अथ वेतनादानप्रकरणम् ।
परिभाषाप्रसङ्गेन स्वामिकर्मकरयोः परिभाषानुसारिव्यवहारव्यभिचारे विनयं वक्तुम् आह ।
गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् ।
अगृहीते समं कार्यं भृत्यैः पाल्य उपस्करः ॥ २.१९७ ॥
गृहीत्वा वेतनं कर्म तुल्यं न कुर्यात्, ततो गृहीतवेतनो द्विगुणम् आवहेद् दद्याद् इत्य् अर्थः । अगृहीते तु वेतने समं यावत् पारिभाषिकं वेतनं दत्त्वा कर्म कार्यं कारयितव्यम् । सर्वकर्मकरैश् चाप्तवेतनैर् उपस्करः समर्पितो यः कर्मकरणार्थं स पालनीयः । तथा च नारदः ।
कर्मोपकरणं चैषां क्रियां प्रति यद् अर्पितम् ।
आप्तभावेन तत् पाल्यं न जिह्मेन कथंचन ॥ (न्स्म् ६.४)
तथा ।
कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणो द्विगुणा भृतिम् आवहेत् ॥ इति (न्स्म् ६.५) ॥ १९७ ॥
अपरिभाष्य वेतनं कर्मणि कृते यद्य् अपरिभाषितत्वव्याजेन स्वामी न किंचिद् दातुम् इच्छेत्, तत्र कथम् इत्य् अपेक्षित आह ।
दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस् तु कारयेत् स महीभृता ॥ २.१९८ ॥
स्वयं च न दद्याद् इति शेषः । अपरिभाष्य वाणिज्यं पाशुपाल्यं कृषिं वा यः करोति तस्य तदुत्पन्नोपचयदशमभागभाक्त्वम् इत्य् अवसेयम् ॥ १९८ ॥
यथा स्वामिना निर्दिष्टः कर्मकरः ।
देशं कालं च यो ऽतीयात् कर्म कुर्याच् च यो ऽन्यथा ।
तत्र स्यात् स्वामिनश् छन्दो ऽधिकं देयं कृते ऽधिके ॥ २.१९९ ॥
स्वाम्युक्तदेशकालादिविपर्ययेणान्यथा वा कर्मणि कृते भृतिदानं प्रति स्वामिनः स्वेच्छा । विनयातिरेकाच् च कर्मकरैर् अधिके कर्मनि कृते स्वामिना स्वेच्छयैवाधिकं देयम् इत्य् अवसेयम् ॥ १९९ ॥
असमाप्तकर्मत्यागे तु वेतनहानिप्राप्ताव् अपवादः ।
यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् ।
उभयोर् अप्य् अषाठ्यं चेच् छाठ्ये कुर्याद् यथाकृतम् ॥ २.२०० ॥
यथेच्छयेत्य् अर्थः । स्वाम्य् अपि शाठ्येनाकारयन् यथाकृतं वेतनं दाप्यः स्मृत्यन्तरानुसारात् ॥ २०० ॥
शाठ्येनैव च ।
अराजदैविकान् नष्टं भाण्डं दाप्यस् तु वाहकः ।
प्रथानविघ्नकर्ता च प्रदाप्यो द्विगुणां भृतिम् ॥ २.२०१ ॥
कर्मकरवच् च स्वाम्य् अपि ।
प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजेत् ।
भृतिम् अर्धपते सर्वां प्रदाप्यस् त्याजको ऽपि च ॥ २.२०२ ॥
प्रक्रान्तादिसप्तमभागादिक्रमेण त्याजकः स्वाम्य् अपि कर्मकरेभ्यो दाप्यः । स्पष्टम् अन्यत् ॥ २०२ ॥
इति वेतनादानप्रकरणम् ।
**