१३ क्रीतानुशय-प्रकरणम्

अथ क्रीतानुशयप्रकरणम् ।

अस्वामिविक्रयो निरूपितः । स्वामिविक्रयं च ।

दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ २.१८१ ॥

परीक्षाकालाच् चोर्ध्वं क्रीतं विक्रीतं वा स्याद् यत् तद् अनुपहतम् । यत् तु तु स्वायंभुवम्-

क्रीत्वा विक्रीय वा द्रव्यं यस्येहानुशयो भवेत् ।
सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चोपाददीत वा ॥ (म्ध् ८.२२२)

इति, तत् परीक्ष्य क्रीते द्रष्टव्यम् । दशाहादिक्रमेण बीजादीनां क्रमशः परीक्षाकालाः। दशाहो बीजानां गोधूमादीनाम् । एकाहश् चायसः । अयोग्रहणं सर्वताम्रादिलक्षणार्थम् । एवं वाह्यादिष्व् अपि योज्यम् । वाह्यं बलीवर्दादयः । रत्नानि मरतकादीनि । स्त्रियो दास्याद्याः । दोह्यं गवादि । पुमांसो दासादयः ॥ १८१ ॥

किं च ।

अग्नौ सुवर्णम् अक्षीणं द्विपलं रजते शतम् ।
अष्टौ तु त्रपुसीसे च ताम्रे पञ्च दशायसि ॥ २.१८२ ॥

आवर्तनायाग्नौ क्षिप्तं सुवर्णम् अक्षीणं, तावद् एवेत्य् अर्थः । रजतादौ पलशताद् द्विपलादिकः क्षयः । अनेन प्रकारेणोपक्षीणं सुवर्णकारादयो न दापनीयाः ॥ १८२ ॥

तौलिकादिभिस् तु वस्त्रनिर्माणायार्पिते सूत्रे ।

शते दशपला वृद्धिर् और्णे कार्पासिके तथा ।
मध्ये पञ्चपला हानिः सूक्ष्मे तु त्रिपला मता ॥ २.१८३ ॥

पलशते दशपलान्य् और्णकार्पासिकयोर् वृद्धिः स्थूले सूत्रे स्यात् । मधमे तूक्तवृद्धितः पञ्चपलहान्या वृद्धिर् इत्य् अर्थः । सूक्ष्मे तु त्रिपला वृद्धिः । तथा च नारदो दशपला वृद्धिम् उक्त्वाह ।

स्थूलसूत्रवताम् एषां मध्यानां पञ्चकं शतम् ।
त्रिपलं तु सुसूक्ष्माणाम् । इति (न्स्म् ९.१४) ॥ १८३ ॥

अस्य विशेषे ऽपवादः ।

चार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिः स्यात् कौशेये वाल्कले तथा ॥ २.१८४ ॥

चर्मकृतं चार्मिकं कुरुण्ठादि । रोमबद्धं दूष्यपटादि । तत्र हि छेदनात् त्रिंशद्भागः क्षयः । कौशेयवाल्कलयोस् तु साम्यम् एव । कौशेयं त्रसरीमयम् । स्पष्टम् अन्यत् ॥ १८४ ॥

वृद्ध्यनुसारेणैव क्षयम् आलोच्य रजकादिभिर् वस्त्रादीनाम् ।

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर् यत् तद् दाप्यम् असंशयम् ॥ २.१८५ ॥

स्वदेशोत्पन्नं परदेशोत्पन्नं चिरन्तनम् अल्पकालिकं भुक्तम् अभुक्तं दुर्लभम् अदुर्लभं वेत्य् एवं नष्टे द्रव्ये बलाबलं ज्ञात्वा द्रव्याणां बलाबलज्ञानकुशला यन् मूल्यं ब्रूयुः, तन् निर्विचारं नाशयिता दद्यात् । राज्ञा चाददद् दाप्यः । एवं परीष्य क्रीते क्रेतुर् व्यभिचरतो राजदण्डादिप्रसङ्गः । न च विक्रेता व्यभिचरन्न् अपि विक्रीतं प्राप्नुयाद् इति स्थितम् । तथा च स्वायंभुवम् ।

परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।
आददानो ददच् चैव दण्ड्यो राज्ञा शतानि षट् ॥ इति (म्ध् ८.२२३) ॥ १८५ ॥
**

इति क्रीतानुशयप्रकरणम् ।

**