२४ स्त्री-सङ्ग्रहण-प्रकरणम्

अथ स्त्रीसंग्रहणप्रकरणम् ।

राजपत्न्यभिगमनप्रसङ्गात् परपरिगृहीतस्त्रीमात्राश्रयं सङ्ग्रहणविधिम् आह ।

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः ।
साद्यैर् वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥ २.२८७ ॥

पुंग्रहणं पुंसो दमातिरेकार्थम् । केशाकेशिग्रहणं यन्त्रारूढग्रहणार्थम् । साद्यैर् वा कामजैर् नखदन्तक्षतादिभिर् चिह्नैः, द्वयोर् एव वा संप्रतिपत्तौ ॥ २८७ ॥

अनुमानकौशलात् प्रयक्षोपलम्भनाद् वा स्पष्टीकृते संग्रहणे ।

सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसां स्त्रीणां नासादिकृन्तनम् ॥ २.२८८ ॥

आनुलोम्यादिविशेषे स्मृत्यन्त्रानुसाराद् धनदण्डवधदण्डयोर् यथार्हं व्यवस्था कल्पनीया । उदाहरणार्थं चैतद् आचार्येणोक्तम् इत्य् अवसेयम् । ऋज्व् अन्यत् ॥ २८८ ॥

अन्यतरानिच्छायां तु पुमान् योषिद् वा ।

नीवीस्तनप्रावरणनाभिकेशावमर्शनम् ।
अदेशकालसंभाषां सहावस्थानम् एव च ॥ २.२८९ ॥
स्त्री निषिद्धा शतं दण्ड्या कुर्वती द्विशतं पुमान् ।
अनिषेधे तयोर् दण्डो यथा संग्रहणे तथा ॥ २.२९० ॥

नीव्यादिस्पर्शनादेशकालसंभाषणसहावस्थानादि पुंशा निवारिता स्त्री कुर्वती शतम् दण्ड्या । स्त्रिया निवारितः पुमान् द्विशतं दण्ड्यः । द्वयोर् अपि त्व् अन्योन्यम् इच्छया संग्रहणोक्त एव दण्डः । नीवी रशनापरिवर्तिकादेशः । रहोविवक्षया संभाषणम् अदेशकालसंभाषणम् । स्पष्टम् अन्यत् ॥ २८९–९० ॥

संग्रहणप्रायत्वात् कन्याहरणम् अपि प्रसङ्गाद् आह ।

अलंकृतां हरन् कन्याम् उत्तमं त्व् अन्यथाधमम् ।
दण्डं दद्यात् सवर्णस् तु प्रातिलोम्ये वधः स्मृतः ॥ २.२९१ ॥

अलंकृतोपकॢप्तविवाहा । स्पष्टम् अन्यत् ॥ २९१ ॥

कन्यास्व् एव ।

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथाधमः ।
दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ २.२९२ ॥

इच्छन्तीषु कन्यासु सवर्णास्व् अनुलोमासु वा प्रदूष्यापहृतासु न दोषः, गान्धर्वविवाहविषयत्वात् । यस् त्व् अनलंकृतापहरणे ऽधमो दण्डः, सो ऽन्यथा निष्कामास्व् इत्य् अर्थः । दूषणे तु कन्याभिगमने करच्छेदः, अनिच्छायाम् एव । अन्यथा त्व् अङ्गुलिविच्छेदः स्मृत्यन्तरानुसारात् । प्रातिलोम्येन तु कन्यादूषणे वध एव । तथाशब्दः स्मृत्यन्तरोक्तशूलारोहणादिप्रकारार्थः । स्पष्टम् अन्यत् ॥ २९२ ॥

दूषयितुर् दण्ड उक्तः । दूष्या तु कन्या ।

शतं स्त्री दूषणे दाप्या द्वे तु मिथ्याभिशंसिता ।
पशून् गच्छन् शतं दाप्यो हीनस्त्रीं गां च मध्यमम् ॥ २.२९३ ॥

स्त्रीत्वेनोपगम्य दूषिता कन्या स्त्रीत्य् उक्ता । सा दूषणे कृते सतं दण्ड्या । यदि त्व् अदुष्टाम् एव दूषितेयम् इति ब्रूयात्, ततो मिथाभिशंसिता द्वे शते दण्ड्यः । गोव्यतिरिक्ताश्वादिपशुगमने शतं दण्ड्यः । हीनां त्व् अनुलोमां स्त्रियं गां च गच्छतो मध्यमो दण्डः । हीनस्त्रीवचनं गवादिष्व् अपि स्त्रीवद् दण्डदानदृष्टान्तत्वेन । अन्यथा तु प्राग् एवोक्तत्वात् पुनरुक्ततैव स्यात् । तस्मात् पश्वादिष्व् अपि स्त्रीष्व् इव गन्तुर् दण्डादिकल्पनं परिग्रहविशेषाश्रयं योज्यम् ॥ २९३ ॥

परिग्रहानुसारेणैव च ।

अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ २.२९४ ॥

भुजिष्या कर्मकारिण्यो दास्यः । तास्व् अपि स्वामिकर्मपरिहापणेनाक्रम्य् गच्छतो दण्डः । गम्यास्व् अपि शूद्रादीनाम् उपरतभर्तृकासु भ्रातृभार्यासु पुष्पाञ्जल्याद्यनुपनीतासु । पुंवचनम् अवरुद्धादिस्त्रीणाम् अर्धदण्ड्यत्वज्ञापनार्थम् ॥ २९४ ॥

अदत्त्वैव शुल्कम् ।

प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्य् अकामासौ द्विर्द्वादशपणः पृथक् ॥ २.२९५ ॥

अकामाभिगमने बहूनाम् एकस्याम् एव दास्यां प्रत्येकं चतुर्विंशतिपणो दण्डः ॥ २९५ ॥

अविशेषेणैव तु ।

अयोनौ गच्छतो योषां पुरुषं चाभिमेहतः ।
द्विर्द्वादशपणो दण्डस् तथा प्रव्रजितागमे ॥ २.२९६ ॥

आस्यपादादौ पुरुषस्य शिश्नप्रक्षेपणं पुरुषमेहनम् । व्यभिचारिणीत्वाद् ज्ञातिभिस् त्यक्ता स्त्री प्रव्रजिता । स्पष्टम् अन्यत् ॥ २९६ ॥

कामतस् तु त्रैवर्णिकानाम् ।

अन्त्याभिगमने त्व् अङ्क्यः कबन्धेन प्रवासयेत् ।
शूद्रस् तथाङ्ख्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥ २.२९७ ॥

अन्त्यशब्दो ऽयं शूद्रान् निकृष्टापशदवचनः । ताम् अन्त्याम् अपशदस्त्रियं गच्छंस् त्रैवर्णिकः कबन्धेनाङ्कयित्वा स्वराष्ट्राद् बहिष्कार्यः । शूद्रस् तथाङ्क्य एव स्यात्, न बहिष्कार्यः । प्रायश्चित्तं त्व् अकुर्वतः कामतो वाभ्यासाद् एतद् द्रष्टव्यम् । ततश् च शूद्रस्याप्रवासनं दासत्वज्ञापनार्थम् । दासीकृत्य च प्रायश्चित्तं कारयितव्यम् । अन्त्यस्य त्व् अपशदस्य शूद्राद्यार्यस्त्र्यभिगमे वध एव । अनया दिशा संग्रहणस्वरूपपरिज्ञानोपायदण्डप्रपञ्चः कार्यः ॥ २९७ ॥

इति स्त्रीसंग्रहणप्रकरणम् ।

**