२३ स्तेय-प्रकरणम्

अथ स्तेयप्रकरणम् ।

यदि पुनः प्रत्येकं प्रतिग्रहादिना संभूयार्त्विज्यादिना वा कृच्छ्रार्जितं द्रव्यं कश्चिद् अपहृत्य गच्छेत् स कथं ज्ञातव्यः । ज्ञातस्य वा किं तस्य कर्तव्यम् इत्य् अपेक्षिते स्तेनस्वरूपनिरूपणायाह ।

ग्राहकैर् गृह्यते चोरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधाद् वा तथैवाशुद्धवासकः ॥ २.२७० ॥

अपहृतद्रव्यस्वामिभिश् चोरत्वप्रतिपादनेन ग्राहकैर् गृह्यते चोरः । अथ वा लोप्त्रेण अपहृतद्रव्येण, अपहरणदेशाद् वा निपुणैर् उन्नीयमानेन पदेन, यद् वा पूर्वकर्मणा संभावितचौर्यापराधात्, तथान्यैर् अपि स्मृत्यन्तरोक्तचोरत्वप्रतिपादकैर् वक्ष्यमाणैर् अशुद्धवासकादिभिः । अशुद्धो वासो यस्यासाव् अशुद्धवासकः कुतस्त्यो ऽयम् इत्य् अविज्ञायमानो लुब्धवेश्यादिगृहनिवासी ॥ २७० ॥

लोप्त्रादिवच् च ।

अन्ये ऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।
द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः ॥ २.२७१ ॥
परद्रव्यगृहाणा च पृच्छका गूढचारिणः ।
निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥ २.२७२ ॥

प्रमाणान्तर्मूलत्वाद् अस्याः स्मृतेस् तदनुसारेणैव विविच्य व्याख्या कार्या । पदार्थास् तु निगदोक्ता एव ॥ २७१–२७२ ॥

उक्तन्यायानुसारेण च ।

गृहीतः शङ्कया चौर्ये नात्मानं चेद् विशोधयेत् ।
दापयित्वा हृतं द्रव्यं चोरदण्डेन दण्डयेत् ॥ २.२७३ ॥

स्मृत्यन्तरानुसारेण यथार्हं दण्डकल्पना ॥ २७३ ॥

लोप्त्रादिभिश् चौर्ये स्पष्टीकृते ।

चोरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः ।

स्मृत्यन्तरोक्तदण्डैः शारीरैश् च नेत्राद्युद्धारणलक्षणैः प्राणहरणशूलारोपणादिभिश् चेत्य् अभिप्रायः ।

एवम् अब्राह्मणम् । ब्राह्मणं तु कथं कुर्यात् ।

सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ॥ २.२७४ ॥

सचिह्नं श्वपदाद्यङ्कितम् । स्पष्टम् अन्यत् ॥ २७४ ॥

प्रयत्नेनान्विष्यमाणघातकचोराद्यनुपलब्धौ तु कथम् इति ।

घातितापहृते दोषो ग्रामभर्तुर् अनिर्गते ।

पदादौ प्रयातचिह्न इति शेषः ।

विवीतभर्तुस् तु पथि

विवीताद्युपकण्ठ इति शेषः । तुशब्दो ऽन्यस्यापि समर्थस्य यथासंनिधानं दोषवत्त्वज्ञापनार्थः ।

चोरोद्धर्तुर् अवीतके ॥ २.२७५ ॥

पूर्वोक्ताद्यभावे चोरोद्धर्तुर् एव दोषः । सर्वथा चापहृतं द्रव्यं प्रयत्नेनान्विष्य राज्ञा लब्धव्यम् इत्य् अभिप्रायः । यद् वा अपहृते द्रव्ये घातिते च सद्रव्यके चोरे द्रव्यानुपलब्धौ कस्य दोष इत्य् अपेक्षिते ग्रामभर्तुर् अनिर्गत इत्यादि समानम् ॥ २७५ ॥

असंनिहिते तु ग्रामभर्तरि ।

स्वसीम्नि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः कृष्टाद् दशग्राम्य् अपि वा तथा ॥ २.२७६ ॥

स्वशब्दो धनज्ञात्यर्थः । यत्र द्विपदचतुष्पदाद्यनवरतं संचरति, सा स्वसीमा । स्पष्टम् अन्यत् ॥ २७६ ॥

चोरादिविशेषे तु वधप्रकारम् आह ।

वन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः ।
प्रसह्यघातिनश् चैव शूलम् आरोपयेन् नरान् ॥ २.२७७ ॥

तथाशब्दः प्रकारार्थः । नरवचनम् अब्राह्मणार्थम् । स्पष्टम् अन्यत् ॥ २७७ ॥

द्रव्यादिविशेषापेक्षया तु ।

**
उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।
कार्यौ द्वितीये ऽपराधे करपादैकहीनकौ ॥ २.२७८ ॥

उत्क्षेपकः पटाक्षेपकः । ग्रन्थिभेदको ग्रन्थिभेत्ता । ताव् उभाव् अपि करसंदंशहीनौ प्रथमे ऽपराधे कार्यौ । करसंदंशो ऽङ्गुलयः, तद्धीनौ यद् वा करसंपुटः करसंदंशः, तद्धीनौ । अन्यतरहस्तच्छेदनम् इत्य् अर्थः । द्वितीये ऽपराधे त्व् एको हस्तः पादश् च । स्पष्टम् अन्यत् ॥ २७८॥

यश् चायम् उक्तः शारीरो दण्डः, यश् च स्मृत्यन्तरोक्तो धनदण्डः, तत्र सर्वत्र साधारणो ऽयं न्यायबीजसंक्षेपः ।

क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः ।
देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २.२७९ ॥

अन्यत्रापीति शेषः ॥ २७९ ॥

किं च ।

भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् ।
दत्त्वा चोरस्य हन्तुर् वा जानतो दण्ड उत्तमः ॥ २.२८० ॥

चोरो ऽयं साहसिको वा प्रसह्य हन्तीत्य् एवं जानतश् चोरसाहसिकयोर् भक्तादिदानं कुर्वतो दण्ड उत्तमसाहसः । स्पष्टम् अन्यत् ॥ २८० ॥

स्त्रीष्व् अदुष्टासु चोरयितुम् ।

शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।
उत्तमो वाधमो वापि पुरुषः स्त्रीप्रमापणे ॥ २.२८१ ॥

ब्राह्मणस्त्रीशस्त्रावपतने गर्भस्य चाविशेषेण व्यापत्ताव् उत्तमो दण्डः कार्यः, वध इत्य् अर्थः । उत्तमो वा ब्राह्मणः, अधमो वा शूद्रादिः, अपिशब्दान् मध्यमो ऽपि क्षत्रियादिः पुरुषः स्त्रीप्रमापणे वध्य एवेत्य् अभिप्रायः । तथा च कात्यायनः ।

गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातने ।
अदुष्टां योषितं हत्वा हन्तव्यो ब्राह्मणो ऽपि हि ॥ इति (क्स्म् ८०६) ॥ २८१ ॥

स्तेयव्यतिरेकेणापि तु ।

विषप्रदां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम् ।
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २.२८२ ॥

औषधादिव्याजेन विषप्रदां स्त्रियम् । चशब्दात् पुरुषं च । एवकारो ऽन्यत्र स्त्रीवधाभावज्ञापनार्थः । वधाभावे ऽपि विषादिमृत्युनिमित्तप्रयोक्त्री हन्तव्येत्य् अर्थः । पुरुषघ्नीं साहसिकपरपुरुषप्रसङ्गातिशयात् पुरुषमारणनिमित्तभूताम् । ज्ञात्यादिभयाच् च गर्भं पातयित्वागर्भिण्य् अहम् इति या वदति (?), ताम् अगर्भिणीम् आहुः । तथा च स्मृत्यन्तरम् ।

या पातयित्वा स्वं गर्भं ब्रूयाद् अहम् अगर्भिणी ।
ताम् अप्सु प्रक्षिपेद् राजा जारैश् च नरमारिणीम् ॥ इति ।

सेतुः कुल्यासंक्रमः, मर्यादा वा । स्पष्टम् अन्यत् ॥ २८२ ॥

भर्त्रादीनां तु विषप्रदानादौ वधप्रकारम् आह ।

विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् ।
विकर्णकरनासोष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २.२८३ ॥

गुरुः श्वशुरादिः । निजा भ्रात्रादयः । स्पष्टम् अन्यत् ॥ २८३ ॥

विषाग्निदानेन च वधसिद्धाव् अयं मारणविधिः, भर्त्रादीनां त्व् इदानीं सामान्येनाविज्ञातकर्तृकवधनिष्पत्ताव् अन्वेषणप्रकारम् आह ।

अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितो वास्य परपुंसि रताः पृथक् ॥ २.२८४ ॥

हन्तुर् अविज्ञाने ऽनन्तरम् एव शीघ्रं हतस्य पुत्राः स्वजनाश् च प्रष्टव्याः कलहं केन सहास्य कलहो भूतपूर्वः । साक्षारः क एनं प्रतीत्यर्थः । योषितश् चास्य भार्याः किं क्वापि परपुरुषे सक्ता इति । एवं पृथक् पृथग् ज्ञातयः प्रष्टव्याः । तत्प्रातिवेश्यादौ वा याः परपुंसि रता योषितः पृथक् एकैकशः प्रष्टव्याः । तदीयभार्या एव वा सपत्न्यः परपुरुषप्रसक्तिम् अन्योन्यं प्रष्टव्याः । प्रमाणान्तरमूलत्वाद् अस्यार्थस्य तदनुसार्यन्वेषणं कार्यम् ॥ २८४ ॥

किं च ।

स्त्रीवृत्तिद्रव्यकामो वा केन वायं गतः सह ।
मृत्युदेशसमासन्नं पृच्छेद् वापि जनं शनैः ॥ २.२८५ ॥

स्त्र्यादिकामो वास्य कीदृश इत्य् एवं च पुत्रादयः प्रष्टव्याः । किम् अस्य क्वचित् परस्त्रीप्रसङ्ग आसीत् । का वास्य वृत्तिः । किं वास्य द्रव्यम् अभिप्रेतं, शरीरलग्नं वा । केन वा सहायं गृहान् निर्गतः । केन वास्य मैत्रम् । अनेकविधत्वाद् दुष्टजनचेतसां सर्वम् एवमादि प्रष्टव्यम् । यत्र वासौ व्यापातितः, तं देशम् आसन्नो गोपालादिजनः शनैः प्रष्टव्यः । को ऽत्र तदानीं भवद्भिर् दृष्ट इत्येवम् अनुमानकुशलतया घातको ऽन्वेष्टव्यः । घातकश् चात्रोदाहरणार्थः । सर्वेषाम् एव त्व् अकार्यकारिणाम् एवम् अन्वेषणप्रकार इत्य् अवसेयम् ॥ २८५ ॥

अन्विष्य घातकास् तथा वक्ष्यमाणाश् च ।

क्षेत्रवेश्मग्रामवनविवीतादेश् च दाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना ॥ २.२८६ ॥

चशब्दः श्रोत्रियादिस्त्र्यर्थः । स्पष्टम् अन्यत् ॥ २८६ ॥

इति स्तेयप्रकरणम् ।

**