१७ द्यूत-समाह्वय-प्रकरणम्

अथ द्यूतसमाह्वयप्रकरणम् ।

विसंवादप्रसङ्गेनाखिलविसंवादैककारणभूतं द्यूतसमाह्वयव्यवहारम् आह ।

गलत्सभिकवृद्धिस् तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम् ॥ २.२०३ ॥

तुशब्दो ऽवधारणार्थः । गलत्सभिकवृद्धिर् एव सभिकस्य, नान्यद् अपि स्वपरिभाषितमुखपट्टादीत्य् अभिप्रायः । गलितं निर्गलितं यत् सभिकहस्तात् पराजितानां देवनार्थं द्रव्यं, यच् च द्यूतोपकरणम् अक्षादि तद् गलत्सभिकं धूर्तमण्डलाधिपतिर् गृह्णीयात् । कियन्ति । पञ्चकं शतम् । धूर्तकितवाज् जेतुः द्यूतोपकरणनिमित्तम् । इतरात् पराजितात् प्रयुक्तस्वद्रव्यनिमित्तं दशकं शतम् इत्य् अर्थः ॥ २०३ ॥

स्वार्थहेतोर् एव च राज्ञा ।

स सम्यक् पालितो दद्याद् राज्ञे भागं यथाकृतम् ।
जितम् उद्ग्राहयेज् जेत्रे दद्याद् सत्यवचाः क्षमी ॥ २.२०४ ॥

यथाकृतं यथापरिभाषितं यथा वा स्मृत्यन्तरे निरूपितम् इत्य् अर्थः । तद् यथा बृहस्पतौ ।

राजवृद्धिः सकितवात् सभिकाद् दशकं शतम् ।
यथासमयं वा स्यात् । इति । (बृस्म् २७.३)

किं च जितं यत् कितवैः, तत् पराजितेभ्यः सभिक उद्ग्राहयेत् । जेत्रे च येन जितं तस्मै सभिक एव सत्यवचनो भूत्वाविसंवादेन क्षमी चानुतापवान् पुनर् दद्याद् इत्य् अवसेयम् ॥ २०४ ॥

यथाकृत एव ।

प्राप्ते नृपतिभागे तु प्रसिद्धे धूर्तमण्डले ।
जितं ससभिके स्थाने दापयेद् अन्यथा न तु ॥ २.२०५ ॥

किं च ।

द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि ।
राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ॥ २.२०६ ॥

स्पष्टार्थौ श्लोकौ । ननु एतद् द्यूतं स्वयंभुवा निषिद्धम् ।

प्रकाशम् एतत् तास्कर्यं यद् देवनसमाह्वयम् । इति । (म्ध् ९.२२२)

तथा चोक्तम् ।

प्रच्छन्नं वा प्रकाशं वा द्यूतं राष्ट्रे निवारयेत् ।

इति च । वेदे ऽपि “अक्षैर् मा दीव्यः” (र्व् १०.३४.१३) इति प्रतिषेधः । सत्यम् । प्रतिषेधातिक्रमेण प्रवृत्तौ श्येनादिवद् अयं विधिर् इत्य् अविरोधः । मानवस् तु दण्डविधिर् धर्मविरोधितया नानामुखत्वेन वेति ॥ २०६ ॥

प्रयोजनान्तरापेक्षया तु ।

द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात् ।
एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्वये ॥ २.२०७ ॥

एकमुखम् एकमार्गम् एकस्मिन् प्रदेशे राजकीयचारपुरुषाद्यधिष्ठितं तस्करादिप्रजाकण्टकपरिज्ञानार्थम् अधर्मरूपम् अपि धर्मान्तरोपायतया महते ऽभ्युदयाय संपद्यत इति । अतः कार्यम् एवेत्य् अभिप्रायः । ये वाखिलस्वधर्मत्यागेनापद्य् अपि द्यूतैकनिरताः तद्विषयतया स्वायंभुवे दण्डादिवचनान्य् अवसेयानि । एतेन पाषण्डादिधर्मो व्याख्यातः । यश् चायम् अक्षाद्यप्राणिदेवने द्यूताख्ये विधिर् उक्तः, समाह्वयसञ्जके ऽपि कुक्कुटमेषादिभिः सपणप्राणिद्यूते ऽयम् एव विधिर् ज्ञेयः सभिकाधीनत्वराजवृद्धिदानादिक इत्य् अभिप्रायः ॥ २०७ ॥

इति द्यूतसमाह्वयप्रकरणम् ।

**