३ वानप्रस्थ-धर्म-प्रकरणम्

अथ वानप्रस्थधर्मप्रकरणम् ।

एवं तावद् आश्रमद्वयम् अभिहितम् । इदानीं गृहस्थाश्रमम् उपभुज्य वलीपलितवतो विद्यमानसन्तानस्य विषयविरक्तस्य च क्रमप्राप्तस् तृतीयो वानप्रथाश्रम उच्यते । पूर्वं तु वेदानुवचनात्मकाद् ब्रह्मचर्याद् अनन्तरं “यम् इच्छेत् तम् आवसेत्” (वध् ७.३) इत्य् एवं न्यायागमानुसारेण व्युत्थानपक्षो ऽभिहितः । तत्र समुच्चयपक्षस् त्व् इदानीम् उच्यते ।

  • ननु च युक्तं यद् वैराग्यातिशयाद् दाराहरणाद्यनपेक्षस्य व्युत्थायाश्रमान्तराङ्गीकरणम् । कृतदारस्य तु कामाकृष्टचेतसो यावज्जीवश्रुत्यवरुद्धस्य तद्विरोधितया चाप्रमाणीभूतस्मृत्यर्थानुसारिणी दुःश्लिष्टैवाश्रमान्तरप्रतिपत्तिः । अथ पुनर् वैराग्ययोगाद् एवेत्य् उच्यते ।

  • तद् असत् । प्रतिपत्तिकाल एव हि शास्त्रार्थो निरूप्यते, न त्व् अनुष्ठीयमानप्रयोगमध्ये ऽपि ।

  • ननु च यथैव कामिनो ऽधिकृतस्यापवृत्तकामस्य प्रयोगमध्ये ऽप्य् अनधिकाराद् व्युत्थानम् । एवम् अत्रापि स्यात् । अपि च जीवतो ऽपि प्रयोगपर्यन्त एवाधिकारः । तत्र पौर्णमास्यन्तरे पूर्वप्रारब्धप्रयोगपर्यवसानात् प्रयोगान्तरे च वैराग्यातिशयाद् अधिकारानवगतेः ।

  • मैवम् । युक्तं हि कामिनः फलं प्रति साधनभूत एव धात्वर्थे ऽधिकारावगमाद् वीतायां च फलेच्छायां तद्व्यावृत्तेः जीवतः पुनर् न विध्यर्थाद् अन्यत्र यागादेः साधनत्वं, न च नियोज्यत्वव्यावृत्तिः जीवनानपायात्, प्रयुक्तदारत्वाच् च न तद्गतो ऽपि विशेषः पूर्ववद् अत्र कश्चिच् छक्यते वक्तुम् । प्रयोगभेदाभेदौ त्व् अधिकारहेत्वनपायाद् अकिंचित्कराव् एव । अत्र श्रुतिविरोधात् क्रमेणायुक्त एव वनस्थाश्रमः । अत एव च गौतमेन “ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्य” (ग्ध् ३.३६) इत्य् उक्तम् । तत्रान्ये पुरुषमेधान्ते वनस्थाद्याश्रमम् आहुः, प्रत्यक्षचोदनानुसारात् । तथा हि- “अथात्मन्य् अग्नीन् समारोप्य” इति प्रकृत्य, “अनवेक्षमाणो ऽरण्यं गच्छेत्” इत्यादि । तद् अप्य् अविशेषेणैव वनस्थादिस्मृत्यारम्भाद् अनुपयोगिप्रायम् एव । जरामर्यवचनं तु लिङ्गाद्, न्यायान्तरापेक्षवचनविध्यनुमानं प्रत्यक्षविधिविरोधात् । अतो वक्तव्यम् एतत् । अत्राभिधीयते- कामादिभिः प्रयुक्तदाराणां यावज्जीवश्रुतिर् इत्य् एतत् प्राग् अप्य् उक्तम् एव । अपगतकामत्वे च तदप्रयुक्ता नैवाग्निहोत्रादिभिर् दाराः प्रयोक्तुं शक्याः । तदभावाच् च कृतदारेषु चरितार्थतया यावज्जीवश्रुत्यनधिकृतानां किम् इत्य् आश्रमान्तरं न स्यात् ।

  • ननु चोत्पत्तिं विधयो न प्रयुञ्जते । उत्पन्नस्य तु दारादेः स्वोत्पत्तिहेत्वपाये ऽपि स्वरूपानपायात् तदपेक्षत्वे ऽप्य् अधिकारचोदनानाम् अविरोध एव । न हि कामापाये दाराणाम् अतथात्वम्, अन्यथानेकपत्नीकस्यैकपत्नीविषयकामापगमाद् अपत्नीकत्वप्रसङ्गात् स्मृतिविरोधो ऽपि स्यात् ।

  • नैव वयम् उत्पत्तिनिमित्तत्वेन कामापायाद् अपत्नी(क)त्वं ब्रूमः । किं तर्हि । स्वीकृतं हि स्त्री द्रव्यम् । स्वीकरणहेतुर् विवाहसंस्कारः । स्वीकरणं च द्रव्याणां यावत्कार्यं यावत्स्वरूपं वा स्वीकर्त्रभिप्रायानुसारेण । तत्र यद्य् अत्यन्तकामाकृष्टचेतनस् तदादाव् एव यावज्जीवचोदनाम् आलोच्य स्वरूपाश्रयत्वेनैवात्यन्तायोद्वाहकर्मणा स्वीकुर्यात्, ईषत्कामाकृष्टचेतनस् तु यावदर्थम्, आ वलीपलितसंभवात् सन्तानार्थतया वा पुत्रोत्पत्तेर् एव स्वीकरणद्वारत्वाद् उक्तावध्यन्ततैव । दाराभावाच् चाकृतदारस्येव यावज्जीवश्रुतिर् अनियोक्त्र्य् एव । अतस् तद्विरोधो ऽप्य् अनाशङ्कनीयः । स्वीकरणावधिव्यवस्थायां तु जीवनश्रुतेः कृतदाराधिकारत्वाद् एवौदासीन्यम् इत्य् अविरुद्धा क्रमेणापि चतुःसमुच्चयस्मृतिः । एवं च जरामर्यवचनम् अप्य् अपेक्षितावधिसमर्पकत्वात् स्मृतिमूलत्वेन सालम्बनं भवति, अन्यथा तु निरालम्बनत्वाद् अनर्थकम् एव स्यात् । गौतमीयम् अपि यावज्जीवपक्षाङ्गीकरणेनैव “ऐकाश्रम्यं त्व् आचार्याः” (ग्ध् ३.३६) इति व्याख्येयम् । प्रत्यक्षेणैव कामेनात्मसात्कृतदारान् प्रति तथैव विधानाद् गार्हस्थ्यस्येत्य् अभिप्रायः । एवं चावधिपर्यवसानाद् दाराभाव एव । अतश् चास्मिन् पक्षे पुत्रादिषु तत्पालकत्वेनाधिकृतेषु स्वभार्याङ्गीकरणप्रवर्तिकेति विषयभेदेन विकल्पसंभवाद् अविशेषेणैव हि यावज्जीवश्रुतिः । पुरुषमेधयाजिनश् चेच्छायारण्यगमनोपदेशाद् उभयोश् च प्रत्यक्षत्वाद् विषयव्यवस्थाश्रयणम् अविरुद्धम् । सपत्नीकस्य तु वैखानसत्वं यायावरादिकल्पवच् छ्रुत्यविरुद्धम् एव । अतश् चास्मिन् पक्षे साग्निकस्यैवारण्याश्रयणं, न श्रामणकानुसारेणाग्न्याधानम् । यावज्जीवपक्षाङ्गीकरणे तु जरादिसंयोगाद् भार्यामरणे वापवृत्तकामस्य च तदसंभवे किं वनस्थाधिकारो ऽस्तीति, उत्सन्नाभिलाषस्य तावद् दाराद्याहरणहेत्वभावाद् अस्त्य् एव, इतरस्य तु विचार्यम् ।

  • अपर आह- उद्वाहकाल एव हि येनैव निरूपितं मयाश्रमान्तरम् अप्य् आस्थेयम् इति तस्य तदवधिक एवं हि दारसंयोग इति तदनुसारी च जीवनाधिकारो ऽपि तदैवापमृज्यते । येन त्व् आदाव् एवामरणान्तः पत्नीसंयोगो ऽवधृतः, तदनुसारेण चामरणाद् एवाग्निहोत्राद्यधिकारः । तस्योत्सन्नाभिलाषित्वे ऽपि च संकल्पानपगमाज् जीवनश्रुत्यवरुद्धस्य कुतस् तदाश्रयान्तरप्रतिपत्तिर् इति । तथा च स्मरन्ति ।

पुनर् दारक्रियां कुर्यात् पुनर् आधानम् एव च । इति । (म्ध् ५.१६८)

  • तद् एतद् विचार्यम् । सर्वथाश्रमसमुच्चयो ऽस्तीति नः पक्षः, स चैवम् अप्य् उपपन्नः, पूर्वोक्त एव तु ज्यायान् इति संप्रदायः । “पुनर् दारक्रियाम्” इत्य् एतत् त्व् अप्रवृत्ताश्रमान्तरविषयम् एवेत्य् एषा दिक् ॥

उभयथापि च वनस्थाश्रमप्रवृत्तिम् अव्याहतां मन्यमानः प्रस्तौति ।

सुतविन्यस्तपत्नीकस् तया वानुगतो वने ।
वानप्रस्थो ब्रह्मचारी साग्निः सौपासनः क्षमी ॥ ३.४५ ॥

स्याद् इति शेषः । “तपो वेदविदां शुद्धिसाधनं क्षान्तिर् विदुषाम्” (य्ध् ३.३३) इति तद् इदानीं प्रपञ्चयति । वानप्रथ इति विशेषाश्रमिणो नामधेयम् । स कदाचित् पूर्वोक्तन्यायानुसारेण सहैव पत्न्या वनं गच्छेद्, विन्यस्य वा सुतादिषु पत्नीम् । यदा च सपत्नीकस् तदा तयानुगतो ऽपि वने वसन् ब्रह्मचार्य् एव स्याद् इति अभिप्रायः । पक्षान्तरे तु सामर्थ्यप्राप्तत्वाद् अवाच्यम् एवैतत् । साग्निर् इति वैतानिकाभिप्रायम् । सौपासन आवसथ्ययुक्तः । गतार्थम् अन्यत् ॥ ४५ ॥

अयं चास्य विशेषः ।

अफालकृष्टेनाग्नींश् च पितॄन् देवातिथींस् तथा ।
भृत्यांश् च तर्पयेच् छश्वच् छ्मश्रुलोमभृद् आत्मवान् ॥ ३.४६ ॥

साग्निकगमनपक्षे ऽग्निहोत्रादिसाधनत्वेनाफालकृष्टविधानम् । पक्षान्तरे तु वैखानसशास्त्रोक्तस्यैवमादेः प्रदर्शनार्थ उपन्यासः । तथाशब्दश् च पक्षद्वये ऽपि तच्छास्त्रानुसारेण दीक्षादिविशेषप्रकारपरिग्रहार्थः । स्पष्टम् अन्यत् ॥ ४६ ॥

अतिथिपूजाद्यर्थम् एव च ।

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य निचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥ ३.४७ ॥

तथाशब्दः संवत्सराद् अर्वाग् अनियमार्थम् ॥ ४७ ॥

किं च ।

दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् ।

अप्रत्याख्येयतया विहिताद् अपीत्य् अभिप्रायः ॥

सर्वदैव च ।

स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥ ३.४८ ॥

आत्मभरणाय तु ।

दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः ।
श्रौतस्मार्तं फलस्नेहैः कर्म कुर्यात् क्रियास् तथा ॥ ३.४९ ॥
**

दन्तैर् एवोलूखलार्थं संपादयिता दन्तोलूखलिकः । सतुषान्नभोज इत्य् अर्थः । अश्मकुट्टको वा स्याद् अश्मना संस्कृत्य वितुषं भक्षयितेत्य् अर्थः । शक्त्यपेक्षया चैवमादयः सर्व एव विकल्पा योज्याः । कालपक्वाशितावचनम् अग्निपक्वार्थम् । नित्यत्वेनैवाप्रतिषिद्धाक्षादिफलस्नेहैस् त्व् आज्यसाध्यं श्रौतस्मार्तादिकं कर्म कुर्यात् । क्रियाश् च वनस्थशास्त्रविहिताः । तथा तदुक्तप्रकारेणैवेत्य् अर्थः ॥ ४९ ॥

स्वशक्त्यनुसरिणैव च ।

चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा ।
पक्षे गते वाप्य् अश्नीयात् मासे वाहनि वा गते ॥ ३.५० ॥

पुनर् गत इत्य् वचनम् उक्तकालव्यतिरेकेणापि यथासामर्थ्यं विकल्पार्थम् । स्पष्टम् अन्यत् ॥ ५० ॥

नित्यं चाप्रमादित्वेन ।

शुचिर् भूमौ स्वपेद् रात्रौ दिवसं प्रपदैर् नयेत् ।
स्थानासनविहारैर् वा योगाभ्यासेन वा पुनः ॥ ३.५१ ॥

रात्राव् इति दिवानिवृत्त्यर्थम् । प्रपदैर् इति अग्रोच्छ्रितपाद इत्य् अर्थः । स्थानादीनि स्पष्टानि । योगाभ्यासो वक्ष्यमाणः । पुनर् इति प्रपदादिभिः । पुनः पुनर् विश्रम्येत्य् अर्थः ॥ ५१ ॥

यथासामर्थ्यं च ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासाश् च हेमन्ते शक्त्या वापि तपश् चरेत् ॥ ३.५२ ॥

स्थण्डिलवचनम् आवरणनिवृत्त्यर्थम् । ऋज्व् अन्यत् ॥ ५२ ॥

सर्वप्रकारस्य वनस्थस्यायम् एवाश्रमसर्वस्वभूतः परमो धर्मः ।

यः कण्टकैर् वितुदति चन्दनैर् यश् च लिम्पति ।
अक्रुद्धो ऽपरितुष्टश् च समस् तस्य च तस्य च ॥ ३.५३ ॥

वितुदति विविधं कण्टकादिभिर् व्यथयतीत्य् अर्थः । एवम् उक्तप्रकारेणैव वनस्थाश्रमं पालयेत् ॥ ५३ ॥

अग्नीन् वाप्य् आत्मसात् कृत्वा वृक्षावासी मिताशनः ।
वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्षम् आचरेत् ॥ ३.५४ ॥

सपत्नीकस्य च पत्नीमरणे पत्न्या एवात्मार्धभूताया अग्निभिर् यो दाहः तद् एवात्मसमारोपणम् अन्यस्य तु प्रवृत्ताश्रमस्याशक्तौ वा वैराग्यातिशये वायं विधिः । अनेनैव वादित एव प्रवृत्तिर् इत्य् अवसेयम् ॥ ५४ ॥

वानप्रस्थान्तराभावे तु ।

ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः।

आहृत्येति भिक्षाकालव्यतिरेकेण ग्रामप्रेशनिवृत्त्यर्थम् । वाग्यत इति ग्रामजनैर् असंभाषणार्थम् । भोजने तु वाग्यमनस्य प्राप्तत्वाद् अवाच्यम् ॥

वैराग्यातिशये ज्ञानातिशये वा ।

वाय्वशनः प्रागुदीचीं गच्छेद् वावर्ष्मसंक्षयात् ॥ ३.५५ ॥

वाय्वशनो निरशन इत्य् अर्थः । आ वर्ष्मसंक्षयाद् इति । वर्ष्म शरीरम् आ शरीरसंक्षयाद् इत्य् अर्थः । आश्रमसंबन्धिफलविशेषानुपदेशाद् दुष्करत्वाच् चायम् आश्रमो नैयमिक इत्य् अवगम्यते । योगाभ्यासोपदेशाच् चापवर्गसाधनत्वात् कैवल्यप्राप्तिसाधनम् । तथा चाम्न्यायः- “सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थो ऽमृतत्वम् एति” (छु २.२३.१) इति ॥ ५५ ॥

इति वानप्रस्थधर्मप्रकरणम् ।

**