२२ सम्भूय-समुत्थान-प्रकरणम्

अथ संभूयसमुत्थानप्रकरणम्

वाणिज्यप्रसङ्गात् संभूयोत्थानम् आह ।

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रवं यथा वा संविदाकृता ॥ २.२६४ ॥

सर्वं लाभम् एकीकृत्य यथाद्रव्यं विभागः कार्यः । लाभस्य मूल्यानुसारित्वात् कर्मापेक्षया वा यथा संवित् परिभाषा अन्योन्यम् आकृता मर्यादा कृतेत्य् अर्थः । स्पष्टम् अन्यत् ॥ २६४ ॥

एवं कृतसमयानां व्यवहारापेतं स्वाच्छन्द्यात् ।

प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम् ।
स तद् दद्याद् विप्लवाच् च रक्षिता दशमांशभाक् ॥ २.२६५ ॥

प्रतिषिद्धम् अनादिष्टम् अन्यैर् वणिग्भिर् अननुष्ठितम् इति शेषः । किं च प्रमादाद् यच् च नाशितं, स तद् दद्यात् । अस्यानपेक्षयैव । विप्लवात् तु रक्षिता दशमांशभाग् रक्षितद्रव्याद् रक्षिता लाभाद् दशमांशं प्राप्नुयाद् इत्य् अर्थम् ॥ २६५ ॥

इदानीं राजभाव्यम् निरूपयति ।

अर्घप्रक्षेपणाच् छुल्कं विंशद्भागं नृपो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥ २.२६६ ॥

यो ऽर्घो राज्ञा प्रक्षिप्तः स्थापितः, तत एवार्घस्यापनाद् विक्रीतानां विंशतिभागो राजभाव्यः शुक्लः क्रेतृविक्रेतृभ्याम् उभाभ्याम् अन्योन्यम् इच्छयान्यतरेण वा देयः । यच् च राज्ञा व्यासिद्धं राजयोग्यं च हस्त्यादिद्रव्यं राजन्य् अनावेद्यानाख्याय विक्रीतं तद् राजगाम्य् एव सर्वम् इत्य् अवसेयम् ॥ २६६ ॥

राजभाव्यशुल्कनिमित्तं च पण्यद्रव्यादेः ।

मिथ्या वदन् परीमाणं शुल्कस्थानाद् अपाक्रमन् ।
दाप्यस् त्व् अष्टगुणं यश् च स व्याजक्रयविक्रयी ॥ २.२६७ ॥

अथ किं संभूय व्यवहरताम् अन्यतरविपत्तौ तदीयं द्रव्यम् अन्यैर् वणिग्भिर् ग्रहीतव्यम् । नेत्य् उच्यते । किं तर्हि ।

देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः।
ज्ञातयो वा हरेयुस् तद् आगतैस् तैर् विना नृपः ॥ २.२६८ ॥

देशान्तरगते प्रेते आयव्ययविशुद्धं तदीयम् अंशं यथाविभजमानं रिक्थिनो ऽन्ये गृह्णीयुः, तदभावे तु राजा गृह्णीयात् । किम् अर्थं पुनर् इदम् उच्यते, ऋणदाने हि प्रतिषेधात् । तथा च गौतमः- “प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डा न पुत्रान् अध्यावहेयुः” इति (ग्ध् १२.४१) । ऋणवच् च धनसंबन्धो ऽपीति तदभाक्त्वम् एव युक्तम् इत्य् आशङ्कानिवृत्त्यर्थम् एतत् । स्पष्टम् अन्यत् ॥ २६८ ॥

संभूय च प्रवृत्तानां स्वामिकर्मकरादीनाम् अन्योन्यम् अयं विधिः ।

जिह्मं त्यजेयुर् निर्लाभम् अशक्तो ऽन्येन कारयेत् ।
अनेन विधिना ख्यातम् ऋत्विक्कर्षककर्मिणाम् ॥ २.२६९ ॥

अन्योन्यं स्वामिकर्मकरसामाजिकादयो जिह्मं कुटिलं व्यभिचारिणं त्यजेयुः, तथा लाभशून्यम् । प्रवृत्तस् तु स्वयम् अशक्तो ऽप्य् अन्येनाविरोधिना स्वकार्यं सामाजिकं कारयेत् । यो ऽयं संभूयोत्थाने विधिर् उक्तः, अनेनैव विधिना निरूपितम् ऋत्विगाद्यनुष्ठानम् अपि द्रष्टव्यम् । स्मृत्यन्तरात् तु वैशेषिकर्त्विगाद्यनुष्ठानप्रपञ्चो ऽन्वेष्टव्यः । स्पष्टम् अन्यत् ॥ २६९ ॥

इति संभूयसमुत्थानप्रक्रणम् ।

**