१४ अभ्युपेत्याशुश्रूषा-प्रकरणम्

अथाभ्युपेत्याशुश्रूषाप्रकरणम् ।

अस्यापवादार्थम् आह ।

बलाद् दासीकृअश् चोरैर् विक्रीतश् चापि मुच्यते ।
स्वामिप्राणप्रदो भाक्तस् तत्त्यागान् निष्क्रयाद् अपि ॥ २.१८६ ॥

दास्यकारणगृहजत्वाद्यभावे बलाद् यो दासीकृतः, चोरैर् वान्यहस्ते दासत्वेन विक्रीतः, स मोक्तव्यः । नात्र क्रेतुर् दोषप्रसङ्गः । यस्यापि हि दासत्वकारणम् अस्ति, सो ऽपि हि स्वामिनं प्राणसंशयात् स्वप्राणत्यागनिश्चयावष्टम्भेन मोक्षयित्वा दास्यान् मुच्यते । यस् तु भाक्तः भक्तदासः, स तत्त्यागान् निष्क्रयाद् वा मुच्यते । अपिशब्दात् स्वामिप्रसादादिपरिग्रहः ॥ १८६ ॥

एवं दास्यान् निर्मोचनप्राप्ताव् अयम् अपवादः ।

प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् ।
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ २.१८७ ॥

प्रव्रज्य प्रतिनिवृत्तो राज्ञो दासः स्यात् । न चात्र स्वामिप्राणरक्षणेनापि मोक्षः । ब्राह्मणो ऽपि च प्रव्रज्यावसितो राज्ञो दासः स्यात् प्रातिलोम्येनापि । अतो ऽन्यत्र तु वर्णानाम् आनुलोम्येन दास्यम् । यथा “मोक्षितो महतश् चर्णात्” (न्स्म् ५.२५) इत्य् एवमादौ न प्रातिलोम्येन प्रत्येतव्यम् । स्मृत्यन्तराच् च दासत्वनिमित्तानि गृहजत्वादीनि दास्यनिर्मोचनप्रकाराश् चान्वेष्याः । सर्वथा प्रातिलोम्येन दास्याभाव इति स्थितम् । यत्र पारिभाषिकम् उभयोर् अनुमते दास्यम् अन्यद् वा तत् तथैव कर्तव्यम् ॥ १८७ ॥

यतश् चैतद् एवम्, अतः ।

कृतशिल्पो ऽपि निवसेत् कृतं कालं गुरोर् गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः ॥ २.१८८ ॥

शिल्पशिक्षणार्थं प्रतिपन्नशिष्यभावो ऽन्तेवासी । स यदा परिभाष्य “इयन्तं कालं त्वद्गृहे मया शिल्पविद्याशिक्षया वस्तव्यम्” इत्य् आस्ते, अन्तराले ऽपि कृतविद्यः स्यात्, तदापि हि कृतं पारिभाषिकं कालं गुरोर् गृहे निवसेत् । गुरुणापि च तस्य भोजनपरिधानादिकं देयम् । यच् चासौ शिल्पेनार्जयेत्, तद् गुरोर् एवार्पयेद् इत्य् अवसेयम् ॥ १८८ ॥

इत्य् अभ्युपेत्याशुश्रूषाप्रकरणम् ।

**