१८ वाक्-पारुष्य-प्रकरणम्

अथ वाक्पारुष्यप्रकरणम्

प्रायेण द्यूतप्रभवत्वाद् वाग्दण्डपारुष्ययोर् विनाशकारणत्वसामान्याद् वा द्यूतव्यवहारानन्तरम् आरम्भः । तत्रापि दण्डपारुष्यस्यापि कारणभूतत्वाद् वाक्पारुष्यम् एव तावद् उच्यते ।

सत्यासत्यान्यथास्तोत्रैर् हीनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदश ॥ २.२०८ ॥

हीनाङ्गाः खञ्जादयः । हीनेन्द्रियाः काणादयः । कुष्ठाद्यभिभूता रोगिणः । तेषां यद्य् अनपराधिनाम् एव चापलाद् विद्यमानेन्द्रियवैकल्यादिना सत्येनैव दुष्टया वाचा क्षेपं कुर्यात्, असत्येनापि हे काण इत्यकाणम् एवाधिक्षिपेत् । अन्यथास्त्रोत्रेण वा सातिशयस्तुतिपदैः प्रसिद्धं मूखं हे चतुर्वेदिन् इत्येवं वदन् अर्धत्रयोदशपणान् राजावेदने कृते दण्ड्यः । स्मृत्यन्तराच् च तस्यापि प्रसादनं कार्यम् ॥ २०८ ॥

राजावेदन एव च ।

अभिगन्तासि भगिनीं मातरं वा तवेति हि ।
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥ २.२०९ ॥

अयं च सवर्णानां समानगुणानां च दण्डकल्पः ॥ २०९ ॥

गुणवर्णवैषम्ये पुनः ।

अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरम् ॥ २.२१० ॥

निरूप्येति शेषः । उक्तदण्डाद् अर्धत्रयोदशपणावधिकाद् वर्णगुणाद्यधमेष्व् अर्धदण्डः । द्विगुणं च परस्त्रीषु । परशब्द उत्कृष्टार्थः । परैर् उत्कृष्टैः गुणतो वर्णतो वा परिणीताः परस्त्रियः, तास्व् अधिक्षिप्तासु । उत्तमेषु च गुणवर्णादिभिः पुरुषेषु स्त्रीषु वा । अर्धवचनं द्विगुणवचनं चोभयम् अपि यथार्हदण्डोपलक्षणार्थम् इत्य् एतद् दर्शयति । दण्डप्रणयनं कार्यम् इति न्यूनतयाधिक्येन वा यथार्हं वर्णजात्युत्तराधरम् आलोच्येत्य् अभिप्रायः । जातिशब्दश् च जन्मनिमित्तत्वाद् वयोवचनतया गुणलक्षणार्थो ऽवसेयः ॥ २१० ॥

एतद् एवोदाहरणेन स्पष्टयति ।

प्रतिलोमापवादेषु चतुस्त्रिद्विगुणा दमाः ।
वर्णान्त्येष्व् आनुलोम्येन तस्माद् एवार्धहानतः ॥ २.२११ ॥

वर्णान्त्याः शूद्राः । तेषां प्रतिलोमापवादे ब्राह्मणादिक्रमेणोक्तदण्डस्य चतुर्गुणादिकल्पनम् । एवं वैश्यक्षत्रियानुलोमान्तरप्रभवयोर् गुणाद्युत्कर्षे ऽपि योज्यम् । आनुलोम्येन तु तस्माद् एवार्धहानतः उक्तदण्डाद् अर्धापचयेन । शूद्रापवादे अर्धदण्डो वश्यस्य, पादः क्षत्रियस्य, अर्धपादो ब्राह्मणस्य । एवं गुणाद्यानुलोम्ये ऽपि योज्यम् ॥ २११ ॥

वधप्रतिज्ञया तु वाक्पारुष्ये ।

बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
शत्यस् तदर्धिकः पादनासाकर्णकरादिषु ॥ २.२१२ ॥

बाह्वादिच्छेदस् ते मया कर्तव्य इत्य् एवं तथाकरणसमर्थस्य ब्रुवतः शत्यो दमः कार्यः । शतेनाभिनिर्वृत्तः शत्यः । शतं दण्ड्य इत्य् अर्थः । पादादिच्छेदनप्रतिज्ञायां तु ततो ऽर्धं, पञ्चाशद् इत्य् अर्थः । आदिशब्दश् च दण्डपारुष्योक्तदन्तभङ्गाद्यर्थः । ऊर्वस्थि सक्थीत्य् उच्यते । स्पष्टम् अन्यत् ॥ २१२ ॥

प्रागुक्तं शक्तसंबन्धितया बाह्वादिच्छेदवाक्यम् ।

अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २.२१३ ॥

वङ्मात्रेणापि वदतः कर्तुम् अशक्तस्य दशपणो दण्डः । शक्तस् तु प्रागुक्तदण्डं दाप्यः । त्रासापनोदनाय च समर्थं क्षेमाय प्रतिभुवं दाप्यः ॥ २१३ ॥

ब्रह्महा गोघ्नो वा त्वम् इत्येवमादिके क्षेपे ।

पतनीयकृते क्षेपे दण्ड्यो मध्यमसाहसम् ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २.२१४ ॥

तथा ।

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २.२१५ ॥

नृपग्रहणम् आचार्यपितृश्रोत्रियादीनाम् अपि सामान्याल् लक्षणार्थम् । पूगशब्दश् चात्र गणमात्रवचनः । ततश् च जातिपूगानां जातिमतां गणानां क्षत्रियादिसमुदायानाम् इत्य् अर्थः । स्पष्टम् अन्यत् ॥ २१५ ॥

इति वाक्पारुष्यप्रकरणम् ।

**