२५ प्रकीर्णक-प्रकरणम्

अथ प्रकीर्णकप्रकरणम् ।

यत् पूर्वप्रकरणेष्व् अनुक्तं तत् पूर्वनिर्णीतव्यवहारपरिपूरणायेदानीम् आह ।

न्यूनम् अभ्यधिकं वापि लिखेद् यो राजशासनम् ।
पारदारिकचोरौ वा मुञ्चतो दण्ड उत्तमः ॥ २.२९८ ॥

शासनवचनं सर्वलेख्यलक्षणार्थम् । लेखयिता लेखको वा न्यूनातिरिक्तादिलेख्यदोषकर्ता, रक्षणार्पितं पारदारिकादिकं मोक्तुकाम उत्तमसाहसं दण्ड्यः ॥ २९८ ॥

यो राजप्रसादाद्यवष्टम्भात् प्रसह्य साहसिकत्वेन ।

  • अभक्ष्यैर् दूषयन् विप्रं दण्ड्य उत्तमसाहसम् ।

क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रम् अर्धिकम् ॥ २.२९९ ॥

उपपतनीयाभक्ष्यैर् लशुनादिभिर् अयं दण्डो ऽवसेयः । स्पष्टम् अन्यत् ॥ २९९ ॥

प्रच्छन्नतास्कर्ययोगात् तु ।

कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
त्र्यङ्गहीनास् तु कर्तव्या दाप्याश् चोत्तमसाहसम् ॥ २.३०० ॥

धूपितरञ्चितादि कूटस्वर्णम् । श्वसृगालादिप्रभवं विमांसम् । तद्विशेषापेक्षयैव धनदण्डः । त्र्यङ्गहीनत्वं च व्यस्तसमस्ततया योज्यम् । द्वौ हस्ताव् एकश् च पादस् त्र्यङ्गानि । स्पष्टम् अन्यत् ॥ ३०० ॥

अकामतस् तु प्रवृत्तत्वात् ।

चतुष्पादकृते दोषो नापेहीति प्रभाषतः ।
काष्ठलोष्टेषुपाषाणबाहुयुद्धकृते तथा ॥ २.३०१ ॥

“दुष्टो ऽयं बलीवर्दादिः, अपसर्पणाय त्वर्यताम्” इत्येवंवादिनः स्वामिनश् चतुष्पादकृते ऽपराधे न दोषः । एवम् एव चास्यासाव् अर्थः । काष्ठादि क्षिपतोर् बाहुयुद्धेन वा संरब्धयोः । तथाशब्दाद् अनभिक्रुष्टे सदोषतैवेति गम्यते ॥ ३०१ ॥

अनभिप्रेतत्वाद् एव च ।

छिन्ननास्येन यानेन तथा भग्नयुगेन च ।
पश्चाच् चैवापसरता हिंसिते स्वाम्य् अदोषभाक् ॥ २.३०२ ॥

नस्तादिरहितबलीवर्दादियुक्तं छिन्ननास्यम् । तथाशब्दः प्रकारार्थः । स्पष्टम् अन्यत् ॥ ३०२ ॥

हिंसतः परिगृहीतस्य बलीवर्दादेः ।

शक्तो ऽप्य् अमोक्षयन् स्वामी शृङ्गिणो दंष्ट्रिणस् तथा ।
प्रथमं साहसं दाप्यो विक्रुष्टे द्विगुणं तथा ॥ २.३०३ ॥

तथाशब्दो ऽपराधविशेषानुसारेण दण्डविशेषकल्पनाप्रतिपत्त्यर्थः । प्रसिद्धम् अन्यत् ॥ ३०३ ॥

लोभादिना प्रच्छन्नं यदि तु ।

चोरं चोरेत्य् अति वदन् दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चंस् तद् एवाष्टगुणीकृतम् ॥ २.३०४ ॥

चोरम् अतिक्रम्याचोरम् एवान्यं चोरेति वदतः पञ्चशतो दमः । द्रव्यम् उपजीव्य मुञ्चतस् तद् एवोपभुक्तं द्रव्यम् अष्टगुणं दण्डं चेत्य् उक्तम् । ऋज्व् अन्यत् ॥ ३०४ ॥

प्रसह्यकारितया तु ।

राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा ।
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ २.३०५ ॥

साहसिकतयैव तु ।

**
मृताङ्गलग्नविक्रेतुर् गुरोस् ताडयितुस् तथा ।
राजशय्यासनारोढुर् दण्डो मध्यमसाहसः ॥ २.३०६ ॥

किं च ।

द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा ।
विप्रत्वेन च शूद्रस्य जीवतो ऽष्टशतो दमः ॥ २.३०७ ॥

द्विनेत्रग्रहणं कृत्स्नेन्द्रियलक्षणार्थम् । एतच् च पशुविषयं द्रष्टव्यम् । राजा द्विष्टो यस्य स राजद्विष्टः । स्पष्टम् अन्यत् ॥ ३०७ ॥

यश् चायं व्यवहारमार्ग उक्तः, तत्र सर्वस्मिन्न् एवायं राजाश्रयः साधारणो विधिः ।

दुर्दृष्टं तु पुनर् दृष्ट्वा व्यवहारं नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादद्विगुणं पृथक् ॥ २.३०८ ॥

प्राग् अस्योक्तत्वात् पुनरारम्भो राज्ञः स्वयं द्रष्टृत्वेन प्रयत्नातिरेकार्थः ॥ ३०८ ॥

यथा विजितो दण्ड्यो मिथ्याभिधानात्, तथैव ।

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः।
तम् आगतं पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥ २.३०९ ॥

स्पष्टार्थः श्लोकः ॥ ३०९ ॥

ऋणादानाद्यखिलव्यवहारसंबन्धितया यथास्थानं युक्त्यागमानुसारेण प्राप्तो ऽपि हि ।

राज्ञा न्यायेन यो दण्डो ऽगृहीतो वरुणाय तम् ।
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ २.३१० ॥

राज्ञा न्यायेन प्राप्तो ऽपि हि यो दण्डः स्नेहादिना कथंचिद् अगृहीतः, तं स्वयम् एव त्रिंशद्गुणीकृत्य, उदकसंनिधौ वरुणाय निवेद्य वरुणम् उद्दिश्येत्य् अर्थः । ततो विप्रेभ्यः प्रागुक्तदानविध्यनुसारेण (देयम्? दद्यात्) । चोदनामूलत्वाच् चास्याः स्मृतेर् अकरणे ऽन्यथाकरणे वा प्रत्यावय इत्येवं व्याख्येयम् । अन्यायेन वा यो दण्डो राज्ञा गृहीतः, तं स्वयम् एवान्येनाशक्यो ऽपि कारयितुं त्रिंशद्गुणं वरुणाय निवेद्य विप्रेभ्यो दद्याद् इति । यद् वा न्यायेनैव राज्ञा यो दण्डो गृहीतः, तम् एव सामर्थ्यात् स्वयम् एव त्रिंशद्गुणीकृतं विप्रेभ्यो दद्याद् इत् । सर्वं चैतत् श्रुतिस्मृत्यनुसारान् न्याय्यम् एवेत्य् अवसेयम् इति ॥ ३१० ॥

प्रथमोदयानुरक्तो निखिलम् अलं मण्डलं निजं कृत्वा ।
पालयति सततम् उर्वीम् अतिबलवान् एष नृपसविता ॥
इति निरस्तनिजव्यसनक्लमः कृतविपक्षचरित्रविपर्ययः ।
नृपतिर् आशु समुद्धृतकण्टको हरिर् इवेष्टतमायतनं स्रियः ॥

इति परमभट्टारकयाज्ञवल्क्यप्रणीते धर्मशास्त्रे

विश्वरूपकृतविवरणबालक्रीडायां

द्वितीयो ऽध्यायः ॥

**