१५ संविद्-व्यतिक्रम-प्रकरणम्

अथ संविद्व्यतिक्रमप्रकरणम्

पारिभाषिकस्य चानन्यथाकरणप्रसङ्गेन भूयः समयानपाकरणार्थं समूहक्रियाम् उपोद्घातत्वेनाह ।

राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ॥ २.१८९ ॥

यद् उक्तम्,

तत्र दुर्गाणि कुर्वीत जनकोशात्मवृद्धये । (य्ध् १.३१७)

इति, तद् गुणविधानायैवायम् आरम्भः । राजा कृत्वा पुरे दुर्गे स्थानं स्थलीं भाविकालसंरक्षणार्थं ब्राह्मणान् न्यस्य समुदायतेनावस्थाप्य त्रैविद्यम् ऋग्यजुःसामपारगं सदाचारब्राह्मणात्मकं “वृत्तिमत् कृत्वा ब्रूयात् स्वधर्मः पाल्यताम् इति” । वर्तनहेतुर् वृत्तिः, तद् युक्तं वृत्तिमद् ग्रामगृहक्षेत्राक्षयनिध्यादिस्थापितम् अर्थं दत्त्वेत्य् अर्थः । स्वधर्मो वर्णाश्रमधर्मस्थित्यव्यभिचारः, राज्ञश् चान्यथाप्रवृत्ताव् उपदेशेन सन्मार्गावतारणम् । स्पष्टम् अन्यत् ॥ १८९ ॥

किं च ।

**
निजधर्माविरोधेन यस् तु सामयिको भवेत् ।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ २.१९० ॥

श्रुतिस्मृत्युक्तो निजधर्मः, तदविरोधेनार्थाद्यनुगुणः, तदनुगुणो वा यो ऽपि सामयिकः स्वपरिभाषाकृतो भवेद् यथोक्तमध्यकाहूतानागमनदण्डादिकः, सो ऽपि रज्ञा प्रयत्नेन सम्यग् रक्षणीयः । किं च धर्मो राजकृतश् च यः यथैव स्वनिवेशितस्थाने तथैव राजान्तरकृतस्थानान्तरेष्व् अपि ब्रह्मशालानिवेशयात्रोत्सवादिकः । तथा च नारधः ।

यो धर्मः कर्म यच् चैषाम् उपस्थानविधिश् च यः ।
यच् चैषां वृत्त्युपादानम् अनुमन्येत तत् तथा ॥ इति । (न्स्म् १०.३)

धर्मो राजकृत इत्य् अत्र पुनर् धर्मवचनं न राजान्तरकृतत्वात् पालनीयम् । किं तर्हि धर्मानुगुण्येन धर्मत एवेत्य् अभिप्रायः । तथा च नारधः समूहधर्मान् उपसंहरन्न् आह ।

दोषवत् करणं यत् स्याद् अनाम्नायप्रकल्पितम् ।
प्रवृत्तम् अपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥ इति । (न्स्म् १०.७) ॥ १९० ॥

पालनव्याजेन ।

गणद्रयं हरेद् यस् तु संविदं लङ्घयेच् च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥ २.१९१ ॥

यो गणद्रव्यं हरेद्, धर्माविरोधिनीं संविदं परिभाषां समूहकृतां (?) लङ्घयेत्, तम् अपहृत्य सर्वस्वं राष्ट्राद् राजा विप्रवासयेत् । तच् चापहृत्य समूहायैवार्पयेत् । न तु स्वयं गृह्णीयात् । कृत्वेति वचनात् कर्तैव राजा न ग्रहीतेति गम्यते । स्वायंभुवे ऽप्य् एवमभिप्रायः प्रतिषेधः ।

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
राष्ट्रात् त्व् एनं बहिष्कुर्यात् समग्रधनम् अक्षतम् ॥ इति । (म्ध् ८.३८०)

अतः समूहार्पणम् अनवद्यम् । एवम् अन्यत्रापि समूहार्थं दण्डदानादि योज्यम् ॥ १९१ ॥

ननु अयं भिन्नाभिप्रायपुरुषाधीनत्वात् समूहधर्मो दुःश्लिष्ट एव । मैवम् । कार्यापेक्षयैकाभिप्रायत्वोपपत्तेः । किं च ।

कर्तव्यं वचनं सर्वैः समूहहितवादिनः ।

समुदायिनो ऽन्यस्य वा ।

यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ २.१९२ ॥

राज्ञा समूहायैवेत्य् अर्थः । महता हि प्रयत्नेन राज्ञा समूहधर्मः पालनीयः, धर्माभिवृद्ध्या समूहस्य राजोपकारित्वात् ॥ १९२ ॥

यतश् चैत्द् एवम्, अतः ।

समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।

क्षिप्रं कार्यान्तराणि परिहाप्यापीति शेषः ।

स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ २.१९३ ॥

ननु च परस्वत्वापत्तिपर्यन्तत्वाद् दानस्य समूहिनां च प्रयेकं स्वत्वायोग्यत्वाद् व्यतिरिक्तस्वत्वापत्तिक्षमसमूहलक्षणत्वाभावात् समूहदानम् अनुपपन्नम् एव । अत एव च गणद्रव्यं प्रार्थ्यमामा वक्तारो भवन्ति- नेदम् अद्याप्य् अस्मदीयं भवतीति । तथा चर्त्विजाम् अपि अन् परिषदं प्रत्युत्सर्ग इष्यते । अतो ऽयम् उत्सर्गमात्रे गौणो दानव्यपदेश इति केचित् । तथा च सति तु समूहद्रव्यहरणे न दोषः स्याद्, इष्यते च, दण्डदर्शनात् । अतो वक्तव्यम् एतत् । तत्रान्ये पण्डितंमन्याः पाषण्डादिवद् “दृष्टप्रयोजनान्य् एव दण्डादिवचनानि” इति वर्णयन्ति । तथापि च धर्मार्थः समूहदानादिव्यवहारो ऽनालम्बन एव स्यात् ।

  • अत्रोच्यते । सत्यं समुदायिनां स्वत्वाभावः । समुदायस्य तु स्वत्वसंबन्धः केन वार्यते । यत् तु व्यतिरिक्तः समुदायो नेत्य् उक्तम् । तथैव तत् । समुदायिन एवैककार्यावच्छेदेनेतरेतरापेक्षाः समुदायतां प्रतिपद्यन्ते । शक्यते चैवम् एकैकस्येतरेतरापेक्षस्य स्वत्वसंबन्ध इति वक्तुम् । न चैवंभूतानां दानचोदना नास्ति । गवादीनाम् अविभक्तदक्षिणावचनाद् अन्यत्र बहूनाम् अपि दानसंबन्ध इति गम्यते । ब्राह्मणाय च दानं चोदितम् । न च सापेक्षत्वेन देयम् इति । न चेयं स्वत्वाभिमानभ्रान्तिः, बाधानुपलम्भात् । तत्रैतत् स्यात् । सर्वसमुदाय्यसंनिधाने कथं दानोपपत्तिर् इति । तद् अप्य् असत् । ग्रहीतॄणाम् इतरेतरापेक्षाणाम् एव स्वत्वयोगात् समयसामर्थ्याच् चर्त्विग्यजमानानाम् इव शरीरेन्द्रियमनःसाधारण्यात् प्रवसद्याजमानवच् च समयबलेन मनःसांनिध्याच् छास्त्रचोदितत्वाच् च समूहस्थितेर् ऋत्विग्यजमानसाम्यम् एव । यत् तु समुदायिनाम् अनात्मीयत्वाभिधानम् । तन्नैरपेक्ष्याभिप्रायम् । विभागविधानाच् चर्त्विजां परिषदं प्रत्युत्सर्गो न्यायानपेक्षत्वे ऽप्य् अव्याहत एव । ये तु समुदायिदानासंभवाद् ऋत्विजां दक्षिणाविभागं मन्यन्ते तेषाम् “अश्वो दक्षिणा” इत्य् एवमादौ द्रव्यैकत्वेन विभागासंभवान् मूल्यदानायोगाच् च दुःश्लिष्टतैवेत्य् अलम् प्रसङ्गेन ॥ १९३ ॥

इमम् एव न्ययं मनसि कृत्वाह ।

समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥ २.१९४ ॥

शास्त्रनिबन्धनत्वाच् च समूहस्थितेः ।

वेदज्ञाः शुचयो ऽलुब्धा भवेयुः कार्यचिन्तकाः ।

स्मृत्यन्तराच् चतुःषष्ट्यादिसंख्यायुक्ताः ।

कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ २.१९५ ॥

सर्वैः समुदायिभिर् इति शेषः ॥ १९५ ॥

यो ऽयं ब्राह्मणानां समूहविधिर् उक्तः ।

**
श्रेणिनैगमपाषण्डिगणानाम् अप्य् अयं विधिः ।
भेदं चैषां नृपो रक्षेत् पूर्ववृत्तिं च पालयेत् ॥ २.१९६ ॥

कर्मकरादिशिल्पिसमूहः श्रेणिः । सार्थवाहादिसमूहो नैगमः । गुग्गुलिकादिसमुदायः पाषण्डाः । वणिक्समूहो गणः । हस्त्यारोहादिसमूह इत्य् अन्ये । पूगादिलक्षणार्थो वा गणशब्दः । तथा च नारदः ।

पाषण्डनैगमश्रेणिपूगव्रातगणादिषु ।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥ इति । (न्स्म् १०.२)

नैगमास् चात्र ब्राह्मणसमूहः । पूगो ग्रामेयकादिसमूहः । शस्त्रकर्तृसमूहो व्रातः । किं च भेदश् चैषाम् अन्योन्यं समुदायिनां वा राज्ञा रक्षणीयः । चशब्दाद् अन्यसङ्घातराजादिविरोधिव्यवहारश् च । तथा च नारदः ।

प्रतिकूलं च यद् राज्ञः प्रकृत्यवसरं च यत् ।
बाधकं च यद् अर्थानां तत् तेभ्यो विनिवर्तयेत् ॥
मिथः सङ्घतकरणम् अहिते शस्त्रधारणम् ।
परस्परोपतापं च तेभ्यो राजा निवर्तयेत् ॥ (न्स्म् १०.४–५)

इत्यादिकान् विरोधान् नृपः प्रतिकुर्यात् । पूर्वकल्पितां च धर्माविरोधिनीं वृत्तिं पालयेत् । चशब्दात् स्वयं च वर्धयेद् इत्य् अभिप्रायः ॥ १९६ ॥

इति संविद्व्यतिक्रमप्रकरणम् ।

**