१ आशौच-प्रकरणम्

अथाशौचप्रकरणम् ।

श्रियाम् अव्यभिचरितनिर्व्याजप्राप्तिहेतुतया कण्टकोद्धरणं राजधर्मत्वेनानेकधा व्यवहारप्रकरणे विप्रकीर्णतयोक्तम् । सर्ववर्णानां चाश्रमद्वयसाधारणो धर्म उक्तः । अथेदानीम् आश्रमान्तरं प्रसक्तम् अप्य् उत्कृष्य पूर्वाश्रमशेषभूतां प्रेतशुद्धिम् एव तावत् प्रस्तौति । कस्मात् पुनः प्रसक्तम् अप्य् आश्रमान्तराभिधानम् उत्कृष्यते । वर्णमात्रसंबन्धितयाप्य् उच्यमाना प्रेतक्रिया तद्व्यतिरेकेणैव यथा स्यात्, प्रतिपत्त्यन्तरं च तच्छरीरस्यारण्यनयनादि । यथोक्तम्- “एतद् वै परमं तपो यत् प्रेतम् अरण्यं नयन्ति” इति (बाउ ५.११.१) । तद् अधुना वयोऽवस्थाविशेषेणैव तावत् प्रेतक्रियाम् आह ।

ऊनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः ।
आ श्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् मृतः ॥ ३.१ ॥

ऊनद्विवार्षिको मृतः खात्वा गर्ते निखातव्यः । न दाहाद्युदकक्रिया कार्या । यतश् चोदकक्रियानिवृत्तिस् तत एव ज्ञातिभिर् नानुगन्तव्य इत्य् अर्थः । इतरस् तूर्ध्वं वर्षद्वयाद् आ श्मशानाद् अनुगन्तव्यः । दाहाद्युदकरिया तस्य कार्येत्य् अर्थः । यत् तु स्वायंभुवम्,

ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।
अलंकृत्य शुचौ भूमाव् स्थिसंचयनाद् ऋते ॥
नास कार्यो ऽग्निसंस्कारो नापि कार्योदकक्रिया ।

(निवृत्तिस् तत एव ज्ञतिभिः ?)

अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस् त्र्यहम् एव तु ॥ इति । (म्ध् ५.६८)

तद् आशौचकालविशेषविधानार्थम् । एतदनुसाराच् च निदध्युर् इति निखननम् एव तत्राभिप्रेतम् । यत् पुनस् तत्रैवोक्तम्,

नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।
जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥ (म्ध् ५.७०)

इति, तद् एतद् वैकल्पिकत्वेन कृतनामकदेहदाहादिविधानपरतयैवावसेयम् । पारस्करीयं तु “द्विवर्षे प्रेते मातापित्रोर् एवाशौचम्” (पार्ग् ३.१०.२) इति, तद् अनुगमनाङ्गत्वाद् अङ्गस्पर्शाभिप्रायं द्रष्टव्यम् । यत् तु स्वायम्भुवे,

नृणाम् अकृतचौलानाम् अशुद्धिर् नैशिकी स्मृता । (म्ध् ५.६७)

इति, तद् ऊर्ध्वं नामकरणात् प्राक् संवत्सराद् विज्ञेयम् । परतस् तु कृतचौलस्याकृतचौलस्य वा त्रिरात्रम् एव प्राग् उपनयनात् । तथा चोक्तम् ।

निर्वृत्तचौलकानां तु त्रिरात्राच् छुद्धिर् इष्यते । इति । (म्ध् ५.६७)

वाक्यद्वयारम्भस् तु व्यवस्थया दाहविकल्पार्थः । नामकरणाच् चोर्ध्वं वर्षद्वयं दाहविकल्पः । परतस् तु नैयमिको दाहः । स्पष्टम् अन्यत् ॥ १॥

यस्य च दाहाधिकारः ।

यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना ।
स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥ ३.२ ॥

यमदेवत्यं सूक्तं, तथा यमदेवत्या गाथा एकशो ब्राह्मणपठिताः, तदुभयं जपद्भिर् ज्ञातिभिः । स दाहाधिकृतः । इतरो लौकिकाग्निना दग्धव्यः । उपेतः उपनीतः । स चाहिताग्निसंबद्धेतिकर्तव्यतया । अर्थवद् अनर्थलुप्ततया । यथासम्भवं दग्धव्यः । स्मृत्यन्तरात् तु मन्त्रनिवृत्तिः । शालाग्निना च विद्यमानत्वे दाहः ॥ २ ॥

एवं च यथाधिकारं दग्ध्वा ततः ।

सप्तमाद् दशमाद् वापि ज्ञातयो ऽभ्यवयन्त्य् अपः ।
अप नः शोशुचद् अघम् अनेन पितृदिङ्मुखाः ॥ ३.३ ॥

आ सप्तमात् पुरुषात् सपिण्डतया प्रतिबद्धा आ दशमाद् वा समानोदकत्वेन ज्ञातयः स्नानाद्युदकक्रियानिमित्तम् अपो ऽवतीर्य “अप नः शोशुचद् अघम्” (र्व् १.९७) इत्य् अनेन दक्षिणामुखाः स्नानं कुर्युः । अभ्यवयन्तीति चोद्घर्षणादिप्रतिषेधेन सकृद् आप्लवनमात्रार्थम् । तथा च शङ्खः- “दक्षिणामुखा अपो ऽवतीर्य सकृद् आप्लुत्य नोद्घर्षणं कुर्युः” इति । यत् त्व् अन्यत्र “जन्मनाम्नोर् अवेदने” इति (म्ध् ५.६०) समानोदकविधित्वेनोक्तम्, तद् दशपुरुषवचनानुसारेणौचित्यानुवादमात्रतयावसेयम् ॥ ३ ॥

समानोदकत्वाभावे ऽपि हि यथा ज्ञातीनाम् ।

एवं मातामहाचार्यप्रत्तानां चोदकक्रिया ।
कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम् ॥ ३.४ ॥

मातामहादीनाम् अप्य् एवम् एवोदकक्रिया कार्येत्य् अर्थः । अपरिणीतादत्ताश् च कुमार्यः प्रत्ताः, भ्रात्रादिपत्न्यो वा । सख्यादीनां तु कामोदकम् इति । इच्छया तूदकं कार्यम् इत्य् अर्थः । प्रत्ताशब्दश् चात्र स्ववासिनीवचनः । स्पष्टम् अन्यत् ॥ ४ ॥

ये चामी ज्ञातय उदकक्रियार्थम् अपो ऽअवतीर्णाः, ते स्नात्वा स्मृत्यन्तरानुसाराच् च संयुक्ताद्यभ्यनुज्ञाताः ।

सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः ।

स्पष्टार्थम् एतत् ।

सपिण्डत्वे ऽपि च ।

न ब्रह्मचारिणः कुर्युर् उदकं पतिता न च ॥ ३.५ ॥

ब्रह्मचारिपतितशब्दौ च स्मृत्यन्तरानुसाराद् वनस्थादिपाषण्डादिलक्षणत्वेन यथायोगं द्रष्टव्यौ ॥ ५ ॥

कर्तृत्वेनापवादम् उक्त्वेदानीं निमित्तत्वेनापवादम् आह ।

पाषण्डम् आश्रिता स्तेना भर्तृघ्न्यः कामगास् तथा ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ३.६ ॥

तथाशब्दः स्मृत्यन्तरोक्तवृथासंकरजाताद्यर्थः । पाषण्डादीनां निमित्तत्वेनाशौचभाक्त्वप्रतिषेधाद् ब्रह्मचार्यादीनां कर्तृतामात्रेणैव प्रतिषेधो ऽवसेयः । स्पष्टम् अन्यत् ॥ ६ ॥

ये त्व अधिकृता ज्ञातयः ।

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् ।
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥ ३.७ ॥

कृतोदकान् पुनः स्नातान् अन्ये लोकयात्रिका यथोक्तदेशसंस्थितान् दुःखोपशमनार्थम् अपवदेयुस् तान् अभिमन्युवधादिभिर् इतिहासैः पुरावृत्तैश् चेतरमनुष्यसंबद्धैः ॥ ७ ॥

एतम् एवापवादं प्रपञ्चयति ।

मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।
करोति यः स संमूढो जलबुद्बुदसंनिभे ॥ ३.८ ॥

किं च ।

पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः ।
कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥ ३.९ ॥

पश्य ।

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ ३.१० ॥

किं च ।

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः ।
अतो न रोदितव्यं स्यात् क्रियाः कार्याश् च शक्तितः ॥ ३.११ ॥

प्रेतम् उद्दिश्य स्वचोदनानुसारेणेति शेषः ॥ ११ ॥

अनया दिशा लोकयात्रिकैर् अपवदनायोक्ते साध्व् एवैभिर् उक्तम् ।

इति संचिन्त्य गच्छेयुर् गृहान् बालपुरोगमाः ।

_ _

बालान् अग्रतः कृत्वा यत्र प्रेतस् तद्गृहद्वारं यावद् गत्वा ततः ।

_ _

विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ ३.१२ ॥

विदश्य दन्तैर् अवखण्ड्येत्य् अर्थः ॥ १२ ॥

अभ्यवहाराभावे ऽपि च ।

आचम्याथाग्निम् उदकं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ ३.१३ ॥

यथाकनिष्ठम् एवेति शेषः । अग्न्यादीनां च मङ्गलार्थत्वात् संशब्दाच् च समुच्चितानाम् एवालम्भनम् । स्पष्टम् अन्यत् ॥ १३ ॥

स्मृत्यन्तराच् च गृहं प्रविश्याघप्रस्तरे त्र्यहम् अनश्नन्त एवासीरन् । तदशक्तौ तु ।

क्रीतलब्धाशिनो भूमौ शयीरंस् ते पृथक् पृहक् ।

_ _

किं च ।

_ _

पितृयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ ३.१४ ॥

त्रिरात्रावधित्वेन क्रीत्वा संव्यवहारादिना वा लब्ध्वाश्नीयुः । एकशश् च ब्रह्म्चारिणो भूमौ शयीरन् स्वपेयुः । पुत्रादीनां च यथाधिकारं प्रत्यासत्त्यनुसाराद् एतेनैव पितृयज्ञोक्तावनेजनादीतिकर्तव्यतया श्राद्धम् अकृत्वैव प्रेतायान्नं देयम् । प्रेतम् एवोद्दिश्य “प्रेतात्र स्नाहि” (पार्ग् ३.१०.२८) इत्य् अनेन मन्त्रेण ॥ १४ ॥

जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये ।

पात्र इति शेषः ।

सत्य् अपि चाशौचनिमित्ते ऽनधिकारे सर्वज्ञातिभिः ।

वैतानिकाश्रयाः कार्याः क्रियाश् च श्रुतिदर्शनात् ॥ ३.१५ ॥

स्पष्टार्थम् एतत् ॥ १५ ॥

यच् चोक्तम् “आचम्याथाग्निम् उदकम्” (य्ध् ३.१३) इति, एतत् ।

प्रवेशनाधिकं कर्म प्रेतसंस्पर्शनाम् अपि ।
इच्छतां

समानम् इतरैः । इच्छताम् इति छेदः ।

तत्क्षणच् छुद्धिः परेषां स्नानसंयमात् ॥ ३.१६ ॥

परेषां प्रेतवाहकव्यतिरिक्तानुगन्तॄणाम् असमानोदकानाम् । वक्ष्यमाणस्नानसंयमनाग्निस्पर्शनादेस् तत्क्षणात् सद्य एव शुद्धिर् इत्य् अर्थः । कटधारणानिच्छायां तु प्रेतवाहकानां पारस्करोक्तं “प्रेतस्पृशो ग्रामं न प्रविशेयुर् आ नक्षत्रदर्शनाद् रात्रौ चेद् आदित्यस्य” इति (पार्ग् ३.१०.३५–३६) । दृष्टस्नेहकारणाभावे तु प्रेतवाहकानां सद्यः शौचम् पराशरोक्तम् ।

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलम् आनुपूर्व्याल् लभन्ति ते ॥
न चैषाम् अशुभं किंचित् पापं वा शुभकर्मिणाम् ।
जलावगाहनात् तेषां सद्यः शौचं विधीयते ॥ इति (प्स्म् ३.३९–४०) ॥ १६ ॥

स्नेहादिनापि तु ।

आचार्योपाध्यायपितॄन् निर्हृत्यापि व्रती व्रती ।
स कटान्नं च नाश्नीयान् न च तैः सह संवसेत् ॥ ३.१७ ॥

आचार्यम् उपाध्यायं मातापितरौ वा निर्हृत्यापि प्रेतधर्मेण व्रती ब्रह्मचारी व्रत्य् एव व्रतान् न हीयत इत्य् अर्थः । अयं त्व् अस्य विशेषः- कटान्नं नाश्नीयात् तैश् च सपिण्डादिभिः सह न संवसेत् । एतस्माद् एवान्यत्र व्रतहानिर् इति गम्यते । आचार्यादिसपिण्डैस् तु सह कटधारणादि न कुर्यात्, तत्करणे व्रतलोप एवेत्य् अभिप्रायः ॥ १७ ॥

उदकक्रियाधिकृतानाम् अपि सपिण्डसमानोदकानां यथायोगम् ।

दशरात्रं त्रिरात्रं वा शावम् आशौचम् उच्यते ।
ऊनद्विवर्षम् उभयोः सूतकं मातुर् एव हि ॥ ३.१८ ॥

दशरात्रं सपिण्डानां त्रिरात्रं समानोदकानाम् । वाशब्दश् चोभयत्र स्मृत्यन्तरोक्तचतुरहपक्षिण्यादिकल्पानुसारेण यथायोगं विकल्पार्थः शवनिमित्तो ऽशुचिभावः शावम् आशौचम् । ततश् च प्राग् एव संस्कारान् मरणप्रभृति दशरात्रम् इति केचित् । तद् उच्यत इति वदन्न् आचार्यो निराकरोति । कृतोदकानाम् अपवदनानन्तरम् अन्यैर् लोकयात्रिकैः शावम् आशौचं प्रति सपिण्डादिभिः पृष्टैर् दशरात्रादिकल्पेन क्रियताम् इत्य् एवम् उच्यत इत्य् अभिप्रायः । ततश् च संस्काराद्य् एव स्यात् । तदभावे तु स्मृत्यन्तरान् मरणाद्य् एवेति व्यवस्था । अनुच्यमानम् अपि तु ऊनद्विवार्षिकम् उभयोः सपिण्डसमानोदकयोस् तुल्यकल्पम् एव । स्याद् इति शेषः । सूतकं तु मुख्यवृत्त्या मातुर् एव यस्मात् तस्मात् तदनुसारेणैव गर्भस्रंसनादौ गर्भमासतुल्यरात्रादिकल्पस् तदर्थतयैव योज्य इत्य् अभिप्रायः । यद् वा अयम् अङ्गस्पर्शावधिविधानार्थः श्लोकः । शूद्रादिक्रमेण ब्राह्मणान्तानाम् आत्मीयाशौचकल्पतृतीयांशत्वेन दशरात्रादिनाङ्गस्पर्शः । ततश् च दशरात्रं शूद्रस्य ब्राह्मणस्य त्रिरात्रम् । वाशब्दात् पञ्चरात्रं चतूरात्रं वैश्यराजन्ययोः शववद् अङ्गस्पर्शाभावेनाशौचम् उच्यते । ऊनद्विवार्षिकं चोभयोर् मातापित्रोर् एवाशौचत्रिभागत्वेनात्मीयाशौचकल्पतृतीयांशत्वेन दशरात्रादिनाङ्गस्पर्शाभावः । सूतकं तु मातुर् एव । तथा च वसिष्ठः ।

नाशौचं सूतके पुंसः संसर्गं चेन् न गच्छति ।
रजस् तत्राशुचिकरं तच् च पुंसि न विद्यते ॥ इति (वध् ४.२३) ॥ १८ ॥

इदानीम् आशौचकालपरिमाणम् आह ।

ब्राह्मणस्य दशाहं तु भवति प्रेतसूतकम् ।
क्षत्रस्य द्वादशाहानि विशां पञ्चदशैव वा ॥ ३.१९ ॥
त्रिंशद् दिनानि शूद्रस्य प्रेतसूतकम् उच्यते ।
अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति ॥ ३.२० ॥

“ब्राहमणस्य दशाहं तु” इत्य् अधिकनिवृत्त्यर्थस् तुशब्दः । प्रेतं च सूतकं च प्रेतसूतकं, प्रेतत्वनिमित्तं जन्मनिमित्तं च दशरात्रावधि ब्राह्मणस्याशौचं भवतीत्य् अर्थः । “विशां पञ्चदशैव वा” इति वाशब्दः स्मृत्यन्तरोकावध्यन्तरविकल्पार्थतया सर्वत्राविशेषेण द्रष्टव्यः । शूद्रसंबन्धितया च पुनः प्रेतसूतकवचनम् अशूद्राणां वर्णापशदानां निवृत्त्यर्थम् । जन्ममरणयोश् च समानजातीयत्वेन पुनर् अन्तरा जन्ममरणे पूर्वाशौचकालशेषेणैव शुद्धिः । तथा च स्मृत्यन्तरम्- “जन्ममरणयोस् तुल्योपनिपातश् चेद् आ त्रिरात्रशेषणात् पूर्वेणैव शुद्धिः, न्यूने त्रिरात्रपूरणं, पुरोदयाद् अन्त्ये त्रिरात्रम् उदिते तु यथोक्तम्” इति । स्पष्टम् अन्यत् ॥ १९, २० ॥

किं चानयत् ।

गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम् ।
प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः ॥ ३.२१ ॥

गर्भस्रावे माससंख्याताहोरात्राणि चाशौचम् । एतच् च मातृविषयम् एव । सपिण्डानां तु त्रिरात्रम् एव, वसिष्ठवचनात्- “गर्भपतने सपिण्डानां त्रिरात्रम् आशौचम्” इति (वध् ४.३४) । प्रोषिते ज्ञाते ज्ञानप्रभृत्यवशिष्टकालम् आशौचं स्यात् । पूर्णे तु दशरात्रादाव् आशौचकाले दत्त्वोदकम् उदकदानसंभन्धिविहितत्रिरात्रेणैव शुचिः स्यात् । यद् वा स्मृत्यन्तरानुसारात् पूर्णे संवत्सरे दत्त्वोदकं सद्यः शौचम् इति योज्यम् ॥ २१ ॥

अविशेषेणैव तु सर्ववर्णानाम् ।

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् ।
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥ ३.२२ ॥

अहःशब्दो ऽहोरात्रवचनः, अनन्तरश्लोके तद् अहर् इति तन्मात्रार्थं पुनर् वचनात् । अहस् त्व् अदत्तकन्यास्व् इत्य् अद्भिर् वाचा च यद् दानम्, तदपेक्षयावसेयम् । तुशब्दः कल्पनान्तरार्थः प्रत्तादिविषयत्वेन । अन्तेवासी शिल्पशिष्यः । तत्संनिधियोगाच् च तद्गुराव् एव गुरुशब्दः । अनूचानः अनुवक्तैवोपाध्यायः । मातुलो मातुः सोदर्यः श्रोत्रियश् चानुपसंपन्नः, अनाश्रितप्रातिवेश्यादिर् इत्य् अर्थः । मुख्यगुर्वादीनां तु स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ २२ ॥

सर्ववर्णावैशेषिकत्वेनैव च ।

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।
निवासराजनि तथा तद् अहः शुद्धिकारणम् ॥ ३.२३ ॥

अनौरसवचनं बीजक्षेत्रसंबन्धव्यतिरेकपरत्वाद् दत्तकादिविषयं द्रष्टव्यम् । भार्यात्वेनान्यसंबद्धासु । आगतासु अवरुद्धास्व् इति यावत् । निवासहेतुभूते न्यायवृत्ते क्षत्रिये राजनि । तथाशब्दाद् एवमाद्युक्तप्रकारनिश्चयः । एषां विपत्तौ तद् एवाहः शुद्धिकारणं, नाहोरात्रम् इत्य् अर्थः ॥ २३ ॥

सपिण्डतयैव प्राप्तस्य यथोक्ताशौचकल्पस्यापवादार्थम् आह ।

गोनृपब्रह्महतानाम् अन्वक्षं चात्मघातिनाम् ।
प्रायानाशकशस्त्राग्निविषाद्यैर् इच्छतां स्वयम् ॥ ३.२४ ॥

गवादिभिर् अनिच्छताम् अपि व्यापादितानाम् अन्वक्षम् आशौचं स्यात् । अक्षम् इन्द्रियं तदुपलब्धिवृत्त्या, यावद् दर्शनम् इत्य् अर्थः । ततश् चादर्शनाच् छुद्धिः । अशुद्धिवचनाच् च दर्शनम् अप्य् अकर्तव्यम् एवेति ज्ञापयति । प्रायादिभिश् च स्वयम् इच्छताम् आत्मव्यापादने ऽन्वक्षम् एव । स्वयम् इति वचनं ब्राह्मणाद्यर्थनिवृत्त्यर्थम् । प्रायो महापथगमनम् । आम्नायश् चेच्छयैव ज्ञप्त्यर्थम् आत्मव्यापादनाभ्युपगमं दर्शयति- “यद्य् उ मा मारयिष्यति यज्ञं विकृष्टम् अनु विक्रक्ष्य” इत्यादि (श्ब् ११.८।४.२) ॥ २४ ॥

कार्यान्तरोपरोधाच् च ।

महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थे संग्रामे यस्य नेच्छति भूमिपः ॥ ३.२५ ॥

महीपतीनां राज्ञां पालनार्थम् आशौचाभावः । तदर्थं यस्याशौचाभावम् इच्छति राजा प्राड्विवाकादेः, तस्याप्य् आशौचाभावः । विद्युदादिहतानां तु निर्दोषत्वे ऽपि वचनात्, गोब्राह्मणाद्यर्थे त्व् अभ्युदयातिरेकाद् एवेत्य् अवगन्तव्यम् ॥ २५ ॥

अनुगन्तॄणां त्व् इदानीम् आह ।

ब्राःमणेनानुगन्तव्यो न शूद्रो हि मृतः क्वचित् ।

क्वचिद् इत्य् आपद्य् अप्य् अननुगमार्थम् ।

यस् त्व् अनुगन्तव्यो ज्ञातिर् अज्ञातिर् वा सजातीयः, तम् अपि ।

अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥ ३.२६ ॥

अम्भोवचनं बहिः स्नानक्रियार्थम् । स्पष्टम् अन्यत् ॥ २६ ॥

सपिण्डत्वे ऽपि च ।

ऋत्विजां दीक्षितानां च याज्ञे कर्मणि कुर्वताम् ।
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ ३.२७ ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्य् अपि च कष्टायां सद्यःशौचं विधीयते ॥ ३.२८ ॥

ऋत्विग्दीक्षितवचनं वरणदीक्षामात्रप्रवृत्त्यैव प्राग् एव यज्ञारम्भाद् आशौचनिवृत्त्यर्थम् । “याज्ञे कर्मणि कुर्वताम्” इति अनृत्विजाम् अपि चमसाधवर्य्वादीनां परिग्रहार्थम् । सत्री प्रसिद्धः । आदिष्टप्रायश्चित्ती व्रती । ब्रह्मचारी उपकुर्वाणको नैष्ठिकश् च । दाता सततप्रवृत्तहिरण्यादिदानः । ब्रह्मवित् तादर्थ्याधिकारात् परिव्राजकः, तदुपासनैकनिष्ठो वा । तथाशब्दो वनस्थाद्यर्थः । दानादौ च तत्संबन्धब्राह्मणाभिमुख्यकरणाद्यङ्गेन प्रस्तुते राष्ट्रभङ्गादौ च देशविप्लवे अन्यस्यां वा निर्व्याजकष्टायाम् आपदि । “सद्यःशौचं विधीयते” इति विचिकित्सानिवृत्त्यर्थम् ॥ २७–२८ ॥

एवं शावाशौचम् अभिधायेदानीं सूतकाश्रयं विशेषापवादम् आह ।

पित्रोस् तु सूतकं मातुस् तद् असृग्दर्शनाद् ध्रुवम् ।
तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ ३.२९ ॥

मातापित्रोर् बीजशोणितसंबन्धाद् अङ्गस्पर्शायोग्यत्वकरं सूतकं, न पुनः सपिण्डानाम् अपि, तदसंभवात् । एवं चेन् मातुर् एव, तदसृग्दर्शनात् । ध्रुवं निश्चितम् इत्य् अर्थः । तथा च स्वायम्भुवम् ।

सर्वेषां शावम् आशौचं मातापित्रोस् तु सूतकम् ।
सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥ इति । (म्ध् ५.६२)

शावशब्दो ऽङ्गस्पर्शाभावप्रतिपत्त्यर्थः । यद् अपि चानयत् सपिण्डसामान्यं दानाद्यनधिकारलक्षणम् आशौचं तदपेक्षयापि यस्मिन्न् अहनि पुत्रो जातस् तदहर् न प्रदुष्येत । किम् अर्थम् । पूर्वेषां पित्रादीनां पितॄणां जन्मकारणात् । जन्मनि श्राद्धकारणाद् इत्य् अर्थः । प्रशब्दाच् च भोक्तॄणाम् अप्य् अदोष इति गम्यते ॥ २९ ॥

अयं तु सामान्येन पुरुषमात्रधर्मः ।

उदक्याशौचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् ।
अब्लिङ्गाभिर् जपेच् चैव सावित्रीं मनसा सकृत् ॥ ३.३० ॥

उदक्या रजस्वला, आशौचिनो ऽङ्गस्पर्शानर्हाः, तैः स्पृष्टः स्नायात् । कामतस् तु संगम्य तैः स्पृष्टो ऽब्लिङ्गाभिः “आपो हि ष्ठा” इत्यादिभिः स्नात्वोपस्पृशेत् । आचामेद् इत्य् अर्थः । आचम्य सावित्रीं मनसा सकृज् जप्त्वा शुध्यतीत्य् अवसेयम् ।

  • इदं त्व् अत्र चिन्त्यम् । अनेकधा विरोधिनाम् आशौचवाक्यानां कथं विषयकल्पनेति । तद् यथा- स्वयम्भुवा “दशाहं शावम् आशौचम्” (म्ध् ५.५९) इत्य् अत्र चत्वारः कल्पाः प्रदर्शिताः । दशाहः, तथा “आ वा सञ्चयनाद् अस्थ्नाम्” (म्ध् ५.५९) इत्य् अनेन चतुरहः, “त्र्यहम् एकाहम् एव वा” (म्ध् ५.५९) इत्य् अनेन त्र्यहैकाहौ । तथा पराशरेण ।

ब्राह्मणस्य त्रिरात्रं तु शावम् आशौचम् उच्यते ।
क्षत्रियस्य दशाहानि वैश्यसैकादशैव तु ॥ इति ।

गौतमेनापि- “शावम् आशौचं दशरात्रम् अनृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानाम्” इत्य् उपक्रम्य, “एकादशरात्रं क्षत्रियस्य द्वादशरात्रं वैश्यस्य” (ग्ध् १४.१–३) इत्य् उक्तम् । वसिष्ठेनाप्य् उक्तम्- “ब्राह्मणो दशरात्रेण पञ्चदशरात्रेण क्षत्रियो वैश्यो विंशतिरात्रेण” इति (वध् ४.२७–२९) । शूद्रस्य तु मास एव सर्वत्रोक्तः । तत्र केचिच् छ्लोकान्तरारम्भसामर्थ्याद् वृत्तस्वाध्यायाद्यपेक्षया विषयव्यवस्थां वर्णयन्ति ।

एकाहाच् छुध्यते विप्रो यो ऽग्निवेदसमन्वितः । (प्स्म् ३.५)

इत्यादि । तत् तु नातीव सम्यक् । यदि हि वृत्ताद्यपेक्षयैकाहाद्य् उच्येत, तदा

उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश् च निवर्तते ॥

इत्याद्य् अनुपपन्नम् एव स्यात् । गौतमो ऽपि च दीकितादिपर्युदासेन दशरात्रं विदधद् वृत्तादिमताम् एवैतद् इति ज्ञापयति । एवं सर्वस्मृत्यन्तरेषु स्वाध्यायाद्यनधिकार एवाशौचम्, तद्धीनस्य च स्वभावसिद्धो ऽनधिकार इति किम् आशौचं करिष्यति । तथा दक्षेण सद्यःशौचादिदशपक्षं सूतकं प्रक्रम्योक्तम् ।

व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा ।
क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥
व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः ।
श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेत् ॥ इति ।

एवंजातीयकानां स्वभावसिद्धानाम् आ मरणाद् अनपाय्येवाशौचम्, नाशौचविधिविषयभाक्त्वम् एषाम् इत्य् अभिप्रायः ।

  • कथं तर्ह्य् अयं श्लोकः- “एकाहाच् छुध्यते विप्रः” इति (प्स्म् ३.५) । निन्दार्थवादत्वेन भस्मान्तसूतकवचनवद् एतद् अपि वृत्तादिप्रशंसामात्रार्थं प्रक्रमानुसारात् स्मृत्यन्तराद् न्यायविरोधाच् च द्रष्टव्यम् । न हि वेदरहितस्याग्निसंयोगो ऽस्ति । स्तुत्यर्थतायां त्व् अविरोधः । एवं पाराशर्यम् अपि ।

नामधारकविप्राणां दशाहं सूतकं भवेत् । (प्स्म् ३.६)

इत्यादि योज्यम् । अन्ये तु,

दन्तजाते ऽनुजाते च कृतचौले च संस्थिते । (म्ध् ५.५८)

इत्य् एतच्छ्लोकानुसारेण वयोऽवस्थापेक्षया व्यवस्थाम् आहुः । जाता दन्ता यस्य स दन्तजातः, तम् अनु पश्चाद् यो जातः सो ऽनुजातः नामकरणाद् ऊर्ध्वं (स्यात्?) प्राग् दन्तजननात् । परतो न्यूनत्रिवर्षो दन्तजातः । परतस् तु प्राग् उपनयनात् कृतचौलः । चशब्दाच् च कृतोपनयनः । तेषु कृतोपनयनादिषु संस्थितेषु दशाहादिकल्पव्यवस्थेति । तद् एतत् कृतचौले त्रिरात्रविधानाद् इतरत्रापि च यथायोगं वचनान्तरारम्भसामर्थ्याद् अयुक्तम् एव । स्वबुद्ध्यनुसारिन्यश् चैताः कल्पनाः । न चैतच् चोदनालक्षणत्वे युक्तम् । कस् तर्हि प्रकारः ।

  • उच्यते । सपिण्डोद्देशेनैव हि चत्वारो ऽपि कल्पाः । सपिण्डतापि हि चतुष्प्रकारैव । यथोक्तम्- “पिण्डनिवृत्तिः सप्तमे पञ्चमे वा” इति (ग्ध् १४.१३) । वृत्ते वर्तमाने चेति चोभय्था सूत्रार्थयोजनाद् एतद् आपद्येते- पञ्चमे षष्ठे वा सप्तमे ऽष्टमे वा पुरुषे पिण्डनिवृत्तिर् इति । अत एवोक्तम् ।

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । इति । (म्ध् ५.६०)

सप्तमे विगते ऽष्टमे निवर्तत एव, न परतः प्रवर्तत इत्य् अर्थः । तद् एवं चतुष्प्रकारां सपिण्डताम् आलोच्य, यथासंनिकर्षं दशाहादिकल्पयोजना । ततश् च समानोदकानां चतुष्प्रकाराणां त्र्यहपक्षिण्येकाहसद्यःशौचादिकल्पव्यवस्थाप्य् उपपन्ना भवति । पिण्डनिवृत्तिकल्पनायाम् एव तु कथं व्यवस्थेति चेद्, उक्तम् “पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात् पुत्रवांश् चेत्” इत्युपक्रम्य, “निवर्तते चतुर्थे” इति (पार्ग् ३.१०.५०–५१) । अतः प्रमीतपितृकस्य पञ्चमे पिण्डनिवृत्तिः, एवं जीवपितृकस्य षष्ठे, जीवपितामहस्य सप्तमे, जीवप्रपितामहस्याष्टम इति व्यवस्था । सहनिवसतां च पितृनिमित्तम् एव पुत्राणाम् आशौचम् । पृथङ्निवासे तु प्रत्यात्मिकम् । तथा च पराशरो निवासभेदाभिप्रायेणैवाह ।

संपर्केषु निवृत्तानां न प्रेतं नैव सूतकम् । इति ॥

एवं सर्ववर्णाणां सपिण्डसमानोदकत्वेनाशौचकल्पव्यवस्था योज्या । ब्राह्मणादिजन्मानुसारेण वाक्यव्यवस्था । “वैश्यवच् छौचकल्पः स्यात्” (म्ध् ५.१४०) इत्य् एतदनुसाराच् च शूद्रस्याप्य् अनेककल्पप्रसङ्गे पूर्ववद् योज्यम् । “न्यायवर्तिनाम्” (म्ध् ५.१४०) इति वचनाद् द्विजात्याश्रितशूद्रविषय एवायम्, इतरस्य त्व् अष्टपौरुष्य् एव सपिण्डता । मास एवास्यैकः शुद्धिप्रकारः । क्षत्रियादीनां तु ब्राह्मणादिजातविषयतया च ब्राह्मणादीनां त्रिपुरुषम् एव सपिण्डता । तथा च शङ्खः- “पिण्डस् त्व् आवर्तते त्रिषु” इति । आशौचकल्पश् च प्रत्यात्मिक एव “एकपिण्डाः पृथक्शौचाः” इति वचनात् । एवं च पितृव्यतत्पुत्रादिविषयं स्वपुत्रादिविषयतया तु सहनिवासिनां पितृतुल्यम् एवाशौचम् । तथा चोक्तम् ।

मृते सूते तु दासानां पुत्राणां चानुलोमिनाम् ।
स्वामितुल्यं भवेच् छौचम् ऋते स्वामिनि यौतकम् । इति ।

पितुः पुनः ।

वर्णाणाम् आनुलोम्येन स्त्रीणाम् एको यदा पतिः ।
दशाहषट्त्र्यहैकाहाः सूतके मृतके तथा ॥ इति ।

अनया दिशा सर्वेषाम् आशौचकल्पानां विषयकल्पना । यदि त्व् अवश्यं वृत्ताद्यपेक्षयापि विषयकल्पना, ततो वरम् अश्वस्तनत्रै(य)हिकादिवृत्तिविशेषापेक्षयैव, दृष्टार्थत्वात् । यत् तु गौतमीयम् “राज्ञां च कार्यविरोधात्” (ग्ध् १४.४५) इत्यादिसद्यःशौचाभिधानं तद् धेत्वभिधानात् प्रवृत्तब्रह्मयज्ञानां तन्मात्र एव द्रष्टव्यम् । अध्यापनप्रवृत्तेर् वाश्वस्तनिकादिवद् एव स्वाध्याये । एवं सत्रिव्रतिप्रभृतीनाम् अपि तन्मात्रतयैवाशौचनिवृत्तिर् अवगन्तव्येत्य् एषा दिक् । सूतकम् अप्य् एवम् एवातिदेशानुसाराद् योज्यम् । अन्ये तु दशाहमात्रातिदेशं सूतकं मन्यन्ते । तत् पुनर् अशाब्दत्वाद् अकिंचित् । यत् तु मातुर् एकाहादिप्रसङ्गात् समाचारात् स्मृत्यन्तरोक्तदशरात्रसमालम्भनादिविरोधाच् च दशाहातिदेश इति, तन् मातापित्रोः सपिण्डतावधिविशेषाश्रयचतुरहाद्यप्रसङ्गात् फल्गुप्रायम् एव स्यात् । अतः शावाशौचवद् अत्राप्य् अतिदेशानुसारिण्य् एव व्यवस्थाकल्पनेत्य् अनवद्यम् । यत् तु “सूतकं मातुर् एव स्यात्” इति, तद् अङ्गस्पर्शप्रतिषेधार्थम् इति व्याख्यातम् एव । यत् तु,

निरस्य तु पुमाञ् छुक्लम् उपस्पृश्यैव शुध्यति ।
बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ॥ (म्ध् ५.६३)

इति, तच् छूद्रविषयम् अवरुद्धदासीसंबन्धेन नियोगसंबन्धेन वा द्रष्टव्यम् । अवरुद्धदासीविषयत्वेन तु निरस्य शुक्लं पुत्रजन्मादाव् उपस्पृश्य सद्य एव शुचिः । नियोगपक्षेण तु “बैजिकाद् अभिसंबन्धात् त्र्यहम्” इत्य् एषा दिक् । कन्याविषयं तु वाक्यत्रयं विषयव्यवस्थयैव पठ्यत इत्य् अविरोधः । तद् यथा ।

अप्रौढायां तु कन्यायां सध्यःशौचं विधीयते ।

इत्येतद्वाक्यानुसाराद् अकृतचूडाविषयं द्रष्टव्यम् । “अहस् त्व् अदत्तकन्यासु” (य्ध् ३.२२) इत्येतत् कृतचूडायाम् अदत्तायाम् । दत्तायां तु मानवं, येभ्यो दत्ता तेषां त्रिरात्रम् एवास्तु यैर् दत्ता तेषां चैकाहादिना,

यथोक्तेनैव कल्पेन शुद्ध्यन्ति तु सनाभयः । (म्ध् ५.७२)

इति वचनात् । अन्ये तु “यथोक्तेनैव कल्पेन” इति दशरात्रं वर्णयन्ति । यत् तु स्वशास्त्रानुसारेण क्लिष्टकल्पनया प्रतीयमानम् अपि न्यायसमाचारस्मृत्यन्तरानुसाराद् अयुक्तम् एव । प्रोषितप्रेतवाक्यानि तु त्रिरात्रपक्षिण्येकाहसध्यःशौचविषयाणि सपिण्डताविधिविशेषानुसारेणैव व्याख्येयानि । मातुलादिविषयत्वेन तु,

विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् । (म्ध् ५.१०१)

इति वचनान् निर्हरणकर्तुर् एव त्रिरात्रम्, अन्यस्य तु पक्षिण्य् एव । एकाहस् तु सापत्नादिविषय एव । सपिण्डसमानोदकव्यतिरेकेण च सर्वत्र क्षपणमात्रम् अनुज्ज्वलवेषतालक्षणम् आशौचसादृश्याद् आशौचवचनं द्रष्टव्यम्, न तु यज्ञाद्यधिकारनिवृत्तिः,

सब्रह्मचारिण्य् एकाहम् अतीते क्षपणं स्मृतम् । (म्ध् ५.७१)

इति प्रक्रमात् समाचाराच् च । एवं सर्वथा सर्ववाक्यानां व्यवस्थासिद्धिर् इति अलं प्रसङ्गेन ॥ ३० ॥

एवं तावद् विस्पष्टविजाननिमित्तकं सर्वत्र सर्वथा चाशौचविधिम् उक्त्वा स्वभावोपहतस्येदानीं निसर्गजाविद्योपप्लवाद् आत्मन इन्द्रियाणां शरीरस्य तदुपकरणस्य वा सम्यक् संशुद्धिकारणं सामान्येनैवाह ।

कालो ऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम् ।
पश्चात्तापो निराहारः सर्वे ऽमी शुद्धिहेतवः ॥ ३.३१ ॥

अग्निर् इति तेजस उदाहरणम् । मृत् पृथिव्याः । जलवाय्वोस् तु स्वरूपेणैवोपादानम् । एतानि पृथिव्यादीनि चत्वारि महाभूतानि एतदात्मकस्य बाह्यस्योपकरणस्य व्यस्तसमस्तात्मना यथायोगं शुद्धिसाधनानि, कालकर्मणोस् तु बाह्यस्याभ्यन्तरस्य चात्मन इन्द्र्यग्रामस्य च, मन इन्द्रियान्तराणां, मनसस् तु वक्ष्यति, अवशिष्टानि ज्ञानादीन्य् आत्मनः । एवं यथायोगम् अविशेषेण वा सर्वत्र सर्वे ऽमी शुद्धिहेतव इत्य् अवसेयम् । सर्वेषां स्वदेशदेशान्तराभिहितस्वविषयशुद्धिसाधनानां संक्षेपेण पुनर् वचनार्थतया वायम् उपसंहारार्थो ऽनुवादः ॥ ३१ ॥

एतद् एव स्पष्टयितुं विषयव्यवस्थया प्रपञ्चयति ।

अकार्यकारिणां दानं वेगो नद्यास् तु शुद्धिकृत् ।
शोध्यस्य मृच् च तोयं च संन्यासो वै द्विजन्मनाम् ॥ ३.३२ ॥
तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम् ।

वर्ष्म शरीरम् । तथा च स्वायंभुवः- “मृद्भिर् अद्भिश् च गात्राणि” इति (च्ड़्। म्ध् ५.१०९) ॥ ३२ ॥

किं च ।

जपः प्रच्छन्नपापानां मनसः सत्यम् उच्यते ॥ ३.३३ ॥
भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता ॥ ३.३४ ॥

त्रयः श्लोकाः स्पष्टार्था वक्ष्यमाणोपनिषत्काण्डप्रायश्चित्तकाण्डयोः सूत्रभूता द्रष्टव्याः ॥ ३३–३४ ॥

इत्य् आशौचप्रकरणम् ।