१२ दत्ताप्रदानिक-प्रकरणम्

अथ दत्ताप्रदानिकप्रकरणम् ।

पारितोषिकदानप्रसङ्गेनादृष्टार्थो ऽपि दानसाधारणो विधिर् उच्यते ।

स्वकुटुम्बाविरोधेन देयं दारसुताद् ऋते ।
नान्वये सति सर्वस्वं देयं यच् चान्यसंश्रितम् ॥ २.१७९ ॥

स्वशब्दो विभक्तपुत्रादिनिवृत्त्यर्थः । अविरोधश् च ग्रासाच्छादनमात्रसंपल्लक्षणो विज्ञेयः । दारसुतग्रहणं च सर्वज्ञातिधर्मोपनतादिलक्षणार्थम् ।नान्वये सति सर्वस्वं पृथक् कुटुम्बतयावस्थिते ऽपीत्य् अर्थः । देयं यच् चेत्य् अत्र देयं प्रत्यर्पणीयं निक्षेपादि । अन्यसंश्रितं साधारणं पराधीनं वा स्वम् एव । अस्य पाठान्तरम् “यच् च प्रतिश्रुतम्” इति । देयत्वेनान्यस्मै प्रतिश्रुतम् इत्य् अर्थः । तथा च नारदः ।

अन्वाहितं याचितकम् आधिः साधारणं च यत् ।
निक्षेपं पुत्रदारं च सर्वस्वं चान्वये सति ॥
आपद्य् अपि च कष्टायां वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥ इति (न्स्म् ४.४–५) ॥ १७९ ॥

अदेयव्यतिरिक्तानां तु देयानां ।

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैवं दत्त्वा नापहरेत् पुनः ॥ २.१८० ॥

यत् त्व् अप्रकाश्यं दानम् इति, तद् दानविषयम्, इदं तु प्रतिग्रहविषयम् इत्य् अविरोधः । स्पष्टम् अन्यत् ॥ १८० ॥

इति दत्ताप्रदानिकप्रकरणम् ।

**