असौ ब्राह्मणो हन्तव्यः इत्य् एवं घातार्थं बहूनां समागतानां निष्पन्ने च ब्राह्मणवधे येनाप्य् असौ न घातितः, सो ऽपि पूर्वोक्तविषयव्यवस्थाकल्पितं व्रतं चरेद् एव । प्रहृते च सत्य् एतद् द्रष्टव्यम् । अप्रहृते तु-

बहूनां समवेतानां ब्राह्मणादिवधं प्रति ।
यस्य प्रहाराद् व्यापत्तिः स दुष्येन् नेतरस् तथा ॥

इति हारीतोपदेशात् । तथाशब्दाच् च तद्वत् पतितो भवति, न तु न दुष्यतीत्य् गम्यते । सवनस्थे द्विगुणम् इत्य् अत्रापि न प्रायश्चित्ताभ्यासः । किं तर्हि, गुरुतरं तत्र प्रायश्चित्तम् । ततश् च यथापस्तम्बेनोक्तम् “एतेनैव विधिना आ उत्तमाद् उच्छ्वासाच् चरेत्” (आप्ध् १.२४.२४) इत्येवमादि द्रष्टव्यम् । प्रायश्चित्तद्वयं वा- “सर्वस्वं दत्त्वा द्वादशाब्दिकं वा कृत्वा ततो मरणान्तिकम्” इत्यादिना प्रकारेण । इतरथा तु द्विर् व्रतम् आदिशेद् इत्य् एवावक्ष्यद्, न तु द्विगुणम् इति । सवनस्थे च यजमान एवेदं नर्त्विजीति । तत्रापि तु दोषातिरेको ऽस्त्य् एव । प्रायश्चित्तं तु तत्र तदनुरूपं कल्प्यम् । अन्ये तु अन्यथेमं श्लोकं वर्णयन्ति-

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः ।

सम्यग् बुद्धिपूर्वं वधप्रयोजनं वस्तु कृत्वेति यावत् । येन कृतेनातिशयेन ब्राह्मणस्य स्वयम् एव वधे प्रवृत्तिर् भवति, तत् क्रोधोत्पादनं द्रव्यहरणादि । यद्य् अपि ब्राह्मणो म्रियताम् इत्य् अनया बुद्ध्या न कृतं, तथापि तस्मिन् द्रव्यापहरणादौ कामतः कृते यदि निमित्तान्तरानपेक्षिणी ब्राह्मणस्य प्राणविपत्तिः स्यात्, तदा व्रतं ब्रह्महत्यासंबन्धि यत्, तद् अहत्वापि चरेद् इति । एतद् एव मानवे ऽप्य् उक्तम्-

उक्त्वा चैवानृतं साक्ष्ये प्रतिरभ्य गुरुं तथा ।
अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ इति । (म्ध् ११.८८)

यत्रानृते साक्ष्ये ब्राह्मणस्य स्वतो ऽन्यतो व प्राणविपत्तिः, तथापि तथाविधम् अनृतम् उक्त्वा तत्प्रकारेणैवाभिशापादिना गुरुं प्रतिरभ्य प्रकोपयित्वा संयोज्य वा ब्रह्महत्याव्रतं चरेद् एव । गुरौ चाब्राह्मणे ऽप्य् एतद् द्रष्टव्यम् । निक्षेपं च मरणहेतुभूतं ब्राह्मणस्यापहृत्य, स्त्रियं वा ब्राह्मणस्य, मरणहेतुभूताम् अब्राह्मणीम् अपि हत्वा, सुहृदं चाब्राह्मणम् अप्य् एवंभूतं हत्वा, ब्रह्महत्याव्रतं कार्त्स्न्येन चरेद् इत्य् अभिप्रायः । तथाशब्दश् चात्र प्रकारार्थः । अन्यद् अप्य् एवंप्रकारं मरणकारणं ब्राह्मणस्योत्पाद्येत्य् एवम् अर्थः । तथा च गौतमः- “दुर्बलहिंसायां चापि मोचने शक्तश् चेत्” (ग्ध् २१.१९) इत्य् एवमर्थम् एवाह । एतच् च क्षत्रियादिष्व् अपि योज्यम् । सवनस्थे चैतद् एव द्विगुणम् इत्य् एषा दिक् ॥ २५२ ॥

इदानीं सुरां प्रत्य् आह ।

सुराम्बुघृतगोमूत्रपयसाम् अग्निसंनिभम् ।
सुरापो ऽन्यतमं पीत्वा मरणाच् छुद्धिम् ऋच्छति ॥ ३.२५३ ॥

सुरां पानीयं गव्यं वा घृतं पयो वा गव्यम् अग्निसंनिभं दहनक्षमं पीत्वा तेनैव निर्दग्धः सुरापो मरणाच् छुद्दिं गच्छतीति श्लोकार्थः । अत्र च पैष्ट्याम् एव सुराशब्द इत्य् एतद् इत्य् एतद् “ब्रह्महा मद्यपः स्तेनः” (य्ध् ३.२२८) इत्य् अत्रोक्तम् एव । त्रयाणां च वर्णाणां मतिपूर्वे सुरापान एवैतत् प्रायश्चित्तम्, ब्राह्मण्याश् च । क्षत्रियवैश्ययोषितां पुनर् नैतत् प्रायश्चित्तम्-

सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत् । (म्ध् ११.९०)

इति द्विजस्यैव प्रायश्चित्तोपदेशात्, स्त्रीणां चाद्विजत्वात् । कथं तर्हि ब्राह्मण्याः-

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । (य्ध् ३.२५६)

इति, आरम्भसामर्थ्यात् । गौतमे च- “सुरापस्य ब्राह्मणस्योष्णाम् आसिञ्चेयुः सुराम् आस्ये मृतः शुध्येत्” (ग्ध् २३.१) इत्य् अत्र स्त्र्यर्थम् एव ब्राह्मणग्रहणं कृतम् । अन्यथा तु द्विजस्येत्य् एवावक्ष्यत् । न च क्षत्रियवैश्यव्यावृत्त्यर्थं तद् इति युक्तम्, मानवे द्विजवचनात् । नोपसंहारार्थं, प्रतिषेधश्लोके त्रयाणां पृथगुपादानात्-

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥ इति । (म्ध् ११.९३)

तेन गौतमीये ब्राह्मणस्येति प्रायश्चित्तस्य ब्राह्मणजातिमात्रसंबन्धार्थम् । न च पुंल्लिङ्गनिर्देशात् पुंसो ब्राह्मणस्येति युक्तम्, उपादानानर्थक्यप्रसङ्गाद् इत्य् उक्तम् । अत एव मानवे पृथक् प्रतिषेधश्लोकारम्भः । अन्यथा तु ब्रह्महत्यायाम् इव प्रायश्चित्तोपदेशाद् एव सिद्धेर् अनर्थकः स्यात् । तेनात्र सुराप इत्य् अविशेषाभिधाने ऽपि स्मृत्यन्तरानुसाराद् एवं व्याख्येयम् । गौलमाध्व्योस् तु ब्राह्मणसंबन्धितयैव प्रतिषेधाद् द्विजसंबन्धित्वाच् च प्रायश्चित्तस्य नेदं प्रायश्चित्तम्, सुरासंबन्धेन चोपदेशात् “सुरां पीत्वा द्विजो मोहात्” इति । इतरयोश् चासुरात्वात् । अतो गौलीमाध्व्योः कामतः पाने वासिष्ठम्- “मद्यपाने त्व् असुरायाः सुरायाश् चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतप्राशः पुनः संस्कारश् च” इति (वध् २०.१९) । एवम् अन्यान्य् अपि सुरापानवाक्यानि योज्यानि ॥ २५३ ॥

एवं कामकृते त्व् अभ्यासे मरणान्तिकं प्रायश्चित्तम् उक्तम् । अधुना कामकृत एवानभ्यासे प्रायश्चित्तम् आह ।

वालवासा जटी वापि चरेद् ब्रह्महणव्रत्म् ।
पिण्याकं वा कणान् वापि भक्षयीत समां निशि ॥ ३.२५४ ॥

ब्रह्महत्याव्रतं समां चरेद् इत्य् एवं योज्यम् । न च प्रायश्चित्तद्वयोपदेशभ्रान्तिः कर्तव्या, मानवैकवाक्यत्वात्-

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा ध्वजी जटी ॥ इति । (म्ध् ११.९२)
सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत् । (म्ध् ११.९०)

इत्य् एतस्मात् प्रकृते ऽपि पुनः सुरापानापनुत्त्यर्थम् इति सकृत्पानायैव भगवतोक्तम् । अतः कामकृत एव सकृत् सुरापाने एतद् इति स्थितम् । शाङ्खे ऽपि- “सुरापो ऽग्नितप्तम् अस्पृष्यम् उदकं पिबेत् स तेन निर्दग्धकायः शुद्धिम् आप्नोति” इति कामकृताभ्यस्तपानविवक्षयाभिधाय, तत आह- “अथ वा वालचीरवासाः सुरापः खट्वाङ्गी गुरुतल्पगश् च ब्रह्महत्याव्रतम् एव चरेयाताम्, तौ तावता कालेन शुद्धिम् आप्नुतः” इत्य् एतद् एव सांवत्सरिकम् उक्तम्, न तु द्वादशाब्दिकम् । तत्र “तावता कालेन” इत्य् एतद् अवक्तव्यम् एव स्यात् । अतो यत् पूर्वं “पतितो ह्य् आत्मानम् उद्धरेत्, संवत्सरं तप्तकृच्छ्रम् आचरेत्” (च्ड़्। ओन् य्ध् ३.२४३) इत्यादि ब्रह्महत्याविहितम्, तद् एवाचरेद् इत्य् अभिप्रायः । एवं मनुना सहैकवाक्यता सिध्यति । अन्यथा तु तद्विरोधात् प्रैज्ञातार्थविरोधः स्यात् । यद् उक्तम्-

समीक्ष्य निपुणं धर्मम् ऋषिभ्यो मनुभाषितम् ।
आम्नायात् सम्यग् उद्धृत्य शङ्खश् च लिखितस् तथा ॥ इति ।

सांवर्ते ऽप्य् एतद् एवोक्तम्-

वत्सरं वा कणान् अश्नन् सर्वान्नरसवर्जितः । इति ।

अत्र विशेषो “वालवासा जटी कणपिण्याकयोर् अन्यतरद् रात्रौ सकृद् अश्नन्” इति । आपस्तम्बोक्तं तु- “सुरां पीत्वा स्तेयं कृत्वा गुरुतल्पं च गत्वा ब्रह्महत्याम् अकृत्वा चतुर्थकालं मितभोजिनस् त्रिर् अपो ऽभ्यवयन्तस् त्रिभिर् वर्षैः शुध्यन्ते” (आप्ध् १.२५.१०) इति । एतच् च समुच्छितविषयम् । अन्यथा ब्रह्महत्याम् अकृत्वा इत्य् एतद् अवचनीयं स्यात् । अतस् त्रितयम् अप्य् अबुद्धिपूर्वं कथंचित् कृत्वापस्तम्बोक्तम् । यद्य् अप्य् आङ्गिरसे वज्राख्यं व्रतं प्रकृत्योक्तम्-

महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः ।

इति, तद् ब्रह्महत्याविषयम् एव द्वादशाब्दिकवैकल्पिकं विदुषां ब्राह्मणानाम् एव द्रष्टव्यम् । सुरापाने तु-

कालस्य तु यथोक्तस्य ब्राह्मणा एव कारणम् ।

इति तत्रैव यद् उक्तं तद् द्रष्टव्यम् । “ब्राह्मणा एव कारणम्” इति वदन् स्मृत्यन्तराधीनः कालनियम इत्य् एतद् एव ज्ञापयति । एवम् अन्यान्य् अपि स्मृत्यन्तरोक्तानि सुरापानप्रायश्चित्तानि योज्यानि ॥ २५४ ॥

एवं मतिपूर्वे ऽभ्यासे मरणान्तम् अनभ्यासे च संवत्सरं ब्रह्महत्याव्रतं कणादिभोजनयुक्तम् उक्त्वा, अथेदानीम् अमतिपूर्वे वक्तुम् आह ।

अज्ञानात् तु सुरां पीत्वा रेतो विण्मूत्रम् एव वा ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा न संशयः ॥ ३.२५५ ॥

अज्ञानाद् इति । प्रतिषेधाज्ञानं यदि स्यात् । तथा रेतोविण्मूत्रेष्व् अपि । ततस् त्रयो वर्णाः संस्कारम् उपनयनं कृतोपनयनाः सन्तो ऽपि पुनर् अप्य् अर्हन्ति । न चात्र स्वल्पम् इदं प्रायश्चित्तम्, अतो ऽन्यद् अपि किंचित् कल्प्यम् इत्य् एतद् “न संशयः” इत्य् अनेन स्पष्टीकृतम् । यस् तु प्रतिषेधं जानाति, सुरेयम् इति ज्ञात्वा पिबति, तस्याप्य् अनभ्यासे वासिष्ठम् (वध् २०.१९) । एवं मूत्रादिष्व् अपि योज्यम् । प्रागुपनयनात् त्व् अज्ञातसुरापाने तेनैवोपनयनसंस्कारेण शुद्धिः । तथाह मनुः ।

अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति । इति । (म्ध् ११.१४६)

अत्र पुनःशब्दाभावाद् आद्य एव संस्कारो ऽभिप्रेतः । तथा चान्यत्र पुनःशब्दः कृतः ।

अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च ।
पुनःसंस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ इति । (म्ध् ११.१५०)

द्विजातिवचनात् पुनःशब्दाच् च कृतोपनयनानाम् एवैतज् ज्ञायते । अतश् च “संस्कारेणैव शुध्यति” इत्य् एतद् आद्यसंस्कारविषयं द्रष्टव्यम् । गौतमीयात् तु प्रतिषेधात् “मद्यं नित्यं ब्राह्मणः” (ग्ध् २.२०) इति प्राग् अप्य् उपनयनाद् दोषो ऽस्ति, न तु तत्र प्रायश्चित्तान्तरम्, “संस्कारेणैव शुध्यति” इति वचनात् । अतश् चैतद् अपि श्लोकार्धम् अनुपनीतस्यैवेति केचित्-

मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः । इति । (म्ध् ११.१४६)

अयम् अस्यार्थः । यद्य् अनुपनीतः सन्न् अज्ञानाद् अकामतो वारुणीं पैष्टीं सुरां पिबेत्, ततः संस्कारेणैव शुध्यतीति, मतिपूर्वं त्व् अनिर्देश्यं पीत्वा प्राणान्तिकं तस्यापि प्रायश्चित्तम् इति स्थितिः इति, नात्र प्रायश्चित्तान्तरम् आलोच्यम् इत्य् अभिप्रायः । अनिर्देश्यम् इत्य् एतत् पानविशेषणम्, तावद् अनेकशः कामकारेण पिबति यावन् निर्देष्टुं न शक्यते, कतिकृत्वः कियत्परिमाणां वेति यावत् । अन्ये ऽप्य् एतद् अविशेषेणैव वर्णयन्ति- नानुपनितस्यैवेति, तत् तु “सुरां पीत्वा द्विजो मोहात्” (म्ध् ११.९०) इत्य् अनेनैव सिद्धत्वान् नातीवोपयुज्यत इति पूर्वव्याख्यैव युक्ता । सुरासंस्पृष्टपाशने चोपनीतस्य संस्कारोपदेशाड् दण्डापूपिकया सिद्धेर् नातीव तद्विषयता स्यात् । अतो ऽपि यथोक्तैव विषयकल्पना इत्य् एषा दिक् ॥ २५५ ॥

ब्रह्मण्या अप्य् एतद् एव सुरापाने प्रायश्चित्तं संस्कृतासंस्कृतविषयत्वेन यथार्हं कल्प्यम् इत्य् एतत् प्रतिपादयितुं निन्दार्थवादोपन्यासेनाह ।

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी गृध्री सूकरी वोपजायते ॥ ३.२५६ ॥

पतिव्रतात्वेनार्जितम् अपि पतिलोकं न सा गच्छति, या ब्राह्मणी सुरां पिबेत् । सुराशब्दश् चायं मद्यमात्रोपलक्षणार्थो न मुख्यसुराप्रतिपत्त्यर्थः, अर्थवादगतत्वात् । यदि हि विधायकवाक्यगतः स्यात्, ततो मुख्यार्थ एव गृह्येत । अर्थवादे तु मद्यमात्रं निन्दितुं सुराशब्देनोच्यते । ननु चाबुद्धिपूर्वप्रभवत्वाद् वेदस्यार्थवादत्वेन व्याख्यानं युक्तम्, पौरुषेयेषु पुनर्वचनेष्व् अर्थवादत्वम् अबुद्धिपूर्वकारिताम् एवावहति । सत्यं, यद्य् अर्थवादमात्रविवक्षयैव प्रयुज्येत । स्मृतिकारास् तु न प्ररोचनामात्रपर्यवसायित्वेनार्थवादान् प्रयुञ्जते, किं तर्हि, कार्यविशेषप्रतिपत्त्यर्थम् एव । अत एव प्रायश्चित्तविधानार्थ एवायं श्लोक इति व्याख्यातम् । लक्षणव्याख्यानसिद्ध्यर्थम् अर्थवादप्रकारेणोपन्यासः । अतश् च पतिलोकं न सा यातीति वचनाद् भर्तुर् निर्दोषत्वम् इति गम्यते । यत् तु स्मृत्यन्तरम्-

पतत्य् अर्धं शरीरस्य भार्या यस्य सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥ (वध् २१.१५)

इति, तद् भार्याशब्दश्रवणाद् अपरित्यजतः पतितसंप्रयोगाद् द्रष्टव्यम् । इह तु भर्त्रा परित्यक्ता सती या पिबति, सा पतिलोकं न यातीति व्याख्येयम् । सा हि घोरान् नरकान् अनुभूय पुनर् अपीहैव लोके शुनी गृध्री ग्रामसूकरी चेत्य् एवंविधासु तिर्यग्योनिष्व् आ प्रलयात् पुनः पुनर् उत्पाद्यते नोत्कृष्यते इत्य् अभिप्रायः । एवं ब्राह्मण्या मतिपूर्वे ऽन्यत्र वा सकृदभ्यासे सुरापाने मद्यपाने च ब्राह्मणवत् प्रायश्चित्तकल्पना । क्षत्रियवैश्ययोस् तु मुख्यसुरापाने सुमन्तुनोक्तम्- “सुरापस्य प्रायश्चित्तं षण्मासं वृतसमुद्रौकःस्नानं सावित्र्या दशसहस्रसंपातः शिरस्य् अन्ते सान्तपनं सर्वकृच्छ्रेण शुद्धो भवति” । अस्यार्थः- सुरां यः पीतवान् प्रकर्षेण मतिपूर्वं च स सुरापः । असाधारण्ये हि समासो भवति । अतस् तत्सिद्ध्यर्थं बुद्धिपूर्वे ऽभ्यासे चेत्य् उक्तम् । तस्य सुरापस्य प्रायश्चित्तं षण्मासम् । “वृतसमुद्रौकःस्नानम्” ओको निवासः समुद्र ओको निवासो यासां नदीनां ताः समुद्रौकसः, समुद्रगामिन्य इत्य् अर्थः । वृताश् च समुद्रौकसश् च वृतसमुदौकसः, तासु स्नानं वृतसमुद्रौकसःस्नानम् । वृताश् च कटादिभिः परिवेष्टिताः । समुद्रगामिन्यां कटादिपरिश्रिते गुप्ते स्नानम् इत्य् अर्थः । षण्मासस्य चान्ते दशभिर् गायत्र्याः सहस्रैः शिरसि उदकमोक्षः सान्तपनं च । एकस्मिन्न् अहनि पञ्चगव्यं पीत्वोपवासः, अन्यस्मिन्न् अपीत्वेत्य् एतत् । नात्र महासान्तपनम्, षण्मासम् अपि कृच्छ्रेण प्राजापत्येन तप्तकृच्छ्रेण वावस्थानम् । एतच् च यद्य् अप्य् अविशेषेणोक्तम्, तथापि क्षत्रियवैश्ययोषिताम् एव द्रष्टव्यम् । कुतस् तत्,

प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो व्याधित एव च । (विध् ५४.३३)

इति स्मृत्यन्तरात् । कृच्छ्राब्दं च द्विजानां विहितं तदर्धं चैतत् । अतः पुंसाम् असंभवात् स्त्रीणाम् एवंविधानां च बालवृद्धातुराणां च । एवं च परिश्रितस्नानस्य स्त्र्यादिसंबन्धाद् औचित्यं समर्थितं स्यात् । अत्रापि च ब्राह्मण्याः पुरुषवत् प्रायश्चित्तोपदेशाद् इतरयोर् इत्य् एषा दिक् । सकृत्पाने तु मतिपूर्वे कृच्छ्रं चान्द्रायणं च । अमत्या कृच्छ्रम् एव । यथाह मनुः ।

एतद् एव व्रतं कुर्याद् योषित्सु पतितास्व् अपि ।
वस्त्रान्नम् आसां देयं तु वसेयुश् च गृहान्तिके ॥ इति । (म्ध् ११.१८८)

अन्यस्यात्रानन्तरस्य व्रतस्यानुपदेशात् पतितपरित्यागोद्धारश्लोकव्यवहितम् अपि स्त्रीसंबन्धितयैव विहितं व्रतम् “एतद् एव व्रतं कुर्यात्” इत्य् अनेन निर्दिश्यते । तत्र चोक्तम्-

सा चेत् पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ।
कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ॥ इति । (म्ध् ११.१७७)

अत्र चशब्दैवशब्दाभ्यां व्यस्तसमस्ततया प्रयोगो विज्ञायत इति विषयव्यवस्थया व्याख्यातम् इति । एवम् अन्यान्य् अपि सुरापप्रायश्चित्तानि व्याख्येयानि । केचित् तु स्त्रीणां मद्यपाने नैव दोष इति वर्णयन्ति-

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥ (म्ध् ११.९५)

इति प्रतिषेधे पुंयुक्तसंयोगश्रवणात् । तत् तु जातिमात्रविवक्षयैव न लिङ्गविवक्षार्थम्, ब्राह्मणस्याविधेयत्वाद् ब्राह्मणजात्युपलक्षितस्य पानानुवादेन प्रतिषेधो विधीयते । न च लक्ष्यमाणस्य विशेषणं विवक्ष्यत इति न्यायविदः । अन्ये तु ब्राह्मणशब्दम् अप्य् उपलक्षणं मन्यमानाः शुद्रस्यापि पानप्रतिषेधं वर्णयन्ति, हेतुवन् निगदानाम् अविशेषात् ।

अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत् । इति । (म्ध् ११.९६)

शूद्रस्याप्य् एतत् किल संभवत्य् एव । अपि च तस्यैव वैदिकोदाहरणे दोषः स्वस्थावस्थायाम् । अतस् तस्यैव मत्तस्य सतस् तत्प्रसङ्गो मा भूद् इति सुतरां हेतुः समञ्जसो भवतीति । अत्राप्य् उपलक्षणत्वे हेतुर् वक्तव्यः । सुराशब्दस्याप्य् अन्नमात्रोपलक्षणत्वं किम् इति न स्यात्, तस्याप्य् अत्यशनाद् विषूचिकादिना भवत्य् एवायं हेतुर् “अमेध्ये वा पतेन् मत्तः” इति । अतो यत् किंचिद् एव । उत्तरश्लोके च-

यस्य कायगतं ब्रह्म मद्येनोत्प्लाव्यते सकृत् ।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च निगच्छति ॥ (म्ध् ११.९७)

इति यद् उक्तम्, तच् छूद्रस्य नोपपद्यत इति कृत्वा विचारणीयम् । “देवानाम् अश्नता हविः” इत्य् एतत् तु क्षत्रियवैश्ययोर् अपि वैतानिकाग्निसंस्कृतभक्षणप्रतिषेदाद् अनुपपन्नम् । किम् उत द्रव्यस्य । अथ पाकयज्ञसंबन्धेन क्षत्रियवैश्ययोः शूद्रस्यापि पाकयज्ञीयं यद् देवानां हविस् तद् अश्नता इत्य् उच्येत, तथा सति व्यावर्त्याभावाद् अनर्थकम् एव स्यात् । अतो यत् किंचिद् एव । तथान्ये मद्यशब्दं मदयोगनिमित्तं व्याचक्षते । ततश् च संधानानन्तरम् अनुत्पन्नायां मदशक्तौ पश्चाद् वापगतायां ब्राह्मणस्याप्य् अदोष एवेति । तथा च किल क्वचिद् एवम् आचरन्ति । यत्र तु नाचर्यते, तत्र मद्यभाण्डस्थितम् इति कृत्वा (म्ध् ११.१४७) । तत् तु मदनीये ऽपि कोद्रवौदनादाव् अप्रयोगाद् विशिष्टसामग्रीजन्यतयैव परिग्राह्यं मदस्योत्पादकं किण्वादिसामग्र्युपलक्षितम् । संधानद्वारेणैव मद्यशब्दस्य प्रयोगो लौकिकानाम् । लोकश् च शब्दार्थाधिगमहेतुर् इति नातीव क्लेशनीयम् । यथैवार्यावर्तनिवासिशिष्टव्यवहारस्थितिः, तथैव स्मृत्यर्थो ऽनुसर्तव्यो न तद्विपर्ययेण । विशेषस् तु महापातकाधिकारे इत्य् अलं प्रसङ्गेन ॥ २५६ ॥

इदानीं क्रमप्राप्तं सुवर्णस्तेयप्रायश्चित्तं वक्तुम् आह ।

ब्राह्मण् अस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत् ।
स्वकर्म ख्यापयंस् तेन हतो मुक्तो ऽपि वा शुचिः ॥ ३.२५७ ॥

ब्राह्मणसात्कृतं स्वर्णम् अपहरति यः स आत्मनो विशुद्ध्यर्थं राजान्तिकं स्वयम् एव मुसलं गृहीत्वा गच्छेत् । ततश् च स्वकर्म यथावृत्तं निःशेषं निर्व्याजं च ख्यापयित्वा तन् मुसलं राज्ञे समर्पयेत्- “अनेन मा भवान् शास्तुम् अर्हति” इति । ततो राज्ञा तेन मुसलेन हतः शुध्येत् । यदि वा कथंचिन् मरणान्तिकप्रायश्चित्तानर्हो ऽयम् इति कृत्वा कृपया वा न हन्यात्, तथापि राज्ञा मुक्तो विसर्जितो दण्डेन वा मुक्तः शुचिर् एव स्यात्, नैव प्रायश्चित्तान्तरं कुर्याद् इत्य् अभिप्रायः । तुशब्दाच् च सुवर्णहरणमात्रम् एव कृत्वैतत् । येन त्व् अपहृत्योपयुक्तम्, न च प्रतिनिर्यातयितुं क्षमः, तस्यैतन् नैव शुद्धिसाधनम् इत्य् अभिप्रायः । श्रौतं तु तस्यापि भवत्य् एव । यथाह वसिष्ठः- “ब्राह्मणसुवर्णहरणे प्रकीर्य केशान् राजानम् अभिधवेत्, स्तेनो ऽस्मि भोः शास्तु मा भवान् इति । तस्मै राजौदुम्बरं शस्त्रं दद्यात् । तेनात्मानं घातयेद् मरणात् पूतो भवतीति विज्ञायते । निष्कालको वा घृताक्तः करीषाग्निना पादात् प्रभृत्य् आत्मानं दाहयेद् मरणात् पूतो भवतीति विज्ञायते” इति (वध् २०.४१–४२) । अत्र विज्ञायत इति श्रुत्युपन्यासाद् एतद्व्यतिरेकेण स्मृतेर् विषयकल्पना न्याय्या । तत्र तुशब्दाभावाद् उपयोगपर्यन्त एव हरण इति गम्यते । “ब्राह्मणसुवर्णहारी तु” इति तुशब्दसामर्थ्यात् प्रतिनिर्यातनशक्तस्यैव हरणे सत्य् एतद् इत्य् अवगम्यते, राजाभिगमनेच्छातः सर्ववर्णानाम् । राज्ञा त्व् अब्राह्मणानाम् एव वधः कार्यः, ब्राह्मणस् तु दण्डेन मोक्तव्य इति केचित् । तत् त्व् अयुक्तम्, ब्राह्मणोद्देशेनैवास्योक्तत्वात् । तथा चाह मनुः ।

सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान् मा भवान् अनुशास्त्व् इति ॥
ततो मुसलम् आदाय स्वयं हन्यात् तु तं नृपः ।
वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव वा ॥ इति । (म्ध् ११.९९–१००)

न चात्र विप्रग्रणस्यान्यार्थत्वं शक्यते वक्तुम्, आनर्थक्यप्रसङ्गाद्, अन्तरेणापि विप्रग्रहणं स्तेनमात्रस्य लब्धत्वात् । न च राजाभिगमनमात्रं विप्रस्योक्तं वधस् त्व् अन्यविषय इति युक्तम्,

ततो मुसलम् आदाय हन्यात् तु तं नृपः ।

इत्य् अत्र शास्त्व् इति वचनात् तम् एव प्रकृतं विप्रम् इति गम्यते । यत् तु ब्राह्मणस् तपसैव वेत्य् एवकारसामर्थ्याद् ब्राह्मणस्य तप एव, अन्यस्य तु वधस् तपो वेति वर्णयन्ति, तद् अप्य् अन्यस्यात्राप्रकृतत्वान् निर्युक्तकम् एव स्यात् । एवकारस् तु तपसो वधेन सहातुल्यार्थत्वात् कल्पान्तरप्रसङ्गनिवृत्त्यर्थः, तपसैव वा केवलेन शुध्यति, वधेन वा राजान्तिकगमनद्वारेणेति । ततश् चेच्छन् ब्राहमणो राजानम् उपगच्छेत्, तेन हतो मुक्तो वा शुध्येत्, यद् वा राजान्तिकम् गत्वैव तपः कुर्यात् । तच् च तपः संवर्तोक्तम् ।

स्वतन्त्रस् तु स संताप्य सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्महणव्रतम् ॥ इति ।

अरण्यवासाच् च लिङ्गाद् द्वादशवार्षिकम् एव स्याद् । यद् वा सर्वब्रह्महत्याव्रतातिदेश एवायम् । तथा चोपसंहारे “एतैर् व्रतैः” (म्ध् ११.१०२) इति बहुवचनम् उपपन्नं भवति । अन्यथा तु द्विवचनम् एव स्यात् । द्विजग्रहणाच् चोपनीतस्यैवैतत् । अनुपनीतस्य त्व् अदोष एवेत्य् अभिप्रायः । यत् तु क्षत्रियादीनां प्रायश्चित्तान्तरानुपदेशाद् विप्रग्रहणम् उपलक्षणम् इति व्याचक्षते । ते “ब्राह्मणो न हन्तव्यः” “सुरा न पेया” इत्य् एवमादिष्व् अपि ब्राह्मणादिशब्दान् हन्यमानमात्रोपलक्षणार्थान् यन् न वर्णयन्ति, तत् किम् अप्य् आश्चर्यम् । राजानम् अभिगम्येति अत्र वा राजशब्दम् अनुशासकमात्रलक्षणयाचार्याद्यर्थं किम् इति न व्याचक्षते । ये तु ब्राह्मणवधो राज्ञो न युक्त इति क्षत्रियादीनाम् एवंजातीयकम् इति ब्रुवते, ते नूनं चोदनाव्यापारनिरपेक्षा एव स्वयं धर्माधर्मौ जानन्तीत्य् अप्रतिसमाधेया एवेत्य् अलं प्रसङ्गेन ॥ २५७ ॥

इदानीम् अत्रैव प्रायश्चित्तान्तरम् आह ।

अनाख्याय नृपे शुद्ध्यै सुरापव्रतम् आचरेत् ।
आत्मतुल्यं सुवर्णं वा दद्याद् वा विप्रतुष्टिकृत् ॥ ३.२५८ ॥

अनिवेद्यैव राज्ञे सुरापव्रतेन शुध्येद् इति । अत्र,

वालवासा जटी वापि चरेद् ब्रह्महणो व्रतम् ।
पिण्याकं वा कणान् वापि भक्षयीत समां निशि ॥ (य्ध् ३.२५४)

इत्य् एतत् सुरापव्रतं विज्ञेयम् । ततश् च तद्वद् एव मतिपूर्वे स्वल्पसुवर्णहरण एव स्यात् । स्वल्पं चार्वाक् सुवर्णात्, सुवर्णशब्दस्य द्रव्ये तत्परिमाणे चाविशेषात् । न चानेकार्थग्रहणे ऽपि दोषः, सुवर्णगत एव परिमाणे दर्शनात् । अतश् च परिमाणवचन एवात्र ग्राह्यः, अर्थतो द्रव्यावगतिः । तथा च व्यासः ।

सुवर्णस्यापहरणे माषकेनापि पातकम् ।
निष्कं पादं तु हरतो न विद्मः किम् भविष्यति ॥ इति ।

तथा-

सुवर्णम् एकं गाम् एकां भूमेर् अप्य् एकम् अङ्गुलम् ।
अपहृत्य द्विजाग्रेभ्यो (नास्थिरा ? नचिराद्) वध्यते ध्रुवम् ॥

इति प्राक्सुवर्णाद् अल्पदोषतां दर्शयति । तथा-

देयस्य परिमाणेन पात्रस्य च यथोत्तरम् ।
दाने ऽपहरणे च स्यात् फलं मध्याधमोत्तमम् ॥ इति ।

अतो ऽपि ह्रियमाणद्रव्यविशेषापेक्षया परिग्रहविशेषापेक्षया च प्रायश्चित्तकल्पना युज्यत एव । ततश् च सुवर्णाद् ऊर्ध्वं द्रव्यपर्माणापेक्षया ब्रह्महत्याप्रायश्चित्तानां विषयकल्पना । सुवर्णशतम् अपहरतो ब्राह्मणस्य राजान्तिकगमनम् । तत्र च राज्ञा मुसलेन हतः,

यदि जीवति स स्तेनस् ततः पापात् प्रमुच्यते ।

इति संवर्तवचनाच् छुध्येत् । यदि तु राजान्तिकं न गच्छेत्, तदा आत्मतुल्यम् आत्मना समतुलितं सुवर्णं ब्राह्मणाय दद्यात् । अथ वा तावतः सुवर्णस्यान्यत् प्रतिवस्तु ग्रामादिकं विप्रस्य तुष्टिकरं दद्यात् । क्षत्रियादीनां तु सुवर्णशतातिरेकेण हरणे वासिष्ठम् एव प्रायश्चित्तद्वयं विकल्पेन स्यात् । आपस्तम्बोक्तम् अपि-

स्तेयं कृत्वा सुरां पीत्वा गुरुतल्पं च गत्वा ब्रह्महत्याम् अकृत्वा ।
चतुर्थकालं मितभोजिनः स्युर् अपो ऽभ्यवेयुः सवनानुकल्पम् ।
स्थानासनाभ्यां विहरन्त एते त्रिभिर् वर्षैस् तद् अपहन्ति पापम् ॥ इति । (आप्ध् १.२५.१०)

तत् प्राक् सुवर्णाद् अमतिपूर्वे ऽपहरणे गुरुतल्पे चामतिपूर्वे सकृद्गते सुरायाश् चामतिपूर्व एवाभ्यवहारसंयोगमात्रे युगपत् कथंचिद् अभिनिर्वृत्ते इत्य् एतद् व्याख्यातम् एव । आङ्गिरसोक्तम् अपि ब्रह्महत्याप्रायश्चित्तैः सह विषयव्यवस्थया योज्यम्-

महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः । इति ।

गुणवतस् तु हर्तुः सुवर्णाद् अर्वाङ् मतिपूर्वे सुमन्तुविहितम्- “सुवर्णस्तेयी मासं सावित्र्याष्टसहस्रम् आज्याहुतीनां जुहुयात् । सर्वकृच्छ्रेण च पूतो भवति” इति । एवम् अन्यद् अपि । यदि स्तेयप्रायश्चित्तं स्मृत्यन्तरे स्यात्, ततो ऽनेनैव मार्गेण योज्यम् । सुवर्णस्तेये च गुणवद्ब्राह्मणसंबन्धिन्य् एव महापातकं स्यात् । तस्यैव द्रव्यं प्रत्य् अनौपचारिकं स्वामित्वम् । इतरस्य तु संव्यवहारमात्रेणौपचारिकम्, प्रभुत्वमात्रापेक्षया स्वशब्दो यतः । अथ कस्मान् निर्गुणानाम् अपि स्वत्वं न भवति, शास्त्रगम्यत्वात् स्वत्वसंबन्धस्य । यदि हि परिग्रहणमात्रेण प्रभुत्वमात्रेण वा स्यात्, ततः सर्वस्य स्यात् । तथा च सति चौर्येणापि तत्संभवाद् अपहरणम् एव न स्यात् । शास्त्रगम्यत्वे वा निर्गुणस्य किम् इति नेष्यते, प्रतिग्रहादीनाम् एवार्जनोपायत्वेन नियमान् निर्गुणस्य च तदसंभवात् । यथोक्तम्-

विद्यातपोभ्यां हीनेन न तु ग्राह्यं प्रतिग्रहः । इति । (य्ध् १.२००)

एवं याजनाध्यापनयोर् अपि । यथाह कात्यायनः ।

अविद्वान् याजको वा स्यात् प्रवक्ता चानवस्थितः ।
ताव् उभौ चोरदण्डेन विनीय स्थापेयेत् पथि ॥ इति । (क्स्म् ८२८)

एवम् अन्यान्य् अप्य् अनेकशः प्रतिग्रहाद्यनधिकारं प्रतिपादयन्ति । ततश् च तदभावात् स्वत्वाभाव एव । सिलोञ्छादिवृत्तयस् तु यायावराणाम् एव । कृषिवाणिज्यकुसीदादीनि त्व् अधिकृतस्यैवार्जितवतः प्रतिग्रहादीनाम् अन्वाचयत्वेनैव व्याख्यातानि । एवं पितृपितामहाद्यार्जितम् अपि प्राक् समावर्तनात् पित्राद्यभावे राज्ञा पालनीयम् । परतस् तु गुणवतः प्रतिपन्नकर्माधिकारस्यैव तत् तस्य भवति । यस्य त्व् अन्यः कश्चिद् गुणवान् दायादो ऽस्ति तद् गुणवद्ब्राह्मणद्रव्यम् एव । अत एव च नारदेनापि त्रैविध्यं धनस्योक्तम्-

शुक्लं च शबलं चैव कृष्णं च त्रिविधं धनम् ।
शुक्लं न्यायार्जितं धर्म्यम् इतरद् व्यावहारिकम् ॥ इति । (च्ड़्। न्स्म् १.४०)

मानवे ऽपि-

धनं यद् यागशीलानां देवस्वं तद् विदुर् बुधाः ।
अयज्वनां तु यद् वित्तम् असुरस्वं तद् उच्यते ॥ इति । (म्ध् ११.२०)

न तावद् देवानां तत् स्वं, तथा सति याग एव न स्यात् । न हि देवस्वं यजमानः शक्नुयात् त्यक्तुम् । अतो यथाविधं देवान् उद्दिश्य त्यज्यते, तथाविधं देवस्वम् । अतो यागशीलानाम् एव द्रव्ये स्वत्वं मुख्यम्, गौणम् इतरेषाम् इत्य् एतद् एवानेन दर्शितम् । ततश् चायज्वनां यद् वित्तं परिग्रहमात्रेण सांव्यवहारिकं कामभोगमात्रौपयिकं तद् असुरस्वम्, तत्र तेषां स्वत्वं नास्तीत्य् अभिप्रायः । तथा च मन्त्रवर्णः- “किं ते कृण्वन्ति कीकटेषु गावः” इत्य् अपरिहरणीयम् एवैतद् इति ज्ञापयति । अतो निर्गुणब्राह्मणानाम् औपचारिकत्वात् स्वत्वस्य न तदपहरणे महापातकयोगः । प्रायश्चित्तं तु तत्रापि परिग्रहीतृसंबन्धोपयोगाद्यपेक्षयापहरणप्रयोजनापेक्षयापहर्तृगुणापेक्षया च कल्पनीयम् । तच् च भूयसो ऽपहरणे द्यूतादिप्रयोजने च शङ्खोक्तम्- “हिरण्यस्तेनः पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिर् इत्य् एते जलशयनं पञ्चतापम् अभ्रावकाशं चानुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु” इति एतद् एव । तान्य् अनियतकालत्वात् संवत्सरं द्वौ त्रीन् वा यथार्हं कल्पनीयम् । यदि तु गुणवान् अपहर्ता अल्पं चापहृतं प्रमादात् तु गुणवतो ऽप्य् असदुपयोगः, ततः शङ्खोक्तम् एव पूर्वस्यैवानन्तरोपदिष्टम्- “मासं वा गोमूत्रयावकं पिबेयुर् एवं शुध्येहुः” इति । एवंविधान्य् अन्यान्य् अपि निर्गुणब्राह्मणसुवर्णविषयतया यथार्हं योज्यानि । दण्डस् तु यो राजपुरुषैर् बलाद् आनीयते । यथोक्तं दण्डप्रकरणे-

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता ।
आचक्षाणेन तत् पापम् एवंकर्मास्मि शास्तु माम् ॥
स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् ।
शक्तिं वोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥
शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ इति । (म्ध् ८.३१४–६)

एतच् च राजपुरुषैर् एव नीयमानस्य द्रष्टव्यं न तु स्वयं प्रायश्चित्तार्थम् आगतस्य, तत्र हि ततो मुसलम् आदायेति वधस्यैव नियतत्वात् । इह त्व् अपराधापेक्षया शासनं वा विविधैर् वाग्दण्डादिभिर् वधपर्यन्तैर् मोचनं वा कथंचिन् निरपराधस्यैवाविमृश्यानीतस्य । अत एव “शासनाद् वा विमोक्षाद् वा” इत्य् उक्तम् । प्रायश्चित्तार्थं तु परिषदा विमृश्यानुमतस्य कुतो विमोचनाशङ्का । अतश् च याज्ञवल्क्ये ऽपि “हतो मुक्तो ऽपि वा शुचिः” (य्ध् ३.२५७) इत्य् एतत् संवर्तैकवाक्यतया राज्ञा हतो यदि जीवति, ततो दण्डम् अगृहीत्वैव राज्ञा मुक्तो विशुध्यतीत्य् एवं व्यख्येयम् । तथा च मानवे राज्ञो दण्डप्रकरणे ऽपि दोष उक्तः- “शासनाद् वा विमोक्षाद् वा” इति । एतद् उक्तं भवति- विमोक्षाद् अपि स्तेनो दोषान् मुच्यते । किं त्व् अशास्तिवा यदि राजोत्सृजेत्, ततस् तस्य यत् किल्बिषं तद् आप्नोतीत्य् अर्थः । केन । शासनार्हः शास्यः । तत्र च ब्राह्मणस्य न शरीरदण्डः । किं तु प्रायश्चित्तार्थं चैतद् एव । नात्र वधदण्डो ऽपि-

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् । (म्ध् ८.३८०)

इति प्रतिषेधात् । पाप एव यो ऽवस्थितः प्रायश्चित्तार्थं राजाभिगमनं नेच्छति, न बलाद् आनीत्य तं हन्याद् इत्य् अर्थः । न शारीरो ब्रह्मणदण्ड इति दण्डस्यैव प्रतिषेधो न तु प्रायश्चित्तार्थतयागतस्येत्य् एषा दिक् ॥ २५८ ॥

इदानीं गुरुतल्पप्रायश्चित्तान्य् आह ।

तप्ते ऽयःशयने सार्धम् आयस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत् तनुम् ॥ ३.२५९ ॥
प्राजापत्यं चरेत् कृच्छ्रं समां वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन् मासान् अभ्यसन् वेदसंहिताम् ॥ ३.२६० ॥

अत्र पूर्वश्लोके गुरुतल्पग्रहणं न कृतम्, महापातकोद्देशाधिकार एवोक्तत्वात्, “पितृष्वसां मातुलानीम्” इत्य् उपक्रम्य, “छित्त्वा लिङ्गं वधस् तस्य सकामायाश् च योषितः” (य्ध् ३.२३३–४) इति । न च राज्ञस् तद् उपदिश्यते, प्रकरणविरोधात् । अतः छित्त्वा लिङ्गं सवृषणं वध एवात्मनस् तस्य प्रायश्चित्तं नान्यद् इति तस्यार्थः । अतश् च यदि सकाम एताः स्त्रियो ऽभ्यासेन वा गच्छेत्, तत एतत् प्रायश्चित्तम्, सकामायाश् च योषितो ऽप्य् अनिच्छन्तम् एवंविधं गच्छन्त्या अभ्यासेन वा निष्कामाया अपि । चशब्दसामर्थाद् एतद् एव प्रायश्चित्तम् । तेनात्र प्रायश्चित्तान्तरोपदेशार्थम् उत्तरश्लोक एव गुरुतल्पग्रहणं कृतम् । पूर्वश्लोके पूर्वोक्तलिङ्गच्छेदनसंबन्धाद् एव ज्ञायत एवेति पुनर् नोक्तम् । अतश् च पूर्वोपदिष्टस्यैव लिङ्गोत्कर्तनस्य वधस्य च प्रकारनिर्देश इह कृतः । एवं च सति यद्य् अकामां पितृष्वस्रादीनां कांचिद् बलात् प्रमथ्य प्रतारयित्वा वाभ्यासेन गच्छेत्, ततः पूर्वं तप्ते ऽयःशयने सार्धम् आयस्या योषिता स्वपेद् इत्य् एतद् द्रष्टव्यम् । द्वयोस् तुल्यायां प्रवृत्ताव् उत्तरम् “सकामायाश् च योषितः” इति स्मरणात् । अविशेषेण वोभयम् अस्तु । सर्वथा कामकृते ऽभ्यासे चैतत् प्रायश्चित्तद्वयं वेदितव्यम् । तप्ते ऽग्निवर्णे लोहफलके तन्मध्ये वा अग्निवर्णयाभिगम्यमानया योषित्प्रतिरूपया सैवेयम् इति स्नेहेनानुरक्त इवालिङ्ग्य स्वपेद् इत्य् अर्थः । योषिद्ग्रहणं च प्रदर्शनार्थम् । अतश् च योषितापि पुमान् एवंविध एवालिङ्गनीयः । यद् वा गृहीतोत्कृत्तवृषणः सन् नैरृत्यां दिशि तनुं शरीरम् उत्सृजेत्, मरणाच् छुद्यतीत्य् अर्थः । स्वयम् उत्कृत्य क्षुरादिना शस्त्रेण हस्ताभ्यां वृषणौ गृहीत्वा प्रत्यग्दक्षिणां दिशं गच्छेद् अकुटिलेन च मार्गेण । यद्य् अन्तरे कूपादि भवति ततो न परिहृत्य गन्तव्यम् । यदि तु केनचिद् वृक्षादिनान्तरे प्रतिहन्येत, ततस् तत्रैव आ मरणाद् आसीत । वृषणग्रहणं चोपलक्षणम् अत्र । अतश् च सवृषणस्यैव लिङ्गस्योद्धारः । तथा च वसिष्ठः- " गुरुतल्पगः सवृषणं शिश्नम् उत्कृत्याञ्जलाव् आधाय दक्षिणामुखो गच्छेत् । यत्रैव प्रतिहन्यात् तत्रैव तिष्ठेद् आ प्रलयात्" इति (वध् २०.१३) । तथा- “निष्कालको वा घृताक्तस् तप्तां सूर्मिं परिष्वजेद् मरणात् पूतो भवतीति विज्ञायते” इति (वध् २०.१४) । निष्कालकः कालानपेक्षः, सद्यो मरणम् इच्छन्न् इति यावत् । शरीरगतं वा कालं केशलोमाद्यपनीतं यस्मात् स निष्कालकः, कालशब्दस्य कृष्णपर्यायत्वात् । पूर्वं तु युक्ततरम् । सूर्मी चात्र प्रतिकृतिर् आयसी, परिषव्जेद् इति लिङ्गात् । ऋज्व् अन्यत् । दक्षिणादिग्वचनं चोपलक्षणार्थं विकल्पार्थं वा । स्पष्टम् अन्यत् । शाङ्खे ऽप्य् एवम् एव । क्षुरेण तु शिश्नोत्कर्तनम् इति विशेषः । यथाह- “गुरुतल्पगस् तप्तम् आयसं शयनम् उपसंविशेत्, क्षुरेण वा शिश्नं सवृषणम् उत्कृत्याञ्जलाव् आधाय नैरृतीं दिशम् अनवेक्षमाणो व्रजेद् आ शरीरपातात् पूतो भवति” इति । एवम् “मातुलानीपितृष्वसास्नुषाभगिनीदुहितृगमनेष्व् आचार्यदुहितरि च” इति । अत्र चशब्दाद् आचार्यभार्यायां चेति गम्यते । गमनेष्व् इति बहुवचनाद् अभ्यासे कामतश् चेत्य् एतल् लभ्यते । भेदेन च मातुलानीदुहित्राद्यभिधानाद् मुख्यगुरुतल्पो ऽन्यत्र जनन्याः कामकृते सकृद्गमने जनन्यां त्व् अकामत एवैतद् इति ज्ञायते । मुख्यत्वं च पितृसवर्णास्व् एव पितृभार्यासु, पितुर् एवानौपचारिकं गुरुत्वं यतः । तथा चाचार्यभार्यायाम् आतिदेशिकं दर्शितम् । वासिष्ठे च “आचार्यपुत्रशिष्यभार्यासु चैवम्” (वध् २०.१५) इति स्पष्ट एवातिदेशः । अतश् च सूक्ता विषयकल्पना । जनन्यां पुनर् अज्ञानाद् अपि सकृद्गमन एवैतत् स्यात् । यथाह संवर्तः-

मातरं यो ऽभिगच्छेत् तु सुतां वा पुरुषाधमः ।
भगिनीं वा निजां मूढो निष्कृतिर् नास्य विद्यते ॥ इति ।

जीवप्रायश्चित्ताभिप्रायेण चोक्तम्, गुरुतल्पप्रायश्चित्तस्यान्यथा निर्विषयत्वप्रसङ्गात् । यथा तेनैवोक्तम्-

गुरुतल्पगस् तु शयने तप्ते स्वप्याद् अयोमये ।
अन्वगूहेत वा दीप्तां स्त्रियं कृष्णायसीकृताम् ॥ इति ।

तथा च हारीतः-

पितृभार्यां तु विज्ञाय यो ऽभिगच्छति मानवः ।
जननीं वाप्य् अभिज्ञाय नामृतः शुद्धिम् आप्नुयात् ॥ इति ।

एवं स्मृत्यन्तराण्य् अपि व्याख्येयानि । समानार्थत्वात् तु नोदाह्रियन्ते । यदि त्व् अज्ञानतो जननीव्यतिरेकेण सवर्णासु पितृभार्यासु सकृद् गमनं स्यात्, तदा

प्राजापत्यं चरेत् कृच्छ्रं समां वा गुरुतल्पगः । (य्ध् ३.२६०)

इत्य् एतत् । समां सम्वत्सरम् इत्य् अर्थः । चरेद् इति खट्वाङ्गादिप्राप्त्यर्थम् । यथाह मनुः-

खट्वाङ्गी चीरवासा वा श्मश्रुलो निर्जने वने ।
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥ इति । (म्ध् ११.१०५)

असवर्णासु तु सकृद् अविज्ञातगमने-

चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम् । इति । (म्ध् ११.१०६)

एतच् च वेदाध्ययन एव स्यात्, सामर्थात् । यस् तु वेदाभ्यासासमर्थः, स चत्वारि चान्द्रायणानि कुर्यात् “त्रीणि चत्वारि वा पुनः” इति । पुनःशदाच् चामतिपूर्वे पुनर्गमने सत्य् एतद् एव पुनः पुनः कुर्याद् इत्य् अभिप्रायः । ततश् चाकामत उपगमनसंख्ययास्यैव व्रतस्याभ्यासः । कामतश् च सकृद् गमने सांवत्सरिकम् । अभ्यासे च मरणान्तिकम् एव ।

यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् । (म्ध् ११.२२०)

इत्य् एतच् चान्द्रायणम्, न यवमध्यादि, मासान् इति मासग्रहणसामर्थ्याद् वाशब्दद्वयाच् च । स्मृत्यन्तरोपसंहाराद् इयं विषयकल्पना । यावच् च गुरोः परिग्रार्हाः, तावत् गुरुतल्पप्रायश्चित्तानाम् अवसरः । यदा तु व्यभिचारिण्यः, तदा पारदार्यप्रायश्चित्तम् एव स्यात् । तच् च चान्द्रायणं गोघ्नप्रायश्चित्तं वेत्य् उत्तरत्र वक्ष्यत्य् एव । व्यभिचारित्वे ऽपि यदि गुरुणा न परित्यक्ता, तथाप्य् अस्त्य् एव गुरुतल्पतेति केचित् । तत् पुनर् यदि गुरुणा वा व्यभिचारित्वं न ज्ञातम्, तन्निमित्तं वा प्रायश्चित्तं कारयितुम् आरब्धम्, तदैतद् एवं स्यात् । यदा तु गुरुर् अप्य् अनर्हाम् एवाङ्गीकुर्यात्, तदान्यद् एव सामान्यविहितं गुरोर् अपरित्यागकारनानुरूप्येण कल्प्यम् । केचित् तु परित्यक्तासु पारदार्यप्रायश्चित्तं नैवेच्छन्ति, संबन्धिनिमित्तत्वाद् दारशब्दस्य । तथा च सति विधवास्व् अपि पारदार्यं न स्यात् । न च व्यभिचारादिभिस् तस्यापगमो युक्तः, संस्कारनिमित्तत्वाद् दारशब्दस्य, तस्य च पतने ऽप्य् अनपगमात् । अत एव पतिता योषितः कृतप्रायश्चित्ताः पुनर् न संस्क्रियन्ते । अन्यथा तु पतनेन संस्कारस्यापगमात् कृतप्रायश्चित्ता अप्य् अदाराः स्युः । अतो व्यभिचारिणीष्व् अप्य् अस्त्य् एव पारदार्यम् । प्रायश्चित्तान्तरं तु स्वैरिणीत्वनिमित्तं विशेषविहितत्वात् तासु भवत्य् एव । यथाह शङ्खः- “स्वैरिण्यां वृषल्याम् अवकीर्णः सचेलः स्नात्वोदकुम्भं दद्यात् ब्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयेत् । क्षत्रियायां त्रिरात्रोपोषितो यवाढकं दद्यात् । ब्राह्मण्यां षडहम् उपोष्य घृतपात्रं दद्यात् । प्रकीर्णास्व् एवम् । अस्वतन्त्रास्व् अन्यथा” इति । एतच् चायोनिसंबन्धाचार्यादिसमस्तगुर्वसंबन्धासु गुर्वीसख्यादिव्यतिरिक्तास्व् अवर्णोत्तमासु चाकामतो गमने वेदितव्यम् । कामतस् तूपपातकप्रायश्चित्तम् एव । तच् च गौतमीयम् “द्वे परदारे त्रीणि श्रोत्रियस्य” (ग्ध् २२.२९–३०) इत्य् एतत् प्रत्येतव्यम् । अपरित्यक्तासु तु व्यभिचारिणीष्व् अकामतो वासिष्ठम्- “ब्राह्मणश् चेद् अप्रेक्षापूर्वकं ब्राह्मणदारान् अभिगच्छेद्, निवृत्तधर्म्कर्मणः कृच्छ्रो ऽनिवृत्तधर्मकर्मणो ऽतिकृच्छ्रः” (वध् २१.१६) इत्य् एतत् स्यात् । कामतस् तु चान्द्रायणं गोघ्नप्रायश्चित्तं वा । तत्र यदि व्यभिचारित्वम् अपरिज्ञायापरित्यागः, तदा चान्द्रायणम् । यदि तु प्रायश्चित्तं कारयितुम् आरब्धा तदा गोघ्नप्रायश्चित्तम्, “एनसि गुरूणि गुरूणि लघूनि लघूनि” (ग्ध् १९.१९) इति वचनात् । अव्यभिचारिणीषु त्व् अकामतो ऽतिशयेन गुणवतां ब्राह्मणादीनां सवर्णासु गुणवतीषु च गमने शङ्खोक्तम्- “अप्रकीर्णासु त्व् अन्यथा वैश्यायाम् अवकीर्णः संवत्सरं त्रिषवणम् अनुतिष्ठेत् । क्षत्रियायां द्वे ब्राह्मण्यां त्रीणि त्रीणि वैश्यावच् च शूद्रायाम्” इति । शूद्रायां च ब्राह्मणजातायाम् उत्कृष्टभार्यायां चैतत् स्यात् । कामतस् त्व् अभ्यासेन च गमने गुरुतल्पप्रायश्चित्तम् । यथा नारदेन दण्डप्रकरणे ऽभिहितम्-

माता मातृश्वसा श्वश्रूर् मातुलानी पितृश्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ।
आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ॥ इति । (न्स्म् १२.७२–७४)

तेन साध्व्यां गुरुतल्पगवचनात् तदीयप्रायश्चित्तप्रसङ्गः । मातृपितृसंबन्धायां यथासंनिकर्षं प्रायश्चित्तगुरुत्वम् । तच् च पितृसंबन्धि गुरुत्वम् अष्टमात् पुरुषाद् आरभ्य मातृसंबन्धि च षष्टाद् विवाहवद् आशौचकल्पवच् च विवेक्तव्यम् । तथा तत्सखीष्व् अपि संनिकृष्टविप्रकृष्टत्वेन प्रायश्चित्तविशेषकल्पना । जननीव्यतिरिक्तपितृभार्याणां तु भ्रातरो मातुलाः तद्भगिन्यश् च मातृष्वसारः । तथा भगिनीसपत्न्यश् च भगिन्यः, तदपत्यं च भागिनेयः । अतश् च तत्रापि निजमातुलान्याद्यपेक्षया किंचिन् न्यूनं पृयश्चित्तं स्यात् । तथा च सुमन्तुः- “पितृपत्न्यः सर्वा मातरस् तद्भ्रातरो मातुलास् तद् भगिन्यश् च मातृष्वसारः, तथा भगिनीसपत्न्यश् च भगिन्यस् तद् अपत्यं च भागिनेयः । अतो ऽन्यथा संकरकारकाणि कृत्वा याप्याः पतिताश् च भवन्ति” इत्य् आतिदेशिकम् एव व्यपदेशं दर्शयति । अतश् च प्रायश्चित्ताल्पत्वसिद्धिः । एवम् अन्येषाम् अप्य् एतद्विषयाणां प्रायश्चित्तानां विवेकह् कार्यः । विशेषविहितानां तु कामकारादिव्यवस्थयैव विषयकल्पना । यथा तावन् मानवे-

पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुर् एव च ।
मातुश् च भ्रातुर् आप्तस्य गत्वा चान्द्रायणं चरेत् ॥ इति । (म्ध् ११.१७१)

तथा संवर्ते-

गुरोर् दुहितरं गत्वा स्वसारं मातुर् एव च ।
तस्या दुहितरं चैव चरेच् चान्द्रायणं व्रतम् ॥
मातुलानीं तथा श्वश्रूं सुतां वै मातुलस्य च ।
एता गत्वा स्त्रियो मोहात् पराकेण विशुध्यति ॥
पितृव्यदारगमने भ्रातृभार्यागमे तथा ।
गुरुतल्पव्रतं कुर्यान् निष्कृतिर् नान्यथा भवेत् ॥
कुमारीगमने चैव व्रतम् एतद् विनिर्दिशेत् ।
सखिभार्यां समारुह्य स्नुषां मातृश्वसुः सुताम् ।
अहोरात्रोषितो भूत्वा तप्तकृच्छ्रद्वयं चरेत् ॥ इति ।

तथा सुमन्तुना सामान्येनैवोक्तम्- “अगम्यागमनस्त्रीवधचण्डालसंपर्केषु कृच्छ्रत्रयं चरेत्” इति । विशेषेण चोक्तम्- “मातृपितृष्वसृस्नुषाभगिनीभागिनेयीगोचण्डालीगमनेषु तप्तकृच्छ्रत्रयं सान्तपनं च तिर्यग्योनिगमने प्राणयामः” इति । तथा गौतमे “सखिसयोनिसगोत्राशिष्यभार्यासु स्नुषायां गवि च तल्पसमः, अवकर इत्य् एके” (ग्ध् २३.१२–१३) इत्य् उक्तम् । अवकरो ऽवकीर्णिप्रायश्चित्तम् । एवं स्मृत्यन्तरेष्व् अपि प्रायश्चित्तानि विशेषतः सामान्यतश् चैवंप्रकाराण्य् एव पठ्यन्ते, समानार्थत्वात् तु न लिख्यन्ते । तद् एतत् सर्वं कामकृतादिव्यवस्थायां यथायथं योज्यम् । सर्वत्र चानाम्नातप्रायश्चित्ते गौतमीये “कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तम्” (ग्ध् १९.२०) इत्य् एतद् व्यस्तसमस्ततया योज्यं, सर्वप्रायश्चित्तवचनात् । इतिशब्दस्य च प्रकारार्थत्वात् पापविशेषापेक्षया तस्यैवावृत्तिः कल्पनीया इत्य् एषा दिक् ।

  • स्त्रीणाम् अप्य् एवम् एव प्रायश्चित्तकल्पना । यच् छूद्रस्य ब्राह्मणीनां गमने, तद् एव ब्राहमण्याः शूद्रगमने स्यात् । एवं क्षत्रियादिष्व् अपि । योनिसंबन्धगमने ऽप्य् एवम् एव । तथा चाह मनुः-

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि ।
यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ॥ इति । (म्ध् ११.१७६)

कृतप्रायश्चित्ता यदि भूयः प्रवर्तेत, ततो यत् पुरुषस्य पारदार्यप्रायश्चित्तं, तत् कारयित्वा पुनर् अनुबन्धाद्यपेक्षया कृच्छ्रम्, तच् च केवलं चान्द्रायणोत्तरं वा । यथाह मनुः-

सा चेत् पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ।
कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ॥ इति । (म्ध् ११.१७७)

एतच् च यस्यासौ रक्षणीया स यदि संग्रहीतुम् इच्छति ततः प्रायश्चित्तम् एकगृह एव निरुद्धां कारयेत्, यदि तु न संगृह्णीयात् ततो विप्रदुष्टां परित्यजतो न दोषः इत्य् एतद् भर्तृग्रहणाल् लभ्यते । अन्यथा तु “निरुन्ध्याद् एकवेश्मनि” इत्य् एतावतैव सिद्धत्वाद् भर्तृग्रहणम् अनर्थकम् एव स्याद्, अन्यस्यैवंविधप्रयत्नासंभवात् । न चायं राज्ञ उपदेशः, अन्यत्र दण्डप्रकरणे ऽभिहितत्वात् । ततो भर्तृग्रहणाद् यदि भर्तुम् इच्छति, तत एतत् कारयेद् इति गम्यते । वासिष्ठानि तु प्रायश्चित्तादिकारोक्तान्य् अपि सामर्थ्याद् राज्ञ एवोपदिश्यन्ते- “शूद्रश् चेद् ब्राह्मणीम् अभिघच्चेद्, वीरणैर् वेष्टयित्वा शूद्रम् अग्नौ प्रास्येद्, ब्राह्मण्याः शिरसि वपनं कारयित्वा” इत्यादीनि (वध् २१.१) । यदि तु स्वयम् एव स्त्रियः प्रायश्चित्तं कुर्युः, ततो “मनसा भर्तुर् अतिचारे त्रिरात्रं यावकं क्षीरौदनं वा भुञ्जानाधः शयीत । ऊर्ध्वं त्रिरात्राद् अप्सु निमग्नायाः सावित्र्याष्टशतेन शिरोभिर् जुहुयात् पूता भवतीत्य् विज्ञायते । वाक्संबन्ध एतद् एव मासं चरित्वोर्ध्वं मासाद् अप्सु निमग्नायाश् चतुर्भिर् सावित्र्याष्टशतैः शिरोभिर् जुहुयात् पूता भवतीति विज्ञायते । व्यवाये तु संवत्सरं घृतपटं धारयेत् गोमयगर्ते कुशप्रस्तरे वा भुञ्जानाधः शयीत । ऊर्ध्वं संवत्सराद् अप्सु निमग्नायाः सावित्र्याष्टसहस्रेण शिरोभिर् जुहुयात् पूता भवतीति विज्ञायते” इति (वध् २१.६–८) । एतच् च त्रैवर्णिकयोषितां त्रैवर्णिकविषयं सर्वत्राविशेषेणैव स्याद्, विशेषानुपदेशाद् एव, शूद्रगमने चोत्त्तरत्र प्रायश्चित्तवचनात् ।

ब्राह्मणक्षत्रियविषां स्त्रियः शूद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ (वध् २१.१२)

इत्य् उक्त्वा, प्रायश्चित्तं यद् अप्रजातानां शूद्रगमने, तद् दर्शितम्-

प्रतिलोमं चरेयुस् ताः कृच्छ्रं चान्द्रायणोत्तरम् ॥ इति । (वध् २१.१३)

अत्र च त्रैवर्णिकस्त्रीणाम् अविशेषोपदेशात् पूर्वत्राप्य् अविशेष एवेति ज्ञायते । कर्तव्यतानिश्चये चान्येनाप्रतारितायाः स्वयम् एव दृढे मनस्य् अवस्थिते मानसं, वाचिकम् अप्य् एवम् एव, व्यवाये चैवंविध एवैतत् स्यात् । शूद्रप्रसङ्गे च एतत् कृत्वा “प्रतिलोमं चरेयुः” इत्य् एतत् स्यात्, अभिगमनसंख्यया च प्राग् गर्भोत्पत्तेः । गर्भे तु गुरुतल्पप्रायश्चित्तम् एवेत्य् एषा दिक् । अकामतस् तु प्रतारिताया हृदयेन सव्यलीकेन यदि कथंचिद् व्यभिचारः स्यात्, ततः संवर्तोक्तानि प्रायश्चित्तानि प्रत्येतव्यानि । यथाह-

ब्राह्मणी ब्राह्मणं गत्वा कृच्छ्रम् एव समाचरेत् ।
एवं शुद्धिः समाख्याता संवर्तवचनं यथा ॥
यदि तु ब्राह्मणी गच्छेत् क्षत्रियं वैश्यम् एव वा ।
गोमूत्रयावकाहारा दशरात्रेण शुध्यति ॥
ब्राह्मण्याः शूद्रसंपर्के कथंचित् समुपागते ।
चान्द्रायणेन शुद्धिः स्यात् तद् अस्याः पावनं परम् ॥ इति ।

अत्र परं कृच्छ्रात् चान्द्रायणं पावनम् इत्य् एवं व्याख्येयम् । स्पष्टम् अन्यत् ॥ २६० ॥

रजकव्याधशैलूषवेणुचर्मोपजीविनः ।
ब्राह्मण्य् एतान् यदा गच्छेत् कृच्छ्रं चान्द्रायणं चरेत् ॥ ३.२६१ ॥**[^१९]

व्याधो लुब्धकः । शैलूषो नटः । अत्रापि कृच्छ्रं चान्द्रायणं, कृच्छ्रं चान्द्रायणे, कृच्छ्रं चान्द्रायणानि । स्पष्टम् अन्यत् ॥ २६१ ॥

श्वपाकं पुल्कसं म्लेच्छं चण्डालं पतितं तथा ।
एतांस् तु ब्राह्मणी गत्वा चरेच् चान्द्रायणत्रयम् ॥ ३.२६२ ॥

श्वपाको मरुकुन्तिकः । पुल्कसो मेयः । म्लेच्छाः पुलिन्दाः तार्जिकादयः । अत्रापि तथाशब्दः पूर्वश्लोकोक्तप्रकारप्राप्त्यर्थः । ततश् च कृच्छ्रपूर्वाण्य् एतानि प्रत्येतव्यानि, एकैकगमने च सर्वत्र बहुवचनस्याविवक्षितत्वात् । यदि तु कथंचिद् बलात् प्रमथ्यातिशयदुःखार्ता भुज्यते, ततो हारीतोक्तं द्रष्टव्यम्-

बलात् प्रमथ्य भुक्ता या गृह्यमाणेन चेतसा ।
प्राजापत्येन शुध्येत चण्डालपतितेष्व् अपि ॥

यदि तु भर्तायं मदीय एवेत्य् एवं मन्यमाना सकामैवोपभुक्ता स्यात्, ततो यदा विज्ञानं, तदा,

स्त्रियः पवित्रम् अतुलं नैता दुष्यन्ति कर्हिचित् ।
मासि मासि रजो ह्य् आसां दुष्कृतान्य् अपकर्षति ॥

इत्य् एवमादीनाम् अर्थवत्ता । यदि तु पश्चात् कथंचित् सामान्यतः परपुरुषेणाहं भुक्तेत्य् एतावद् एवावगच्छेत्, ततो वासिष्ठम्-

बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ।
स्वयं विप्रतिपन्ना वा यदि वा विप्रवादिता ।
न त्याज्यादूषिता नारी नास्यास् त्यागो विधीयते ॥ (वध् २८.२–३)

इत्य् उक्त्वोक्तम्-

पुष्पकालम् उपासीत ऋतुकालेन शुध्यति ॥ (वध् २८.३)

अयम् अस्यार्थः- यदि तु स्वयम् एव नायं मम भर्ता भ्रान्त्यैवायं मया तद्बुद्ध्या गृहीत इत्य् एवं पूर्वस्मात् तथात्वावगमाद् विप्रतिपन्ना, अथ वान्येन केनचिन् नायं त्वदीयो भर्तेत्य् एवं तद्बुद्धेर् विप्रवादिता, बलात्कारेण वा केनचित् सवर्णेनोपभुक्ता, परराष्ट्रोपप्लवादौ वा कथंचिच् चोरहस्तगता हीनवर्णोपभुक्ताप्य् अत्याज्या स्यात् । कस्माद्, यतस् तेन प्रकारेण सादूषितैव । नारीत्वं हि या प्रतिपद्यते, सा दूष्यते । या त्व् अनारीत्वेन तिर्यग्विधिना भुज्यते, न तस्यास् त्यागो ऽभ्यासेन वाप्य् उपभुक्तायाः विधीयते, संग्राह्यैवासाव् इत्य् अभिप्रायः । विधीयत इति वचनाद् अर्थलक्षणस् त्यागो भर्तुर् इच्छया न प्रतिषिध्यते, स्वेच्छया परिग्रहो ऽप्य् अदुष्टः इत्य् अभिप्रायः । इदं तु तस्याः प्रायश्चित्तम्- “पुष्पकालम् उपासीत” इत्यादि । पुष्पशब्देन ऋतुकाल उच्यते । पूर्वोक्तेन यावकक्षीरौदनादि गोमयगर्ते भुञ्जाना अधःशायिनी घृतपटं धारयन्त्य् आसीत यावत् पुष्पकालम् । ततस् तदुक्तयैव व्रतचर्यया त्रिरात्रान्ते स्नाताप्य् आसीत यावत् षोडश रात्रयः । एवम् ऋतुकालेन शुध्यतीति । एतद् एव च पुरस्तात् प्रदर्शितम् । “तस्या उक्तं प्रायश्चित्तं रहस्येषु” इति हारीतोक्तेन कृच्छ्रेण सहास्य विकल्पः । प्रतिलोमव्यभिचारे ऽप्य् एवंविधस्यैवाभ्यासकल्पना इत्य् अलं प्रसङ्गेन । पुरुषस्यापि स्वभार्याबुद्ध्यैवाभिगमने एषैव प्रक्रिया योज्या । अत एव च गौतमेनोकम्- “न स्त्रीष्व् अगुरुतल्पं पततीत्य् एके” इति (ग्ध् २१.८) । गुरुतल्पे तु स्वभार्याबुद्ध्यापि पतनम् एवेत्य् अभिप्रायः । यच् च मनुनोक्तम्-

यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् । (म्ध् ११.१७६)

इति, तत्र चशब्दाद् यच् च स्त्रीणां परपुरुषे ऽभिहितं तत् पुंस इत्य् एवं व्याख्येयम् । ततश् च हारीतोक्तं कृच्छ्रं तेनैव प्रकारेण पुंसो ऽपि भवत्य् एवेत्य् एषा दिक् ॥ २६२ ॥

एवं तावच् चतुर्णां गुरुतल्पपर्यन्तानां महापातकानां प्रायश्चित्तान्य् अभिधायेदानीं तत्संसर्गिणः प्रायश्चित्तावसरे ऽर्थान्तरोपदेशद्वारेण प्रायश्चित्तम् आह ।

एभिस् तु संपिबेद् यो वै वत्सरात् सो ऽपि तत्समः ।
कन्यां समुद्वहेद् एषां सोपवासाम् अकिंचनाम् ॥ ३.२६३ ॥

महापातकोद्देशे “यश् चैतैः संपिबेत् समाम्” (य्ध् ३.२२८) इति महापातकित्वम् उक्तम् । इदं तु प्रायश्चित्तार्थं तत्समत्ववचनम् । य एते ब्रह्महप्रभृतय उक्ताः पातकिनः एभिर् यः संवत्सरं संपिबेत् सहभोजनाद्य् आचरेत्, सो ऽपि संवत्सरात् तत्समः, तदविशिष्टप्रायश्चित्तार्ह इत्य् अभिप्रायः । समशब्दश् चात्र तद् एवास्य प्रायश्चित्तं समम् अन्यूनान(ति?)रिक्तं पूर्वोक्तयैव विषयव्यवस्थया यथा स्याद् इत्य् एवमर्थः । अतश् च समशब्दाद् ईषन्न्यूनत्वं नाशङ्कनीयम् । तथा च मानवे-

यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ (म्ध् ११.१८१)

इति प्रायश्चित्तसाम्यम् एवोक्तम् । वत्सराद् इति पञ्चम्यन्तं परत इत्य् अध्याहृत्य योज्यम्, संवत्सरात् परतस् तदीयप्रायश्चित्तार्ह इत्य् अर्थः । प्राक् त्व् अन्यद् एव प्रायश्चित्तं दर्शयिष्यामः । अस्यापवादः- कन्याम् अक्षतयोनिकां सम्यङ् निर्विचिक्त्सम् उद्वहेत् । अयं तु विशेषः- “सोपवासाम् अकिंचनाम्” । उपवासशब्दो ऽत्र प्रायश्चित्तोपलक्षणार्थ इति केचित् । उपवासमात्रम् एव प्रायश्चित्तम् इति युक्ततरम्, उपलक्षणत्वे हेत्वभावात् । अकिंचनत्वं च पुष्पमालामात्रम् अपि तदीयं न ग्राह्यम् इत्य् अभिप्रायम् । तथा च हारीतः- “पतितस्य तु कुमारीं विवस्त्राम् आप्लाव्याहोरात्रोपोषितां प्रातः शुक्लेनाहतेन वाससाच्छाद्य ऽनाहम् एतेषां न ममैतेऽ इति त्रिर् उच्चैर् अभिधाय तीर्थे स्वगृहे वोद्वहेत्” इति । यत् तु मनुनोक्तम्-

संवत्सरेण पतति पतितेन समाचरन् ।
याजनाध्यापनाद् यौनान् न तु यानाशनासनात् ॥ इति । (म्ध् ११.१८०)

याजनाध्यापनादिना निमित्तेन यानि यानाशनासनादीनि, न तैः संवत्सरेण पतति । किं तर्हि, अर्वाग् एव संवत्सरात् । यनि तु लोकसंव्यवहारेण यानादीनि, तैः संवत्सरेणेत्य् अभिप्रायः । याजनाध्यापनयोश् चैकवद्भावो यौनापेक्षया न्यूनत्वार्थः । याजनाध्यापनाद् धेतोः पतितेन समाचरन्न् इत्य् एवं पदानां योजना । ततश् च याजनाध्यापनयोर् अपि पतनम् एवेति गम्यते । यत्र च याजनादि कारयिष्यामीत्य् एवं तन्निमित्ते यानासनादाव् अपि प्राग् एव संवत्सरात् पतनम्, तत्र तदाचरणे सद्य एवेत्य् एतत् सामर्थ्यसिद्धम् एवेत्य् अभिप्रायः । ततश् च यदि प्रकारान्तरेण योनिसंबन्धो भवति, ततः पतनम् । यथोक्तेन तु प्रकारेण सोपवासाम् अकिंचनां चोद्वहतो निर्दोषत्वम् इत्य् अनवद्यम् । यद् अपि गौतमेन पतितात्यागिनः पतितत्वम् उक्तम् (ग्ध् २१.२), तद् अपि यौनादिद्वारकम् एव, अन्यत्र “तैश् चाब्दं समाचरन्” (ग्ध् २१.३) इत्य् आरम्भात् । अतो याजनादिना ये पतितेन सह व्यवहरन्ति, ते “पतितात्यागिनः” (ग्ध् २१.१) । ये त्व् औचित्यात् प्रसक्तम् अपि याजनाद्य् अपतितस्यैव पतितो ऽयम् इति कृत्वा न कुर्वन्ति, ते त्व् “अपतितत्यागिनः” (ग्ध् २१.१) । ये तु ग्राह्यवचनत्वेन संभाविताः क्रोधादिना संदेहमात्रे ऽपि परिषदि नियुक्ताः सन्तो निःसंदिग्धं पतितत्वं समर्थवादितया समर्थयन्ति, ते “पातकसंयोजकाः” (ग्ध् २१.२) । तैश् च मुख्यपतितैर् इव संवत्सरं य आचरेत्, सो ऽपि संसर्गपतितः, “तैश् चाब्दं समाचरन्” (ग्ध् २१.३) इति वचनात् । ये तु संवत्सरं व्यवहरन्तः पतिता भवन्ति, तत्संपर्के ऽन्येषां पतनं नास्ति । तद् उक्तम्- “पञ्चमश् चाचरंस् तैः” (आम्नाय उन्देर् ३.२२८) इति, पञ्चमग्रहणस्याधिकनिवृत्त्यर्थत्वाद् इत्य् एषा दिक् । अत्र च वसिष्ठोक्तम्- “पतितसंप्रयोगे तु ब्राह्मेण यौनेन वा यास् तेभ्यः सकाशान् मात्रा उपलब्धास् तासां त्यागस् तैश् च न संवसेद् उदीचीं दिशम् उपनिष्क्रम्यानश्नन् संहिताध्ययनम् अधीयानः पूतो भवतीति विज्ञायते” इति (वध् २०.४५–४६) । “तेभ्यः सकाशात्” इति वचनाद् यास् त्व् अपतितेभ्यस् तदीयेभ्यो ज्ञातिसखिप्रभृतिभ्यस् तेनैव हेतुनोपलब्धास् तासाम् अत्याग एव । मात्राग्रहणं च ताम्बूलादेर् अपि तदीयस्य त्यागो यथा स्याद् इत्य् एवमर्थम् । उपलब्धा इति चासंचेतितास्व् अदोषार्थं, संचेतितानां च स्वरूपनाशे ऽपि तत्तुलयस्यान्यस्य त्यागार्थम् । तैश् च न संवसेद् इति प्रायश्चित्तारम्भाद् एव सिद्धत्वाद् एकग्रामवासनिवृत्त्यर्थम् अन्तिकवासनिवृत्त्यर्थं वा । स्पष्टम् अन्यत् । शङ्खेनाप्य् उक्तम्- “पतितसंव्यवहारिणो जलशयनं पञ्चतापम् अभ्रावकाशं चानुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु मासं वा गोमूत्रयावकं पिबेयुर् एवं शुध्यन्ति” इति । तथा महापातकमध्ये “तैश् च सह संप्रयोगश् च स पञ्चमः पातकः” इत्य् उक्तम्, न च तत्र प्रायश्चित्तम् उक्तम् । अतो यत् सामान्येनोक्तम् “पतितो ह्य् आत्मानम् उद्धरेत् संवत्सरं तप्तकृच्छ्रम् आचरेत्” इत्यादि ब्रह्मह्त्याप्रकरणे व्याख्यातम्, तद् एव संप्रयोगिणो ऽभिप्रेतम् इति गम्यते । तथा संवर्ते ऽपि चतुर्णां महापातकानां प्रायश्चित्तान्य् उक्त्वोक्तम्-

एभिः संपर्कम् आयाति यः कश्चित् पापमोहितः ।
षण्मासम् अब्दम् एकं वा पूर्वोक्तानां व्रतं चरेत् ॥ इति ।

अत्र चैभिः षण्मासम् अब्दम् एकं वा य संपर्कम् आयाति, स पूर्वोक्तानां व्रतं चरेद् इति केचिद् योजयन्ति । तथा सत्य् अब्दग्रहणात् सिद्धे सत्य् एकं वेत्य् अवक्तव्यं स्यात् । अतः प्रायश्चित्तकालोपदेशो ऽयं न संपर्ककालस्य । तेनायं श्लोकार्थः- य एभिर् ब्रह्महप्रभृतिभिः स्मृत्यन्तरानुसारेण “संवत्सरेण पतति” (म्ध् ११.१८०) इत्यादिना संपर्कम् आभिमुख्येन याति, स एषां पूर्वोक्तानां यद् व्रतं द्वादशाब्दाद्य् उक्तं तद् एव षण्मासम् एकं वाब्दं चरेद् इति । वाशब्दाच् च द्वौ वा त्रीन् वा इत्य् एतद् अपि गम्यत एव । तथा षण्मासं त्रीन् वा मासान् इति । एवं सुमन्तुनापि सुवर्णस्तेयस्योक्त्वा “सुवर्णस्तेयी मासं सावित्र्याष्टसाहस्रम् आज्याहुतीर् जुहुयात् सर्वकृच्छ्रेण च पूतो भवति” इति, तत उक्तम्- “यश् चैतैः सह यौनमुख्यब्राह्माणां संबन्धानाम् अन्यतमेन संपर्कं कुर्यात्, तस्याप्य् एतद् एव प्रायश्चित्तं विदध्यात्” इति । आनन्तर्याच् चैतद् एव स्तेयसंबद्धम् इति गम्यते, न तु येन संपर्कस् तदीयम् एवेत्य् एवं योजनोपपद्यते । शातातपे तु- “पतितसंव्यवहारी तप्तकृच्छ्रेण शुध्यति” इत्य् एवम् । स्मृत्यन्तरेषु तु पतितसंपर्कप्रायश्चित्तानि मानवेनैकार्थान्य् एव-

यो येन पतितेनैषां संपर्कं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ इति । (म्ध् ११.१८१)

सर्वथात्रायं सिद्धान्तः- पतितसंप्रयोगे कामकृते याजनाध्यापनादौ “यो येन पतितेन” इत्य् एतदुक्तयैव विषयव्यवस्थया स्यात् । तत्रापि च संपर्के मरणान्तिकं नैव भवति, “तत्संसर्गविशुद्धये” इत्य् आरम्भात् । अन्यथा त्व् अयम् अन्त्यः श्लोकपादो ऽनर्थक एव स्यात् । अतः पतितसंपर्कं विशोधयितुम् अपतितैः सह संपर्कसिद्ध्यर्थं तस्यैव यज् जीवप्रायश्चित्तं तत् कुर्याद् इति । मरणान्तिकार्हेणापि संपर्के गुरुतरं कल्प्यं न मरणान्तिकं द्वादशाब्दं वा, “षण्मासम् अब्दम् एकं वा” इति संवर्तवचनात् । नाप्य् अस्य द्वादशाब्दं युक्तम्, मरणान्तिकेन तुल्यकल्पत्वात् । न च द्वादशाब्दार्हेणापि संपर्के स्वयं तदनर्हस्य तद् युक्तम् । न च यथाविधो ऽनुबन्धो हन्तुः, तथाविधः संसर्गे संभवति । हन्ता हि विद्यावृत्ततपःसंपन्नं सवनगतं च ब्राह्मणं तस्यैव महासतीं योषितम् अपहर्तुं कामतो हन्यात् । न च तेन सह संसर्गे तथाविधो ऽनुबन्धः संभवति । अतः संसर्गहेत्वपेक्षयैव तस्य प्रायश्चित्तं कल्प्यम्, न च तत्कल्पनायां कल्पान्तरस्यानुप्रवेशः, येन पूर्वोक्ता कल्पना स्यात् । ततो यान्य् एतानि स्मृत्यन्तरेषु संसर्गोद्देशेन विशेषविहितानि, तैर् एव सह सामान्योपदिष्टानां विषयकल्पना युक्ता । न च तैः सह द्वादशाब्दिकं मरणान्तिकं वा शक्यं कल्पयितुम् । अतो ऽपि यान्य् एव सरस्वतीगमनसंहिताजपसंवत्सरकणपिण्याकभक्षणतुल्यानि, तान्य् एव कामकृते संसर्गे घोरतरानुबन्धे च सरस्वत्याद्यर्हसंपर्के च विशेषविहितानि पूर्वम् उदाहृतानि प्रत्येतव्यानि । परस्परं तु विषयकल्पना ज्ञातैवेत्य् अलं प्रसङ्गेन । चण्डालसंपर्कप्रायश्चित्तान्य् अप्य् अनेनैव मार्गेण व्यख्येयानि । तत्रापि,

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ (म्ध् ११.१७५)

इति मानवे पतितत्ववचनात् पतितप्रायश्चित्तानि सर्वाणि प्रसज्यन्ते । “ज्ञानात् साम्यं तु गच्छति” इति च प्रायश्चित्ताभाव एवैवंविधस्य कामतो व्यवहरत इत्य् एवमर्थः । अतश् च पतितसंपर्काद् गुरुतरस् तत्संपर्क इति ज्ञायते, न त्व् अभाव एव प्रायश्चित्तस्येत्य् अभिप्रायः । तेनात्र द्वादशाब्दिकं मरणान्तिकं च प्राप्नोत्य् एव । संपर्ककालस्य चानभिधानात् पूर्वप्रकृत एव कालो ऽत्रापि द्रष्टव्यः-

संवत्सरेण पतति पतितेन समाचरन् । (म्ध् ११.१८०)

इति, स्पर्शाधिकारे च-

दिवाकीर्त्य्म् उदक्यां च पतितं सूतिकां तथा । (म्ध् ५.८५)

इत्य् एकप्रकरणपाठात् । अतः संवत्सरात् परतः कामसंसर्गे मरणान्तिकम्, अर्वाक् प्रायश्चित्तान्तराणि महापातकप्रकरणोक्तानि विषयव्यवस्थया योज्यानि । तथा स्मृत्यन्तरेष्व् अपि चण्डालसंकरे, यथा वासिष्ठे- “गुर्वीसख्यादिगमने कृच्छाब्दपादं चरेत्” इत्य् उक्त्वोक्तम्- “एतद् एव चण्डालपतितान्नभोजनेषु” इति (वध् २०.१६–१७) । अत्र च कृच्छ्रगणनया सप्त सार्धानि कृच्छ्राणि । तेनैतत् सप्तरात्रं भुक्त्वा कुर्यात् । कुत एतत्-

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रम् एव वा ॥ (म्ध् ४.२२२)

इति मनुवचनात्, तन्मध्ये च पतितस्योक्तत्वात्-

अभिशस्तस्य षण्डस्य पुंश्चल्या डांबिकस्य च । इति । (म्ध् ४.२११)

यदि तु अभिशस्तो ऽन्तरेणापि पतनं महापातकाभिशस्तो गृह्यते, तथापि दण्डापूपिकया महापातकिनां भेदेनानभिधानेनैवाभोज्यत्वसिद्धेः सकृद्भोजने मत्या कृच्छ्रम् । ततश् चावृत्तिविषयत्वाद् वासिष्टम्- “कृच्छाब्दपादं चरेत्” (वध् १०.१६) इत्य् एतत् सप्ताहविषयम् इति स्थितम् । चण्डालभोजनं तु यद्य् अपि पतितभोजनाविशेषेण पठ्यते, तथापि लोकोपचारान् मानवाच् च ज्ञापकाद् गुरुतरम् एव । अतश् चाकामतश् चण्डालान्नभोजने कृच्छ्रं, कामतस् तु सकृद्भोजने ऽपि पतनम् एव, “ज्ञानात् साम्यं तु गच्छति” (म्ध् ११.१७५) इति मनुवचनात् । अज्ञानतस् तु संवत्सरेण पतनम् । प्राक् तु संवत्सरात् पतितसंपर्कवद् विषयकल्पना । यत्र त्व् अज्ञातश् चण्डालादिः कस्यचिद् गृहे ऽवतिष्ठते, तेन च सहान्ये व्यवहरन्ति न तु साक्षात् तेन चण्डालादिना, तेषां प्राक् संवत्सराद् ऊर्धं च षण्मासात् संवर्तोक्तम्-

चण्डालसंकरे विप्रः श्वपाके पुल्कसे ऽपि वा ।
गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥ इति ।

अत्र संकरमात्रम् उक्तम्, न तु साक्षात्संबन्धे । तथा च काश्यपः- “चण्डालश्वपाकपुल्कसादिसंकरे संव्यवधाने षण्मासान् गोमूत्रयावकाः पञ्चाहकालं पातव्याः । एवं प्रतिमासवृद्ध्या वृद्धिर् आ परिवृत्तेः सूर्यस्य । इति । सूर्यपरिवृत्तिश् च षण्मासेन भवति । अतः प्राक् षण्मासाद् इत्य् अयम् अस्यार्थः । विप्रग्रहणात् तु ब्राह्मणस्यैवैतत् । इतरेषां तु कृच्छ्रत्रयम् । तच् च प्राजापत्यं स्यात् । यथाह सुमन्तुः- “अगम्यागमने स्त्रीवधचण्डालसंकरे च कृच्छ्रत्रयं चरेत्” इति । साक्षात् तु यस्य गृहे स्थितः, तस्य पराशरोक्तम्-

अविज्ञातस् तु चण्डालो निवसेद् यस्य वेश्मनि ।
विज्ञानेनोपसन्नस्य विप्राः कुर्वन्त्य् अनुग्रहम् ॥
ऋषिवक्त्रच्युतान् धर्मान् पठन्तो धर्मपाठकाः ।
पतन्तम् उद्धरेयुस् तं धर्मशास्त्रविशारदाः ॥
दधिक्षीरघृतैर् युक्तं कृच्छ्रं गोमूत्रयावकम् ।
भुञ्जीत सहितो भृत्यैस् त्रिसंध्यम् अवगाहयन् ॥
दध्नादौ त्रियहं पूर्वं सर्पिषा च ततः परम् ।
क्षीरेण त्रियहं भोज्यम् एकैकेन पुनस् तथा ॥
तिष्ठेद् दिनानि यावन्ति तावन्त्य् एवं समाचरेत् ।
भावदुष्टं न भुञ्जीत प्रकृत्या गोरसप्लुतम् ॥
त्रिपलं तु दधि क्षीरं पलमात्रं तु सर्पिषः ।
अशक्ताव् उपवासेन फलमूलाशनेन वा ॥
आकरेषु भवेच् छुद्धिस् तैजसानाम् अशेषतः ।
जलशौचेन वस्त्राणां मृन्मयानि परित्यजेत् ॥
कुसुंभं गुलकार्पासं लवणं तैलसर्पिषी ।
द्वारे कुर्वीत धान्यानि दद्याद् वेश्मनि पावकम् ॥
स पूतः सहितो भृत्यैः कुर्याद् ब्राह्मणभोजनम् ।
विंशद् गावो वृषं चैकं ब्राह्मणेभ्यो निवेदयेत् ।
एवं स शुद्धिम् आप्नोति पराशरमतं यथा ॥ इति । (प्स्म् ६.३४–४१)

कृच्छ्रम् इति गोमूत्रयावकविशेषणम् । ततश् च यथा कृच्छ्रो दुरभ्यवहार्यो भवति, तथा केवले गोमूत्रे कर्तव्यः । स यथोक्तपरिमाणैर् दध्यादिभिर् उपसिक्तो भोक्तव्यः । संपर्कानुरूप्येण च भृत्यानां गृहपतेश् च कालनियमः । द्वादशरात्राच् च प्राग् विज्ञाने सत्य् एतत् प्रायश्चित्तम् । परतस् त्व् एतद् एवाहःसंख्ययाभ्यसितव्यम् । दक्षिणा त्व् एतावत्य् एव । संवत्सरात् तु परतो ब्रह्महत्यायाम् एव स्यात् । वर्षत्रयात् तु परतो मरणान्तिकम् एव । अन्येषां तु तत्संसर्गिणां संवत्सराद् ऊर्ध्वं पतितसंपर्कवद् विषयकल्पनेत्य् अलम् अतिप्रसङ्गेन । चण्डालपरिगृहीतोदकपाने तु क्षुल्लकं सान्तपनम्,

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च श्वपाकम् अपि शोधयेत् ॥

इति वचनात् ।

चण्डालावर्जिते चान्ने स्पृष्ट्वा चैनं विशेषतः ।
भुक्त्वा कृच्छ्रम् अविज्ञाते ज्ञात्वा चान्द्रायणं चरेत् ॥

इत्य् अत्रिवचनं स्पष्टार्थम् एव । यथा-

चण्डालपरिगृहीता अपः किंचित् पिबेद् यदि ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥
चण्डालेन च संस्पृष्टं पिबेत् किंचिद् अकामतः ।
अत्र सान्तपनं कृच्छ्रं चरेच् छुद्ध्यर्थम् आत्मनः ॥
अन्तावसायिनाम् अन्नम् अश्नीयाद् यस् तु कामतः ।
स तु चान्द्रायणं कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥

इत्य् आङ्गिरसाः श्लोकाः । तत्र चण्डालेन च साक्षात् यत् स्पृष्टं तत् तदीयं चाज्ञानात् कथंचित् पिबति यस् तस्य महासान्तपनम् । यस् त्व् अकामत एव तत्परिगृहीतकूपादौ, तस्य क्षुल्लकसान्तपनम् । यस् तु ज्ञात्वा तदीयम् एवान्नं स्वयं संस्कृत्य भुङ्क्ते, तस्य चान्द्रायणम् । यस् त्व् आचमनार्हाणां प्रतिलोमानां कामतः पक्वान्नं भुङ्क्ते, तस्य तप्तकृच्छ्रम् । यस् त्व् अकामतस् तस्य प्राजापत्यम्-

भुक्त्वा तु प्रतिलोमानां सूतादीनाम् अकामतः ।
प्राजापत्यं चरेत् कृच्छ्रं त्रिरात्रं त्व् आहृताशनः ॥

इत्य् अत्रिवचनात् । मानवे ऽपि च ।

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् । (म्ध् ४.२२२)

इति तदीयं पक्वान्नम् आहृतम् एव भुक्त्वा प्रत्येतव्यम् । तदीयगृहभोजने तु याज्ञवल्क्योक्तं चतुरहम् इत्य् एषा दिक् ।

  • अन्ये तु “भुक्त्वातो ऽन्यतमस्यान्नम्” इत्य् एवमादीन्य् अर्थवादत्वेन व्याचक्षते, प्रायश्चित्तप्रकरण एव यत् पठ्यते तद् एव प्रायश्चित्तार्थं भवति, अप्रक्रणे त्व् अर्थवादतैव युक्तेति वदन्तः । तथा सति शतपथे मध्यमकाण्डे प्रायश्चित्तप्रकरणे पौरोडाशिके काण्डे ऽभिहितम्- “स्कन्नम् अभिमृशति भूपतये स्वाहा” (श्ब् १.३।३.१७) इत्यादि, तस्याप्य् अर्थवादत्वं स्यात् । न च स्मृताव् अर्थवादानां तन्मात्रपर्यवसानं युक्तम् इत्य् उक्तम् एव । न चात्र किंचिद् अर्थवादसारूप्यम् अस्य स्यात् । अतो ऽर्थवादो नाम वाक्यप्रकारो ऽस्ति, तम् अप्य् अहं जानामीत्य् एतावान् एवाभिप्राय इत्य् उपेक्षणीयम् ॥ २६३ ॥

एवं पञ्चानाम् अपि महापातकानां प्रायश्चित्तम् उक्तम् । इदानीं जातित उत्कृष्टानां जातितो ऽपकृष्टानां वधे प्रायश्चित्तम् आह ।

चान्द्रायणं चरेत् सर्वान् अपकृष्टान् निहत्य तु ।
शूद्रो ऽधिकारहीनो ऽपि कालेनानेन शुध्यति ॥ ३.२६४ ॥

ब्राह्मणः क्षत्रियादीन्, क्षत्रियो वैश्यादीन्, वैश्यो रथकारादीन्, शूद्रश् च प्रतिलोमादीन् आत्मनो निकृष्टान् निहत्य चान्द्रायणं कुर्यात् । ननु च शूद्रस्य जपग्रासानुमन्त्रणानधिकार एव । सत्यम् एवम् । किं तु “अधिकारहीनो ऽपि शूद्रः कालेनानेन शुध्यति” । मासं मयूराण्डकप्रमाणान् एकोपचयादिना ग्रासान् अश्नन् मन्त्ररहितो विशुध्यतीत्य् अभिप्रायः । अन्ये तु क्षत्रियादिवधे प्रायश्चित्तान्तरस्य वक्ष्यमाणत्वात् प्रतिलोमवध एवैतत् प्रायश्चित्तम् इति व्यचक्षते । तथा सति “सर्वान् अपकृष्टान्” इत्य् अत्र सर्वशब्दो ऽनर्थकः स्यात् । तथा हि शङ्खः- “सर्वेषाम् अन्योन्यापकृष्टवधे चान्द्रायणम्” इत्य् अविशेषेणैवाह । अविशेषाभिधाने ऽपि च क्षत्रियवध एव ब्राह्मणस्य चान्द्रायणम् । वैश्यवधे तु न्यूनम् अन्यत् कल्प्यम् । अन्योन्यापकृष्टवध इति वचनाच् चान्द्रायणप्रकारापेक्षया व्यवस्था कल्प्या । यत् तु क्षत्रियादीनां वैशेषिकम्, तन् निकृष्टस्यैव हन्तुर् उत्कृष्टवधे विज्ञेयम् । तत्रैव च विशेषं वक्ष्यामः ॥ २६४ ॥

यदि त्व् अपकृष्टे ऽपि क्षत्रियादौ देशान्तरगते व्यापादिते स्वयं क्षत्रियो ऽयम् इत्य् एवं जानन्न् अपि द्वेषाद् ब्राह्मणो ऽयम् अनेन व्यापादित इत्य् एवं मिथ्यैव कश्चिद् अभिशंसेत्, तस्यापि किं दोषः प्रायश्चित्तं वा भवेद् उत नेति, तथा यथावस्थितम् अप्य् अविज्ञातं लोके ब्राह्मणादिवधम् अन्यद् वा पापं यो ऽभिशस्य ख्यापयति, तस्यापि किम् इत्य् अत आह ।

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ।
मिथ्याभिशस्तपापं च समादत्ते मृषा वदन् ॥ ३.२६५ ॥

यस् तावन् मिथ्यैवाभिशंसेत् तस्य द्विर्दोषः, द्विगुणम् इत्य् अर्थः । यस् तु भूतम् एवार्थम् अप्रख्यातम् अभिशस्य प्रख्यापयति, तस्याभिशस्यमानेन तुल्यदोषत्वम् । कस्मात् पुनर् मिथ्याभिशंसिनो द्विगुणदोषत्वम्, यस्माद् अभिशंसनात् पातकसंयोजकतया पतितत्वोपदेशात् तुल्यत्वं तावद् अस्त्य् एव । अन्यच् च- यत् तस्य मिथ्याभिशस्तस्य पापं, तच् चासौ सम्यग् आदत्ते मृषा निर्दोषस्यैव दोषवत्तां वदन् । तस्माद् यतो न तावत् तस्य दोषो ऽस्ति, अतो यश् चाध्यारोपितः, यश् चाध्यारोपकत्वेन प्राप्तः, तौ द्वाव् अपि तस्यैव दोषाव् इत्य् उपपन्नम् । द्विगुणदोषत्वं तावत् पूर्वोक्तेनैव प्रकारेण सिद्धम् । किं च अन्यद् अपि यत् किंचित् तेन पापं कृतम्, तद् अप्य् असाव् एव मिथ्याभिशंसनाद् आदत्ते । ततश् चाभिशस्तः पूर्वकृताद् अपि पापान् मुच्यते इत्य् अभिप्रायः । युक्तं चैतत्, दुःखोपभोगस्य पापक्षयहेतुत्वात् । यत् त्व् अभिशस्तस्य प्रायश्चित्तावधानम्, तद् उत्तरत्र वक्ष्यामः ॥ २६५ ॥

एवं महापातकप्रायश्चित्तानि सप्रपञ्चम् अभिधायेदानीम् उद्देशक्रमापेक्षयैवोपपातकप्रायश्चित्तानाम् अवसरः । तत्र प्राथम्याद् गोवधस्याह ।

पञ्चगव्यं पिबन् गोघ्नो मासम् आसीत संयतः ।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥ ३.२६६ ॥

पञ्चगव्यं चात्र भोजनार्थम् । ततश् च गोमूत्रादीनि पञ्चापि तुल्यप्रमाणान्य् एकत्रालोड्य प्रत्यहं सकृद् भोक्तव्यानि । संयमश् चात्र चान्द्रायणेतिकर्तव्यतावस्थान(ं?) स्मृत्यन्तरोक्तं वा गोचर्मधारणगोमूत्रस्नानादि । संयमवचनाद् इह तु वक्तव्यम् एवम् । गोघ्नो मासं पञ्चगव्यम् अश्नन् गोष्ठ एव गोर् उपसंनिधौ शयनं रात्रौ कुर्वन् दिवा च गोऽनुगामी यथा च गावः स्वेच्छया सुखेन गच्छन्ति तथा गच्छन्तीनां परिचारकत्वेनानुगामी स्याद् इत्य् अर्थः । ततो ऽन्ते गोप्रदानं कृत्वा शुद्धः स्यात् । लिङ्गस्य चानभिव्यक्तत्वाद् ऋषभधेनुदानं च यथालिङ्गं योज्यम् ॥ २६६ ॥

तथेदम् अन्यद् गोवध एव ।

कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः ।
दद्यात् त्रिरात्रं वोपोष्य ऋषभैकादशास् तु गाः ॥ ३.२६७ ॥

अत्र “कृच्छ्रं चैव” इत्य् एवकाराद् अपिशब्दाच् चैकैकम् अपि प्रायश्चित्तम् इति गम्यते । अतश् चैतानि प्रायश्चित्तानि त्रीणि कृच्छ्रम् अतिकृच्छ्रम् उभयं च । समाहितशब्दश् च पूर्ववत् स्मृत्यन्तरोक्तधर्मप्राप्त्यर्थः । तथेदम् अन्यत्- त्रिरात्रोपोषितो दश गा एकादशम् च ऋषभं दद्यात् । एवम् एतानि पञ्च गोघ्नप्रायश्चित्तानि श्लोकद्वयोक्तानि विषयव्यवस्थया योज्यानि । केचित् त्रीण्य् एवैतानीति व्याचक्षते, कृच्छ्रातिकृच्छ्रयोः समुच्चितयोर् एव प्रायश्चित्तत्वात् । तथा सति त्रीण्य् अपि समानत्वाद् इच्छयैव विकल्प्यन्ते । अन्ये तु पञ्चगव्यं पिबन् मासं कृच्छ्रं चैवातिकृच्छ्रं च चरेद् इत्य् एकम् एवेच्छन्ति । अपिशब्दाच् च अपि वा पूर्वानपेक्षं कृच्छ्रं चैवातिकृछ्रं चेत्य् एवं योजयन्ति, स्मृत्यन्तरानुसारात् । तथा च हारीतो मानवं त्रैमासिकम् अभिधायाह ।

पञ्चगव्येन वा मासं स्थित्वा कृच्छ्रद्वयं चरेत् । इति ।

अविशेषाभिधाने ऽपि चैतदनुसाराद् एव द्वितीयम् अतिकृच्छ्रं प्रत्येतव्यम् ॥ २६७ ॥

एतद् एवोपपातकान्तरेष्व् अपि प्रायश्चित्तान्तरैः सह वैकल्पिकत्वेनातिदिशति ।

उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणापि वा पुनः ॥ ३.२६८ ॥

सर्वस्यैवोपपातकमध्यपठितस्यायाज्ययाजनपारदार्यादेर् उपपातकस्यैवं पूर्वश्लोकद्वयोक्तैर् गोघ्नप्रायश्चित्तैः शुद्धिः स्यात् । यद् वा चान्द्रायणेन । यद् वा मासं पयोव्रतत्वेन । यद् वा पराकेण । पराको द्वादशरात्रोपवासः । पुनःशब्दाच् च व्यस्तसमस्ततया प्रयोगो ऽभ्यासेन च । स्मृत्यन्तरानुसाराच् च व्यवस्था कल्पनीया । अत्र च स्मृत्यन्तरेष्व् अनेकप्रकाराणि गोघ्नप्रायश्चित्तानि पठ्यन्ते । तथोपपातकान्तरेष्व् अपि । वैशेषिकाणि च बहुषु बहूनि पठ्यन्ते । तेषाम् अपि तु प्रसङ्गनिरूपणा युक्तैव कर्तुम् । यथा तावन् मानवे-

एतैर् व्रतैर् अपोहेयुर् महापातकिनो मलान् ।
उपपातकिनस् त्व् एवम् एभिर् नानाविधैर् व्रतैः ॥

इत्य् उक्त्वोक्तम्-

उपपातकसंयुक्तो गोघ्नो मासं यवां पिबेत् ।
कृतवापनो वसेद् गोष्ठे चर्मणा तेन संवृतः ॥
चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेणाचरन् स्नानं द्वौ मासौ नियतेन्द्रियः ॥
दिवानुगच्छेत् ता गास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनी वसेत् ॥
तिष्ठन्तीषु च तिष्ठेत व्रजन्तीष्व् अप्य् अनुव्रजेत् ।
आसीनासु तथासीत नियतो वीतमत्सरः ॥
आतुराम् अभिषक्तां च चोरव्याघ्रादिभिर् भयैः ।
पतितां पङ्कलग्नां च सर्वप्राणैर् विमोक्षयेत् ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृषम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥
आत्मनो यदि वान्येषां क्षेत्रे गेहे ऽथ वा खले ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥
अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥

केचित् तु “त्रिभिर् वर्षैः” इति पठन्ति ।

ऋषभैकदशा गास् तु दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥
एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्जं सुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ इति । (म्ध् ११.१०७–११७)

आङ्गिरसेनाप्य् एवम् एवोक्तम् ।

उपपातकसंयुक्तो गोघ्नो भुञ्जीत यावकम् ।
अक्षारलवणं रूक्षं षष्ठे काले ऽस्य भोजनम् ॥
कृतवापनो वसेद् गोष्ठे चर्मणा तेन संवृतः ।
द्वौ मासौ स्नानम् अप्य् अस्य गोमूत्रेण विधीयते ॥
पानशौचक्रियाकार्यम् अद्भिः कुर्वीत केवलम् ।
व्रतवद् धारयेद् दण्डम् अमन्त्रां चैव मेखलाम् ॥
गाश् चैवानुव्रजेन् नित्यं रजस् तासां पिबेत् सदा ।
गोमतीं च जपेद् विद्याम् ॐकारं वेदम् एव च ॥

अन्यत् तु सर्वं मानवेनाविशिष्टम् । अयं तु विशेषः-

अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं द्वाभ्यां मासाभ्यां वै व्यपोहति ॥ इति ।

तथा “दक्षिनायाम् अविद्यमानायां तद्वर्णं तल्लिङ्गं वोपपादयेत्” इति । संवर्तस् तु ।

गोघ्नः कुर्वीत संस्थानं गोष्ठे गोर् उपसंनिधौ ।
तत्रैव शयनं चास्य मासार्धं क्षितिशायिनः ॥
सक्तुयावकभैक्षाणि पयो दधि च संयतः ।
एतानि क्रमशो ऽश्नीयान् नरस् तत्पापमोक्षकः ॥
शुध्यते सो ऽर्धमासेन नखरोमविवर्जितः ।
स्नानं त्रिषवणं कुर्यात् संयतो वीतमत्सरः ॥
गायत्रीं च जपेन् नित्यं पवित्राणि च सर्वशः ।
पूर्णे चैवार्धमासे तु स विप्रान् भोजयेत् ततः ॥
भुक्तवत्सु तु विप्रेषु गा दद्याच् छक्तितो द्विजः । इति ।

तथा कश्यपेन गोवधम् एवाधिकृत्योक्तम्- “प्रायश्चित्तम् अकामावाप्तौ, कामकृते ऽप्य् एके” । दोग्ध्र्यादीनां प्रायश्चित्तं दोग्ध्रीधमनदानेन । तदामयाशङ्कायां च घण्टाभरणभूषणयोजने वा पानतैलौषधभेषजक्रियाभिर् विनियोगैर् व्यापन्नानां प्रायश्चित्तम्- “ब्राह्मणेभ्यो निवेदयित्वा सशिखं वपनं कृत्वा प्राजापत्यं कृच्छ्रम् आचरेत् । चीर्णान्ते (?) धेनुं तिलधेनुं दद्यात्” इति काश्यपः । अथान्यो वर्णः- “तेन चर्मणा प्रावृतो मासं गोष्ठे वसेत् । त्रिषवणस्नायी नित्यं पञ्चगव्याहारः षष्ठान्नकालं पयोभक्षी वा गच्छन्तिष्व् अनुगच्छेत् तासु स्तब्धासु नोपविशेत् । नातिप्लवं गच्छेत् । न विषमेणावतारयेत्, नाल्पोदके नाल्पयवसे वा । अन्ते ब्राह्मणतर्पणं कुर्यात् । धेनुं तिलधेनुं वा दद्यात्” इति काश्यपः । तथा शाङ्खे ऽपि- “गोघ्नः पञ्चगव्याहारः पञ्चविंशतिरात्रं तिष्ठेत् । सशिखं वपनं कृत्वा गोचर्मणा प्रावृतो गा अनुगच्छेत् । गोष्ठे वसेत् । गोप्रदानं च कुर्यात्” इति । वासिष्ठे तु- “गां चेद् धन्यात्, तस्याश् चर्मणार्द्रेण प्रावृतः षण्मासं कृच्छ्रं तप्तकृच्छ्रं वानुतिष्ठेत् । तयोर् विधिः” (वध् १८–१९) इति तत्स्वरूपम् उक्त्वा, “ऋषभवेहतौ च दद्याताम्” (वध् २२) इत्य् उक्तम् । पैठीनसिनापि- “गोघ्नो यवागूं प्रसृतितण्डुलशृतां मासं बुञ्जानो गोभ्यः प्रियं कुर्वाणः शुध्येत्” इति । सुमन्तुस् तु- “गोघ्नस्य गोष्ठे शयनं द्वादशरात्रं पञ्चगव्यभोजनं गवाम् अनुगमनं च” इति । तथा यमो ऽपि ।

पादपाशनिबन्धाद् वा अतियोक्त्रातिवाहनात् ।
नदीकान्तारसन्तारश्वभ्रभृग्वद्रिपातनात् ॥
एवं गौर् म्रियते यत्र तत्र शुद्धिर् विधीयते ।
सशिखं वपनं कृत्वा मौनी कौपीनवस्त्रधृक् ॥
गोमूत्रयावकं मासम् अश्नन् गोभिः समं व्रजेत् । इति ।

तथात्रैवापरम् ।

उपपातकसंयुक्तो गोघ्नो भुञ्जीत यावकम् । (च्ड़्। म्ध् ११.१०८)

इत्य् आङ्गिरसेनैवाविशिष्टं ग्रन्थतो ऽर्थतश् च । अयं तु विशेषः ।

गायत्र्या दशसाहस्रं जप्यं कुर्वीत चाह्निकम् ।
गोमतीं च जपेद् विद्याम् ।

इत्यादि च । तथा ।

गोसहस्रं शतं वापि दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ इति । (च्ड़्। म्ध् ११.११६)

गौतमे च “गां च वैश्यवत्” (ग्ध् २२.१८) इत्य् अतिदेशः कृतः । वैश्यवधे च “प्राकृतं त्रैवार्षिकं ब्रह्मचर्यम् ऋषभैकादशाश् च गा दद्यात्” (ग्ध् २२.१५) इत्य् एवम् । बृहस्पतिना तु ।

द्वादशाहेन गोघाती तस्मात् पापात् प्रमुच्यते ।
क्षीराहारो भवेत् तत्र क्षीरदध्यशनो ऽपि वा ॥

तथेदम् अन्यत् ।

गायत्र्या दशसाहस्रं जपेद् वा यावकाशनः ।
निर्मुण्डं वपनं कृत्वा मौनी कौपीनवस्त्रधृक् ॥
गवां मध्ये वसेद् गोष्ठे दिवा ताभिः समं व्रजेत् ।
चीर्णान्ते तु द्विजातिभ्यो दद्याद् गां हेमम् एव च ॥

तथेदं तत्रैवान्यत्- “द्वादशरात्रं पञ्चगव्याहारः षड्रात्रं वा यावकाहारो गोष्ठे वसेत् । देशकालशरीरशक्त्यनुरूपं वा भवेत् । श्मश्रुनखाद्यपनयनं कृत्वा ब्राह्मणान् प्रणिपत्यानुज्ञातो ऽन्ते गां वृषं वा तद्वधे दद्यात् । ब्राह्मणान् भोजयित्वा शुध्येद् इत्य् आह बृहस्पतिः” इति । शातातपे तु- “त्रीन् कृच्छ्रान् प्राजापत्यादीन् आचरेद् गोमतीं च जपेत्” इति । पाराशरे तु-

गवां बन्धनयोक्त्रेषु भवेन् मृत्युर् अकामतः ।
अकामतः कृतं पापं ब्राह्मणेभ्यो निवेदयेत् ॥ (प्स्म् ८.१)

इत्य् उपक्रम्य,

सशिखं वपनं कृत्वा त्रिसंध्यम् अवगाहनम् ।
गवाम् मध्ये वसेद् रात्रौ गोभिः समं व्रजेत् ॥ (प्स्म् ८.३१)

इत्यादिगोऽनुगमनप्रकारम् उक्त्वा, प्राजापत्यं कृच्छरम् उक्तम्- “ततश् चीर्णान्ते ब्राह्मणभोजनम् अनडुत्सहितधेनुदानं च” इति । एवं स्मृत्यन्तरेष्व् अप्य् एवंविधान्य् एव गोवधप्रायश्चित्तानि । अत्र च स्वयंभुवा-

उपपातिकिनस् त्व् एवम् एभिर् नानाविधैर् व्रतैः । (म्ध् ११.१०७)

इत्य् उक्त्वोक्तम्- “उपपातकसंयुक्तो गोघ्नः” इत्यादि (म्ध् ११.१०८) । तेन ज्ञायते अस्त्य् उपपातकव्यतिरेकेणापि गोघ्नत्वम् । अन्यथा तु विशेषणानर्थक्यम् एव स्यात् । तच् च द्विविधम्- किंचिदुपपातकसंयोगाद् अतिरिक्तं पातकान्तःपाति, किंचिच् चोपपातकाद् न्यूनम् । तत्र यद् “उपपातकसंयुक्तो गोघ्नः” इत्य् एवम् उपक्रम्य पठ्यते यथाङ्गिरसे, तस्य मानवेन वैकल्पिकत्वम् । यत् तु मानवाद् गुरुतरम् असंयुक्तं च यथा गौतमीयम्, यथा याम्ये-

गोसहस्रं शतं वापि दद्यात् सुचरितव्रतः ।

इति, तत्र च “उपपातकसंयुक्तो गोघ्नः” इत्य् एवंरूपत्वाद् उपक्रमस्य एतद् मानवेनाविशिष्ठत्वाद् वैकल्पिकत्वेन व्याख्येयम् । अन्यत् तु सहस्रदक्षिणात्मकं पातकोचितत्वाद् गौतमीयवैकल्पिकत्वेन । शतदानम् अपि तस्मिन्न् एव विषये ऽनुबन्धाद्यपेक्षया योज्यम् । यानि तु न्यूनानि शङ्खयाज्ञवल्क्यप्रचेतःप्रभृतिषु, तान्य् उपपातकसंयुक्तत्वेनानुपदेशाद् अल्पत्वाच् च प्राग् उपपातकाद् द्रष्टव्यानि । तत्र च क्रत्वर्थानां गवां वधे मानवाद् अभ्यधिकानां विषयः । इतरत्र तु वधायैव प्रवृत्तस्य यो वधः, स उपपातकसंयोगः । यस् त्व् अन्यार्थं प्रवृत्तस्य भवति, स यद्य् उपपातकमध्ये पठ्यते, तथापि न्यून एव, “उपपातकसंयुक्तो गोघ्नः” इति विशेषणसामर्थ्यात् । न चात्र परिग्रहालोचनया विषयव्यवस्था युक्ता, तस्य वधं प्रत्य् अनुपयोगात् । यत् तु ब्राह्मणसंस्थगोहरणे दण्डभूयस्त्वम् उक्तम्-

गोषु ब्राह्मणसंस्थासु स्थुरिकायाश् च भेदने ।
पसूनां हरणे चैव दण्डः कार्यो ऽर्धपादिकः ॥

इति, तत् तस्मिन्न् एव स्तेयप्रकरणे युक्तम् । तत्र हि यदीयं यच् च द्रव्यं ह्रियते, तत्स्वरूपापेक्षयैव दण्डविशेषनिरूपणात् । इह तु यद्य् अप्य् आत्मीया हन्यते, तथापि तावद् एवाभ्यधिकं वा प्रायश्चित्तं स्यात् । अतो ऽत्र कस्येयं गौर् इत्य् एतन् नोपयुज्यते । ततश् च हीनसात्कृताया उत्तमसात्कृतायाश् च वधे हन्तृगतानुबन्धापेक्षयैव विषयकल्पना । वचनात् तु क्रत्वर्थहिंसायां दोषातिरेकावगतिः, यथाह शङ्खः-

मारुताः पशवो याज्ञाः दैवीश् च मरुतो दिशः ।
वैश्यहत्याव्रतं कुर्याद् अतस् तेषां प्रमापणे ॥ इति ।

यद्य् अपि चात्र पशुमात्र उक्तम्, तथापि गौतमीयाद् “गां च वैश्यवत्” (ग्ध् २२.१८) इति वचनाद् गोविषयम् एवैतद् इति द्रष्टव्यम् । अन्यत्रापि च महतां प्रायश्चित्तानाम् एषैव प्रक्रिया योज्या । यथा स्वायम्भुवे-

मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥ इति । (म्ध् ११.१३१)

क्रत्वर्थानाम् एवैषां वध एतच् छूद्रहत्याप्रायश्चित्तं स्यात् । एवं स्मृत्यन्तरेष्व् अपि । यथा गौतमे- “मण्डूकनकुलकाकबिम्बदहरमूषिकाश्वहिंसासु च” इति (ग्ध् २२.१९) । अत्रापि शूद्रहत्याव्रतम् एव चशब्देनोपदिष्टम् । बिम्बः कृकलासः । दहरमूषिका चुच्छुन्दरिका । मानवात् तु गुरुतरम् एतत् । मानवे ऽप्य् उक्तम्-

एतद् एव व्रतं कृत्स्नं षण्मासाञ् छुद्रहा चरेत् ।
ऋषभैकादशा वापि दद्याद् विप्राय गाः सिताः ॥ इति । (म्ध् ११.१३०)

गौतमे तु- “शूद्रवधे संवत्सरं प्राकृतं ब्रह्मचर्यम् ऋषभैकादशा गाश् च दद्यात्” इति (ग्ध् २२.१६) । अत्रापि मानवं ब्राह्मणस्य क्रत्वर्थशूद्रवधे च । गौतमीयं त्व् अब्राह्मणविषयम् । एवम् अन्यत्रापि क्रत्वर्थपुरुषार्थापेक्षया हन्तृगतानुबन्धापेक्षया च हिंसाप्रायश्चित्तानां विषयकल्पना कर्या । केचित् तु समुच्चितानां मण्डूकादीनां वध एतद् इति वर्णयन्ति । तत् तु “हिंसासु च” (ग्ध् २२.१९) इति बहुवचनान् न्याय्विरोधाच् चायुक्तम् । अतः क्रत्वर्थविषयतयाइव व्याख्येयम् । तत्र च क्रत्वर्थाम् अग्निहोत्रादिसाधनभूतां गां हत्वाकामतो वासिष्ठम्, कामतस् तु गौतमीयम् । सोमयागाङ्गभूतानां सोमक्रयण्यादाव् अकामतो गौतमीयं, कामतस् तु याम्यं गोसहस्रदानम् इति । एवम् अन्यान्य् अप्य् एवंप्रकाराणि व्याख्येयानि । पुरुषार्थायास् तु कामतो वधे मानवम्, अकामतस् त्व् आततायित्वेन वा याज्ञवल्कीयम् । अकामेन चान्धकारादौ गौर् इत्य् एवम् अजानतो मृगव्याद्यधिकृतस्यास्त्य् एव वधप्रसङ्गः । ननु आततायिवधे नैव दोषो युक्तः । सत्यम्, पशूनां त्व् अबुद्धिपूर्वत्वात् प्रवृत्तेर् न मानुषैस् तुल्यकल्पत्वं युक्तम् । तथा च सुमन्तुः- “नाततायिवधे प्रायश्चित्तम् अन्यत्र गोब्राह्मणेभ्यः” इति । अतस् तद्वधे ऽपि प्रायश्चित्तम् अस्त्य् एव, आत्मत्राणपरत्वात् त्व् अकामत एव तत्र वध इति प्रायश्चित्ताल्पत्वं युक्तम् । यानि तु विशेषेणैव पठ्यन्ते, यथा-

गवां बन्धनयोक्त्रेषु भवेन् मृत्युर् अकामतः । (प्स्म् ८.१)

इति पाराशरे, तानि श्रुतित एव व्यवस्थितानि । न चास्मिन् विषय उपपातकत्वम् । अतो यत् सामान्येनोच्यते-

प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा ।
न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते ऽकृते द्विजः ॥ (म्ध् ११.४७)

इति, तत् पातकोपपातकविषयत्वाद् एवंविधे गोवधे न स्यात्, यत्रैवोपपातकत्वं तत्रैव भवति, न तु बन्धन्योजनादौ, व्यवहारोच्छेदप्रसङ्गात् । अतो यदि संगोपनाद्यर्थं बन्धने कृष्याद्यर्थं वा योजने तत्कृतो वधः स्यात्, ततः पाराशर्यं विज्ञेयम् । यत् तु-

सायं संयोजनार्थाय न दुष्येद् रोधबन्धयोः । (प्स्म् ९.१)

इति, तद् रोधबन्धाव् एव निर्दोषौ न तु तन्निमित्तो वधो ऽपि । तथा चान्यत्रोक्तम्-

औषधं स्नेहम् आहारं दद्याद् गोब्राह्मणस्य तु ।
तन्निमित्तं विपन्ने ऽपि पुण्यम् एव न पातकम् ॥

इति, अन्यत्रास्त्य् एव दोष इति गम्यते । अन्ये तु संवर्त एवेमं श्लोकं पठन्ति-

निरुद्धानां गृहे वापि वने वा श्वापदादिभिः ।
विद्युत्सर्पाग्निभिर् वापि मरणे नास्ति पातकम् ॥

इति, तत् पुनर् विचार्यम् । यत् तु संवर्त एव-

एकश् चेद् बहुभिः कश्चिद् दैवाद् व्यापादितो भवेत् ।
पादं पादं हि हत्यायाश् चरेयुस् ते पृथक् पृथक् ॥

इति, तद् गोवधप्रकरणे ऽपि श्रुतं ब्राह्मणादिहिंसास्व् अपि द्रष्टव्यम्, कश्चिद् इत्य् अविशेषोपदेशात् । अयं चास्य विषयः- दुर्बलहिंसायां बहवो यदि मोचनसमर्थाः प्रत्येकं संभूय वा स्युः, तत्र यद्य् अन्योन्यापेक्षया विमोचनं न कृतं कथंचिद् दैवयोगात्, तत्रैकस्य यत् प्रायश्चित्तं प्राप्नोति, तस्य पादेनैकैकः शुध्यतीत्य् अभिप्रायः । पाराशर्योक्तं च सर्ववर्णानाम् अविशेषेणैव स्यात्, अविशेषोपदेशाद् एव । संवर्तोक्तं तु यदि कथंचिद् गां मरणायागतां वधाद् अन्येन न शक्नोति परिहर्तुम्, ततश् त्रैवर्णिकस्य द्रष्टव्यम्- “गोघ्नस्यापि प्रवक्ष्यामि निष्कृतिम्” इति । अपिशब्दो ऽत्र रहितत्वं वधस्य ज्ञापयति । अतो जपोपदेशाद् एवंभूते साक्षाद् वधे द्रष्टव्यम् । आङ्गिरसं तु मानवेन वैकल्पिकम् । तद् अपि जपोपदेशात् त्रैवर्णिकानाम् एव कामकृते वधे द्रष्टव्यम् । काश्यपीयं तु दोग्ध्र्यादिसंयोगेनैव चोदितत्वात् सुज्ञानम् एव । दोग्ध्री आदिर् येषां ते दोग्ध्र्यादयः । तत्र दोग्धुं यन्त्रितायां व्यापत्तौ तदर्थ एव च धमने । या गौर् मृतवत्सादिका, तस्या धमनं क्रियते । तद् गोजीविनां प्रसिद्धम् । एवं घण्टाभरणादि विक्रयाङ्गतया यत् क्रियते, स्नेहौषधदानाद्य् अपि विक्रयाद्यर्थतयैव शीघ्रपोषणविवक्षया यत् क्रियते, तत् प्रत्येतव्यम् । एतद् अपि सार्ववार्णिकम् एव । द्वितीयं तु काश्यपोक्तं शूद्रस्यैव सांवर्तेनैकविषयं द्रष्टव्यम् । पञ्चगव्याहारत्वे च प्रत्यहं भोजनम् । पयोभक्षित्वे तु षष्टान्नकालता । समानम् अन्यत् । शङ्खोक्तम् अप्य् अस्मिन्न् एव विषये शक्त्यपेक्षया योज्यम् । पैठीनसीयं त्व् अस्मिन्न् एव विषये ऽनुगमनासमर्थस्य स्त्र्यादेर् द्रष्टव्यम् । सुमन्तुविहितं तु यदि गृहक्षेत्रखलादाव् उपद्रवं कुर्वती गौर् अभिहन्यमाना श्वभ्रादौ कथंचिद् पतति, तद्विषयं स्त्र्यादीनाम् एव । समर्थानां चास्मिन्न् एव विषये याम्यम्-

पादपाशनिबन्धाद् वा अतियोक्त्रातिवाहनात् ।

इत्य् उपक्रम्य यद् विहितिम्-

गोमूत्रयावकं मासम् अश्नन् गोभिः समं व्रजेत् ।

इत्य् एतद् विज्ञेयम् । यत् तु तत्रैव-

उपपातकसंयुक्तो गोघ्नो भुञ्जीत यावकम् ।

इत्यादि, तद् आङ्गिरसेन तुल्यकल्पम् । यत् तु तत्रैव-

गोसहस्रं शतं वापि दद्यात् सुचरितव्रतः ।

इति, तद् गौतमीयवैकल्पिकत्वेन क्रत्वर्थगोवधविषयं व्याख्यातम् एव । बार्हिष्पत्यं तु “द्वादशाहेन गोघाती” इत्य् एतत् पाराशर्येण वैकल्पिकं त्रैवर्णिकानाम् एव । लक्षजपस् तु ब्राह्मणानाम् एव,

जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । (म्ध् २.८७)

इति वचनात् । यत् तु तत्रैव “द्वादशरात्रं पञ्चगव्याहारः” इति, तत् सौमन्तवेन वैकल्पिकम् । यत् तु तत्रैव “षड्रात्रं यावकाहारः” इति, तत् तस्मिन्नेव विषये बालवृद्धाद्यपेक्षया योज्यम् । शातातपोक्तं तु संवर्तोकवैकल्पिकत्वेनानुबन्धविशेषापेक्षया योज्यम् । एवं योगीश्वरोक्तानाम् अपि परस्परतो विषयकल्पना । सर्वत्रैव च प्रायश्चित्तप्रकरणे,

जातिशक्तिगुणापेक्षं सकृद् बुद्धिकृतं तथा ।
अनुबन्धं परिज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥

इत्य् एतद् एव संक्षेपसूत्रम् । तथा-

अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ इति । (म्ध् ११.२०९)

तथा-

ते यां वेदविदो ब्रूयुस् त्रयो ऽप्य् एनःसु निष्कृतिम् ।
सा तेषां पावनाय स्यात् पवित्रं विदुषां हि वाक् ॥ इति । (म्ध् ११.८५)

एवं सर्वत्रापि योज्यम् । अयाज्ययाजनादाव् उपपातकवर्गे गोघ्नप्रायश्चित्तातिदेशाद् विशेषविहितैः सह विषयकल्पना कार्या । विशेषविहितं चैकं तावत् स्वायंभुवे-

एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्जं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ इति । (म्ध् ११.११७)

अथशब्दापिशब्दाभ्यां च स्मृत्यन्तरोकानाम् उपक्षेपः । तत्र चान्द्रायणं गोघ्नप्रायश्चित्तेन वैकल्पिकम्, द्विजग्रहणात् तद्विषयम् एव । यद् अपि योगीन्द्रोक्तम्-

उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा । (य्ध् ३.२६८)

इति, “एवम्” इति गोघ्नप्रायश्चित्तानां पूर्वश्लोकविहितानाम् अतिदेशः । चान्द्रायणं च,

यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् । (य्ध् ३.३२२)

इत्य् एतत् प्रत्येतव्यम् । तेनैतत् सार्ववर्णिकं सर्वोपपतकेषु द्रष्टव्यम् । शक्त्यपेक्षयैव च “पयसा वापि मासेन” इत्य् एतद् अपि विकल्पेनैव । “पराकेणापि वा पुनः” इत्य् अत्र चापिशब्दात् पुनःशब्दाच् च “जातिशक्तिगुणापेक्षम्” इत्य् एतच्छ्लोकानुसारेण पुनर् अपीत्य् एवं योज्यम् । तथा चान्द्रायणेन पयसा वापीत्य् एवं व्यस्तसमस्ततयानुबन्धानुसारेण कल्पनेत्य् एषा दिक् । यत्र चोपपातके विशेषविहितम् अस्ति, तत्र तद् अपि विषयव्यवस्थया स्यान् न तु विशेषविहितत्वात् सामान्यस्यानङ्गीकरणम्, उपपातकमध्यपाठस्यानर्थक्यप्रसङ्गात्, यथा व्रात्यतायाम् उपनयनकालातिक्रमे प्राक् षोषशाद् वर्षात् पारस्करोक्तम् “कालातिक्रमे नियतवद्” इति (पार्ग् २.५।४१) । नियतवद् इति चाविज्ञाने प्रतिमहाव्याहृतितिसृभिर् होमः, सर्वाभिश् चतुर्थं सर्वप्रायश्चित्तं चेत्य् एतद् व्याचक्षते । तच् चैतद् आद्यौपनायनिककालातिक्रमे प्रायश्चित्तम् । उपनीयमानस्य तु

त्रिष्टुभं ब्राह्मणो ऽतीय प्राजापत्यं समाचरेत् ।
अशक्तौ पादशः कुर्यात् ततः संस्कारम् अर्हति ॥

इति हारीतवचनात्, कृतप्रायश्चित्तस्यैवोपनयनम् इति गम्यते । परतस् तु षोडशाद् वर्षान् मानवम्-

येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥ इति । (म्ध् ११.१९१)

एतद् आ द्वाविंशतेर् वर्षाद् अनुपनीतस्य ब्राह्मणस्य, “पूर्वः पूर्व उत्तरोत्तरकालातिकमणे पतति” इति शङ्खवचनात् । गौतमानुसारेण सर्वेषाम् अयम् एव कालः, “द्व्यधिकाया वैश्यस्य” (ग्ध् १.१४) इत्य् उक्तत्वात्, “अत ऊर्ध्वं पतितसावित्रीका भवन्ति” (वध् ११.७४) इति वचनात् । ततः परं च वासिष्ठम्- “उद्दालकव्रतं चरेद् द्वौ मासौ यावकेन वर्तयेद् मासं पयसा अर्धमासम् आमिक्षया अष्टरात्रं घृतेन षड्रात्रम् अयाचितेन त्रिरात्रम् अब्भक्षो ऽहोरात्रम् उपवसेद् अश्वमेधावभृतं वा गच्छेत्” इति (वध् ११.७६–७८) । यदि त्व् आद्याद् उपनयनकालाद् आरभ्याष्टाचत्वारिंशद्वर्षाणि नोपनीतस् ततो ऽस्य व्रात्यस्तोमः, “यो व्रतकालम् असंस्कृतो ऽतिक्रामेत्, स आद्येन यजेत” इति व्रात्यस्तोमोपदेशात् । ये तूपनीताः सन्तो ऽनधीत्य वेदम् अन्यत् किम् अपि कृतवन्तः, न च संध्योपासनादि त्यक्तम्, अधीत्य वा यैः संध्योपासनाद्याचरणे शैथिल्यं कृतम्, ते ऽपि त्रीणि कृच्छ्राणि यत्नेन कृत्वा वेदं पठेयुः, आचारेषु च प्रयत्निनो भवेयुः । यथाह मनुः-

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः ।
ब्रह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ॥ इति । (म्ध् ११.१९२)

गोघ्नप्रायश्चित्तस्य चोद्दालकव्रतवैकल्पिकत्वम्, चान्द्रायणस्य तु कृच्छ्रत्र्येणेति । एवम् अन्यान्य् अपि स्मृत्यन्तराणि व्याख्येयानि । स्तेयादिष्व् अप्य् अयम् एव मार्गः । ग्रन्थव्याख्यायां च निपुणतो वक्ष्यामः । प्रकृतम् इदानीम् उच्यते ॥ २६८ ॥

स्त्रीशुद्रविट्क्षत्रवधस्योपपातकमध्यपाठात् सामान्येन प्रायश्चित्तम् उक्तम् एव “उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा” इत्यादिना (य्ध् ३.२६८) । इदानीं तु तेषाम् एव वैशेषिकं वक्तुम् आह ।

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् ।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ ३.२६९ ॥
वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम् ।
षण्मासाञ् छूद्रहा वापि दद्याद् वा धेनवो दश ॥ ३.२७० ॥

ऋषभ एको ऽधिको यासां सहस्रस्य ता ऋषभैकसहस्राः । स्पष्टम् अन्यत् । पुमान् इति च शूद्रस्यैवैतत् क्षत्रियादिवधे प्रायश्चित्तम् इत्य् एवम् अर्थम् अकामतश् च । यथाह मनुः ।

अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः ।
ऋषबैकसहस्रा गा दद्याच् छुद्ध्यर्थम् आत्मनः ॥ इति । (म्ध् ११.१२७)

वृत्तस्थवधे चैतत्, “प्रमाप्य वैश्यं वृत्तस्थम्” (म्ध् ११.१२९) इति ज्ञापकात् । ननु एतद् ब्राह्मणस्यैव, द्विजोत्तम इति वचनात् । नायं द्विजोत्तम इति समानाधिकरणः, किं तर्हि, द्विज उत्तमो यस्येत्य् एवं बहुव्रीहिः प्रत्येतव्यः । कुत एतत्, अपकृष्टवधे चान्द्रायणोपदेशात् । तथा च द्वयोर् एव श्लोकयोर् द्विजोत्तमग्रहणं कृतम्-

एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद् वैकशतं गवाम् ॥ इति । (म्ध् ११.१२९)

तृतीये तु,

एतद् एवं व्रतं कृत्स्नं षण्मासाञ् छूद्रहा चरेत् । (म्ध् ११.१३०)

इत्य् अत्र नैवैतद् अस्ति, अनुपयोगात् । पूर्वत्र तु द्विज उत्तमो यस्य शूद्रस्य, क्षत्रियवैश्यौ वा । स यदि निकृष्टः सन्न् उत्कृष्टं हन्यात्, तदैव तत् कुर्याद् इत्य् एवमर्थं तद् वचनम् । इह तु सजातीयस्य हन्तुस् तद् वचनम् एवेत्य् अभिप्रेत्यावचनं युक्तं स्यात् । इतरथा त्व् आदाव् एवोक्तम् अधिकाराद् उत्तरत्रापि लभ्यत एवेति पुनर् न वाच्यम्, सर्वत्र वा वाच्यम् । अतो योगीश्वरीयात् पुनर्वचनाद् इह चोक्तन्यायानुसाराच् छूद्राभिप्रायेणैवैतद् इति युक्तम् । अतश् चोपपातकमध्य्पाठो ऽप्य् उत्कृष्टापेक्षयार्थवान् स्यात् । इतरथा तु तुल्यवद् उपपातकमध्ये संकीर्तनम् अबुद्धिपूर्वम् इव स्यात् । एवं च यच् छङ्खेनोक्तम्- “सर्वेषाम् अन्योन्यापकृष्टवधे चान्द्रायणम्” इति, तद् अपि समञ्जसं स्यात् । यदि त्व् अवश्यं द्विजोत्तमवचनाद् ब्राह्मणस्यैवैतद् इत्य् एवं समर्थनीयम्, ततो वृत्तस्थवचनात् कर्मप्रयोगमध्यगतयोर् इत्य् एवं व्याख्येयम्, सोमयागव्यतिरिक्तेष्टिपश्वादिविषयत्वेन च सवनसंबन्धेन ब्रह्महत्यातिदेशात् । कर्मगतव्यतिरेकेण तूपपातकप्रायश्चित्तम् एव । तत्राप्य् अकामतश् चान्द्रायणम्, कामतस् तु गोघ्नप्रायश्चित्तम् । अनुबन्धाद्यपेक्षया च जपादिभिः प्रतिपूरणम् । अपकृष्टानां त्व् अकामत एतत् । कामतस् तु-

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्ये ऽष्टमो ऽंशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥ इति । (म्ध् ११.१२६)

अवृत्तस्थे तु संवर्तोक्तम्-

प्रमाप्य क्षत्रियं मोहात् त्रिभिः कृच्छ्रैर् विशुध्यति ।
प्राजापत्यातिकृच्छ्राभ्यां तप्तकृच्छ्रेण च क्रमात् ॥
कृच्छ्रातिकृच्छ्रौ कुर्वीत स नरो वैश्यघातकः ।
शूद्रं हत्वा तु कुर्वीत कृच्छ्रं सान्तपनं तथा ॥ इति ।

सोमव्यतिरिक्तक्रतुगते त्व् अकामतो निकृष्टस्य सजातीयस्य वा हन्तुः गौतमीयम्- “राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम् ऋषभैकसहस्राश् च गा दद्यात् । वैश्यवधे त्रैवार्षिकम् ऋषभैकशताश् च गा दद्यात् । शूद्रवधे तु संवत्सरम् ऋषभैकादशाश् च गा दद्यात्” (ग्ध् २२.१४–१६) इति । कामतस् तु वासिष्ठम्- “एवं राजन्यं हत्वाष्टौ वर्षाणि चरेत् षड् वैश्यं त्रीणि शूद्रम्” इति (वध् २०.३१–३३) । सवनस्थवधे तु शूद्रस्यापस्तम्बोक्तं ब्रह्महत्याप्रायश्चित्तम् (आप्ध् १.२४.६–२३) । सर्वत्र च जात्युत्कर्षापकर्षाव् आलोच्य विशेषः कल्पनीयः । उक्तं च- “जातिशक्तिगुणापेक्षम्” इति । शङ्खोक्तम् अपि गौतमीयेनैकार्थम् अनुबन्धानुसरेण योज्यम्- “चतुर्षु वर्णेषु प्रमाप्य द्वादश संवत्सरान् षट् त्रीन् एकं तदन्ते गोसहस्रं ततो ऽर्धं तस्यार्धम् तदर्धम् च दद्यात्” इति । केचित् तु गौतमीयं ब्राह्मणसंबन्धेनैव मन्यन्ते । पूर्वसूत्राच् च “गर्भे चाविज्ञाते ब्राह्मणस्य” (ग्ध् २२.१३) इत्य् अतो ऽवच्छिद्य ब्राह्मणस्येत्य् उत्तरसूत्रेण योजयन्ति । ब्राह्मणस्य राजन्यवधे षड्वार्षिकम् इति । ततश् चैतदनुसाराद् एव मानवे ऽपि द्विजोत्तमवचनं विस्पष्टम् एव ब्राह्मणविवक्षयोपपन्नं स्यात् । तत् त्व् इदं नातीव युक्तम् । एवं हि प्रत्युतानिष्टम् आपद्येत, ब्राह्मणवध एव राजन्यकर्तृके षड्वार्षिकव्रतप्रसङ्गात् । न च ब्राह्मणस्येत्य् एतत् कर्तृविशेषणम् “उभ्यप्राप्तौ कर्मणि” (पाण् २.३।६६) इति नियमात् । ततश् च ब्राह्मणस्य कर्मत्वापत्तेर् अनिष्टप्रसङ्गः । अत एवासहायप्रभृतिभिर् “गर्भे चाविज्ञाते ब्राह्मणस्य” इत्य् एव व्याख्यातम् । अतो यथोक्तैव विषयकल्पना । तथा चाम्नायः- “तस्माद् यद्य् अपि राजा परमतां गच्छति” इत्य् उपक्रम्य “वध एनं हिनस्ति स्वां योनिम् ऋच्छति स पापीयान् भवति यथा श्रेयांसं हिंसित्वा” (बाउ १.४।११) इति निकृष्टेन श्रेयसो वधं सिद्धवद् दृष्टान्तत्वेन दोषवत्तया दर्शयति । तथा च वाक्पारुष्ये स्वायंभुवम्-

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽध्यर्धं शते द्वे वा शूद्रस् तु वधम् अर्हति ॥ (म्ध् ८.२६७)

इत्य् अनेन निकृष्टानां यथोत्कर्षं दोषातिरेकम् आह । तथा-

पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्यस्य चार्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ (म्ध् ८.२६८)

इति यथापकर्षम् अपकर्षः । तथा-

एकजातिर् द्विजातिं तु वाचा दारुणया वदन् ।
जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥ (म्ध् ८.२७०)

इति हेतुवन्निगदेनापकृष्टानाम् उत्कृष्टहिंसां गुर्वीम् आह । एवम् अन्यान्य् अपि दण्डपारुष्यादिषु वचनान्य् अनुसरणीयानि ॥ २७० ॥

इदानीम् उपपातकमध्यपाठात् स्त्रीवधस्य तदुक्तप्रायश्चित्तप्राप्तौ सत्यां क्वचिद् अपवादम् आह ।

दुर्वृत्तब्राह्मणक्षत्रविट्छूद्रस्त्रीपमापणे ।
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥ ३.२७१ ॥

दुर्वृत्तां ब्राह्मणादिसंबन्धिनीं स्त्रियं हत्वा क्रमशो दृत्यादीनि देयानि । दृतिर् उदकोद्धारणार्थः कुरुण्ठः । बस्तो युवा छागः । स्पष्टम् अन्यत् । दुर्वृत्तस्त्रीप्रमापणं च राज्ञ एव विहितम् । यथाह मनुः संग्रणाधिकारे-

भर्तारं लङ्घयेद् या तु ज्ञातिस्त्रीगुणदर्पिता ।
तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥ इति । (म्ध् ८.३७१)

गौतमे तु प्रायश्चित्ताधिकार एवोक्तम्- “श्वभिः खादयेद् राजा निहीनवर्णगमने स्त्रियं प्रकाशं पुमांसं घातयेत्” इति (ग्ध् २३.१४–१५) । अतो राज्ञ एवैतत् प्रायश्चित्तं नेतरस्य । ननु राज्ञो विहितानुष्ठानात् प्रायश्चित्तम् अयुक्तम् । युक्तं च, यथैव साक्षिणाम् अनृताभिधाने-

वाग्देवत्यैश् च चरुभिर् यजेरंस् ते सरस्वतीम् । (म्ध् ८.१०५)

इत्य् अत्र । एतस्माद् एव प्रायश्चित्ताभिधानाज् ज्ञायते स्त्रीवधस्यात्यन्तिकम् अकर्तव्यता । तथा चाम्नायो ऽपि- “न च वै स्त्रियं घ्नन्ति” इति । अत एव स्वायंभुवे-

बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः ।
शरणागतहन्तॄंश् च स्त्रीहन्तॄंस् च न संपिबेत् ॥ इति । (म्ध् ११.१९१)

अतश् च कामकृते स्त्रीवधे प्रायश्चित्ताभव एव । अकामतस् तु कथंचिद् दैवाद् आपन्ने स्त्रीस्वरूपापेक्षया क्रत्वर्थद्यपेक्षया हन्तृगतानुबन्धापेक्षया च प्रायश्चित्तानि योज्यानि । केचित् तु भर्तुर् अव्यवस्थितस्त्रीवधे दृत्यादिदानं मन्यन्ते । अन्ये तु सार्वत्रिकम् एव । तत् पुनर् विचार्यम् ॥ २७१ ॥

एवं तावद् व्यभिचारिण्यां दृत्यादिदानम् उक्त्वा इदानीम् अव्यभिचारिण्याम् आह ।

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।
अस्थन्वतां सहस्रं च तथानस्थिमताम् अनः ॥ ३.२७२ ॥

अप्रदुष्टाम् अव्यभिचारिणीं स्त्रियम् अकामतः कथंचित् धत्वा शूद्रहत्याव्रतं चरेत् । व्रतचरणोपदेशश् च “दद्याद् धेनवो दश” (य्ध् ३.२७०) इत्य् अस्य व्यावृत्त्यर्थो व्याख्येयः । एतच् चापशदस्त्रीविषयम् एव-

निकृष्टजां तु निर्ज्ञाताम् उत्कृष्टायां च मातरि ।
अदुष्टां योषितं हत्वा षण्मासान् एतद् आचरेत् ॥

इति बृहस्पतिवचनात् । एतच्छब्देन च तत्र पूर्वश्लोकाच् छूद्रहत्याव्रतं सांवत्सरिकम् उक्तम् । इतरासु तु वासिष्ठम्- “अनात्रेयीं राजन्यहिंसायां राजन्यां वैशहिंसायां वैश्यां शूद्रीहिंसायां शूद्रां हत्वा संवत्सरम्” इति (वध् २०.३७–४०) । गौतमीयम् अपि शूद्रायाम् अनात्रेय्याम् एवात्यन्तगुणवत्यां वधे द्रष्टव्यम् “अनात्रेय्यां चैवम्” (ग्ध् २२.१७) इति, वासिष्ट्ःआनुसारात् । यत् तु मानवम्- “कृत्वा च स्त्रीसुहृद्वधम्” (म्ध् ११.८८) इति, तद् आङ्गिरसवचनात्,

आहिताग्नेर् द्विजाग्र्यस्य हत्वा पत्नीम् अनिन्दिताम् ।
ब्रह्महत्याव्रतं कुर्याद् आत्रेयीघ्नस् तथैव च ॥

इत्य् एतद्विषयम् एव । शातातपोक्तं तु याज्ञवल्कीयेन वैकल्पिकम् । “स्त्रीघाती षण्मासान् कृच्छ्रम् आचरेत्” इति शङ्खोक्तस्य गौतमीयेन समानविषयत्वम् । “स्त्रीणां वधे शूद्रहत्याव्रतम् आदिशेत्” इति गुणातिशयापेक्षया योज्यम् । प्रवृत्तासु त्व् अनिष्पन्ने व्यभिचारे ऽनुबन्धविशेषापेक्षयोपपातकप्रायश्चित्तानि योज्यानि । स्मृत्यन्तराण्य् अप्य् अनेनैव मार्गेण व्याख्येयानि, यथा स्त्रीवधे कृच्छ्रत्रयं सुमन्तुनोक्तम् । यथा चाङ्गिरसे-

अनाहिताग्निपत्नीनां तथा विट्क्षत्रयोषिताम् ।
गोघातकव्रतं कुर्याच् छूद्राणां चैव नित्यशः ॥ इति ।

संवर्ते तु-

स्त्रियं प्रमापयेद् यस् तु तप्तकृच्छ्रं समाचरेत् । इति ।

एवम् अन्यान्य् अपि मानसवाचिकादिव्यभिचारालोचनया योज्यानि । एवं श्लोकपूर्वार्धेन,

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।

इत्य् उक्त्वोत्तरार्धेन,

अस्थन्वतां सहस्रं च तथानस्थिमताम् अनः ।

इत्य् एतद् एव शूद्रहत्याव्रतम् उक्तम् । येषां सास्थिकानां प्राणिनां वैशेषिकं नोक्तम्, तेषां सहस्रं हत्वा षाण्मासिकं शूद्रहत्याव्रतं कार्यम् । यानि चानस्थिकानि पिपीलिकादीनि, तेषां च यावन्त्य् अनसा शक्यन्ते वोढुं द्वाभ्यां बलीवर्दाभ्यां मध्यमाभ्याम्, तावत्परिमाणे स्यात् । “अनस्थ्नाम् अनडुद्भारे” (ग्ध् २२.२१) इति गौतमस्मरणाद् अनोगत एवानडुद्भारो गृह्यते, “पूर्णे चानस्य् अनस्थ्नाम्” (म्ध् ११.१४०) इति मनुवचनात् । एतच् च यान्य् अहिंसकानि सन्ति व्यापद्यन्ते अनादिष्टविशेषणानि च, तद्विषयं द्रष्टव्यम्,

यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया ।
स जीवंश् च मृतश् चैव न क्वचित् सुखम् एधते ॥ (म्ध् ५.४५)

इति मनुवचनात् । यानि तु हिंसास्वभावानि यूकमशकजलूकादीनि, तेषां यथासामर्थ्यम् अपनीयमानानां यदि वधो ऽपि स्यात् तथाप्य् अदोष एव । कामतस् तु यूकादिष्व् अप्य् अस्त्य् एव दोषः । तथा यान्य् अप्य् अस्थिमन्त्य् आदिष्टप्रायश्चित्तानि च, नित्योपद्रवकारिणश् च सर्पमूषिकप्रभृतयः, तदपनयनार्थं च मार्जारादिसंग्रहादिप्रकारेण वधो निर्दोष एव । यानि च संमार्जनोपलेपनधान्यसंस्कारादिना हन्यन्ते, यानि चेन्ध्नाद्यनुप्रविष्टानि मणिकादिषु च, तत्राप्य् अदोष एव, वधे कर्मसाधनत्वेन शरीरधारणाङ्गत्वेन च प्रवृत्तेः । येषां कामभोगमात्रनिबन्धनैव प्रवृत्तिस् तेषां तत्राप्य् अस्त्य् एव दोषः । तद् एतत् “पञ्चसूना गृहस्थस्य” (म्ध् ३.६८) इत्य् अत्र स्वयंभुवा प्रदर्शितम् । सहस्रग्रहणम् अनोग्रहणं चात्र भूयस्त्वोपलक्षणार्थं न नियमार्थम्, अर्वाग् ऊर्ध्वं च प्रायश्चित्तान्तरानुपदेशाद्, हन्यमानानां च समुच्च्योपादाने हेत्वभावाद् इत्य् एषा दिक् ॥ २७२ ॥

एवं तावत् सामान्येनोक्त्वाधुना केषांचिद् वैशेषिकाण्य् आह ।

मार्जारगोधानकुलमण्डूकश्वपतत्रिणः ।
हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ ३.२७३ ॥

स्वायंभुवे तु काकोलूकचाषाणाम् एव विशेषोपदेशः (म्ध् ११.१३१) । सो ऽपि च क्रत्वर्थविषयतया पक्षिमात्रोपलक्षणार्थो व्याख्येयः, अथापि नियमार्थः । तथा कर्त्वर्थवध एवेति व्याख्यातम् एतत् । इह त्व् अक्रत्वर्थ एव त्रिरात्रं पयोभक्षता पादकृच्छ्रं वेति व्याख्येयम् । मानवे ऽपि च-

मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥ (म्ध् ११.१३१)

इत्य् उक्त्वानन्तरम् एवोक्तम्-

पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ इति । (म्ध् ११.१३२)

न चैषां शूद्रहत्याव्रतेन वैकल्पिकत्वं युक्तम् । अतो यथोक्तैव विषयकल्पना । अत्रापि च स्नानाध्वगमने क्षत्रियवैश्ययोः, जपस् तु ब्राह्मणस्यैव, “जप्येनैव संसिध्येद् ब्राह्मणः” (म्ध् २.८७) इति वचनात् । पयःपानपादकृच्छ्रे तु शूद्रस्य । तथा च व्यासः ।

अनादिष्टव्रतादेशे शूद्रं तपसि योजयेत् ।
राजन्यवैश्यौ संस्कारे ब्राह्मणं जपकर्मणि ॥ इति ।

तथा-

यज्ञार्थप्राणिहिंसायां क्षुद्रजन्तुवधेष्व् अपि ।
पापकृत्यां वदन्त्य् उग्रां यज्ञाद् धि जगतः स्थितिः ॥ इति ।

एवं स्मृत्यन्तराण्य् अपि व्याख्येयानि । यथाहाङ्गिराः-

गजे व्याघ्रे च तुरगे खड्गे कृष्णमृगे वृके ।
सिंहे शुनि वराहे च मयूरे पक्षिणाम् अपि ॥
चाषे भासे च शीघ्रे च टिट्टिभे खञ्जरीटके ।
यथा शूद्रे तथा वध्या भगवान् अङ्गिराब्रवीत् ॥ इति ।

केचित् तु “यथा गवि तथा” इत्य् एवं पठन्ति । सृगालो ऽपि मयूर उच्यते,

मयुर् मयूरो गोमायुः सृगालश् चेति शब्दितः ।

इति नामरत्नमालावचनात् । तेनोक्तं “मयूरे पक्षिणाम् अपि” इति । अपिशब्दात् सृगालो ऽपीत्य् अर्थः । शीघ्रः श्येनः । स्पष्टम् अन्यत् । यानि त्व् अतो ऽत्यल्पतराणि तान्य् अक्रत्वर्थानां प्राणिनाम् अकामवधे व्याक्येयानि । यथा पाराशरे-

हंसं ससारसं क्रौञ्चं चक्रवाकं सकुक्कुटम् ।
हत्वा मेषमयूरं च शुध्यते नक्तभोजनात् ॥

तथा-

चाषम् भासं कपोतं वा शारिकां तित्तिरिं तथा ।
अन्तर्जले उभे संध्ये प्राणायामेन शुध्यति ॥ (प्स्म् ६.४)

तथा-

गृध्रं श्येनं श्वाविडं च कपोतोलूकघातने ।
अपक्वाशी दिनं तिष्ठेद् विलाले मारुताशनः ॥ (प्स्म् ६.५)
हत्वा नकुलमण्डूकसर्पाजगरडुण्डुभान् ।
कृसरं भोजयेद् विप्रं लोहदण्डश् च दक्षिणा ॥ (प्स्म् ६.९) इति ।

तथा स्मृत्यन्तरेष्व् ऽप्य् उच्चावचान्य् उदाहृत्यानेनैव मार्गेण योज्यानि । यथा वासिष्ठे- “श्वमार्जारनकुलदहरमूषिकान् हत्वा कृच्छ्रं द्वादशरात्रं चरेत् । किंचिच् च दद्यात्” इति (वध् २१.२४) । एतत् क्रत्वर्थहिंसायाम् एव कामतः, इतरत्र वा गुरुतरानुबन्धे योज्यम् ॥ २७३ ॥

एवं तावद् मार्जारादीनां प्रायश्चित्तम् उक्तम् । इदानीम् अन्येषां क्रत्वर्थानाम् एव वधे आह ।

गजे नीला वृषाः पञ्च शुके वत्सो द्विहायनः ।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ ३.२७४ ॥

मानवेनाभिन्नार्थत्वात् तत्र च प्राधान्येन क्रत्वर्थहिंसाया एवाधिकृतत्वात् “निपात्य वैश्यं वृत्तस्थम्” (म्ध् ११.१२९) इति वृत्तस्थशब्दस्य यज्ञस्थवचनत्वाद् एतद् अपि तद्विषयतयैव व्याख्येयम् । स्पष्टम् अन्यत् ॥ २७४ ॥

हत्वा श्येनकपिक्रव्याज्जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद् गाम् अक्रव्यादेषु वत्सिकाम् ॥ ३.२७५ ॥

क्रव्यं मांसम् उच्यते । तद् भक्षयन्ति ये ते क्रव्यादाः । ते च केचिज् जले बकादयः, केचित् स्थले गृधादयः । शिखण्डी मयूरः । स्पष्टम् अन्यत् ॥ २७५ ॥

उरगेष्व् आयसो दण्डः पण्डके त्रपुमाषकः ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हये ऽंशुकम् ॥ ३.२७६ ॥

उरगेष्व् इति बहुवचनं डुण्डुभादीनाम् अपि ग्रहणार्थम् । पण्डकः षण्डः । कोलः सूकरः । गुञ्जा कृष्णलः । हयो घोटः । अंशुकं वस्त्रम् । सर्वत्र प्रायश्चित्तप्रकरणे वचनाद् विना न परिग्रहकृतः कश्चिद् विशेष इत्य् एतद् गोवध एव व्याख्यातम् । केचित् तु पण्डकम् उरगाधिकाराद् गोनसम् आहुः । तत्रापि हि स्मरन्ति पलालभारम् (म्ध् ११.१३३) ॥ २७६ ॥

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन् ।
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ ३.२७७ ॥

तित्तिरिप्रकारेषु सर्वेषु कपिञ्जलकृकरलावकादिषु तिलद्रोण एकैकस्य वधे देयः- “गजे नीला वृषाः पञ्च” इत्य् एतस्माद् अरभ्य तित्तिरिपर्यन्तानां वधे यथोक्तदानाशक्तौ प्राजापत्यं प्रत्येकं चरेत् । केचित् त्व् अत एव ज्ञापकात् सर्वत्र हिंसाप्रकरणे दानस्य प्राथमकल्पिकत्वं मन्यन्ते । तत् त्व् अयुक्तम्, त्रपुमाषकार्थे वृषपञ्चकार्थे चाविशेषेण कृच्छ्रदर्शनात् । न च तत् समुच्चितानाम्, एकैकस्येति वीप्सोपादानवैयर्थ्यात् । अतः शास्त्रस्यामीमांस्यत्वाद् गजादिष्व् एव दानप्राधान्यम्, अन्यत्र तु तपस एवेति स्थितम् । तथा चाह मनुः-

महापातकिनश् चैव शेषाश् चाकार्यकारिणः ।
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥ इति । (म्ध् ११.२३९)

एवकारश् च प्राथमकल्पिकत्वं सर्वपापेषु तपसः स्पष्टयति । तथा-

दानेन वधनिर्णेकं सर्पादीनाम् अशक्नुवन् ।
एकैकशश् चरेत् कृच्छ्रं प्राजापत्यं विशुद्धये ॥ इति । (म्ध् ११.१३९)

अत्रापि सर्पादीनाम् एव दानाशक्तौ तपः कार्यम्, अन्यत्र तु तपस एवाशक्तौ दानम् इति । सर्वत्र च प्रायश्चित्तप्रकरणे यस्य तु दानं चोदितं तद् अनौपचारिकं द्रष्टव्यम् ॥ २७७ ॥

सर्वत्रैव त्व् अनुक्तनिष्कृत्यर्थम् ।

किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके ।
वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्छतम् ॥ ३.२७८ ॥

किंचिद् इत्य् अविशेषाभिधानाद् अत्यन्तनिकृष्टं भिक्षामात्रदानं प्रत्येतव्यम् । अनुबन्धापेक्षया चातिरेककल्पना । स्पष्टम् अन्यत् ॥ २७८ ॥

एवं तावत् कर्तृत्वेन कारयितृत्वेन वा यत्र पापप्रसङ्गः, तत्र प्रायश्चित्तन्य् उक्तानि । अधुना अत्रान्यकर्तृके ऽपि व्यापारे कर्मादिभावम् आपन्नस्य पापोत्पत्तिः प्रायश्चित्तं च, तद् वक्तुम् आह ।

पुंश्चलीवानरखरैर् दष्टश् चैव श्ववायसैः ।
प्राणायामाञ् जले कृत्वा घृतं प्राश्य विशुध्यति ॥ ३.२७९ ॥

पुंश्चली गणिका, विप्लुता योषिद् इत्य् अन्ये । वानरादयः प्रसिद्धाः । चशब्दान् नखादिविलिखितस्याप्य् एतद् एव प्रायश्चित्तम् । एवकाराच् चैकैकशः समुच्चिते ऽपीति गम्यते । प्राणायामान् इति बहुवचनं शरीरप्रदेशापेक्षया त्रिप्रभृतिशतपर्यन्तेष्व् अविशेषेण व्याख्येयम् । तथा च शङ्खः- “नरवायसखरवानरश्वपुंश्चलीभिर् दष्टः समुद्रगां नदीं गत्वा प्राणायामशतं कृत्वा घृतप्राशनेन शुध्यति” इति । अत्र चानादिष्टप्रायश्चित्तानां शरीरप्रदेशापेक्षयैव विषयकल्पना । सर्वत्रैव च यत्र समन्त्रकं प्रायश्चित्तम् आम्नातम्, तत्र स्त्रीशुद्रयोर् अपि तद् एवामन्त्रकं प्रत्येतव्यम् ॥ २७९ ॥

फलपुष्पान्नरसजसत्त्वघाते घृताशनः ।
स्याद् ओषधिवृथाच्छेदे क्षीराशी गोऽनुगो दिनम् ॥ ३.२८० ॥

बदरौदुम्बरादिफलेषु कृमिमशकादीनि सत्त्वानि, तथा पुष्पेषु अन्ने चामे पक्वे वा काञ्चिकादिषु रसेष्व् अन्येष्व् अप्य् एवंप्रकारेषु । घृताशी घृतेनैवैकरात्रवृत्तिः । एवं व्रीह्याद्योषधीनां वृथाच्छेदने च क्षीरव्रतो गवाम् एकदिनम् अनुगमनं कुर्यात् ॥ २८० ॥

सुप्तस्य जाग्रतो वा यद् रेतः स्कन्देत्, तत्र शौचम् अकृत्वैव ।

यन् मे ऽद्य रेत इत्य् आभ्यां स्कन्नं रेतो ऽभिमन्त्र्य वा ।
स्तनान्तरं भ्रुवोर् वापि तेनानामिकया स्पृशेत् ॥ ३.२८१ ॥

वाशब्दः स्पर्शनानुमन्त्रणयोर् विकल्पार्थः । “यन् मे ऽद्य रेतः पृथिवीम् अस्कात्” “पुनर् माम् ऐत्व् इन्द्रियम्” (बाउ ६.४।५) इत्य् एताभ्यां शतपथाधीताभ्याम् अनुमन्त्र्य तेनानामिकया कनिष्ठामध्ययोर् अन्तरेण स्तनौ भ्रुवौ विनिमार्जयेत्, न चान्यच् छौचं कर्तव्यम् । अत्र च श्लोके स्पष्टानभिधानं छन्दोनुरोधात् । यत् तु स्मृत्यन्तरे शौचोपदेशः, स मन्त्रानधिकृतस्यानभिज्ञस्य वा प्रत्येतव्यः ॥ २८१ ॥

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
गायत्रीम् अशुचौ दृष्टे चापले ऽथानृते ऽपि च ॥ ३.२८२ ॥

“मयि तेजः” (बाउ ६.४।६) इत्य् एतद् यजुः शतपथाम्नातं ब्राह्मणस्वरेणैव जप्यम् । स्पष्टम् अन्यत् ॥ २८२ ॥

उपपातकिमध्ये ऽवकीर्णिनो ऽपि पाठात् प्रायश्चित्तान्तरं वक्तुम् आह ।

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति ॥ ३.२८३ ॥

उपकुर्वाणो नैष्ठिको वा ब्रह्मचारी स्त्र्यभिगमनाद् अवकीर्णीत्य् उच्यते । स च निरृतिं गर्दभेनेष्ट्वा स्मृत्यन्तरोक्तं च तच्चर्मणा प्रावृतो व्रतं चरित्वा विशुध्यति । “गर्दभं पशुम् आलभ्य” इत्य् एतत् कृत्स्नप्रयोगनिर्वृत्त्यभिप्रायेणैव व्याख्येयम् ॥ २८३ ॥

ब्रह्मचार्य् एव ।

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः ।
कामावकीर्ण इत्य् एवं हुत्वाज्येनाहुतिद्वयम् ॥ ३.२८४ ॥
उपस्थानं ततः कुर्यात् सं मा सिञ्चेत्य् अनेन तु ।

“कामावकीर्णो ऽस्मि” “कामभिद्रुग्धो ऽस्मि” (पार्ग् ३.१२.९) इत्य् आभ्याम् आज्याहुतिद्वयं पाकयज्ञविधानेन हुत्वा “सं मा सिञ्चन्तु मरुतः” (ता २.१८.१) इत्य् एतया तैत्तिरीयकाम्नातयर्चा सूर्यम् उपस्थाय शुध्यति । अर्वाक् तु सप्तरात्रात्,

संध्यां यदि च नोपास्ते समिधो वापि नाहिताः ।
गायत्रीम् आपरं कालं जपन्न् एनो व्यपोहति ॥

इत्य् एवमादि स्मृत्यन्तरोक्तं द्रष्टव्यम् । इदं तु ब्रह्मचारिवनस्थपरिव्राजकानाम् अविशेषेणैव प्रायश्चित्तम् ॥ २८४–५ब् ॥

मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥ ३.२८५ ॥

यथाह मनुः-

व्रतचारी तु यो ऽश्नीयान् मधु मांसं कथंचन ।
स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ इति । (म्ध् ११.१५८)

व्रतशेषं तु प्रायश्चित्तकालातिरेकेण समापनीयम् । प्राकृतं कृच्छ्रं प्राजापत्यम् एव । स्पष्टम् अन्यत् ॥ २८५च्द् ॥

गुरुश् च यदि स्वकार्येण ब्रह्मचारिणं क्वचित् प्रेषयेत्, तस्य च प्रवासोचितं मरणम् स्यात्, ततः ।

कृच्छ्रत्रयं गुरुः कुर्यान् म्रियेत प्रहितो यदि ।

एतच् चान्यस्मिन्न् अपि वेतनाद्यपेक्षिण्य् आज्ञाकरे द्रष्टव्यम् ॥

शिष्यस् तु शक्तः सन्न् आज्ञातिक्रमम् अन्यद् वा उपघातकान्तरारम्भि ।

प्रतिकूलं गुरोः कृत्वा तं प्रसाद्य विशुध्यति ॥ ३.२८६ ॥

स्मृत्यन्तराच् च सचेलं स्नात्वेति । गुरुग्रहणं चात्र सर्वमान्योप्लक्षणत्वेन व्याख्येयम् ॥ २८६ ॥

एवं तर्हि प्रेषितव्यापत्तिवद् भेषजादिदाने ऽपि व्यापत्तौ दोषः स्याद् इत्य् आशङ्काम् अपाकर्तुम् आह ।

औषधान्नप्रदानाद्यैर् भिषग्योगाद्युपक्रमैः ।
क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
विपाके गोवृषादीनां भैषज्याग्निक्रियासु च ॥ ३.२८७ ॥

सर्वाङ्गयन्त्रितस्यातुरस्य भिषग्भिर् वैद्यैर् ये छेदनदाहादियोगा अनेकधा क्रियन्ते, ते भिषग्योगाः । भावशुद्ध्या क्रियंआणोपकारे ब्राह्मणे मृते वैद्यपरिचारकचिकित्साकारयितॄणां स्नेहादिभिश् च प्रभूतस्निग्धाद्यन्नदातॄणां च निर्दोषत्वम् । तथा गोवृषादीनां भैषज्याग्निदाहादिनिमित्तके विपाके संजाते तन्निमित्तके वा मृत्यौ निर्दोषत्वम् । विप्रगोग्रहणं चोपलक्षणार्थम् ॥ २८७ ॥

भैषज्यान्नप्रदानादिप्रभवे ऽपि मृत्यौ यदि दौष्ट्यात् पाण्डित्याभिमानाद् वा दोषवत्ताम् आरोप्य ब्रह्महा गोघ्नो वायम् इत्य् एवम् ।

महापापोपपापाभ्यां यो ऽभिशंसेन् मृषा परम् ।
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः ॥ ३.२८८ ॥

परग्रहणं यदि कश्चिच् छुभालुतयात्मानं दोषवत्तयाभिशस्य परिषदि निवेदयेत्, न तस्य दोष इति ज्ञापनार्थम् । जपे चाविशेषिते ऽपि शुद्धवत्य् एव । यथाह वसिष्ठः- “ब्राह्मणम् अनृतेनाभिशस्य पतनीयेनोपपतनीयेन वा मासम् अब्भक्षः शुद्धवतीर् आवर्तयेत्” इति (वध् २३.३९) । अत्र चाविशेषाभिधाने ऽपि निमित्तवैषम्यान् महापतनीयाभिशंसने यथोक्तम् । उपपतनीये तु नियतेन्द्रियो जपन्न् आसीतेति व्याख्येयम् । स्पष्टम् अन्यत् ॥ २८८ ॥

अभिशंसकस्योक्तम् । यस् त्व् असाव् अभिशस्तः, सः ।

अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा ।
निर्वपेत पुरोडाशं वायव्यं पशुम् एव वा ॥ ३.२८९ ॥

पुरोडाशपश्वोर् आहिताग्निविषयत्वं निमित्तानुरूप्येण व्याख्येयम् । कृच्छ्रं त्व् अन्येषाम् । इदं चाभिशस्तस्य गेहदाहादिष्व् इव नैमित्तिकम्, न तु दोषनिर्घातार्थम्, दोषे प्रमाणाभावात् । जन्मान्तरीयदोषानुमानकल्पना तु शरीरोपादानाद् एवाग्निहोत्रादिष्व् अप्य् अविशिष्टा । यत् तु वासिष्ठम्- “एतेनाभिशस्तो व्याख्यातः” (वध् २३.३७) इति, तद् यत्र कश्चित् कंचिद् उद्दिश्यान्यायेन गृहीतस्वः स्वयं प्राणांस् त्यजति, तद्विषयं व्याख्येयम्, न हि तत्रानृताभिशस्त इति विशेषणोपादानं यतः । इदं तु “अभिशस्तो मृषा कृच्छ्रम्” इति विशेषितत्वाद् यथोक्तैव व्यवस्था ॥ २८९ ॥

अनियुक्तो भ्रातृजायां गच्छंश् चान्द्रायणं चरेत् ।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ ३.२९० ॥

नियुक्ताद् यो ऽन्यः सो ऽनियुक्तः । न चान्यः कश्चित् तथाविधो ऽस्ति । अतो नियोगकालाद् ऋतुकाललक्षणाद् अन्यदा स एवानियुक्तः प्रत्येतव्यः । भ्रातृजाया च ब्राह्मणस्यापि क्षत्रिया भवत्य् एव । अन्यस्यां तु सोदर्यभ्रातृजायायां गुरुतल्पप्रायश्चित्तम् एव । उदक्यां तु त्रिरात्रान्ते चतुर्थे ऽहनि गत्वा घृतप्राशनम् । अन्ये तूदक्यागमने त्रिरात्रोपोषितस् त्रिरात्रान्ते घृतं प्राश्य विशुध्यतीत्य् एवं व्याचक्षते । तत् त्व् अयुक्तम्, रजस्वलागमने सान्तपनस्य मनुनोक्तत्वाद् (म्ध् ११.१७३) इहापि रजस्वलामुखास्वादोपलक्षितस्याभिगमनस्यैव सुरापानसाम्योपदेशात् । अतो यथोक्तैव व्याख्या ज्यायसी ॥ २९० ॥

इदानीं शूद्राद् अन्यस्माद् वा पापकारिणः प्रतिग्रहे प्रायश्चित्तम् आह ।

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतः ।
गायत्रीजापनिरतो मुच्यते ऽसत्प्रतिग्रहात् ॥ ३.२९१ ॥

असतः शूद्रादेर् अप्रतिग्राह्यस्य वाभिशस्तादेर् यः प्रतिग्रः सो ऽसत्प्रतिग्रहः । गायत्रीजापनिरतत्वं चान्वहं त्रिसाहस्रो जपः । स्पष्टम् अन्यत् । तथा च मानवम्-

जप्त्वा तु त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥ इति । (म्ध् ११ १९४)

प्रत्यहं च त्रिसाहस्रो जपः पयोव्रतत्वं चेति ॥ २९१ ॥

इदानीं व्रात्ययाजकस्याभिचरतश् च प्रायश्चित्तम् आह ।

त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजको ऽभिचरन्न् अपि ।
वेदप्लावी यवाश्य् अब्दं त्यक्त्वा च शरणागतम् ॥ ३.२९२ ॥

विश्युध्यतीति शेषः । अपिशब्दाद् यश् चाभिचरतो याजकः । यवान्नभोजनं यवाशिता । स्पष्टम् अन्यत् ॥ २९२ ॥

प्राणायामांश् चरेत् स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च सुप्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ ३.२९३ ।

खरैर् युक्तं यानं खरयानम्, तथैवोष्ट्रैर् युक्तम् उष्ट्रयानम् । प्राणायामास् त्रयः । अनुबन्धाभ्यासाद्यपेक्षया तदभ्यासकल्पना । स्पष्टम् अन्यत् ॥ २९३ ॥

गुरुं त्वंकृत्य हुंकृत्य विप्रं निर्जित्य वादतः ॥ ३.२९४ ॥
हत्वावबध्य वा क्षिप्रं प्रसाद्योपवसेद् दिनम् ।

गुरुं पित्रादिकं मान्यं त्वम् इत्य् एवंप्रकारं मानरहितम् आभाष्य, ब्राह्मणं वा निरप्राधिनं हुंकारादिना निर्भर्त्स्य वा, विवादे वा लौकिके विनिर्जित्य क्रोधातिशयाद् वा परिभवमात्रकरणाय हस्तादिना हत्वा अवबध्य वा वस्त्राद्याकर्षणादिना, क्षिप्रं प्रसाद्य नक्तं भुञ्जीत उपवसेद् वा । अनुबन्धाद्यपेक्षया त्व् अभोजनाभ्यासः ॥ २९४ ॥

यदि तु वधबुद्ध्यैव क्रोधाद् ब्राह्मणाय दण्डोद्यमनादि कुर्यात्, ततः ।

विप्रदण्डोद्यमे कृच्छ्रस् त्व् अतिकृच्छ्रो निपातने ॥ ३.२९५ ॥
कृच्छ्रातिकृच्छ्रो ऽसृक्पाते कृच्छ्रो ऽभ्यन्तरशोणिते ।

“कृच्छ्रातिकृच्छ्रः पयसा दिवसान् एकविंशतिम्” (य्ध् ३.३२३) इति वक्ष्यमाणः । यद् वा कृच्छ्रसहितो ऽतिकृच्छ्रः कृच्छ्रातिकृच्छ्रः । स्पष्टम् अन्यत् ॥ २९५ ॥

सर्वत्रैव प्रायश्चित्तप्रकरणे ऽधिकार्यपेक्षयैव ।

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥ ३.२९६ ॥

सर्वथाधिकृतसामर्थ्याद्यपेक्षया गुरूणां लघूनां च प्रायश्चित्तानां विषयकल्पनम्, न तु प्रकारान्तरेणेत्य् अभिप्रायः । यत्र च निन्दार्थवादादिना लोकव्यवहारप्रातिलोम्येन वा दोषवत्ता ज्ञाता, न च प्रायश्चित्तं विशेषतः किंचिद् आम्नातम्, तत्र स्मृत्यन्त्रोपदिष्टानां जपादीनाम् एवाधिकृतसामर्थ्यानुगुण्येन प्रायश्चित्तकल्पना । स्पष्टम् अन्यत् ॥ २९६ ॥

एवं तावद् उक्तनिष्कृतीनाम् अनुक्तनिष्कृतीनां च प्रायश्चित्तावगमप्रकार उक्तः । यदि तु कश्चिन् नास्तिक्यान् न प्रायश्चित्तं कुर्यात्, स च परिभाष्य भूयोभूयः परित्याज्य एव । तस्य च तथाविधस्य नास्तिक्यातिशयाद् दुरात्मनः पतितस्योदकच्छेदम् अनेन प्रकारेण कर्तुम् ।

दासीघटम् अपां पूर्णं निनयेरन् स्वबान्धवाः ।
पतितस्य बहिष्कुर्युः सर्वकार्येषु चैव तम् ॥ ३.२९७ ॥

दासीगृहात् तदीयानाम् एवापां पूर्णं घटम् आनीय बहिर् ग्रामाद् दक्षिणां दिशं निष्क्रम्य सर्वज्ञातिगुरुशिष्यर्त्विक्समक्षं सपिण्डसमानोदकाः पदा विपर्यस्यानवेक्षमाणा गृहान् एत्य एकरात्रं क्षपयेयुः । सर्वकार्येषु च दृष्टादृष्टनिबन्धनेषु तं बहिष्कुर्युः । तथा चाह मनुः-

पतितस्योदकं छेद्यं सपिण्डैर् बान्धवैर् बहिः ।
निन्दिते ऽहनि सायाह्ने शिष्यर्त्विग्गुरुसंनिधौ ॥ (म्ध् ११.१८२)

इत्यादि ॥ २९७ ॥

यद् वा त्यक्तो ऽसौ पश्चात्तापात् प्रायश्चित्तं करोति, ततस् तदा तस्मिन् ।

चरितव्रत आयाते निनयेरन् नवं घटम् ।
जुगुप्सेयुर् न चाप्य् एनं संपिबेयुश् च सर्वशः ॥ ३.२९८ ॥

स्पष्टार्थः श्लोकः । तथा च मनुः-

चरितव्रत आयाते पूर्णं कुम्भम् अपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ (म्ध् ११.१८६)

इत्यादि ॥ २९८ ॥

यश् चैष घटापवर्जनादिको विधिर् उक्तः पतितानाम् ।

एष एव विधिः स्त्रीणां पतितानां प्रकीर्तितः ।
वासो गृहान्तिके देय अन्नं वासः सरक्षणम् ॥ ३.२९९ ॥

स्त्रीणां पतितानां प्रायश्चित्तम् अकुर्वतीनां एष एव घटापवर्जनविधिः प्रकर्षेण मन्वादिभिः कीर्तितो विहितः । अयं तु विशेषः- यदा ताः प्रायश्चित्तानुष्ठाने प्रवर्तन्ते, तदा तासां स्वगृहसमीपे निवास आवसथो देयः, अन्नं च भोजनं प्रायश्चित्तानुगुण्येन देयम्, वासश् च परिवानं सह रक्षणेन इति । तथा च स्वायंभुवम्-

एष एव विधिः कार्यो योषित्सु पतितास्व् अपि ।
वस्त्रान्नम् आसां देयं तु वसेयुश् च गृहान्तिके ॥ इति । (म्ध् ११.१८८)

विशेषपतनीयेषु परित्याग एवेत्य् एवमर्थः पूर्वत्राम्नातस्यापि पुनः पाठः ॥ २९९ ॥

नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् ।
विशेषपतनीयानि स्त्रीणाम् एतान्य् अपि ध्रुवम् ॥ ३.३०० ॥

अपिशब्दः स्त्रीणाम् अपीत्य् एवं योज्यम्, न मृदुहृदयता कार्या कथं स्त्रियः परित्यज्यन्त इति । एतानि हि स्त्रीणाम् अपि ध्रुवं निश्चितं विशेषपतनीयानि परित्यागकारणानीत्य् अभिप्रायः ॥ ३०० ॥

यथैव च नीचाभिगमनादिषु स्त्रीणाम् आत्यन्तिकः परित्यागः, तथैव च ।

शरणागतबालस्त्रीहिंसकान् संपिबेन् न तु ।
चीर्णव्रतान् अपि सतः कृतघ्नसहितान् इमान् ॥ ३.३०१ ॥

न चैतन् निन्दार्थं वचनम्, असंव्यवहार्या एव शरणागतादिहन्तारश् चीर्णप्रायश्चित्ता अपीत्य् एवमर्थत्वाद् उपदेशस्य । प्रायश्चित्तोपदेशात् तु जन्मान्तरे निर्दोषा एवेत्य् अवसेयम् ॥ ३०१ ॥

न केवलं शरणागतहन्त्रादयो ऽसंव्यवहार्याः, अन्ये ऽपि । येषां घटापवर्जनं कृतं ते ऽपि हि कृतप्रायश्चित्ताः पुनर् नवे घटे ऽप्सु प्रक्षिप्ते ऽपि गोभिर् असत्कृता संव्यवहार्या इत्य् एतद् दर्शयितुम् आह ।

घटे ऽपवर्जिते ज्ञातिमध्यस्थः प्रथमं गवाम् ।
प्रदद्याद् यवसम् गोभिः सत्कृतस्य सहक्रिया ॥ ३.३०२ ॥

कार्येति शेषः । गोभिर् यवसभक्षणं गोसत्कारः । स्पष्टम् अन्यत् ॥ ३०२ ॥