४ यति-धर्म-प्रकरणम्

अथ यतिधर्मप्रकरणम् ।

एवं यथोक्तविध्यर्थानुष्ठानात् प्रतिषिद्धार्थोपेक्षणाच् चोत्पन्नवैराग्यतया संजातसम्यग्विज्ञानः परं ब्रह्मापिपायेषुः निरस्ताखिलसांसारिकसुखास्वादाभिलाषः स्वरुचिवैकल्पिकत्वेन ।

गृहाद् वनाद् वा कृत्वेष्टिं सर्ववेदसदक्षिणाम् ।
प्राजाप्त्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥ ३.५६ ॥
अधीतवेदो जपकृत् पुत्रवान् अन्नदो ऽअग्निमान् ।
शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥ ३.५७ ॥

प्राजापय्तेष्टिस्वरूपं समारोपणप्रकारश् च संन्यासविधानशास्त्राद् एवावसेयम् । मोक्षे मनः कुर्यात् चतुर्थम् आश्रमम् आश्रयेद् इत्य् अर्थः । तुशब्दो ऽधीतवेदादिक्रमेणैवेत्य् अवधारणार्थः । नान्यथेति तु सामर्थ्यप्राप्तत्वात् प्रशंसार्थो नित्यानुवादः । तथा च स्वायंभुवम् ।

अनधीत्य द्विजो वेदान् अनुत्पाद्य तथात्मजान् ।
अनिष्ट्वा चैव यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥ इति । (म्ध् ६.३७)

ननु अनधीतवेदस्य कामं मा भूत् पारिव्राज्यं, पुत्राद्यभावे तु को विरोधः । उक्तम् एतद्- “रागिणां एव गार्हस्थ्यम्” इति । तद् यदि कृतदारो ऽपि पुत्राद्युत्पत्ताव् अप्रयत्यैव पारिव्राजम् आश्रयेत् ततश् चोदनार्थातिक्रमान् “मोक्षम् इच्छन् व्रजत्य् अधः” इति युक्तम् एव । वीतरागविषयतया तु “यम् इच्छेत् तम् आवसेत्” (वध् ७.३) इत्य् उक्तम् एव । स्पष्टम् अन्यत् ॥ ५६–५७ ॥

सर्वभूतहितः शान्तस् त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भैक्षार्थं ग्रामम् आश्रयेत् ॥ ३.५८ ॥

सर्वेभ्यो ऽपकारिभ्यो ऽपि भूतेभ्यो ऽनभिद्रोहेण हितः सर्वभूतहितः । यद् वा आत्माभेददर्शनेन सर्वभूतः सर्वात्मभावाच् चानभिद्रोग्धा भवत्य् एव । हितः शान्त इति विशेषणविशेष्यत्वं, भवत्य् अशान्तो व्यभिचारादिना हितः सांख्यादियोगानुसारेणाहितो ऽपि शान्तः तद्व्यवच्छेदार्थं हितः शान्त इति । यद् वा हितो हिंसानारम्भकः शान्तो ऽनुग्रहानारम्भकः । तथा च गौतमः- “हिंसानुग्रहयोर् अनारम्भी” इति (ग्ध् ३.२४–२५) । त्रिदण्डी मनोवाक्कायदण्डाभिप्रायेण “वाग्दण्डोऽथ मनोदण्डः” इत्यादि (म्ध् १२.१०) । त्रिदण्डसंयोगेनैव कमण्डल्वादिसंबन्ध इति गम्यते । एक एवारमते यस् त्व् आत्मरतित्वेन, स एकारामः । एवं ग्रामाद् उच्छिन्नाभिलाषः परिव्रज्यारण्यनित्यो भूत्वा भिक्षार्थम् एव ग्रामम् आश्रयेत्, नान्यदा ग्रामे मुहूर्तम् आतिष्ठेद् इत्य् अभिप्रायः ॥ ५८ ॥

अप्रमत्तश् चरेद् भैक्षं सायाह्ने ऽनुपलक्षितः ।
रहिते भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः ॥ ३.५९ ॥

स्त्र्यादिसंदर्शनाद् अत्यन्तजितेन्द्रियत्वे ऽपि प्रमादी मा भूद् इत्य् अप्रमत्तश् चरेत् । भैक्षं भिक्षाणां समूहो भैक्षम् । ततश् चैकान्ननिवृत्तिः । सायाह्नो ऽपराह्णः, तस्मिन् । अनुपलक्षितः भिक्षालाभनिमित्तेन पाण्डित्यादिनात्मानम् अप्रख्यापयन्न् इत्य् अर्थः । अपराह्णे ऽपि च यदा सर्वभिक्षुकैर् ग्रामो रहितस् तदा । यात्रामात्रं शरीरधारणमात्रार्थम् । अलोलुपः अलम्पटः । यद् वा द्विविधपरिव्राजकाभिप्रायं भिक्षाटनद्वैविध्यम् अत्रोच्यते । तत्र अप्रमत्तश् चरेद् इत्य् अनेनैकान्नप्रतिषेधेन त्रिदण्डाद्युपलक्षितस्य भैक्षोपसेशः । इतरेण त्रिदण्डाद्यनुपलक्षितस्य ज्ञानभिक्षोर् यात्रामात्रम् एकान्नोपदेशः । तेनैव च रहिते सोपलक्षणभिक्षुकैर् ग्राम इति कालान्तरोपदेषः । तथा च गौतमः- “भिक्षार्थी ग्रामम् इयाज् जघन्यम् अनिवृत्तं चरेत्” (ग्ध् ३.१४–१५) इत्य् एकान्नाभिप्रायेणैवाह । अन्यथा तु भैक्षार्तीत्य् एवावक्ष्यत् । जघन्यम् इति च भिक्षुकान्तरापेक्षयैव कालवचनम् । यत् तु संवर्तोक्तम्,

अष्टौ भिक्षाः समादाय प्रक्षाल्य निशि वाग्यतः ।

इति, तत् सोपलक्षणविषयम् । इतरस्य त्व् एकभिक्षणम् एव । तथा च श्रुतिः- “अथान्यः परिव्राड् एकशाटीपरिहितो मुण्ड उदरपात्र्य् अरण्यनित्यो भिक्षार्थी” इति । अनेनैतद् एव स्पष्टीक्रोति ॥ ५९ ॥

यथायोगं व्यवस्थया तु ।

यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च ।
सलिलं शुद्धिर् एतेषां गोवालैश् चावघर्षणम् ॥ ३.६० ॥

मृन्मयादीनि यतिपात्राणि भिक्षार्थं भोजनार्थं च । चशब्दः पत्रपुटाद्यर्थः । स्पष्टम् अन्यत् ॥ ६० ॥

एवं च नित्यम् उत्पन्नवैराग्यः पूर्वोक्तक्रमेण वा पारिव्राज्यम् आस्थाय ततः ।

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च बूतानाम् अमृतीभवति द्विजः ॥ ३.६१ ॥

परब्रह्मप्राप्तिर् अमृतीभावः । द्विजग्रहणं ब्राह्मणार्थम्, तेषाम् एव संन्यासोपदेशात् । ऋज्व् अन्यत् ॥ ६१ ॥

किं च ।

कर्तव्याशयशुद्धिस् तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥ ३.६२ ॥

आशयः शरीरं तच्छुद्धिः पवनजयादिना कर्तव्या ज्ञानभिक्षुणापि, विशेषतस् त्व् इतरेण भिक्षुकेण । सोपलक्षणपरिव्राजकेनेति यावत् । ज्ञानोत्पत्तिनिमित्तत्वाद् विशुद्धाशयस्यैव हि ज्ञानोत्पत्तिर् इत्य् अभिप्रायः । स्वातन्त्र्यकरणाय च परकायप्रवेशादिसिद्ध्यर्थम् ॥ ६२ ॥

अथ किम् आशयशुद्ध्यादिना स्वातन्त्र्यकरणम् एवात्र परमार्थः । नेत्य् उच्यते । स्वातन्त्र्यस्याहिरण्यगर्भलोकमात्रजयहेतोः क्षयिष्णुतया च संसारहेतुत्वाद् दुःखरूपतैव । अतो निरतिशयानन्दावाप्त्यर्थं स्वातन्त्र्यकरणमात्रपरितोषिणा न भवितव्यम् । किं तर्हि ।

अवेक्ष्यो गर्भवासश् च कर्मजा गतयस् तथा ।
आधयो व्याधयश् चैव जरा रूपविपर्ययः ॥ ३.६३ ॥
भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः ।
ध्यानयोगेन संदृश्यः सूक्ष्म आत्मात्मनि स्थितः ॥ ३.६४ ॥

गर्भवासादयो ह्य् आहिरण्यगर्भव्यापिनः क्लेशाः, तांश् चावेक्ष्य तत्स्वरूपालोचनाद् विरक्तो व्युत्थाय ध्यानयोगेन वक्ष्यमाणप्रकारेण सूक्ष्मः परमात्मा विज्ञानात्मन्य् एवाव्यतिरेकेणावस्थितः सम्यग् द्रष्टव्यः । सर्वम् एव हि कर्मकाण्डम् असारतया मन्तव्यम् इत्य् अभिप्रायः । स्पष्टम् अन्यत् ॥ ६३–६४ ॥

यतश् चैतद् एवम्, अतः ।

नाश्रमः कारणं धर्मे क्रियमाणो भवेद् धि सः ।

कर्मपक्षान्तर्गतेर् आश्रमपरिग्रहो ऽप्य् असार इत्य् अभिप्रायः ।

अतो यद् आत्मनो ऽपथ्यं परस्य न तद् आचरेत् ॥ ३.६५ ॥

परस्य प्रकृष्टस्याद्वैतस्य परमात्मनो यद् अपथ्यं संसारकारणं कर्मादि न तद् आचरेत् । ध्यानयोगेनैव तु नित्यं परमात्मनो निदिध्यासनं कुर्याद् इत्य् अर्थः । ननु एवं सति यदृच्छाप्रचारितैव प्राप्नोति, कर्मणो ऽनङ्गीकरणात् । मैवम् । परलोकार्थतया हि कर्मणो ऽनङ्गीकरणं, क्रियमाणं हि कर्म परलोकारम्भकं मा भूद् इति विहितस्याननुष्ठानम् । निषिद्धं पुनर् अनुष्टीयमानम् एव परलोकारम्भकम् इति तत्परिजिहीर्षया निषिद्धेषु यथानिषेधम् एव वर्तितव्यम् ॥ ६५ ॥

एवं चेत् कर्मसंन्यासिनाम् अपि प्रतिषिद्धार्थवर्जम् अविरुद्धं मन्यमान आह ।

सत्यम् अस्तेयम् अक्रोधो ह्रीः शौचं धीर् धृतिर् दमः ।
संयतेन्द्रियता विद्या धर्मः सार्व उदाहृतः ॥ ३.६६ ॥

विधिस्वरूपत्वे ऽपि च सत्यादीनाम् अनृतवर्जनादिरूपतया प्रतिषिद्धपक्षीयत्वम् एवेत्य् अविरोधः । ह्रीर् लज्जा । वर्जनीयतया च तदुपन्यासः पुनर् आजननाभिप्रायेण वा कर्तव्यतायाम् अप्य् अविरोधः । महत्य् एवेयं विदुषो लज्जा यत् पारतन्त्र्येण गर्भवासादिक्लेशवज् जन्मसंगतिः । शौचं तु त्रिविधम् अप्य् अपवर्गानुगुण्यात् कर्तव्यतयैवोपदिश्यते । धीः प्रज्ञा । धृतिर् धारणा । दमो द्वन्द्वसहिष्णुता । संयतेन्द्रियता स्पष्टैव, रूपादिप्रपञ्चोपरतिध्यानं वा । विद्या ब्रह्मणः साक्षात्करणम् । सर्वं चैतत् सत्यादि तदङ्गतयोपदिश्यमानं कर्मसंन्यासिनाम् अप्य् अविरुद्धम् इत्य् अभिप्रेत्याह- अयं सत्यादिको “धर्मः सार्व उदाहृतः” इति । सर्वेषाम् अयं सार्वः । उदाहृत इत्य् उदाहरणार्थम् एतत् । अन्यद् अपि भिक्षाटनादि सर्वविषयम् अविरुद्धम् इत्य् अवसेयम् । अतश् च परमहंसानाम् अपि न कामचारतेत्य् अभिप्रायः । अतः सूक्तः सोपलक्षणादिभेदेन परिव्राजकाश्रमः ।

  • अत्र केचिद् इमं पारिव्राज्यप्रकारभेदम् अभ्यसूयन्त सोपलक्षणम् एव पारिव्राज्यं मन्यन्ते । तथा चोक्तं दक्षेण ।

यस्तैतल् लक्षणं नास्ति प्रायश्चित्ती न चाश्रमी । इति ।

वसिष्ठेनापि- “परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत” (वध् १०.१) इत्य् उपक्रम्य तद्धर्मकलापम् अभिधायोपसंहृतम्- “यज्ञोपवीत्य् उदकमण्डलुहस्तः शुचिर् ब्राह्मणो वृषलान्नवर्जी न हीयते ब्रह्मलोकात्” इति (वध् १०.३१) । त्रिदण्डसंयोगेनैव कमण्डल्वादिसंगतिर् इत्य् उक्तम् एव । अतो ऽनुपलक्षणः परिव्राड् इति दुर्भणम् । भिक्षाटनश्लोकस् त्व् अन्यथैव व्याख्यातः । प्रसिद्धस्वायंभुवादिशास्त्रव्यतिरिक्तानि तु स्मृत्यन्तराण्य् अस्पष्टमूलत्वाद् एवैतद्विरोधे ऽनादृत्यान्य् एव । किं चेहापि शौचस्य सर्वधर्मत्वम्, यज्ञोपवीतं च शौचाङ्गम्, अतस् तेनापि सर्वार्थेनैव भाव्यम् । एवं चेत् कथं तदभावः परिव्राजकस्याशङ्क्येत । अतो ऽप्य् अयुक्ततैव । समाचारविरोधश् च स्थित एवेत्य् एषा दिक् ।

  • अत्राभिधीयते । अपवर्गार्थं हि पारिव्राज्यं ज्ञानैकसाधनम् । न तत्र कर्मणा प्रयोजनम् इत्य् उक्तम् एव । यत् तु वाचनिकत्वेन त्रिदण्डादिधारणम्, तद् अप्य् आद्यपारिव्राज्यविषयम् एव । इतरस्य त्व् आश्रमनियमानङ्गीकरणं कर्मपक्षीयत्वेन । उक्तं च- “नाश्रमः कारणं धर्मे” इति । यत् तु वासिष्ठम्- “यज्ञोपवीत्य् उदकमण्डलुहस्तः” (वध् १०.१) इति, तद् अप्य् अकर्मसंन्यासिविषयम् एव । कथम् अवगम्यते- “मुण्डो ऽममो ऽपरिग्रहः” (वध् १०.६) इत्य् उपक्रम्य ततः कल्पान्तरत्वेन, “ब्राह्मणकुले वा यल् लभेत तद् भुञ्जीत” (वध् १०.२४) इति विशेषानुक्रमणाद्, आदितश् च “मुण्डो ऽममो ऽपरिग्रहः” (वध् १०.६) इत्य् अनेन कर्मसंन्यसिनाम् अखिलयज्ञोपवीतादिपरिग्रहप्रतिषेधात् । अत एव चेतरार्थं पुनर् यज्ञोपवीतादिप्रतिप्रसवः । अन्यथा त्व् अविरोधितयैव प्राप्तत्वात् तद्वचनम् असमञ्जसं स्यात् । न चाविशेषेण प्रतिप्रसव इत्य् आशङ्कनीयं, क्रमभेदेनोपन्यासात् । अन्यथा हि “एकशाटीपरिहितो ऽजिनेन वा” (वध् १०.९–१०) इति वासःप्रतिप्रसवानन्तरम् एतद् अप्य् उक्तम् अभविष्यत् । प्रकारभेदे त्व् अविरोधः । वाशब्दस्य च व्यवस्थयैवोपपन्नत्वाद् अन्याय्यविकल्पना न स्यात् । स्मृत्यन्तरे तु विस्पष्टैव व्यवस्थाश्रमाणाम्-

    अथान्यः परिव्राड् एकशाटीपरिहितो मुण्ड उदरपात्र्य् अरण्यनित्यो ऽशक्तौ भिक्षार्थी ग्रामं प्रविशेत् सुसायं प्रदक्षिणेनाविचिकित्सन् सार्ववर्णिकं भिक्षाचरणम् अभिशस्तपतितवर्जम् अयज्ञोपवीती शौचनिष्ठः कामम् एकं वैणवं दण्डम् आददीत ।

इत्यादि । आम्न्यायश् च- “व्युत्थायाथ भिक्षाचर्यं चरन्ति” (बाउ ३.५।१) इति समस्तैषणाप्रतिषेधेन कर्मव्युत्थानं दर्शयति । तथा च- " बाल्यं पाण्डित्यं च निर्विद्याथ मुनिः" इत्य् उक्त्वा “ततो व्युत्थाय मौनं चामौनं च निर्विद्येत” (बाउ ३.५।१) इत्य् अमौनम् आश्रमान्तरविहितं तद्विहितं मौनं उभयम् अप्य् अपास्य ज्ञानैकनिष्ठो ऽनन्तरम् अथ ब्राह्मणः परमहंसः स्याद् इत्य् अभिप्रायः । तथा चाश्रमानवकॢप्तिं दर्शयति- “स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एव भवति” इति (बाउ ३.५।१) । नात्राश्रमनियमव्यपदेशः, कर्मपक्षीयत्वाद् आश्रमविधानस्य । अन्यथा च विरोधाद् असमञ्जसतैव स्यात् । अतः सूक्तम् “नाश्रमः कारणं धर्मे” इत्यादि । यत् तु शौचाङ्गतया यज्ञोपवीतप्राप्तिर् इति, तद् विद्यमानोपवीतविषयतयैवावसेयम्, तदभावे ऽपि स्त्र्यादीनां शौचाविघातात् । यथा चोपवीताद्यप्राप्तिस् तथोक्तम् एव । अतश् चैवमादयो ऽपि निन्दार्थवादा विद्यमानविषयतयैव द्रष्टव्याः ।

विना यज्ञोपवीतेन मुक्तकक्ष्यशिखो ऽपि वा ।
अकृत्वा पादशौचं च नाचान्तो ऽपि विशुध्यति ॥ इति ।

अन्यथा विशिखस्य ब्रह्मचारिणो ऽप्य् अशुद्धिप्रसङ्गः । तस्माद् विद्यमानानाम् एवोपवीतादीनां शौचाङ्गत्वाद् अनवद्यम् । अनया दिशा सर्ववाक्यानि योजनीयानि । स्मृत्यन्तरेभ्यश् च विष्ण्वादिभ्यो विशेषतश् चतुर्विधः पारिव्राज्यप्रकारभेदो ऽभ्युपगन्तव्यः । एवं तावन् मोक्षार्थत्वेन पारिव्राज्यम् उक्तम् ।

  • इदम् इदानीं चिन्त्यते- कुतः पुनर् आत्मनो बद्धस्य मोक्षोपदेशो ऽयम् । यदि तावत् स्वाभाविको बन्धः, ततस् तदुच्छेदानुपपत्तेर् दुश्लिष्टैव । अथ हेत्वन्तरात्, तद् अपि शुद्धत्वाद् ब्रह्मणो ऽनुपपन्नम् एव । किं च यदि शुद्धस्याप्य् आगन्तुको बन्धहेतुः स्यात्, ततो मोक्षप्रयत्नानर्थक्यम् एव स्याद्, मुक्तस्यापि तत्संभवात् ।

  • सत्यं, यदि हेत्वभ्युपगमः स्यात् । तत्त्वाग्रहणात्मकत्वेनाविद्योत्थत्वात् प्रपञ्चस्यैवमादिचोद्यानवकाश एव । न चात्मनो व्यतिरिक्तं वस्त्वन्तरं प्रमाणावगम्यं, यद् बन्धहेतुतयोच्येत । आत्मनैव त्व् आत्मनो ऽनुपपन्न एव बन्धादिव्यवहारः । भवति त्व् अज्ञानाद् एकस्मिन्न् अप्य् अग्रहणनिमित्तश् चन्द्र इव द्वित्वप्रतिभासः । तत्त्वेन ब्रह्मणो नान्यद् वस्त्वन्तरम् अस्तीति ब्रह्मविदां स्थितिः । कथं तर्हि विज्ञानात्मनां नानेवोपलब्धिः, अज्ञाननिमित्तैव सेत्य् उक्तम् ॥ ६६ ॥

इमम् एवार्थं योगीन्द्रः प्रपञ्चयन्न् आह ।

निश्चरन्ति यथा लोहपिण्डात् तप्तात् स्फुलिङ्गकाः ।
सकाशाद् आत्मनः सर्व आत्मानो ऽपि तथैव हि ॥ ३.६७ ॥

ननु एवं परमात्मोपादानत्वं विज्ञानात्मनाम् उक्तम् स्वाभाविकत्वेन । यथैवाग्निवार्णात् तप्ताल् लोहपिण्डाद् विष्फुलिङ्गाः स्वभावाद् एव निमित्तान्तरानपेक्षा निश्चरन्ति, एवं परमात्मनः सकाशाद् विज्ञानात्मानो ऽपीत्य् अस्यार्थः ।

  • मैवम्, उपादानपक्षस्य प्रत्युक्तत्वात् । कस् तर्ह्य् अस्यार्थः । अभिन्नस्यापि ब्रह्मणो ऽयम् अविद्योत्थः प्रपञ्च इति । यथानित्येनाबिन्नस्यापि तद् अग्रहणात् पिण्डाद् विष्फुलिङ्गतया भेद उपादानोपादेयत्वं च प्रतिभासते, एवम् एवाभिन्नस्यापि परमात्मनो विज्ञानात्मानो ऽभिन्नास् तदुपादानाश् च तत्त्वाग्रहणात् प्रतिभासन्त इत्य् अनवद्यम् । एवम् अपि यथा द्वैताश्रया धर्माधर्मादिव्यवस्थोपपद्यते कर्मकाण्डाविरोधित्वं च, तथोपरिष्टाद् वक्ष्यामः ॥ ६७ ॥

एवं तावद् अविच्छिन्नो ऽविद्यया विज्ञानात्मानेकदुःखहेतौ संसारे यथा परिवर्तते, तथा प्रपञ्चयति ।

तत्रात्मा हि स्वयं किंचित् कर्म किंचित् स्वभावतः ।
करोति किंचिद् अभ्यासाद् धर्माधर्मभवात्मकम् ॥ ३.६८ ॥

तत्र अस्मिन् द्वैतप्रपञ्चे ऽवस्थितो विज्ञानात्मा स्वयम् एव किंचित् कर्म करोति यथा विहितानुष्ठानं, किंचित् स्वभावतो जातमात्र एव स्तनपानादि, किंचिद् अभ्यासाद् व्युत्थायारण्यवासादि । धर्माधर्मभवात्मकं स्तनपानादि धर्माधर्मव्यतिरिक्तं भवात्मकम् । अथ वा धर्माधर्माभ्यां निमित्तभूताभ्यां संसारबीजत्वेन भवात्मकम् इति योज्यम् । धर्माधर्मयोर् अप्य् विद्यान्तर्गतत्वाद् भ्रान्त्यैव संसारबीजत्वं निःसङ्गत्वाद् ब्रह्मणो ऽवसेयम् । कथं पुनर् निःसङ्गं ब्रह्मेत्य् अवगच्छामः, अजातत्वाद् ब्रह्मणः । ननु जायत एवात्मा । न हि, प्राग् अपि जन्मनो विद्यमानत्वात् ॥ ६८ ॥

कथं तर्हि जातव्यपदेशः कथं वा प्राग् जन्मनो भावः । उच्यते ।

निमित्तम् अक्षरं कर्ता बोद्धा ब्रह्म गुणी वशी ।
अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥ ३.६९ ॥

किम् इदं शरीरग्रहणाद् इति, शरीरतया व्यतिरेकावगमाद् इत्य् अर्थः । व्यतिरेकावगमनिमित्तत्वेन चाक्षरत्वे ऽपि ब्रह्मणः कर्तृत्वाद्युपपत्तिः, भोद्धृतया च सम्यग्ज्ञानोत्पत्त्या परप्राप्त्या ब्रह्मत्वं, विपर्ययाच् च रागद्वेषादिभिर् गुणैर् वशीकृतस्याप्य् अनुच्छिन्न एव जन्मसंबन्धः । ततश् चाज्ञानतः शरीरग्रहणाज् जात इत्य् उपपन्नम् ॥ ६९ ॥

इदानीम् अज्ञानातिरेकाच् छरीरग्रहणं प्रपञ्चयति ।

सर्गादौ स यथाकाशं वायुं ज्योतिर् जलं महीम् ।
सृजत्य् एकोत्तरगुणांस् तथादत्ते ऽभवन्न् अपि ॥ ३.७० ॥

यथैव हि भगवान् प्रजापतिर् महाप्रलयोत्तरकालम् आदिसर्गे प्रजाः सिसृक्षुर् महाभूतान्य् आकाशादीनि पृथिव्यन्तानि शब्दस्पर्शरूपरसगन्धैर् एकद्वित्रिचतुष्पञ्चगुणयुक्तानि जगन्निर्वृत्त्यर्थं सृजति, एवम् एवायं प्रतिजन्मधर्माद्यनुगृहीतः स्वयम् एवादत्ते । अभवन्न् अपि अनुत्पद्यमानो ऽपि शरीरनिर्वृत्त्यर्थम् इत्य् अर्थः । ननु च महाप्रलयसर्जने नैव पिण्डितैर् इष्येते स्रष्टुर् अनुपस्थानादिदोषप्रसङ्गाद् इति वदद्भिः । पारमार्थिकत्वे सत्य् एवमादिचोद्यप्रसङ्गो ऽपि स्यात् । अज्ञानलक्षणे तु प्रपञ्चविलासे ऽनुपपत्तिचोद्यं चाचोद्यम् एव । यदि च स्वरूपे ऽप्य् आगमः प्रमाणं, तदानन्यपरागमप्रतिपन्ने ऽर्थे प्रमाणान्तरविरोधाभिधानम् अयुक्तम् एव । यद् वा परमतनिरासायैवायं श्लोकः । यथैव हि स्रष्टारम् इच्छतां सर्गादौ प्रजापतिर् आकाशादीनि शरीरव्यवहारसिद्ध्यर्थम् उत्पादयति, एवम् एवासत्य् अपि स्रष्टरि स्वयम् एवाविद्यानिबन्धनप्रपञ्चानुसारेणाभवन्न् अप्य् अजायमानो जन्मव्यपदेशाय आदत्ते गृह्णातीत्य् अर्थः ॥ ७० ॥

यथा चाज्ञाननिबन्धन एव शरीरप्रपञ्चो न वस्तुनिबन्धनः, तथा प्रपञ्चयति ।

आहुत्याप्यय्यते सूर्यस् तस्माद् वृष्टिर् अथौषधिः ।
तद् अन्नं रसरूपेण शुकल्त्वम् उपगच्छति ॥ ३.७१ ॥

स्वाधिकारनिवृत्त्यर्थम् एव हि हूयमानयानुषङ्गिकफलत्वेन आहुत्याप्याय्यते सूर्यः । तद् उक्तं जाबालिप्रश्ने श्रुताव् अपि- “वेत्थ यथेति व्योमाहुत्या” इति प्रकृत्य, “तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति तस्या आहुतेः पुरुषः संभवति” इति (छु ५.३।१–९) ॥ ७१ ॥

नित्यानाम् एव चार्थानां कार्यतयाभिधानात् प्रपञ्चमात्रम् एवैतद् इति स्पष्टयति ।

स्त्रीपुंसयोः संप्रयोगे विशुद्धे शुक्लशोणिते ।
पञ्च धातून् स्वयंषष्ठान् आदत्ते युगपत् प्रभुः ॥ ३.७२ ॥

शुक्लशोणितविशुद्धिर् भिषक्छास्त्रात् पूतिगन्धादिव्युदासेनावसेया । धातुशब्दो ऽयम् आकाशादिमहाभूतवचनः । तान् पञ्च । स्वयंषष्ठान् आदत्ते । स्वयंषष्ठान् इति यथैव ह्य् अत्यन्ताव्यतिरिक्तस्यैवात्मनो व्यतिरिकवद् उपादानव्यपदेशो भ्रान्तिनिबन्धनः, तथैवाकाशादीनाम् अपीत्य् अवसेयम् ॥ ७२ ॥

अस्यैव दार्ढ्यार्थं भूयः प्रपञ्चम् आह ।

इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः ।
धारणाप्रेरणे दुःखम् इच्छाहंकारम् एव च ॥ ३.७३ ॥
प्रयत्नाकृतिरूपाणि स्वरद्वेषौ भवाभवौ ।
तस्येदम् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः ॥ ३.७४ ॥

इन्द्रियादि सर्वम् एवैतत् तस्यैवाकलङ्कस्य ब्रह्मणो ऽनादेर् आदिम् इच्छतो व्यामोहातिरेकाद् आत्मनो ऽव्यतिरेक्य् अपि व्यतिरिक्तवद् आभासत इत्य् अर्थः । विज्ञानात्मताम् आपन्नस्यापि चात्मीयधर्माधर्मानुसारेणात्मजम् एवैतद् वैचित्र्यं सुखदुःखादिलक्षणम् इत्य् अवसेयं, यथेन्द्रियाणि कस्यचिद् अविकलानि कस्यचित् तु विपर्यय इत्य् एवं सर्वत्र योज्यम् । इन्द्रियाणि चक्षुरादीनि हस्तादीनि च । उभयात्मकत्वात् तु मनसो भेदेनाभिधानम् । प्राणादि प्रसिद्धम् । सुखत्वे ऽपि च धृतेस् तत्कारणत्वोपचारात् पृथग्वचनम् । धारणाप्रेरणे शरीरस्यार्थान्तराणां वा । दुःखं प्रसिद्धम् । इच्छाहंकारयोः समासाभिधानं तुल्यहेतुत्वात् । प्रयत्नः स्वाभाविकी कर्मविशेषप्रवृत्तिः । आकृतिरूपे प्रसिद्धे । समासकरणं स्वाभाविकत्वेनैकरूप्यात् । स्वरः शब्दः तद्ग्रहणं च सर्वविषयाणाम् उपलक्षणार्थम् । भवः संसारः अभवो मोक्षः । अपि च यथाद्वैतव्यवहारस्य पारमार्थिकत्वम् अपवर्गानुगुण्यं च तथोपरिष्टाद् वक्ष्यामः । व्यामोहनिबन्धनत्वात् तु तत्प्रवृत्तेः सर्वत्र प्रपञ्चाभिधानम् अविरुद्धम् ॥ ७३–७७ ॥

अविद्यावच्छिन्नस्य च ब्रह्मणः शरीरसंबन्धं तत्स्वरूपं च प्रपञ्चयति ।

प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः ।
मास्य् अर्बुदं द्वितीये तु तृतीये ऽङ्गेन्द्रियैर् युतः ॥ ३.७५ ॥

निषिक्तं रेतः प्रथमे मासि संक्लिन्नम् अघनीभूतं यस्य शरीरिणः स संक्लेदभूतः । धातवो महाभूतानि विशेषात्मनाभिव्यक्तानि विमूर्च्छितानि यस्य सः धातुविमूर्च्छितः । एवं च कललादिक्रमेणार्बुदावस्थां द्वितीये प्राप्य तृतीये प्रविभक्ताङ्गेन्द्रियाधिष्ठानो भवति ॥ ७५ ॥

इदानीम् अङ्गेन्द्रिययोगं विवेचयति ।

आकाशाल् लाघवं सौक्ष्म्यं शब्दं श्रोत्रं तथा बलम् ।
वायोस् तु प्रेरणं चेष्टां[^११]** व्यूहनं रौक्ष्यम् एव च ॥ ३.७६ ॥**
अग्नेस् तु दर्शनं पक्तिम् औष्ण्यं रूपप्रकाशनम् ।
रसेभ्यो रसनं शैत्यं स्नेहक्लेदनमार्दवम् ॥ ३.७७ ॥
भूमेर् गन्धं तथा घ्राणं गौरवं मूर्तिम् एव च ।
आत्मा गृह्णात्य् अतः सर्वं तृतीये स्पन्दते ततः ॥ ३.७८ ॥

आकाशादिभ्यो महाभूतेभ्यो ऽदृष्टानुसाराल् लाघवादीन् गुणान् शब्दादींश् च विषयान् श्रोत्रादीनीन्द्रियाणि आत्मा संसारं प्रपित्सुर् अत एवाविद्याप्रपञ्चानुसाराद् गृह्णाति । तस्माद् द्वैतव्यवहारान्तःपाती कर्मानुबद्धः स्पन्दत इत्यादि योज्यम् । प्रमाणान्तरमूलत्वाच् चास्यार्थस्यापरत्वाच् च स्मृतेर् इन्द्रियादीनां भौतिकत्वाहंकारित्वादिविवेकाभिनिवेशो न कार्यः । अधिष्ठानानि चाकाशादिभ्यः । इन्द्रियशक्तयस् तु ज्ञानानुपातिताद् आत्मविषयतयैवावसेयाः । स्पष्टम् अन्यत् ॥ ७६–७८ ॥

भिषक्छास्त्रानुसारेणैव च ।

दौहृदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥ ३.७९ ॥

दौहृदो भोजनादिविशेषाभिलाषः । स्पष्टम् अन्यत् । प्रमाणान्तरानुसारिणो ऽप्य् अत्राभिधानम् अक्रियायां दोषत्वज्ञापनार्थम् ॥ ७९ ॥

एवं तृतीये ऽङ्गेन्द्रिययुक्तस्य क्रमशः ।

स्थैर्यं चतुर्थे त्व् अङ्गानां पञ्चमे शोणितोद्भवः ।
षष्टे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ३.८० ॥

किं च ।

मनसा चेतसा युक्तो नाडिस्नायुसिराततः ।
सप्तमे चाष्टमे चैव त्वचावान् स्मृतिमान् अपि ॥ ३.८१ ॥

चशब्दात् षष्ठे च मनआदिसंयोगो ऽदृष्टवशाद् भवत्य् एवेत्य् अवगन्तव्यम् ॥ ८१ ॥

परिपूर्नेन्द्रियस्यापि तु यस्मात् ।

पुनर् गर्भं पुनर् धात्रीम् ओजस् तस्य प्रधावति ।
अष्टमे मास्य् अतो गर्भो जातः प्राणैर् विमुच्यते ॥ ३.८२ ॥

यस्य हि जन्तोर् अन्यस्यां धात्र्यां मातरि गर्भो निष्पन्नः तस्यैवाष्टमे मासि प्रसवः स्यात् । तस्य चौजः प्राणः पूर्वस्माद् गर्भात् पुनर् अन्यं गर्भं पूर्वायाश् च धात्र्या मातुः पुनर् अन्यां धात्रीं मातरं प्रधावति संचरति यस्मात्, तस्माद् अष्टमे मासि जातः प्राणैर् विमुच्यते न जीवतीत्य् अर्थः ॥ ८२ ॥

निर्व्यूढे त्व् अष्टमे मासि कल्याणतः ।

नवमे दशमे मासि प्रबलैः सूतिमारुतैः ।
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ ३.८३ ॥

प्रमाणान्तरमूलत्वान् नवमादिग्रहणं मासान्तराणान् अप्य् उपलक्षणार्थम् । प्रबलैः सूतिमारुतैर् इति पराधिनतया जन्मप्रदर्शनं लज्जाकरत्वेन वैराग्यातिशयार्थम् । तथैव स्पष्टयति यन्त्रच्छिद्रेण सज्वर इति । एवम् उत्तरत्राप्य् अस्थिसंख्याद्युपवर्णनादौ व्याख्येयम् ॥ ८३ ॥

इदम् एवाविद्याविलसितं भूयः प्रपञ्चयति ।

तस्य षोढा शरीरं तत् षट् त्वचो धारयन्ति हि ।
षडङ्गानि तथास्थ्नां च सषष्टिं वै शतत्रयम् ॥ ३.८४ ॥

मास्मिन् शरीरके कामोपकरणत्वारोपेणालीकमण्डनादिपरिपोषणं कृथाः । नैवैतद् यथोपलभ्यमानं व्यामोहहेतुसमुदायात्मकं, किं तर्हि, तस्याविभक्तस्य ब्रह्मणः संसारग्रहणायावच्छेदकम् । षोढा षट्प्रकारम् अवस्थितं पृथिव्यादीन्य् अदृष्टं चेत्य् एवं षोढा षड्विकारभूतं च पूयशोणितादिषट्त्वचः प्रच्छाद्य धारयन्ति यस्मात्, तस्माद् अत्राग्रहो न कार्य इति हिशब्दस्यार्थः । किं च । षडङ्गानि शिरो बाहू शरीरकाण्डम् ऊरू चेति । तथाशब्दः प्रकारार्थः, तथाभूतं कुणपात्मकम् इति यावत् । ऋज्व् अन्यत् ॥ ८४ ॥

इदानीं षष्ट्यधिकं शतत्रयम् अस्थ्नाम् उपपादयति ।

स्थालैः सह चतुःषष्टिर् दन्ता वै विंशति नखाः ।
पाणिपादशलाकाश् च तासां स्थानचतुष्टयम् ॥ ३.८५ ॥

स्थालानि दन्तबन्धनान्य् अस्थीनि द्वत्रिंशद् दन्ताश् च एवं चतुःषष्टिः । नखविंशत्या पाणिपादशलाकाविंशत्या सह पाण्यादिस्थानचतुष्टयेन चाष्टोत्तरशतम् । पाण्यादिशलाका अङ्गुलीमूलान्य् अस्थीनि तानि यस्मिन् प्रतिष्ठितानि तत् स्थनम् । स्पष्टम् अन्यत् ॥ ८५ ॥

तथा ।

षष्ट्य् अङ्गुलीनां द्वे पार्ष्ण्योर् गुल्फेषु तु चतुष्टयम् ।

    **              	चत्वार्य् अरत्न्योर् अस्थीनि जङ्घयोर् तावद् एव तु ॥ ३.८६ ॥**

चत्वारीत्य् अर्थः । पाण्योः पृथग्वचनाद् अत्रारत्निशब्दस् तद्व्यतिरेकेण द्रष्टव्यः । एवं पूर्वैः सहाशीतिशतं द्वे च ॥ ८६ ॥

द्वे द्वे जानुकपालोरुफलकांससमुद्भवे ।
अक्षः स्थालूषके श्रोणिफलके चैव निर्दिशेत् ॥ ३.८७ ॥

एकैकस्मिन् जानुनि कपालद्वयं तथैकस्मिन्न् ऊरौ फलकाद्वयम् अंसयोर् एकैकम् अक्षादीनि चैव निर्दिशेत् । द्वे द्वे इत्य् एतानि संकलितानि षोडश पूर्वैः सह द्व्यूनं शतद्वयम् । अक्षः कट्यस्थि । स्थालूषके तद्बन्धने । स्पष्टम् अन्यत् ॥ ८७ ॥

भगास्थ्य् एकं तथा पृष्टे चत्वारिंशच् च पञ्च च ।
ग्रीवा पञ्चदशास्थीनि जत्र्व् ऐक्यं हि तथा हनुः ॥ ३.८८ ॥

एतया त्रिषष्ट्या सहैकषष्ट्यधिकं शतद्वयम् । बाह्वंसयोः सन्धिर् जत्रुः । प्रसिद्धम् अन्यत् ॥ ८८ ॥

तन्मूले द्वे ललाटास्थि गण्डनासाघनास्थिका ।
पार्श्वकाः स्थालकैः सार्धम् अर्बुदैश् च द्विसप्ततिः ॥ ३.८९ ॥

तन्मूले द्वे ललाटस्थ्य् एकं गण्डनासाप्रतिबन्धकम् एवास्थि गण्डनासाघनास्तिकेत्य् उक्तम् । एतानि चत्वारि द्विसप्तत्या सह षट्सप्ततिः ॥ ८९ ॥

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस् तथा ।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ३.९० ॥

पूर्वसंकलने यद् उक्तम् “सषष्टिं वै शतत्रम्” इति, तत् पूर्णं भवति ॥ ९० ॥

एषाम् एव पृथिव्याद्याकाशान्तानां शरीरारम्भकाणां महाभूतानां गुणाः ।

गन्धरूपस्पर्शशब्दास् तु विषयाः स्मृताः ।

एषाम् एव च ग्राहकाणि ।

नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि तु ॥ ३.९१ ॥

शारीरप्रक्रमाद् बुद्धीन्द्रियाधिष्ठानेष्व् अयम् औपचारिकस् तच्छब्दः श्रोत्रशब्दश् च कर्णवचनः तुशब्दसामर्थ्यात् । ऋज्व् अन्यत् ॥ ९१ ॥

इमानि तु ।

हस्तौ पायुर् उपस्थं च मुखं पादौ च पञ्चमम् ।
कर्मेन्द्रियाणि जानीयान् मनश् चैवोभयात्मकम् ॥ ३.९२ ॥

मुखग्रहणं ताल्वादिवागधिष्ठनाभिप्रायम् । पञ्चमवचनं पाण्यादाव् अभेदज्ञापनार्थम् । प्रसिद्धम् अन्यत् ॥ ९२ ॥

_किं च _।

नाभिर् ओजो गुदं शुक्लं शोणितं शङ्खकौ तथा ।
मूर्धा च हृदयं कण्ठः प्राणस्यायतनानि तु ॥ ३.९३ ॥

जीवनहेतोः प्राणस्यायुषो नाभ्यादीन्य् आयतनानि । आशयशुद्धाव् एषां परिज्ञानोपयोगिता । एवम् उत्तरत्रापि योज्यम् । प्रवृत्तरुधिराद्यारम्भो ऽन्नरस ओजः । स्पष्टम् अन्यत् ॥ ८३ ॥

_कोष्ठसंबन्धितया _।

वपा वपावहननं नाभिः क्लोम यकृत् प्लिहा ।
क्षुद्रान्त्रं वृककौ वस्तिः पुरीषाधानम् एव च ॥ ३.९४ ॥
आमाशयो ऽथ हृदयं स्हूलान्त्रं गुद एव च ।
उदरं च गुदः कोष्ठ्यो विस्तारो ऽयम् उदाहृतः ॥ ३.९५ ॥

वपावहननं वपान्त्रबन्धनम् । क्लोमयकृदादीनि त्व् अभिधानकोशान् मांसविक्रयिभ्यो भिषक्च्छास्त्राद् वावगन्तव्यानि । यथाह ।

उशन्ति तिलकं क्लोम तालखण्डं यकृत् तथा । इति ।

तथा ।

पक्वाशयाद् अधो नाबेर् ऊर्ध्वं चामाशयः स्मृतः ॥

इत्यादि ॥ ९४–९५ ॥

अविभक्ते ऽप्य् अवयवशो विभज्यमाने ।

कनीनिके ऽक्षिणी कूटे शष्कुली कर्णपुत्रकौ ।
गण्डौ शङ्खौ भ्रुवौ दन्तावेष्टाव् ओष्ठौ ककुन्दरौ ॥ ३.९६ ॥
वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिके स्तनौ ।
उपजिह्विका स्फिजौ बाहू जङ्घे चोरू सपिण्डके ॥ ३.९७ ॥
तालूदरं वस्तिशीर्षं चिबुकं गलगण्डिका ।
अवटुश् चैवम् एतानि स्थानान्य् अत्र शरीरके ॥ ३.९८ ॥

कनीनिके अक्षितारके । अवशिष्टे त्व् अक्षिणी । तच्छादने चर्मणी कूटे । कर्णशष्कुली स्पष्टे । तच्छिद्रे कर्णपुत्रकौ । दन्तावेष्टौ दन्तानाम् आवेष्टनानि । ककुन्दरौ नितम्बकूपकौ । ऊरुसंधिर् वङ्क्षणः । वृषणयोर् उपरि वृक्कौ । जिह्वामूले उपजिह्विका । अभितो गुदं मांसपिण्डौ स्फिजौ । गुदस्यान्तर् मूत्रादानं वस्तिः । प्रसिद्धम् अन्यत् ॥ ९६–९८ ॥

अस्मिन्न् एव शरीरके ।

अक्षिवर्त्मचतुष्कं च पद्धस्तहृदयानि च ।
नवच्छिद्राणि तान्य् एव प्राणस्यायतनानि च ॥ ३.९९ ॥

वर्त्मचतुष्कम् अवबोधकम् इन्द्रियचतुष्टयं श्रोत्रघ्राणरसस्पर्शानीत्य् अर्थः । एतान्य् अक्ष्यादीनि पञ्च बुद्धीन्द्रियाणि । पाणिपादौ कर्मेन्द्रियार्थौ । चशब्दो ऽवशिष्टानां ग्राहकः । हृदयं मनः । यान्य् एतान्य् एकादशेन्द्रियाणि तान्य् एव पाण्यादिवर्जं नव छिद्राणि च । एतानि प्राणस्य प्राधान्येनायतनानि । शिरसि सप्त पायुर् उपस्थं चेत्य् एवं नव च्छिद्राणि ॥ ९९ ॥

_किं च _।

सिराशतानि सप्तैव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ ३.१०० ॥

रुधिरस्राविच्छिद्राणि सिरा । स्नायु प्रसिद्धम् । वायुग्राहिण्यः सिरा एव धमन्यः, यासां पूरणे स्थूलता रेचने कृशता । मेदोवाहिन्यः सिरा एव पेश्यः । भिषक्छास्त्रोपयोगित्वेन स्थूलपरिमाणम् एतत् ॥ १०० ॥

वायुविजयार्थं तु सूक्ष्मपरिमाणालोचनायेदानीम् आह ।

एकोनत्रिंशतं लक्षास् तथा नवशतानि च ।
षट्पञ्चाशच् च निर्दिष्टाः सिरा धमनिसंज्ञकाः ॥ ३.१०१ ॥

निगदोक्तः श्लोकः ॥ १०१ ॥

योगशास्त्राभिप्रायचतुरैः शरीरतत्त्वबुभुत्सुभिः ।

त्रयो लक्षास् तु विज्ञेयाः केशश्मश्रु मनीषिभिः ।

रोमभेदसंख्ययेति शेषः ।

किं च ।

अष्टोत्तरं मर्मशतं द्वे तु संधीशते तथा ॥ ३.१०२ ॥

विज्ञेये इत्य् अनुषङ्गः । तथाशब्दः शात्रान्तरोक्तकेशादिपरिमाणविकल्पद्योतनार्थः सर्वस्मिन् संख्याप्रकरणे व्यख्येयः ॥ १०२ ॥

शास्त्रान्तरोक्तपरिमाणवैकल्पिकत्वेनैव च ।

रोम्णां कोट्यस् तु पञ्चाशत् तथा कोटिचतुष्टयम् ।
सप्तषष्टिस् तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ ३.१०३ ॥

ननु एतत् केशसंख्यादिपरिमाणं बाधकानुपलम्भमात्रेण यदृच्छयाभिधानात् परस्परव्याघाताच् च दूर्तनिखातपृथिवीमध्यलक्षणार्थकीलादितुल्यम् इवोपलक्ष्यते । सत्यम् एवम्, शरीरनिन्दापरत्वात् स्मृतेः । अतिशयपुण्यकारिभिश् च पुराणैर् ब्रह्मविद्भिर् अन्वयव्यतिरेकाभ्याम् अपि संभाव्यमानत्वाद् अदोषः ॥ १०३ ॥

एतद् एव स्पष्टयति ।

वायवीयैर् विगण्यन्ते विभक्ताः परमाणवः ।
यद्य् अन्ये को नु वेदैषां भावानां चैव संस्थितिम् ॥ ३.१०४ ॥

सनत्कुमारादयो वायुशिष्या वायवीयाः, तैस् तावद् ये ऽस्माभिर् उक्ताः संख्याविशेषास् ते विगण्यन्ते । यदि त्व् एतेभ्यो ऽपि परमाणवः परमसूक्ष्मा अन्ये संख्याविशेषा भवन्ति, भवन्तु, न दोषो यस्मात्, तस्मात् को नु वेदैषां परमार्थतः परिमाणम् । श्रद्धामात्रेण यथावगमं किंचिद् अभिधीयत इत्य् अभिप्रायः । किं च भावानां च प्राणिनाम् अनेकप्रकारां विचित्रां संस्थितिं को नु वेदेति योज्यम् ॥ १०४ ॥

आगमानुसारेणैव च ।

रसस्य नव विज्ञेया जलस्याञ्जलयो दश ।
सप्त चैव पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ ३.१०५ ॥

स्वस्थस्य चैतन् निष्पन्नस्य धातुपरिमाणं विज्ञेयम् । यत् तु कैश्चिद् धेत्वनुसाराद् उक्तम् “अनियतं मूत्रपुरीषम्” इति, तद् इहापरिनिष्पन्नजातमात्रविषयत्वाद् अचोद्यम् ॥ १०५ ॥

अञ्जलिनैव च ।

षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रम् एव च ।
वसा त्रयो द्वौ तु मेदो मज्जैकार्धं च मस्तके ॥ ३.१०६ ॥

एको ऽञ्जलिर् मज्जा मस्तके चार्धम्, एवम् अध्यर्दो ऽञ्जलिः ॥ १०६ ॥

श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव तु ।
इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ ॥ ३.१०७ ॥

ओजो व्याख्यातम् । तद् एव श्लेष्मणः कारणभूतं श्लेष्मौजः, तस्य (ताव?)द् एवाध्यर्धो ऽञ्जलिर् इत्य् अर्थः । एवं रेतसो ऽध्यर्ध एव । एवं यद् व्याख्यातम् अस्थिरम् अनित्यं विनाशि महाघोरं दुर्लक्ष्यं संसारनिमित्तं वर्ष्म शरीरं यस्य क्षेत्रिणः पुण्यकृतः संजातवैराग्यस्योच्छिन्नाभिलाषस्य मोक्षार्थं चतुर्थाश्रमप्रतिपत्त्यर्थं स्यात्, कृत्य् असौ कृतकृत्य इत्य् अर्थः ॥ १०७ ॥

कः पुनर् अत्र मोक्षप्रकारो येनेह पुनर्जन्म न स्यात्, उच्यते ।

द्विसप्ततिसहस्राणि हृदयाद् अभिनिःसृताः ।
हिता नाम हि ता नाड्यस् तासां मध्ये शशिप्रभम् ॥ ३.१०८ ॥
मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ।
मध्ये यस् तं विदित्वा तु पुनर् आजायते न तु ॥ ३.१०९ ॥

संसारापनोदनक्षमत्वाद् धिता इत्य् अन्वर्थसंज्ञैवेयम् इत्य् अवगन्तव्यम् । हिशब्दो हेत्वर्थः । यस्मात् प्राणात्मनः संचरणार्थत्वेनोत्कर्षनिमित्तम्, तस्माद् धिता नामेति । तासां मध्ये शशिप्रभं मण्डलं हृदयान्तर्वर्ति ध्यानैकगम्यं यत्, तस्य मध्यस्थ आत्मा दीप इवेत्यादिना दृष्टान्तेन स्पष्टीकृतः । यो ऽयं मध्ये हृन्मण्डलस्योपलभ्यस् तं विदित्वा तु संसारचक्रे न पुनर् आजायते मुच्यत एवेत्य् अर्थः । ननु चात्मनः सर्वगतत्वान् नियतदेशाभिधानम् अयुक्तम् । मैवम् । उपलब्धिमार्गोपदेशो ऽयं, नात्मनः स्वरूपोपदेशः । अत एव च पुनर् विशेषाभिधानं “मध्ये यस् तं विदित्वा” इति । प्रदीपदृष्टान्तस् त्व् अनन्यप्रकाश्यत्वाद् व्यापित्वाच् च । यथैव ह्य् अविभक्तस्यापि प्रदीपतेजसः प्रचिततरत्वेनैकत्रोपलम्भाद् इहैवायम् इति व्यवच्छेदाभिधानम्, तथैवात्मव्यवच्छेदाभिमानो ऽपीत्य् अभिप्रायः ॥ १०८–९ ॥

अस्यैव तु सम्यग् विवेकार्थम् ।

ज्ञेयम् आरण्यकम् अहं यद् आदित्याद् अवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगम् अभीप्सता ॥ ३.११० ॥

“अहं यद् आदित्याद्” इत्यादिना बृहदारण्यकम् इति ज्ञापयति । आरण्यकज्ञानोपदेशाच् च वेदाद् एवायम् अर्थो ऽवगन्तव्यः नान्यत इत्य् अवगम्यते । वेदाद् अपि चाचार्यतो ब्रह्मचर्याधिगताद् इत्य् “अहम् आदित्याद्” इत्यादिना द्योतितम् । न चैवं सति स्मृत्यानर्थक्यम् । किं तर्हि, वेदार्थोपकरणतया । योगसिद्धिम् आभिमुख्येन कर्तुम् इच्छता “योगशास्त्रम् अपि मत्प्रोक्तं ज्ञेयम्” एवेत्य् अभिप्रायः । मत्प्रोक्तं वेदार्थानुगुणम्, न तु तद्विपरीतं बुद्धाद्युक्तम् इत्य् अभिप्रायः । तथ च्ōक्तं स्वयम्भुवा ।

आर्षां धर्म(प्र)वचनं वेदशास्त्राविरोधिना ।
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ इति । (म्ध् १२.१०६)

ऋषयो ब्रह्मविदस् तेषाम् इदम् इत्य् आर्षं ब्रह्मस्वरूपप्रतिपत्त्यर्थम् । स्पष्टम् अन्यत् ॥ ११० ॥

तद् इदानीं वेदानुगुणध्यानप्रकारं प्रपञ्चयति ।

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ॥ ३.१११ ॥

नास्माद् अन्यो विद्यत इत्य् अनन्य आत्मा तद्विषयं मनोबुद्धिस्मृतीन्द्रियं कृत्वा अन्यविषयताया व्यावर्त्येत्य् अर्थः । क्व पुनः शरीरदेशे वर्तमानस्य मनोबुद्ध्यादेर् अनन्यविषयता स्यात्, तद् आह- “हृदये” इति । यदा हि बाह्यविषयोपरमेणेन्द्रियप्रवृत्तयो हृदि नियम्यन्ते, तदा मनो ऽपि तदनुविधानात् स्वदेशवर्त्य् अपि स्वविषयात् सुखादेर् अपवृत्तम् अकल्पकं भवति । तदधीनत्वाच् च स्मृतिबुद्ध्योर् आत्मन्य् अवस्थानात्मनो बुद्धिस्मृतीन्द्रियस्यात्मविषयत्वसिद्धिः । अतो हृदये संनिरुद्धेन्द्रियग्रामम् आत्मविषयतया प्रदीपवद् अभिन्नो ऽपि भेदावभासी व्यापितया प्रभुर् अव्ययः परमात्मा ध्येय इत्यादि योज्यम् ॥ १११ ॥

ननु एतत् दुर्वारत्वाद् इन्द्रियग्रामस्य दुःशकम् इवोपलक्ष्यते । सत्यं दुःशकम्, न त्व् अशक्यम् एव । यतः पश्य ।

यथावधानेन पुमान् साम गायत्य् अविध्य् अयम् ।
सावधानस् तथाभ्यासात् परं ब्रह्माधिगच्छति ॥ ३.११२ ॥

किम् अत्राशक्यम्, दृष्टं हि प्रणिहितमनसां सामगानाम् ऋक्तो विवेकेन दुर्लक्ष्याम् अपि रथन्तरादिगीतिम् ऋगन्तरारोपिताम् इदम् अत्र सामेत्य् एवम् अविभाव्यं यमविनष्टं सामगानं यथैव च पुमान् एव प्रसक्तबाह्यविषयमना अप्य् अविध्य् अयं सावधानः साम गायति, एवम् एव ध्यानाभ्यासात् परम् अपि ब्रह्माधिगच्छत्य् एव । अतो ऽत्र यत्नवता भाव्यं नाशक्यम् एवैतद् इति पराभङ्गः कार्यः । तथा चोक्तम्-

उत्सेकं जलधेर् दृष्ट्वा तृणाग्रेणैकबिन्दुना ।
अशक्यम् इति मन्तव्यं न किंचित् कृतबुद्धिना ॥ इति ॥ ११२ ॥

अत एव चेन्द्रियनिरोधकत्वेन परब्रह्मप्राप्तिहेतोर् योगस्योपायभूतं गानम् इति मन्यमाना गीतिवेदविदो नारदादयः स्मरन्ति ।

अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा ।
औवेणकं सरोबिन्दुम् उत्तरं गीतिकानि तु ॥ ३.११३ ॥
ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका ।
गेयम् एतत् तदभ्यासकारणाच् चोक्तसंज्ञकम् ॥ ३.११४ ॥

इमान्य् अपरान्तकादीनि प्रायेण वस्तुमात्रापादभागात्मकानि स्वविषयविशिष्टानि सप्त गीतिकानि गानशास्त्राद् एवावसेयानि । तद् यथा ।

अथ वस्तूनि षट् सप्त पञ्च वाप्य् अपरान्तकम् ।

इत्यादि । तथा ।

आदाव् उल्लोप्यकस्याथ मात्राभिः पतनैर् युता ।

इति एवमादि महत् तन्त्रं ग्रन्थगौरवप्रसङ्गाद् अत्र न प्रपञ्च्यते । तथा वस्तुमात्रापादभागादिविवेको ऽपि तत् एव मृग्यः । यथा- “स्वयं वस्तुषण्मात्राः” इत्यादि । ऋग्गाथा इत्य् अत्रापि च विशिष्टा एव ह्य् ऋचो दिव्यवीणया ब्रह्मना गीताः । तथा गाथा काश्यपप्रजापतिगीता । पाणिका दक्षविहिता दक्षप्रजापतिगीतेत्य् अर्थः । ब्रह्मस्तुत्यर्था गीतिका ब्रह्मगीतिका । सर्वम् एतच् चोक्तसंज्ञकं नारदाद्युक्तलक्षणं योगमार्गोपयोगित्वाद् गेयम् । अन्यपरत्वाच् चोपदेशय नात्यभिनिवेशः कार्यः । यद् वा नारदादिस्मरणाद् इहापि च प्रसङ्गाभिधानाद् वेदमूलत्वम् एवानुमेयम् इत्य् अनवद्यम् ॥ ११३–४ ॥

भूयश् च नारदाद्यभिप्रायेणैवाह ।

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश् चाप्रयासेन योगमार्गं निगच्छति ॥ ३.११५ ॥

श्रुतिर् ध्वन्यात्मिका द्वाविंशतिप्रकारा स्वरपरिमाणनियामिका विज्ञेया । जातिस् त्व् अष्टादशप्रकारा षड्जाद्या । तालः कालपातात्मको मानविशेषः । स्पष्टम् अन्यत् ॥ ११५ ॥

किं च ।

गीतिज्ञो यदि योगेन नाप्नोति परमं पदम् ।

तथापि तु ।

रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ३.११६ ॥

अनेन च गानाधिदेवता रुद्र इत्य् एतद् ज्ञापितम् ॥ १०६ ॥

प्रासङ्गिकम् अभिधायेदानीम् इदम् एवात्मतत्त्वम् अतिसौहृदात् कृत्स्नं जीवलोकम् अनुजिघृक्षुर् आचार्यः स्पष्टयितुं शास्त्रारम्भप्रयोजकान् एव मुनीन् प्रष्टृत्वेनोपन्यस्यति स्म ।

अनादिर् आत्मा कथितस् तस्यादिश् च शरीरकम् ।
आत्मनश् च जगत् सर्वं जगतश् चात्मसंभवः ॥ ३.११७ ॥

“निमित्तम् अक्षरं कर्ता” (य्ध् ३.६९) इत्यादौ कथित एवेति शेषः ॥ ११७ ॥

एवं चानुपपन्ने जगतश् चात्मनश् च कार्यकारणभावे सति ।

कथम् एतद् विमुह्यामः सदेवासुरमानवम् ।
जगद् उत्पन्नम् आत्मा च कथं न्व् अस्मिन् वदस्य नः ॥ ३.११८ ॥

कथं नु खल्व् अयं विरुद्धः कार्यकारणभावः । अस्मिन् विरोधे परिहाराय नः अस्माकं वदस्व कथयेत्य् अर्थः ॥ ११८ ॥

इदानीं योगीन्द्रस् तेषाम् उत्तरम् आह ।

मोहजालम् अपास्येदं पुरुषो दृश्यते हि यः।
सहस्रकरपन्नेत्रः सूरवर्चाः सहस्रशः ॥ ३.११९ ॥
स आत्मा चैव यज्ञश् च विश्वरूपः प्रजापतिः ।
विराट् च सोमरूपेण यज्ञत्वम् उपगच्छति ॥ ३.१२० ॥

ग्रन्थरूपतया प्रश्नोत्तराभिधानं कृतव्याख्यानम् एव । मास्मिन् व्यामोहं कृथाः । कुतार्किकोक्तालीककुचोद्यानुसारिमोहजालम् अपनीयाखिलप्रपञ्चरूपातिरिक्तो वक्ष्यमाणयुक्त्यनुग्रहात् प्रत्यक्षेणैव प्रत्यगात्मन्य् अपरोक्षरूपतया निरस्तद्वितयप्रतिभासः पुरुषो यो दृश्यते अनुभूयते । कथंलक्षनः, सहस्रकरपन्नेत्र इत्यादिलक्षणः । स एवात्मा यज्ञश् च, यज्ञशब्दश् च तत्कारणपृथिव्यादिमहाभूतवचनः, पृथिव्यादीन्य् अपि स एवेत्य् अर्थः । कथं पुनः स एवात्मा यज्ञश् च, यतो विश्वरूपः प्रजापतिश् च सः । सर्वाणि भूतान्य् अस्यैवाविभक्तस्यात्मनो रूपाणि यस्मात्, तस्माद् विश्वरूपः । अत एव चोक्तं सहस्रकरचरण इत्यादि । सहस्रशब्दश् च बह्वर्थो न संख्यार्थः, अनन्तजातिरूपसंबन्धेनाभिन्नो ऽपि घटाकाशादिवद् भिद्यमानः सहस्रशो दृश्यते । सूर्यवर्चाः स्वयंप्रकाश इत्य् अर्थः । स्वयं च भेदेन प्रजासर्जनात् प्रजापतिः विराट् च । अन्नं स एव भूत्वा सोमादिरूपेण यज्ञत्वं यज्ञसाधनत्वम् उपगच्छति प्राप्नोतीत्य् अर्थः ॥ ११९–२० ॥

ततश् च ।

यो द्रव्यदेवतात्यागसंभूतो रस उत्तमः ।
देवान् स संतर्प्य रसो यजमानं फलेन तु ॥ ३.१२१ ॥
संयोज्य वायुना सोमं नीयते रश्मिभिस् ततः ।
ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ ३.१२२ ॥

यो ऽयम् आहुत्यात्मको द्रव्यदेवतात्यागसंभूतो याज्ञः सोमादिद्रव्यस्य दर्शनानुविधायी साधारणात्मको जगत्कारणभूतः सूक्ष्म उत्तमा रसः स देवान् सम्यक् तर्पयित्वा विशेषात्मना च यजमानं फलेनानुष्ठितनियोगतया संयोज्य ततः साधारणात्मना “समिष्टयजुषा स्वाहा वातेधा” इत्येवं विद्यादर्शनाद् वाते प्रक्षिप्तः स वातेन सोमं सोममण्डलं नीयते । ततश् च सौरैर् एव रश्मिभिर् दर्शनानुग्रहाद् ऋगादिमन्त्रार्थवादादिप्रतिपादितं सौरं स्थानम् उपनीयत इत्यादि । तद् एतद् ऋचाप्य् उक्तम्- “यम् अक्षितम् अक्षितयः पिबन्ति” (त्स् २.४।१४.१) इत्यादि ॥ १२१–२२ ॥

यश् चासौ याज्ञो रसः सौरं धाम प्राप्तो जगत्कारणत्वेन संभृतः ।

तन्मण्डलम् असौ सूर्यः सृजत्य् अमृतम् उत्तमम् ।
यज्जन्म सर्वभूतानाम् अशनानशनात्मनाम् ॥ ३.१२३ ॥

(यो ऽसौ याज्ञो रसः ?) तन्मण्डलम् असौ परमात्मा सूर्यः । तद् उक्तम्- “सूर्य आत्मा जगतस् तस्थुषश् च” (र्व् १.११५.१) इति । असौ सूर्यस् तद् उत्तमम् अमृतम् उदकं जगत्कारणभूतं सृजति मुञ्चतीत्य् अर्थः । तद् एवोदकं विशिनष्टि- “यज्जन्म सर्वभूतानाम्” इत्यादि । “अशनानशनात्मनाम्” स्थाणुजङ्गमानाम् इत्य् अर्थः ॥ १२३ ॥

यो ऽसाव् उदकभावेन याज्ञो रस इह प्राप्तः फलभूतो विराट्त्वम् अन्नरूपताम् आपन्नः ।

तस्माद् अन्नात् पुनर् यज्ञः पुनर् अन्नं पुनः क्रतुः ।
एवम् एतद् अनाद्यन्तं चक्रं संपरिवर्तते ॥ ३.१२४ ॥

तस्माद् अन्नात् पूर्वेणैव मार्गेण पुनः साधारणात्मा यज्ञो निष्पद्यते तस्माच् च यज्ञात् तेनैव वाय्वादिना मार्गेण पुनर् विराट् चान्नम्, ततो ऽपि चान्नात् तथैव पुनः क्रतुर् यज्ञः ततश् च पुनर् अप्य् अन्नम् इत्य् एवम् एतद् अनादिनिधनं विश्वरूपस्य ब्रह्मणः संसारबीजं चक्रक्रमात् परिवर्तते । ततश् चान्योन्यकार्यकारणत्वे ऽप्य् अविरोधः ॥ १२४ ॥

इदं चानादिनिधनं चक्रं परिवर्तमानम् आलोच्यास्माभिर् उक्तः ।

अनादिर् आत्मा संभूतिर् विद्यते नान्तरात्मनः ।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ ३.१२५ ॥

यद्य् अनादिर् आत्मा कथं जायते म्रियत इति व्यवहाराः, उक्तम्- “शरीरग्रहणात् स जात इति कीर्त्यते” इति (य्ध् ३.६९) । परमार्थतस् त्व् अनादिर् आत्मा नास्यान्तरा संभूतिर् जन्म इत्य् अभिप्रायः । शरीरग्रहणम् एवाकलंकस्य ब्रह्मणः कस्माद् इति चेत्, नैवाक्षरस्य परमात्मनः शरीरसंबन्धः, शरीरासंसृष्ट एव हि सः । अयं त्व् अन्य एव ततो ऽविच्छिन्नः शरीरसमवायी पुरुषः अविद्याव्यामोहाद् इच्छाद्वेषाभ्यां साधारणविशेषात्मकत्वेन च कर्मणा संसृष्टो जन्मव्यपदेशभाग् इत्य् अवसेयम् ॥ १२५ ॥

अतश् चायं परावरात्मको मूर्तामूर्तरूपः स एव परमात्मा ।

सहस्रात्मा मयो यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जातास् तस्य वर्णा यथाक्रमम् ॥ ३.१२६ ॥

मुखेनाध्ययनभोजनादिकार्यसंयोगाच् छ्रैष्ठ्येन च प्राथम्याद् ब्राह्मणस्य मुखजत्वम् एवं रक्षणादिबाहुकार्यसंबन्धाद् बाहुजत्वम् इत्यादि ब्रह्मणः पारमार्थिकमुखाद्यभावात् प्रपञ्चनीयम् ॥ १२६ ॥

एवम् एव प्रतिष्ठादिपदादिकार्ययोगात् ।

पृथिवी पादतस् तस्य शिरसो द्यौर् अजायत ।
नस्तः प्राणा दिशः श्रोत्रात् त्वचो वायुर् मुखाच् छिखी ॥ ३.१२७ ॥

मानसेन दर्शनेन चाभिव्यङ्ग्यत्वात् ।

मनसश् चन्द्रमा जातश् चक्षुषश् च दिवाकरः ।
जघनाद् अन्तरिक्षं च जगच् च सचराचरम् ॥ ३.१२८ ॥

जघनशब्दओ नाभ्याद्यर्थः । सचराचरं जगत् तस्माद् एव ब्रह्मणो जातम् इत्यादि योज्यम् । ऋज्व् अन्यत् ॥ १२८ ॥

एवं परमात्मस्वरूपे ऽभिहिते मुनयश् चोदयन्ति ।

यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते ।
ईश्वरः स कथं भावैर् अनिष्टैः संप्रयुज्यते ॥ ३.१२९ ॥
करणैर् अन्वितस्यापि पूर्वज्ञानं कथं च न ।
वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम् ॥ ३.१३० ॥

यद्य् एवम् अनादिनिधनो ऽक्षरः परमात्मा, ततो ब्रह्मन् पृच्छामो भवन्तं कथं पापयोनिषु पराधीनवज् जन्म प्रतिपद्यते । अथ मतं रागाद्यनिष्टसंप्रयोगाद् इति तद् अपि पर्यनुयोगभाग् एव ईश्वरो ऽप्य् अपराधीनः स कथं भावैर् अनिष्टैः संप्रयुज्यत इति । अथायम् अभिप्रायः संसार्यात्मतया पूर्वज्ञाननिरोधाद् इति । तद् अप्य् असत् । कथं तस्याकलंकस्य संसार्यात्मता, कथं च तदात्मकत्वे ऽपि शक्तिरूपैर् दृष्ट्याद्यैर् अनपायिभिः करणैर् अन्वितस्यापि पूर्वज्ञानं नास्ति । संसार्यात्मतया विच्छेदाद् एवेति चेत्, अज्ञत्वप्रसङ्गं एव स्यात् । सर्वगतपरमात्मस्वरूपानपायाद् ज्ञानोत्पत्तिर् इति चेत्, एवं सति सर्वगो ऽपि सन् स देवः कस्मात् सर्वशरीरान्तर्गतां वेदनां सुखादिसंविदं न वेत्ति न जानातीत्य् अर्थः ॥ १३० ॥

एवं मुनिभिः परिचोदिते भगवतोत्तरम् उच्यते ।

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवो ऽयं भवन् जातिशतेषु च ॥ ३.१३१ ॥

यद् उक्तं पापयोनिषु कथं जायत इति तत्रेदम् उत्तरं मनोवाक्कायकर्मजैर् दोषैर् अन्त्यपक्षिस्थावरतां जातिभेदेषु च शतशो भवन्न् उत्पद्यमानो यातीति । एतद् एव तु प्रथमतरं वाच्यम् आसीत्, कथं ब्रह्मणः संसार्यात्मतैवेति । तत् तु साधारणविशेषात्मकत्वेनारम्भकस्य यज्ञादिचक्रस्यानादिनिधनत्वाभिधानेनैव परिहृतप्रायत्वात् कूपपतितस्येवोद्धारणप्रकारार्थिनः पतनप्रकारान्वेषणवद् अनुपयोगित्वान् न परामृश्यते ॥ १३१ ॥

किं च ।

अनन्ता हि यथा भावाः शरीरेषु शरीरिणाम् ।
रूपाण्य् अप् तथैवेह सर्वयोनिषु देहिनाम् ॥ ३.१३२ ॥

वाक्कायकर्मणो ऽपि हि कारणभूता मानसा एव भावाः । तथा चाम्नायो ऽपि- “अथ खलु क्रतुमयो ऽयं पुरुषः” इति (श्ब् १०.६।३.१) । ते चानन्ताः शरीरिणा संसार्यात्मनां शरीरेषु वर्तमानानां यथैव च कारणभूता अनन्ता भावाः, तथैव च कार्यभूतानि रूपाण्य् अपीह वर्तमानानां देहिनाम् अपि । अतश् च परमात्मस्वरूपवद् अनन्तमानसभावसंबन्धात् संसार्यात्मनाम् अप्य् अनादित्वसिद्धिः ॥ १३२ ॥

यदि कर्मतो योन्यन्तरसंबन्धः यस्यां तर्हि तिर्यगादियोनाव् अनधिकारः ततो योन्यन्तर्संबन्धो न प्राप्नोति । सत्यम् । यद्य् ऐहिकफलान्य् एव वैदिकानि कर्माणि स्युः, ततः स्याद् अप्य् (?) एवम् । यदा तु खलु ।

विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते ।
इह चामुत्र चैकेषां

तदैतद् अचोद्यम् इति शेषः ।

किं च नैव हि तत्र कर्मफलोत्पादे ऽधिकारज्ञानस्योपयोगः । किं तर्हि ।

भावस् तत्र प्रयोजकः ॥ ३.१३३ ॥

भावमात्रेणापरिज्ञातम् अपि कर्म फलम् उत्पादयत्य् एवेत्य् अभिप्रायः । प्रेत्य विपाकः स्वर्गादिफलानाम्, इहैव वृष्ट्यादेः, अनियतः पश्वादीनाम् । ऋज्व् अन्यत् ॥ १३३ ॥

तद् इदानीं कर्मजं कार्यकारणभावं प्रपञ्चयति ।

परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायते ऽन्त्यासु योनिषु ॥ ३.१३४ ॥

परद्रव्याभिध्यानादिभिर् मानसैर् दोषैर् अन्त्यासु चण्डालादियोनिषु जायत इत्य् मन्तव्यम् ॥ १२४ ॥

स वाग्दोषैस् तु ।

पुरुषो ऽनृतवादी च पिशुनश् चैव मानवः ।
असंबन्धप्रलापी च मृगपक्षिषु जायते ॥ ३.१३५ ॥

पुनर् मानव इति पुरुषवचनात् पुरुषमात्राश्रयम् एत्द् इति ज्ञपयति । मृगपक्षिवचनं चाशेषतिर्यग्जातिलक्षणार्थम् । ऋज्व् अन्यत् ॥ १३५ ॥

कायिकैस् तु कर्मदोषैः ।

अदत्तादाननिरतः परदारोपसेवकः ।
हिंसकश् चाविधानेन स्थावतेषूपजायते ॥ ३.१३६ ॥

सत्त्वगुणातिशययोगात् पुनः ।

आत्मज्ञः शौचवान् दान्तस् तपस्वी नियतेन्द्रियः ।
धर्मकृद् वेदविद् याति[^१२]** सात्त्विको देवयोनिषु ॥ ३.१३७ ॥**

आत्मज्ञः शौचादिनिष्ठो वेदविच् च यः स सात्त्विको देवयोनिषु याति कर्मणा देवत्वं प्राप्नोतीत्य् अर्थः ॥ १३७ ॥

अतिशयरजःसंबन्धात् तु ।

असत्कार्यरतो ऽधीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु मृतो जन्म प्रपद्यते ॥ ३.१३८ ॥

सच्छब्दो नित्यवचनः । नित्यं यत् कार्यम् अग्निहोत्रादि तत् सत् कार्यम् । ततो ऽन्यद् असत् कार्यं काम्यं । तत्प्रधानः अधीरश् चञ्चलचित्तः आरम्भी सांदृष्टिकारम्भप्रधानः भोगादिकामविषयासक्तश् च यः स राजसो मनुष्यजात्याश्रयफलोपभोक्तृत्वान् मनुष्येषु जायते मृतो मर्त्यः अमृतत्वलक्षणदेवत्वानर्ह इत्य् अर्थः ॥ १३८ ॥

अपुण्यभूयस्त्वात् तु स्वभावत एव ।

निद्रालुः क्रूतकृल् लुब्धो नास्तिको याचकस् तथा ।
प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः ॥ ३.१३९ ॥

यद् एकैकत्र सात्विकादौ स्वयंभुवा त्रैविध्यम् उक्तं तद् इहोदाहरणार्थतयोपन्यासान् न प्रपञ्चितम् ॥ १३९ ॥

एवं च मनोभावमूलत्वात् संसारस्थितेर् मानसैर् एव ।

रजसा तमसा चैव समाविष्टो भ्रमन्न् इह ।
भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ ३.१४० ॥

सत्त्वाल्पतया रजस्तमोभ्यां समाविष्टः पराधीनत्वाद् इहैव संसारे भ्रमन् भूयः संसारम् एवानिष्टैर् मानसैर् भावैः संयुक्तः प्रतिपद्यते न विमुच्यत इत्य् अर्थः ॥ १४० ॥

रजस्तमोभ्याम् अभिभूतसत्त्वश् च सर्वज्ञत्वे ऽपि विज्ञानात्मतया विच्छेदात् ।

मलिनो हि यथादर्शो रूपालोकस्य न क्षमः ।
तथाविपक्वकरण आत्मा ज्ञानस्य न क्षमः ॥ ३.१४१ ॥

सत्य् अपि ह्य् आलोकसामर्थ्ये मलोपघाताद् यथैवादर्शो रूपालोकनासमर्थः, तथैव रजस्तमोपघाताद् अपक्वो ऽपटुकरणो विज्ञानात्मा सम्यग् ज्ञानस्यासमर्थः । अतो यद् उक्तं कथं करणवतो ऽपि पूर्वज्ञानाभाव इति तत् परिहृतम् ॥ १४१ ॥

अतश् चानुच्छिन्नकरणशक्ताव् अपि ।

कटूर्वारौ यथापक्वे मधुरः सन् रसो ऽपि न ।
प्राप्यते

इति छेदः ।

आत्मन्य् अपि तथा नापक्वकरणे ज्ञता ॥ ३.१४२ ॥

उर्वारुश् चिद्भिटसदृशं फलम् । स्पष्टम् अन्यत् ॥ १४२ ॥

यद् उक्तं “वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम्” (य्ध् ३.१३०) इति, तत् परिहर्तुम् आह ।

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी युक्तस् तु सर्वेषां यो नावाप्नोति वेदनाम् ॥ ३.१४३ ॥

भोगायतनत्वान् निज एव देहे यस्माद् विज्ञानोत्पादः तस्मात् सर्वगतो ऽपि सर्वाश्रयाः संविदो न विभावयति । यदा तु योगी परिनिष्पन्नयोगज्ञानः स्यात् तदा युक्तः समाधिस्थो निज एव देहे ऽवस्थितः स्पर्शयोगसामर्थ्यात् सर्वाश्रयां देहान्तरवर्तिनीम् अपि विजानात्मान्तरेण भेदप्रत्ययम् अपनीयात्मव्यवस्थितो वेदनां संविदं वेत्ति उपलभत इत्य् अर्थः । तुशब्दस्य चोत्कृष्य नञा संबन्धः “न त्व् अवाप्नोति वेदनाम्” इति । एतद् उक्तं भवति- उपलभत एव न त्व् अवाप्नोति विज्ञानफलं सुखादि नोपभुङ्क्ते इत्य् अर्थः । कथं पुनर् ज्ञातृत्वेनाभिन्नस्यापि सुखाद्यभोक्तृत्वम्, कर्मसाध्यत्वात् फलोपभोगस्य भेदानुपातिनश् च कर्मणो विज्ञानात्माश्रयत्वाद् इत्य् अविरोधः ॥ १४३ ॥

कथं पुनर् एकस्यैव विभक्ताविभक्तत्वं तथैव युक्त्यागमाभ्याम् उपलम्भनात् । तथा हि ।

आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मैको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान् ॥ ३.१४४ ॥

यथैव ह्य् एकत्वे ऽप्य् आकाशं घटादिभिर् अवच्छिन्नविशेषम् एकताप्रत्ययं भिदां च बिभर्ति न च भेदानुपातिधर्मसंकरः, तथा ब्रह्मणो ऽपीत्य् अवसेयम् । तथा चाह ।

यथैकस्मिन् घटाकाशे रजोधूमादिभिर् युते ।
न सर्वे संप्रयुज्यन्ते सुखं दुःखं तथात्मनः ॥ इति । (माणुक् ३.५)

तथान्यैर् अपि ।

धूमपूर्णघटानां च यस्यैकस्यैव रेचनम् ।
उत्पाट्य क्रियते तत्र जायते व्योम निर्मलम् ॥ इति ॥ १४४ ॥

यदि तर्हि सवितुर् इवाभिन्नस्यापि जलाधारादिवद् ब्रह्मणो भेदावभासः न तर्हि भेदः प्रमाणवान् व्यामोहनिबन्धनत्वाद् इत्यादिकाम् आशङ्कां निराकरोति ।

ब्रह्म खानिलतेजांसि जलं भूश् चेति धातवः ।

परमार्थसत्या एवेति शेषः । यद् उक्तम्,

पञ्च धातून् स्वयंषष्टान् आदत्ते युगपत् प्रभुः । (य्ध् ३.७२ )

इत्य् अत्र यथैते पञ्च धातवः परमार्थसत्याः ।

इमे लोका एष चात्मा तस्माच् च सचराचरम् ॥ ३.१४५ ॥

लोकशब्दः शरीरवचनः लोका शरीराणीत्य् अर्थः । तस्माच् चात्मनो ऽनन्यतयैव घटाद्याकाशवत् सचराचरं भेदव्यवहारानुपाति जगद् इत्य् अर्थः । कथं पुनर् अभिन्न एवात्मात्मनः शरीरादि कुर्यात्, उक्तं भावविशेषानुग्रहाद् इति ॥ १४५ ॥

किं च ।

मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् ।
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः ॥ ३.१४६ ॥
हेममात्रम् उपादाय रूपं वा हेमकारकः ।
निजलालासमायोगात् कोशं वा कोशकारकः ॥ ३.१४७ ॥
करणान्य् एवम् आदाय् तासु तास्व् इह योनिषु ।

कार्यगम्यत्वात् सामग्रीनियमस्य तद्दर्शनानुसारिण्य् एव कल्पनेत्य् अभिप्रायः । यथा च घटगृहादौ सामग्रीवैचित्र्योपलम्भः, कोशकारादेस् तु कोशादिसर्जनं लालादिकरणवतः तत्सृष्टौ त्व् आत्मन एव कर्तृत्वकरणत्वे एवं ब्रह्मणो ऽपि महाभूतादिजन्यकर्मादिकरणवतः शरीरादिसर्जनं करणादिसृष्टौ त्व् आत्मन एव कर्तृत्वकरणत्वे ॥ १४६–७ ॥

तद् दर्शयति,

सृजत्य् आत्मानम् आत्मैव संभूय करणानि च ॥ ३.१४८ ॥

इति । संभूय करणानि च स्वयं कर्तृकरणभूत इत्य् अर्थः ।

  • ननु चान्योन्यव्याहत एवायं चेतनाचेतनत्वेनैकबहुत्वानुसारी परावररूपः परमार्थान्वेषणेनात्मप्रत्ययः । तथा हि, यदि तावद् युक्त्यागमानुसराद् अद्वयं ब्रह्म, ततो भेदव्यवहारो जलपात्रेष्व् इव सवितुर् उपाधितो भ्रान्तिनिबन्धनतयैव स्यात् । अथ भेदव्यवहारसत्यता कुतस् तर्ह्य् आत्मनो व्यतिरेकिणः शरीरसंबन्धः । न च महाभूतव्यतिरेकेणात्मनः स्वरूपं पश्यामः चैतन्यस्य मदशक्तिवद् भूतसमुदायधर्मतयाप्य् उपपत्तेः । अपि च महाभूतान्य् अपि विज्ञानवादिनं प्रति साध्यान्य् एव ज्ञानाकारतया नीलाद्यवबोधसंभवात् । अतो वक्तव्यम् एतत् ।

  • अत्राभिधीयते । प्रतीयते हि बाह्यो ऽर्थः कथम् असाव् अपह्नूयते न ज्ञानाकारतयैव तदुपपत्तिः असंवित्प्रसङ्गात्, न ह्य् आत्मनैवात्मसंवित्संभवः । किं च ग्राह्यग्राहकप्रत्ययस् तावद् भेदहेतुतायाम् अनपेक्षः । कल्प्यं त्व् एकत्वम् आरोप्याद्व्याकारत्वम् । न चोपलब्धिविरोधिन्यः कल्पनाः संभवन्ति । न च स्वप्नादिवैतथ्येन जाग्रत्प्रत्ययवैतथ्यं जाग्रत्स्वप्नादिभिदैवान्यसिद्धेः, प्रमुषितस्मरणाभिमानत्वे ऽपि च स्मार्तत्वेन बाह्यालम्बनत्वम् । अथोच्येत कथं व्यतिरिक्तो ऽर्थः संविदं जनयेत् जनने वा सर्वार्थसंविदवबोधो वा स्याद् इति । तद् अपि हीन्द्रियार्थसंबन्धानुसारात् ज्ञानोत्पादनस्याचोद्यम् एव । न च सतो ऽपि ब्राह्मस्य क्षणिकत्वं प्रत्यभिज्ञानेनैकताध्यवसानात् अन्तरा च विनाशहेत्वनुपलम्बात् सामग्र्यधीनत्वाच् च कार्योत्पादस्य स्थास्नुतायाम् अपि क्रमयौगप्द्यादिना तदसंबवादिचोद्यानवकाश एवेत्य् एषा दिक् । एवं चेद् यथोपलम्भम् अर्थस्थितेर् महाभूतानि तावत् सत्यान्य् एव । यत् तु तत्सत्यत्वे तत्संघधर्मतया मदशक्तिवद् विज्ञानोत्पत्तौ नैरात्म्यप्रसङ्ग इति तद् अपि बाह्यार्थानुभूतिवद् आत्मनो ऽप्य् अनुभवत एव सिद्धेर् अकिंचित् ॥ १४८ ॥

किं च ।

महाभूतानि सत्यानि यथात्मापि तथैव हि ।
को ऽन्यथैकेन नेत्रेण दृष्टम् अन्येन पश्यति ॥ ३.१४९ ॥

यथैव ह्य् अनुभूयमानत्वान् महाभूतानि पृथिव्यादीनि सत्यानि एवम् एवानुभवितृत्वाद् आत्मापि सत्य एवेत्य् अभिप्रायः । अन्यथा हि भूतदर्मत्वे ज्ञानस्यानुभवितारम् अन्तरेण एकेनाक्ष्णा दृष्टं पुनस् तद् एवेदं पूर्वदृष्टम् इत्य् अन्येनाक्ष्णा कः पश्येत् को ऽनुसंदध्याद् इत्य् अभिप्रायः ॥ १४९ ॥

एतद् एव भूयः स्पष्टयति ।

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ ३.१५० ॥

प्रपञ्चार्थम् एतत् ॥ १५० ॥

अपि चानुभवत एवात्मतत्त्वावगमः किम् अत्र युक्त्या प्रयोजनम् । यो ह्य् अयं रजस्तमोभ्याम् उपप्लुतचेताः ।

जातिरूपवयोवृत्तविद्यादिभिर् अहंकृतः ।
सक्तः शब्दादिविषये कर्मणा मनसा गिरा ॥ ३.१५१ ॥

स एवापरोक्षस्वसंवित् नात्मेत्य् अभिप्रायः ॥ १५१ ॥

किं च यस् तावद् योगसंसिद्धः स निर्विकल्पम् अपरोक्षम् अद्वयं ब्रह्मावबुध्यत एव । इतरो ऽपि कुतार्किकचोद्याभिमानी यः ।

स संदिग्धमतिः कर्मफलम् अस्ति न वेति वा ।
संप्लुतः सिद्धम् आत्मानम् असिद्धो ऽपि हि मन्यते ॥ ३.१५२ ॥

यो ऽसौ कुतार्किकमानी संदिग्धमतिस् तमसा संप्लुतो ऽवष्टब्धः सो ऽपि यदैवम् अतिपाण्डित्याद् विकल्पयति कर्मफलम् अस्ति न वेति तदा सिद्धं निश्चितं शरीरव्यतिरिक्तम् आत्मानं मन्यत एव । असिद्धो ऽपि योगदर्शनानपेक्षो ऽपीत्य् अर्थः । यत् त्व् इदम् उक्तं कथं महाभूतसत्यत्वे व्यतिरिक्तस्यात्मनः शरीरतया निबन्ध इति तन् महाभूतानाम् अप्य् आत्मस्वरूपत्वेनाव्यतिरेकित्वाद् अचोद्यम् एव । यथानुभवानुसारेण विज्ञानात्मसत्यत्वाच् चोद्यम् एवेति चेत् । न, निमित्तान्तरस्य संभवात् ॥ १५२ ॥

तथा हि ।

मम दारसुतामात्या अहम् एषाम् इति स्थितः ।
हिताहितेषु भावेषु विपरीतमतिः सदा ॥ ३.१५३ ॥
ज्ञे ऽज्ञे च प्रकृतौ चैव विकारे चाविशेषवान् ।
अनाशकाग्निप्रवेशजलप्रपतनोद्यमी ॥ ३.१५४ ॥
एवंवृत्तो ऽविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्याम् इच्छया चैव बध्यते ॥ ३.१५५ ॥

एवं श्लोकद्वयोक्तवृत्तो ऽलीककुतार्किकचोद्याभिनिवेशवान् अविनीतः साधारणविशेषात्मकेन कर्मणा मानसाभ्यां च द्वेषमोहाभ्यां भोगातिविषयेच्छया च व्यतिरिक्तो ऽपि बध्यत इत्य् अभिप्रायः । मम दारपुत्रादयो ऽहं चैषाम् इत्य् अन्योन्यम् उपकार्योपकारकतया यो ऽवस्थितः हिताहितेषौ चादृष्टार्थसांदृष्टिकार्थेषु च भावेषु यो विपरीतबुद्धिः सांदृष्टिक एव हिताभिमानी अहिताभिमानी चेतरत्र तथा ज्ञे च ज्ञातरि वेदार्थविदि अज्ञे च कुतार्किकादौ प्रकृतौ चात्मनि विकारे च रजस्तमोलक्षणे विशेषानभिज्ञः अतश् च धर्मबुद्ध्यभिमानाद् अनाशकादाव् उद्युक्तो यः एवंवृत्तः, स बध्यते इति व्याक्यातम् एतत् ॥ १५३–१५५ ॥

एवं च महाघोरं संसारम् आपन्नस्यायं तनुमोचनप्रकारोपदेशः ।

आचार्योपासनं वेदशास्त्रस्यार्थविवेकिता ।
तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर् गिरः शुभाः ॥ ३.१५६ ॥
स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ ३.१५७ ॥
विषयेन्द्रियसंरोधस् तन्द्र्यालस्यविसर्जनम् ।
शरीरपरिसंख्यानं प्रवृत्तिष्व् अघदर्शनम् ॥ ३.१५८ ॥
नीरजस्तमसः सत्त्वशुद्धिर् निस्पृहता शमः ।
एतैर् उपायैर् संशुद्धः सत्त्वयोग्य् अमृती भवेत् ॥ ३.१५९ ॥

आचार्योपासनादिभिर् एतैर् अध्यर्धश्लोकत्रयोक्तैर् उपायैः सम्यक् शुद्धः सात्त्विको योगं प्राप्य कैवल्यज्ञानाद् अमृती भवेद् ब्रह्मत्वं प्राप्नुयाद् इत्य् अर्थः । स्पष्टम् अन्यत् ॥ १५६–९ ॥

योगात् कैवल्यम् उक्तम् । स एव तु योगः कथं स्याद् इत्य् उच्यते ।

तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात् ।
कर्मणां संनिकर्षाच् च सतां योगः प्रवर्तते ॥ ३.१६० ॥

तत्त्वानि पृथिव्यादीनि तेषाम् आगमानुविधानेनात्माभेददर्शनं तत्त्वस्मृतिः तस्यास् तत्त्वस्मृतेर् उपस्थानाद् उद्भवात् नीरजस्तस्कत्वेन च सत्त्वयोगाद् जन्मान्तरकृतानां च ध्यानादिना परिक्षयात् कर्मणां संनिकर्षाच् च संबन्धात् सतां साधूनां योगः परानन्दप्राप्तिलक्षणः प्रवर्तत इति व्याख्येयम् ॥ १६० ॥

यद्य् अपि च कथंचिद् युक्तस्यापि प्रमादात् परप्राप्तिर् न स्यात्, तथाप्य् आनुषङ्गिकफलतयैव तावत् ।

शरीरसंक्षये यस्य मनः सत्त्वस्थम् ईश्वरम् ।
अविप्लुतस्मृतिः सम्यक् स जातिस्मरताम् इयात् ॥ ३.१६१ ॥

शरीरसंक्षये उत्क्रान्तिकाले यस्य मनो विषयानासक्तं सत्त्वस्थम् ईश्वरम् अपराधीनं रागाद्यनभिभूतम्, स सम्यग् अविनष्टस्मृतिः प्रेत्य जातिस्मरताम् इयात् जातिस्मरतां प्राप्नुयात् । ततश् च पुनर् अपि योगसंबन्धाद् अमृती भवत्य् एवेत्य् अभिप्रायः ॥ १६१ ॥

किं च स्वयंकृतैर् एव शुभाशुभैः कर्मभिर् युज्यमानः ।

यथा हि भरतो वर्णैर् वर्तयत्य् आत्मनस् तनुम् ।
नानारूपाणि कुर्वाणस् तथात्मा कर्मजस् तनुम् ॥ ३.१६२ ॥

उपसंहारार्थः श्लोकः । भरतो नटः । स यथा स्वां तनुं भूमिकाविशेषानुसारेण वर्णैर् वर्तयति, एवं कर्मजो ऽपि विज्ञानात्मा नानाविधानि शुभासुभानि कर्माणि कुर्वन् विचित्रासु योनिषु संभूतिं निर्वर्तयतीत्य् अर्थः ॥ १६२ ॥

ननु च जातिस्मरत्वे ऽप्य् अविकलाङ्गस्यैव धर्माद्यनुष्ठानसामर्थ्यात् तत्रैव तावद् उपायो वक्तव्यः । उच्यते । नात्रोपायाभिधानम् उपयुज्यते, स्वाभाविकत्वाद् अविकलाङ्गताया । तथा हि ।

कालकर्मात्मबीजानां दोषैर् मातुस् तथैव च ।
गर्भस्य वैकृतं दृष्टं नाङ्गहानं हि जन्मतः ॥ ३.१६३ ॥

कालदोषः प्रतिषिद्धरात्र्युपगमादिकः । गर्भाधानादिकर्मणि वैगुण्यम् अक्रिया वा कर्मदोषः । अनिष्टस्त्र्यन्तराभिध्यानादिकस् त्व् आत्मदोषः । अल्पत्वादिको बीजदोषः । परपुरुषाभिध्यानं मातृदोषः । एवमादिभिर् दोषैर् गर्भविक्रियावैरूप्यं, न तु जन्मतः स्वभावतो ऽङ्गहानम् इत्य् अभिप्रायः ॥ १६३ ॥

यत् त्व् इदम् उक्तं कथम् अक्षरस्य ब्रह्मणः संसारापत्तिर् इति, अत्रोच्यते ।

अहंकारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः कदाचन ॥ ३.१६४ ॥

अन्य एव ह्य् असौ नित्यम् अवस्थितः परमानन्दरूपः परमात्मा । अयं त्व् अन्य एव । तदविभागे ऽप्य् अनादितयैवावच्छिन्नो विज्ञानात्माहङ्कारादिभिः शरीरेण च न वियुक्तः । तस्यैव चायं परब्रह्माभेदप्राप्त्यर्थो भगवत आम्नायस्य प्रयत्नः ॥ १६४ ॥

अस्यैव च परप्राप्त्युपदेशमार्गस्य यदि परं रोगितया विघातः, तत्राप्य् एतद् उच्यते ।

दाता सत्यः क्षमी प्राज्ञः शुभकर्मा जितेन्द्रियः ।
तपस्वी योगशीलश् च न रोगैः परिभूयते ॥ ३.१६५ ॥

निगदोक्तः श्लोकः ॥ १६५ ॥

ननु च साधारणविशेषात्मकस्य कर्मणो ऽनादिनिधनत्वाद् यथैवानादिः शरीरसंबन्धः, तथैवानन्तो ऽपि । ततश् चानिर्मोक्षप्रसङ्गात् तत्प्रतिपादनप्रयासानर्थक्यम् एव स्यात् । उच्यते

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवम् अकाले प्राणसंक्षयः ॥ ३.१६६ ॥

आरम्भकानादितया ह्य् आरभ्यस्यानादितैव स्यान् न त्व् अनन्ततयानन्ततापि । न ह्य् अवश्यं कारणविनाशाद् एव कार्यविनाशः, तत्सद्भावे ऽप्य् अन्यतो नाशदर्शनात् । तथा च वर्त्याधारस्नेहयोगात् तदारभ्यस्य प्रदीपादेर् यावत्कारणं च संस्थितिर् दृष्टा निमित्तान्तराद् अपि वाताद्यभिघाताद् विक्रिया । एवम् आत्मनो ऽपि कर्मकार्यशरीरसंबन्धिनस् तदनुच्छेदे ऽप्य् अन्यतस् तत्त्वावबोधादेर् अकाले प्राणसंक्षयः सूक्ष्मावच्छेदकलिङ्गादिसंक्षय इत्य् अर्थः । सांसारिकत्वे ऽपि चैवम् एव तीव्रफलकर्मादिसंनिपातात् पुरुषस्य शरीरसंक्षयो योज्यः ॥ १६६ ॥

तद् इदानीं प्राणसंक्षयहेतुभूतं तत्त्वागमोपायं प्रपञ्चयति ।

अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि ।
सितासिताः कद्रुनीलाः कपिलापीतरोहिताः ॥ ३.१६७ ॥

यो ऽसौ पूर्वव्याख्यातो दीपवद् हृदि निदिध्यास्यतयावस्थितस् तस्य प्राप्त्युपायास् तदवभासकतया अनन्ता रश्मयो नाड्यः सितादिवर्णाः । सिता चात्र शुक्ला निष्कलंका परप्राप्तिर् अभिप्रेता । तदुपायतया च नाड्यां ताच्छब्द्यम् । एवं कद्र्वादिष्व् अपि योज्यम् । सितैकैव । अन्याः सर्वा असिताः । तत्प्रपञ्चः कद्रुनीला इत्यादिकः । यथाविप्रकर्षं योज्यम् । कद्रुशब्दः कुत्सितगत्यर्थो नीलादिविशेषणो न वर्णवचनः । कुत्सितगत्यर्था नीलाः कद्रुनीलाः कद्रुपिङ्गला इति च योज्यम् । आपीता हरिताः । तथा चाम्नायः- “तस्मिन् शुक्लम् उत नीलम् आहुः पिङ्गलं हरितं लोहितं च” इत्यादि (बाउ ४.४।९) ॥ १६७ ॥

परप्राप्त्युपायभूतश् च सुषुम्नाख्यो हृदयाद् ऊर्ध्वम् ऋजुर् मूर्धानम् अभिप्रस्थितः शुक्लो रश्मिः ।

ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम् ।
ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम् ॥ ३.१६८ ॥

काम्योपासनयोगाद् ब्रह्मार्पणन्यायेन वा यः कर्मण्य् अवस्थितः ।

यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम् ।
तेन देवनिकायानां स धामानि प्रपद्यते ॥ ३.१६९ ॥

वस्वादयो देवनिकायाः । स्पष्टम् अन्यत् ॥ १६९ ॥

यस् तु कामात्मको राजसः खलु कर्मानुसारेणैव ।

ये ऽनेकरूपाश् चाधस्ताद् रशमयो ऽस्य मृदुप्रभाः ।
इह कर्मोपभोगार्थास् तैश् च संचरते ऽवशः ॥ ३.१७० ॥

कृतव्याख्यानः श्लोकः ॥ १७० ॥

एवं चैतत् परावरं ब्रह्मणः स्वरूपम् आलोच्य सर्वस्यात्माधिगमव्यतिरिक्तस्य प्रयासस्य निष्प्रयोजनत्वाद् यथाकथंचित् स्वशक्त्यनुसारेणात्मानं ज्ञातुम्, हे मुनयः, प्रयत्नः क्रियताम् इत्य् एवं योगीन्द्रो वक्तुम् आह ।

वेदैः शास्त्रैः सविज्ञानैर् जन्मनामरणेन च ।
आध्या गत्या तथागत्या सत्येन ह्य् अनृतेन च ॥ ३.१७१ ॥
श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः ।
निमित्तशकुनज्ञानैर् ग्रहसंयोगजैः फलैः ॥ ३.१७२ ॥
तारानक्षत्रसंचारैः जलजैः स्वप्नजैर् अपि ।
आकाशपवनज्योतिर्जलभूतिमिरैस् तथा ॥ ३.१७३ ॥
मन्वन्तरैर् युगप्राप्त्या मन्त्रौषधिबलैर् अपि ।
वित्तात्मानं विद्यमानं कारणं जगतः सदा ॥ ३.१७४ ॥

सर्वप्रकारं वेदादिभिर् मन्त्रौषधिबलान्तैर् यथासामर्थ्यम् आत्मानं वित्त वेत्तुं प्रयत्निनो भवथ । यथाशक्ति आत्मज्ञानाय प्रयत्नः क्रियताम् इत्य् अभिप्रायः । वेदाद्युपायासंभवे ऽपि जन्ममरणादिभिर् अपि निमित्तशकुनिज्ञानादिभिर् अपि मन्त्रौषधिबलैर् अपि, न त्व् असंभाव्योपायतयात्मज्ञानाय शैथिल्यं कार्यम्, अवश्यं चात्मज्ञानं कार्यम् इत्य् एवंपरत्वाद् आरम्भस्य । न मन्त्रौषध्यादाव् अत्यभिनिवेशः कर्यः । वेदैस् तत्त्वज्ञानोपयभूतैः, शस्त्रैः व्याकरणादिभिः शास्त्रैः, सविज्ञानैः विविधेतिहासादिज्ञानसहितैः । जन्मना इहावधारणाशक्ताव् अन्येनापि जन्मनेत्य् अर्थः । आमरणेन च यावज्जीवम् अत्यभियोगेनेत्य् अर्थः । चशब्दो जन्मान्तरशतैर् अप्य् अपराभङ्गप्रदर्शनार्थः । आध्या महत्यापि मनःपीडया । गत्या देशान्तरगमनेन । अगत्या एकावस्थानतया । तथाशब्दश् चैवंभूतप्रकारान्तरार्थः । सत्येनैकात्म्यदर्शनेन । अनृतेन चतुर्भुजादिकल्पितोपासनाप्रकारेण । श्रेयसा पारिव्राज्येन । सुखदुःखाभ्यां कर्मभिश् च शुभाशुबैर् इति चशब्देन सुखादीनां समुच्चयाद् गार्हस्थ्येनेत्य् अर्थः । सुखं गन्धमाल्यादिसेवनम्, असुखं यमनियमावस्थितिः, शुभं कर्माग्निहोत्रादि, अशुभं कर्म सर्वस्वारादि विहितत्वे ऽपि मरणसंबन्धाद् अशुभत्वम्, असामर्थ्ये च ज्ञानक्षमशरीरान्तोत्पादकत्वात् प्रकृतोपयोगित्वम् । निमित्तादिज्ञानैश् च अभ्युदयकालम् उपलक्ष्यानिर्वेदेन पुनः पुनः प्रवृत्त्यर्थं निमित्तं दक्षिणाक्षिस्पन्दनादि उदगयनादि च । शकुनज्ञानं वायसरुतादिज्ञानम् । ग्रहसंयोगश् चन्द्रबलादिः । तारानक्षत्रसंचारः क्रूरग्रहैर् जन्मनक्षत्राद्यपीडनम् । जलजानि तीर्थयात्रादीनि । स्वप्नजानीष्टस्वप्नदर्शनानि । अपिशब्दः पूर्ववद् उपायत्वसंभावनार्थः । आकाशदिभिश् च परमार्थतः पुराणदर्शनानुसारेणोत्पन्नैर् जायमानैस् तिमिरैश् च तदनुसारेणैवादित्यरूपात्मतत्त्वावरोधकैः तथैव तदुक्तप्रकारेणैवापनीयमानैः । तद्दर्शनाद् एव च मन्वन्तरयुगादिप्राप्त्या कालचक्रज्ञानेनापि । प्रज्ञास्थैर्यहेतुभिर् मन्त्रौषधिबलैर् वित्तात्मानम् । कथंलक्षणं, विद्यमानं सदा विद्यमानं कालत्रयपरामर्शशून्यम् इत्य् अर्थः । कारणं जगत इत्य् उक्तार्थम् एतत् । न चायम् अतिपरोक्षः केवलागमिकत्वमात्रेण श्रद्धेय आत्मलक्षणो ऽर्थः, किं तर्हि, प्रमाणान्तरम् अत्रोक्तम् एव “महाभूतानि सत्यानि यथात्मापि तथैव” (य्ध् ३.१४९) इत्य् अत्र ॥ १७१–४ ॥

भूयश् चोपसंहारार्थं सौहृदात् तद् एव स्पष्टयति ।

अहंकारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः ।
इन्द्रियान्तरसंचार इच्छा दारणजीविते ॥ ३.१७५ ॥
स्वप्नेसर्गश् च भावानां प्रेरणं मनसो ऽगतिः ।
निमेषश् चेतना यत्न आदानं पाञ्चभौतिकम् ॥ ३.१७६ ॥
यत एतानि चिह्नानि दृश्यन्ते परमात्मनः ।
तस्माद् अस्ति परो देहाद् देही सर्वग ईश्वरः ॥ ३.१७७ ॥

मेधा प्रज्ञातिशयः । धृतिर् धारणा । इन्द्रियान्तरगृहीतस्य परामर्शः इन्द्रियान्तरसंचारः । इच्छया यद् धारणं शरीरस्य तत्परित्यागः तद् इच्छाधारणम् । स्वप्ने ऽनेकविधो विद्यमानभूतसर्गः स्वप्नेसर्गः । तथा चाम्नायो ऽपि- “न तत्र रथाः” इत्य् उपक्रम्य, “अथ रथान् रथयोगान् पथः सृजते” इत्यादि (बाउ ४.३।१०) । प्रेरणं तु मनसो जागदवस्थायाम् अपि । अगतिर् मनसः सुषुप्तावस्थायाम् । निमेषः सर्वकायिकचेष्टोपलक्षणम् । चेतना अन्तर्वर्तिनी । प्रयत्नः सर्वप्रकारः । आदानं ग्रहणं त्रिविधकर्मानुसारेण । पाञ्चभौतिकं पृथिव्यादिपञ्चभूतविषयम् । यतश् चैतानि भूतधर्मवैलक्षण्येन परमात्मनश् चिह्नभूतान्य् उपलभ्यन्ते, तस्माद् अस्ति देहाद् देहवर्तिनः क्षेत्रज्ञाद् व्यतिरिक्तो ऽन्यो देही क्षेत्रज्ञः सर्वगतः परः परमात्मा ईश्वरः कर्मणा ग्रहीतुम् अशक्यः आनन्दो ऽजरो ऽमृत इत्य् अर्थः । अत्र च जाग्रत्स्वप्नसुषुप्तावस्थानुपायित्वं महाभूताद्यादानोपपत्तिश् चाव्यतिरेकाभिप्रायेण परमात्मलिङ्गम् । अवशिष्टानि तु विज्ञानात्मसाधारणान्य् अपि ब्रह्मणः परावरात्मकत्वसिद्ध्यर्थं प्रसङ्गद् उपन्यस्तानीत्य् अवगन्तव्यम् । स्पष्टम् अन्यत् ॥ १७५–७ ॥

इदानीं क्षेत्रज्ञपत्योर् विवेकं परावरत्वं च ब्रह्मणः क्षेत्रज्ञाभिधानानुगमद्वारेण स्पष्टीकरोति ।

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।
अहंकारश् च बुद्धिश् च पृथिव्यादीनि चैव ह ॥ ३.१७८ ॥

बुद्धीन्द्रियाणि चक्षुरादीनि । एषाम् अर्था रूपादयः । अहंकारः प्रत्यगात्मन्य् अवमर्शो ऽन्यकारणासंसृष्टो बुद्धिनिमित्तकः । बुद्धिर् अनुभवहेतुफलाक्रिया । चशब्दाद् अव्यक्तं प्रधानाख्यम्, तच् च न सांख्याभिमतं सत्त्वादिगुणसाम्यावस्थात्मकम्, किं तर्हि जगत्कारणभूतं साधारणात्मकम् । तद् उक्तम्- “यो द्रव्यदेवतात्यागसंभूतो रसः” (य्ध् ३.१२१) इत्य् अत्र । सत्त्वादीनां त्व् आत्मगुणत्वम् एव । स्पष्टम् अन्यत् ॥ १७८ ॥

एतच् चतुर्विंशतितत्त्वात्मकं यत् क्षेत्रम् ।

अव्यक्त आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्वरः सर्वभूतानां सन्न् असन् सद् असच् च सः ॥ ३.१७९ ॥

अस्य चतुर्विंशतितत्त्वात्मकस्य वेत्ताधिष्ठातृत्वेन फलभोक्तृतया चेश्वरो ऽव्यक्ते च कर्मण्य् अवस्थितः कर्मावबद्धो यः क्षेत्रज्ञ इत्य् एवं ब्रह्मविद्भिः स निगद्यते । तथा च व्यासः ।

एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः । इति । (भ्ग् १३.१)

यद् वा आत्मविशेषणत्वेनाव्यक्त इत्य् एतद् योजनीयम् । अव्यक्तो रूपाद्यसंसृष्ट इत्य् अर्थः । सर्वभावानां तु क्षेत्रक्षेत्रज्ञात्मकानां य ईश्वर्ः स परमात्मा इत्य् एवम् अनयोर् भेदः । भूतशब्दो भावमात्रतया क्षेत्रज्ञवचनो ऽपि । यश् चायं परमात्मा सन् असन् सद् असच् च, सः सन् क्षेत्रज्ञत्या असन् परमात्मरूपतया सदसद् इत्य् एवं व्यपदेशात् । परमार्थतस् तु यत् सद् असच् च यत् तत् सर्वं स एव सदसदात्मकः, तथैवोपलम्भात् । तथा चाम्नायः- “द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च” (बाउ २.३।१) इति ॥ १७९ ॥

इदानीं क्षेत्रज्ञोत्पत्तिक्रमं दर्शयति ।

बुद्धेर् उत्पत्तिर् अव्यक्तात् ततो ऽहंकारसंभवः ।
तस्मात् खादीनि जायन्ते एकोत्तरगुणानि तु ॥ ३.१८० ॥

सुषुप्तावस्थायाम् एव तावत् सर्वविज्ञानमहाप्रलये सत्य् अव्यक्ताद् उपभोगनिमित्तात् कर्मणः सकाशाद् बुद्धेर् उत्पत्तिः । ततश् च प्रबोधात् प्रत्य्गात्मन्य् अवबोधाद् अहंकारसंभवः । तथैव बाह्यविषयप्रसङ्गाद् आकाशादीन्य् एकोत्तरगुणान्य् एकद्वित्रिचतुष्पञ्चगुणानीत्य् अर्थः । तद्ग्राहकत्वप्रयुक्तानि च तद्विकारापत्त्या तदात्मकानीन्द्रियाणि मनश् चादाव् एव स्वविषयानुसारात् सदसदात्मकम् इत्य् एषा प्रक्रिया सृष्टिप्रलयोपवर्णनादौ सर्वत्र पुराणादिष्व् अपि योज्या ॥ १८० ॥

यानि च खादिन्य् अत्राकाशपवनज्योतिर्जलपृथिव्यन्तानि एकोत्तरगुणत्वेन महाभूतान्य् उक्तानि ।

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः ।

उत्तरत्र चशब्दः पूर्वगुणसमुच्चयार्थः रसश् चेत्य् अत्रापि छन्दोनुरोधाद् अनुच्यमानो ऽपि द्रष्टव्यः ।

सृष्टौ च ।

यो यस्मिन्न् आश्रितस् तेषां स तत्रैव प्रलीयते ॥ ३.१८१ ॥

भूतेषु च गुणानां प्रलयात् परमात्मनो निर्गुणत्वसिद्धिः ॥ १८१ ॥

इदानीं पूर्वोक्तम् अर्थं कार्त्स्न्येनोपसंहरति ।

यथात्मानं सृजत्य् आत्मा तथा वः कथितं मया ।
विपाकस् त्रिप्रकाराणां कर्मणाम् ईश्वरो ऽपि सन् ॥ ३.१८२ ॥

उक्तनिगदार्थः श्लोकः ॥ १८२ ॥

त्रिरूपकर्मविपाकात्मकम् अव्यक्तम् अदृष्टं प्रधानाख्यं संसारप्रवृत्तिबीजं न पुनर् तन्त्रान्तराभिप्रायेण सत्त्वादिगुणसाम्यलक्षणं, यतो न सत्त्वादयः प्रकृतिगुणाः । किं तर्हि ।

सत्त्वं रजस् तमश् चैव गुणास् तस्यैव कीर्तिताः ।

आत्मनो न प्रकृतेर् इत्य् अर्थः ।

यद्य् एवं कथं तर्हि बन्धमुक्त्यादिव्यवस्था । उच्यते ।

रजस्तमोभ्याम् आविष्टश् चक्रवद् भ्राम्य्ते हि सः ॥ ३.१८३ ॥

तदुच्छेदात् तु सत्त्वगुणयोगात् स्वरूपावस्थितेर् मुच्यत एवेत्य् अभिप्रायः ॥ १८३ ॥

इदानीं परावरब्रह्मोपसंहर्तुम् आह ।

अनादिमान् आदिमांश् च य एष पुरुषः परः ।
लिङ्गेन्द्रियैर् उपग्राह्यः सविकार उदाहृतः ॥ ३.१८४ ॥

महदादिभिर् विकारैः क्षेत्रलक्षणमहदादिसंबन्धाद् आदिमान् क्षेत्रज्ञः, यश् चानदिर् अकलंकः परमात्मा उभयरूपत्वाल् लिङ्गेन्द्रियोपग्राह्यतया उदाहृतः, स एष भगवान् उभयप्रकारः सदसदात्मना विश्वरूपः परमात्मैवेत्य् अवगन्तव्यम् । नात्र व्यामोहः कार्य इत्य् अभिप्रायः । लिङ्गादीन्य् अहंकारादीन्य् आत्मविषयत्वेन, इन्द्रियाणि चक्षुरादीनि प्रकृतिविषयत्वेनेत्य् एवं योजना ॥ १८४ ॥

यश् चायं क्षेत्रज्ञतया प्रविभक्तः तस्येन्द्रियोपलब्धबाह्यलिङ्गसंसूचितम् उत्कर्षापकर्षहेतुमार्गम् आह ।

पितृयाणो ऽजवीथ्याश् च यद् अगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति प्रजाकामा दिवं प्रति ॥ ३.१८५ ॥

“यद् अस्यान्यद् रश्मिशतम्” (य्ध् ३.१६९) इत्याद्यनन्तरं मार्गाभिधानम्, तस्यैवेदम् उपलक्षणत्वेन बाह्यमार्ग(म्?) उच्यते- यद् एतद् अजवीथ्यगस्त्ययोर् अन्तरं स पितृयाणः पन्थाः । तेनाग्निहोत्रिणः प्रजाकामाः कर्ममात्रनिष्ठाः संवत्सरोपासका यान्ति । एवं मार्गान्तरे ऽपि योज्यम् । पुराणे हि भगवतः सवितुर् बह्व्यो वीथ्यो दिवि पद्धतयः श्रूयन्ते । तत्रागस्त्यस्यानन्तरा अजवीथी । स्पष्टम् अन्यत् ॥ १८५ ॥

किं च ।

ये ऽपि दानपराः सम्यग् अष्टाभिश् च गुणैर् युताः ।
ते ऽपि तेनैव गच्छन्ति सत्यव्रतपरायणाः ॥ ३.१८६ ॥

दया सर्वभूतेषु क्षान्तिर् अनसूयेत्यादयो ऽष्टाव् आत्मगुणाः । प्रसिद्दम् अन्यत् ॥ १८६ ॥

यश् चानेन मार्गेण द्युर्लोकः, तत्र ।

अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः ।
पुनर् आवर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ ३.१८७ ॥

तिष्ठन्तीति शेषः । तस्यां हि जनस्थानसंज्ञायां दिवि गृहमेधिनो गृहस्थाः कर्मणाग्निहोत्रादिना लोकजितः संसारबीजभूताः प्रलीयमानधर्मोद्धारप्रवर्तकाः अष्टाशीतिसहस्रास् तत्परिमाणा अग्निहोत्रादिना तत्र यान्ति । पुनर् धर्मप्रवर्तनायेहाभिमुख्येन वर्तन्त इत्य् एवं तत्प्रवर्तकाः पुनरावर्तिन इति व्याख्य्ēयम् ॥ १८७ ॥

देवयानेनाप्य् एवम् एव मार्गेण ।

सप्तर्षिनागवीथ्योस् तु देवलोकं समाश्रिताः ।
तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ ३.१८८ ॥

अयम् अपि पूर्ववत् ॥ १८८ ॥

सप्तर्षिनागवीथ्योर् अन्तरालेन च यो ऽयं लोकः ।

**
तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।
यातास् तत्रावतिष्ठन्ति यावद् आभूतसंप्लवम् ॥ ३.१८९ ॥

ननु च कार्यार्थत्वाद् वेदस्य प्रमाणान्तरस्य चाभावान् निर्मूलकम् इवेदं मार्गादिनिरूपणं लक्ष्यते, । सत्यम्, यदि कार्यार्थतयैव वेदस्य प्रामाण्यं स्यात् । स्वरूपे ऽपि तु प्रामाण्यम् इष्यत एव ।

यतो वेदाः पुराणं च विद्योपनिषदस् तथा ।
श्लोकाः सूत्राणि भाष्याणि यत् किंचिद् वाङ्मयं क्वचित् ॥ ३.१९० ॥
वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।
श्रद्धोपवससातत्यम् आत्मनो ज्ञानहेतवः ॥ ३.१९१ ॥

यदि हि कर्मानुष्ठानमात्रनिमित्ततया क्रियैव वेदार्थः स्यात्, ततः स्वरूपपरता न स्यात् । यदा तु नियोगसिद्धिर् एव वाक्यार्थः, तदा नियोज्यत्वावगम एव तत्सिद्धिः । प्रतिपन्नात्मस्वरूपस्यैव निर्वर्तितनियोगता स्यात् । ततश् चात्मस्वरूपावगतिर् एव वेदार्थ इति स्वरूप एवावसितं वेदस्य प्रामाण्यम् । किं च कार्यतया व्युत्पत्तेः कार्ये प्रामाण्यम् उक्तम् । न च परार्थस्य कार्य्त्वोपपत्तिः । को हि परार्थं बुद्धिपूर्वकारी कुर्यात् । अतः स्वार्थ एव कार्यं, न चान्यो ऽतः कश्चिद् आत्मनो ऽर्थो ऽन्यत्र स्वरूपज्ञानाद् इति तद् एव कार्यम् अवशिष्यते । अतश् च पार्मार्थिकं तत्रैव भगवतो वेदस्य प्रामाण्यम् । तथा चोक्तम्- “चोदना हि भूतं भवन्तं भविष्यन्तम् इत्याद्येवंजातीयकम् अर्थं शक्नोत्य् अवगमयितुम्” इति (त्व् ओन् प्म्स् १.१।२, प्। १५) । एवंजातीयकम् आत्मस्वरूपम् इत्य् अर्थः । तथा चेन्द्रियान्तरप्रतिषेधस् तद्विषयतयैवोपद्यते “नान्यत् किंच नेद्रियम्” इति (त्व् ओन् प्म्स् १.१।२, प्। १५) । अन्यथा हि विध्यर्थे तत्प्राप्त्यभावाद् आकस्मिक एव प्रतिषेधः स्यात् । अतो ब्रह्मस्वरूप एवाम्यायस्य प्रामाण्यं स्यात् । तद् एव च पारमार्थिकं विध्यर्थसतत्त्वम् । यत् तु अग्निहोत्रादिकार्यावबोधनं, तद् अवान्तरवाक्यार्थतया तदपेक्षिताविद्याव्युदासपरत्वेन तदुपायतयैव प्रमाणान्तराविषयतया कार्यव्यपदेशभाग् इत्य् अवसेयम् । एवं चेन् मार्गादिस्वरूपप्रतिपादने ऽप्य् अविरुद्धं कार्यव्यपदेशित्वम् इत्य् एषा दिक् । तद् दर्शयति- “यतो वेदाः पुराणं च” इत्येवमादयः सर्व एवात्मनो ज्ञानहेतवः, शब्दप्रवृत्तेस् तत्परतयैव व्युत्पत्त्यवधारणात् । ततः स्वरूपे ऽप्य् अव्याहतं प्रामाण्यं वेदस्य । अतश् च मार्गादिस्मृतेर् अप्य् अनवद्यं वेदमूलत्वम् इत्य् अभिप्रायः । “पुराणं च” इति, इतिहासार्थश् चशब्दः । विद्या मीमांसादिका । उपनिषदां पृथग्वचनं वेदभागान्तरस्य तादर्थ्यप्रदर्शनार्थम् । तथा श्लोकाः उपनिषत्सूत्रस्थानीया मन्त्रा एव । “तद् अप्य् एते श्लोकाः- अणुः पन्था विततः पुराणः” इत्यादिकाः (बाउ ४.४।८) । उपनिषत्सूत्रताप्रतिपत्त्यर्थम् एव तेषां पृथग्वचनम् । तद्विवरणार्थान्य् एव चार्थवादादिवाक्यानि भाष्याणि । प्राधान्याच् चायम् उपनिषदाम् अतिप्रपञ्चः । किं च “यत् किंचिद् वाङ्मयं क्वचिद्” इति । लोके ह्य् अप्य् आत्मपरतयैव शब्दव्युत्पत्तिर् इत्य् अर्थः । एवं च वेदानुवचनादिस् तादर्थ्येनैव चातुराश्रम्यप्रयासः । तथाम्नायः- “तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति” इत्यादि (बाउ ४.४।२२) । गुरूक्तस्यानुपाठो वेदानुवचनम् । आद्यं ब्रह्मचर्यम् । यज्ञा इति गार्हस्थ्योपलक्षणम् । ब्रह्मचर्यं नैष्ठिकत्वम् । तपो दम इति वानप्रस्थत्वम् । श्रद्दोपवाससातत्यम् इति पारिव्राज्यम्, “अष्टौ ग्रासा मुनेर् भक्तम्” (आप्ध् २.९।१३) इति वचनात् । लघ्वशनार्थो वायम् उपवासशब्दः । व्याख्यातम् अन्यत् ॥ १९०–१ ॥

यतश् चैतद् एवम् अतः ।

स ह्य् आश्रमैर् निदिध्यास्यः समस्तैर् एवम् एव तु ।

सर्वारम्भाणां तत्परत्वाद् इत्य् अभिप्रायः ।

किं च ।

द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥ ३.१९२ ॥

द्विजातिवचनं द्वितीयस्योपनयनजन्मनस् तादर्थ्यप्रदर्शनार्थम् । द्रष्टव्यः

प्रत्यक्षादिना । श्रोतव्य आगमात् । मन्तव्यस् तर्केण । क्रमभेदश् छन्दोऽनुरोधात् । निदिध्यास्यः साक्षात्कर्तुं योगमार्गेण ॥ १९२ ॥

पूर्वोकमार्गद्वयानुसारिणश् च ।

य एवम् एनं विदन्ति ये चारण्यकम् आश्रिताः ।
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ ३.१९३ ॥

अरण्यम् एवारण्यकम् । एवं विदन्तीति प्रक्रमानुसाराद् इह हिरण्यगर्भाद्यवान्तरं ब्रह्मस्वरूपम् । स्पष्टम् अन्यत् ॥ १९३ ॥

ये चैवं विदुः ।

क्रमात् ते संभवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम् ।
अयनं देवलोकं च सवितारं सवैद्युतम् ॥ ३.१९४ ॥
ततस् तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनर् आवृत्तिस् तेषाम् इह न विद्यते ॥ ३.१९५ ॥

अर्चिरादिमार्गो ऽयं परमात्मविषयो यथोपासनासामर्थ्यं क्रमेणानेकविधलोकजयहेतुः पौराणिकैः प्रपञ्चितः । वैद्युत इन्द्रो मानसाद् अभिध्यानात् संस्तुतः । अयम् एवान्तरात्मा मानसः पुरुषः । अनागमनं चात्र तद्भावापत्तिः । इह ब्रह्माण्डान्तर्वर्तिनि विकारे पुनरावृत्त्यभावः । स्पष्टम् अन्यत् ॥ १९४–५ ॥

अजवीथिमार्गावस्थित्या च ।

यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः ।
धूमं निशां कृष्णपक्षं दक्षिणायनम् एव च ॥ ३.१९६ ॥
पितृलोकं चन्द्रमसं नभो वायुं जलं महीम् ।
क्रमात् ते संभवन्तीह पुनर् एवं व्रजन्ति च ॥ ३.१९७ ॥

धूमादिक्रमेण चन्द्रान्तयानन्तरोक्तन्यायेन गतिं प्राप्य पुनर् आकाशादिक्रमेण पृथिवीं प्राप्नुवन्ति । ततश् च पुनर् एवोत्कृष्यमाणाश् चक्रवत् क्रमात् संसारबीजभावं प्रतिपद्यन्ते इत्य् अवसेयम् । ऋज्व् अन्यत् ॥ १९६–७ ॥

रजस्तमोभ्याम् अतिपरिप्लवाद् अपुण्योपहतचेताः ।

एतद् यो न विजानाति मार्गद्वयम् आत्मनः ।
दन्दशूकः पतङ्गो वा भवेत् कीटो ऽथ वा कृमिः ॥ ३.१९८ ॥

तस्यापि च क्षीणाशुभस्य कथंचित् पुण्योदयाद् यज्ञाद्युपयोगितां प्राप्य पुनर् उत्कर्षसिद्धिः । दन्दशूको दंशनशीलः सर्पादिः । स्पष्टम् अन्यत् ॥ १९८ ॥

इदानीम् अतिसौहृदात् परमात्मप्राप्त्युपायभूतं योगमार्गसंप्रदायम् आह ।

ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम् ।
उत्तानं किंचिद् उन्नम्य मुखं विष्टभ्य चोरसा ॥ ३.१९९ ॥
निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशन् ।
तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः ॥ ३.२०० ॥
संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।
द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत् ॥ ३.२०१ ॥

योगशास्त्रान्तरानुसारात् प्राणायामो रेचकादिलक्षणो ऽवसेयः । स्पष्टम् अन्यत् । एते च पद्मासनादयो मनःसमाधानहेतुत्वेनार्थप्राप्ता एव योगाङ्गतया नियम्यन्ते । अतश् चान्यथाप्य् एकाग्रता न विरुध्यत इति केचित् । तथा च दक्षेणोक्तम्- “न च पद्मासनोद्योगः” इत्यादि । तत् तु नियामकत्वाच् छास्त्रस्यायुक्तम् एव । दक्षवचनं त्व् इन्द्रियजयप्रशंसार्थत्वाद् अविरुद्धम् ॥ १९९–२०१ ॥

प्राणायामैश् चात्मानं संशोध्य ।

ततो ध्येयः स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ।
धारयेत् तत्र चात्मानं धारणां धारयन् बुधः ॥ ३.२०२ ॥

यो ऽसौ हृदये दीपवद् अनन्यप्रकाश्यः सर्वस्य प्रकाशकत्वेनावस्थितः परमात्मोपरतबाह्यप्रपञ्चः, स एव ध्येयः । हृदये चावस्थितो दर्शनश्रवणमननादिभिर् निदिध्यास्यतया यस् तत्रावस्थितस् तद्विषयत्वेनापस्तभेधां धारणां प्रसंख्यानादिकां धारयन्न् उभयात्मकस्यापि ब्रह्मणः कैवल्यात्मकतयैव तत्रात्मानं धारयेद् बुधः प्रतिपन्नोभयात्मकान्तर्यामिरूपब्रह्मस्वरूपः परं ब्रह्मोपरतध्यातृध्येयात्मस्वरूपात्मनात्मानं तत्र धारयंस् तं चात्मन्य् अकलंकम् अभयम् अपुनरावृत्तम् अपरोक्षम् आनन्दम् अपास्ताखिलव्यपदेशं पश्येद् इत्यादि प्रपञ्चनीयम् ॥ २०२ ॥

प्रतिपन्नान्तर्यामिस्वरूपस्य योगसिद्धस्य परब्रह्मणो निदिध्यासनम् उक्तम्, तस्यैव त्व् अधिकारिणो लक्षणं वाच्यम् इत्य् अत आह ।

अन्तर्धानं स्मृतिः कान्तिर् दृष्टिः श्रोत्रज्ञता तथा ।
निजं शरीरम् उत्सृज्य परकायप्रवेशनम् ॥ ३.२०३ ॥
अर्थानां छन्दतः सृष्टिर् योगसिद्धेस् तु लक्षणम् ।
सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते ॥ ३.२०४ ॥

अन्तर्धानं परैर् अनुपलभ्यत्वम् । स्मृतिः समाध्यवगतस्याविस्मरणम्, नित्यं तथैवाव्यवधानेन प्रतिपत्तिर् इत्य् अर्थः । कान्तिर् अशनायाद्यपगमः । दृष्टिर् भविष्यदादाव् अव्याघातः । श्रोत्रग्राह्यत्वाच् छ्रोत्रं शब्दः, तदर्थज्ञत्वं श्रोत्रज्ञता । तथाशब्दाद् वेदानुसंधानानपेक्षत्वेनेत्य् अर्थः । निजं च वैशेषिकम् असाधारणकर्मारभ्यं शरीरं निजतयैवासाधारणप्रत्ययग्राह्यत्वेनोत्सृज्य सदसदात्मकत्वेन प्रागुक्तविश्वरूपात्मकपरकायप्रवेशनम् एकत्वापत्तिः । यत् पुनः शरीरतयैव परकायप्रवेशनम्, तन् मन्त्रविद्यास्व् अप्य् अस्तीति नात्रोपयुज्यते इत्य् एवम् एव व्याख्येयम् । अर्थानां महदहंकारादीनां छन्दतः इच्छातः सृष्टिर् विसर्जनम् उत्पादनं वा । स्पष्टम् अन्यत् । एवं चान्तर्याम्यात्मना सिद्धे योगे त्यजंस् तथा परावरभावात्मकध्येयध्यातृव्यपदेशभाक्त्वेन देहं परं ब्रह्मरूपतया अमृतत्वायापुनरावृत्तये कल्पते घटत इत्य् अर्थः ॥ २०३–४ ॥

एवम् एतत्प्राप्तिपर्यन्तं पारिव्राज्यम् उक्तं विशुद्धसतत्त्वानां तत्त्वविदाम् । यस् त्व् अत्र मनोवाक्कायिकानाम् अन्यतमदोषेणासमर्थः, तं प्रतीमम् अन्यं पारिव्राजप्रकारभेदम् आह ।

अथ वाप्य् अभ्यसन् वेदं न्यस्तकर्मा सुते वसन् ।
अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात् ॥ ३.२०५ ॥

ग्रन्थार्थरूपतया जपानुवचनादिना वेदम् अभ्यसन् परित्यक्ताग्निहोत्राद्यनुष्ठानो ऽनुपलक्षितलिङ्गविशेषो भैक्षेणैव वर्तेत । अथ वा तदशक्ताव् अयाचिताशी अष्टग्रासादिना मितभुक् पुत्रगृहादौ वसेत् । एवम् अपि परां सिद्धिं प्राप्त्युपायलक्षणां (?) ब्रह्मत्वं प्राप्नुयाद् इति ॥ २०५ ॥

यद्य् अपि पारिव्राज्यम् अधिकृत्यायं मुक्त्युपदेशः, तथाप्य् आश्रमस्यातन्त्रतैव, यदृच्छया प्रचारमात्रव्युदासहेतुत्वाद् अपवर्गस्य च ज्ञानैकसाध्यत्वात् । यतस् चैतद् एवम् अतः ।

न्यायार्जितधनस् तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः ।
श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि विमुच्यते ॥ ३.२०६ ॥

श्राद्धशब्दः समस्तगृहस्थधर्मोपलक्षणार्थः । स्पष्टम् अन्यत् ॥ २०६

इति यतिधर्मप्रकरणम् ।

**