२० साहस-प्रकरणम्

अथ साहसप्रकरणम् ।

स्तेयम् अपि प्रसह्य कृतं साहसम् एव यस्माद्, अतो नात्र स्तेयदण्डः । किं तर्हि ।

सामान्यप्रसभद्रव्यहरणात् साहसं स्मृतम् ।
तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २.२३६ ॥

सामान्यं द्रव्यं द्वयोर् यद् अन्यतरेण प्रसभं प्रसह्यान्यतरं परिभूयापह्रियते, तत् स्तेयम् अप्य् प्रसह्य हरणात् साहसम् इति स्मृतं महर्षिभिर् यस्मात्, तस्मान् न तत्र स्तेयदण्डः । किं तर्हि अपहृतद्रव्यमूल्याद् द्विगुणः साहसिकदण्ड इत्य् अभिप्रायः । प्रसह्यापहृत्य निह्नवे कृते मूल्याच् चतुर्गुणः । सामान्यद्रव्यहरणं चोदाहरणार्थम् । अन्यद् अपि यत् प्रसह्य स्तेयम् अन्यद् वा क्रियते, तत् सर्वं साहसम् एव । तथा च नारदः ।

सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥ इति (न्स्म् १४.१) ॥ २३६ ॥

अन्येनापि प्रयोक्तृतया ।

यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यस् त्व् एवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ २.२३७ ॥

पूर्वोक्ताद् द्विगुणं दण्डं कारयिता दाप्यः । य त्व् एवम् उक्त्वा कारयेत् “क्रियताम् इदं यद्य् अत्र कश्चिद् विरोधो भविष्यति, ततो ऽहम् एव निर्वहणं करिष्यामि” इति स चोक्तद्विगुणदण्डाच् चतुर्गुणं दण्ड्य इत्य् अवसेयम् ॥ २३७ ॥

साहसिकत्वाद् एव च ।

अर्घ्याक्रोशातिक्रमकृद् भ्रातृभार्याप्रहारदः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २.२३८ ॥
सामन्तकुलिकादीनाम् अपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषाम् इति निश्चयः ॥ २.२३९ ॥

स्पष्टार्थौ श्लोकौ ॥ २३८–९ ॥

तथा ।

स्वच्छन्दविधवागामी विक्रुष्टे ऽनभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश् चोत्तमान् स्पृशन् ॥ २.२४० ॥
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्न् अयोग्यो योग्यकर्मकृत् ॥ २.२४१ ॥
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकः ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ २.२४२ ॥
पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः ।
एषाम् अपतितान्योन्यत्यागी च शतदण्डभाक् ॥ २.२४३ ॥

एतद् अपि श्लोकचतुष्टयं स्पष्टार्थम् एव ॥ २४०–३ ॥

प्रक्षालनार्थम् अर्पितम् ।

वसानस् त्रीन् पणान् दाप्यो रजकस् तु परांशुकम् ।
विक्रयापक्रयाधानयाचितेषु पणान् दश ॥ २.२४४ ॥

परांशुकम् उत्कृष्टं वस्त्रम् । तत्परिधाने रजकस्य त्रिपणो दमः । एवं मध्यमाधमेषु पणापचयकल्पना । तथाभ्यासापेक्षया व्यतिरेककल्पना । विक्रयादिकरणेषु तु स्वामिनो मूल्यं, राज्ञे दण्डश् चेत्य् अवसेयम् । भाण्डकेनार्पणम् अपक्रयः । आधमनम् आधानम् । स्पष्टम् अन्यत् ॥ २४४ ॥

एवमादेयव्यवहारविषये तावद् दण्डव्यवस्थोक्ता । भ्रात्रादिकृते त्व् अनादेयव्यवहरे ।

पितापुत्रविरोधादौ साक्षिणां द्विशतो दमः ।
सान्तरश् च तयोर् यः स्यात् तस्याप्य् अष्टशतो दमः ॥ २.२४५ ॥

सर्वत्र पितापुत्रादिविरोधे ऽनादेयव्यवहारे साक्षिनो द्रष्टारो वा ये स्युः, साक्षिवचनस्य लक्षणार्थत्वात्, तेषां द्विशतो दमः । यस् तु पितापुत्रादीनां सान्तरः विश्लेषकरः स्यात्, तस्याप्य् अष्टशतम् । यद् वा तयोर् एव पितापुत्रयोर् यः सान्तरः स्याद् व्याजव्यवहर्तेत्य् अर्थः । द्वयम् अप्य् एतद् अविरोधाद् युक्तम् ॥ २४५ ॥

स्वाभिप्रेतव्यवहारसिद्ध्यर्थम् ।

तुलाशासनमानानां कूटकृन् नाणकस्य च ।
एभिश् च व्यवहर्ता यः स दाप्यो दमम् उत्तमम् ॥ २.२४६ ॥

शासनग्रहणं सर्वलेख्यलक्षणार्थम् । मानानि सेतिकाप्रस्थप्रभृतीनि । स्पष्टम् अन्यत् ॥ २४६ ॥

जानन्न् अपि तु लोभादिना ।

अकूटं कूटकं ब्रूते कूटं यश् चाप्य् अकूटकम् ।
स नाणकपरीक्षी तु दाप्यः प्रथमसाहसम् ॥ २.२४७ ॥

तुशब्दः सुवर्णमाणिक्यादाव् अतिरिक्तदण्डज्ञापनार्थः ।

अज्ञानाद् विपर्ययतो वा ।

भिषङ् मिथ्याचरन् दाप्यस् तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं दाप्य उत्तमं राजमानुषे ॥ २.२४८ ॥

पशवो वर्णापशदाश् च तिर्यञ्चः । विट्छूद्राः मानुषम् । क्षत्रिया ब्राह्मणाश् च राजमानुषम् । एवं मिथाचरतो वैद्यस्य प्रथमसाहसादयो दण्डाः । उदाहरणार्थं चैतत् । सर्वथा चिकित्स्यस्वरूपं पीडाविशेषं च वैद्यकृतम् आलोच्य यथार्थं दण्डकल्पनेत्य् अवसेयम् ॥ २४८ ॥

वर्णापर्थिकथया (?) तु ।

**
अबन्ध्यं यश् च बध्नाति बन्ध्यं यश् च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम् ॥ २.२४९ ॥

अप्राप्तव्यवहारो व्यवहारेणास्पष्टीकृतः । स्पष्टम् अन्यत् ॥ २४९ ॥

अकूटेनैव कौशलात् ।

मानेन तुलया वापि यो ऽंशम् अष्टकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ २.२५० ॥

एतद् अपि स्तेयद्रव्यसारतापेक्षया व्यवस्थापनीयम् । स्पष्टम् अन्यत् ॥ २५० ॥

सादृश्यादिना क्रेतुर् भ्रमं चिकीर्षुः ।

**
भेषजस्नेहलवणगन्धधान्यगुलादिषु ।
पण्येषु हीनं क्षिपतः पणान् दाप्यस् तु षोडश ॥ २.२५१ ॥

हीनं हीनमूल्यं । ऋज्व् अन्यत् ॥ २५१ ॥

क्रेतुः पण्यस्वरूपाज्ञत्वम् अभिप्रेत्य ।

मृच्चर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् ।
अजतेर् जातिकरणाद् विक्रये ऽष्टगुणो दमः ॥ २.२५२ ॥

मृदादीनाम् अजात्यं जात्यम् इति कृत्वा विक्रीणन्न् उक्तषोडशपणाद् अष्टगुणं दण्ड्यः । स्पष्टम् अन्यत् ॥ २५२ ॥

यदि तु समुद्गकादिस्थं दर्शयित्वा समुद्गकान्तरपरिवर्तनेन कर्पूरादिसारद्रव्यं कृत्रिमकरणेन वा कश्चिद् आधानं विक्रयं वा कुर्यात्, तस्यापि व्याजव्यवहारिणः ।

समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ २.२५३ ॥

उक्तार्थः श्लोकः ॥ २५३ ॥

किं स्वमत्यैव दण्डकल्पना । नेत्य् आह ।

भिन्ने पणे तु पञ्चाशत् पणे तु शतम् उच्यते ।
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ तु वृद्धिमान् ॥ २.२५४ ॥

अनिर्दिष्टविषये तु द्रव्ये मूल्यानुसारिणी दण्डकल्पनेत्य् अभिप्रायः ॥ २५४ ॥

एवं तावत् प्रत्येकव्यतिक्रमे ऽनुशासनम् उक्तम् । इदानीं कारुकादीनां संभूयव्यतिक्रमे ऽनुशासनम् आह ।

संभूय कुर्वताम् अर्घं साबाधं कारुशिल्पिनाम् ।
अर्घस्य हानौ वृद्धौ वा साहस्रो दण्ड उच्यते ॥ २.२५५ ॥

संभूयैकमत्येन कारुशिल्पिनां साबाधं पीडाकरम् अन्यशिल्पिजनस्य तन्निष्पादितद्रव्यस्य वा कुर्वतां कार्षापणसहस्रं दण्डः शिल्पार्घस्य हानौ वृद्धौ वा कर्तव्यः । ये हि भाजनादीनि द्रव्याणि स्वयम् एव कृत्वा विक्रीणन्ति, ते शिल्पिनः कांस्यकारादयः । ये तु परकीयान्य् एव गृहादीनि निष्पादयन्ति, ते कारवः । तेषाम् आगन्तुकशिल्पिजनस्यानवकाशार्थं कारयितृजनार्थितातिशयाद् वा अर्घस्य हानिं वृद्धिं वा यदा कुर्युः, तदायं दण्ड इत्य् अवसेयम् ॥ २५५ ॥

उक्ताद् एव हेतोः ।

संभूय वणिजां पण्यम् अनर्घेणोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ २.२५६ ॥

केन तर्ह्य् अर्घेण पण्यानां विक्रय इति । उच्यते ।

राजनि स्थाप्यते यो ऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा

कार्य इति शेषः ।

यश् चासौ राजकुलाधिष्ठितनिपुणवणिङ्निरूपितो दिवसार्घः, तेन क्रीतानां पुनर् विक्रयः कस्मात्, यस्माच् च ।

विक्रयो वापि वणीजां लाभतः स्मृतः ॥ २.२५७ ॥

स्मृत इति वचनाल् लाभेनापि विक्रयो धर्म इति ज्ञायते ॥ २५७ ॥

लाभकल्पना तु वणिजां किं यदृच्छयैव । नेत्य् उच्यते । कथं तर्हि ।

स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ २.२५८ ॥

यो यस्य पण्यस्य सद्यः क्रयविक्रयी, स तस्य दशकं पञ्चकं वा गृह्णीयाद् इत्य् अर्थः ॥ २५८ ॥

राज्ञा तु किं यदृच्छयैवार्घः स्थाप्यः । नेत्य् आह ।

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घो ऽनुग्रहकृत् कार्यः क्रेतुर् विक्रेतुर् एव च ॥ २.२५९ ॥

इति साहसप्रकरणम् ।

**