२१ विक्रीयासम्प्रदान-प्रकरणम्

अथ विक्रीयासंप्रदानप्रकरणम्

क्रयविक्रयप्रसङ्गाद् विक्रीयासंप्रदानम् इदानीम् आह ।

गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति ।
सोदयं तस्य दाप्यो ऽसौ दिग्लाभं वा दिशां गते ॥ २.२६० ॥

यदि दत्त्वान्यथा मूल्यं क्रेता पण्यं न गृह्णीयात्, तदा क्रेतुर् एव दोषः । अन्यथा तु विक्रेतुर् एवेत्य् अभिप्रायः ॥ २६० ॥

गृहितमूल्ये तु ।

राजदैवोपघातेन पण्ये दोषम् उपागते ।
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥ २.२६१ ॥

“ममेदं पण्यम् अर्पय” इत्य् एवं याचितस्याप्य् अनर्पयतो यस् तत्रापचयः, स विक्रेतुर् एवेत्य् उक्तम् । यदि तु राजकृताद् व्यासेधाद् दैविकाद् वा पर्जन्यादिदोषात् पण्यं दोषवत् स्यात्, तत्र या मूल्यहानिः, सा विक्रेतुर् एवेत्य् अवसेयम् ॥ २६१ ॥

क्रेत्रा तूत्सङ्कलितम् एव हि ।

अन्यहस्ते तु विक्रीतं दुष्टं वादुष्टवद् यदि ।
विक्रीयते दमस् तत्र तन्मूल्याद् द्विगुणो भवेत् ॥ २.२६२ ॥

यस् त्व् अन्यत्र क्रेत्रा तूत्सङ्कलितम् एव विक्रीतम् अपि पुनर् विक्रीणीयाद्, अदुष्टम् इति वा कृत्वा दुष्टम् अपि, तस्य द्रव्यमूल्याद् द्विगुणो दण्डः । क्रेतुश् च द्रव्यमूल्यं वा प्रत्यर्पणीयम् । स्पष्टम् अन्यत् ॥ २६२ ॥

इदानीं क्रयविक्रयानुशयस्य विषयं प्रदर्शयति ।

क्षयं वृद्धिं च वणिजा पण्यानां तु विजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥ २.२६३ ॥

चन्द्रगत्यादिवशेन पण्यानाम् अर्घहानिर् वृद्धिर् वा भवति । तच् चैवं विजानता वणिजा क्षयं वृद्धिं वा निरूप्याविरोधे सति क्रीत्वा विक्रीय वा नानुशयः कार्यः । कुर्वतो वा पण्यमूल्यषड्भागो राजदण्डः । स्पष्टम् अन्यत् ॥ २६३ ॥

इति विक्रीयासंप्रदानप्रकरणम् ।

**