२ आपद्-धर्म-प्रकरणम्

अथापद्धर्मप्रकरणम् ।

“अकार्यकारिणां दानाच् छुद्धिः” (य्ध् ३.३२) इत्य् अस्य विवेकार्थम् आह ।

क्षात्रेण कर्मणा जीवेद् विषां वाप्य् आपदि द्विजः ।
निस्तीर्यार्थं तम् उत्सृज्य पाव्यात्मानं न्यसेत् पथि ॥ ३.३५ ॥

क्षात्रेण प्रजापालनादिकर्मणा ब्राह्मणवैश्ययोः वैश्यकर्मणा वा पूर्वयोः, अकार्यभूतेनापि स्ववृत्त्यसंभवलक्षणायाम् आपदि जीवनं धर्म्यम् एव । द्विजवचनाच् च क्षत्रियवैश्यधर्मान् वाचयत्वेन वर्णत्रयसाधारण्यं व्याख्यातम् । तथा च नारदः ।

उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।
मधमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ इति । (न्स्म् १.५४)

अकार्यत्वाच् चापत्कल्पत्वम् । तेन ताम् आपदं निस्तीर्य उत्सृज्य चावशिष्टं द्रव्यं दानेन विधिवत् पावयित्वा आत्मानं स्ववृत्तिलक्षण एव पथि स्थापयेत्, न तस्याम् एव क्षत्रियादिवृत्तौ रतिं कुर्याद् इत्य् अभिप्रायः ॥ ३५ ॥

आपद्गतो ऽपि च ।

फलोपलक्षौमसोममनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥ ३.३६ ॥
शस्त्रासवं मधूच्छिष्टं मधु लाक्षाथ बर्हिषः ।
मृच्चर्मपुष्पकुतपकेशतक्रविषैरकान् ॥ ३.३७ ॥
कौशेयनीलीलवणमांसैकशफहेतवः ।
शाकार्द्रौषधिपिण्याकतूलगन्धांस् तथैव च ॥ ३.३८ ॥
वैश्यवृत्त्यापि संजीवन् विक्रीणीत न कर्हिचित् ।
धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ॥ ३.३९ ॥

वैश्यवृत्त्यापि हि ब्राह्मणक्षत्रिययोर् आपदि जीवतोः फलादीनि श्लोकत्रयपठितान्य् अविक्रेयाणि । तत्प्रतिषेधाद् वैश्यस्यैतान्य् अनिषिद्धानीति गम्यते । फलान्य् आम्रादीनि । उपलाः पाशाणशिलादयः पद्मरागादयश् च । क्षौमम् अतसीमयं गोण्यादि । सोमादीनि प्रसिद्धानि । वीरुध आरण्या ओषधयः । अपूपा मण्डकाः । तिलादीनि स्पष्टानि । जलम् आधारस्थम् उद्धृतं वा । मूल्येन तु यद् उदकाहरणं सस्यप्रसेचनाय वप्रम् आपाद्यार्पणं तदुदकविक्रयत्वेन क्रियान्तरार्थत्वान् नाशङ्कनीयम् । शस्त्राणि खड्गादीनि । आसवः खर्जूरादिरसः । रसत्वेन च निषिद्धस्य पुनर्वचनं शब्दान्तराभिधेयत्वात् प्रायश्चित्तविशेषार्थम् एवेत्य् एतद् एव च युक्ततरम् अर्थानुसारित्वात् प्रतिषेधस्य । मधु मद्यम् । उच्छिष्टं प्रसिद्धम् । मधु माक्षिकं मादनं वा मधूच्छिष्टम् उच्यते । अथशब्दो ऽभिधेयान्यत्वप्रतिपत्त्यर्थः । बर्हिष इति तु षष्ठ्यन्तनिर्देशो व्यत्ययप्रतिपत्त्यर्थः । ततश् च तृणमात्रवचनो ऽपि बर्हिःशब्दः संस्कृतत्वानुसारेणाशेषस्रुगादियज्ञसाधनप्रतिषेधर्थः । मृदादीनि प्रसिद्धानि । जलव्याख्यानवच् च योजना । अर्थान्तरत्वाच् च भूमेर् न दोषः । प्रकृतिविकारयोश् चात्र यावदुक्तोपादानम् एव, क्षीरतक्रयोः पृथग्वचनात् । विषैरका विषम् उदकं तत्प्रभवा मत्स्यादयः । कौशेयं त्रसरीमयम् । नीली गुलिका वस्त्राद्यनुप्रविष्टा केवला वा । लवणमांसादीनि प्रसिद्धानि । एकशफा एकखुरा अश्वादयः । हेतवो वधसाधनानि विषादीनि । शाकानाम् अन्यत्र विक्रयोपदेशाद् इह नालिकादीन्य् अभक्ष्याणि प्रत्येतव्यानि । आर्द्रौषधयस् त्व् अलूनाः क्षितिस्थाः, परशस्त्राद्युपहतास् तु न प्रतिषिध्यन्ते । पिण्याकः खलिः । तूलं शल्मल्यादिप्रभवम् । गन्धाः कर्पूरादयः । तथाशब्दः स्मृत्यन्तरोक्तशाणाद्यर्थः । तिलास् त्व् अवैश्यवृत्तिस्थेनापि धर्मार्थं स्वकृष्याद्युत्पन्ना विक्रेयाः, धान्यान्तरपरिवर्तनेन वा वैश्यस्यापि च । अन्यथा तिलविक्रये प्रत्यवायः । तथा चोक्तम् ।

भोजनाभ्यञ्जनाद् दानाद् यो ऽन्यत्र कुरुते तिलैः ।
कृमीभूतः स विष्ठायां पितृभिः सह मज्जति ॥ इति । (म्ध् १०.९१)

कामं वा स्वयं कृष्योत्पाद्यं तिलान् विक्रीणीयाद् इति वैश्यस्य ॥ ३६–३९ ॥

अपि च ।

लवणं तनया लाक्षा पतनीयानि विक्रये ।
पयो दधि च मद्यं च हीनवर्णकराणि तु ॥ ३.४० ॥

कथं तर्हि शुनःशेफादिविक्रः । श्रुतेः प्रतिषिद्धत्वाद् एव पित्रादिनिन्दाद्वारेण शुनःशेफस्य प्रसंसार्थम् । यद् वा सर्वथाप्य् आपदि स्वप्राणपरिरक्षणार्थम् इत्य् अर्थः ॥ ४० ॥

तद् एव स्पष्टयति ।

आपद्गतः संप्रगृह्णन् भुञ्जानो वा यतस् ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ३.४१ ॥

यथैव ज्वलनश् चण्डालादिगृहेष्व् अपि वर्तमानो ऽर्को वा सर्वत्र साम्येन वर्तमानो निर्दोषः, एवं ब्राह्मणो ऽपि जपादिभिर् आपद्गतः प्रतिलभ्य शरीरम् आर्जितदुरितक्षपणसमर्थ इत्य् आदित्यवद् एव यदृच्छाप्रचारित्वम् अविरुद्धम् ॥ ४१ ॥

यतश् चैतद् एवम् अतः ।

कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः ।
सेवानूपो नृपो भैक्षम् आपत्तौ जीवनानि तु ॥ ३.४२ ॥

कृष्यादीनि यथासंभवम् आपदो निस्तरणहेतुत्वेनैकादश जीवनानि । एतानि चोदाहरणार्थत्वेन, सर्वथा तु न तद् अस्ति यद् आपद्य् अकर्तव्यम् इत्य् अभिप्रायः । कृषिः प्रसिद्धा । शिल्पं चित्रकर्मादि । भृतिर् मासादिवृत्त्या परकीयकर्मकरणम् । विद्या मूल्येनाध्यापनम् । कुसीदं प्रायोग्यम् । शकटं मूल्येन शकटवाहनम् । गिरिः पर्वतः तदीयतृणकाष्ठादिविक्रयः तदुपजीवनम् । सेवा प्रसिद्धा । अनूपो नद्यादिकच्छः तदुत्पन्नशाकादिविक्रयः तदुपजीवनम् । नृपो राजा तत्प्रतिग्रहानुजीवनम् । भैक्षं कृताकृतान्नादिभेदेन द्विप्रकारम् ॥ ४२ ॥

दुस्तरत्वाद् एव चापदाम् ।

बुभुक्षितस् त्र्यहं स्थित्वा धनम् अब्राह्मणाद् धरेत् ।
प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः ॥ ३.४३ ॥

स्वरूपपरिमाणाद्यविप्रतिपत्त्येत्य् अर्थः ॥ ४३ ॥

एवं च राजाभियुक्तस्याविप्रतिपन्नत्वेन ।

तस्य वृत्तं कुलं शीलं श्रुतम् अध्ययनं सुतान् ।
ज्ञात्वा राजा कुटुम्बात् स्वाद् धर्म्यां वृत्तिं प्रकल्पयेत् ॥ ३.४४ ॥

तस्य वृत्तादीनि व्यस्तसमस्ततया निरूप्य गुणानुसारेणैव राजा स्वात् स्वकीयाद् धनभाण्डागाराद् अप्य् अन्यानि परिभाव्य कार्यान्तराणि धर्म्यां वृत्तिं धर्माविरोधिनीं यथा वृत्तानुसारेण दृष्टादृष्टार्थात् स्वकर्मणो न हीयते तथाबूतां शाश्वतीं वृत्तिं प्रकल्पयेद् इति ॥ ४४ ॥

**

इत्य् आपद्धर्मप्रकरणम् ।

**