१९ दण्ड-पारुष्य-प्रकरणम्

अथ दण्डपारुष्यप्रकरणम् ।

वाक्पारुष्यपूर्वकत्वाद् दण्डपारुष्यस्यानन्तरम् आरम्भः । पाण्यादिनाभिघातादिकं दण्डपारुष्यम् । तत्र निर्जने ऽभिहत्य न मयायम् अभिहत इत्य् एवं मिथ्यावादित्वे दौष्ट्यातिशयाद् वा क्षताद्यात्मनः कृत्वा निर्दोषजनाध्यारोपे कथं स्याद् इत्य् अपेक्षित आह ।

असाक्षिकहते चिह्नैर् युक्तिभिश् चागमेन च ।
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृताद् भयात् ॥ २.२१६ ॥

असाक्षिके ऽभिहते क्षतादिभिश् चिह्नैस् तद्व्यभिचरे वा कूटचिह्नकारिदुष्टपुरुषभयाद् व्यवहार एव प्रगुक्तन्यायेन चतुष्पाद् युक्त्यागमानुसारेणैव विद्वज्जनसमक्षं स्वयं वा राज्ञा द्रष्टव्यः । अयं च सर्वव्यवहारपदसाधारणः श्लोकः कार्यगौरवप्रतिपत्त्यर्थम् इहाम्नात इत्य् अवसेयम् ॥ २१६ ॥

किं च ।

यत्र नोक्तो दमः सर्वैः प्रमादेन महात्मभिः ।
तत्र कार्यं परिज्ञाय कर्तव्यं दण्डधारणम् ॥ २.२१७ ॥

नानभिधानभ्रान्त्यानध्यवसायः कार्यः, किं तर्हि उक्तम् अनुक्तं वा द्वयोर् गुणादिभिर् अनुबन्धादिभिश् च स्वरूपम् आलोच्य पीडानुसारेण सर्वत्र दण्डमानकर्तव्यताध्यवसानम् इत्य् अभिप्रायः ॥ २१७ ॥

एतद् एवोदाहरणमात्रतया प्रपञ्चयति ।

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥ २.२१८ ॥

मेध्यत्वे ऽपि भस्मकर्दमधूलिप्रक्षेपणे निर्दोषस्य कृते दशपणो दण्डः स्मृत इत्य् अल्पो ऽपि स्मरणानुसाराद् अविरुद्ध इत्य् अवसेयम् । अमेध्यादिस्पर्शे तु ततो द्विगुणः विंशतिपण इत्य् अर्थः । निष्ठ्यूतग्रहणं निष्ठ्युतसदृशामेध्यस्य प्रतिपत्त्यर्थम् । तथा च मूत्रपुरीषादौ दण्डातिरेकसिद्धिः ॥ २१८ ॥

यच् चैतद् उक्तम् ।

समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च ।
हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् ॥ २.२१९ ॥

कृतव्याख्यानम् एतत् ॥ २१९ ॥

अयं चान्यो विशेषः ।

विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः स्पर्शने तु तदर्धिकः ॥ २.२२० ॥

उद्गूर्यानिपाते प्रथमसाहसो दण्डः । प्रहारायोद्गूरणेनैव विस्रम्भेणाब्राह्मणस्य ब्राह्मणशरीरस्पर्शने ऽर्धदण्डः । स्पष्टम् अन्यत् ॥ २२० ॥

अनुत्कृष्टविषयत्वे तु ।

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २.२२१ ॥

तुशब्दः प्रत्येकम् अवधारणार्थः । हस्त एवोद्गूर्णे दशकः पाद एव विंशतिकः । तथा च समुच्चये समुच्चयसिद्धिः । एवम् अन्यत्रापि द्रष्टव्यम् । एतच् च सर्ववर्णानां तुल्यगुणादियोगे स्यात् । शस्त्रोद्गूरणे तु मध्यमसाहसो दण्डः ॥ २२१ ॥

जात्यादिसाम्य एव तु ।

पादकेशांशुककरालुञ्छनेषु पणान् दश ।
पीडाकर्षाञ्जनावेष्ट्य पादाध्यासे शतं दमः ॥ २.२२२ ॥

पादकेशवस्त्राणाम् आलुञ्छने अवधूनने साक्षेपं दशपणो दण्डः स्यात् । पीडाकर्षाञ्जनेन त्व् आवेष्ट्य ग्रीवादौ पादन्यासे शतं दण्ड्यः । आञ्जनं ध्यामीकरणम् । पीडया कर्षणेनाञ्जनं पीडाकर्षाञ्जनम् । आञ्जनेन ध्यामीकरणेन त्व् आवेष्ट्य वशं नीत्वेत्य् अर्थः । स्पष्टम् अन्यत् ॥ २२२ ॥

साम्य एव ।

शोणितेन विना कुर्वन् दुःखं काष्ठादिभिर् नरः ।
द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शने ऽसृजः ॥ २.२२३ ॥

असृजो लोहितस्येत्य् अर्थः । स्पष्टम् अन्यत् ॥ २२३ ॥

निकृष्टविषयत्वे तु ।

करपाददन्तभङ्गे छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २.२२४ ॥

साम्ये हि शस्त्रोद्गूरणमात्र एव मध्यमस्योक्तत्वान् निकृष्टविषयम् एतद् इति व्याख्येयम् । ऋज्व् अन्यत् ॥ २२४ ॥

तथा ।

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्नां च भङ्ग उत्तमसाहसः ॥ २.२२५ ॥

चेष्टादिप्रतिरोधके ऽभिघाते अक्ष्यादीन्द्रियाधिष्ठानप्रत्येकभेदने कन्धरादिभेदने चोत्तमसाहसो दण्डः । चेष्टानिरोधो मूर्छा । भोजननिरोधो ऽत्यभिघाताद् भोक्तुम् अशक्तिः । वागुच्चारणाशक्तिर् वाग्रोधः । कन्धरा गलस्कन्धसंचारिणी सिरा । स्पष्टम् अन्यत् ॥ २२५ ॥

सर्वत्रैवास्मिन् प्रकरणे ।

एकं घ्नतां बहूनां तु यथोक्ताद् द्विगुणा दमाः ।
कलहापहृतं देयं दण्डश् च द्विगुणस् ततः ॥ २.२२६ ॥

कलहापहृताद् इत्य् अर्थः । एतच् चाभिहतायैव देयं राजदण्डव्यतिरेकेणेत्य् अवसेयम् । तथा च बृहस्पतिः ।

दण्डस् त्व् अभिहतायैव दण्डपारुष्यकल्पितः ।
हृते तद्द्विगुणं चान्यद् राजदण्डस् ततो ऽधिकः ॥ इति । (बृस्म् २१.१४)

यत् तु नारदीयम् ।

यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जनं नृषु ।
स एव विनयं कुर्यान् न तद्विनयभाङ् नृपः ॥ इति । (न्स्म् १५–१६.१४)

एतच् छूद्रविषयं द्रष्टव्यम् । शूद्राणां ह्य् उत्कृष्टापराधे राज्ञार्थदण्डो न ग्राह्यः । किं तर्हि । अनावेद्य स्वयम् एवोत्कृष्टैर् अर्थदण्डेन विनयः कार्यः । राज्ञा त्व् आवेदिते वध एव । तथा चानन्तरम् एवाह ।

मला ह्य् एते मनुष्येषु धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ इति । (न्स्म् १५–१६.१५)

स्पष्टम् अन्यत् ॥ २२६ ॥

किं च ।

दुःखम् उत्पादयेत् यस् तु स समुत्थानजं व्ययम् ।
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ २.२२७ ॥

यो दुःखम् उत्पादयेत् तेन यावत् सम्यग् अस्योत्थानं निर्दुःखता भवति, तावद् यो व्ययः स समुत्थानजो व्ययः, स देयः । चकाराद् राजावेदनप्रवृत्त्युपक्षयश् च । राज्ञे च यथोदाहृतो दण्डः । स्वयं चाददद् राज्ञा दाप्यः । स्पष्टम् अन्यत् ॥ २२७ ॥

इदानीं दण्डपारुष्यसामान्यात् साहसव्यवहारम् आह ।

तारिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश ।
ब्राह्मणः प्रातिवेश्यानाम् एतद् एवानिमन्त्रणे ॥ २.२२८ ॥

तारिकस्य स्थलनिमित्तराजभाव्यशुल्कग्रहणे ब्राह्मण्यदर्पाच् च योग्यप्रातिवेश्यब्राह्मणानिमन्त्रणे दशपणो दण्डः । ब्राह्मणग्रहणं च गुणार्थत्वात् सर्वत्रैवर्णिकार्थम् । दर्पकृतत्वाच् चैवमादेः साहसत्वम् ॥ २२८ ॥

दर्पेणैव च ।

अभिघाते तथा भेदे छेदे कुड्यावपातने ।
पणान् दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥ २.२२९ ॥

प्रातिवेशिकगृहाणां दौरात्म्यात् पाषाणादिनाभिघाते कृते पञ्च पणान् दाप्यः । तथा भेदे ऽभिघातसंत्रासाज् जाते दश पणान् दाप्यः । छेदने तु तद्द्वैधीभावे कुड्यावपातने वा विंशतिम् । व्यये तु व्यापन्नसमाधानार्थं गृहिणे दद्यात् सर्वत्र साहसिकत्वात् ॥ २२९ ॥

परकीये ।

दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्ये पणान् दाप्यो द्वितीये मध्यमं दमम् ॥ २.२३० ॥

दुःखोत्पादि द्रव्यं कण्टकादि । प्राणहरं सर्पादि । स्पष्टम् अन्यत् ॥ २३० ॥

दुःखे ऽथ शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां स्याद् द्विपणप्रभृति क्रमात् ॥ २.२३१ ॥

द्विगुण इति शेषः । शोणितोत्पादशाखाङ्गच्छेदनेषूत्तरोत्तरो द्विगुणः । शृङ्गकर्णपुच्छादीनि शाखाः । चक्षुरादीन्य् अङ्गानि । क्षुद्रपशवश् छागादयः । स्पष्टम् अन्यत् ॥ २३१ ॥

परकीयानां तु ।

लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च ।
महापशूनाम् एतेषु स्थानेषु द्विगुणा दमाः ॥ २.२३२ ॥

स्वकीये द्विपणादिमध्यमान्ता यथास्थनं दण्डाः, परकीये तु दण्ड्ō मूल्यं चेति योज्यम् । महापशवो गवादयः । तेषां प्रागुक्तशोणितदुःखोत्पादिषु स्थानेषु द्विपणाद्युक्तदण्डाद् द्विगुणा यथास्थानं दण्डाः कार्याः ॥ २३२ ॥

आरामारोपितानां सपरिग्रहाणाम् ।

प्ररोहशाखिकाशाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां तु विंशतिद्विगुणा दमाः ॥ २.२३३ ॥

उपजीव्यद्रुमा आम्रादयः । तेषां प्ररोहच्छेदने विंशतिपणो दमः । शाखिकादिच्छेदनेषूत्तरोत्तरद्विगुणकल्पना । प्ररोहः पल्लवः । अल्पाः शाखाः शाखिकाः । स्पष्टम् अन्यत् ॥ २३३ ॥

उपजीव्यानाम् एव च ।

चैत्यश्मशानसीमान्तपुण्यस्थाने नृपालये ।
जातद्रुमाणां द्विगुणा दमा वृक्षे च विश्रुते ॥ २.२३४ ॥

चातुर्थिकाद्यपनोदनसमर्थः पिप्पलादिवृक्षो विश्रुतः । स्पष्टम् अन्यत् ॥ २३४ ॥

चैत्यादिजातानाम् एव तु ।

गुल्मगुच्छक्षुपलथाप्रतानौषधिवीरुधाम् ।
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कृन्तने ॥ २.२३५ ॥

गुल्मादीनाम् उक्तेषु चैत्यादिस्थानेषु जातानां कृन्तने प्रागुक्तप्ररोहादिक्रमेणैव स्मृताद् एकगुणाद् अर्धदण्डाः कल्प्याः । गुल्मः गुञ्जादि । गुच्छः कुन्दादि । क्षुपो जात्यादिविटपः । लता प्रसिद्धा । प्रताना वल्लरी । ग्राम्या ओषधयः । आरण्या वीरुधः ॥ २३५ ॥

इति दण्डपारुष्यप्रकरणम् ।

**